वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 111–120

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 111–120

पृष्ठ 111

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 111 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७८ शुक्लयजुर्वेदसंहिता [ अ ० २३ सूत्रार्थः । लाजीनित्याद्यश्वदेवत्यं यजुः । लाजीन् लाजानां समूहो लाजीन् इत्युक्तः । शाचीन् सक्तूनां समूहः शाचीन् इत्युक्तः । सक्तवो ह्यतितरां शचीभिः कर्मभिर्निष्पाद्यन्त इति शाचीन इत्युच्यन्ते । यश्चायं यव्ये यवानां समूहो यव्यः तस्मिन् । गव्ये, गोविकारसमूहो दध्यादिर्गव्यः, तस्मिन् । हे देवाः! एतदन्नमत्त भक्षयत । दे प्रजापते! एतदन्नमद्धि भक्षय । येभ्योऽश्वः प्रोक्षितस्तद्रूपोऽश्वः सम्बोध्यते । अत्र ब्राह्मणम् --- ' तदाहुः । पराङ्वा एतस्माद्यज्ञ एति यस्य पशुरुपाकृतोऽन्यत्र वेदेरेतीत्येत स्तोतरनेन पथा पुनरश्वमावर्तयासि न इति वायुर्वै स्तोता तमेवास्मा एतत्परस्ताद् दधाति तथा नात्येति ' ( श ० १३।२।६।२ ) । अत्राश्वमेधीयाश्वस्य जलप्रदेशाद् देवयजनं प्रति प्रत्यावर्तनं स्पष्टमुक्तम् । एतेन दयानन्दीयं व्याख्यानमप-व्याख्यानमेवेति मन्तव्यम् । ' अप वा एतस्मात् | तेज इन्द्रियं पशवः श्रीः क्रामन्ति योऽश्वमेधेन यजते ' ( श ० १३।२।६।३ ) । ' वसवस्त्वाञ्जन्तु । गायत्रेण छन्दसेति महिष्यभ्यनक्ति तेजो वा आज्यं तेजो गायत्री तेजसी एवास्मिन् समीची दधाति ' ( श ० १३/२२६ ४ ) । ' रुद्रास्त्वाञ्जन्तु । त्रैष्टुभेन छन्दसेति वावाता तेजो वा आज्य-मिन्द्रियं त्रिष्टुप् तेजश्चैवास्मिन्निन्द्रियं च समीची दधाति ' ( श ० १३ २६ ५ ) | ' आदित्यास्त्वाञ्जन्तु | जागतेन छन्दति परिवृत्ता तेजो वा आज्यं पशवो जगती तेजश्चैवास्मिन् पशूंश्च समीचो दधाति ' ( श ० १३।२।६।६ ) । ' पत्न्योऽभ्यञ्जन्ति । श्रियै वा एतद्रूपं यत्पत्न्यः श्रियमेवास्मिस्तद्दधाति नास्मात्तेज इन्द्रियं पशवः श्रीरपक्रामन्ति ' ( श ० १३/२/६/७ ) | अश्वमेधयाजिनस्तेजः, इन्द्रियम्, पशवः श्रीश्वापक्रामन्ति । मन्त्रपूर्वक पत्नी कर्तृकाभ्यञ्जनेन तानि सर्वाणि नापक्रामन्तीति । महिष्याद्यास्तिस्रः पत्न्यो मन्त्रेण वस्वादिभावनया चाज्येनाश्वं यथाक्रममभ्य-ञ्जन्तीत्युक्तमेव । तथा च कात्यायनसायणादिव्याख्यानमेव समर्थ्यते ब्राह्मणवचनैः । ' यथा वै विषोऽहुतस्य स्कन्देत् । एवमेतत्पशोः स्कन्दति यस्य निक्तस्य लोमानि शीयन्ते यत्काचाना-वयन्ति लोमान्येवास्य सम्भरन्ति हिरण्मया भवन्ति तस्योक्तं ब्राह्मणमेकशतमेकशतं काचानावयन्ति शतायुर्वे पुरुष आत्मैकशत आयुष्येवात्मन् प्रतितिष्ठति भूर्भुवः स्वरिति प्राजापत्याभिरावयन्ति प्राजापत्योऽश्वः स्वयैवैनं देवतया समर्द्धयन्ति लाजी ३ ञ्छाची ३ न्यव्ये गव्य इत्यतिरिक्तमन्नमश्वायोपावहरति प्रजामेवान्नादी कुरुत एतदन्नमत्त देवा एतदन्नमद्धि प्रजापत इति प्रजामेवान्नाद्येन समर्द्धयति ' ( श ० १३२२ | ६ | ८ ) । पशोर्निक्तस्येति प्रथमास्थाने छान्दसी षष्ठी । यस्य लोमानि शीयन्ते सदृशानने पतन्ति यस्य काचान् मणीनावयन्ति आबध्नन्ति । लोमान्येवास्य भरन्ति । अत्र काचपदेन मणयो ग्राह्मा: । ' हिरण्मयोऽश्वस्य शासो भवति ज्योतिर्वे हिरण्यं राष्ट्रमश्वमेधो ज्योतिः ' ( श ० १३ २/२/१६ ) इत्यादिब्राह्मगवचनात् । मणीनामासञ्जनेन लोमान्येवास्य सम्भरन्ति । एकैका पत्नी एकशतमेकशतं मणीनावयति । केसरपुच्छेषु भूर्भुवः स्वरित्येताभिर्व्याहृतिभिर्यथासंख्यम् । प्रथमया व्याहृत्या महिषी, द्वितीयया वावाता, तृतीयया परिवृक्ता । अनुचरी तु तूष्णीमेव । एकैकशतमणीनां बन्धनेन एकशतवत्सरान् स्वात्मन आयुषि प्रतिष्ठापयति यजमानः । अतिरिक्तमन्नमाज्यसक्तुलानात्मकं रात्रिहुतशेषमश्वायोपावहरति, अश्वस्य भक्षणार्थं तत्समीपमाहरति । यथा स भक्षयेत् तथा ढोकयति । भक्षणा-भावे जलप्रक्षेप उक्त एव । स्पष्टमन्यत् । अध्यात्मपक्षे -- हे अश्व गतिशील जीवात्मन् वसवो देवास्त्वां गायत्रेण छन्दसा अञ्जन्तु स्नेहयन्तु, रुद्रा एकादश त्रैष्टुभेन छन्दसा, आदित्या द्वादश जागतेन छन्दसा त्वा त्वामञ्जन्तु स्नेहयन्तु संस्कुर्वन्तु । भूर्भुवः स्वरिति महाव्याहृतिभि पूर्वोक्ता देवास्त्वां संस्कुर्वन्तु । संस्कृतो जीवो देवान् प्रजापति च तर्पयति । देवा लाजीन लाजानां समूहान् शाचीन् सक्तूनां समूहांच यव्ये यवमयसमूहान् गव्ये गोविकारसमूहान् एतदन्नम् एतान् भवतां भक्षणीयान् पदार्थान् अत्त भक्षयत । हे प्रजापते! एतदन्नमद्धि भक्षय ।

पृष्ठ 112

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 112 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ८-११ ] वेदार्थ पारिजातभाष्यसहिता ७ ९ दयानन्दस्तु - ' हे प्रजापते! वसवः प्रथमकल्पा विद्वांसो गायत्रेण छन्दसा , आदित्या गायत्री छन्दोवाच्येनार्थेन उत्तमा विद्वांसो यन्त्वाञ्जन्तु कामयन्ताम्, रुद्रा मध्यकल्पा विद्वांसस्त्रैष्टुभेन छन्दसा यन्त्वाञ्जन्तु जागतेन च्छन्दसा यन्त्वाञ्जन्तु स त्वमेतदन्नमद्धि । हे देवाः, यूयं यव्ये यवानां क्षेत्रे जातम्, गव्ये गोविकारे एतदन्नमत्त । लाजीन् स्वकक्षायां चलितान् शाचीन् व्यक्तान् भूर्भुवः स्वर्लोकान् प्राप्नुत च ' इति, तदपि निरर्थक-मेव, अव्यापारेषु व्यापारत्वात् वस्वादिपदानां तादृशार्थताया निर्मूलत्वात् । न च छन्दसां कश्वनाथ भवति, छन्दोविशिष्टानां मन्त्राणामेवार्थसम्भवात् । न च छन्दः शब्दोऽर्थपरः अर्थानां गायत्र्यादित्वानुपपत्तेः । कामनायां च गायत्र्यादीनां कीदृशः सम्बन्धः? इत्यस्यापि वक्तव्यत्वात्, कामनायाश्च फलं वक्तव्यम् | यं, स, त्वम् इत्यपि निर्मूलम्, मूले तादृशपदाभावात् । लाजानित्यस्य स्वकक्षायां चलितानिति कथमर्थः? भूरादीनां चलनं चाप्यसिद्धम्, तस्य खण्डितत्वात् ॥ ८ ॥

कः स्विदेकाकी च॑रत॒ क उ॑ स्विज्जायते पुनः ।

कि स्विद्धमस्य॑ भेष॒जं किं वा॒वप॑नं महत् ॥ ९ ॥

मन्त्रार्थ- - यूप के दक्षिण में उत्तरमुख होकर ब्रह्मा यूप के उत्तर में दक्षिणमुख होता से पूछे कहो कोन rer वचरता f है? कहो कौन फिर प्रकाश पाता है? कहो हिम को औषध क्या है और बड़ा क्षेत्र फौन है? ॥ ९ ॥

' ब्रह्मा पृच्छति होतारं यूपमभितः कः स्विदेकाकीति ' ( का ० श्रौ ० २०/५/२० ) । यूपस्य दक्षिणत उदङ्मुखो ब्रह्मा यूपस्योत्तरतो दक्षिणामुखं होतारं पृच्छेत् कः स्विदेकाकी चरतीति सूत्रार्थः । ब्रह्मोद्ये कर्मणि होतुर्ब्रह्मणश्र्व प्रश्नप्रतिप्रश्नभूताश्चतस्रोऽनुष्टुभ इति चतस्रः सहैव व्याख्यायन्ते । स्विदिति वितर्के । एकाकी असहायः कः चरति गच्छति । उ इति पादपूरणः । कः स्वित् विनष्टः सन् पुनर्जायते उत्पद्यते । किं स्विद् हिमस्य शीतस्य भेषजम् औषधम् । किं स्विद् महद् आवपनम् आसमन्ताद् उप्यते यस्मिंस्तद् आवपन-स्थानम् ॥ ९ ॥

सूर्ये एकाकी च॑रति अ॒ग्निमस्य॑ भेष॒जं

च॒न्द्रमा॑ जाय॑ते॒ पुन॑ः ।

-भूमि॑रावप॑नं म॒हत् ॥ १० ॥

मन्त्रार्थ - प्रश्नों का उत्तर इस प्रकार है - सूर्य, ज्योतिस्वरूप ब्रह्म अद्वितीय होकर सर्वत्र व्याप्त है, वह अकेला । अपनी धुरी पर घूमता है । चन्द्रमा पुनः पुनः प्रकाश पाता है अथवा मन बार बार नवीन होकर प्रकाशित होता है अग्निम की औषध है । ज्ञानाग्नि से अज्ञानरूपी हिम दूर होता है और भूलोक कर्मबीज के बोने का बड़ा क्षेत्र है ॥ १० ॥

' सूर्य ' इत्याचष्टे ' ( का ० श्र ० २०१५।२१ ) । होता ब्रह्माणं प्रति सूर्य इत्याद्यचमुत्तरयतीति सूत्रार्थः । ब्रह्माणं प्रति होतुरुक्तिः - सूर्यः एकाकी असहायो गच्छति । अनया प्रथमयोक्त्या होतृब्रह्माणी यजमाने ब्रह्मवर्चसम् चन्द्रमाः क्षीणः सन् पुनर्जायते वर्धतेऽनया द्वितीययोक्त्या आयुः, अग्निहिमस्य शीतस्य भेषजमनया तृतीय-योक्त्या तेजः, भूमिरयं लोको महदावपनमित्यनया चतुर्थोक्त्या प्रतिष्ठां च धत्तः ॥ १० ॥

का स्विदासीत् पूर्व चित्ति॒ कि स्विदासीद् बृह॒द्वर्यः -का स्विदासीत् पिलिप्पिला का स्विदासीत् पिशङ्गिला ॥। ११ ॥

पृष्ठ 113

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 113 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८० शुक्लयजुर्वेदसंहिता [ अ ० २३ मन्त्रार्थ - होता पुनः प्रश्न करता है - पूर्व स्मरण का विषय कौन था? बहुत उड़ने वाला अथवा स्वर्गपर्यन्त पहुँचा हुआ कौन था? लक्ष्मी कौन थी? और रूप को निगलने वाली कौन थी? ॥। ११ ॥ ' होता ब्रह्माणं का स्विदासीदिति ' ( का ० श्र ० २०।५।२२ ) । होता ब्रह्माणं पृच्छेत् का स्विदासीदिति सूत्रार्थः । तुर्ब्रह्माणं प्रति प्रश्नः - पूर्वचित्तिः पूर्वं चिन्त्यत इति पूर्वचित्तिः सर्वेषां प्रथमस्मृतिविषया का स्विदा-सीत् । किं स्विद् बृहद् महद् वयः पक्षी आसीत् । पिलिप्पिला चिक्कणा मृद्वी च का स्विद् आसीत् । पिशङ्गिला पिशं रूपं गिलतीति पिशङ्गिला का स्विद् आसीत् ॥ ११ ॥

द्यौरा॑सीत् पू॒र्वचि॑त्त॒रश्व॑

आसीद् बृ॒ह॒द्वय॑ः ।

१२ ॥

अविरासीत् पिलिप्पिला रात्रिरासीत् पिशङ्गिला ॥

मन्त्रार्थ - ब्रह्मा का उत्तर --- सब प्राणियों को अभीष्ट, वृष्टि का दाता द्युलोक प्रथम स्मरण का विषय था । अश्वमेध यज्ञ स्वर्गपर्यन्त पहुँचाने वाला है । सबकी रक्षा करने वाली पृथ्वी ही लक्ष्मी है । महामोह रूप वाली रात्रि ज्ञानमय रूप को निगल जाती है ॥ १२ ॥

' द्यौरिति प्रत्याह ' ( का ० ० २०१५।२३ ) | ब्रह्मा प्रश्नान् व्याकरोति द्यौरासीदित्यादीति सूत्रार्थः । ब्रह्मा होतारं प्रत्युत्तरयति - द्यौरित्यादि । पूर्वचित्तिः पूर्वस्मरणविषया द्यौर्वृष्टिरासीत् । द्योशब्देनात्र वृष्टि-लक्ष्यते सर्वप्राणिनामिष्टत्वात् । अवो बृहद्वय आसीत् । अश्वशब्देनात्र अश्वमेधो वयसेव स्वर्ग लोकमारो -हतीत्यश्वमेधो वयः | अविर् अवतीत्यविः पृथिवी । ' सर्वधातुभ्य इन् ' ( उ ० ४।११८ ) इति साधुः । पिलिप्पिलां चिकूणा मृद्वी च । वृष्टया भूः विद्यमाना पिलिप्पिला भवति । रात्रिः पिशङ्गिला आसीत् । पिशमिति रूपनाम | पिशं रूपं गिलतीति पिशङ्गिला रात्रिः । रात्रिह सर्वाणि रूपाणि गिलति स्वात्मसात्करोति, अदृश्यानि करोतीति यावत् । अथवा पिंशति अवयवान् करोतीति पिशङ्गः, तरत्यादेराकृतिगणत्वात् ' तरत्यादिभ्यश्च ' ( उ ० १।१२० ) इत्यङ्गच् । पिशङ्गमिलति क्षिपति स्वात्मसात्करोतीति पिशङ्गिला । ' इल स्वप्नक्षेपणयो ' इति तौदादिकः । अत्र ब्राह्मणम् — ' अप वा एतस्मात् । तेजो ब्रह्मवर्चसं क्रामति योऽश्वमेधेन यजते होता च ब्रह्मा च ब्रह्म वदत आग्नेयो वै होता बार्हस्पत्यो ब्रह्मा ब्रह्म बृहस्पतिस्तेजश्चैवास्मिन् ब्रह्मवर्चसं च समीची धत्तो यूपमभितो वदतो यजमानो वै यूपो यजमानमेवैतत्तेजसा च ब्रह्मवर्चसेन चोभयतः परिधत्तः ' ( श ० १३ / २ / ६ / ९ ) । यश्वमेधेन यजते एतस्मात्तेजो ब्रह्मवर्चसं चापक्रामति । यजमाने पुनस्तेजसो ब्रह्मवर्चसस्य चाधानाय ब्रह्मोद्य कर्म विहितम् । ब्रह्मणि वेदे वदनं ब्रह्मोद्य प्रश्नप्रतिवचनात्मकम् । होता च ब्रह्मा च ब्रह्मोद्यं वदतः । आग्नेयः, अग्नेरधिदेवात्मकस्याधिष्ठेयो होता । बार्हस्पत्यो बृहस्पतेरधिदेव भूतस्याधिष्ठेयो ब्रह्मा । ब्रह्म बृहस्पतिः । ततश्च तेजश्च ब्रह्मवर्चसं च समीची धत्तः । यूपो वै यजमानः । तौ चोभयतो यजमानमेव तेजसा ब्रह्मवर्चसेन परिधत्तः समर्धयतः । ' कः स्विदेकाकी चरतीति । असौ वा आदित्य एकाकी चरत्येष ब्रह्मवर्चसं ब्रह्मवर्चसमेवास्मिंस्तद्धत्तः ' ( श ० १३ | २ | ६ | १० ) । ब्रह्मा पृच्छति होतारम् - कः स्विदेकाकी चरतीति । असौ वा आदित्य एकाकी असहाय-वरतीति प्रतिवचनार्थः । प्रश्नप्रतिवचनान् विवृणोति - असौ वा आदित्य एकाकी चरति, तेन सह अन्यस्य कस्यचिददर्शनात् । एष ब्रह्मवर्चसम् एतेन ब्रह्मोतारौ यजमाने ब्रह्मवर्चसमेव धत्तः । क उ स्विज्जायते पुनरिति । चन्द्रमा वै जायते पुनरायुरेवास्मिंस्तद्धत्तः ' ( श ० १३ | २ | ६ | ११ ) | पूर्ववत् प्रश्नोत्तरविवृतिः । चन्द्रमा वै नष्टः कलाभिः क्षीणः सन् पुनर्मासान्तरे कलावृद्धया जायते । तादृशप्रश्नप्रतिप्रश्नाभ्यां तौ ब्रह्महतारी

पृष्ठ 114

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 114 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १२-१३ ] वेदार्थपारिजातभाष्यसहितां ८१ अस्मिन् यजमाने आयुरेव धत्तः । ' कि स्विद्विमस्य भेषजमिति । अग्निर्वै हिमस्य भेषजं तेज एवास्मिस्तद्धत्तः ' ( श ० १३ | २ | ६ | १२ ) । अग्निर्वै हिमस्य भेषजमिति प्रश्नप्रतिप्रश्नाभ्यामस्मिन् यजमाने तेजो धत्तः । किं वा-ari महदिति । अयं वै लोक आवपनं महदस्मिन्नेव लोके प्रतितिष्ठति ' ( श ० १३ | २ | ६ | १३ ) । अस्मिन्नेव लोके प्रतितिष्ठति प्रश्नप्रतिवचनाभ्यामाभ्यामिति । ' का स्विदासीत् पूर्वचित्तिरिति । द्यौर्वै वृष्टिः पूर्वचित्तिदिवमेव वृष्टिमवरुन्धे ' ( श ० १३।२।६।१४ ) । ' का स्विदासीत् पूर्वचित्तिरिति होता ब्रह्माणं पृच्छति ' इति शाखान्तरात् । द्यौर्वैवृष्टिहेतुः । ततश्च राष्ट्रोपकाराय दिवं वृष्टिमेवावरुन्धे यजमानः, आभ्यां प्रश्नप्रतिवचनाभ्यामिति यावत् । ' कि स्विदासीद् बृहद्वय इति । अश्वो वै बृहद्वय आयुरेवावरुन्धे ' ( श १३ | २ | ६ | १५ ) । अश्वो वै बृहद्वयः, महान् पशुरिति ब्रुवद्भयां शब्दसामान्याद् महद्वयः शतार्धकमायुर्यजमानोऽवरुन्धे । ' का स्विदासीत्पिलि-प्पिलेति । श्री पिलिप्पिला श्रियमेवावरुन्धे ' ( श ० १ ३ २ ६ १६ ) | श्री पिलिप्पिला । रूपानुकरणशब्दोऽयं बहुरूप विलासोद्योतनवती श्रीः । मन्त्रे तु अविः पिलिप्पिला उक्ता । सा तु श्रीरेवेति ब्राह्मणे विवृतम् । कथमियं वै अविः पृथिवी । सा च श्रीः, ' श्रीर्वा इयम् ' इति शाखान्तरवचनात् । ' का स्विदासीत्पिशङ्गिलेति । अहोरात्रे वै पिशङ्गिले अहोरात्रयोरेव प्रतितिष्ठति ' ( श ० १३।२६।१७ ) | अहोरात्रे वै पिशङ्गिले इति मन्त्रे रात्रिग्रहणेनैव अहरपि संगृहीतमिति दर्शयति । ततश्च एताभ्यां प्रश्नप्रतिवचनाभ्यामहोरात्रयोर्यजमानः प्रतितिष्ठति, उभयोरपि राज्यं करोतीत्यर्थः । अध्यात्मपक्षे - सूर्यश्चिदादित्यः, एकाकी चरति सजातीयविजातीयस्वगतभेदशून्यः सन् मायया प्रपञ्चात्मना चरति । चन्द्रमाः सोमात्मिका महाशक्तिः षोडशी, पञ्चदशसु कलासु क्षीणासु क्षीयत इव मासान्तरे कलासु वर्धमानासु पुनर्जायत इव षोडश्या एव नित्यसिद्धत्वात् । हिमस्य शीतस्य जडतया अग्निश्चैतन्यमेव भेषजम्, तेजस उद्रेके शीतस्येव चैतन्यस्योद्रेके जडताया अपाकरणात् । भूमिः प्रकृतिरेव महत् सर्वोत्कृष्टमावपनस्थानम्, तत एव प्राकृतभूम्यादेरपि सम्भवात् । पूर्वचित्तिः सर्वप्राचीना स्मृतिः केति प्रश्नस्योत्तरम् - द्यौरासीत् पूर्वचित्तिरिति । द्योतनात्मिकायाश्चित एव सर्वपूर्वत्वात् सैव सर्वपूर्वस्मृतिविषया । किं स्विदासीद् बृहद्वय इति प्रश्नस्योत्तरम् -- अश्व आसीद् बृहद्वय इति । अश्नुत इत्यश्वः परमात्मैव बृहद्वयो महान् पक्षी, ' द्वा सुपर्णा सयुजा सखाया ' ( ऋ ० सं ० १।१६४ / २० ) इति श्रुतेः, जीवात्मपक्षिणोऽल्पत्वेऽपि परस्य व्यापकत्वेन महत्त्वात् । का स्विदासीत्पलिपिलेति प्रश्नस्य प्रतिवचनम् - अविरासीत्पिलिप्पिलेति । अवतीत्यविः । चितिरेव मायया भक्त्या स्निग्धा सती पिलिप्पिला चिक्कणा मृद्वी जायते । का स्विदासीत्पिशङ्गिलेत्यस्योत्तरम् - रात्रिरासीत्प-शङ्गलेति । रात्रिः प्रकृतिविशिष्टा चितिः सर्वकारणभूता, सैव सर्वाणि रूपाणि प्रलयकाले स्वात्मनि प्रविलापयन्ती पिशङ्गला भवति । दयानन्दस्तु – ' हे विद्वांसः! कः स्विदेकाकी चरति? किमु आवपनं महदस्तीति पृच्छामः । हे जिज्ञासवः! सूर्यः सविता एकाकी स्वकक्षायां चरति । चन्द्रमाः चन्द्रलोकः पुनः प्रकाशितो जायते । अग्निः पावको मस्य भेषजम् ' इति, तदपि यत्किञ्चित् ब्रह्मोत्रोर्ब्रह्मोद्यवदनबोधकश्रुतिविरोधात् सूर्याकर्षणा सिद्धेश्व । ' हे विद्वांसः! वयं युष्मान् प्रति का स्वित् पूर्वचित्तिरित्यादि पृच्छामः । हे जिज्ञासवः पूर्वचित्तिः प्रथमस्मृतिविषया दिव्यगुणप्रदा वृष्टिः । अश्वो योऽश्नुते मार्गान् सोऽग्निः । बृहद्वयो यो वेत्ति गच्छति स वयः, अवि: रक्षणादिकर्त्री पृथिवी पिलिप्पिला पिशङ्गिला रात्रिरासीदिति यूयं बुध्यध्वम् ' इति, तदपि यत्किञ्चित्, अश्वस्य मार्गव्यापित्वेऽप्यग्नेस्तदनुपपत्तेः, प्रकाशस्यैव रात्रिनाशकत्वेन रात्रः प्रकाशनिराकरणायोगात् ॥ १२ ॥

वा॒युष्ट्वा॑ च॒तैर॑व॒त्वसि॑तग्रोव॒श्छागैन्यग्रोध॑श्चम॒सैः श॑म॒लिर्वृद्धया॑ । ए॒ष स्य राथ्यो वृषा॑ प॒‌द्भिश्च॒तुभि॒रेद॑गन् ब्रह्माऽकृष्णश्च नोऽवतु नमोऽग्नये ॥ १३ ॥

११

पृष्ठ 115

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 115 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२ शुक्लयजुर्वेद संहिता [ अ ० २३ मन्त्रार्थ- --इस मन्त्र से अश्व का प्रोक्षण किया जाता है - हे अश्व! वायु पाकक्रिया के द्वारा तुम्हारी रक्षा करे, धूम से श्यामग्रीव अग्नि लागों के साथ, वट वृक्ष चमस रूप से, सेमल वृक्ष अपनी वृद्धि के समान तुम्हारी रक्षा करे, तुम्हें सब प्रकार से श्रेष्ठ बनावें । यह मनोरथदाता अश्राभिमानी देव हमारे मनोरथों की वर्षा करे । यह धर्म, अर्थ, काम और मोक्ष रूप चार चरणों से हमारे पास आवे । निर्मल ब्रह्मा हमारी रक्षा करें, हम अग्नि का नमन करते हैं ॥ १३ ॥

' अरवप्रोक्षणमद्भूयस्त्वा वायुष्ट्वेति ' ( का ० श्रौ ० २०।६।७ ) | ' अद्भूयस्त्वौषधीभ्यः ' ( वा ० सं ० ६।९ ) इति प्रकृतमन्त्रेण वायुष्ट्वेत्यारभ्य देवः सविता दधात्वित्यन्तेन कण्डिकाचतुष्टयेन अश्वाभिषेकेण चाश्वप्रोक्षणं करोतीति सूत्रार्थः । चत्वारि यजूंषि, अश्वदेवत्यानि । हे अश्व! वायुर्देवस्त्वा त्वां पचतैः पाकैः, अवतु रक्षतु । वायुसंयोगादग्निः शीघ्रं पचति । असितग्रीवः, असिता ग्रीवा यस्य धूमेनेत्यसितग्रीवोऽग्निश्छागै रजैस्त्वामवतु, ' अग्निर्वा असितग्रीवः ' ( श ० १३ | | ७१२ ) इति श्रुतेः । कृष्णग्रीव आग्नेयो रराटे ' ( वा ० सं ० २४ । १ ) इति वक्ष्यमाणत्वादश्वाङ्गेषु कृष्णग्रीवादयः पञ्चदश पर्यङ्गयाः पशवः सन्ति, तैरग्निरवत्वित्यर्थः । अश्वाङ्गेष्वा-लभ्यमानाः पर्यङ्गया अदृष्टद्वारा अश्वायोपकुर्वन्तीत्यर्थः । न्यग्रोधो वटवृक्षश्रमसः सोमपात्रैस्त्वामवतु । शल्मलि-वृक्षविशेषः स्वकीयया वृद्धया त्वामवतु, ' शल्मलिर्वनस्पतीनां वर्षिष्ठं वर्धते ' ( श ० १३ | २ | ७ | ४ ) इति श्रुतेः । किन, एष स्यः स एष वृषा सेक्ता अश्वो राथ्यो रथे साधुः, चतुर्भिः पड्भिः पद्भिः पादैरेव एदगन् आ इद् अगन् आगतः । ननु सर्वेऽपि चतुष्पादश्चतुर्भिरेव पादैर्गच्छन्तीति निरर्थकं चतुर्ग्रहणमिति चेन्न, अश्वस्त्रिभिः पादैस्तिष्ठति चतुभिर्गच्छतीति तत्र विशेषात् । तथा च श्रुतिः - ' तस्मादश्व स्त्रिभिस्तिष्ठस्तिष्ठत्यथ युक्तः सर्वैः पद्भिः सममायुते ' ( श ० १३ २२७/६ ) | आयुते आगच्छति । पदादेशस्य डान्तत्वं छान्दसम् । किञ्च, अकृष्णोऽविद्यमानं कृष्णं लाञ्छनं यस्मिन् सः, तथाविधो ब्रह्मा चन्द्रो नोऽस्मानवतु नोऽस्माकमश्वमवत्विति वा, ' चन्द्रमा वै ब्रह्मा कृष्णश्चन्द्रमस एवैनं परिददाति ' ( श ० १३२ | ७ | ७ ) इति श्रुतेः । नमोऽग्नये अग्नये नमस्कारोऽस्तु । विघ्ना-भावाय इयमग्नये नतिः । अत्र ब्राह्मणम् -'राजा वा एष यज्ञानां यदश्वमेधः । यजमानो वा अश्वमेध यजमानो यज्ञो यदश्वे पशून्नियुनक्ति यज्ञ एव तद्यज्ञमारभते ' ( श ० १३ | २ | २ | १ ) | राजेव राजा, अनुचरभूतानां तूपरादीनामग्रे सरस्वत्याः संस्कारातिरेकाच्च एष यज्ञानां यज्ञसाधनानां पशूनां यदश्वमेधः । यज्ञसाधनमश्वमेधः । अश्वः पशूनां राजेव राजत इत्यर्थः । ततश्च ' सेनामुखमेवास्यैतेन सः श्यति ' इत्यादिभी राजोपकरणैर्योक्ष्यते । यजमानो वा अश्वमेधः पशुर्यज्ञसाधनभूतो यज्ञसाधनत्वाद् यजमान एव । ततश्च यज्ञात्मकाद्यजमानादभिन्नत्वा-दश्वोऽपि यज्ञः, तूपरादयोऽपि यज्ञ इति कृत्वा यदश्वे पशून् कृष्णग्रीवादीन् नियुनक्ति, तद् यज्ञ कृष्णग्रीवात्मके यज्ञमश्वात्मकमारभते प्राप्नोति । उपकरणभूत उपकार्यभूतम् । ' अश्वं तूपरं गोमृगमिति एव । तान् मध्यमे यूप आलभते सेनामुखमेवास्यैतेन स श्यति तस्माद्राज्ञः सेनामुखं भीमं भावुकम् ' ( श ० १३।२ । 12 ) | तूपरमशृङ्गमजम् । गोमृगं मृगाकारं गामिति । एवमेव यथा निदर्शितान् तानिति, एतदः स्थाने । तदः प्रयोगः, एतान् मध्यमे यूपे आलभते । सेनामुखमेव अस्य अश्वस्य राजभूतस्य । एतेन रूपेण मध्यमे यूपे आलब्धानेतान् संश्यति संस्करोति, राजभूतमप्यश्वं सेनामुख एव करोतीत्यर्थः । ' कृष्णग्रीवमाग्नेय, रराटे पुरस्तात् । पूर्वाग्निमेव तं कुरुते तस्माद्राज्ञः पूर्वाग्निर्भावुकः ' ( श ० १३ | २ | २ | ३ ) | कृष्णग्रीवमजमग्निदेवत्यम् । रराटे ललाटे अवस्य यूपभूते उपायेनालभते नियुनक्ति । पुरस्ताद् अग्रतोऽश्वस्येत्यर्थः । ननु पूर्वस्यां दिशि पशूनां प्रत्यङ्मुखानां सामर्थ्यादेवालम्भे सति पूर्वस्यां दिश्यालम्भानुपपत्तेः पूर्वाग्निमेव तं कुरुत इत्यनुपपन्नमिति चेदत्राह — त्रेताग्नेर्यः पूर्वोऽग्निरावसथ्यरूपस्तमेवाश्वस्य राजभूतस्य पूर्वाग्निं कुरुते । तस्मात्तदनुकारेण राज्ञः

पृष्ठ 116

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 116 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१० १३ ] वेदार्थपारिजातभाष्यसहिता ८३ पूर्वाग्निः साधुर्भवति । तत्राहितस्य शान्तिकपौष्टिकाभिचारिकादीनि बहूनि कर्माणि क्रियन्ते । ' सारस्वतीं मेषीमधस्ताद्धन्वोः । स्त्रीरेव तदनुगाः कुरुते तस्मात् स्त्रियः पु ७ सोऽनुवर्त्मानो भावुकाः ' ( श ० १३ ।२ ॥४ ) । सारस्वतीं मेषीं हन्वोर्यूपभूतयोरुपायेनालभते । हन्वोहि मेष्यालम्भ्या । सा चाधस्तादेव भवति । स्त्रीरेव तत्तेन अनुगा अनुगामिनीः पुंसः कुरुते । तस्मात् स्त्रियः पुरुषस्यानुवर्तमानाः साधु भवन्ति । अनुवर्त्मत्वेन कृतानुकारता । अनुकारकारिणीत्यानुकूल्यं लक्ष्यते । ' आश्विनावधोरामौ बाह्वोः । बाह्वोरेव बलं धत्ते तस्माद्राजा बाहुबली भावुकः ' ( श ० १३ । २ । २ । ५ ) । बाह्वोर्बलमस्यास्तीति बाहुबली । ' नियुक्तेषु पशुषु । प्रोक्षणीरध्वर्युरादत्तेऽश्वं प्रोक्षिष्यन्नन्वारब्धे यजमान आध्वरिकं यजुरनुद्रुत्याश्व -मेधिकं यजुः प्रतिपद्यते ' ( श ० १३।२ | | ७ १ ) । नियुक्तेषु पशुषु । अन्वारब्धे यजमाने । आध्वरिकं प्रोक्षणयजुः ' अद्भूयस्त्वौषधीभ्यः ' ( वा ० सं ० ६ ९ ) इत्येतत् । अनुद्रुत्योच्चार्य | ' अश्व प्रोक्षणमद्भयस्त्वा वायुष्ट्वेति ' ( का ० श्र ० २०१६ | ७ ) इति सूत्रात् । सूत्रार्थस्तु पूर्वं दर्शितः । यजुरिति चैकवचनाच्चतस्रोऽप्येता मन्त्रकण्डिकाः वा ० सं ० २३।१३-१६ ) एकं वाक्यमिति दर्शयति वायुष्ट्वेति । ' वायुष्ट्वा पचतैरवत्विति । वायुरेवैनं पचत्य -सितग्रीवश्छागैरित्यग्निर्वा असितग्रीवोऽग्निरेवैनं छागैः पचति ' ( श ० १३ २०७२ ) । वायुरेवैनमश्वं पचति । अग्निमुपोद्बलयतीति ब्रुवन् पाकैर्वायुस्तावन्नित्येतमर्थं दर्शयति - अग्निर्वा असितग्रीव इति । धूममिश्रत्वात् स तथाविधः । स च एनं छागैः सह पचति । ' न्यग्रोधश्चमसैरिति । यत्र वै देवा यज्ञेनायजन्त त एतांश्चमसान् न्यौब्जंस्ते न्यञ्चोऽरोहंस्तस्मान्न्यचो न्यग्रोधा रोहन्ति ' ( श ० १३ | २ | ७ | ३ ) । न्यग्रोधः स्वकीयैश्चमसँः सोमाङ्गभूतैस्थावस्थिति मन्त्रार्थः प्रसिद्ध एवेति न व्याख्यातः । चरकाणां हि नैयग्रोधा रचमसाः पच्यन्ते । तेषु व सत्स्वस्वमालभते नात्स्विति । तानुपपादयन् न्यग्रोधाश्वमुपाकरोति । चमभवत्वं न्यग्रोधस्याह । कथं नाम देवचमसप्रकृतिकन्यग्रोधविकाराश्चमा संस्थन्ते? तत्राह न्यौब्जन् इति । ' उब्ज आर्जवे ' इति तदादिकस्य रूपम् । देवा एतां चमसान् अधोमुखांश्चक्रुरित्यर्थः । ते न्यवोऽरोहन् । तस्मान्न्यो न्यग्रोधा रोहन्ति । ' शल्मलिद्धयेति । शल्मलौ वृद्धि दधाति तस्माच्छलमलिर्वनस्पतीनां वर्षिष्ठं वर्धते ' ( श ० १७ | २ | ७ | ४ ) । शल्मलिरुपमानम् । वृद्ध्या त्वां चतुः संस्करोति । शल्मलिरिव कायतो वर्द्धस्वेति मन्त्रार्थः । नापसूदृद्धासु शल्मलिमुपाददानः शल्मलौ वृद्धि दधातीति गम्यते । तथा च रामाश्रमोऽमरकोषटीकायां वचनमेकमुद्दधार-' पष्टिर्वर्षसहस्राणि वने जीवति शाल्मलिः ' । शल्मलिरित्यपि । एष स्य राथ्यो वृषेति । अश्वेनैव रथ, सम्पा-दयति तस्मादश्वो नान्यद्रयाद्वहति ' ( श ० १३ | २ | ७ | ५ ) | राज्य:, रथे साधुः, रथाय हितो वा । राथ्य इत्युक्तेः श्वेतरथसम्पत्तिर्गम्यते । ' पभिश्चतुर्भिरेदगन्निति । तस्मादश्वस्त्रिभिस्तिष्ठंस्तिष्ठत्यथ युक्तः सर्वैः पद्भिः सममायुते ' ( श ० १३।७।६ ) | आयु आगच्छति । ' ब्रह्माकृष्णश्च नोऽवत्विति । चन्द्रमा वै ब्रह्माकृष्णश्चन्द्रमस एवैनं परिददाति नमोऽग्नय इत्यग्नय एव नमस्करोति ' ( श ० १३ २७७ ) । स्पष्टार्थं ब्राह्मणम् । अध्यात्मपक्षे हे अश्व! त्वां वायुः पचतैः पाकरूपैर्निष्ठादाढयैरवतु । असितग्रीवो नीलकण्ठः शिवश्छागै-छातैस्तनूकरणसाधनैर्बुद्धेः कुशाग्रतापादनेन अवतु । न्यग्रोधाधिष्ठातृदेवश्चमसैश्चमससम्बन्धिभिः सोमैस्त्वामवतु । शत्मत्यधिष्ठातृदेवो वृद्धया त्वामवतु । स एष राथ्यो शरीरलक्षणरथारूढो वृषा धनवर्षणशीलचतुभिः पद्भिः विश्वतैजस प्राज्ञतुर्यैः, आ इद् अगन् आगतः, संसारक्षेत्रेऽवतीर्ण इति यावत् । ब्रह्मा चन्द्रः परमेश्वरोऽकृष्णो लाञ्छनहीनो नोऽस्मानवतु । अग्नये परमात्मदेवाय नमोऽस्तु । ---दयानन्दस्तु - ' हे विद्यार्थिनः पचतैः परिपाकपरिणामैर्वायुरादिमः स्थूलकार्यरूपः, छागैश्छेदनैश्चमसैर्मेघ-न्यग्रोधो वटः, वृद्ध्या वर्धनेन शाल्मलिर्वृक्षविशेषस्त्वामवतु । य एष राथ्यो रथेषु हितस्तासु कुशलो वृषा वर्षक: स्यः स चतुभिः पड्भिः पादैरिदेव त्वागन् गच्छति । ब्रह्मा चतुर्वेदविद् अकृष्णोऽविद्यान्धकाररहितो नोऽस्मानवतु

पृष्ठ 117

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 117 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४ शुक्लयजुर्वेदसंहिता [ अ ० २३ प्रवेशयतु । अग्नये प्रकाशमानाय विदुषे नमोऽन्नं देयम् ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात्, स्वाभाविके कार्ये प्रार्थनानुपपत्तेः । प्राणात्मको वायुः परिपाकपरिणामैर्यत्करोति तत्करिष्यत्येवेति व्यर्थमेव तद्वचनम् । जडत्वाच्च तस्य तदनुपपन्नम् । क्रियाभिरसितग्रीवोऽग्निः कथमुपकरोतीत्यपि चिन्त्यम् । छेदनक्रियाकर्तृत्वं कथमग्नौ सम्भवति? वटो मेघैः कथं रक्षति? वृद्धया च शल्मलिः कथं रक्षिष्यति? जडानां प्रार्थना स्तुतिश्च तवापसिद्धान्त एव । कोऽयं राथ्यो यश्चतुभिः पद्भिर्विद्यार्थिनं प्राप्नोतीत्य स्पष्टमेव । अन्यान्यपि दूषणानि तथैवानि ॥ १३ ॥

सतो रश्मिना रथः संशितो सेर्शितो अ॒प्स्व॒प्सु॒जा ब्रह्मा

रश्मिना यः ।

सोम॑पुरोगवः ॥ १४ ॥

मन्त्रार्थ - रथ रश्मि से प्रशंसित होता है, अश्व लगाम से शोभित होता है, अश्व जल में शोभित होता है, ब्रह्मा सोम को आगे रखकर इसको स्वर्ग में पहुँचाता है ॥ १४ ॥

अश्वदेवत्याऽनुष्टुप् । रथो रश्मिना संशितो दर्शनीयतमः शोभनो भवति । रश्मिरश्वनियामिका लोहरूपा प्रग्रहरूपा रज्जुः ( लगाम इति भाषायाम् ), सम्पूर्वः श्यतिः शोभनार्थः, ' तस्माद्रथः पर्युतो दर्शनीयतमो भवति ' ( श ० १३।२७१८ ) इति श्रुतेः । ह्येोऽश्वो रश्मिना संशितः शोभितः । अप्सुजा अप्सु जायत इत्यप्पुजा अश्वः, अप्सु अद्भिः, विभक्तिव्यत्ययः संशितः शोभितः, ' अप्सुयोनिर्वा अश्व: ' ( श ० १३ / २ / ७१ ९ ) इति श्रुतेः । पुनः किम्भूतोऽश्वः, ब्रह्मा विभर्ता परिवृढो वा । पुनः कथम्भूतः? सोमपुरोगवः सोमः पुरोगवः पुरोगमोऽग्रगामी यस्य सः । सोमं पुरस्कृत्य स्वर्ग लोकं गच्छतीति यावत्, ' सोमपुरोगवमेवैन २७ " स्वर्गं लोकं गमयति ' ( श ० १३२ | ७ | १० ) इति श्रुतेः । अत्र ब्राह्मणम् -'स ४ शितो रश्मिना रथ इति । रश्मिनैव रथ " सम्पादयति तस्माद्रथः पर्युतो दर्शनीयतमो भवति ' ( श ० १३ | २ | ७१८ ) पर्युतः परिवेष्टितः, रज्जुभिः परितः प्रतिकृतः । स शितो रश्मिना हय इति । रश्मिनैवाश्व ७ सम्पादयति तस्मादश्वो रश्मिना प्रतिहृतो भूयिष् ४७ रोचते ' ( श ० १३ ( २२७१ ९ ) । ' स शितो अप्स्वप्सुजा इति । अप्सुयोनिर्वा अश्वः स्वयैवैनं योन्या समर्धयति ब्रह्मा सोमपुरोगव इति सोमपुरोगवमेवैन " स्वगं लोकं गमयति ' ( श ० १३ | २ | ७ | १० ) । अद्भिः संशितः आपश्चाश्वस्य योनिरित्यद्भिः संश्यति । स्वयैव योन्या संश्यति । पूर्व सोमः प्रदीयते पश्चादश्व इत्येतदभिप्रायमेतत् । अध्यात्मपक्षे - शरीररूपो रथो रश्मिना मनः प्रग्रहेण संशितः प्रतिकृतः शोभते । रश्मिना तेनैव मनः-प्रग्रहेण हय इन्द्रियसमूहः संशितो नियन्त्रितः शोभते । संशितोऽप्सु अद्भिः प्राणैः, ' आपोमयः प्राणः ' ( छा ० ६।५।४ ) इति श्रुतेः । विभक्तिव्यत्ययः । अप्सुजा अश्वः संशितो भवति । कीदृशोऽश्वः? ब्रह्मा विधाता सोमपुरोगवः सोमस्तदात्मकं मनः पुरोगवः पुरोगामी यस्य सः, मनोऽन्तरेन्द्रियसमूहस्य अकिञ्चित्करत्वात्, ' आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुविषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ' ( कठोप ० ११३ ) इति श्रुतेः । दयानन्दस्तु - ' यदि मनुष्येण रश्मिना किरणसमूहेन रथो रमणसाधनः संशितः सम्यक् सूक्ष्मीकृतः, रश्मिना योऽश्वः संशितः स्तुतः, अप्सु प्राणेषु जायमानः, सोमपुरोगव ओषधिगणबोध ऐश्वर्ययोगो वा पुरोगामी यस्य सः, ब्रह्मा महायोगी संशितः क्रियेत, तर्हि किं किं सुखं न लभ्येत ' इति, तदपि यत्किञ्चित्,

पृष्ठ 118

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 118 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १४-१६ ] वेदार्थपारिजातभाष्यसहिता ८५ । स्वाच्छन्द्यमूलकत्वात्, संशितः स्तुत इत्यस्य निर्मूलत्वात् धात्वर्थंविरोधात् शिष्टैस्तथा अप्रयुक्तत्वाच्च । किरणैरद्यापि रथो वा यानं वा संश्यति । यानस्य सूक्ष्मत्वापादनमन्यत्, सूक्ष्मया शिल्पविद्यया निर्माणमन्यत् इत्यस्य तथैव प्राणेषु प्राणवायुरूपेण सञ्चारी पवनो बाप्पो वेत्यादिकं तु मूढजनप्रतारणमेव । ४ सोमपुरोगव ॥ ओषधिबोध ऐश्वर्ययोगो वा कथमर्थः? ब्रह्मेति पदं महायोगिपरमपि कथमिति चिन्त्यम् ॥ स्व॒यं वाज॑स्त॒न्व॑ कल्पयस्व स्व॒यं य॑जस्व स्व॒यं जु॑षस्व । महिमा तेऽन्येन॒ न संनशै ॥१५ ॥

मन्त्रार्थ - हे अश्व! तुम अपने शरीर की यथायोग्य यथेच्छ कल्पना करो, स्वयं तुम हो यजन करो, स्वयं तुम ॥ १५ ॥

ही अपने इष्ट स्थान तक पहुँच जाओ । तुम्हारी महिमा दूसरों की महिमा से नष्ट नहीं हो सकती ' आश्वी विराट् । हे वाजिन्, स्वयं स्वयमेव तन्वं शरीरं कल्पयस्व, ' स्वयं रूपं , न कुरुष्व त्वदन्यो यादृशमिच्छसि यष्टास्तीति । ( ० १३ | २ | ७ | ११ ) इति श्रुतेः । स्वराज्यं तवास्तीत्यर्थः । अतः स्वयमेव यजस्व । यतस्ते तव महिमा स्वयं जुषस्व स्वयं चाभिरुचितं स्थानं सेवस्व, हविर्वा सेवस्व, तव प्रजापतिरूपत्वात् । ' सन्नश्यते ' इत्यत्र यको लोपेन अन्येन महिम्ना न सन्नशे न सन्नश्यते, अन्येन महिम्ना न व्याप्यत इति यावत् स्वयं जुपस्वेति । ' सन्नशे ' इति रूपं छान्दसम् । नशिरन्यत्रादर्शनार्थोऽप्यत्र व्याप्त्यर्थः । अतो ब्रवीमि स्वयं यजस्व स्वयं अत्र ब्राह्मणम् — ' स्वयं वाजिंस्तन्वं कल्पयस्वेति । स्वयं रूपं कुरुष्व यादृशमिच्छ्सीत्येवैनं तदाह तदाह यजस्वेति स्वाराज्यमेवास्मिन् दधाति स्वयं जुषस्वेति स्वयं लोकछ रोचयस्व | स्वयं यावन्तमिच्छ्सीत्येवैनं वाजिंस्तन्वं यजस्वेत्यत्र महिमा तेऽन्येन न सन्नश इत्यश्वमेव महिम्ना समर्धयति ' ( श ० १३ | २ | ७ | ११ ) इति ब्रुवन् अश्वमेव केवलं जिर्दानकर्मा । यः स्वयं ददाति स्वशरीरादि चेत्यभिप्रायः । महिमा तेऽन्येन न सन्नश महिम्ना समर्धयति । अध्यात्मपक्षे - हे वाजिन्, वाजिवत् संसरणशील जीवात्मन्! स्वयं तन्वं स्वरूपं यथेच्छं कल्पयस्व , ब्रह्मस्वरूपेण स्वयं यजस्व यज्ञदानादिकर्म कुरु स्वयं जुषस्व विषयान् सेवस्व । ते महिमा अन्येन महिम्ना न व्याप्यते तवानन्तत्वात् । दयानन्दस्तु -- ' हे वाजिन्, जिज्ञासो! स्वयं तन्वं कल्पयस्व समर्थयस्व, स्वयं यजस्व, सङ्गच्छस्व अनुपपत्तेः, स्वयं जुषस्व सेवस्व । यतस्ते महिमा अन्येन सह न सन्नशे सम्यग् नश्येत ' इति, तदपि यत्किञ्चित् अस्वारस्याच्च । तथाहि - यजेर्गत्यर्थताया निष्पत्तावपि इच्छार्थत्वानुपपत्तिः, स्वयंपदस्य ॥ स्वारस्यानुपपत्तिश्च महिमा न सन्नश इत्येतावतैवाभीष्टसिद्धा अन्येनेति पदस्य वैयर्थ्यापत्तेश्च ॥ १५

न वा उ॑ ए॒तत्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ २ ॥ इदे॑षि प॒थिभिः सुगेभिः ।

यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥ १६ ॥

देवताओं के मन्त्रार्थ - हे अश्व! तुम निःसन्देह नहीं मरते हो, कभी नष्ट नहीं होते हो, किन्तु सुगम मार्ग से सविता देवता तुमको भी पास वहाँ पहुँचते हो, जहाँ पुण्यात्मा निवास करते हैं । वे पुण्यात्मा जहाँ गये हैं, सबका प्रेरक वहीं स्थापित करे ॥ १६ ॥

1 च रिष्यसि आश्वी त्रिष्टुप् । हे अश्व, यत् त्वमस्माभिः संज्ञप्यसे यज्ञोद्देश्येन, एतत् त्वं न म्रियसे उ न इति निपात विनश्यसि विशस्यमानोऽपि आत्मनो नित्यत्वात्, देवोद्देश्येन संज्ञपनस्य स्वर्गहेतुत्वात् । वै गच्छसि , यत्र यस्मिन् पादपूरणार्थं । यत्सुगेभिः सुगैः साधुगमनैः पथिभिर्देवयानमार्गैर्देवान् इद् देवान् प्रति एषि

पृष्ठ 119

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 119 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६ शुक्लयजुर्वेदसंहिता [ अ ० २३ स्वर्गे सुकृतः साधुकारिणो नरा आसते तिष्ठन्ति यत्र ते सुकृतो ययुर्गताः, तत्र स्वर्गे सुखसाधनोपेते लोके सविता परमैश्वर्यशाली देवः परमात्मा त्वा त्वां दधातु स्थापयतु । अत्र ब्राह्मणम् ~~ ‘ न वा उ एतन्म्रियसे न रिष्यसीति । प्रश्वासयत्येवैनं तद्देवाँ २॥ इदेषि पथिभिः सुगेभिरिति देवयानानेवैनं पथो दर्शयति यत्रासते सुकृतो यत्र ते ययुरिति सुकृद्भिरेवैन, सलोकङ्करोति तत्र त्वा देवः सविता दधात्विति सवितैवैन ७ स्वर्गे लोके दधाति प्रजापतये त्वा जुष्टं प्रोक्षामीत्युपाश्वथोपगृह्णाति देवता-( श ० १३।२।७ ] १२ ) । ब्राह्मणेनानेनोक्तमेव मन्त्रव्याख्यानं समर्थ्यते । प्रजापतये त्वा जुष्टं प्रोक्षामीत्येनं देवतादेशः देशमस्मिन् कुरुते । उपांशु ब्रूयात् । क्रमार्थं चेदं वचनम् अप्राप्तत्वात् । आध्वरिकत्वाद्धि पूर्वमेवायं इत्यादिश्रुतेः । प्राप्नुयात् । उपांशुत्वं तु सर्वेषां यजुषां सिद्धमनुच्यते । ' उच्चैर्ऋचा क्रियते, उपांशु यजुषा ' अथोपगृह्णाति । आध्वरिकं यजुरनुत्येति वर्तते । प्राकृतं यजुः ' अपां पेरु: ' ( वा ० सं ० ६।१० ) इत्युच्चार्य ' अग्निः पशुः ' इत्याश्वमेधिकैर्यजुभिरुपगृह्णात्यभिघारयति । अध्यात्मपक्षे - हे जीवात्मन्, न वा उ नैव त्वं म्रियसे, न च रिष्यसि नश्यसि कर्मोपासनसमुच्चया-नुष्ठानेन यज्ञार्थं शास्त्रविधिनोपयुक्तस्त्वं देवानेव एष गच्छसि यत्र सुकृतः साधुकर्मकारिण आसते । यत्र ते युः, तत्र सविता त्वां दधातु प्रतिष्ठापयतु । दयानन्दस्तु --- ' हे विद्यार्थिनः यत्र ते सुकृत आसते, सुखं ययुः यत्र सुगेभिः पथिभिस्त्वं यत्किञ्चित् देवानेषि, यदु वर्तते, स्थितस्त्वं न म्रियसे न वै रिष्यसि ९ तत्रैव सविता देवो दधातु ' इति, तदपि विविधसङ्गतेः । तथाहि यत्रासते इत्यनेनैवाभीष्टसिद्धौ ययुरित्यस्य वैयर्थ्यापत्तिः । पन्था न च अपेक्षितः सुखं ययुरिति , तेषां तदन्वयः, मूले सुखशब्दाभावात् । न च दिव्यगुणानां दिव्यगुणवतां वा प्राप्तये सुगमः तत्प्राप्तिमार्गस्य च लोकसिद्धत्वात् । न च तदर्थं सवितृकर्तृकं प्रतिष्ठापनमप्यपेक्षितम् । तस्मात्सिद्धान्तानुसारि व्याख्यानमेव युक्तम् ॥ १६ ॥

अ॒ग्निः प॒शुरा॑स॒त्तेनोऽयजन्त॒ स ए॒तॅल्लो॒कम॑जय॒द्यस्मिन्न॒ग्निः स तें लोको भविष्यति॒ तं जेष्यसि पिबैता अपः । वायुः प॒शुरा॑स॒त्तेना॑ऽयजन्त॒ स एतँल्लो॒कम॑जय॒द्यस्मिन् वायुः स ते लोको भविष्यति तं जेष्यसि॒ि पिबैता अ॒पः | सूर्ये॑ प॒शुरा॑सत्तेना॑ ऽयजन्त॒ स एतँल्लोकम॑जय॒द्य-स्मि॒िन् सूर्यः स ते॑ लो॒को भ॑वष्यति॒ तं जु॒ष्या॑सि॒ पिबि॑ता अ॒पः ॥ १७ ॥

मन्त्रार्थ -- प्रोक्षणी को अव के मुख पर लगा कर इस मन्त्र का उच्चारण करें- अग्नि ने पशु का रूप धारण किया, उससे देवताओं ने यजन किया, उस अग्नि ने इस लोक को जीत लिया । जिस लोक में अग्नि का निवास है, हे अश्व! वह लोक तुम्हारा है, तुम उसको जीतोगे, इस जल का पान करो । वायु ने पशु का रूप धारण किया, उसके द्वारा यजन किया गया, उसने इस लोक को जीता । जिस लोक में वायु रहता है, वह लोक तुम्हारा होगा, उस लोक को तुम जीतोगे, इस जल को पियो । एक समय सूर्य ने पशु का रूप धारण किया, देवताओं ने उससे यजन किया, उसने इस लोक को जीत लिया । जिस लोक में सूर्य निवास करता है, वह तुम्हारा है, तुम उसे जीतोगे, इस जल को पियो । अभिप्राय यह है कि यज्ञ के निमित्त पशु बनकर अग्नि, वायु और सूर्य ने अपने अपने लोकों को जोता है, तुम भी इस यज्ञ में पशुत्व स्वीकार करो । इससे तुम भू आदि लोकों को जीतकर देवत्व प्राप्त करोगे ॥ १७ ॥

' उपगृह्णात्यां पेरुरग्निः पशुरिति ' ( का ० श्री ० २०१६ | ८ ) । अपां पेरुरिति षाष्ठेन प्राकृतेन मन्त्रेणाग्निः पशुरिति वैकृतेन च मन्त्रेणाश्वस्य मुखे प्रोक्षणीर्धारयेदिति सूत्रार्थः । हे पशो, त्वमपां पेरुः पानशीलोऽसि तत

पृष्ठ 120

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 120 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १७–१८ ] वेदार्थपारिजात भाष्यसहिता ८७ इदं पिब । आपो देवीर्देव्यः स्वदन्तु आस्वादयन्तु एनं पशुं यतो देवहविर्देवानां हविः पशुलक्षणं स्वात्तम् अद्भिः स्वादितं सत् शोभनं देवयोग्यम्, भूयादिति शेषः । अद्भिः प्रक्षालितस्य हविषो मेध्यत्वादिति भावः । एवंविधोऽर्थः यज्ञेऽग्निः प्राकृतस्य मन्त्रस्य । अग्निरिति प्रकृतकण्डिकायां त्रीणि यजूंष्यश्वदेवत्यानि । सृष्टिदेवानां पशुरासीत् । तेन अग्निरूपेण पशुना देवा अयजन्त । स चाग्निस्तत्र पशुभावमुपगतः सन् एतं पृथ्वीलोकमजयत् द्वे यजुषी । हे अश्व, यस्मिल्लोकेऽग्निविराजते, तं लोकं त्वं जेष्यसि, एताः प्रक्षिणीरपः पिब । अनयैव तवापि रीत्या ते भविष्यत व्याख्येये । वायुः पशुरासीत्, सूर्यः पशुरासीदिति । वायुलोकोऽन्तरिक्षम्, सूर्यलोकः स्वर्गः । इत्यर्थः । अग्निवायुसूर्या महान्तोऽपि पशुभावमासाद्यैव महत्त्वमाप्नुवन्तः । तस्मात् प्रशस्तः पशुभाव इति । भविष्यति अत्र ब्राह्मणम् -'अग्निः पशुरासीत् । तेनायजन्त स एतं लोकमजयद्यस्मिन्नग्निः स ते लोको तं जेष्यसि पिता अप इति यावानग्नेविजयो यावांल्लोको यावदैश्वर्यं तावांस्ते विजयस्तावांल्लोकस्तावदैश्वयं भविष्यतीत्येवैनं तदाह ' ( श ० १३ | २ | ७ | १३ ) | ' वायुः पशुरासीत् । तेनायजन्त स एतं लोकमजयद्यस्मिन् विजय- वायुः स ते लोको भविष्यति तं जेष्यसि पिबैता अप इति यावान् वायोर्विजयो यावांल्लोको यावदैश्वयं तावांस्ते स्तावांल्लोकस्तावदैश्वयं भविष्यतीत्येवैनं तदाह ' ( श ० १३ | २ | ७ | १४ ) | ' सूर्य: पशुरासीत् । तेनायजन्त स एतं लोकमजयद्यस्मिन् सूर्यः स ते लोको भविष्यति तं जेष्यसि पिबैता अप इति यावान् सूर्यस्य विजयो यावांल्लोको यावदैश्वर्यं तावांस्ते विजयस्तावांल्लोकस्तावदैश्वर्यं भविष्यतीत्येवैनं तदाह तर्पयित्वाश्वं पुनः संस्कृत्य प्रोक्षणीरितरान् पशून् प्रोक्षति तस्यातः ' ( श ० १३ | २ | ७ | १५ ) | विजयो विजितः, लोकः स्थानम् अतः , ऐश्वर्यमिच्छा- परं ब्राह्मणं नुविधानम् । पुनः संस्कृत्येति वचनमप्राप्तत्वात् तस्य प्रोक्षणीनां पुनः संस्कारस्य । अतः, तर्पयित्वाश्वम्, वक्ष्यत इति शेषः । ‘ अन्यैरेवैनं तत्पशुभिर्व्याकुर्वन्ति ' ( श ० १३ २३८ | १ ) इति, तदत्रापि द्रष्टव्यम् । पुनः संस्कृत्य प्रोक्षणीः, ताभिरितरान् पशून् प्रोक्षति, इति कर्तव्यमित्यर्थः । अध्यात्मपक्षे - हे अश्व जीवात्मन्, अग्निवायुसूर्याः पशव आसन्, तैर्देवा अयजन् । तस्मादेव ते तांस्ताँल्लोकानाप्नुवन् । देवतोद्देश्येन स्वात्मसमर्पणमेव पशुभावः । त्वमपि चेद्देहादिमोहं परित्यज्य देवतोद्देश्येन स्वात्मसमर्पणं करिष्यसि तदा तांस्ताँल्लोकानवाप्स्यसि । एता अपः पिब, एतानि कर्माणि आत्मसात्कुरु । दयानन्दस्तु - ' हे जिज्ञासो, यस्मिन् सोऽग्निः पशुर्दृश्य आसीत्, तेनायजन्त तेन त्वं यज , अतस्त्वमेव । यथा स विद्वान् यज्ञेन तेनैतं लोकं द्रष्टव्यमजयत्, तथैनं जय । तं चेज्जेष्यसि, तहि सोऽग्निस्ते लोको भविष्यति शोधिता अपः पिब । यस्मिन् स वायुः पशुरासीत् यस्मिन् स सूर्यः पशुरासीत् " " यदि त्वं तं जेष्यसि, तह सूर्यस्ते लोको भविष्यति ' इति, तदपि यत्किञ्चित्, पशुशब्दस्य पश्यतेनिष्पन्नत्वेऽपि द्रष्टव्यार्थे प्रमाणाभावात् ।, चतुष्पदप्राणिषु पशुशब्दप्रसिद्धेः । नहि ' घट चेष्टायाम् ' इति धातोर्निष्पन्नस्यापि घटशब्दस्य चेष्टार्थकता कथं तथाङ्गीकारे च असम्बद्धता, अस्पष्टार्थता च । यस्मिन्निति पदेन लोकश्चेद् गृह्येत, तर्हि तेन लोकेन, यजनमित्यनुक्तेः । नहि व्रीह्यादिवल्लोको यजनसाधनं भवति । सति च तथात्वे लोकस्य जेतव्यत्वानुपपत्तिः साधनस्यैव फलत्वायोगात् । यज्ञेन शोधिता अपः पिबेत्यपि निर्मूलम्, मूले तादृशपदाभावात् ॥ १७ ॥

प्रा॒णाय॒ स्वाहा॑ अपा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ । अम्बे अम्बिकेऽम्बालिके न मां नयति कश्च॒न । सस॑स्त्यश्व॒षः सुभद्रिकां काम्पीलवासिनम् ॥ १८ ॥

मन्त्रार्थ - प्रस्तुत मन्त्र से तीन आहुतियाँ दी जाती हैं । प्राण के निमित्त, अपान के निमित्त और व्यान के निमित्त ये श्रेष्ठ आहुतियां दी जा रही हैं । इनसे यज्ञीय पशु में प्राणों का आधान होता है । यह इसलिये किया जाता