शुक्रनीति - विमला हिन्दी टीका सहित — पृष्ठ 501–510
शुक्रनीति - विमला हिन्दी टीका सहित · Chaukhamba Sura Bharati Prakashan Varanasi · पृष्ठ 501–510
पृष्ठ 501
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ १३
तदनीत्या न वर्त्तेयुस्तेन साकं धनाशया ।
वर्त्तन्ते यदनीत्या ते तेन साकं पतन्ति वै ॥ २२ ॥
अन्वयः — धनाशया तेन साकं तत् अनीत्या न वर्तेयुः । यत् ते अनीत्या वर्त्तन्ते तदा तेन साकं वै पतन्ति ॥२२ ॥
व्याख्या – धनाशया = अर्थलिप्सया, तेन = नूतनेन नृपेण, साकम् = सह, तस्य = नृपस्य अनीत्या = दुर्नीत्या, न = नहि, वर्त्तेयुः = तिष्ठेयुः । यत् = यदि, ते = अमात्याः, अनीत्या =, अनयेन वर्त्तन्ते = तिष्ठन्ति, तदा तेन = नृपेण सह, वै = इति निश्चयेन, पतन्ति = विनष्टा भवन्ति ॥ २२ ॥
हिन्दी — और वे पुराने मंत्रीगण धन के लालच से नये राजा की अनीति का साथ न दे ८ तथा यदि वे ऐसा करेंगे तो नये राजा के साथ उनका भी विनाश हो जायेगा ॥२२ ॥ ग
तदिति । धनाशया अर्थलोभेन तेन नवेन राज्ञा साकं सह तस्य अनीत्या दुर्नयेन न वर्तेयुः न तिष्ठेयुः, ते इति शेषः । यत् यदि ते अनीत्या वर्त्तन्ते तदा तेन राज्ञा साकं सह वै निश्चितं E पतन्ति विनाशं यान्ति ॥ २२ ॥ प
कुलभक्तांश्च यो द्वेष्टि नवीनं भजते जनम् ।
स गच्छेच्छत्रुसाद्राजा धनप्राणैर्वियुज्यते ॥ २३ ॥
अन्वयः — यः कुलभक्तान् द्वेष्टि नवीनं जनं भजते सः शत्रुसात् गच्छेत् च धनप्राणैः वियुज्यते ॥ २३ ॥
व्याख्या — यः = राजा, कुलभक्तान् = वंशानुरक्तान् सेवकान्, द्वेष्टि = विद्वेषं करोति, नवीनम् = नूतनम्, जनम् = लोकम्, भजते = सेवते, च, सः = = ' भूपतिः, शत्रुसात् = रिपोरधीनताम्, गच्छेत् = याति, तथा धनप्राणैः = धनजीवनैः, वियुज्यते = विनाशं भजते ॥ २३ ॥
हिन्दी – जो नया राजा राजकुल के भक्त पुराने मंत्रियों से द्वेष करता है तथा नये के कथनानुसार काम करता है, वह शत्रु के अधीन होकर धन और जान से हाथ धो है ॥२३ ॥
कुलभक्तानिति । यः कुलभक्तान् कुलक्रमेण अनुरक्तान् भृत्यान् द्वेष्टि, नवीनं जनं च स राजा शत्रुसात् गच्छेत् शत्रोरधीनो भवेत्धनप्राणैः वियुज्यते च ॥ २३ ॥
गुणी सुनीतिर्नव्योऽपि परिपाल्यस्तु पूर्ववत् ।
प्राचीनैः सह तं कार्य्ये ह्यनुभूय नियोजयेत् ॥ २४ ॥
अन्वयः - नव्योऽपि गुणी तथा सुनीतिः चेत् पूर्ववत् परिपाल्यः, अनुभूय प्राचीनैः नियोजयेत् ॥ २४ ॥
लोगों बैठता भजते सह तं व्याख्या – नव्योऽपि = नूतनोऽपि जन:, यदि गुणी = गुणज्ञः, तथा सुनीतिः = सुनीतिसम्पन्नः, तदा, पूर्ववत् = प्राचीनमन्त्रिगण इव, परिपाल्यः = प्रतिपालनीयो भवति, एवं जनम्, अनुभूय = सम्यग्रूपेण परीक्ष्य, प्राचीनैः = पुरातनैः, मन्त्रिभिः, सह = साकम्, तम् = अभिनवजनम्, नियोजयेत् = = नियुक्तं कुर्य्यात् ॥ २४ ॥
हिन्दी - और यदि नया होते हुए भी कोई अधिकारी गुणवान एवं नीतिसम्पन्न हो तो CC- b. JK Sanskrit Academy, Jamunmu. Digitized by S3 Foundation USA
पृष्ठ 502
पाठ पढ़ें पाठ छिपाएँ
९ १४ शुक्रनीतिः उसका भी पुराने अधिकारी की तरह सम्मान करना चाहिए तथा भलीभाँति उसके चरित्र का अध्ययन कर उसे पुराने लोगों के साथ राजकाज में नियुक्त करना चाहिए ॥ २४ ॥
गुणीति । नव्योऽपि नवीनः अपि जनः गुणी गुणवान् तथा सुनीतिः सुनयसम्पन्नश्चेत् पूर्ववत् प्राचीनवत् परिपाल्यस्तु प्रतिपालनीय एव, अनुभूय तच्चरित्रं परीक्ष्य इत्यर्थः, प्राचीनैः पुरातनैः भृत्यैः सह कार्य्ये नियोजयेत् ॥ २४ ॥
अतिमृदस्तुतिनतिसेवादानप्रियोक्तिभिः मायिकैः सेव्यते यावत् कार्य्यं नित्यन्तु साधुभि: ॥ २५ ॥
प्रत्यक्षं वा परोक्षं वा सत्यवाग्भिर्नृपोऽपि च ।
याथार्थ्यतस्तयोरीदृगन्तरं खभुवोर्यथा ॥ २६ ॥
अन्वयः —– मायिकैः यावत् कार्यं अतिमृदुस्तुतिनतिसेवादानप्रियोक्तिभिः नृपः सेव्यते, सत्यवाग्भिः साधुभिः नित्यं प्रत्यक्षं वा परोक्षं याथार्थ्यतः । खभुवोः यथा तयोः ईदृक् अन्तरम् ॥ २५-२६ ॥ व्याख्या– मायिकैः = वञ्चकैः, यावत्, कार्यम् = आत्मनः स्वार्थम्, तावत्, अतिमृदुभिः = अत्यन्तकोमलैः, स्तुतिभिः = स्तवैः, नतिभिः = नमस्कारैः, सेवाभिः = सुश्रूषाभिः दानैः = प्रदानै; च = पुनः, प्रियोक्तिभिः = प्रियवचनैः, नृपः = राजा, सेव्यते = भजते, पुनः, सत्यवाग्भिः = सत्यवचनैः, साधुभिः = सज्जनैः, नित्यम् = सततम्, प्रत्यक्षम् = पुरःस्थितम्, वा = अथवा, परोक्षम् = अक्ष्णः परम्, याथार्थ्यतः = तत्त्वतः, सेव्यते । खभुवोः = आकाशभूम्योः, यथा = इव, तयोः = वञ्चकसज्जनयोः, ईदृक् = एतादृक्, अन्तरम् = भेदो भवति ॥ २५-२६ ॥ हिन्दी — धूर्तों का जब तक अपना काम सधता है तभी तक वे मुदृभाषी, प्रशंसक, विनीत, दानी, सेवापरायण एवं प्रियवादी बनकर राजा की सेवा करते हैं तथा ठीक इसके विपरीत सज्जन लोग सत्य वचनों से सामने या पीठ पीछे राजा की सेवा करते हैं । यथार्थतः इन दोनों में आकाश और धरती जैसा अन्तर है ॥२५-२६ ॥ अतीति । प्रत्यक्षमिति । मायिकैः कापटिकैः जनैः यावत् कार्य्यम् आत्मन इति शेषः । तावत् अतिमृदुभिः स्तुतिभिः नतिभिः सेवाभिः, दानैः प्रियोक्तिभिः प्रियवचनैश्च नृपः सेव्यते, सत्यवाग्भिः सत्यवादिभिः साधुभिस्तु नित्यं सततम् आत्मकार्य्याभावेऽपीत्यर्थः, प्रत्यक्षं वा परोक्षं वा याथार्थ्यतः तत्त्वतः सेव्यते इत्यर्थः, खभुवोर्यथा आकाशभूम्योरिव तयोः मायिकसाध्वोः ईदृक् अन्तरं प्रभेदः ॥ २५-२६ ॥
मायाया जनका धूर्तजारचौरबहुश्रुताः ।
प्रतिष्ठितो यथा धूर्तो जारचौरौ तथा न हि ॥ २७ ॥।
अन्वयः — धूर्तजारचौरबहुश्रुताः मायायाः जनकाः । यथा धूर्तः प्रतिष्ठितः तथा जारचौरौ न हि ॥ २७ ॥
व्याख्या — धूर्तः = कापटिकः, जारः = परदारलम्पटः, चौर: = तस्करः, एतद्रूपेण, बहुश्रुताः = बहुलेषु श्रवणगोचरतां गताः, मायायाः = वञ्चकत्वस्य, जनकाः = उत्पादकाः । यथा = येन प्रकारेण, धूर्तः = मायावी, प्रतिष्ठितः = विश्रुतः, तथा जारचौरौ = उपपतितस्करो न हि = नैव, भवतः ॥२७ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 503
पाठ पढ़ें पाठ छिपाएँ
न प पञ्चमोऽध्यायः ९ १५ हिन्दी – वंचक, जार और चोर मायावी होते हैं, यह सर्वविदित है । किन्तु जार और चोर की अपेक्षा वंचक इस काम में सर्वाधिक श्रेष्ठ माना जाता है ॥२७ ॥
मायाया इति । धूर्तः शठः जारः उपपतिः चौरस्तस्करः एतद्रूपेण बहुश्रुताः बहुशो विख्याता जना मायायाः कापट्यस्य जनकाः कारकाः । यथा धूर्तः प्रतिष्ठितः प्रतिपन्नः भवति इति यावत् तथा जारचौरौ न हि नैव भवतः ॥ २७ ॥
परस्वहरणे लोके जारचौरौ तु निन्दितौ ।
तावप्रत्यक्षं हरतः प्रत्यक्षं धूर्त एव हि ॥ २८ ॥
अन्वयः — लोके परस्वहरणे जारचौरौ निन्दितौ । तौ अप्रत्यक्षं हरतः, धूर्तः प्रत्यक्षम् एव हि ॥ २८ ॥
व्याख्या — लोके = संसारे, परस्वहरणे = परस्त्री- परधनापहरणे, जारचौरौ = उपपतितस्करौ, निन्दितौ = गर्हितौ भवतः । किन्तु तौ = जारचौरौ, अप्रत्यक्षम् = अक्ष्णः परमिति यथा तथा, हरतः = हरणं कुरुतः, धूर्तस्तु: = वञ्चकस्तु, प्रत्यक्षमेव = दृग्गोचरमेव, हरति = अपहरणङ्करोतीति ॥ २८ ॥
हिन्दी — संसार में दूसरे की स्त्री और धन अपहृत करने के कारण जार और चोर निन्दित होते हैं । किन्तु ये दोनों तो आँख के पीछे कुकर्म करते हैं परन्तु धूर्त तो आँखों में धूल झोंक कर सामने ही धन हर लेते हैं ॥ २८ ॥
परस्वेति । लोके जगति जारचौरौ परस्वस्य परधनस्य हरणे विषये निन्दितौ, किन्तु तौ अप्रत्यक्षं यथा तथा हरतः परस्वमिति भावः, धूर्त्तस्तु प्रत्यक्षमेव हरतीत्यर्थः ॥२८ ॥
हितं त्वहितवच्चान्ते अहितं हितवत् सदा ।
धूर्त्ताः सन्दर्शयित्वाज्ञं स्वकार्य्यं साधयन्ति ते ॥ २ ९ ॥
अन्वयः — ते अज्ञं हितम् अहितवत् तथा अहितं हितवत् दर्शयित्वा अन्ते सदा स्वकार्यं साधयन्ति ॥ २ ९ ॥ व्याख्या- - ते |: = वञ्चकाः, अज्ञम् = ज्ञानहीनं जनम्, हितम् = लाभप्रदम्, अहितवत् = हानिकरमिव, तथा अहितम् = हानिकरम्, हितवत् = लाभप्रद इव, दर्शयित्वा = प्रदर्श्य, अन्ते = अन्तिमक्षणे, सदा = सर्वदा, स्वकार्यम् = आत्मकार्यम्, साधयन्ति = पूरयन्ति ॥ २ ९ ॥ हिन्दी — ये धूर्त्त हमेशा सीधे - सादे लोगों को लाभ में हानि और हानि में लाभ जैसी उलटी - सीधी बातें समझा कर अन्त में अपना काम साधते हैं ॥ २ ९ ॥ हितमिति । ते धूर्त्ता जना: अज्ञं जनं हितम् अहितवत् तथा अहितं हितवत् दर्शयित्वा अन्ते अवसाने सदा स्वकार्य्यं साधयन्ति ॥ २ ९ ॥ विश्रम्भयित्वा चात्यर्थं मायया घातयन्ति ते ॥ ३० ॥
अन्वयः - ते अत्यर्थं विश्रम्भयित्वा मायया घातयन्ति ॥ ३० ॥
व्याख्या — ते = वञ्चकाः, अत्यर्थम् = अत्यधिकम्, विश्रम्भयित्वा = विश्वासमुत्पाद्य, मायया = कापट्येन, घातयन्ति = विनाशयन्ति ॥ ३० ॥
हिन्दी — और ये धूर्त पहले लोगों को पूरी तरह अपने विश्वास में लेकर बाद में नष्ट कर देते हैं ॥ ३० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 504
पाठ पढ़ें पाठ छिपाएँ
९ १६ शुक्रनीतिः विश्रम्भयित्वेति । धूर्त्ताः अत्यर्थं विश्रम्भयित्वा विश्वास्य पश्चात् मायया छद्मना घातयन्ति ॥ ३० ॥
यस्य चाप्रियमन्विछेत् तस्य कुर्य्यात् सदा प्रियम् ।
व्याधो मृगवधं कर्त्तुं गीतं गायति सुस्वरम् ॥। ३१ ॥
अन्वयः — यस्य अप्रियम् अन्विच्छेत् सदा तस्य प्रियं कुर्यात् । व्याधः मृगवधं कर्तुं सुस्वरं गीतं गायति ॥ ३१ ॥
व्याख्या — यस्य = जनस्य, अप्रियम् = अहितम्, अन्विच्छेत् = अभिलषेत्, सदा = सर्वदा, तस्य = जनस्य, प्रियम् = हितम्, कुर्यात् = सम्पादयेत्, यथा, व्याधः = लुब्धकः, मृगवधम् — मृगस्य = हरिणस्य, वधम् = हत्या, कर्तुम् = विधातुम्, सुस्वरम् = सुमधुरम्, गीतम् = गानम्, गायति = तमानन्दयति ॥ ३१ ॥
हिन्दी — ये दुष्ट जिनकी बुराई करना चाहते हैं पहले हमेशा उनकी भलाई करते हैं । उसी तरह जैसे व्याध पहले हिरण को मीठा गीत सुनाकर उन्हें मार डालते हैं ॥ ३१ ॥
यस्येति । यस्य अप्रियम् अनिच्छेत् अभिलषेत् सदा तस्य प्रियं कुर्य्यात् । व्याधः मृगवधं कर्त्तुं सुस्वरं गीतं गायति सुमधुरगीतेन मृगम् आनन्दयतीत्यर्थः ॥३१ ॥
मायां विना महाद्रव्यं द्राङ् न सम्पाद्यते जनैः ।
विना परस्वहरणान्न कश्चित् स्यात् महाधनः ।
मायया तु विना तद्धि न साध्यं स्याद्यथेप्सितम् ॥ ३२ ॥
अन्वयः — जनैः मायां विना द्राक् महाद्रव्यं न सम्पाद्यत । परस्वहरणात् विना कश्चित् महाधनः न स्यात् । मायया विना यत् ईप्सितं तत् न हि साध्यम् ॥ ३२ ॥
व्याख्या- | —जनैः = लोकैः, मायाम् = कापट्यम्, विना = विहाय, द्राक् = = झटिति, महाद्रव्यम् = अत्यधिकधनम्, न = = नहि, सम्पाद्यते = उत्पाद्यते । परस्वहरणात् = परधनहरणात्, विना = विहाय, कश्चित् = कोऽपि जनः महाधनः = अतिसमृद्धशाली, न = नहि, स्यात् = भवेत् । मायया = कापट्येन, विना = विहाय, यथा यत् ईप्सितम् = अभिलषितम्, तत् न हि = नैव, साध्यम् = निष्पादनीयं भवति ॥ ३२ ॥
हिन्दी — बिना कपट के कोई शीघ्र बहुत धन इकट्ठा नहीं कर सकता है और दूसरों का धन बिना अपहृत किये कोई महाधनी नहीं बन सकता । बिना कपट के किसी के अभिलषित कार्य्य की सिद्धि नहीं हो सकती है ॥ ३२ ॥
मायामिति । जनैः मायां कापट्यं विना द्राक् झटिति महाद्रव्यं बहुधनं न सम्पाद्यते न सञ्चीयते, परस्वहरणात् विना कश्चित् जनः महाजनः न स्यात् मायया विना यथा यत् ईप्सितं तत् न हि नैव साध्यम् ॥ ३२ ॥
स्वधर्मं परमं मत्वा परस्वहरणं नृपा: ।
परस्परं महायुद्धं कृत्वा प्राणांस्त्यजन्त्यपि ॥ ३३ ॥
अन्वयः – नृपाः परस्वहरणं परमं स्वधर्मं मत्वा परस्परं महायुद्धं कृत्वा प्राणानपि त्यजन्ति ॥ ३३ ॥ Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 505
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ १७ व्याख्या – नृपाः = भूपाः, परस्वहरणम् = परधनापहरणं, परमम् = अत्युत्कृष्टम्, स्वधर्मम् = आत्मकर्तव्यम्, मत्वा = परिज्ञाय, परस्परम् = अन्योऽन्यम्, महायुद्धम् = घोरसङ्ग्रामम्, कृत्वा = प्रारभ्य, तस्मिन् युद्धे प्राणानपि = असूनपि, त्यजन्ति = जहाति ॥ ३३ ॥
हिन्दी - एक राजा दूसरे राजा का सर्वस्व अपहृत करना अपना परम धर्म मानकर युद्ध के मैदान में परस्पर लड़कर अपनी जान तक दे डालते हैं ॥३३ ॥
स्वधर्ममिति । नृपाः परस्वहरणं परधनहरणं परमम् उत्कृष्टं स्वधर्मं मत्वा परस्परं महायुद्धं कृत्वा प्राणानपि त्यजन्ति ॥ ३३ ॥
राज्ञो यदि न पापं स्याद्दस्यूनामपि नो भवेत् ।
सर्वं पापं धर्मरूपं स्थितमाश्रयभेदतः ॥ ३४ ॥
अन्वयः - यदि राज्ञः पापं न स्यात् तदा दस्यूनामपि पापं नो भवेत् । आश्रयभेदतः सर्वं पापं धर्मरूपं स्थितम् ॥ ३४ ॥
व्याख्या— यदि = चेत्, राज्ञः = नृपस्य पापम् = अधर्मम्, न = नहि, स्यात् = भवेत्, तदा, दस्यूनामपि = लुण्ठकानामपि, पापम् = अधर्मम्, नो भवेत् = न स्यात्, आश्रयस्य = आधारस्य, भेदतः = भेदात्, सर्वम् = अखिलम्, पापम् = अपकर्म, धर्मरूपम् = धर्मस्वरूपेण, स्थितम् = विद्यमानम् अस्ति ॥ ३४ ॥
हिन्दी — यदि राजा को वैसा करने में पाप नहीं लगता है तो डाकुओं को भी दूसरों का धन अपहृत करने में पाप नहीं लगना चाहिए । क्योंकि आधार बदलते ही सभी पाप धर्म बन जाते हैं अर्थात् जो कर्म डाकुओं के लिए पाप है वही राजा के लिए पुण्य ॥ ३४ ॥
राज्ञ इति । यदि राज्ञः पापं न स्यात् तदा दस्यूनामपि पापं नो स्यात् । आश्रयस्य भेदतः भेदात् सर्वं पापं धर्म्मरूपं स्थितं दस्युषु परस्वहरणं पापं परं राजनि धर्म एवेति आश्रयभेद इति भावः ॥ ३४ ॥
बहुभिर्यः स्तुतो धर्मो निन्दितोऽधर्म एव सः ।
धर्मतत्त्वं हि गहनं ज्ञातुं केनापि नोचितम् ॥ ३५ ॥
अन्वयः — यः बहुभिः स्तुतः सः धर्मः एव, बहुभिः निन्दिनः अधर्म एव । धर्मतत्त्वं हि गहनं, केनापि ज्ञातुं न उचितम् ॥ ३५ ॥
व्याख्या — यः = कर्म, बहुभिः = अनेकैः, स्तुतः = प्रशंसित:, सः = कर्म, धर्म एव = = पुण्यकर्म एव, यस्त्वनेकैः, निन्दितः = निर्भर्त्सितः, तत्कर्म, अधर्मः = पापमेव । धर्मतत्त्वम्-धर्मस्य = पुण्यकर्मणः, तत्त्वम् = सारम्, हि = यतः, गहनम् = दुर्ज्ञेयम्, केनापि = जनेन, ज्ञातुम् = बोद्धुम्, न = = नहि, उचितम् = शक्तमिति ॥ ३५ ॥
हिन्दी — जिस काम की प्रशंसा बहुत सारे लोग करते हैं वह धर्म माना जाता है तथा जिस काम की लोग निन्दा करते हैं वह अधर्म माना जाता है । धर्म का तत्त्व दुर्ज्ञेय है, कोई इसका पार नहीं पा सकता है ॥ ३५ ॥
बहुभिरिति । यः व्यापारः बहुभिः स्तुतः प्रशंसितः सः धर्म एव, यस्तु बहुभिः निन्दितः सः अधर्म एव । धर्मतत्त्वं गहनं दुर्ज्ञेयमित्यर्थः, हिशब्दः अवधारणार्थः, केनापि ज्ञातुं न उचितं न शक्तमित्यर्थः ॥३५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 506
पाठ पढ़ें पाठ छिपाएँ
९ १८ शुक्रनीतिः
अतिदानं तपः सत्ययोगो दारिद्र्यकृत् त्विह ।
धर्मार्थौ यत्र न स्यातां तद्वाक् कामं निरर्थिका ॥ ३६ ॥
अन्वयः —– इह अतिदानं तपः सत्ययोगः दारिद्र्यकृत् । यत्र धर्मार्थौ न स्यातां तद्वाक् कामं निरर्थिका ॥ ३६ ॥
व्याख्या — इह = संसारे, अतिदानम् = यस्मै कस्मै बहुप्रदानम्, तपः = तपस्या, सत्ययोगः = सत्येनान्वितः, दारिद्र्यकृत् = अकिञ्चनत्वविधायकम् । अर्थात् अतिदानेन, अनवरतप्रदानेन दारिद्र्यं भवत्येवेति सुप्रसिद्धम्, तपसा धार्मिककृत्येन धनव्ययात्, धनागमस्य प्रपञ्चसाध्यत्वात्, सत्यान्वये तदभावाच्चेति । यत्र = = यस्मिन् कथने, धर्मार्थौ = पुण्यधने, न = नहि, स्याताम् = भवेताम्, तद्वाक् = सा वाणी, कामम् = यथेष्टम्, निरर्थिका = निष्फला ॥ ३६ ॥
हिन्दी— संसार में अधिक दान, तपस्या एवं सत्य का सम्बन्ध – ये तीनों काम दरिद्रता पैदा करने वाले हैं । अधिक दान से दरिद्रता जगविदित है । इसी तरह तपजन्य धर्मानुष्ठान भी अर्थसाध्य है और धन की प्राप्ति धूर्तता से होती है । उसमें भी यदि सच्चाई हो तो दरिद्रता निश्चित है । अतः जिस वाणी में धर्म और धन की कमी हो वह वाणी निरर्थक है ॥ ३६ ॥
अतीति । इह जगति अतिदानं तपः सत्ययोगश्च दारिद्र्यकृत् अतिदानेन दारिद्र्यं प्रसिद्धं तपसा “ धर्मानुष्ठानरूपेण अर्थव्ययात् धनागमस्य मायासाध्यत्वात् सत्ययोगे भावाच्च दारिद्र्य-मित्यनुसन्धेयम् । यत्र यस्यां वाचि धर्मार्थो धर्मः अर्थश्च न स्यातां तद्वाक् सी वाणी कामं सम्यक् निरर्थका निष्फला ॥३६ ॥
अर्थे वा यदि वा धर्मे समर्थो देशकालवित् ।
निःसंशयो नरः पूज्यो नेष्टः संशयिता सदा ॥। ३७ ॥
अन्वयः — अर्थे वा धर्मे वा समर्थः देशकालवित् निःसंशयः नरः पूज्यः । सदा संशयिता नरः न इष्टः ॥ ३७ ॥
व्याख्या– अर्थे = धने, वा = अथवा, धर्मे = पुण्ये, वा धर्मानुसारेणार्थागमचातुर्येण, देशकालवित् = स्थानसमयानुसारेण कार्यविज्जनः, निःसंशयः = सन्देहशून्यः नरः = जनः, पूज्यः = पूजनीयः । सदा = सततम्, संशयिता = सन्देहशीलः, नरः = मानवः, न =: नहि, इष्टः = अभिप्रेतः ॥ ३७ ॥
हिन्दी — धर्मानुसार अर्थोपार्जन करने में कुशल व्यक्ति, देश - काल के अनुसार काम करने वाला संशयरहित व्यक्ति सदा समाज में पूजनीय होता है । संशयालु व्यक्ति कभी भी मान्य नहीं होता ॥३७ ॥
अर्थे इति । अर्थे वा धर्मे वा समर्थः धर्मानुसारेण अर्थागमकौशलज्ञ इत्यर्थः, देशकालवित् स्थानसमयानुसारेण कार्य्यज्ञ इत्यर्थः, निःसंशयः संशयरहितश्च नरः पूज्यः, सदा संशयिता संशयानः नरः न इष्टः, सम्मतः ॥ ३७ ॥
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
अतोऽर्थाय यतेतैव सर्वदा यत्नमास्थितः ।
अर्थाद्धर्मश्च कामश्च मोक्षश्चापि भवेन्नृणाम् ॥ ३८ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 507
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ १ ९ अन्वयः - पुरुषः अर्थस्य दासः, अर्थस्तु न कस्यचित् दासः । अतः यत्नमास्थितः सर्वदा अर्थाय यतेत एव । अर्थात् नृणां धर्मश्च कामश्च मोक्षश्च भवेत् ॥ ३८ ॥
व्याख्या - पुरुषः = मनुष्यः, अर्थस्य = = धनस्य, दासः = = सेवकः, भवति, अर्थस्तु = धनम्, न = नहि, कस्यापि = पुरुषविशेषस्यापि, दासः = सेवको भवति । अतः = अस्मात् कारणात्, यत्नमास्थितः = प्रयत्नशीलो भूत्वा, सर्वदा = सदा, अर्थाय = धनाय, यतेत एव = अध्यवसेदेव । अर्थात् = धनात्, नृणाम् = मनुष्याणाम्, धर्मश्च = पुण्यश्च, कामश्च = मनोरथश्च, मोक्षश्च- = मुक्तिश्च, भवेत् = स्यात् ॥ ३८ ॥
हिन्दी – धन का गुलाम आदमी होता है, आदमी का गुलाम धन नहीं होता है । अतः धन के लिए सदैव व्यक्ति को प्रयत्न करना चाहिए, क्योंकि धन से धर्म, काम और मोक्ष की प्राप्ति होती है ॥ ३८ ॥
अर्थस्येति । पुरुषः अर्थस्य दासः, अर्थस्तु न कस्यचित् दासः, अतः अस्मात् कारणात् यत्नमास्थितः यत्नवान् सन् सर्वदा अर्थाय यतेत एव । अर्थात् धनात् नृणां धर्मश्च कामश्च मोक्षश्च भवेत् ॥ ३८ ॥
शस्त्रास्त्राभ्यां विना शौर्य्यं गार्हस्थ्यन्तु स्त्रियं विना । ऐकमत्यं विना युद्धं कौशल्यं ग्राहकं विना । (
दुःखाय जायते नित्यं सुसहायं विना विपत् ।
न विद्यते तु विपदि सुसहायं सुहृत्समम् ॥ ३ ९ ॥
अन्वयः– शौर्य्यं शस्त्रास्त्राभ्यां विना, गार्हस्थ्यं स्त्रियं विना, युद्धम् ऐकमत्यं विना, कौशल्यं ग्राहकं विना तथा विपत् सुसहायं विना नित्यं दुःखाय जायते । विपदि सुहत्समं सुसहायं न विद्यते ॥३ ९ ॥ व्याख्या – शौर्य्यं = वीरत्वम्, शस्त्रास्त्राभ्याम् = आयुधप्रहरणाभ्याम्, विना = विहाय, गार्हस्थ्यम् = द्वितीयाश्रमम्, स्त्रियम् = पत्नीम्, विना = मुक्त्वा, युद्धम् = सङ्ग्रामम्, ऐकमत्यम् = सैनिकानामेकताम्, विनाः =: वर्जयित्वा, कौशल्यम् = चातुर्यम्, ग्राहकम् = योद्धारम्, विना = अन्तरेण, तथा विपद् = आपद्, सुसहायम् = सुन्दरसहायकम्, विना = विहाय, नित्यम् = सततम्, दुःखाय = कष्टाय, जायते = भवति । तथा विपदि = आपदि, सुहृत्समम् = • मित्रतुल्यः, सुसहायम् = सुष्ठुसहायक:, न =: नहि, विद्यते = भवति ॥ ३ ९ ॥ हिन्दी — हथियारों के बिना वीरता, पत्नी के बिना गृहस्थी, सैनिकों की एकता के बिना युद्ध, समझने वाले के बिना चतुराई तथा सुन्दर सहायक के बिना विपत्ति नित्य दुःख देने के लिए ही होती है । विपत्ति में मित्र के समान कोई सच्चा सहायक भी नहीं होता है ॥ ३ ९ ॥ शस्त्रेति । शौर्य्यं शस्त्रास्त्राभ्यां विना, गार्हस्थ्यं स्त्रियं भार्य्यां विना, युद्धम् ऐकमत्यं योद्धृणामेकतां विना, कौशल्यं नैपुण्यं ग्राहकं बोद्धारं विना, तथा विपत् सुसहायं विना नित्यं सततं दुःखाय जायते विपदि सुहृदा समः सुसहायः न विद्यते ॥ ३ ९ ॥
अविभक्तधनान् मैत्र्या भृत्या भक्तधनान् सदा ।
मित्रं स्वसदृशैर्भोगैः सत्यैश्च परितोषयेत् ॥ ४० ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 508
पाठ पढ़ें पाठ छिपाएँ
९ २० शुक्रनीतिः
नृपसम्बन्धिस्त्रीपुत्रसुहृद्भृत्यगणान् तथा ।
तोषयित्वा सुखी चैव भुङ्क्ते यस्तु स्वकं धनम् ॥ ४१ ॥
अन्वयः — मैत्र्या अविभक्तधनान् भृत्या भक्तधनान् पृथक्स्थान् स्वसदृशैः भोगैः सत्यैश्च मित्रं परितोषयेत् । तथा नृपसम्बन्धिस्त्रीपुत्रसुहृद्भृत्यगणान् तोषयित्वा यस्तु स्वकं धन भुङ्क्ते सः एव सुखी ॥४०-४१ ॥ व्याख्या – मैत्र्या = सख्यभावेन, अविभक्तधनान् = अविभाजितान् अर्थान्, गोत्रजान्, भृत्या = वेतनेन, भक्तधनान् = विभाजितार्थान्, पृथक्स्थान् दायादान्, तथा = स्वसदृशैः = " आत्मतुल्यैः, भोगैः = उपभोगैः, सत्यैश्च, मित्रम् = सुहृदम्, परितोषयेत् = सन्तोषयेत् । तथा नृपसंम्बन्धिस्त्रीपुत्रसुहृद्भृत्यगणान् = राजकुटुम्बपत्नीपुत्रमित्रसेवकवर्गान् तोषयित्वा = सन्तुष्टं कृत्वा, यस्तु, स्वकम् = आत्मानम्, धनम् = द्रव्यम्, भुङ्क्ते = उपभोगं कुरुते, सः = असौ, सुखी = प्रसन्नः, भवति = जायते ॥४०-४१ ॥ हिन्दी — जिनके साथ धन का बँटवारा हो चुका है ऐसे गोत्रज और जिनके साथ धन का बटँवारा नहीं हुआ है ऐसे पारिवारिक जन; इन्हें क्रमशः मासिक वेतन देकर तथा सौहार्दभाव से संतुष्ट करे और मित्रों को अपने सदृश भोग एवं सत्य वचन से सन्तुष्ट रखे । जो राजा अपने सम्बन्धी, स्त्री, पुत्र, मित्र एवं सेवक को सन्तुष्ट कर अपने धन का स्वयं उपभोग करता है, वह सुखी होता है ॥ ४०-४१ ॥ अविभक्तधनानिति । मैत्र्या सौहृद्येन अविभक्तधनान् एकान्तवर्त्तिनः ज्ञातीनित्यर्थः, भृत्या मासिकादिवृत्तिविधानेन भक्तधनान् पृथक्स्थान् दायादान् तथा स्वसदृशैः आत्मतुल्यैः भोगैः सत्यैश्च मित्रं परितोषयेत् । तथा नृपसम्बन्धिस्त्रीपुत्रसुहृद्भृत्यगणान् तोषयित्वा यस्तु स्वकं धनं भुङ्क्ते चैव स सुखी भवति इति यावत्॥४०-४१ ॥ त्यक्त्वा तु दर्पकार्पण्यमानोद्वेगभयानि च ।
कुर्वीत नृपतिर्नित्यं स्वार्थसिद्ध्यै तु नान्यथा ।
विशेषभृतितो भृत्यं प्रेममानाधिकारतः ॥ ४२ ॥
अन्वयः — नृपतिः दर्पकार्पण्यमानोद्वेगभयानि च त्यक्त्वा स्वार्थसिद्ध्यै विशेषभृतितः तथा प्रेममानाधिकारतः नित्यं भृत्यं कुर्यात्, अन्यथा न ॥४२ ॥
व्याख्या – नृपतिः = राजा, दर्पम् = अहङ्कारम्, कार्पण्यम् = कृपणताम्, मानम् = सम्मानम्, उद्वेगम् = उद्विग्नताम्, भयञ्च = त्रासञ्च, त्यक्त्वा = परित्यज्य, स्वार्थसिद्ध्यै = स्वकार्यसाधनाय, विशेषभृतितः = विशिष्टवेतनेन, तथा प्रेम्णा = प्रीत्या, मानेन = सम्मानेन, अधिकारतः– अधिकार-प्रदानेन, नित्यम् = सततम्, भृत्यम् = सेवकम्, कुर्वीत = नियुञ्ज्यात्, अन्यथा = इतरथा, न = नहि ॥४२ ॥
हिन्दी — राजा अपने स्वार्थ की सिद्धि के लिए अपना अहंकार, कृपणता, मान, उद्वेग एवं डर छोड़कर विशिष्ट जीवका देकर प्रेम से, सम्मान से तथा अधिकार प्रदान कर हमेशा सेवक को नियुक्त करे, अन्यथा नहीं ॥४२ ॥
त्यक्त्वेति । नृपतिः दर्पं कार्पण्यं कृपणतां मानम् उद्वेगं भयञ्च त्यक्त्वा स्वार्थसिद्ध्यै स्वकार्य्यसिद्धये विशेषभृतितः विशिष्टया भृत्या तथा प्रेम्णा मानेन अधिकारतः अधिकारप्रदानेन CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 509
पाठ पढ़ें पाठ छिपाएँ
पञ्चमोऽध्यायः ९ २१ नित्यं सततं भृत्यं कुर्वीत नियुञ्ज्यात् अन्यथा स्वार्थसिद्ध्यै इत्यर्थः न ॥ ४२ ॥ T
ना
ब्राह्मणाग्निजलैश्चैव धनवान् भक्ष्यते सदा ।
स सुखी मोदते नित्यमन्यथा दुःखमश्नुते ॥ ४३ ॥
अन्वयः – धनवान् ब्राह्मणाग्निजलैश्चैव सदा भक्ष्यते, सः सुखी नित्यं मोदते; अन्यथा दुःखम् अश्नुते ॥४३ ॥
व्याख्या — धनवान् = धनी जनः, ब्राह्मणाग्निजलैश्चैव — ब्राह्मणेभ्यः = विप्रेभ्यः दानात्, अग्निभ्यः = वह्निभ्यः, अग्निसाध्ययज्ञानुष्ठानात्, जलेभ्यः = पिपासितजनेभ्यः पयशालानिर्माणात्, धनक्षयात्, सः = असौ ब्राह्मणाग्निजलसात्कृतधनो जनः, नित्यम् = सततम्, सुखी = मुदितः सन्, नित्यम्, मोदते = प्रसन्नो भवति, अन्यथा = इतरथा, दुःखम् = कष्टम्, अश्नुते = प्राप्यते ॥४३ ॥
हिन्दी - ब्राह्मणों को दान देने से, अग्नि में हवन करने से, प्याऊ बनवाने से जिस व्यक्ति का धन व्यय होता है वह धनी सदा सुखी रहता है, अन्यथा दुःखी होता है ॥४३ ॥
ब्राह्मणेति । धनवान् जनः ब्राह्मणाग्निजलैश्चैव सदा नित्यं भक्ष्यते, ब्राह्मणेभ्यः दानात् अग्निसाध्ययज्ञानुष्ठानात् पथिकानां श्रान्तिनिवारणार्थं पानीयशालाविधानाच्च धनक्षयादिति भावः, सः ब्राह्मणाग्निजलसात्कृतधनः पुरुष इत्यर्थः, सुखी सन् नित्यं मोदते आनन्दमनुभवति, अन्यथा दुःखम् अश्नुते लभते ॥४३ ॥
दर्पस्तु परहासेच्छा मानोऽहं सर्वतोऽधिकः ।
कार्पण्यन्तु व्यये दैन्यं भयं स्वोच्छेदशङ्कनम् ।
मानसस्यानवस्थानमुद्वेगः परिकीर्त्तितः ॥ ४४ ॥
अन्वयः - परहासेच्छा, दर्पः, अहं सर्वतोऽधिकः इति मानः, व्यये दैन्यं कार्पण्यं, स्वो-च्छेदशङ्कनं भयं तथा मानसस्य अनवस्थानम् उद्वेगः परिकीर्तितः ॥४४ ॥
व्याख्या — अन्यस्य = अपरजनस्य, हासेच्छा = अपकर्षेच्छा, दर्पः = अहङ्कारः अहं सर्वतोऽधिकः — सर्वतः = सकलेभ्यः, अधिकः = विशिष्टः, इत्येवं मतिः, मानः = गर्वः, व्यये = धननिर्गने, दैन्यम् = कातर्यम्, कार्पण्यम् = कृपणता, स्वस्य = आत्मनः उच्छेदशङ्कनम् = विनाशसन्देहः, भयम् = त्रासम्, तथा मानसस्य = चित्तस्य, अनवस्थानम् = चाञ्चल्यम्, उद्वेगः = उद्विग्नता, परिकीर्तितः = कथितः ॥ ४४ ॥
हिन्दी – दूसरों की अवनति की इच्छा को दर्प, मैं सबसे अधिक हूँ इसे मान, खर्च में कंजूसी को कृपणता, अपने विनाश की आशंका को भय और मन की चञ्चलता को उद्वेग कहते हैं ॥४४ ॥
दर्प इति । परस्य ह्रासेच्छा खर्वीकरणाशयः दर्पः, अहं सर्वतः सर्वेभ्यः अधिकः इत्येवं बुद्धिः मानः, व्यये दैन्यं कातर्य्यं कार्पण्यं स्वस्य आत्मनः उच्छेदशङ्कनम् उच्छेदशङ्का भयम्, तथा मानसस्य चित्तस्य अनवस्थानम् अस्थिरतां चाञ्चल्यमित्यर्थः, उद्वेगः परिकीर्त्तितः ॥ ४४ ॥
लघोरप्यपमानस्तु महावैराय जायते ।
दानमानसत्यशौर्य्यमार्दवं सुसुहृत्करम् ॥। ४५ ॥
अन्वयः — लघोरपि अपमानः महावैराय जायते ॥ दानमानसत्यशौर्यमार्दवं सुसुहृत्करं भवति ॥४५ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पृष्ठ 510
पाठ पढ़ें पाठ छिपाएँ
९ २२ शुक्रनीति: व्याख्या - लघोरपि = महत्त्वहीनस्यापि जनस्य, अपमानः = अनादरः, महावैराय: = घोरविरोधाय, जायते = भवति, दानम् = प्रदानम्, मानः = सम्मानः, सत्यम्, शौर्यम् = वीरत्वम्, मार्दवम् = कोमलता, सुसुहृत्करम् = सुष्ठुमैत्रीसम्पादकं भवति ॥४५ ॥
हिन्दी — क्षुद्र लोगों के लिए भी किया गया अपमान बड़ी दुश्मनी का कारण बन जाता है । किसी को कुछ देना, सम्मान करना, सच्चाई का व्यवहार करना, वीरता एवं कोमलता- ये सभी मित्रता पैदा करने वाले होते हैं ॥ ४५ ॥
लघोरिति । लघोः क्षुद्रस्यापि जनस्य अपमानः मानहानिः महावैराय जायते प्रभवति । दानं मानः सत्यं शौर्य्यं मार्दवञ्च सुसुहृत्करं सुष्ठु सौहार्दविधायकं भवति ॥४५ ॥
सर्वानापदि सदसि समाहूय बुधान् गुरून् ।
भ्रातॄन् बन्धूंश्च भृत्यांश्च ज्ञातीन् सभ्यान् पृथक् पृथक् ।
यथार्हं पूज्य विनत: स्वाभीष्टं याचयेत् नृपः ॥ ४६ ॥
अन्वयः – नृपः विनतः आपदि सदसि सर्वान् बुधान् गुरून् भ्रातृन् बन्धून् भृत्यान् ज्ञातीन् तथा सभ्यान् समाहूय पृथक् पृथक् यथार्हं पूज्य स्वाभीष्टं याचयेत् ॥ ४६ ॥।
व्याख्या – नृपः = राजा, विनतः = विनम्रो भृत्वा, आपदि = विपदि, सदसि = सभाकक्षे, सर्वान् = सकलान्, बुधान् = पण्डितान्, गुरून् = आचार्यान् भ्रातृन् = सोदरान्, बन्धून् = बान्धवान्, भृत्यान् = सेवकान्, ज्ञातीन् = परिचितान्, तथा सभ्यान् = सभानियुक्तपुरुषान्, समाहूय = = आह्वानं कृत्वा, पृथक् पृथक् = भिन्नं भिन्नम्, यथार्हं पूज्य = यथायोग्यं सम्पूज्य, स्वस्य = आत्मनः, अभीष्टम् = अभिलषितम्, याचयेत् = प्रार्थयेत् ॥ ४६ ॥
हिन्दी — विपत्ति आने पर राजा विनम्र होकर पण्डित, गुरु, भाई, बन्धु, नौकर एवं सभासद — इन्हें राजसभा में बुलाकर यथायोग्य सम्मान करने के बाद अपना अभीष्ट सिद्ध करने के लिए उनसे. उपाय पूछे ॥४६ ॥
सर्वानिति । नृपः विनतः विनीतः सन् आपदि सदसि सभायां सर्वान् बुधान् पण्डितान् गुरून् भ्रातृन् बन्धून् भृत्यान् ज्ञातीन् तथा सभ्यान् सभानियुक्तान् पुरुषान् समाहूय पृथक् पृथक् यथार्हं पूज्य पूजयित्वा पूज्येति यप्प्रत्यय आर्षः । स्वस्य अभीष्टं याचयेत् प्रार्थयेत् ॥४६ ॥
आपदं प्रतरिष्यामो यूयं युक्त्या वदिष्यथ ।
भवन्तो मम मित्राणि भवत्सु नास्ति भृत्यता ॥ ४७ ॥
अन्वयः — आपदं प्रतरिष्यामः यथा यूयं तथा युक्त्या वदिष्यथ । भवन्तः मम मित्राणि भवत्सु भृत्यता नास्ति ॥ ४७ ॥
व्याख्या - आपदम् = विपदम्, प्रतरिष्यामः = पारं गमिष्यामः सन्तरिष्यामो वा, यथा, यूयम् = भवन्तः, तथा, युक्त्या = उपायाः, वदिष्यथ = उपदेक्ष्यथ, भवन्तः = यूयम्, मम = = मे, मित्राणि = सुहृदः, भवत्सु = युष्मासु, भृत्यता = दासता, नास्ति = न भवति ॥ ४७ ॥
हिन्दी — मैं इस विपत्ति को पार कर जाऊँ, इसका उपाय आप लोग बतलायें । आप सभी मेरे मित्र हैं, दास नहीं ॥ ४७ ॥
याच्ञाप्रकारमाह — आपदमिति । आपदं प्रतरिष्यामः यथेति शेषः, यूयं तथा युक्त्या वदिष्यथ उपदेक्ष्यथ, भवन्तः मम मित्राणि सुहृदः भवत्सु भृत्यता किङ्करता नास्ति ॥ ४७ ॥
CC - 0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA