वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 121–130
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 121–130
पृष्ठ 121
पाठ पढ़ें पाठ छिपाएँ
II शुक्लयजुर्वेदसंहिता [ अ ० २३ है कि जीवित पशु हो यज्ञ का साधन बन सकता है । अश्व का संस्कार करते हुए महाविद्या कहती है कि है अम्बे, अम्बिके और अम्बालिके! यह आत्मज्ञान रहित अश्व उस अविद्या का 1 जो कि कामरूपा स्त्री का भ्रममय रूप बनाकर महामाया से आवृत संसार में बसती है, आश्रय ग्रहण करके शयन करती है । कोई मुझ महाविद्या को उसके पास नहीं जाने देता ॥ १८ ॥
' परिपशव्ये हुत्वा प्राणाय स्वाहेति तिस्रोऽपरा: ' ( का ० श्र ० २०१६ | ११ ) | परिपशव्ये स्वाहा, देवेभ्यः स्वाहेति द्वे आहुती हुत्वा प्राणायेत्याद्यास्तिस्र आहुतीर्जुहोति । एकामश्वसंज्ञपनादौ चतस्रोऽन्त इति सूत्रार्थः । त्रीणि यजूंषि - प्राणाय स्वाहा, अपानाय स्वाहा, व्यानाय स्वाहा । आभिराहुतिभिरखं प्राणवन्तं करोति । ‘ वाचयति पत्नीर्नयन्नमस्तेऽम्ब इति ' ( का ० श्र ० २०।६।१२ ) । नेष्टा सर्वाः पत्नीः पशुशोधनाय पान्नेजनीहस्ताः पशून् प्रति नयन् नमस्ते आतानेति षाष्ठं प्राकृतं मन्त्रम्, ' अम्बे ' इत्याश्वमेधिकं च वाचयतीति सूत्रार्थः । अश्वदेवत्याऽनुष्टुप् । पत्न्यः परस्परं वदन्ति हे अम्बे, हे अम्बिके, हे अम्बालिके, नामान्येतानि । एभिर्नामभिस्ताः सम्बोया इत्यर्थः । केश्वन नरो मामश्वं प्रति न नयति न प्रापयति । मदगमने च अश्वकः कुत्सितोऽश्वः, पक्षपातित्वादकुत्सितोऽपीया कुत्स्यते, ससस्ति अन्यां परिगृह्य शेते । ' पस् स्वप्ने ' अदादिः । अत्र मन्त्रे ह्वादिः प्रयुक्तः । छन्दसि दृष्टानुविधिः । कामन्यामित्यपेक्षायामाह - सुभद्रिकामिति । कुत्सिता सुभद्रा सुभद्रा ताम् । ईयया अकुत्सितापि कुत्स्यते । काम्पीलवासिनीम्, काम्पीले नगरे वसतीति काम्पीलवासिनी, ताम् । काम्पीलवासिनीमिव सुरूपाम् । काम्पीलनगरे हि सुभगा सुरूपा विदग्धा विनीता कामिन्यो भवन्ति । rasi सुभगामादाय शयिष्यत इति मया गम्यते, न तु मां तत्र कश्चिन्नयतीति भावः । अम्बे अम्बिके इत्यत्र ' आपो जुषाणो वृष्णो वर्षिष्टेऽम्बेऽम्बालेऽम्बिके पूर्वे ' ( पा ० सू ० ६ । २ । ११८ ) इति प्रकृतिभावः । अत्र ब्राह्मणम्- ' देवा वा उदञ्चः । स्वर्ग लोकं न प्राजानंस्तमश्वः प्राजानाद्यदश्वेनोद यन्ति स्वर्गस्य लोकस्य प्रज्ञात्यै वासोऽधिवास " हिरण्यमित्यश्वायोपस्तृणन्ति यथा नान्यस्मै पशवे तस्मिन्नेनमधि संज्ञपयन्त्यन्यै-वैनं तत्पशुभिर्व्याकुर्वन्ति ' ( श ० १३ २० १ ) 1 देवा वा उद: यदश्वेनोदो यन्तीत्यनुवाद एव । देवाः स्वर्ग लोकं न प्राजानान् । तं स्वर्ग लोकमश्वः प्राजानात् । यस्मादश्वेनेष्ट्वा ऊर्ध्वगामिनः सन्तो देवा यन्ति, ततो वासोऽधिवासं हिरण्यमित्येतत् त्रयमश्वायोपस्तृणन्तीत्येतत्सम्बन्धार्थम् । वासो यदन्तर्द्धानायाम् | अधिवास यदाच्छादनायाप्यलम् । तच्च वास उपयस्तरणीयम् । तयोरुपरि हिरण्यम् । तस्मिंस्त्रये एनम् अधि उपरि संज्ञपयन्ति । अन्यैरेव एनमश्वं तत्पशुभिर्विलक्षणं तेभ्योऽधिकं कुर्वन्ति । एतेन च त्रयेण दर्भो न निवर्त्यते, भिन्नार्थत्वात् । एतद्धि तस्मिन्नेनमधि संज्ञपयन्तीति संज्ञपनार्थः, ' तद्यदेवास्य विशस्यमानस्य किञ्चित् स्कन्दति तदेतस्मिन् प्रतितिष्ठति ' ( श ० ३३८ | १ | १४ ) इति श्रुतेः । ' पश्चात्तृणमुपास्यति वर्षो वर्षीयसीति ' ( का ० श्री ० ६ | ५ | ४ ) । शामित्रस्य पश्चाद् हस्तस्थयोर्वेदितृणयोरन्यतरत् तृणं प्रागग्रं प्रक्षिपेदिति सूत्रार्थ: । ' घ्नन्ति वा एतत् पशुम् । यदेन संज्ञपयन्ति प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति प्राणानेवास्मिन्नेतद्दधाति तथा हास्यैतेन जीवतैव पशुनेष्टं भवति ' ( श ० १३ २८२ ) । ' संज्ञप्यमाने ' इति वचनात् परिपशव्यान्तराल इति प्राप्नोति । सूत्रकारस्तु - ' परिपशव्ये हुत्वा प्राणाय स्वाहेति तिस्रोऽपराः ' ( का ० श्र ० २० | ६ | ११ ) इत्याह । तस्याभिप्रायस्तु ' संज्ञप्यमाने ' इति ' वर्तमानसामीप्ये वर्तमानवद्वा ' ( पा ० सू ० ३।३।१३१ ) इत्येवं वर्तमानोपदेशोऽयमिति । कुतः? ' प्राणानेवास्मिन्नेतद्दधाति ' इति वाक्यशेषात् । उत्क्रान्तानां हि प्राणानां पुनविधानं युक्तम्, नानुत्क्रान्तानामिति हरिस्वामिनः । पुरोडाशादिषु यथा मन्त्रेण भावनया वा जीवनदानं क्रियते, तथैवात्राहुत्योत्क्रान्तप्राणस्याऽश्वस्य सप्राणत्वं सम्पाद्यते । तेन संस्कारविशेष एवायम्, न व्यावहारिकदृष्ट्या पशोः पुनर्जीवनं सम्पद्यते, तस्याङ्गानामुत्तरकर्मसु विनियोगदर्शनात् । ' अम्बे
पृष्ठ 122
पाठ पढ़ें पाठ छिपाएँ
म०१८-१९ ] वेदार्थपारिजातभाष्यसहिता ८ ९ अम्बिकेऽम्बालिके । न मानयति कश्चनेति पत्नीरुदानयत्यतैवैना एतदथो मेध्या एवैना: करोति ' ( श ० १३ | २ | ८ | ३ ) | उदानयतीति वचनाद् उदानकरण एष मन्त्रः प्रतिभाति । पूर्वोक्तकात्यायन सूत्रस्यायमभिप्रायः-' नमस्ते ' इति प्राकृतम् ' अम्बे अम्बिके ' इत्याश्वमेधिकं वाचयन् पन्नीरुदानयत्येष श्रुत्यर्थं इति । अत एव एना एतदिति । ' स्पर्धायां शब्दे च ' इति भौवादिकस्य लुङि ' अह्नत ' इति । मेध्यतामुच्चारयतश्चोपपन्नं वाचनमिति । अथो मेध्या मेधार्हा एव एनाः करोति, मन्त्रेण वाचनेनेत्यभिप्रायः । एतदपि वाचने लिङ्गम् । अध्यात्मपक्षे - प्राणाय प्राणाधिष्ठात्रे भगवते स्वाहा स्वात्मसमर्पणमस्तु | अपानाय स्वाहा अपानाधिष्ठात्रे, व्यानाय स्वाहा व्यानाधिष्ठात्रे देवाय स्वाहा स्वात्मनिवेदनमस्तु | बुद्धिराह - हे अम्बे, हे अम्बिके, हे अम्बालिके, अयं प्रजापति परमेश्वरं प्रति मा मां कश्चन न नयति । अश्वकः, अश्नुते व्याप्नोतीत्यश्वः परमेश्वरः कुत्सितो -श्वोऽश्वकः । प्रणयकोपेनेयवशादेषोक्तिः । बुद्धिः परमात्मानं कामयते । तत्प्राप्तयेऽहमहमिकया प्रवर्तमाना बुद्धयः परस्परं स्पर्धन्ते । स सुभद्रिकां काम्पीलवासिनीमिव सुरूपां काञ्चिदादाय ससस्ति शेते । सोऽन्यामपहाय Tha कामयेति कामना । ----दयानन्दस्तु - ' हे अम्बे मातः, हे अम्बिके पितामहि, हे अम्बालिके प्रपितामह, कश्वनाश्वको यां काम्पीलवासिनीं सुभद्रिकामादाय ससस्ति न मानयति, अतोऽहं प्राणाय प्राणपोषणाय स्वाहा सत्या वाक्, अपानाय स्वाहा व्यानाय स्वाहा च करोमि इति, तदपि यत्किञ्चित्, अम्बिकाऽम्बालिका शब्दयोस्तादृशार्थत्वे मानाभावात् । अश्वकशब्दस्याप्यश्वसदृशशीघ्रगामीति गौण एवार्थः, असत्यामनुपपत्तौ मुख्यार्थत्यागस्यायुक्तत्वात् । तथैव काम्पीलवासिनी सुभद्रिकामित्यनयोर्लक्ष्म्यर्थताऽपि चिन्त्यैव । कं सुखं पीलति बध्नातीति कम्पीलः, स एव काम्पीलः, तं वासयितुं शीलं यस्यास्तां लक्ष्मीमिति व्युत्पत्तिरप्यसङ्गतैव, लक्ष्म्याः सुखकामयितृविमुखत्वात्, सुखनिरपेक्षेष्वेव तत्प्रवृत्तेश्च । नयतेर्वशीकरणार्थतापि चिन्त्या । अपानायेत्यस्य हिन्दीव्याख्याने दुःखापाकरणा-येत्युक्तम् । व्यानाय सर्वशरीरव्यापिन आत्मने सत्ययुक्तां वाणीं करोतीत्यपि निर्मूलम्, तथार्थत्वे मानाभावात्, प्राणप्रसङ्गेनापानव्यानयोः प्राणविशेषयोरेव ग्रहणौचित्यात् ॥ १८ ॥
गणानां त्वा ग॒णप॑ति हवामहे प्रियाणां त्वा प्रि॒ियप॑तिधूं हवामहे निध॒नां त्वा॑ निधि-पतिं हवामहे वसो मम । आह्म॑जानि गर्भ॒धमा त्वम॑जासि गर्भधम् ॥ १ ९ ॥ मन्त्रार्थ- - यजमान की पत्नी अश्व को परिक्रमा करके अश्व के पास आकर कहती है कि हे अश्व के अधिष्ठात्री देव! प्रजापति परमात्मन्! मनुष्य आदि गणों ( समुदायों ) के अधिपति गणपति के रूप में विद्यमान आपका मैं आवाहन करती हूँ । संसार के सकल प्रिय पदार्थों से अधिक प्रिय होने के कारण अथवा सर्वोपरि रक्षक होने के कारण प्रिय पति के रूप में आपका आवाहन करती हूँ । विद्या आदि पोषणकारक सुखनिधियों के पति के रूप में विद्यमान आपका आवाहन करती हूँ । सबके प्राणरूप अथवा जिनमें सब प्राणी बसते हैं, ऐसे है वसु नामक परमात्मन् आपमेरे रक्षक बनिये, मैं गर्भधारण कराने वाले वीयं को अपने पति से प्राप्त करूँ । आप गर्भ को धारण कराने वाले वीर्य को पलोन्मुख रूप से प्रेरित करते हैं, अतः मेरे पति में भी उसे स्थापित कीजिये ॥ १ ९ ॥ ' अश्वं त्रिस्त्रिः परियन्ति पितृवन्मध्ये गणानां प्रियाणां निधीनामिति ' ( का ० श्र ० २०१६ | १३ ) । सर्वाः पत्न्यः पान्नेजनहस्ता एव प्राणशोधनात् प्राग् अश्वं त्रिस्त्रिः परियन्ति । सकृन्मन्त्रेण द्विस्तूष्णीम् । मध्ये पितृवद् अप्रदक्षिणं परियन्ति त्रिः त्रिभिर्मन्त्रः । वसो ममेति त्रिष्वप्यनुषङ्गः । ततश्चैवं क्रमः - प्रथमं गणानां त्वेति त्रिः प्रदक्षिणम्, ततः प्रियाणां त्वेति त्रिरप्रदक्षिणम्, ततो निधीनां त्वेति त्रिः प्रदक्षिणमिति १२
पृष्ठ 123
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेद संहिता [ अ ० २३ । एवं नवकृत्वः पितृवन्मध्य इत्यस्यार्थः । अन्ते सकृदितरथावृत्तिः । वसो । हे अश्व ममेत्यस्य , वयं त्वां त्रिप्वप्यनुषङ्गः हवामहे आह्वयामः । कीदृशं परिक्रमणमिति सूत्रार्थः । त्रीणि यजूंषि लिङ्गोक्तदेवत्यानि गणानां मध्ये गणपति गणरूपेण पालकम्, प्रियाणां त्वाम्? गणानां स्त्रीगणानां मध्ये त्वां युगपद् गणपतिम्, यद्वा वा पालकं हवामहे । निधीनां सुखनिधीनां मध्ये वल्लभानां मनुष्याणां मध्ये त्वामेव प्रियपतिप्रियभर्तारं प्रियस्य अश्व, मम पतिस्त्वं भूया इति शेषः । त्वामेव निधिपति सुखनिधेर्वा पालकं हवामहे । हे वसो! वसुरूप ) । संज्ञपनानन्तरं मृतस्य पशोः प्राणेषु ' प्रक्षालितेषु महिष्यश्वमुपसंविशत्याहमजानीति ' ( का ० श्री ० महिषी २०।६।१४ अश्वसमीपे शयीतेति सूत्रार्थः । अश्वदेवत्यं यजुः । पत्नीभिरध्वर्युणा यजमानेन च प्रक्षालितेषु शोधितेषु सत्सु आ अजानि निष्कृष्य क्षिपामि, ' अज गतिक्षेपणयोः ' । हे अश्व, गर्भधं गर्भं दधातीति तथोक्तं गर्भधारकं रेतोऽहम् सायणोऽपि । तं च गर्भधं रेत आ अजासि निष्कृप्य क्षिपसीत्युव्वटमहीधरौ, काण्वसंहिताभाष्ये एवास्मा एतदतो न्येवास्मै अत्र ब्राह्मणम्- ~ ‘ गणानां त्वा गणपति हवामह इति । पत्न्यः परियन्त्यपनुवत तल्लोकैर्धुवते त्रिः पुनः परियन्ति षट् वतेऽथ धुवत एवैनं त्रिः परियन्ति त्रयो वा इमे | लोका २ | ८ | ४ ) एभिरेवैनं । अत्र हरिस्वामिनः - अनेन मन्त्रेण सकृदेव, सम्पद्यन्ते षड् वा ऋतव ऋतुभिरेवैनं धुवते ' ( श ० १३ एतत्प्रदक्षिणावर्तनेन संज्ञपनमुन्नयन्तीत्यर्थः । अर्थात् सर्वाः पत्न्योऽश्वं परिभ्रमन्ति । अनुवते विस्मरन्त्येवास्मै एतत्संज्ञपने प्रदक्षिणकरणेन । अथो धुवते, अपि वा अविस्मृतमपि निह्नुवति क्षमयन्ति च ऋत्विग्यजमाना परियन्ति राजानमिव व्यजनैरेतत् । त्रिः पुनः ' धू विधूनने ' तौदादिकः परस्मैपदी । धवित्रैरुपवीजयन्त्येनमश्वं । ' अप वा एतेभ्यः प्राणाः क्रामन्ति । यज्ञे धुवनं पत्न्यः प्रियाणां त्वा प्रियमिति । कुत? मन्त्रक्रमात् दधते नैभ्यः प्राणा अपक्रामन्त्याहमजानि गर्भधमा तन्वते नवकृत्वः परियन्ति नव वै प्राणाः प्राणानेवात्मन् धत्ते ' ( श ० १३२ ॥५ ) | ये ऋत्विग्यजमाना त्वमजासि गर्भधमिति प्रजा वै पशवो गर्भः प्रजामेव पशूनात्मन् तेषामयं दोषोऽपाक्रियते । नवकृत्वः पत्न्यः यज्ञे धुवनं तन्वते, तेषां प्राणा अपक्रामन्ति । पत्नीप्रयोगद्वारेण प्राणा नापक्रामन्ति आहमजानि गर्भधमिति परियन्ति । पत्नीषु तथा परियतीषु एतेभ्य ऋत्विग्यजमानेभ्यः महिषी अश्वमुपसंविशति, लिङ्गात् । गणानां अध्यात्मपक्षे – हे वसो, वसति सर्वभूतेषु वासयति च सर्वं मित्रपुत्रकलत्रादीनां जगदिति वसुस्तत्सम्बुद्धौ प्रियपति प्रियपालकं महदादिगणानां वसुरुद्रादित्यादिगणानां गणपति गणपालकम्, प्रियाणां , निधीयन्ते स्वर्णरत्नमण्यादिधनादि येषु प्रियप्रेमास्पदं पति वा, निधीनां शङ्खपद्मादिनिधीनामाकराणाम् हवामहे आह्वयामहे । प्रकृतियोनौ गर्भ तेषाम्, सुखानि वा निधीयन्ते येषु तेषां निधीनां निधिपालकं, तमहं मम, विभक्तिव्यत्ययः, हृदये प्रतिबिम्बात्मकं चैतन्यं यो दधाति स गर्भधो बिम्बभूतः परमात्मा बिम्बरूपं गर्भधं परमात्मानं हृदयेऽ-त्वमसि धारयसि । अहं च आसमन्तात् तं गर्भधं प्रतिबिम्बधारकं प्रतिबिम्बधारणेनैव चैतन्यायिता सती जानि हृदये धारयामि । त्रिगुणात्मिका जडा प्रकृतिर्ब्रह्मचैतन्य सम्भवः सर्वभूतानां ततो भवति भारत ॥ ' विश्वं सृजति ' मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम् । ( भ ० गी ० १४।३ ) इति गीतोक्तेः । महद्ब्रह्म प्रकृतिः । स्वीकुर्महे । प्रियाणां दयानन्दस्तु – ' हे जगदीश्वर, वयं गणानां गणपति समूहपालकं हवामहे त्वां हवामहे । हे वसो मम न्यायाधीशो प्रियपतिं त्वां हवामहे । निधीनां विद्यादिपदार्थपोषकाणां त्वा निधिपति प्रकृतिमहमाजानि जानीयाम् ' इति, भूयाः । यं गर्भधं यो गर्भ प्रकृतिं दधाति तं त्वमजासि प्राप्नुयाः । तं गर्भधं सम्यक् प्राप्नोषि । गर्भधं तथा हिन्दीभाष्ये तु -‘गर्भवत् संसारधारयित्र्याः प्रकृतेर्धारकस्त्वं जन्मादिदोषरहितः , असम्बद्धत्वात्, न्यायाधीशो भूया प्रकृतिधारकं त्वामहं सम्यग् जानीयाम् ' इत्युक्तम्, तच्च सर्वमप्यसङ्गतमेव
पृष्ठ 124
पाठ पढ़ें पाठ छिपाएँ
म ० १ ९ -२० ] वेदार्थ पारिजात भाष्यसहिता ९ १ इत्यस्य मन्त्रबाह्यत्वात् 1 । ननु सिद्धान्तव्याख्यानेऽपि मम पतिर्भूयादिति शेषः ' इत्युक्तम्, तदपि व्याख्यानं तथाविधमेवेति चेन्न ब्राह्मण - सूत्र - सन्दर्भानुसारं तथा व्याख्यातत्वात् । न च त्वदीये व्याख्याने तादृशं किञ्चिदपि प्रमाणमस्ति । त्वया प्रथम - गर्भधशब्दस्य यो गर्भं दधातीति व्युत्पत्तिः प्रदर्शिता, सा च त्वदीयहिन्दीभाप्य-विरुद्धा । तत्र तु प्रकृतेर्गर्भधारकतोक्ता, परमात्मनस्तु प्रकृतिधारकतोक्ता । एवमेव ' त्वं जन्मादिदोषरहितः सम्यक् प्राप्नोषि ' इति रिक्तं वचः, किं प्राप्नोषीत्यनुक्तेः । पदार्थव्याख्याने प्रकृतिमित्युक्तम्, हिन्द्यां तु प्रकृति-धारकमहं जानीयामित्युक्तम् । तच्चाशुद्धम्, नहि गर्भशब्दस्य प्रकृतिरर्थः । परस्परविरुद्धश्चायमर्थः । भूमिकायां दयानन्देन यन्महीधरभाष्यं दूषितम्, तत्तु भूमिकायामेवास्माभिः खण्डितम् ॥ १ ९ ॥ ता उभौ चतुरः॑ प॒दः सम्प्रसरियाव स्वर्ग लोके प्राणु वाथां वृष वाजी रेतोधा रेतों दधातु ॥ २० ॥
मन्त्रार्थ- पत्नी अपने पति यजमान से कहती है कि मैं और तुम दोनों चार चरणों को भली प्रकार फैलावें अथवा धर्म, अर्थ, काम, मोक्ष रूप चारों पुरुषार्थों का साधन करें । हे अश्व के अधिष्ठाता प्रजापति देव! आप इस यज्ञशाला को अपने तेज और ऐश्वयं से आच्छादित कर दें । हे प्रजापते! सेचन में समर्थ तेजोमय वीर्य को धारण करने वाला मेरा बलवान् पति मुझमें तेजोयुक्त वीयं को स्थापित करे ॥ २० ॥
अब काण्वानां पूर्वमन्त्रशेषः - ' ता उभौ चतुरः पदः सम्प्रसारयाव ' इति । यो आवां कृतसङ्केतौ तौ उभौ त्वमहं च चतुरः पदः पादान् । द्वौ तब सम्बन्धिनौ द्वौ च मम सम्बन्धिनौ, आवां सम्प्रसारयाव । एवं स्त्रीपुंस -सम्बन्धे संवेशनप्रकारः । ' अधीवासेन प्रच्छादयति स्वर्गे लोक इति ' ( का ० ० २० | ६ | १४ ) | अधीवास:, अध उपरिष्टाच्च आच्छादनक्षमो बहुमूल्यः कम्बलविशेषः । तेन महिषीमश्वं च स्वर्गे लोक इति मन्त्रेण प्रच्छादयेदिति सूत्रार्थः । अश्वदेवत्यं यजुः । अध्वर्युर्वदति - हे अश्वमहिम्यौ युवां स्वर्गे लोकेऽस्यां यज्ञभूमौ प्रोर्णुवाथां वास आच्छादयतम्, ' ऊर्णुञ् आच्छादने ', ' एष वै स्वर्गो लोको यत्र पशु संज्ञपयन्ति ' ( श ० १३।२।८।५ ) इति श्रुतेः । ' अश्व-शिश्नमुपस्थे कुरुते वृषा वाजीति ' ( का ० श्र ० २०१६ | १६ ) | महिषी अश्वशिश्नं स्वयमेवाकृष्य स्वयोनौ स्थापयति वृषा वाजीति मन्त्रेणेति सूत्रार्थः । अश्वदेवत्यं यजुः । वाजी अश्वो रेतो दधातु मयि वीर्यं स्थापयतु । कीदृशोऽश्वः? वृषा सेक्ता, रेतोधा रेतसो वीर्यस्य धारयिता । अत्र ब्राह्मणम् – ‘ ता उभौ चतुरः पदः सम्प्रसारयावेति मिथुनस्यावरुद्धयै स्वर्गे लोके प्रोर्णुवाथामित्येष वै स्वर्गो लोको यत्र पशु संज्ञपयन्ति तस्मादेवमाह वृषा वाजी रेतोधा रेतो दधात्विति मिथुनस्यैवावरुद्धयै ' ( श ० १३२८५ ) । एतावप्यधिवासेन सम्प्रोर्गुवन्ति यस्मादेष स्वर्गो लोको यत्र पशुं संज्ञपयन्ति, तस्मादेव -माह - स्वर्गे लोके प्रोर्गुवाथामिति । वृषा वाजी रेतोधा इति महिषी अश्वशिश्नमुपस्थे कुरुत इति हरिस्वामिनः । अध्यात्मपक्षे - तौ शिष्याचायों उभौ चतुरः पदः पुरुषार्थान्, सालोक्य - सामीप्य - सारूप्य - सायुज्यात्मकान् मोक्षान् वा सम्प्रसारयाव स्वयं प्राप्य प्रचारयाव । वेद आदिशति - हे शिष्याचार्यों, युवां स्वर्गे स्वर्गोपमे भारते वर्षे ज्ञानविज्ञानाभ्यां सर्वं जगदाच्छादयतम् । वर्षति धर्मान् तत्फलानि च यः स वृषा परमेश्वरः । वाजी, वाजं ज्ञानादिलक्षगमन्नमस्यास्तीति वाजी, रेतोधाः प्रजासु रेतो वीर्यं पराक्रमं दधाति यः स रेतोधा, अस्मासु रेतो बलं पराक्रमं दधातु ।
पृष्ठ 125
पाठ पढ़ें पाठ छिपाएँ
९ २ शुक्ल यजुर्वेद संहिता [ अ ० २३ दयानन्दस्तु -- ' हे राजप्रजे, युवामुभौ तौ यथा स्वर्गे लोके चतुरः पदो धर्मार्थकाममोक्षान् प्रोर्णुवाथां प्राप्नुयाथां तथैतानावामध्यापकोपदेशको सम्प्रसारयाव, यथा रेतोधा रेतः श्लेषमालिङ्गनं दधाति स वृषा दुष्टानां शक्तिप्रतिबन्धको वाजी विज्ञानवान् राजा प्रजासु रेतो वीर्यं दध्यात् तथा प्रजापि दधातु ' इति, तदपि यत्किञ्चित्, ' ऊर्णुञ् आच्छादने ' इति धात्वर्थंविरोधात् । राजप्रजे इति सम्बोधनमपि प्रमाणशून्यम्, क्रियाबलादावामित्यध्या-हारस्यौचित्येऽप्यध्यापकोपदेशकयोर्ग्रहणे मानाभावात्, अध्यापकोपदेशकौ किं प्रसारयावेति सम्प्रसरण्यानुक्तेः । रेतः श्लेष इत्यपि निर्मूलम्, वृषा शक्तिप्रतिबन्धकः, वाजी विज्ञानवानित्यपि निर्मूलम् ॥ २० ॥
उत्स॑व॒थ्या॒ अव॑ग॒दं धे॑हि॒ सम॒ञ्ज चा॑रया वृषन् ।
यः स्त्रीणां जी॑व॒भोज॑नः ॥ २१ ॥
मन्त्रार्थ - यजमान अवाभिमानी प्रजापति परमात्मा से प्रार्थना करता है कि हे सकल मनोरथों को वर्षा करने में समर्थ प्रजापते! जिसकी ऊरु ऊपर को है, ऐसी मेरी पत्नी के प्राणों पर तेज को स्थापित करें, उस तेज को प्रविष्ट करावें, जो कि स्त्रियों के जीवन का साधन है ॥ २१ ॥
' उत्सवथ्या इत्यश्वं यजमानोऽभिमन्त्रयते ' का ० श्रौ ० २०।६।१७ ) । स्पष्टार्थं सूत्रम् । अश्वदेवत्या गायत्री । हे वृषन् सेक्तः अश्व, महिष्या गुदमव गुदोपरि, योन्युपरीति यावत् । रेतो धेहि वीयं धारय । कथम्भूताया महिष्यास्तत्राह - उत्सवथ्याः, उद् ऊर्ध्वे सक्थिनी ऊरू यस्याः सा उत्सस्थी, ' बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ' ( पा ० सू ० ५ | ४ | ११३ ) इति षचि, ' पः प्रत्ययस्य ' ( पा ० सू ० ११३६ ) इति षकारस्येत्संज्ञायाम्, ' षिद् गौरादिभ्यश्र्व ' ( पा ० सू ० ४ | १ | ४१ ) इति ङीषि रूपम्, तस्याः । कथं तदाह - अञ्जि अनक्ति व्यक्ति पुंस्त्वमित्यञ्जिः पुंस्प्रजननम्, तं सञ्चारय स्त्रीप्रजनने सन्निवेशय । यः स्त्रीणां जीवभोजनः, जीवयति स जीवः, भोजयति यः स भोजनः, जीवश्वासी भोजनश्चेति जीवभोजनः । यस्मिन्नुपस्थे सन्निविष्टे ता जीवन्ति भोजनेनेव यति । अध्यात्मपक्षे - हे वृषन्, वर्षति कामानिति वृषा, तत्सम्बुद्धौ । हे परमेश्वर, उत्सक्थ्या उद् ऊर्ध्वे सक्थिनी ऊरू यस्याः सा उत्सक्थी, तस्या भार्याया इव प्रकृतेः स्वरूपभूतां योनिमव योन्युपरि रेतो वीर्यं प्रपञ्चोत्पादन-सामथ्यं धेहि धारय । अनक्ति व्यनक्ति प्रकृतौ स्वचैतन्य मित्यञ्जिः प्रतिविम्बभूतः स्वस्वरूपभूतः " तं प्रकृतिरूपायां योनौ सञ्चारय, ' अश्वरश्मिमतिसुमतिश्वसुतचारय ' ( वा ० प्रा ० ३।९ ७ ) इत्यादिना वकारे परे दीर्घः । योऽञ्ज: पुरुषप्रतिबिम्ब: स्त्रीणां जडानां प्रकृतिमहदहङ्कारादीनां जीवनं भोजनश्च तद्वत्तृप्तिकर इति यावत् । स्वातन्त्र्यं पुंस्त्वम्, पारतन्त्र्यं स्त्रीत्वम् । प्रकृत्यादौ स्वतः सत्तास्फूर्त्यभावेन पारतन्त्र्यम् । पुरुषस्य चेतनस्य स्वतः सत्तास्फूर्तिमत्त्वेन स्वातन्त्र्यम् । तेन चेतन एव प्रकृतेर्जीवनम्, तदधीनसत्ताकत्वात् । स एव च तृप्तिकरः, तदपेक्षापूरकत्वात् । उत्सक्थ्या गुदमिति राहोः शिर इतिवद् अभेदे षष्ठी । सत्त्वरजस्तमसां साम्यावस्थारूपा प्रकृतिरेव त्रिकोणा योनिरित्यागमिकैराख्यायते । दयानन्दस्तु - ' हे वृषन्, यः स्त्रीणां जीवभोजनो जीवा भोजनं भक्षणं यस्य सः । व्यभिचारी व्यभिचारिणी वा स्त्री वर्तेत, तं तां च निगृह्य उत्सवथ्या ऊर्ध्वं सक्थिनी यस्यास्तस्याः प्रजायास्ताडय, स्वप्रजायाश्च गुदं क्रीडामवधेहि । अञ्जि प्रसिद्धं न्यायं सञ्चारय ' इति, तदप्युपहासास्पदम् पदार्थासङ्गतेः । जीवा भोजनं भक्षणं यस्य स जीवभोजन इति जीवभोजनशब्दस्यार्थ उक्तः । हिन्दीभाष्ये तस्य मांसभक्षक इति व्याख्यानम् | अन्वये तु व्यभिचारी व्यभिचारिणी वा स्त्रीति तत्पर्यायान्तरमुक्तम् । तदेतत्सर्वं परस्परविरुद्धमेव । नहि मांसभक्ष - व्यभिचारिशब्द पर्यायवाचकौ, निरामिषाणामपि व्यभिचारसम्भवात्, सामिषाणामप्यव्यभि-चारित्वसम्भवात् । न च जीवा भक्ष्यन्ते तेषां निराकारत्वात् । न च प्राणिदेहा एव जीवाः, तेषां देहभिन्नत्वात् ।
पृष्ठ 126
पाठ पढ़ें पाठ छिपाएँ
म ० २१-२२ ] वेदार्थ पारिजातभाष्यसहिता ९ ३ न च स्त्रीणामिति पदस्य सार्थक्यम्, मांसभक्षकत्व - व्यभिचारित्वयोरुभयत्र सम्भवेन व्यावर्तकत्वायोगात् । स्त्रीणां मध्ये पुरुषो व्यभिचारी पुरुषाणां मध्ये स्त्रीणां व्यभिचार इति विवरणमपि निःसारम् तस्य अर्थात् सिद्धत्वात् पुरुषः स्त्रीषु व्यभिचरति स्त्री पुरुषेष्वित्यर्थसिद्धमेव । उत्सवथ्याः प्रजाया इत्यप्यसङ्गतम्, उत्सस्थीत्वस्य व्यष्टिधर्मत्वेन समष्टिप्रजायां तदसम्भवात्, निगृह्य ताडयेदित्यादिपदानां मूलेऽभावेन निर्मुलत्वाच्च । स्वप्रजाया गुदमवधेहीत्यप्यसङ्गतम्, मूले स्वप्रजाया इति पाठाभावात् । न चोत्सवथ्या इति प्रजाया बोधकः शब्दः, तथाभ्युपगमेऽपि तस्यास्ताडनीयत्वेन क्रीडाधानासम्भवात् । न चाजिशब्दस्य प्रसिद्धोऽप्रसिद्धो वा न्यायोऽर्थः निर्मूलत्वात्, काव्यकोषादिष्वप्रयोगात्, धात्वर्थविरोधाच्च । यत्तु भावार्थे— हे राजन्, ये विषयसेवायां क्रीडन्तो जना क्रीडन्त्यः स्त्रियो वा व्यभिचारं वर्धयेयुः 1 ते ताश्च तीव्रेण दण्डेन शासनीया इति, तत्तु पूर्वोक्तविरुद्धमेव । पूर्वं तु राजकर्तृकं प्रजासु क्रीडाया धारणमुक्तम्, इह तु तद्विरुद्वमुच्यते । भावार्थस्य मूलाक्षरसम्बन्धवैधुर्यं त्वतिस्पष्टमेव । तस्मात् सिद्धान्तव्याख्यानमेव मन्त्राक्षरानुगुणम् । तत्राश्लीलता-दोषशङ्कासमाधानं तूपरिष्टाद् वक्ष्यते ॥ २१ ॥
शंकुन्तिकाऽऽहलगिति आर्हन्ति गर्भे पसो
चेति ।
निगालोति धारका ॥ २२ ॥
मन्नार्थ अध्वर्यु आदि देवी से संवाद करते हैं जो यह अपरा प्रकृति है, वह ठगती है, सही मित्र तो आत्मा ही है । यज्ञीय तेज आत्मयजनकारी की ऐश्वर्यमय आत्मा में आगमन करता है । सर्वाधार परा शक्ति उस आत्मयोगी के लिंगशरीर को कवलित कर लेती है ॥ २२ ॥
-‘ अध्वर्युब्रह्मोद्गातृहोतृक्षत्तारः कुमारीपत्नीभिः संवदन्ते यकासकाविति दशर्चस्य द्वाभ्यां द्वाभ्या ँ हये हयेऽसावित्यामन्त्र्यामन्त्र्य ' ( का ० श्री ० २०१६ | १८ ) । अध्वय्र्वादयः पञ्च यजमानस्य कुमार्या पत्नीभिश्च सह यथाक्रमं हये ह्येऽसाविति सम्बुद्धयन्तनामोच्चारणपूर्वकं सम्मुखीकृत्य यकासकाविति दशर्चसम्बन्धिनीभ्यां द्वाभ्यां द्वाभ्यामृग्भ्यां सह सोपहासं संवदन्ते । तत्र प्रथममध्वर्युः कुमारी पृच्छति हये ये कुमारि यकासको शकुन्तिकेति सूत्रार्थः । कुमार्यादिदेवत्या दश । तत्र द्वितीयोपरिष्टाद्वहती । शिष्टा नवानुष्टुभः । यकासको या असौ । ' अव्ययसर्वनाम्नामकच् प्राक् टे: ' ( पा ० सू ० ५ | ३ | ७१ ) इति प्रागिवीयार्थे कच् । अत्र कुत्सायाम् । शकुन्तिका शकुन्तिः पक्षिणी, अल्पा शकुन्तिः शकुन्तिका ' अल्पे ' ( पॉ ० सू ० ५।३।८५ ) इति कन्, अल्पपक्षिणीव । ‘ आहलक् ' इति शब्दानुकरणम् । हले हले इति शब्दयन्ती ब्रुवन्ती वा वञ्चति गच्छति । स्त्रीणां शीघ्रगमने योनौ हलहलाशब्दो भवतीत्यर्थः । अध्वर्युरङ्गुल्या योनि प्रदर्शयन्नभिमेथयति । गभे भगे योनौ, वर्णविपर्यय आर्षः । शकुनिसदृश्यां यदा पसो लिङ्गमाहन्ति आगच्छति, ' पसः सपतेः स्पृशतिकर्मणः ' ( निरु ० ५११६ ) इति यास्कः । अत्र स्कन्दस्वामी - पसः पुनः सपतेः, ' षप् समवाये ' इत्यस्य स्पृशत्यर्थस्य विपरीतस्य । स्पर्शश्र्चात्र सुरतस्य सुखातिशयोऽभिप्रेतः, न त्वगिन्द्रियविषयसंस्पर्शमात्रकम्, सपति स्पर्शयति सुखयतीति । पुंस्प्रजननस्य नाम । तद् यदा भग आगच्छति तदा धारका, धरति लिङ्गमिति धारका योनिः निगलगलीति नितरां गलति वीर्यं क्षरति । यद्वा शब्दानुकरणं गल्गलेति शब्दं करोतीत्यर्थः । हन्तिर्गत्यर्थः । यद्वा तस्या अपि गमे भगे पसः पुंस्प्रजननमाहन्ति आगच्छति, अन्तर्भावितण्यर्थो वा हन्तिः, तस्या भगे पसमागमयति प्रवेशयति, भगे शिश्नमाहन्ति आगच्छति प्रवेशयति वा तत्, शब्दं करोतीत्युक्तमेव । अत्र ब्राह्मणम् -'यकासको शकुन्तिकेति । विड् वै शकुन्तिका हलगिति वञ्चतीति विशो वै राष्ट्राय वञ्चत्याहन्ति गभे पसो निगलगलीति धारकेति विड् वै गभो राष्ट्रं पसो राष्ट्रमेव विश्याहन्ति तस्माद्राष्ट्री
पृष्ठ 127
पाठ पढ़ें पाठ छिपाएँ
९ ४ शुक्लयजुर्वेदसंहिता [ अ ० २३ विशं घातुकः ' ( ० १३ २/२/६ ) । विड् वै शकुन्तिका । तस्माद्विड् वै हलाहलेति शब्दायमाना वञ्चति व्यवहरति । विशश्च राष्ट्रीय राष्ट्रहिताय वञ्चति कृषिवाणिज्यपशुपाल्यादिकं कुर्वन्ति । गभे पसो निगलगलीतीत्यस्य गूढमर्थमाह श्रुतिः - वि वैभ:, राष्ट्रमेव पसः । गभे पस आविश्याहन्तीत्यस्यायमेव गूढोऽर्थो यद् राष्ट्रमेव विश्याविश्याहन्ति । तस्माद् राष्ट्री राष्ट्रमस्मास्तीति राष्ट्री राजा विशं घातुको भवति । अध्यात्मपक्षे - यका या शकुन्तिका अल्पीयसी पक्षिणीव प्रकृतिराहलगिति हले हले शब्दं ब्रुवन्तीव ति गच्छति, महदादिकार्यनिष्पत्त्यर्थं प्रवर्तते, तदा तस्या गंभे भगे त्रिगुणात्मके शरीरे, असकौ असौ पसो धार: प्रतिबिम्ब आहन्ति आगच्छति, तदा धारका विश्वगर्भधारयित्री प्रकृतिर्योर्निर्नितरां गिलति क्षरति । तत एव वीर्यवज्जगज्जायते । दयानन्दस्तु - ' यस्यां गभे प्रजायां राजा स्वीयं पसो राष्ट्रमाहन्ति जानाति प्राप्नोति वा, सा धारका सुखधारयित्री प्रजा निगलगलीति निरन्तरं भृशं सुखं निगलतीव वर्तते । यतो यका या असको असौ प्रजा शकुन्तिका अल्पा पक्षिणीव निर्बला वर्तते, तस्मादिमामहलग् राजा वञ्चतीति, आ समन्ताद् हलं विलेखनमञ्चतीति सः | हलेन कृष्टाया भूमेः करग्रहीता राजा वति तथा धनं गृह्णाति यथा प्रजा सुखवती स्यात् ' इति, तदपि यत्किञ्चित् सुखानुगुणग्रहणस्य वञ्चकत्वानुपपत्तेः, राजपदस्य मूलेऽभावाच्च तादृश्याः प्रजायाः शकुन्तिकाया इव निर्बलत्वासम्भवात् । हलेन विलेखनं भवति, न तु हलशब्दस्य विलेखनमर्थः ॥ २२ ॥
यकोऽसौ शेकुन्त॒क
आलगिति वञ्चति ।
विव॑क्षत इव ते॒ मुख॒मध्व॑र्थो मा न॒स्त्वम॒भिभषथाः ॥ २३ ॥
मन्त्रार्थ - देवी उत्तर देती है कि हे अध्वर्यु! अविद्या में बँधा हुआ जीवरूप पक्षी ही ठगता है वही सब ओर से आसक्त होता है, बोलते हुए तुम्हारे मुँख के समान चंचलता से इधर - उधर चलायमान होता है । तुम व्यर्थ की बकवास मत करो, अर्थात् मौनी होकर आत्मविचार करो, तभी तुम्हारा उद्धार होगा । २३ ॥ अगुल्या शिश्नं प्रदर्शयन्ती कुमारी अध्वर्युं प्रत्याह-- यकः यः असको असौ शकुन्तक इव आहलगिति वञ्चति, योऽसौ शकुन्तक इत्र पक्षीव विवक्षतो वक्तुमिच्छतस्ते तव मुखमिव आहलगिति इतस्ततश्चलति । अग्रभागे सच्छिद्रं लिङ्गं तव मुखमिव भासते, अतो नोऽस्मान् प्रति मा अभिभाषथाः, मा वद, तुल्यत्वात् । अध्यात्मपक्षे - साधिष्ठाना प्रकृतिर्वक्ति- योऽसौ शकुन्तक इव सोपाधिकः सशरीरः पुरुष आहलगिति वञ्चति, इतस्ततश्चलति कर्म करोति, हे अध्वर्यो! कर्मपरायण, वक्तुमिच्छतस्ते तव मुखमिव प्रधानं भवति । त्वमस्मान् प्रतिमा वद, प्रकृतेरिव सोपाधिकपुरुषस्यापि तथात्वात् । दयानन्दस्तु – ' हे अध्वर्यो, त्वं नो माभिभाषथाः, मिथ्याभाषणं विवक्षत इव ते मुखं मा भवतु । यद्येवं यको sect करिष्यसि शकुन्तक इव राजा हलगिति न वञ्चति ' इति, तदपि यत्किञ्चित्, अध्वर्योर्यज्ञस्येवाचरणा-निरूपणात्, अभिभाषथा इत्यस्य मिथ्याभाषणार्थंकत्वायोगात् । विवक्षत इत्यस्य ' निरर्गलं विवक्षतो मनुष्यस्य मुखमिव ते मुखं मास्तु ' इति हिन्दीव्याख्यानमपि निर्मूलमेव, मूलाक्षराननुसारित्वात् । निर्बलपक्षिवदुच्छिन्नो भविष्यतीति निर्मूलमेव ॥ २३ ॥
माता च॒ ते पि॒ता च॒ तेऽप्र॑ प्रति॑लामोति॑ ते पि॒ता पि॒ता ग॒भे
वृ॒क्षस्य॑ रोहतः ।
म॒ष्टिम॑त Û सयत् ॥ २४ ॥
पृष्ठ 128
पाठ पढ़ें पाठ छिपाएँ
म ० २४-२५ ] वेदार्थपारिजातभाष्यसहिता ९ ५ मन्त्रार्थ ब्रह्मा महिषो से कहता है कि तुम्हारी माता महाशक्ति भूमि और पिता महानारायण की विभूति-स्वरूप द्युलोक भी पंचभूत रूप वृक्ष श्रेष्ठ ऊध्वं भाव को, अर्थात् ऊपर के लोक में वर्तमान पुत्र पौत्र आदि के रूप में प्रकट करते हैं । तुम्हारा पिता द्युलोक में पर्जन्य रूप जल में मुट्ठी के समान संकुचित हुए जीवसम्बन्धी तेज को छोड़ता है । इस प्रकार के बीजप्रक्षेप से मैं प्रसन्न होता हूं ॥ २४ ॥
ब्रह्मा महिषीमभिमेथति -- हे महिषि, यदा ते तव माता ते तव पिता च मैथुनाथं वृक्षस्य वार्क्ष्यस्य पर्यङ्कस्य अग्रमुपरितनं भागं रोहतस्तदा प्रतिलामि प्रकर्षेण स्निह्याम्यहमनेन कर्मणा, ' तिल स्नेहने ' तौदादिकः, इति वदन् ते पिता गभे भगे मुष्टि मुष्ट्याकारं शिश्नमतंसयदक्षिपत्, एवं तवोत्पत्तिरित्यभिप्रायः । वृक्षस्येत्यत्र तद्धितलोपः । ' तसि अलङ्कारे ' चुरादिः । यद्वा मुष्टिं मुष्टितुल्यं शिश्नमुत्थानेन अलङ्करोति, किं कुर्वन् प्रतिला वदन्निति शेषः । तव भोगेन स्निह्यामीति वदन्निति यावत् । एवं तवोत्पत्तिः । अत्र ब्राह्मणम्- ' अप वा एतस्मात् । श्री राष्ट्रं क्रामति योऽश्वमेधेन यजते ' ( श ० १ ३ २।९ ।१ ) । ' तयोः शयानयोरश्वं यजमानोऽभिमेथत्युत्सवथ्या अवगुदं धेहीति ' ( श ० १३ | ५ | २ | ३ ) | ' अथाध्वर्युः कुमारीमभिमेथति ' ( श ० १३ | ५ | २/४ ) इत्यादि वक्ष्यते । तत्र यास्वभिमेथिकासु किञ्चिद्दर्शनं गूढमस्ति, तदत्र ब्राह्मणेनोच्यते । योऽश्वमेधेन यजते तस्माद् ऋत्विग्भ्यो दीयमाना राष्ट्रात्मिका श्रीरपक्रामति । तत्समाधानार्थं भार्याभिर्मेथिका कर्तव्या । ऊर्ध्वामेनामुच्छ्रापयेति । श्री राष्ट्रमश्वमेधः श्रियः कारणं भवति । ततश्चाभि-मेथिकाभिस्तस्याः श्रिय उच्छयणं क्रियते । ' माता च ते पिता च त इति । इयं वै माताऽसौ पिताऽऽभ्यामेवैन स्वर्गं लोकं गमयत्यग्रं वृक्षस्य रोहत इति श्री राष्ट्रस्याग्र ७ श्रियमेवैन · राष्ट्रस्याग्रं गमयति प्रतिलामीति ते पिता गभे मुष्टिमत सयदिति विड् वै गभो राष्ट्रं मुष्टी राष्ट्रमेव विश्याहन्ति तस्माद्राष्ट्री विशं घातुकः ' ( श १३ / २ / ९ / ७ ) । इयं पृथिवी एव माता असौ द्युलोकः पिता । एतदुक्त्या आभ्यामेवैनं यजमानं स्वर्ग लोकं गमयति । श्री राष्ट्रस्याग्रं वृक्षस्याग्रं रोहत इति कथनेन एनं यजमानं राष्ट्रस्य श्रियं गमयति । प्रतिलामीति विड् वै गो राष्ट्रं मुष्टि: । राष्ट्रमेव विश्याहन्ति तस्माद्राट्री विशं घातुकः । अध्यात्मपक्षे - श्राद्धेन सन्तुष्टः परमात्मा साधकं वदति -- ते तव माता ते तव पिता च वृक्षस्य संसार-वृक्षस्य अग्रं श्रेष्ठमुत्कृष्टं भागं ब्रह्मलोकं रोहतः । तेनाहं प्रतिलामि त्वां प्रति स्निह्यामि । ते पिता गभे संसारस्य मूलभूते भगे प्रकृतिरूपायां योनौ मुष्टिं ब्रह्मग्रहणलक्षणं मुष्टिमतंसयद् अलङ्कृतवान् । दयानन्दस्तु - हे ' राजन्, यदि ते पृथिवीव माता च सूर्य इव पिता च वृक्षस्याग्रं रोहतः, यदि ते पिता गमुष्टिमतं यत्, तर्हि प्रजाजनोऽहं प्रतिलामि ' इति, तदपि यत्किञ्चित् छेदनार्हस्य संसारस्य राज्यस्य वा अग्रस्यापि तथात्वेन आरोढुमनर्हत्वात् । मुष्टिमित्यस्य मुष्ट्या धनग्राहकं राज्यमित्यप्यपव्याख्यानमेव, तादृश-लक्षितलक्षणायां बीजाभावात् ॥ २४ ॥
मा॒ता च॑ ते पि॒ता च S विव॑क्षत इव ते॒
वृक्षस्य॑ क्रीडतः ।
मुखं ब्रह्मन् मा त्वं व॑दो ब॒हु २५ ॥
मन्त्रार्थ - महिषी ब्रह्मा से कहती है कि हे ब्रह्मन्! तुम्हारे द्यावापृथिवी रूप माता - पिता जिस समय वृक्ष के समान विस्तीर्ण पाँच भूतों के ऊपर क्रीड़ा करते हैं, अर्थात् पत्र आदि शरीर में रमण करते हैं, तब कुछ कहने की इच्छा करने वाला तुम्हारा मुख दिखाई पड़ता है । लेकिन तुम कुछ कहो मत, किन्तु द्वैत भ्रम में न पड़कर ब्रह्म के एकत्व का मनन करो ॥ २५ ॥
पृष्ठ 129
पाठ पढ़ें पाठ छिपाएँ
९ ६ शुक्लयजुर्वेद संहिता [ अ ० २३ सानुचरी महिषी ब्रह्माणं प्रत्याह हे ब्रह्मन्, ते तव माता ते तव पिता च यदि वृक्षस्य वृक्षविकारस्य काष्ठमयस्य मञ्चकस्याग्रे क्रीडतो रमेते, तदा तवोत्पत्तिरिति तवापि तुल्यम्, ततस्त्वयेदं न वक्तव्यम्, चोद्यस्य परिहारस्य चोभयत्र समत्वात् ' यत्रोभयोः समो दोषः परिहारश्च तादृशः । नैकः पर्यनुयोक्तव्यस्तादृगर्थ -विचारणे ॥ ' इति न्यायात् । एवं सत्यपि विवक्षत इव वक्तुमिच्छत इव असाधु वदितुमिच्छत एव ते तव मुखं लक्ष्यते । हे ब्रह्मन्, त्वं मा बहु वदः । अध्यात्मपक्षे - हे ब्रह्मन्, ते तव माता प्रकृतिः पिता परमेश्वरो वृक्षस्य संसारवृक्षस्य अग्रे उत्कृष्टभागे हृदये क्रीडतः । यथा विवक्षतस्तव मुखं प्रधानं त्वं बहु मा वद, किन्तु तद्बोधकमोमित्येवं वद, अन्या वाचः परित्यज, ' नानुध्यायाद् बहून् शब्दान् वाचो विग्लापनं हि तत् ' ( बृ ० ४।४।२१ तथा शाट्यायन ० २३ ) इति श्रुतेः, ' तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथाऽमृतस्यैष सेतुः ' ( मु ० २ ३५ ), तथा ' ओमित्येवं ध्यायथ आत्मानम् ' ( मु ० २२२६ ) इति श्रुतेश्च । दयानन्दस्तु – ' हे ब्रह्मन्, यस्य ते माता च पिता च यस्य ते वृक्षस्याग्रे क्रीडतस्तस्य ते विवक्षत इव यन्मुखं तेन त्वं बहु मा वद ' इति, तदपि यत्किञ्चित् वृक्षस्याग्रे मध्ये क्रीडत इत्यस्य निःसारत्वात् । अग्रे विद्या राजलक्ष्म्यामित्यपि निर्मूलम्, अर्थशब्दस्य तथार्थत्वे मानाभावात् विवक्षत इव यन्मुखं तेन त्वं बहु मावद, इत्यस्यापि निष्प्रयोजनत्वात्, बहु मा वदेत्यनेनैवेष्टसिद्धौ शेषस्य निरुद्देश्यत्वापत्तेः ॥ २५ ॥
ऊर्ध्वामिनामुच्छ्रोपय अथा॑स्य॒ मध्यमेधता गिरौ भार ँ हर॑न्निव । शोते वातें पुनन्निव ॥ २६ ॥
मन्त्रार्थ - उद्गाता वावाता से कहता है कि हे प्रजापते! इस जीव को ऊर्ध्वलोक प्राप्त कराओ, जैसे कि पर्यंत पर भार को चढ़ाने वाला उसको ऊँचा करता है तथा जैसे शीतल पवन के चलने पर धान्य बोने वाला धान्य के पात्र star करता है | अभिप्राय यह है कि यज्ञ करने पर प्रज्ञा द्वारा ऊर्ध्वं लोक की प्राप्ति होने से पाप दूर होकर gora यज्ञकर्ता को दिव्य शरीर की प्राप्ति होती है । इसके बाद इसका मध्यलोक प्रतिष्ठा के द्वारा ऐश्वयंमय हो जाता है ॥ २६ ॥
उद्गाता वावातामभिमेथयन् कचित् पुरुषमाह - हे पुरुष, एनां पुरोवर्तिनीं वावातामूर्ध्वामुच्छ्रापय उच्छ्रितां कुरु । कथमिव? तत्राह - गिरौ भारं हरन्निव यथा कश्चन पर्वतोपरि भारमारोपयन मध्ये प्रगृह्य तमुच्छ्रयति तथैव कुरु । अथशब्दो यथार्थः । यत्तदोर्नित्यसम्बन्धात् तथाशब्द उन्नेयः । एनां तथा उच्छ्रापय यथा अस्यै अस्याः, षष्ठ्यर्थे चतुर्थी, वावाताया मध्यं शरीरमध्यप्रदेशः, योनिरिति यावत् एधतां वर्धताम् । यथा योनिर्विवृता विशाला स्यात्, तथा प्रगृह्य वावातां मध्यमां वैश्यकन्यां राजवल्लभाम् उच्छ्रितां कुरु । दृष्टान्तान्तरमाह - शीते वाते पुनन्निवेति । यथा कृषीवलो धान्यशुद्धिं कुर्वन् धान्यपात्रस्य ग्रहणमोक्ष झटिति करोति तद्वत् । यद्वा धान्यपवनं कुर्वन् कृषीवलो धान्यपात्रं यथा ऊर्ध्वं करोति, तथैनामुच्छ्रापयेत्यर्थः । अत्र ब्राह्मणम् —'ऊर्ध्वामेनामुच्छ्रापयेति । श्री राष्ट्रमश्वमेधः श्रियमेवास्मै राष्ट्रमूर्ध्वमुच्छ्यति ' ( श ० १३।२।९ ।२ ) । अत्र वावाताभिमेथनप्रसङ्गेन यत्तस्या उच्छ्रयणमुक्तम्, तेन यजमानस्य राष्ट्रात्मिकां श्रियमेवोच्छा-पयति । ‘ गिरौ भार " हरन्निवेति । श्रीवें राष्ट्रस्य भारः श्रियमेवास्मै राष्ट्र सन्नह्यत्यथो श्रियमेवास्मिन् राष्ट्रमधि निदधाति ' ( श ० १३ २ ९ । ३ ) । ' अथास्य मध्यमेधतामिति । श्री राष्ट्रस्य मध्य. श्रियमेव राष्ट्रे मध्यतोऽन्नाद्यं दधाति ' ( श ० १३ २ ९ ४ ) । ' शीते वा पुनन्निवेति । क्षेमोवै राष्ट्रस्य शीतं क्षेममेवास्मै .
पृष्ठ 130
पाठ पढ़ें पाठ छिपाएँ
म ० २६-२७ ] वेदार्थपारिजातभाष्यसहिता I करोति ' ( श ० १३।२।९ ।५ ) | उद्धृतस्य ब्राह्मणवाक्यस्यार्थः स्पष्ट एव । आन्तरस्तु श्री राष्ट्रमश्वमेधश्रियः कारणम् । ततश्च श्रियमेव राष्ट्रमस्मै यजमानाय क्रियते । क्षेमो वै राष्ट्रस्य शीतं तेन तदुक्त्या राष्ट्रस्य क्षेममविनाशमविघ्नमभ्युदयं करोति, शास्त्रप्रामाण्यात् । यथा मन्त्रादिजपात् शास्त्रोक्तजपफलं सम्पद्यते, तथाभिमेथिकैस्तैस्तैः प्रकथनैस्तत्रोक्तानि फलानि सम्पद्यन्ते । अध्यात्मपक्षे साधकमुपदिशत्याचार्यः -- हे साधक, एनां बुद्धिमूर्ध्वामूर्ध्वमुखीम्, ऊध्वं च सूक्ष्मत्वाद् व्यापकत्वात् कारणत्वाद् ब्रह्म तदभिमुखीं तद्विषयिणी मुच्छ्रापय ब्रह्मविषयतया उच्छ्रितां कुरु । कथमिव? यथा अस्यै अस्या बुद्धेर्मध्यं मुख्यभाग एधताम्, ब्रह्मविषयत्वेन विषयाकाराकारितं सद् वृद्धि यायात् । यथा कृषीबलः शीतले वायौ धान्यं पुनन् धान्यं पावनं कुर्वन् झटिति ग्रहणमोक्षौ करोति, तद्वद् विषयवैमुख्यब्रह्म-साम्मुख्ये कुरु । यद्वा स शीतले वायौ धान्यपवनं कुर्वन् तृणखण्डेभ्यो गुरुभ्यो धान्यं विविनक्ति, तथाऽनात्म-पाद ब्रह्मात्मानं विवेचयेति । दयानन्दस्तु -- ' हे राजन्! गिरौ भारं हरन्निवैनां राज्यश्रिया युक्तां प्रजामूर्ध्वामुच्छ्रापय । अथास्यै मध्यं प्राप्य शीते वाते पुनन्निव भवानेधताम् ' इति, तदपि यत्किञ्चित्, राज्यश्रिया युक्तस्य राजत्वोपपत्त्या प्रजाया राजश्रिया युक्तत्वायोगात् प्रजावत्या भूमेरेव राजश्रीत्वेन प्रजायास्तत्त्वे स्वात्माश्रयदोषापत्तेः । अस्याः प्रजाया मध्यं लक्ष्मीं प्राप्य भवानेधतामित्यपि दुष्टम्, मूले प्राप्येति पदाभावेन तदसङ्गतेः, अध्याहारस्य च निर्मूलत्वात्, शतपथविरोधाच्च । तत्र हि श्री राष्ट्रमश्वमेध इत्युक्तम्, न तु प्रजाया मध्यं श्रीरित्युक्तम् । तथा राष्ट्रस्यो -च्छ्रयणमुक्तम् । उत्तरत्र च श्री राष्ट्रसार इत्युक्तम् । भारवह्नोक्त्या अस्मै यजमानाय श्रियमेव राष्ट्र सन्नह्यतीत्युक्तम् । तत उत्तरत्र श्री राष्ट्रस्य मध्यमुक्तम्, न प्रजाया मध्यस्य श्रीत्वमुक्तम् । ब्राह्मणं तु सिद्धान्तव्याख्यानप्रसङ्गे व्याख्यातमेव ॥ २६ ॥
ऊ॒र्ध्व मेन मुच्छ्रयताद् गिरौ भार हर॑न्निव अथा॑स्य॒ मध्य॑मेजतु मध्यमेजतु शीर्ते बातें पनन्निव ॥ २७ ॥
रू मन्त्रार्थ- - वावाता उद्गाता से कहती है कि हे प्रजापति! इस उद्गाता को यज्ञ कर्म द्वारा ऊंचा उठाओ. जैसे कि पर्वत पर भार को चढ़ाने वाला उसको ऊंचा उठाता है अथवा जैसे शीतल वायु चलने पर कृषक धान्यपात्र को ऊँचा उठाता है । ऐसा होने पर इसका मध्यलोक का तेज प्रदीप्त हो ॥। २७ ॥ वावाता उद्गातारं प्रत्याह- भवतोऽप्येतत् समानमेव । कश्चिन्नर एनमुद्गातारमूर्ध्वमुच्छ्यताद् उच्छ्रितं कुरुतात् । कथमिव? गिरौ भारं हरन्निव । अथ यथा अस्य उद्गातुर्मध्यं लिङ्गमेजतु कम्पताम् । ' एज़ कम्पने ' शीते वाते यवान् पुनन्निव एनं निगृह्णातु । अध्यात्मपक्षे - गुरुराह, हे भगवन् परमेश्वर! एनं साधकम् ऊर्ध्वं ब्रह्म तदभिमुखं भवानुच्छ्रयतात् । कथमिव? गिरौ भारं हरन्निव । यथा अस्य मध्यमन्तःकरणम् एजतु एजतां दीप्यतु ब्रह्माभिमुखं सत् प्रकाशताम् । यथा शीतले वायौ कृषीबलो धान्यं पुनन् शोधयन् बुसादिभ्यो विवेचयति, तदा धान्यं स्पष्टतरं पृथक् प्रकाश्यते, तथास्यान्तःकरणं स्वात्मानमनात्मभ्यो विविच्य स्पष्टतरं प्रकाशताम् । दयानन्दस्तु - ' हे प्रजास्थ विद्वन् भवान् गिरौ भारं वहन्निव एनं राजानमूर्ध्वमुच्छ्रयतात्, यथास्य मध्यं प्राप्य शीते वाते पुनन्निव एजतु ' इति, तदपि यत्किञ्चित् पूर्वकण्डिकाप्रदर्शितदोषग्रस्तत्वात् । यत्तु हिन्दीव्याख्याने ' शुद्धं भवदन्नमिव एजतु उत्तमकर्मसु चेष्टताम् ' इत्युक्तम्, तदप्यसङ्गतम्, नहि दृष्टान्तेऽन्नं १३