वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - १ - स्वामी करपात्री — पृष्ठ 81–90
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - १ - स्वामी करपात्री · पृष्ठ 81–90
पृष्ठ 81
पाठ पढ़ें पाठ छिपाएँ
[ ६८ ] विश्वमेव कर्म यस्यासा, सम्पूर्णविश्वनिर्मात्रीति यावत् । सा तमः परिणामाक्रान्ता वृत्तिः विश्वधायाः विश्वान् सर्वानपि प्राणिनः धापयति कर्मानुसार भोगान् उपस्थापयति भोक्तुमिति विश्वधायाः । ५ - हे बुद्धे इन्द्रस्य परमैश्वर्यशालिनो भगवतः प्राकटयस्थलत्वात् त्वं तद्भागरूपासि । तादृशीं त्वां सोमेन उमया सहितः सोमः साम्वसदाशिवः तेन । तद्ध्यानाभ्यासेनेति यावत् । आतनच्मि समन्तात् घनीभूतध्यानाय बहुवृत्ती-रुदास्य स्वल्पानः कृत्वा वशीकृते मनसि ध्यानभावनां दृढां करोमि । हे विष्णो वेवेष्टि व्याप्नोतीति विष्णुस्तत्सम्बुद्धौ सर्ववृत्तिव्यापनशील परमात्मन् हव्यं हूयन्ते प्रीण्यन्ते देवा येन तत् देवप्रीतिकर, ध्यानादिकं रक्ष । ' ईश्वराज् ज्ञान-मिच्छेच्च मोक्षमिच्छेज्जनार्दनात् ' ( म ० पु ० ६७ ४१ ) इति मत्स्यपुराणवचनात् । ६ - स्वामिदयानन्दस्तु - ' सा वाक् । ' वाग्वै यज्ञ: ' ( ० १ १/४ | ११ ) विश्वायुः पूर्णमायुर्यस्यां सा ग्रहीतव्या । सा शिल्पविद्यासम्पादिका । विश्वकर्मा विश्वं सम्पूर्ण क्रियाकाण्डं सिध्यति यया सा । सा सम्पूर्ण विद्याप्रकाशिका | विश्वधायाः या विश्वं जगत् विद्यागुणैः सह दधाति सा । इन्द्रस्य परमेश्वरस्य यज्ञस्य वा । त्वा तम् । पुरुषव्यत्ययः । भागं भजनीयं शुभगुणभाजनं यज्ञम् । सोमेन शिल्पविद्याया सम्पादितेन रसेनानन्देन वा । आ समन्तात् तनच्मि सङ्कोच-यामि दृढीकरोमि । हे विष्णो वेवेष्टि व्याप्नोति चराचर विश्वमिति विष्णुः, तत्सम्बुद्धौ परमेश्वर । हव्यं पूर्वोक्तयज्ञ-सम्बन्धि दातुं ग्रहीतु योग्य द्रव्यं विज्ञान वा । रक्ष पालये ' ति । ७ - तदपि निःसारम् । यज्ञस्वरूपस्य अद्याप्यनिर्धारितत्वात् । सोमशब्दस्य शिल्पविद्यया सम्पादितो रसः कथमर्थ ':? अन्वये तु ' हे विष्णो व्यापकेश्वर भवता या वाक धार्यते ' इत्युक्तम्, तदतीव निकृष्टम् तव सिद्धान्ते ईश्वरस्य निराकारत्वात् । नहि वागिन्द्रियं विना वाग्धारयितुं शक्यते । साकारत्वे वा सिद्धान्तभङ्गप्रसङ्गः । ' विश्वायु ' है । वह सम्पूर्ण विश्व को आयु प्रदान करती है । तथा रजः परिणाम से आक्रान्त होनेपर वह वृत्ति ' विश्व -कर्मा ' कहलाती है, अर्थात् सम्पूर्ण विश्व का निर्माण करनेवाली होती है । और तमः परिणाम से आक्रान्त होनेपर वह वृत्ति ' विश्वधाया ' कहलाती है । यानी सभी प्राणियों के कर्मानुसार उनके भोगों को उपस्थित कर देती है । ५ – हे बुद्धे! परमैश्वर्यशाली भगवान् इन्द्रदेवता के प्रकट होने की तुम स्थली हो. इसलिये तुम उसकी भाग-स्वरूपिणी हो । अतः मैं तुम्हारा साम्ब सदाशिव के ध्यान का अभ्यास करते हुए आतश्वन करता हूँ । यह सोम, प्रत्यक्ष साम्ब सदाशिव है, क्योंकि ' उमया सहितः सोमः ' - यह ' सोम ' शब्द की निरुक्ति है । आतश्चन कहने का तात्पर्य यह है fo घनीभूतध्यानावस्था प्राप्त करने के लिये नानाविध वृत्तियों को दूर कर मन को जब वशङ्गत कर लिया जायगा तब ध्यानभावना दृढ़ होगी । हे विष्णो! तुम सर्व वृत्तिव्यापनशील परमात्मा हो. अत: तुम देवताओं के लिये प्रीति कर हमारे ध्यान - धारणादि की रक्षा करो । पुराणों के भी उक्त कथन का समर्थन किया है । ६ - स्वामी दयानन्दजी ने उक्त मन्त्र का अर्थ इस प्रकार किया है - ' वह ' वाक् ' विश्वायु है । वह शिल्पविद्या -सम्पादिका है । वह ' विश्वकर्मा ' है, अर्थात् सम्पूर्ण विद्याओं की प्रकाशिका है । वह ' विश्वधाया ' है, यानी सम्पूर्ण विश्व कोविद्यागुणों के सहित धारण करती है । परमेश्वर अथवा यज्ञ के शुभगुण भाजन! मैं उस यज्ञ को शिल्पविद्या से सम्पादित रस से अथवा आनन्द से सब ओर से दृढ़ करता हूँ । चराचर जगत् को व्याप्त करनेवाले हे विष्णो! देने अथवा लेने के योग्य यज्ञ सम्बन्धी द्रव्य अथवा विज्ञान की रक्षा करो । ' ७ - किन्तु यह व्याख्या भी सारहीन है । क्योंकि अद्यापि यज्ञ का स्वरूप का निर्धारण नहीं हो पाया है । किश्च ' सोम ' शब्द का अर्थ - ' शिल्पविद्या के द्वारा सम्पादित रस ' कैसे हुआ? अन्वय करते समय तो ' हे विष्णो! अर्थात् व्यापक ईश्वर आपके द्वारा जो वाक् धारण की जाती है " कहा है, यह अर्थ तो अत्यन्त निकृष्ट है । क्योंकि आर्य समाजियों के सिद्धान्त में तो ईश्वर को निराकार माना जाता है, तब वागिन्द्रिय के विना वाक् का धारण करना कैसे सम्भव हो सकता है? यदि ईश्वर को आप साकार कहते हैं तो आपके ही सिद्धान्त का भङ्ग होता है । भावार्थ
पृष्ठ 82
पाठ पढ़ें पाठ छिपाएँ
[ ६६ ] भावार्थे च वाचस्त्रैविध्यं विचारयता ब्रह्मचर्याश्रमे या वाग्धार्यते सा पूर्णायुः प्रदात्रीति कथितम् । तदपि तथाविधमेव, तथासति विद्यार्थिनः कस्यापि मरणासम्भवात् । ब्रह्मचारी हि विद्यामधीते । एवं विचार्यमाणे सर्वोऽप्येतस्य महात्मनोऽर्थः स्वकपोलकल्पित एव प्रतीयते । तस्मात् उपेक्ष्यानर्थंजाता वहमर्थगणमेतादृशं सिद्धान्तभूतः पुरातनैराचार्यैः परम्परया
प्राप्तो रमणीयोऽर्थोऽनुसन्धेयः सुधीभिरिति । ( वा ० सं ० १४ ) ॥
नृतात्स॒त्यमुपैमि ॥ ५ ॥
तं चरिष्यामि त तन्मे राध्यताम् । इदमहम-वा ० सं ० ११५ ) १ – ' अन्तरेणापराग्नी गत्वा परेणाहवनीयं प्राङ तिष्ठन्नग्निमीक्षमाणोऽप उपस्पृश्य व्रतपत इदहमिति वा ' ( का ० श्री ० सू ० २1१1११ ) यजमानो गार्हपत्यदक्षिणाग्न्योरन्तरालेन गत्वा आहवनीयस्य पश्चात् प्राङ मुखस्तिष्ठन् अग्नि पश्यन् उदकं स्पृष्ट्वा सत्यवदनादिरूपं व्रतं ' अग्ने व्रतपते ' इति मन्त्र ेण ' इदमहम् ' इतिमन्त्रण वा गृहणीयात् इति सूत्रार्थः । हे व्रतपते व्रतस्य अनुष्ठेयस्य कर्मणः पतिः पालकः, व्रतपतिः । तत्सम्बुद्धौ । हे अग्ने । त्वदनुज्ञया व्रतं कर्म चरिष्यामि अनुष्ठास्यामि । तत् कर्म अनुष्ठातु ं शकेयम् । त्वत्प्रसादात् तदनुष्ठातु ं शक्तोभूयासम् । तत् मे कर्म मदीयं तत्कमं राध्यताम् निर्विघ्नं सत् फलपर्यन्त सिद्धयतु । शके: आशीर्लिङि ' छन्दस्युभयथा ' ( पा ० सू ० ३ | ४ | ११७ ) इति लिङः सार्वधातुकार्धधातुकोभयसं ज्ञात्वेन शपोऽपवादके ' लिङ याशिष्यङ ” ( पा ० सू ० ३ | १ | ८६ ) इत्यङि, ' अतो येयः ’ ( पा ० सू ० ७ २८० ) इति या इत्यस्य इयादेशे गुणे ' तस्थस्थमिपां तांतंतामः ' ( पा ० सू ० ३ | ४ | १०१ ) इति मिप: अमा-देशेरूपम् । अहं यजमानः अस्मादनृतान्मनुष्यजन्मनः उद्गत्य इदं सत्यं देवताशरीरम् उपैमि प्राप्नोमि । सत्यमनुष्ठीय-मानकर्मरूपेण प्रत्यक्षमिति मन्वानः इदमिति विशिनष्टि । अनृतं मनुष्यजन्म शीघ्रविनाशित्वात् । यथा स्वप्नगजादयो बोधमात्रेण शीघ्र निवर्त्तमाना अनृता उच्यन्ते । सत्य ' देवशरीर बहुकालस्थायित्वात् । तथा जागरणगजादयः । तन्मनु-ष्येभ्यो देवानुपावर्तते इति । बताते समय आपने वाणी की त्रिविधता कहते हुए ब्रह्मचर्याश्रम में जिस वाक को धारण किया जाता है, वह पूर्णायु का प्रदान करती है -- कहा है । यह कथन भी वैसा ही निःसार है । आपके कथनानुसार तो किसी विद्यार्थी का मरण ही सम्भव नहीं हो सकता । ब्रह्मचारी विद्या का अध्ययन करता है । यह सब विचार करनेपर आपके द्वारा किया गया यह सभी अर्थ, स्वकपोल कल्पित ( मनगढंत ) ही प्रतीत हो रहा है । अतः स्वामी दयानन्दोक्त अनर्थावह अर्थ की उपेक्षा करके प्राचीन आचार्यों के द्वारा किया गया परम्परया प्राप्त सिद्धान्तभूत अर्थं ही रमणीय और शुद्ध है | विद्वान् बुद्धि-मानों को उसी सिद्धान्तभूत अर्थ का आदर करना चाहिये । १ – अनुष्ठेय व्रतरूप कर्म के पालक हे अग्ने! तुम्हारी अनुज्ञा से व्रत कर्म का अनुष्ठान करूँगा । तुम्हारे अनुग्रह से उसका अनुष्ठान करने में मैं समर्थ हो पाऊँगा । मेरे द्वारा किये जाने वाले उस कर्म को फल प्राप्ति तक निर्विघ्न रूप से सिद्ध कर दें । मैं यजमान इस अनृत ( मिथ्या ) मनुष्यजन्म से निकलकर उस सत्य देवता शरीर को प्राप्त कर पाऊँ । अनुष्ठीयमान कर्म के रूप में वह सत्य प्रत्यक्ष है । मनुष्य जन्म तो शीघ्र विनाशी होने से असत्य ( अनृत ) है । जैसे स्वप्न के गज आदि प्रबोध होते ही शीघ्र निवृत्त हो जाते हैं, अतः उन्हें अनृत कहा जाता है । चिरकाल तक स्थायी होने से देव शरीर ' सत्य ' है । जैसे जाग्रदवस्था के गज आदि पदार्थ सत्य माने जाते हैं ।
पृष्ठ 83
पाठ पढ़ें पाठ छिपाएँ
[ ७०: ] २ - यद्वा - लोकप्रसिद्धे एव सत्यानृते ग्राह्यं । ' अनृतं न वदेत् ' ( ऐ ० आ ० २२३६ ) ' नानृतं वदेत् ' ( श ० २।२१-२२० ) इति कर्मणि अनृतवदननिषेधात् । अत इदं सत्यवदनं कर्माङ्गत्वात् कर्मकाले पालनीयम् । अत्र ब्राह्मणम् -'सोऽग्निमेवाभीक्षमाणो व्रतमुपैति । अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामि-त्यग्नि देवानां व्रतपतिस्तस्मा एवैतत् प्राह व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामिति नात्र तिरोहितमिवास्ति । ' ( TO 9191912 ) 1 अत्र सायणः - इदानीमग्निदर्शनलक्षणेनान्तरङ्ग ेन सहितम् समन्त्रक: व्रतोपायनं विधत्ते - सोऽग्निमिति । स यजमानः, अग्निम् आहवनीयम् । व्रतपतिपदं व्याकरोति - अग्निर्वै देवानामिति । शकेयं राध्यतामित्युभयवाक्यस्य अव्याख्येयत्वं श्रुतिः स्वयमेवाह । तत्र हेतुः - नात्र ति । तिरोहितम् अविस्पष्टार्थं पदम् । ' अथ स स्थिते विसृजते अग्ने व्रतपते व्रतमचारिषन्तदशकन्तन्मे राधीत्यशकद्ध्येतद्यो यज्ञस्य स V ँ, स्था-मगन्नराधि ह्यस्मै यो यज्ञस्य स ँस्थामगन्नेतेन त्वेव भूयिष्ठा इव व्रतमुपयन्त्यनेन त्वेधोपेयात् । ' ( श ० १।१।१।३ ) । स्वीकृतस्य व्रतस्य यागसमाप्तिपर्यन्ततामाह - अथेति । संस्थिते यागे पर्यवसिते । व्रतविसर्जन मन्त्रमाह- अग्ने व्रतपते व्रतमचारिषमिति । अत्र अशकम्, अराधीति पूर्वमन्त्राद् वैलक्षण्यम् । तत्र हेतुमाह - अशकद्धीति । येो ग्रज्ञस्य पर्यवसानं प्राप्तवान् एतत् कर्म कतुमशकत् शक्तोऽभूत् । तस्मै तेन कर्मणा अराधि सिद्धम्, तत्कर्म असिद्ध्यदित्यर्थः । अन्निति मेलुङ ' मन्त्र घस ( पा ० सू ० २ | ४ | ५० ) इति च्ले लुकि हल्ङयादिलोपे ' मो नो धातो: ' ( पा ० सू०-८२६४ ) इति मकारस्य नकारः । अत्र व्रतोपायने मन्त्रान्तरं विधातु पूर्वमन्त्रासस्य विशेषमाह एतेनेति । यतः एतेन वक्ष्यमाणेन इदमहमित्या-दिना बहवो व्रतमुपयन्ति अतो हेतोः अनेनैवोपेयात् । एवकारेणैष मन्त्रः प्रशस्यते नतु पूर्वः प्रतिषिध्यते । अतो भगवान् * कात्यायनः मन्त्रद्वयमप्याह - अग्ने व्रतपते, इदमहमिति वा इति । G ३ - अध्यात्मपक्ष - हे अग्ने अग्निवत्तेजस्विन् श्रीरामचन्द्र ' सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः । ' ( श्री ० वा ० रा ० २ । ४४ । १५ ) इति रामायणवचनात् । हे व्रतपते व्रतमस्ति येषां ते व्रताः । ' अर्श आदिभ्योऽच् ' ( पा ० सू ० ५।२।१२७ ) इत्यजन्तः । व्रतकारिणस्तेषां पतिः पालकः, व्रतपतिः । ' रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता । मर्यादानां च लोकस्य कर्ता कारयिता च सः || ' ( श्री ० वा ० रा ० ५। ३५।११ ) इति रामायणवचनात् । तत्सम्बुद्धौ । त्वत्प्रसादात् व्रतं ' सत्यं दया तपः शौचं ( श्री ० भा ० म ० पु ० ७ ११1८ ) इति प्रारभ्य ' सख्यमात्मसमर्पणम् ॥ ११ ॥
नृणामयं परोधर्मः सर्वेषां समुदाहृतः इत्यन्तं वर्णित: त्रिशल्लक्षणवान् धर्मः अत्र व्रतपराभिधयः । तद् व्रतं चरिष्यामि २ - अथवा लोक व्यवहार में प्रसिद्ध जो सत्य और अनृत हैं, उनका भी ग्रहण किया जा सकता है । क्योंकि ' अनृत ं न वदेत् ', ' नानृतं वदेत् ' इस प्रकार कर्म में अनृतभाषण का निषेध किया जाता है । अतः यह सत्यभाषण, कर्म का अङ्ग होने से कर्म काल में उसका पालन करना चाहिये । इसी अभिप्राय की अभिव्यक्ति शतपथ ब्राह्मण में भी की गई है, जिसकी व्याख्या सायणाचार्य ने बहुत सुन्दर ढङ्ग से की है । भगवान् कात्यायन ने व्रतोपायन के लिये विकल्प से ' अग्ने व्रत पते ' अथवा ' इदमह मिति ' ये दो मन्त्र बताये हैं । उसका समर्थन शतपथ ब्राह्मण ने भी किया है । ३ - अध्यात्मपक्ष में अर्थ इस प्रकार होगा -- अग्नि के समान तेजस्वी हे श्रीरामचन्द्र! आप व्रत करनेवालों के पालक हैं । क्योंकि आप चातुर्वर्ण्य के पालक हैं । लोक मर्यादा का आप स्वयं पालन करते हैं और लोगों से पालन करवाते भी हैं । यह बात महर्षि वाल्मीकि ने स्वयं कही है । श्रीमद्भागवतकार ने व्रत के स्वरूप को बताया है । तदनुसार यहाँपर ' व्रत ' शब्द का त्रिशल्लक्षणवान् धर्म में तात्पर्य है । ऐसे व्रत का पालन मैं तुम्हारे अनुग्रह से ही कर
पृष्ठ 84
पाठ पढ़ें पाठ छिपाएँ
[ ७ ] त्वत्प्रसादाच्च तद्व्रतं कतु शकेयम् । मे मम तद् ब्रतं शक्तं सत् राध्यताम् सिद्ध्यताम् फलपर्यवसायि स्यात् । अहं भगवद्भक्तः इदम् सत्यमनृतादुत्थाय उपैमि । ' एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् । यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ ' ( श्री ० भा ० म ० पु ० ११।२१ / २२ ) इति श्रीमद्भागवतमहापुराणवचनात् । भगवद्वचनाच्च । ४ – स्वामिदयानन्दस्तु — ' अग्ने हे सत्योपदेशकेश्वर । व्रतपते व्रतानां सत्यभाषणादीनां पतिः पालकस्तत्समुद्धौ । व्रतं सत्यभाषणं सत्यकरणं सत्यमानं च । चरिष्यामि अनुष्ठास्यामि । तत् व्रतम् अनुष्ठातुम् । शकेयम् यथा समर्थो भवे-यम् । तत् तस्यानुष्ठानं पूर्तिश्च । मे मम । राध्यताम् संसेध्यताम् । इदं प्रत्यक्षमाचरितु सत्य व्रतम् । अहम् धर्मादि-पदार्थचतुष्टयं चिकीर्षुर्मनुष्यः । अनृतात् न विद्यते ऋतं यथार्थमाचरणं यस्मिन् तस्मात् मिथ्याभाषणात् मिथ्याकरणात् । मिथ्यामानात् पृथग्भूत्वा । सत्यं यद्वेदविद्यया प्रत्यक्षादिभिः प्रमाणैः सृष्टिक्रमेण विदुषां सङ्गन सुविचारेण आत्मशुद्धया वा निमं सर्वहितं तत्त्वनिष्ठं सत्प्रभवं सम्यक् परीक्ष्य निश्चीयते तत् । सत्यं कस्मात् सत्सुतायते सत्प्रभवं भवतीति वा ( नि ० ३।१३ ) उपक्रियार्थे । एमि ज्ञातु प्राप्तुमनुष्ठातु प्राप्नोमि इति, तदपि सारशून्यम्, वाग्जालमात्रत्वात् ॥ तथाहि सम्यक् परीक्ष्य निर्धारणे साधनानि ( १ ) वेदविद्या ( २ ) प्रत्यक्षादीनि प्रमाणानि ( ३ ) सृष्टिक्रमः ( ४ ) विदुषां सङ्गः ( ५ ) सुविचार: ( ६ ) आत्मशुद्धिश्च कथितानि । तान्येतानि सम्भूय वा साधनानि पृथक पृथग्वा? नाद्यः, अधुनात-नानां जनानां वेदविद्या दिविधुराणामपि सत्यनिर्धारणप्रवृत्त ेः साधकत्वात् । नान्त्यः, वेदविद्याया अपि प्रमाणान्तः पाति-त्वात् तस्याः पृथक, साधनताया दुर्निरूपितत्वेन सुविचारादेश्च वेदविद्याजन्यत्वेन पृथक, परिगणनस्य अनौचित्यात् । श्रुतिसूत्रविरोधस्य सुस्पष्टत्वाच्च । संसेध्यतामिति पदमपि न प्रतिभाति कस्य धातोरिति । दैवादिकस्य कथमेतत्रूप-सिद्धि: । णेः प्रयोजनाभावादण्यन्तस्य वा? विचारणीयमिदम् । ( वा ० सं ० ११५ ) | : • सकता हूँ । इस प्रकार का व्रत, जो मेरे द्वारा किया जा रहा है, वह फलप्राप्ति तक समर्थ हो सके, ऐसी कृपा करो 1 | मैं भगवद्भक्त हूँ । अतः श्रीमद्भागवतपुराण तथा भगवद्वचन के अनुसार अनृत से निकल कर उस सत्य को प्राप्त कर सकूँ । ४ - स्वामी दयानन्दजी ने इस मन्त्र का जो अर्थ किया है, वह इस प्रकार है - सत्य उपदेश के ईश्वर हे अग्ने! आप सत्य भाषणादि व्रतों के पालक हैं । मैं सत्यभाषण, सत्यकरण, और सत्यप्रमाण का अनुष्ठान करूँगा । उसके अनुष्ठान में मैं समर्थ हो सकूँ । मेरे द्वारा किया जानेवाला उसका अनुष्ठान और उसकी पूर्ति आप करा दें । यहाँ ' राध्यताम् ' का अर्थ ' संसेध्यताम् ' किया है । प्रत्यक्ष आचरण के योग्य यह सत्य व्रत है । मैं धर्मादि चार पदार्थों के अनुष्ठान की इच्छा करनेवाला मनुष्य.. मिथ्या भाषण से दूर रह कर प्रत्यक्षादि प्रमाणों से विद्वानों की सङ्गति से, सद्विचार से अथवा आत्मशुद्धि से अच्छी तरह से परीक्षा कर उस निर्भम सत्य का निश्चय कर पाता हूँ । ' किन्तु यह कहना भी साररहित है । केवल वाग्जाल-मात्र है । क्योंकि सम्यक परीक्षा करके निर्धारण करने के छह साधन बताये गये हैं - ( १ ) वेदविद्या, ( २ ) प्रत्यक्षादि प्रमाण, ( ३ ) सृष्टिक्रम, ( ४ ) विद्वत्सङ्गति, ( ५ ) सुविचार, और ( ६ ) आत्मशुद्धि । सोचना यह है कि उक्त छहों साधन ' तृणारणिमणि ' न्याय से मिलकर साधन होते हैं अथवा प्रत्येक पृथक - पृथक साधन है? प्रथम पक्ष तो इसलिये ठीक नहीं है कि आधुनिक लोग जो वेदविद्या के ज्ञान से शून्य हैं, वे भी सत्य निर्धारण कर लेते हैं । द्वितीय पक्ष भी ठीक नहीं है, क्योंकि वेदविद्या भी प्रमाणान्तःपाती है, इसलिये उसकी पृथक साधनता का निरूपण करना बड़ा कठिन है । और सुविचार भी वेदविद्या से ही उत्पन्न होने के कारण उसका पृथक परिगणन करना अनुचित है । तथा श्रुति, सूत्र से उक्तकथन का विरोध भी स्पष्ट है । संसेध्यताम् ' यह पद भी किस धातु से निष्पन्न किया है, यह भी अस्पष्ट है । यह णिजन्त या अण्यन्त है, यह भी विचारणीय ही हैं ।
पृष्ठ 85
पाठ पढ़ें पाठ छिपाएँ
[ ७२ ] कस्त्वा युक्त स वाक् युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति । कर्मणे वां वेषांय वाम् ॥ ६ ॥
- ( वा ० सं ० १।६ ) १ - एवं व्रतमुपेत्य ब्रह्माणं वृत्वापां प्रणयनं कुर्यात् । तदाह भगवान् कात्यायन: ' ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेत्याह, अनुज्ञात उत्तरेणाहनीय ७ " सम्प्रति निदधाति कस्त्वेति ' ( का ० ० सू ० २३-२-३ ) अत्र मन्त्र प्रयुञ्जानोऽध्वर्युर्यज्ञारम्भ कर्मणात्मन: कर्तृत्वमपनीय प्रजापतेर्यज्ञकर्तृत्वं प्रश्नोत्तररूपाभ्यां मन्त्रवाक्याभ्यां प्रति-पादयति । अध्वर्युः ब्रह्मणे प्रषं ददाति ब्रह्मन्नपः प्रणेष्यामीति । ब्रह्मा च अनुजानाति प्रणयेति । यजमानाय च प्रैषं ददाति - यजमान वाचं यच्छेति । ब्रह्मणानुज्ञातः अध्वर्युः प्रणीतापात्र गार्हपत्यादाह्वनीयसमीपं तूष्णीं नीत्वा आह्वनीय-स्योत्तरतः सम्प्रति अनन्तिके अनतिदूरे च बहिर्वेदि कस्त्वेति मन्त्रेण निदध्यादिति सूत्रार्थः । प्रणीतानामपां धारक हे पात्र त्वा त्वां कः पुरुषः युनक्ति आह्वनीयस्य उत्तरभागे स्थापयतीति प्रश्नः । तच्छन्दः प्रसिद्धार्थवाची । सर्वेषु वेदेषु जगन्निर्वाहकत्वेन प्रसिद्धो यः प्रजापतिरस्ति स परमेश्वरः प्रजापतिरेव हे पात्र त्वा त्वां युनक्तीत्युत्तरम् । कस्मै प्रयोजनाय त्वा त्वां युनक्ति, इति पुनरपि प्रश्नः । अध्वर्यु राशङ्कते स्वयमेवोत्तरयति च -- तस्मै त्वा युक्तीति । तस्मै प्रयोजनाय युनक्ति -- यज्ञादुत्पत्तिः स्थितिश्च जगतः । अतोऽनेन सर्वनाम्ना तदेव निर्दिश्यते इति उव्वटाचार्यः । आचार्यंमहीधरस्तु तस्मै प्रजापतये तत्प्रीत्यर्थं त्वा त्वां युनक्तीत्युत्तरम् । सर्वकर्माणि परमेश्वरप्रीत्यर्थ-मनुष्ठेयानीति भगवद्गीतास्वर्जुनं प्रति भगवतोक्त ', ' सर्वकर्माण्यपि सदा......... ( श्री ० म ० भा ० गी ० १८।५६ ) ' ब्रह्मार्पणं ब्रह्म हविः ' ( श्री ० भ ० गी ० ४।२४ ) इति । ' तृणैरग्नीन् परिस्तीर्यं पुरस्तात्प्रथमं द्विशः पात्राणि स. सादयति ', ( का ० श्री ० सू ० ३ | ३ | ६ ) ' शूर्पाग्नि-होत्रहवणि, स्फ्यकपाल २ ९ शम्या कृष्णाजिनमुलूखलमुसलं दृषदुपलमर्थवच्च ' ( का ० श्री ० सू ० २२३३८ ) ' श्रपणस्य पश्चादुत्तरतो वा ' ( का ० श्र ० सू ० २३ ९ ) कर्मणे वामिति शूर्पाग्निहोत्रहवण्यादाय वाचं यच्छति ' ( का ० श्री ० सू०-२ | ३ | १० ) ऊध्वर्यु राहवनीय - गार्हपत्य- दक्षिणाग्नीन् क्रमेण कुशैः प्रागग्र ेः उदगश्च आदो पूर्वस्यां दिशि ततः प्राद-क्षिण्येन परिस्ती द्वे द्वे पात्र एकेन प्रत्यत्नेन सहैव निदधाति । पान्ति रक्षन्ति हविरेभिरिति पात्राणि । तेन शूर्पादीना-मपि पात्रता । शूर्पादीनि दशपात्राणि यथोपदेशं सादयित्वा यस्य यस्य पात्रस्य प्रयोजनं तत्सर्वमप्यासादयेत् । गार्हपत्यस्य आहवनीयस्य वा पश्चात् प्राक्संस्थं पात्राणामासादनम् । अथवा उत्तरतः उदक संस्थं पात्रासादनम् | अध्वर्युः कर्मणे वामिति मन्त्रण शूर्पम् अग्निहोत्रहवणीं च सहैव आदाय वाग्यमनं कुर्यात् इति सूत्राणामर्थः । १ -प्रणीता के जल को धारण करनेवाले हे पात्र! तुम्हें किस पुरुष ने आहवनीय के उत्तरभाग में स्थापित किया है? यह प्रश्न करनेपर उत्तर दे रहे हैं कि समस्त वेदों में जगन्निर्वाहक के रूप से प्रसिद्ध जो प्रजापति है, वह परमेश्वर प्रजापति ही तुम्हें स्थापित कर रहा है । किस प्रयोजन के लिये उसने तुम्हें स्थापित किया है? ऐसा प्रश्न अध्वर्यु कर रहा है और वही स्वयं उत्तर दे रहा है कि उस प्रयोजन के लिये तुम्हें स्थापित किया है । जगत् की उत्पत्ति और स्थिति यज्ञ से होती है । अतः इस ' तत् ' सर्वनाम से उसी का निर्देश किया गया है - ऐसा उन्वाचार्य का कहना है । आचार्य महीधर ने उक्त प्रश्न का उत्तर यह दिया है कि उस प्रजापति के प्रीत्यर्थ तुम्हारी स्थापना की गई है । सभी कर्म परमेश्वर की प्रीति के लिये करना चाहिये, — ऐसा श्रीमद्भगवद्गीता में अर्जुन से भगवान् ने कहा है ।
पृष्ठ 86
पाठ पढ़ें पाठ छिपाएँ
[ ७३ ] २ – कर्मणे हे अग्निहोत्रहवणि हे शूर्प कर्मार्थमहम् वां युवाम् आददे इति शेषः । वेषाय च वेषो व्याप्तिः । ( विल व्याप्तौ ) भावे घञि निष्पन्नः । सूचितकर्मसु व्याप्त्यर्थं च वां युवामहमाददे । शकटेऽवस्थितानां ब्रीहीणां हविरर्थ पृथक्करणं प्रोक्षणार्थोदकधारणमित्यादयोऽग्निहोत्रहवणी व्यापाराः । उलू-खले व्रीहिनिक्षेपः पुनरुद्धरणं चेत्यादयः शूर्पव्यापाराः । अत्र ब्राह्मणम् —'स वै प्रातरप एव । प्रथमेन कर्मणाभिपद्यतेऽपः प्रणयति यज्ञो वा आपो यज्ञमेवैतत् प्रथमेन कर्मणाभिपद्यते ताः प्रणयति यज्ञमेवैतद्वितनोति ' ( श ० १।१।१।१२ ) । अथ प्रभाते ऽध्वर्योः कर्माह - स वा इति । स प्रसिद्धोऽध्वर्युः प्रथमेन कर्मणाप एवाभिमुख्येन प्राप्नोति । किं तत्प्रथमं कर्मेति, तदाह- अपः प्रणयतीति । उक्तं प्रणयनं प्रशंसति - यज्ञो वा इति । अपां यज्ञसाधनतया यज्ञरूपत्वात् तद्विस्तरात्मकस्य प्रणयनस्य यज्ञविस्ताररूपत्वात् प्राशस्त्यम् । ' स प्रणयति । कस्त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्तीत्येताभिरनिरुक्ताभिर्व्याहृति-भिरनिरुक्तो वै प्रजापतिः प्रजापतिर्यज्ञस्तत्प्रजापतिमेवैतद् यज्ञ युनक्ति ' ( श ० १।१।१।१३ ) । उक्त प्रणयनमनूद्य कस्त्वेति व्याहृतिचतुष्टयात्मकं मन्त्रं विधत्ते - स प्रणयतीति । हे प्रणीतोदक को नाम त्वां यज्ञ ेन युनक्ति योक्तु ं समर्थः? यः समर्थः स युनक्ति । कस्मै प्रयोजनाय त्वा युनक्ति? यस्मै युनक्ति तस्मे युनक्ति । योजने कर्ता प्रयोजनश्च दुर्ज्ञातमित्यर्थः । व्याह्नियन्ते इति व्याहृतयो मन्त्राः । दुर्ज्ञानत्वाभिधानात् अनिश्चित्यवचनाच्च ते अनि-रुक्ताः । व्याहृतिविशेषणस्य अनिरुक्तत्वस्य प्रयोजनमाह - अनिरुक्तो वा इति । अनिर्ज्ञातो हि पदार्थः क इति पर्यनुयुज्यते, अतोऽसावनिरुक्तः । प्रजापतिश्च कः इत्युच्यते । ' को ह वै नाम प्रजापतिः ' ( तै ० ब्रा ० २ २ १०२ ) इति श्रुतेः । अतः श्रुतिसाम्यात् प्रजापतेर निरुक्तत्वम् । अथवा वाचकमन्त्रोच्चारणमन्तरेण मनसैव प्रजापतेर्होमात् अपि प्रजापतिरनिरुक्तः । ' यत्तूष्णीं तत्प्राजापत्यं स जुहोति मन इव हि प्रजापतिः ' ( तै ० सं ० ६ । 1१०1३ ) इति श्रुते: । अस्त्वनिरुक्तः प्रजापतिः, प्रकृते किमायातमित्यत आह- प्रजापतिर्यज्ञ इति । ' प्रजापतिर्यज्ञमसृजत ' ( तै ० सं०-६ | १ || १२ ) इति यज्ञस्रष्टृत्वश्रुतेः, कार्यस्य कारणादभेदात् । तथा ' एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तः ' ( तै ० सं०-१।६।११।१ ) इति सप्तदशसमुदायात्मकस्य प्रजापतेः सकलयज्ञानुगमश्रुतेः । अनुगच्छत्यश्च सामान्यादेर्लोके न पृथक, अनुगन्तव्यः, व्यक्तावभिमानदर्शनात् । यस्मात् प्रजापतिर्यज्ञः, अलोऽनिरुक्ताभिर्व्याहृतिभिः प्रणयनादनिरुक्तः प्रजापत्या-त्मकतया निरुक्तं यज्ञमेव युनक्ति प्रारभत इत्यर्थः । ' यद्वेवापः प्रणयति । अद्भिर्वा इद ७ सर्वमाप्तन्तत्प्रथमेनैवैतत्कर्मणा सर्वमाप्नोति । ' ( श ० 919111१४ ) । प्रशब्दोपात्तप्रकर्ष सूचितप्राथम्यद्वारा प्रणयनं प्रागस्ताबीत् ' यज्ञो वा आप: ' ( श ० १ | १ | १ | १२ ) इति । तच्च नयतिपदोपात्तप्रायणात्मकविस्तारद्वारतः, इति, ' अथाप: ' इत्यस्य अवथवार्थपर्यालोचनयापि द्विधा स्तौति - यद्वे वेति । अनियोगार्थक एवकारः । न नियोगेन प्रागुक्तरीत्या स्तुतिः, किन्तु एवमप्यस्तीत्यर्थः, किन्तु । आप्नुवन्ति सकलं जग-दित्यापः । तादृशीनामपां प्रणयनात् प्रथममेव सर्वमाप्तं स्यात् इत्यपि प्रशस्तं तत्प्रणयनमित्यर्थः । २ - हे अग्निहोत्र हवणि! हे शूर्प! मैं तुम दोनों का ग्रहण कर्म के लिये कर रहा हूँ । निर्दिष्ट कर्मों में तुम्हारे व्याप्त्यर्थ तुम दोनों का ग्रहण कर रहा हूँ । शकट पर स्थित व्रीहियों का हवि के लिये पृथक् करण प्रोक्षणार्थ उदक धारण इत्यादि व्यापार अग्निहोत्रहवणी के हैं और उलूखल में ब्रीहि का निक्षेप, पुनः उनका उद्धरण आदि शूर्प के व्यापार हैं ।
पृष्ठ 87
पाठ पढ़ें पाठ छिपाएँ
[ ७४ ] ' अथ तृणः परिस्तृणाति । द्वन्द्वम्पात्राप्युदाहरति शूर्पवाग्निहोत्रहवणीं च स्पयश्च कपालानि च शम्याच कृष्णा-जिन वो लूखलमुसले दृषदुपले तद्दश दशाक्षरा ने बिराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयत्यथ यद् द्वन्द्व ं द्वन्द्व ं वै वीर्यं यदा वै द्वौ स ँरभेते अथ तद्वीर्यं भवति द्वन्द्व ं वै मिथुनम्प्रजननम्मिथुनमेवै तत्प्रजननं क्रियते । ' ( श ०१।१।१।२२ ) प्रणीताप्रणयनानन्तरं परिस्तरणं पात्रासादनञ्चाह - अथ तृणैरित्यादिना । द्वन्द्वं द्वे द्वे । ' द्वन्द्वं रहस्यमर्यादा-वचनव्युत्क्रमणयज्ञप । त्रप्रयोगाभिव्यक्तिषु ' ( पा ० सू ० ८।१।१५ ) इति निपातितम् । पात्रपदं यज्ञनिर्वर्तकानां स्पयादीनाम-प्युपलक्षकम् । अर्थतः प्राप्तां सङ्ख्यामनूय प्रशंसति तद्दशेति । तस्मिन् प्रयोग एवं परिगणने कृते दश सम्पद्यन्ते । विरा-जश्छन्दोऽक्षरेषु दशत्वमस्ति । प्रथमश्च यज्ञो ज्योतिष्टोमः । ' एष वांव प्रथमो यज्ञो यज्ञानां यज्योतिष्टोमः ' ( तै ० सं०-७ | ४ | १० | ११ ) इति श्रुतेः । तत्र व नवत्युत्तरशतसंख्याकाः स्तोत्रियाः । तास्वेकोनविंशति संख्यया विभज्यमानासु दश-लब्धिरित्यस्ति तत्रापि दशसंख्या । अतो दशसंख्यायोगात् विराडजज्ञयोरेकत्वात् इह दशसंख्यासम्पत्त्या विशात्मक यज्ञ एव साकल्येन सम्पादितो भवति । संरभेते ( रम् राभस्ये ) इति धातोः रूपम् । राभस्यं कार्योपक्रमः किमपि कार्यं क्रमे । ' अथ शूर्प वाग्निहोत्रहवणीश्वादते । कर्मणे वां वेषाय वामिति यज्ञो वै कर्म यज्ञाय हि तस्मादाह कर्मणे वामिति बेवेष्टीव हि यज्ञम् । ' ( श ० १।१।२।१ ) । पात्रासादनानन्तरं कर्त्तव्यमाह - । एतच्चादानं हविर्निर्वापार्थम् । वामिति मन्त्रगत द्विवचन-६ - अथ सूर्पमिति लिङ्गात् उभे सहादीयेते । अतएव सूत्रे - ' शूर्पाग्निहोत्रहवण्यादाय ' ( का ० श्री ० सू ० २ | ३ | १० ) इत्याह । इतरेतरयोग-द्वन्द्वः । यज्ञो वा इत्यादि - यज्ञाय हि तदादानन्, अतः कर्मशब्दः कर्ममात्रपरोऽपि तद्विशेषं यज्ञमेव ब्रूते । इज्यतेऽनेनेलि यज्ञः, हविः, तदिह निर्वापकाले श्रीहिरूपम् । तदग्निहोत्रहवण्या शूपे निर्वपन् वेबेष्टीय परिवेवेष्टीव परिवेषणं करोतीब, यथान्नं दर्व्या भोजनपात्र । अतो बेषाय नामित्युक्तम् वेवेष्टीत्यत्र परिरूपोपसर्ग: लुप्तो निर्दिष्टः । ३ - अध्यात्मपक्षे - येन व्रतं गृहीतं तादृश हे भक्त! त्या त्वां कः युनक्ति इति श्रुतेरेव प्रश्नः । सः प्रसिद्धः परमे ' श्वर एव त्वां युनक्ति प्रवर्तयति व्रतग्रहणायेति । पुनः श्रुतिरेव पृच्छति कस्मै प्रयोजनाय त्वा युनक्ति श्रुतिरेव चोत्तरयति -तस्मै प्रसिद्धाय प्रयोजनाय भगवत्प्राप्तये त्वां युनक्ति । एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् । यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ ' ( श्री ० भा ० म ० पु ० ११/२१/२२ ) इति भगवद्वचनात् । बुद्धिमतां विवेकिनां बुद्धेः विवेकस्य मनीषिणां चतुराणां मनीषायाश्चातुर्यस्य च एतदेव साफल्यम् यत् अनृतेन मिथ्याभूतेन मर्त्येन मरणशील मनुष्यशरीरेण क्षणभंगुरेणेति यावत् सत्यम् परमार्थभूतम् अमृतम् ब्रह्म प्राप्नुयादिति । कर्मणे भगवते विष्णवे ' यज्ञो वै कर्म ' ( श ० १1१-२1१ ) इति श्रुतेः । वेषाय भुक्तिमुक्तयोः परिवेषणाय च वां युवयोः मनुष्यशरीरस्य बुद्धेश्च प्रदानं भगवता कृतमिति । वह अध्वर्यु प्रथम कर्म के द्वारा प्रथमतः अपने सामने जल को देख पाता है । वह प्रथम कर्म क्या है? तो कहा गया है कि अप: प्रणयन ही प्रथम कर्म है । उस अप: प्रणयन की प्रशंसा ' यज्ञो वा ' से की गई है । वह जल, यज्ञ का साधन होने से यज्ञस्वरूप ही है । वह विस्तारात्मक प्रणयन, यज्ञविस्तारस्वरूप होने से प्रशस्त है । -३ – अध्यात्मपक्ष में — व्रतग्रहण करनेवाले हे भक्त! तुम्हें किसने नियुक्त किया है? यह प्रश्न, श्रुति ही कर रही है । वह प्रसिद्ध परमेश्वर ही व्रतग्रहण में तुम्हें प्रवृत्त कर रहा है । पुन: श्रुति प्रश्न करती है कि किस प्रयोजन के लिये तुम्हें वह प्रवृत्त कर रहा है? उसका उत्तर श्रुति ही दे रही है — उस भगवत्प्राप्तिरूप प्रसिद्ध प्रयोजन के लिये वह तुम्हें प्रवृत्त कर रहा है । विवेकशील चतुर मनुष्यों के विवेक और चातुर्य की सफलता इसी में है कि मरणशील मिथ्या-भूत क्षणभंगुर इस मनुष्य शरीर के द्वारा परमार्थभूत अमृत सत्य ब्रह्म को वह प्राप्त कर सके । भुक्ति और मुक्ति दोनों का प्रदान करने के लिये ही इस मनुष्य शरीर और बुद्धि को भगवान् ने तुम्हें दिया है ।
पृष्ठ 88
पाठ पढ़ें पाठ छिपाएँ
[ ७५ ] ४ - स्वामिदयानन्दस्तु - ' हे मनुष्य! कः को हि सुखस्वरूपः । त्वा क्रियानुष्ठातारं मनुष्यं पुरुषार्थे । युनक्ति नियुक्त ं करोति । सः परमेश्वरः । त्वा विद्यादिशुभगुणानां ग्रहणे विद्यार्थिनं विद्वांसं वा । युनक्ति योजयति । अत्र सर्व-त्रान्तर्गतो ण्यर्थः । कस्मै प्रयोजनाय । त्वा त्वां सुखमिच्छुकम् | युनक्ति योजयति । तस्मै सत्यव्रताचरणाय यज्ञाय । त्वा धर्मं प्रचारयितुमुद्योगिनम् । युनक्ति योजयति । कर्मणे पूर्वोक्ताय यज्ञाय । वाम् कर्तृ कारयितारौ । वेषाय शुभगुणविद्या-व्याप्तये । वाम् अध्येत्रध्यापको ' इति, तदपि यत्किञ्चित् । श्रुतिसूत्रविरोधात् । सम्बुद्धिपदाध्याहारस्य अप्रामाणिकत्वात् । -५ - अनया कण्डिकया आगामिन्याः कण्डिकायाः सङ्गतिमुपदिशन्नयं महात्मा, अस्य समर्थकः विवरणकारोवा हिन्दीभाषायाम् — ' श्रेष्ठतम कर्मों का नाम ही यज्ञ है । उनमें भी सत्य ही सब से मुख्य है । यही जीवन का लक्ष्य है ' आदि ब्रुवाण: यज्ञशब्दस्य सत्यभाषणमर्थं स्वीचकार । यथाश्रुतं बथादृष्टं यथानुभूतं वा वाग्व्यवहारः सत्यमिति । यद्येष एव यज्ञः, हन्त दत्तजलाञ्जलिता स्यादन्येषां धर्मस्याङ्गभूतानाम् यमनियमादीनामिति । न वा सत्यभाषणार्थमृत्विगादि-सम्पत्तिरपेक्षिता । भगवान् रामभद्रस्तु प्रधान धर्म सत्यमङ्गीकृत्य तदितराण्यङ्गानि महता समारोहेण समर्थयमान आह रामायणे— १।६ ) ॥ ' सत्यं स्वधर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च । द्विजातिदेवातिथिपूजनश्व पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ ' इत्यादि स्वीकुर्वन् । श्रुतिसूत्रशास्त्राणि च पदे पदे विरुणद्धि अयं महात्मा निर्मूलं व्याचक्षाणः । ( वा ० सं०-४ – स्वामी दयानन्दजी ने उक्त मन्त्र का अर्थ इस प्रकार किया है - ' हे मनुष्य! सुखस्वरूप कौन है? किसने क्रिया का अनुष्ठान करनेवाले तुम्हें पुरुषार्थं करने में नियुक्त किया है? वह परमेश्वर ही विद्यादि शुभगुणों के ग्रहण करने में तुम जैसे विद्यार्थी अथवा विद्वान् को नियुक्त करता है । सुख के तुम इच्छुक हो इसलिये वह तुम्हें नियुक्त करता है । सत्यव्रताचरणरूप यज्ञ के लिये धर्म प्रचार का उद्योग करनेवाले तुमको वह नियुक्त करता है । क्योंकि तुम यज्ञ करनेवाले और करानेवाले हो । तथा शुभगुण विद्या के प्रचारार्थ अध्ययन और अध्यापन करते हो । ' किन्तु यह अर्थ करना भी निःसार है । क्योंकि श्रुति और सूत्र के अनुकूल यह अर्थ नहीं है । सम्बुद्धिपद का अध्याहार करने में भी कोई प्रमाण नहीं है । ५ - इस कण्डिका के साथ आगामी कण्डिका की सङ्गति बतानेवाले ये महात्मा अथवा इसके समर्थक विवरण-कार ने हिन्दीभाषा में लिखा है कि ' श्रेष्ठतम कर्मों का नाम ही यज्ञ है । उनमें भी ' सत्य ' ही सब से मुख्य है, यही जीवनका लक्ष्य । ' इस प्रकार कहनेवाले ने ' यज्ञ ' शब्द का अर्थ ' सत्यभाषण ' बताया है । यथाश्रुत, यथादृष्ट, यथानु-भूत वाग्व्यवहार को ' सत्य ' कहते हैं । यदि इसी को ' यज्ञ ' कहाजाय तो धर्म के अङ्गभूत अन्यान्य यमनियमादि को लाल ही देनी होगी । केवल सत्यभाषण के लिये ही ऋत्विजों का सम्पादन नहीं किया जाता । भगवान् रामभद्र ने तो प्रधान धर्म सत्य को अङ्गीकार करके उसके अन्यान्य अङ्गों का बड़े समारोह के साथ समर्थन रामायण में किया है । इस प्रकार पग - पग पर श्रुति सूत्र के साथ विरोध होने के कारण स्वामी दयानन्दोक्त व्याख्यान निर्मूल ही है ।
पृष्ठ 89
पाठ पढ़ें पाठ छिपाएँ
[ ७६ ] प्रत्यु॑ष्टॐ रतः प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒ ँ रच॒ नि॒ष्ट॑ता॒ अरा॑तयः । उर्वन्तरिक्षुमन्वैमि ॥ ७ ॥
- ( वा ० सं ० १1७ ) १ - प्रतपनं प्रत्युष्ट निष्टप्तमिति बा ' ( का ० श्री ० सू ० २ | ३ | ११ ) गार्हपत्येऽग्नौ प्रत्युष्टमिति मन्त्रेण वा शूर्पाग्निहोत्रहवण्योः प्रतपनं कुर्यादध्वर्युः इति सूत्रार्थः । रक्षः राक्षसजातिः । प्रत्युष्ट प्रत्येक दग्धम् । अनेन अग्निहोत्रहवणी शूर्पयोः प्रतपन्नेन अत्र स्थिता राक्षसा दग्धा इत्यर्थः । तथा अरातयः रातिः दानम् ( रा दाने ) । रातेः हविषो दक्षिणाया वा दानस्य प्रतिबन्धकाः अरातयस्ते -ऽपि प्रत्युष्टाः प्रत्येक ं दग्धाः । अन्यथा न यज्ञसाधनमित्यर्थः । शूर्पादौ निगूढं रक्षो निष्टप्त निःशेयेण तप्तम् सन्तप्तम् । अरातयश्च निष्टप्ताः । अनयोर्मन्त्रयोविकल्पः सूत्रेणोक्तः । ' गच्छत्युर्वन्तरिक्षमिति ' ( का ० श्री ० सू ० २ ३ १२ ) श्रवणस्य गार्हपत्यस्य पश्चिमदेशे युग - योक्त्र - वरत्रादिभि सर्वाङ्ग रूपेतं शकटमवस्थितं भवति । तत्प्रति अध्वर्युगच्छेत् उर्वन्तरिक्षमिति मन्त्रेणेति सूत्रार्थः । मन्त्रमुच्चरन् गच्छे-दिति यावत् । उरु विस्तीर्णम् अन्तरिक्षम् अवकाशम् अन्वेमि अनुसृत्य गच्छामि । गच्छतः पुरुषस्य अध्वर्योः पार्श्वयोरवस्थितं रक्षोऽनेन मन्त्रेण निराक्रियत इत्यर्थः । यद्यपि रक्षोभिराकुलमन्तरिक्ष तथा प्यनेन यजुषा उरु विस्तीर्णं कृत्वा अन्वेि प्रतिगच्छामि 1 । अत्र ब्राह्मणम् — ' अथ वाचं यच्छति । वाग्वै यज्ञोऽविक्षुब्धो यज्ञं तनवा इत्यथ प्रतपति प्रत्युष्ट ४, रक्षः प्रत्युष्टा अरातयो निष्टप्ता अरातय इति वा । ' ( श ० १।१।२।२ ) । यच्छति पदसन्निधानान्नियम्यमानैव वागिह विवक्षिता, तस्याश्च यज्ञसाधनत्वात् यज्ञसाधनतामुपपादयति-अविक्षुब्ध इति । वाङ नियमे हि चित्तविक्षोभहेतो वग्व्यवहारस्याभावात् तदैकाग्न्ये सति अविकलो यज्ञो यतः सम्पद्यते । अथ प्रतपतीति - शूर्पमग्निहोत्रहवणीं चेत्यनुषङ्गात्तदुभयमित्यर्थः । निष्टप्ता अरातय इतिवेति - विकल्पे खलु अष्टो दोषाः प्रसज्जन्ति । यथा हि ' व्रीहिभिर्यजेत यबैर्वा ' ( ) इति वाक्ये व्रीह्यनुष्ठानपक्षे यववाक्यस्य प्राप्त-प्रामाण्यत्यागः, अप्राप्ताप्रामाण्यस्वीकारः, पुनर्यवानुष्ठाने स्वीकृतात्रामाण्यस्य त्यागः त्यक्तप्रामाण्यस्वीकारश्चेति चत्वा-दोषाः । एवं व्रीहिवाक्येऽपि चत्वार इत्यष्टौ दोषाः समायान्ति तथाप्यत्र गत्यभावात् विकल्पः स्वीकार्य इत्युक्त भट्टाचार्यैः । १ - अध्वर्यु शूर्प और अग्निहोत्रहवणी का प्रतपन ' प्रत्युष्ट ' अथवा ' निष्टप्तं ' मन्त्र से करता है । शूर्प और अग्निहोत्रहवणी के प्रतपन से राक्षस जाति का प्रत्येक राक्षस दग्ध हो चुका तथा हवि और दक्षिणा के दान देने में प्रतिबन्ध ( अवरोध ) करनेवाले शत्रुओं में से प्रत्येक शत्रु भी दग्ध हो गये । अन्यथा वे दोनों यज्ञ साधन नहीं बनपाते । आदि में छिपकर बैठे राक्षस अच्छी तरह सन्तप्त हो गये और शत्रुगण भी उसी तरह सन्तप्त हो चुके । तदनन्तर गार्हपत्य के पश्चिमदेश में युग - योक्त्र - वस्त्रादि सर्वाङ्गों से युक्त अवस्थित शकट के प्रति अध्वर्यु ' ' उर्वन्तरिक्षम् ' मन्त्र को कहते हुए जाता है । विस्तीर्ण अन्तरिक्ष ( अवकाश ) की ओर वह मन्त्र बोलते हुए जाता है, जिससे जाते समय उस अध्वर्यु के दोनों ओर स्थित रहने वाले राक्षसों का निराकरण हो जाता है । यद्यपि अन्तरिक्ष प्रदेश राक्षसों से भरा रहता है, तथापि इस यजुर्मन्त्र से उस प्रदेश को विस्तीर्ण करता हुआ वह जाता है । इस प्रसङ्ग में शतपथ ब्राह्मण
पृष्ठ 90
पाठ पढ़ें पाठ छिपाएँ
[ ७७ ] यद्व्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते ॥ ' ( जै ० सू ० अ ० १२ पा ० ३ ) इह पुनर्वाशब्देन अधस्तादप्यनुकुष्टेन मन्त्रद्वयपाक्षिकत्वस्य श्रुत्यैवाभिधानात् नंकोऽपि दोषः । एतदर्थमेव च " एकार्थास्तु विकल्पेरन् समुच्चये ह्ययावृत्तिः स्यात्प्रधानस्य ' ( जै ० सू ० अ ० १२ पा ० ३ सू ० १० ) इति व्रीहियववदेव न्यायप्राप्तस्यापि विकल्पस्य वेति स्वशब्देनोपादनम् । वस्तुतस्तु ' मन्त्राणां सन्निपातितत्वादेकार्थानां विकल्पः स्यात् ' ( जै ० सू ० अ ० १२ पा ० ३ सू ० २६ ) इति सूत्रस्यायं विषयः । ' देवा • यज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्विभयाञ्चक्र स्तद्यज्ञमुखा देवैतन्नाष्ट्रा रक्षा स्थतोऽपहन्ति । ' ( श ० १।१।२।३ ) । मन्त्रकरणकतायै साध्यस्य निरासस्योपयोगसिद्धये निरसनीयानां प्रसक्तिमाह- देवा ह वा इति । असुररक्ष-सेभ्य इति षष्ठ्यर्थे चतुर्थी । तेषामासङ्गात् संसर्गाद् भीताः, विचारितवन्तः यत् तत् तस्मात् यज्ञमुखात् यज्ञप्रारम्भात् यज्ञप्रारम्भात् एव एतत् एतानि असुररक्षांसि नाष्ट्राः नाशयितुं शक्यानीति । अतः अस्मात् यज्ञमुखात् नाष्ट्राः सूर्यः प्रजाः, ताः रक्षांसि च अपहन्ति । ' अथ प्र'ति । उर्वन्तरिक्षमन्वे मीत्यन्तरिक्ष वा अनुरक्षश्चरत्यमूलमुभयतः परिच्छिन्न यथाऽयं पुरुषोऽमूल उभयतः परिच्छिन्नोऽन्तरिक्षमनुचरति तद् ब्रह्मणैवैतदन्तरिक्षमभयमनाष्ट्रं कुरुते । ' ( श ० १ | १ | २३४ ) । अथ प्रतीति - शूर्पाग्निहोत्रहवणी प्रतपनानन्तरं उर्वन्तरिक्षमिति मन्त्रेण हविनिर्वापार्थं शकटसमीपं प्रति प्रगच्छेत् । मन्त्रप्रयोजनमाह - अन्तरिक्ष वेति । यथा वृक्षो मूलैः पृथिवीमनुप्रविष्टस्तिष्ठत्येव न गच्छति, यथा व्याघ्रादि-रभितः पाशाभ्यां बद्ध्वा ध्रियमाणः, नैवं पुरुषो मूलवान् नाप्युभयतः केनचित्ससंगिणा प्रतिबद्धः किन्तु परिच्छिन्नः प्रति-बन्धकासंसृष्टः सन् अन्तरिक्ष विश्रम्भंचरति तथैव निर्वप्स्यमानविरादानार्थं रक्षोऽपि उक्तविशेषण विशिष्ट सत् तं निर्वस्यन्तं पुरुषमनुगच्छेत् अतस्तदेतत्पुरुषेण गम्यमानमन्तरिक्षप्रदेशे ' ब्रह्मणा ' उर्वित्यनेनैव मन्त्रेण ' अनाष्ट्रम ' हिंसा-काररहितम् अत एव अभयं कुरुते । उरु विस्तीर्ण प्रतिबन्धक रक्षो लक्षणमूर्त्तद्रव्यविरहादिति मन्त्रार्थः । २ - अध्यात्मपक्ष - हे आलोचनात्मकतपः परायणे ब्रह्मविचारपरायणे वा बुद्ध अथवा अनशनादितपः संसक्त-कहता है - ' अथं वाचं यच्छति ' इत्यादि विवक्षित है । क्योंकि वह नियमित वाणी भी यज्ञसाधन है । वाणी को नियमित कर देने से चित्त विक्षोभक वाग्व्यवहार नहीं हो पाता । तब चित्त की एकाग्रता होती है जिससे अविकल यज्ञ सम्पन्न पाता है । शूर्प और अग्निहोत्रणी के प्रतपन में वैकल्पिक्त दो मन्त्र बताये हैं । किन्तु विकल्प स्वीकार करनेपर आठ दोषों की प्रसक्ति होगी । जैसे ' व्रीहिभिर्यजेत यवैर्वा ' इस वाक्य से ' व्रीहि ' को स्वीकार करनेपर ' यववाक्य ' में प्राप्त रहनेवाले प्रामाण्य का त्याग, तथा अप्राप्त प्रामाण्य का स्वीकार करना होगा । और ' यव ' को स्वीकार करनेपर उस वाक्य में स्वीकृत अप्रामाण्य का त्याग, तथा परित्यक्त प्रामाण्य का स्वीकार – ये चार दोष होते हैं । उसी तरह व्रीहि-वाक्य में भी चार दोष प्राप्त होते हैं । ऐसी जगह कोई अन्य गति ( उपाय ) न होने से अगतिकगति होकर ' विकल्प ' को मानने की स्वीकृति श्रीकुमारिलभट्टपाद ने दी है । यहाँ तो ' वा ' शब्द के ग्रहण करने से उसका अनुकर्ष होता है, जिससे यहाँ मन्त्र विकल्प को श्रुति ही बता रही है । अतः कोई दोषावह नहीं है । इसी बात को बताने के लिये ही ' एकार्थास्तु विकल्पेरन् ', ( जै ० सू ० १२ | ३ | १० ) इस सूत्र से व्रीहि - यव के समान ही न्यायप्राप्त विकल्प को भी ' वा ' शब्द का उपादान करके बता दिया है । वस्तुत: ' मन्त्राणां सन्निपतितत्वात् ' ( जे ० सू ० १२।३।२६ ) इस सूत्र का यह विषय है । २ - अध्यात्मपक्ष में - आलोचनात्मक तपः परायण अथवा ब्रह्मविचार परावण हे बुद्धे! अथवा अनशनादितपः