वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 131–140
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 131–140
पृष्ठ 131
पाठ पढ़ें पाठ छिपाएँ
९ ८ शुक्लयजुर्वेद संहिता [ अ ० २३ कम्पते, किन्तु अन्नाधारं पात्रं कम्पते । कम्पयिता तु कृषीबलः । दान्ते तु विद्वान् चेष्टते न कम्पते । न च च । तस्यान्यः कम्पयिता । किञ्च सकर्मकीऽयं पुनातिः । तेन अन्नस्य पुनातिकर्मत्वमेव न कर्तृत्वम् । वैरूप्यं तथाहि - प्रथममन्त्रे राजानं सम्बोध्य भवानेधतामित्युक्तम् । अत्र तु विद्वांसं सम्बोध्य तस्य उत्तमकर्मसु चेष्टच्यते । पूर्वत्र प्रजाया मध्यं लक्ष्मीं प्राप्य तस्य वर्धनमुक्तम्, इह तु विदुषो राज्यस्य मध्यं लक्ष्मीं । पदानां प्राप्य चेष्टनमुच्यते । पूर्वत्र तु राज्यश्रिया युक्तायाः प्रजाया ऊर्ध्वोन्नयनमुक्तम्, इह तु राजोन्नयनमुच्यते समानतायामप्यर्थवैषम्ये का विनिगमना? ॥ २७ ॥
यवस्था अभेयः धु मुष्काविदस्या एजतो गोशफे
स्थूलमु॒पात॑सत् ।
शकलाविव ॥ २८ ॥
प्रकृति का मन्त्रार्थ - होता परिवृक्ता से कहता है कि हे देहाभिमान! जब इस पापी के निवास स्थान अपरा ही मिथ्या रूप से प्रकाशित स्थूल और सूक्ष्म शरीर क्षय का प्राप्त होता है, तब इस अपरा प्रकृति के चोर, काम और मोह होते हैं, जैसे कि जलपूर्ण गोखुर में निश्चेष्ट दो मत्स्य ॥ २८ ॥
होता परिवृक्तामभिमेथयति - यद् यदा अस्या अंहुभेद्या अंहु भगो भेद्यो विदार्यो यास्क: यस्यास्तस्या । ' अहतिश्व अंहुभेद्याः , अंहश्व ।, ' अंहतिवाहवांहुच हन्तेनिरूढोपधाद्विपरीतात् ' ( नि ० ४।२५ ) इति भगवान् कृत्वा ततो ह्कारनकारौ अंहुश्च इत्येते शब्दा हन्तेर्निरूढोपधाद् विपरीताद् अकारमुपधातोर्निष्कृष्य आदौ, अतोऽङ्कुशब्देन योनि-विपर्ययेण भवतः ' इति तत्रभवान् दुर्गः । हन्तव्या च योनिरक्षतयोन्याः कौमारहरणे: प्रजननं यस्याः गृहीता । अथवा अंहु भगो भिद्यते वा यस्यास्तस्या अंहुभेद्याः । यद्वा - अंहुर्हन्तव्यो भेद्यप्रदेश च पुंस्प्रजननमुपातसद् परिवृक्तायाः सा अंहुभेदी, तस्या योनिं प्रति कृधु ह्रस्वं योनिस्पर्शेच्छया च स्थूलं एजतः कम्पते । कथमिव? उपगच्छेत्, अथ तदा योनेरल्पत्वाद् मुष्कौ वृषणौ इद् एव अस्याः प्रजननोपरि गोश उदकपूर्ण गोष्पदे शकुल मत्स्याविव । अध्यात्मपक्षे --- यद् यदा अंहुभेद्या अंहु हन्तव्यो भेद्यः पापसमूहो यया तस्याः पापसमूहविनाशिन्या बुद्धेः, कृधु स्वल्पं स्थूलं महच्च सर्व विषयजातम्, उपातसद् बुद्धिमुपालङ्करोति, विषयौ अपापाया गोष्पदे बुद्धेः शकुलौ सर्वस्यैव मत्स्याविव स्थूलस्य सूक्ष्मस्य वा विषयस्य ब्रह्मात्मनैव भासमानत्वात् । तदा तादृशा उभावपि साधु, मुकौ मुणीत दुःखानीति मुष्कौ ' सृवृभृशुषिमुषिभ्यः कक् ' ( उ ० ३।४१ ) इति मुषेः ककुप्रत्ययेन दुःखापहारकावेव भूत्वा एजतः क्रीडतः । महत् दयानन्दस्तु – ' यद् यो राजा राजपुरुषश्च अस्या अंहुभेद्या अपराधभेदिन्याः प्रजायाः कम्पयतः कृधु । स्वल्पं यथा स्थूलं प्रीतिमन्तौ कर्म उपातसद् उपभूषयेत्, तौ अस्या गोशफे शकुलाविव मुष्कौ मूषकौ इदेव एजतः प्रीत्या वर्तेयाताम् । यदि मत्स्यावल्पेऽपि जलाशये निवसतस्तथा राज - राजपुरुषौ अल्पेऽपि करलाभे न्यायेन कृत्वा स्वविषये प्रीति दुःखादितायाः प्रजायाः स्वल्पं महदुत्तमं कर्म प्रशंस्येयाताम् तर्हि तौ प्रजा उपरक्ताः च मन्त्रबाह्य-कारयेताम् ' इति, तदपि यत्किञ्चित्, अंहुपदस्य अपराधार्थत्वे मानाभावात्, राज - राजपुरुषावित्यस्य त्वात् । भावार्थस्तु कल्पनाप्रधान एव, मूलासम्बद्धत्वात् ॥ २८ ॥
यद् दे॒वासो॑ ल॒लाम॑गं ह
प्रविष्टा॒मिन॒मा वि॑षुः ।
स॒क्थ्ना दे॑दिश्यते नारी॑ स॒त्यस्या॑क्षि॒भुवो॑ यथा ॥ २ ९ ॥
पृष्ठ 132
पाठ पढ़ें पाठ छिपाएँ
म ० २ ९ -३० ] वेदार्थ पारिजात भाष्यसहिता ९९ मन्त्रार्थ --- परिवृक्ता होता से कहती है कि जब प्राण ज्ञानरसयुक्त ब्रह्मानन्दमय जीव को ब्रह्म में प्रविष्ट कराते हैं, तब परा शक्ति विष्णु महानारायण, ब्रह्मा और शिव के रूप में दिखाई पड़ती है । जैसे कि सत्य का प्रत्यक्ष दर्शन होता है ॥ २ ९ ॥ परिवृक्ता होतृप्रभृतीन् सर्वानेव ऋत्विजः परिवदति । यद् यदा देवासो दीव्यन्तीति देवास एते देवा होत्रादय ऋत्विजः शिश्नदेवाः शिश्नक्रीडनका ललामनुं ललामं सुखं कर्तुं गच्छतीति ललामगुलिङ्ग तं पुंस्प्रजननम् । यद्वा ललामं पुण्ड्रं गच्छतीति ललामगुः तं लिङ्ग योनिं प्रविशद् उत्थितं सत् पुण्ड्राकारं भवतीति ललामं पुंस्प्रजननम् । प्रविष्टीमिनं प्रवेश्य विष्टभ्य च आविषुरालिङ्गनचुम्बनादिभिर्नारीं व्याप्नुवन्ति, अथ तदा नारी सक्न सक्थिकृतेन कुटिलगमनेन निर्दिश्यते लक्ष्यते, सक्थ्नोऽन्यत्र सर्वाङ्गाणां पुरुषेण व्याप्तत्वात् । कथमिव तत्र हि? सत्यस्य अक्षिभुवो यथा । द्विप्रकारं हि सत्यम् - अक्षिप्रभवमनक्षिप्रभवं चेति । अक्षिप्रभवमक्षिग्राह्यम्, सर्वं व्याप्तम् । अनक्षिप्रभवं श्रोत्रग्राह्यम्, तत्तु साकाङ्क्षं वक्तुराप्ततामपेक्षते । अतो विशिनष्टि - अक्षिभुव इति । सत्यस्य अक्षिभुवो यथा अवितथवस्तुबोधकत्वम्, तथा ऊरुणा नारी बोध्यते । यद्वा - यदा देवासो ललामगुं लिङ्गमाविषुर्योनौ प्रवेशयन्ति, ' अव रक्षे गतौ कान्तौ तृप्तौ प्रीतौ तौ श्रुतौ । प्राप्तौ श्लेषेऽर्पणे वेशे भागे वृद्धौ गृहे वधे ॥ ' इत्युक्तेरत्र अवधातुः प्रवेशनार्थः । ' छन्दसि लुङ्लङ्लट: ' ( पा ० सू ० ३ | ४ | ६ ) इति कालसामान्ये लिङ् । ' व्यवहिताच ' ( पा ० सू ० ११४।८२ ) इति व्यवहितस्यापि प्रोपसर्गस्य प्रयोगः । कीदृशं ललामगुम्? विष्टीमिनम् ' स्टीम आर्द्राभावे ', विशेषेण स्तीमनं क्लेदनं विष्टीमः घञ्प्रत्ययः सोऽस्यास्तीति विष्टीमी, ' अत इनिठनौ ' ( पा ० सू । ११५ ) इति इनिः । शिश्नस्य योनिप्रवेसे क्लेदनं भवतीत्यर्थः । पुंस्प्रजननस्य स्त्रीप्रजनने प्रवेशे क्लेपनं भवति । तादृशं विष्टीमिनं ललामगुं देवासो आविषुः प्रवेशयन्ति तदालिङ्गनचुम्बना-दिभिर्व्याप्तत्वाद् ऊरुभ्यां देदिश्यते निर्दिश्यतेऽत्यन्तं लक्ष्यते । अध्यात्मपक्षे दीव्यन्ति संसारं विजिगीषन्तीति देवासः, ललामगुं ललामं लयामवदलङ्कारवद् गच्छन्ति प्राप्नुवन्ति यं तं विष्टीमिनं विशिष्टस्नेहार्द्र भक्तानुग्रहकातरं परमात्मानमाविषुः कामयन्ते । यथाक्षिभुवः सत्यस्य अवैतथ्यमक्ष्णा लक्ष्यते तथा यथा सक्थना ऊरुमार्दवेन नारी देदिश्यते निर्दिश्यते, तथा प्रेम्णा परमात्मा लक्ष्यत इति शेषः । दयानन्दस्तु - ' हे राजन्, यथा सत्यस्याक्षिभुवो मध्ये वर्तमाना देवासः सक्थ्ना नारीव यद्विष्टीमिनं ललामगुं न्यायं प्रविषुः यथाप्तेन सत्यमेव देदिश्यते, तथा त्वमाचर । न्यायेनेसां गच्छन्ति ललामनुं विशिष्टा बहवः ष्टीमा आर्द्रीभूताः पदार्थो विद्यन्ते यस्मिन् तम् ' इति, तदपि यत्किञ्चित् निर्मूलाध्याहारेऽपि विस्पष्टताया अभावात्, न्यायस्यामूर्तत्वेन तत्र आर्द्रपदार्थानां विद्यमानत्वायोगात् । ' यथा शरीरावयवैः स्त्रियः पुरुषा वा लक्ष्यन्ते, तथा प्रत्यक्षादिप्रमाणैः सत्यं लक्ष्यते । यथा विद्वांसः प्राप्तव्यमाद्रभावं प्राप्नुयुस्तथेतरे राजप्रजास्थाः स्त्रीपुरुषा विद्या विनयं प्राप्य सुखमन्विच्छन्तु ' इत्यादिभावस्तु सर्वथा मन्त्रबाह्य एव, मन्त्रार्थाननुगमात् ॥२ ९ ॥ यद्ध॑रि॒णो यव॒मत्ति॒ न पृ॒ष्टं प॒शु मन्य॑ते । शूद्रा यदये॑जारा॒ न पोषय धनायति ॥ ३० ॥
मन्त्रार्थ - क्षत्ता पालागली से कहता है कि जब वासनारूप हरिणी विषयरूप जो को खाती है, तब हृदयाकाश में परमात्मा वासनाओं से भरे हुए संस्कारहीन पशुसमान जीव को सद्गुणों से पुष्ट नहीं मानते । जब द्वंत के उपासक जीव की पत्नीरूप बुद्धि ब्रह्मभाव से रहित हो अम्य देवताओं की भक्त होती है, तब वह मोक्ष - धन की दाता नहीं हो सकती । अतः ब्रह्मभाव को जगाते हुए जीव को अनन्य रूप से एक ही देव की भक्ति करनी चाहिये ॥ ३० ॥
पृष्ठ 133
पाठ पढ़ें पाठ छिपाएँ
१०० शुक्लयजुर्वेद संहिता [ अ ० २३ क्षत्ता पालागलीमभिमेथयति - यद् यदा हरिणो मृगो यवं सस्यमत्ति भक्षयति, अथ तदा क्षेत्री पशु पशुं हरिणम्, विभक्तिलोपः, पुष्टं न मन्यते मम क्षेत्रभक्षणेन पशुः पुष्टो जातः सम्यगिति न जानाति, किन्तु मदीयं क्षेत्रं भक्षितमिति दुःखी भवति । एवं शूद्रा शूद्रत्वजातिविशिष्टा स्त्री, ' शुद्रा चामहत्पूर्वा जातिः ' ( पा ० सू ० ४। १ ४, वा ० ३ ) इति शूद्रशब्दात् टाप् । अर्थजारा, अर्थो वैश्यो जारो यस्याः सा तथोक्ता, ' अर्यः स्वामि-वैश्ययोः ' ( पा ० सू ० ३ | १ | १०३ ) इति निपातः । अर्येण वैश्येन स्वपत्न्यां शूद्रायां भुक्तायां मद्भार्या वैश्येन भुक्ता सती पुष्टा जातेति शूद्रो न मन्यते किन्तु व्यभिचारिणी जातेति दुःखितो भवति । न च तस्यां धनायति धनमिव तां न मन्यते, परोपभोग्यत्वात् । अध्यात्मपक्षे यद् यदा हरिणो मनोमृगो यवं विषयजातमत्ति, तेन साधको मनः पशुः पुष्टो जात इति न मन्यते 1 किन्तु खिद्यत एव शमदमादिपरिपन्थित्वात् । तथैव शूद्रा शूद्रतुल्या मलिना बुद्धिरर्यमभिगम्यं श्रेष्ठगुणं जरयति या सा अर्यंजारा तादृशी बुद्धि:, पोषाय भक्तिज्ञाननिष्ठायै न, कल्पत इति शेषः । न च सा धनायति न च तां धनवन्मन्यते, तस्या ज्ञानवैराग्यादिधननाशनिमित्तत्वात् । दयानन्दस्तु —'यद् यो राजा हरिणो यवमत्तीव पुष्टं पशु न मन्यते, सपद्यर्यंजारा शूद्रेव पोषाय न धनायति ' इति, तदपि यत्किचित, मूले राजप्रजापदाभावात् भावार्थवैपरीत्याच्च । तथाहि - यो राजा पशुवद् व्यभिचारे वर्तमानः प्रजापुष्टि न करोति स धनाढ्या शूद्रा अर्थजारा दासीव सद्यो रोगी भूत्वा पुष्टि विनाश्य धनहीनता दरिद्रः सन् म्रियते । तस्माद्राजा कदाचिदपि ईर्ष्या व्यभिचारं च नाचरेदिति भावार्थे तद्विपरीतमुक्तवान् । भावार्थोऽपि मूलासंस्पर्थ्येव ॥ ३० ॥
यद्ध॑रि॒णो यव॒मत्ति॒ न पुष्टि॑ ब॒हु मन्यते । शूद्रो यदर्या॑ये॑ जा॒रो न पोष॒मनु॑मन्यते ॥ ३१ ॥
मन्त्रार्थ - पालागली क्षत्ता से कहती है कि जब मनरूपी हिरण विषयों का उपभोग करता है, तब हृदयाकाशस्थ परमात्मा उसको बहुत पुष्ट नहीं मानता । जब संस्कारहीन आत्मा भेवोपासना में लग जाता है, पूर्ण ब्रह्म को त्याग कर माया में आसक्त हो जाता है, तब अन्तर्यामी परमात्मा उसकी पुष्टि को नहीं मानता ॥ ३१ ॥
पालागली क्षत्तारमाह - यद् यदा हरिणो यवमत्ति तदा क्षेत्री बहु यथा स्यात्तथा पशुं पुष्टं न मन्यत इति यद्भवानाह, तत्तु भवतोऽपि तुल्यम् । इयांस्तु विशेष: यद् यदा शूद्रः, अर्यायै अर्याया वैश्यायाः, चतुर्थी, जारो भवति, तदा वैश्यः पोषं पुष्टिं नानुमन्यते किन्तु शूद्रेण स्वपत्न्यां भुक्तायां क्लिश्यत एव । इत्यश्लीलभाषणम् । अध्यात्मपक्षे - यद् यदा हरिणो मनोमृगो यवं विषयमत्ति, तदा साधको न तद्वहु मन्यते, सर्वत्र विषय-भोगस्य सुलभत्वात्, निवृत्तेरेव महाफलत्वात्, ' प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ' ( म ० ५।५६ ) इति मनुवचनात् । यदा शूद्रोऽर्याया जारो भवति, तत्तु वर्णाश्रमविरुद्धत्वात् क्लेशावहमेव । वर्णाश्रमाचारवत एव भगवदुपासनादिभिः शुद्धस्वान्तस्य सतो बुद्धिशुद्धि ब्रह्मविविदिषादिक्रमेण - ब्रह्मज्ञानसम्भवात्, तद्विपरीतस्य संसारहेतुत्वाच्च । दयानन्दस्तु -- ' यद् यः शूद्रो मूर्खकुलोत्पन्नोऽर्यायै जारो भवति यथा पोषं नानुमन्यते । यद् यो राजा हरिणो यवमत्तीव पुष्टं प्रजाजनं बहु न मन्यते स सर्वतः क्षीणो जायते ' इति, तदपि यत्किञ्चित् बुद्धिमत्कुलो-त्पन्नस्य व्यभिचारानुमत्यापत्तेः, मूले राजपदाभावाच्च । स सर्वतः क्षीणो जायत इत्यपि मन्त्रबाह्यमेव, मूले तदभावात् ।
पृष्ठ 134
पाठ पढ़ें पाठ छिपाएँ
म ० ३१ ] वेदार्थ पारिजात भाष्यसहिता १०१ अत्र किमपि वक्तव्यम् -- दयानन्दोऽन्ये च तादृक्षा आधुनिका: ' गणानां त्वा ' इत्यारभ्य ' यद्धरिणो यत्ति न पुष्टं बहु मन्यते ' इत्यन्तस्य मन्त्रसमूहस्य सायणोव्वटमहीधराणां व्याख्यानमरलीलं मत्वा निन्दित्वा च तान् मन्त्रानन्यथा व्याचक्षते । तत्तु दयानन्दीय भूमिकादिभिः स्पष्टं भवति । तदीयं व्याख्यानं बलादिव मन्त्रेष्वारोपितमेव स्पष्टं तद्विदामाभाति । वस्तुतः स्पष्टमेव शतपथश्रुत्यापि तेषां मन्त्राणामश्लीलभाषणपरत्व-मङ्गीकृतमेव । उव्वटमहीधरव्याख्यानमेव श्रुत्यापि समर्थ्यते । केचित्तु गणानां त्वेति मन्त्रेण महिष्या अश्वेन सह मैथुनवर्णनं मत्वाऽश्लीलतां मन्यन्ते । तत्तु सर्वथा श्रुतिसूत्रविरुद्धमेव, संज्ञप्तेन मृतेन अश्वेन मैथुनासम्भवात् । न केवलमश्वो मृतः, अपि तु सर्वे संज्ञपनीयाः पशवः संज्ञप्ताः तेषां तत्तदवयवारच यथाविध्यवत्ताः । तथा च ब्राह्मणम् —'तस्मिन्नेनमधि संज्ञपयन्त्यन्यैरेवैनं तत्पशुभिर्व्याकुर्वन्ति ' ( श ० १३ | २ | ८१ ), ' घ्नन्ति वा एतत्पशुम् । यदेन, संज्ञपयन्ति प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति प्राणानेवा-स्मिन्नेतद्दधाति तथो हास्यैतेन जीवतैव पशुनेष्टं भवति ' ( श ० १३२२८२ ) इति स्पष्टं प्रतीयते यदश्वसंज्ञ-पनानन्तरं प्राणाय स्वाहेत्यादिभिराहुतिभिरश्वे प्राणादिसन्निधापनेन जीवदानं कृत्वा सजीवेन पुरोडाशादिना यजति, तथैव सजीवेनैवाश्वेन यजति नानेनाश्वस्य पुनर्जीवनं मन्तव्यम् । प्रागाद्याधानस्य तु पुरोडाशेषु जीव-दानवत् संस्कारमात्रत्वमेव । ' निष्ठितेषु पान्वेजनेषु । महिषीमश्वायोपनिपादयन्त्यथैनावधिवासेन सम्प्रोर्गुवन्ति स्वर्गे लोके प्रोर्णुवाथामित्येष वै स्वर्गो लोको यत्र पशु " संज्ञपयन्ति ' ( श ० १३ | ५ | २२ ) इत्यनेनापि पशुसंज्ञ -पनानन्तरं संज्ञानस्थानस्यैव स्वर्गलोकत्वम् । तस्मिन् स्वर्गे लोक एव अश्वमहिम्योः सह निवासः । सूत्रकारा अपि तथैवाहुः - ' प्रक्षालितेषु महिष्यश्वमुपसंविशत्याहमजानीति ' ( का ० श्र ० २०।६।१४ ) । संज्ञपनानन्तरं मृतस्य पशोः प्राणेषु पूर्ववत् प्रक्षालितेषु सत्सु महिषी अश्वसमीपे शयीतेति सूत्रार्थः । ' मुखं नासिके चक्षुषी कर्णौ नाभि मेढं पायुं पादान् स हृत्य वाचं ते शुन्धामीति प्रतिमन्त्रम् ' ( का ० श्र ० ६ ६ ३ ) । ' शेषेण यजमानश्च शिरः प्रभृत्यनुषिञ्चतो मनस्त इति शिर: ' ( का ० श्र ० ६ | ६ | ४ ) । पान्नेजनशेषेण यजमानो-ऽध्वर्युश्च पशोः शिरःप्रभृत्य ङ्गान्यनुषिश्वेताम् । तत्र मनस्त इति मन्त्रेण पशोः शिरोऽनुषिञ्चत इति सूत्रार्थः । ‘ यत्ते क्रूरमित्यङ्गानि ' ( का ० श्र ० ६ ६ ५ ) । यत्ते क्रूरमिति सर्वाण्यङ्गान्यनुषिञ्चत इति सूत्रार्थः । ' शमहोभ्य इति पश्चात्पशोर्निषिञ्चतः ' ( का ० श्र ० ६ ६ ६ ) | पशोर्जघनप्रदेशे पान्नेजन शेषमुभावपि निनयत इति सूत्रार्थः । ' उत्तानं पशुं कृत्वाऽग्रेण नाभि तृणं निदधात्योषध इति ' ( का ० श्र ० ६ ६ ७ ) | अध्वर्युः पशुमुत्तानं कृत्वा नाभेरग्रतो ( वपायाः स्थाने ) चतुरङ्गुलं त्यक्त्वा प्रागग्रं तृणं निदध्यादिति सूत्रार्थः । इत्येवमेभिः सूत्रैर्मृतस्य पशोरङ्गानां च संस्काराः क्रियन्ते । एवं प्रक्षालितेषु महिषी अश्वसमीपे शेते । एवं मृतस्याश्वस्याङ्गेषु यथा-विध्यवत्तेषु ( छिन्नेषु ) प्रक्षालितेषु ' अधीवासेन प्रच्छादयति स्वर्गे लोक इति ' ( का ० श्रौ. २०।६।१५ ) | अध आस्तृतेन अधीवासेन अश्वमहिष्यौ प्रच्छादयेत् स्वर्गे लोक इति मन्त्रेणेति सूत्रार्थः । ' अश्वशिश्नमुपस्थे कुरुते वृषा वाजीति ' ( का ० श्र ० २०१६ | १६ ) | महिषी अश्वस्य मृतस्य संस्कृतस्य संस्कृतं शिश्नं स्वयमेवादाय स्वयोनिप्रदेशे स्थापयेदिति सूत्रार्थः । नहि मृतेनाश्वेन मैथुनं संभवति, संस्कारमात्रं तु क्रियते । अश्वमेधीयोऽश्वः ' उषा वा अश्वस्य मेध्यस्य शिरः ' ( बृ ० १ १ १ १ ) इत्यादिश्रुत्या बृहदारण्यके प्रजापति-रूपेणीपास्यः श्रुतः । संस्कारार्थमेव तदुपस्थस्य महिष्या स्वयोनिप्रदेशे धारणम्, पत्नीसन्नहनादिवदस्यापि संस्काररूपत्वात् । न केवलं सूत्रकार एव, किन्तु शातपथी श्रुतिरपि तथैवाह -- ' निरायत्याश्वस्य शिश्नं महिष्युपस्थे निधत्ते वृषा वाजी रेतोधा रेतो दधात्विति मिथुनस्यैव सर्वत्वाय ' ( श ० १३५ २ २ ) इति । पुरोडाशे जीवदानं यथा वा मृते पशौ प्राणापानाद्याधानं संस्कारार्थमेव, तथैव रेतोधा इति मन्त्रेणापि संस्कार एवं क्रियते, न रेतोधानम्,
पृष्ठ 135
पाठ पढ़ें पाठ छिपाएँ
१०२ शुक्लयजुर्वेद संहिता [ अ ० २३ मृते रेतोधातृत्वायोगात् । ' तयोः शयानयोरश्वं यजमानोऽभिमेथत्युत्सवथ्या अव गुदं धेहीति तन्न कश्चन प्रत्यभिमेथति नेद्यजमानं प्रतिप्रतिः कश्चिदसदिति ' ( श ० १३ || २ | ३ ) । तथात्वे यजमानः प्रतिद्वन्द्वीकृतः स्यात् । न च तद्युक्तम्, तस्य भाविप्रजापतित्वेनाप्रतिद्वन्द्वित्वात् । दयानन्दस्तु गणानां त्वेत्यत्र जगदीश्वरं सम्बोधयति, ता उभौ इत्यत्र प्रजाराजानौ सम्बोधयति, उत्सवथ्या इत्यत्र वृषा राजा सम्बोधितः । एवं तत्र तत्र यथेष्टं मनुष्या राजानश्च सम्बोधिताः । तच्च सर्वमसङ्गतम्, निर्मूलत्वात् । उव्वमहीधरादयस्तु श्रुत्यनुसारेणैव कः कं प्रति वक्तीति स्पष्टमुक्तवन्तः । तथा च श्रुतयः - यजमानोऽ-भिमेथति ' ( श ० १३ | ५ | २ | ३ ), ' अथाध्वर्युः कुमारमभिमेथति । कुमारि हये हये कुमारि यकासको शकुन्ति तं कुमारी प्रत्यभिमेथत्यध्वर्यो ह्ये ह्येऽध्वर्यो यको s सको शकुन्तक इति ' ( श ० १३ | ५ | २ | ४ ) । ' अथ ब्रह्मा महिषीमभिमेथति । महिषि हये हये महिषि माता च ते पिता तेऽग्रं वृक्षस्य रोहत इति तस्यै शत राजपुत्र्योऽ-चर्यो भवन्ति ता ब्रह्माणं प्रत्यभिमेथन्ति ब्रह्मन् हये ये ब्रह्मन् माता च ते पिता च तेऽग्रे वृक्षस्य क्रीडत इति ' ( श ० १३ | ५ | २ | ) | ' अथोद्गाता वावातामभिमेथति । वावाते ये ये वावात ऊर्ध्वामिनामुच्छ्रापयेति तस्यै शत राजन्या अनुचर्यो भवन्ति ता उद्गातारं प्रत्यभिमेथन्त्युद्गातये हय उद्गातरूर्ध्वमेनमुच्छ्रयतादिति ' ( श ० १३ | ५ | ६ ) । अथ होता परिवृक्तामभिमेथति । परिवृक्ते हये ये परिवृक्ते यदस्या अहुभेद्या इति तस्यै शत, सूतग्रामण्यां दुहितरोऽनुचर्यो भवन्ति ता होतारं प्रत्यभिमेथन्ति होतये हये होतर्यद्देवासो ल्लामगुमिति ' ( श ० १३।५।२७ ) । एतेन सायणादिव्याख्यानमेव श्रुतिसम्मतम्, न दयानन्दीयमिति निगदव्याख्यातम् । ' चतस्रो जाया उपक्लृप्ता भवन्ति । महिषी वावाता परिवृक्ता पालागली सर्वा निष्किण्योऽलङ्कृता मिथुनस्यैव सर्वत्वाय ताभिः सहाग्न्यगारं प्रपद्यते पूर्वया द्वारा यजमानो दक्षिणया पत्न्यः ' ( श - १३ | ४ | ११८ ) । प्रथम-परिणीता पत्नी महिषी । वावाता वल्लभा । परिवृक्ता अवल्लभा । पालागली दूतपुत्री | ' मेथतिराक्रोशकर्मा ' ( नि ० ४। २ ) । अश्लीलभाषणमेवोक्तमन्त्राणां व्याख्यानं युक्तम् । यतः श्रुत्यैव तादृशभाषणेन वाचोऽपूता वर्ण्यते । तत्पूततायै मन्त्रान्तरेण वाचः शुद्धिविधीयते, ' अप वा एतेभ्य आयुर्देवताः क्रामन्ति । ये यज्ञेऽपूतां वाचं वदन्ति वाचमेवैतत्पुनते देवयज्यायै देवतानामनपत्रमाय ' ( श ० १३ | ५ | २ | १० ) इति श्रुतेः । यज्ञेऽपूताया वाच वदनेन आयुर्देवानामपक्रमणं भवति, अतस्तासां देवतानामनपक्रमणाय दधिक्राव्ण इति मन्त्रेण वाचमेव पुते ॥ ३१ ॥
afarait कारिषं जिष्णोरश्व॑स्य वाजिनः ।
सुर॒भि नो॒ मुख कर॒त् प्रण॒ आयु॑षि तारिषत् ॥ ३२ ॥
मन्त्रार्थ - अध्वर्यु, ब्रह्मा, उद्गाता, होता और क्षता महिषी को उठाकर पढ़ते हैं कि सवारी को धारण कर चलते, जयशील, गमनशील, वेगगामी अश्व का हमने संस्कार किया है । मन्त्रपाठ से हमारे मुखों को सुगन्धित किया है । अवाभिमानी देव हमारी बाल्य आदि तीनों अवस्थाओं को बढ़ायें ॥ ३२ ॥
अस्य मन्त्रस्य द्विविधं व्याख्यानं दृश्यते । तद्यथा-( १ ) हे प्रजापतिरूपाश्च! नोऽस्माकं मुखा मुखानि सुरभि सुरभीणि करत् करोतु, यज्ञ इति शेषः । अश्लील-भाषन दुर्गन्धं प्राप्तानि मुखानि यज्ञः सुरभीणि करोत्वित्यर्थः, ' अप वा एतेभ्यः प्राणाः क्रामन्ति । ये यज्ञे ऽ-
पृष्ठ 136
पाठ पढ़ें पाठ छिपाएँ
म ० ३२ ] वेदार्थपारिजातभाष्यसहिता १०३ पूतां वाचं वदन्ति दधिक्राव्णो अकारिषमिति सुरभिमतीमृचमन्ततोऽन्वाहुर्वाचमेव पुनते नैभ्यः प्राणा अप-क्रामन्ति ' ( ० १३ | २ | ९ / ९ ) इति श्रुतेः । अतः पूर्व मन्त्राणाम रलीलभाषणमेवार्थं इति स्पष्टम् । ननु यद्यश्लीलभाषणेन वाचोऽपूतता भवति, तर्हि किमर्थं श्रुत्या मन्त्रैरश्लीलभाषणं विहितम् सर्वाप्त्यै? ' प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ' इति न्यायेन परिवर्जनस्यैव युक्तत्वात्? इति चेन्न ।, वाचः यदभिमेथिकाः तादृशभाषणस्याश्वमेधाङ्गत्वेनावश्यकर्तव्यत्वात् । तदुक्तं श्रुत्यैव - ' समाप्तिर्वा एषा वाचः सर्वे कामा अश्वमेघे सर्वया वाचा सर्वान् कामान् आप्नवामेति ' ( श ० १३।५।२।९ ) इति । अश्वमेधस्य प्रजापतिदेवता सर्वदेवरूपः । अश्वमेधस्य पशुरश्वः सर्वदैवतो भवति । ' सर्वं वै पूर्ण, सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्धयै तस्यां वरेण वाचं विसृजते वरं ददामि ब्रह्मण इति सर्वं ' वै ( वरः श ० सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्धयै ' ( श ० १३ | ४ | १ | १० ) । ' सर्वा वै देवता अश्वमेधे अन्वायत्ताः देवानां वीर्यवत्तमो १३ | १ | २।९ ) । ' तस्मादश्वमेधयाजी सर्वा दिशोऽभिजयति ' ( श ० १३ | १ २ ३ ) । ' प्रजापतिवें ' ( श ० १३।३।४।१ ) । वीर्यमेवास्मिन् दधाति ' ( श ० १३ | १ | २ | ५ ) | ' सर्वाभ्यो वै देवताभ्योऽश्व आलभ्यते ' प्रजापतिरकामयत । सर्वान् कामानाप्नुया सर्वा व्यष्टीर्व्यश्नुवीयेति स एतमश्वमेधं ह वै कामानाप्नोति त्रिरात्रं यज्ञक्रतुमपश्य- सर्वा व्यष्टी -तमाहरत्तेनायजत तेनेष्ट्वा सर्वान् कामानाप्नोत् सर्वा व्यष्टीर्व्याश्नुत सर्वान् :, यथाश्वः सर्वदैवतः, यथाश्वमेघेन श्नुते योऽश्वमेधेन यजते ' ( श ० १३ । ४ । १ । १ ) । यथाश्वमेधः सर्वदेवात्मक सर्वान् कामानाप्नोति, सर्वा दिशो जयति, तथैव वाचोऽपि सर्वाप्तिरपेक्ष्यते । वैदिकेषु वाङ्मयेध्वश्लीलेतराः सर्वा वाचोऽन्तर्भवन्ति, अश्लीलभाषणेन वाचः सर्वाप्तिर्भवति । पुराणेषु केषाञ्चिद्राक्षसाद्युपद्रवाणां विद्रावणाया-श्लीलभाषणं विहितम् । तच्च फाल्गुनमासे होलिकायां परां काष्ठामुपगच्छति । अश्वमेध फाल्गुनशुक्लपक्षे समारभ्यते - ' सा याऽसौ फाल्गुनी पौर्णमासी भवति । तस्यै पुरस्तात् षडहे वा सप्ताहे वर्त्विज श्रुतेः उपसमायन्त्य- , ' अष्टम्यां ध्वर्युश्च होता च ब्रह्मा चोद्गाता चैतान् वा अन्वन्य ऋत्विजः ' ( श ० १३ | ४ । | ११४ अश्वमेधविषयश्च ) इति भूमिकायां नवम्यां वा फाल्गुन शुक्लस्य ' ( का ० श्र ० २०११ २ ) इति कात्यायनस्मरणाच्च पर्याप्तं पर्यालोचितः । तत्रैव कणेहत्य बुभुत्सोपशमनीया । ( २ ) ' महिषीमुत्थाप्य पुरुषा दधिक्राव्ण इत्याहु: ' ( का ० श्री ० २०।६।२१ ) | महिषीं यजमानस्य दधिक्राव्ण प्रथम- इति परिणीतां पत्नीमश्वसमीपे सुप्तामुत्थाप्य पुरुषा अध्वर्युब्रह्मोद्गातृहोतृक्षतारः सुरभिमतीमृचं अश्वदेवत्याऽनुष्टुप् । मन्त्रमश्लीलभाषणजनितमुखदौर्गन्ध्यापनोदाय पठेयुरिति सूत्रार्थः । वामदेवात्मजदधिक्रावदृष्टा कृतवन्तो वयम्, वचन-यद् अश्वस्य मार्गव्यापनशीलस्य संस्कारार्थं वयमश्लील भाषणमकारिषमकार्षमकार्ष्म, पापहेतुत्वात् । व्यत्ययः, एकवचनस्थाने बहुवचनं द्रष्टव्यम् | अश्लील भाषणेन हि दुर्गन्धीनि मुखानि भवन्ति ) इति लुक् । सुरभि नोऽस्माकं मुखा मुखानि, विभक्तिलोपश्छान्दसः, ' सुपां सुलुक् ' ( पा ० सू ० दधाति ७ | १ | ३ धारयति ९ नरमिति दधिः, सुरभीणिकरत् करोतु, यज्ञ इति शेषः । कीदृशस्य अश्वस्य? दधिक्राव्णः । तथा च दधिः सन् क्राम्यतीति ' आगमनजनः किकिनौ लिट् च ' ( पा ० सू ० ३ | २ | १७१ ) इति किः प्रत्ययः दृश्यन्ते ' ( पा ० सू ० ३७५ ) दधिक्रावा, तस्य नरान् पृष्ठोपरि धारयित्वा क्रमणशीलस्य अश्वस्य, ' अन्येभ्योऽपि अश्वस्य? इति वनिप् " ' विड्वनोरनुनासिकस्यात् ' ( पा ० सू ० ६ । ४ । ४१ ) इति धातोराकारः । पुनः कथम्भूतस्य ' भौवादिकः, तस्मात् जिष्णोर्जयनशीलस्य । पुनः कीदृशस्य? वाजिनोऽवश्यं वजतीति वाजी तस्य, ' वज गतौ वाजी । ' आवश्यकाधमर्ण्ययोणिनिः ' ( पा ० सू ० ३ । ३ । १७० ) इति णिनिः । वाजाः पक्षा अस्य । ' ओविजी सन्तीति भयचलनयोः वा ' ' अत इनिठनौ ' ( पा ० सू ० ५।२।११५ ) इति रूपसिद्धिः । अथवा विनक्तीति वाजी "
पृष्ठ 137
पाठ पढ़ें पाठ छिपाएँ
III शुक्लयजुर्वेदसंहिता [ अ ० २३ इकारस्याकारश्छान्दसः, वेजनवान्, वेगवानिति यावत् । तादृशस्य अश्वस्य संस्कारार्थं यदश्लीलभाषणं कृतवन्तो वयम् तेन नो दुर्गन्धयुक्तानि मुखानि यज्ञः सुरभीणि करोतु । किञ्च, नोऽस्माकमायूंषि जीवनानि, बहुवचनबलाद् बाल्ययौवनवार्धकानि प्रतारिषत् प्रतारयतु प्रवर्धयतु । अत्र ब्राह्मणम् -'ये यज्ञेऽपूतां वाचं वदन्ति दधिक्राव्णो अकारिषमिति सुरभिमतीमृचमन्ततोऽन्वाहुर्वाचमेव पुनते नैभ्यः प्राणा अपक्रामन्ति ' ( श ० १३ / २ / २ / ९ ) । प्रसन्नं ब्राह्मणम् । अध्यात्मपक्षे- दधिक्राव्णः सर्वं प्रपञ्चं धारयतीति दधिः, दधिः सन् क्राम्यति लोकत्रयं यः स दधिक्रावा विष्णुस्तस्य जिष्णो रावणादीनां जेतुरश्वस्य व्यापकस्य वाजिनोऽन्नवतो भगवतोऽकारिषं कृतवन्तो वयम्, स्तवमिति शेषः । तेन भगवत्स्तवेतरवाग्व्याहारजनितदौर्गन्ध्ययुक्तानि मुखानि सुरभि सुरभीणि करत् करोतु, भगवानिति शेषः । स एव नोऽस्माकमायूंषि प्रतारिषत् प्रवर्धयतु येन भगवत्तत्त्वज्ञानाय निर्विघ्नं श्रवणादिकं सम्पद्येत । दयानन्दस्तु -- – ' हे राजन्, यथाहं दधिक्राव्णो यो दधीन् पोषकान् धारकान् वा क्राम्यति, तस्य वाजिनो जिष्णोरश्वस्येव वीर्यमकारिषम्, तथा भवान् नः सुरभि मुखे वीर्यं करन्न आयूंषि तारिषत् ' इति, तदपि यत्किञ्चित् गवादेरपि दधिक्रावत्वापत्तेः वीर्यमित्यस्याध्याहारस्य निर्मूलत्वाच्च । सिद्धान्ते तु प्रकृतमश्लील-भाषणमिति तदध्याहारो युक्तः । सुरभि करदिति वचनेनापि दौर्गन्ध्यहेतुभूतस्याश्लीलभाषणस्याध्याहारः श्लिष्यते । किञ्च, कोऽयं वक्ता? न जीवः, तस्य तथात्वे मानाभावात् । नापीश्वरः, तस्य मुखाभावेन सुरभि -मुखप्रार्थनायोगात् । नापि तस्यायुः प्रतरणाशंसा युक्ता, तस्य नित्यत्वात् ॥ ३२ ॥
गाय॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप् पङ्क्त्या सह ।
बृ॒हत्यु ष्णिहा॑ क॒कुप् सूचोभिः शम्यन्तु त्वा ॥ ३३ ॥
मन्त्रार्थ प्रस्तुत और अगले मन्त्र से तीनों रानियाँ तांबा, चांदी और सोने की सूची अश्व के शरीर पर रेखा करें । हे अश्व! गायक की रक्षा करने वाला गायत्री छन्द, तीन संख्या वाले प्रतिकूल पदार्थों का निरोधक त्रिष्टुप् छन्द, जगत् में विस्तीर्ण जगती छन्द, संसार के दुःखों के नाशक अनुष्टुप् पंक्ति और बृहती छन्द, मंगलमय प्रभात का दाता उष्णिक छन्द और अच्छे पदार्थों वाला ककुप् छन्द सूचियों के द्वारा तुमको शान्त करे ॥ ३३ ॥
' तिस्रः पत्न्योऽसिपथान् कल्पयन्त्यश्वस्य सूचीभिलौंहराजतसौवर्णीभिर्मणिसंख्याभिर्गायत्री त्रिष्टुबिति द्वाभ्यां द्वाभ्याम् ' ( का ० श्रौ ० २०/७११ ) । महिष्याद्यास्तिस्रः पत्न्यस्ताम्ररूप्य स्वर्गमयीभिः सूचीभिः प्रत्येक-मेकाधिकशतसंख्याभिरश्वस्य शरीरेऽसेः सुखेन प्रवेशार्थं वितुद्य वितुद्य त्वचं जर्जरां कुर्युरिति सूत्रार्थः । अश्व-देवत्याःषड्ऋचः । आद्या उणिक, चतस्रोऽनुष्टुभः परा त्रिष्टुप् । हे अश्व, गायत्री च त्रिष्टुप् च जगती च पङ्क्त्या सह बृहती च उष्णिहा सह ककुप् च एतानि छन्दांसि सूचीभिरेताभिस्त्वां शम्यन्तु संस्कुर्वन्तु । विकरणव्यत्ययः, असिंपथार्थं त्वग्भेदनं संस्कारः । अत्र ब्राह्मणम् —'यदसिपथान् कल्पयन्ति । सेतुमेव त ७ संक्रमणं यजमानः कुरुते स्वर्गस्य लोकस्य समष्ट्यै ' ( श ० १३।२।१०।१ ) | असे: शासस्य पन्थानोऽसिपथाः तान् सूचीभिलौं ह्यादिभिः कल्पयन्ति । तच्च स्वर्गस्य लोकस्य समष्ट्यै सव्याप्त्यै प्राप्तिसाधनं सेतुमेव कल्पयन्ति ।
पृष्ठ 138
पाठ पढ़ें पाठ छिपाएँ
म ० ३३-३५ ] वेदार्थ पारिजातभाष्यसहिता १०५ अध्यात्मपक्षे.. हे अश्व! व्यापिनो विष्णोर्गायत्र्यादीनि छन्दांसि सूचीभिर्गुणसूचयित्रीभिः स्तुतिभिस्त्वां शम्यन्तु प्रसादयन्तु । दयानन्दस्तु - ' हे विद्वन्, ये विद्वांसः पङ्क्त्या सह गायत्री त्रिष्टुव् जगत्यनुष्टुवुष्णिहा सह बृहती कुप् सूचीभिरिव त्वा त्वां शम्यन्तु तास्त्वं सेवस्व ' इति, तदपि यत्किञ्चित् गायत्र्यादीनां छन्दसां गानकर्तृत्वा-योगात्, गानकर्तॄणां छन्दस्त्वायोगाच्च । तथैव छन्दोरूपे त्रिष्टुभि तापत्रयस्तम्भकत्वमपि न सम्भवति, जगत्या मूर्तया विस्तीर्णतापि न सम्भवति । न च विस्तृता क्रिया पङ्क्तिः, अक्षररूपत्वाच्छन्दसाम् । न वा छन्दसोष्णिहोषः स्निह्यति । न च विद्वांसः सीवनसाधिकाभिः सूचीभिर्यथा वस्त्राणि सीव्यन्ति, तथा राजानं सीव्यन्ति । न च सीवनशमनयोः सादृश्यं सम्भवति, परस्परविरुद्धत्वात् ॥ ३३ ॥
द्विप॑दा॒ यश्चतु॑ष्पद॒स्त्रप॑द॒ यश्च॒ षट्प॑दाः ।
विच्छ॑न्दा॒ यश्च॒ सच्छ॑न्दः सुचीभिः शम्यन्तु त्वा ॥ ३४ ॥
मन्त्रार्थ है अश्व! दो पाद वाले, चार पाद वाले, तीन पाद वाले, छह पाद वाले, छन्दों के लक्षणों से रहित अथवा छन्दों के लक्षणों से युक्त ये सभी छन्द सूचियों के द्वारा तुम्हें शान्त करें ॥ ३४ ॥
द्विपदा, द्वे पदे यासां ता द्विपदाः, याश्चतुष्पदाश्चत्वारि पदानि यासां ताश्चतुष्पदाः, यास्त्रिपदास्त्रीणि पदानि यासां ताः, याच पट्पदाः षट् पदानि यासां ताः । या विच्छन्दा विगतं छन्दो याभ्यस्ताश्छन्दो-लक्षणहीनाः, याः सन्दा छन्दोरक्षणवत्यः ताः सर्वा छन्दोजातयः, हे अश्व! त्वां सूचोभिः शम्यन्तु संस्कुर्वन्तु । छन्दोदेवताः सूचीभिस्त्वां संस्कुर्वन्तु । अध्यात्मपक्षे हे अश्व प्रजापते! पूर्वोक्ता विविधा छन्दोजातयः सूचीभिर्गुणगणसूचीभिः स्तुतिभिस्त्वां शम्यन्तु प्रसादयन्तु । दयानन्दस्तु –– ' ये विद्वांसः सूचीभिर्या द्विपदा याश्चतुष्पदा यास्त्रिपदा याश्च षट्पदा या विच्छन्दा याश्च सच्छन्दास्त्वां ग्राहयित्वा शम्यन्तु शमं प्रापयन्तु ता नित्यं सेवस्व ' इति, तदपि यत्किञ्चित् क्रियासु द्विपदत्वाद्य-सम्भवेन तथोक्तेः प्रलापमात्रत्वात् । पदानि वाक्यानि चाक्षरधर्माः, क्रियाश्च द्रव्यधर्मा इति केन किं श्लिष्यते? ॥ ३४ ॥
महानाग्न्यो रेवत्यो विश्वा॒ आशा॑ प्र॒भुव॑रीः ।
मैर्घौवि॒द्युतो॒ वाच॑ः सु॒चीभिः शम्यन्तु त्वा ॥ ३५ ॥
मन्त्रार्थ -- महानाम वाली शक्वरी ऋचा, रेवत साम वाली ऋचा, सम्पूर्ण दिशाएं, सफल यज्ञ कर्म, मेघों की बिजलियां और वेदवाणियाँ तुमको सूचियों से शान्त करें ॥ ३५ ॥
महानाम्न्य ऋचः ' शक्वर्य इति भण्यन्ते । महन्नाम यासां तास्तथोक्ताः । रेवत्योऽपि ऋचः, यासु गीयमानं साम रैवतं साम सम्पद्यते । विश्वाः सर्वा आशा दिशः । कीदृश्य आशा:? प्रभूवरी: प्रभवन्ति सर्वभूतानि धारयितुं समर्था भवन्ति यास्ताः प्रभूवर्यः । प्रपूर्वाद् भवते: ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३।२।७५ ) इति १. ' विदा मघवन् ' इत्याद्यास्तिस्र ऋचः शक्ार्य इति काण्वभाष्ये सायणाचार्य: । १४
पृष्ठ 139
पाठ पढ़ें पाठ छिपाएँ
१०६ शुक्लयजुर्वेद संहिता [ अ ० २३. वनिप् ' ऋनेभ्यो ङीप् ' ( पा ० सू ० ४ | १ | ५ ) इति ङीप्, ' वनो र च ' ( पा ० सू ० ४।११७ ) इति नकारस्य रेफादेशे पूर्वसवर्णदीर्घत्वे च ' प्रभूवरीः ' इति रूपम् । मैघी: मेघे भवा मैध्यः -- अत्रापि पूर्वसवर्णदीर्घः । मेघोत्था विद्युतः । वाचो वेदलक्षणाः । अन्या अपि एताः सर्वाः सूचीभिस्त्वां हे अश्व! शम्यन्तु संस्कारेण प्रजापतियोग्यं हविः कुर्वन्तु । अध्यात्मपक्षे – पूर्वोक्ताः सर्वा अप्येता वाचः सूचीभिः स्तुतिभिस्त्वां शम्यन्तु । दयानन्दस्तु – हे ' जिज्ञासो, सूचीभिर्या महानाम्न्यो रेवत्यो बहुधनयुक्ताः प्रभूवरीविश्वा आशा मैघीविद्युत इव च वाचस्त्वां शम्यन्तु तास्त्वं गृहाण ' इति, तदपि यत्किञ्चित्, महानाम्न्यः का इत्यनुक्तेः । रेवत्यश्च काः? धनयुक्ताः प्रभुत्वयुक्ताश्च स्त्रियोऽपि भवन्त्येव । मूले इवशब्दप्रयोगोऽपि नास्ति । विद्युत इवेति वाचो विशेषणत्व-कल्पनमपि निर्मूलमेव ॥ ३५ ॥
--नार्य॑स्ते॒ पत्न्यो॒ लोम॒ विचिन्वन्तु मनो॒षया॑ ।
दे॒वानां॒ पत्न्यो॒ दिश॑ः सु॒चीभिः शम्यन्तु त्वा ॥ ३६ ॥
मन्त्रार्थ - हे अश्व! पतिव्रता नारियाँ बुद्धिपूर्वक तुम्हारे लोगों को पृथक करें, देवताओं की पत्नियों के रूप में पालित दिशाएँ सूचियों के द्वारा तुम्हें शान्त करें ॥ ३६ ॥
अश्व! नार्यो नृणामपत्यानि स्त्रियस्ते तव लोम रोमाणि मनीषया मनस इच्छ्या मनसः पर्यालोचनेन विचिन्वन्तु पृथक्कुर्वन्तु । लोमेति जातावेकवचनम् विभक्तिलोपो वा । कीदृश्यो नार्यः? पत्न्यः, यजमानभार्या महिष्याद्या: । ' पत्युर्नो यज्ञसंयोगे ' ( पा ० सू ० ४ | १ | ३३ ) इतीकारस्य नकारे नान्तत्वाद् ङीप् । देवानामिन्द्रादीनां च पत्न्यो दिशः प्राच्यादयः सूचीभिस्त्वां शम्यन्तु । अध्यात्मपक्षे - हे अश्व व्यापिन् प्रजापते, नार्यो मानुष्यः पत्न्यो यज्ञसम्बन्धिन्यो मनीषया स्नेहवत्या बुद्धया ते तव लोम लोमानि लोमतुल्याः शक्तीर्विचिन्वन्तु अन्विच्छन्तु, ते लोम एकमपि लोम अन्विच्छन्ति, एकस्य लोम्नोऽपि कृतार्थताप्रयोजकत्वात् । देवानां पत्न्यो दिशश्च सर्वाः सूचीभिः सौन्दर्यमाधुर्यवर्णयित्रीभिः स्तुतिभिस्त्वा शम्यन्तु । दयानन्दस्तु - ' हे विदुषि, याः कुमार्यो मनीषया ते लोमानुकूलवचनं विचिन्वन्तु सतिं कुर्वन्तु, ता देवानां नार्यः पत्न्यो भवन्तु । हे कुमारि या देवानां पत्न्यो भूत्वा सूचीभिरनुसन्धानक्रियाभिर्दिश इव शुद्धा विदुष्यः सन्ति, तास्त्वा शम्यन्तु ' इति, तदपि यत्किञ्चित्, लोमपदस्यानुकूलवचनार्थत्वे मानाभावात् । सूचीशब्दस्यानुसन्धान क्रियार्थतापि चिन्त्या, निर्मूलत्वात् ॥ ३६ ॥
र॒ज॒ता हरि॑ण॒ः सीसा॒ युजो॑ यु॒ज्यन्ते॒ कर्म॑भिः ।
अश्व॑स्य वा॒जिन॑स्त्व॒चि सिमा॑ः शम्यन्तु शय॑न्तीः ॥ ३७ ॥
मन्त्रार्थ - चांदी, सुवर्ण और सोसे की सूचियां संयुक्त होकर इस कार्य में लगी हैं । ये अश्व का संस्कार करती हुई वेगवान् अश्व की त्वचा में शान्तिपूर्वक रेखाएँ खीचती हैं ॥ ३७ ॥
रजता रजतमय्यो हरिणीर्हरिण्यः सुवर्णमय्यः सीसा: सीसं ताम्रम्, वक्ष्यमाणश्रुत्यनुरोधात् । सूचीनां दिग्रूपत्वादश्वसंस्कारक्षमत्वम् । ताः सूच्योऽश्वदेहे सीमाकरणलक्षणैः कर्मभिर्युज्यन्ते योगं प्राप्नुवन्ति, सीमाकरण-
पृष्ठ 140
पाठ पढ़ें पाठ छिपाएँ
म ० ३७-३८ १ वेदार्थपारिजातभाष्यसहिता १०७ योग्या भवन्तीत्यर्थः । कीदृश्यस्ताः? युजः सहयोजना, एकीभूता इत्यर्थः । ताः सूच्यो वाजिनो वेगवतोऽश्वस्य त्वचि सिमाः सीमारेखाः शम्यन्तु सम्यक् कुर्वन्तु । सिमाशब्दः सीमापर्यायः । कीदृश्यस्ताः सूच्यः? शम्यन्त्यो हविः संस्कुर्वाणाः । अत्र ब्राह्मणम् -- ' सूचीभिः कल्पयन्ति । विशो वै सूच्यो राष्ट्रमश्वमेधो विशं चैवास्मिन् राष्ट्रं च समीची दधति हिरण्मयो भवन्ति तस्योक्तं ब्राह्मणम् ' ( श ० १३ | २ | १०१२ ) । ' त्रय्यः सूच्यो भवन्ति । लोहमय्यो रजता हरियो दिशो वै लोहमय्योऽवान्तरदिशो रजता ऊर्ध्वा हरिण्यस्ताभिरेवैनं कल्पयन्ति तिरीभिश्चोर्ध्वाभिश्च दिशः बहुरूपा भवन्ति तस्माद्बहुरूपा दिशी नानारूपा भवन्ति तस्मान्नानारूपा दिश: ' ( श ० १३ | २ | १० | ३ ) । सूच्यः, बहुत्वात् क्षुद्रत्वाच्च । ता लोहमय्यस्ताम्रमय्यो रजतमय्यो हिरण्मय्यः । एतदनुरोधादेव मन्त्रस्थसीसशब्दस्य ताम्र एवार्थः । सूच्यश्चैता दिनूपाः । तत्र दिशो लोहमय्यः, अवान्तरदिशो रजतमय्यः, ऊर्ध्वा हरिण्यः सुवर्ण-मय्यः । तिरश्रीभिरूर्ध्वाभिव दिशो बहुरूपा भवन्ति । अध्यात्मपक्षे - हे अश्व! रजता रजतमय्यो राजस्यः, हरिणीर्हरिण्यः सात्त्विक्यः, सीसास्ताम्रमय्य-स्तामस्यो नानाविधाः सूच्यन्ते । गुणसूचिकाः स्तुतयो युजाः पापापनोदनपुण्यार्जनात्मकैः कर्मभिरेकीभूताः । बाजिनो वेगवन्तोऽश्वस्य व्यापिनस्त्वचि स्वरूपे सिमाः मर्यादारूपा युज्यन्ते । शम्यन्तीः शम्यन्त्यः स्तोतॄणां हृदयानि संस्कुर्वाणाः शम्यन्तु भवन्तं प्रसादयन्तु । पूर्वोक्तेषु मन्त्रेष्वश्वपदेनाशनाद् व्यापनाच्च जीवोऽप्यश्व उच्यते । भगवत्स्तुतिरूपाभिः सूचीभिः सोऽपि संस्क्रियते । --दयानन्दस्तु – ' हे मनुष्याः, तत्र सुशिक्षिताः स्वयंवरा भूत्वा स्त्रीपुरुषाः स्वेच्छ्या परस्परस्मिन् । यथा स्वयंवरा प्रीता विवाहं कुर्वन्ति ते भद्रान् लावण्यगुणस्वभावयुक्तान् सन्तानानुत्पाद्य सदा नन्दन्तीति भावार्थः वाजिनोऽश्वस्य त्वचि संयुज्यन्ते, तथा कर्मभी रजता हरिणी: सीसा युजः शम्यन्तीः सिमा हृद्यान् पतीन् प्राप्य शम्यन्तु ' इति, तदसङ्गतमेव, मूले स्वयंवराबोधकपदाभावात् । त्वपदस्य वस्त्रार्थताप्यसिद्धैव । रजतशब्दस्यानु-गार्थतापि चिन्त्यैव । सीसशब्दस्य प्रेमार्थतापि निर्मूलैव ॥ ३७ ॥
कु॒विद॒ङ्क्त यव॑मन्त॒ यवे॑ चिद्यथा॒ मान्त्य॑नृपूर्वं I इ॒षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषि॒ नम॑क्त॒
वि॒र्या॑यः॑ ।
यज॑न्ति ॥ ३८ ॥
मन्त्रार्थ - हे सोम, जिस प्रकार इस लोक में बहुत यवधान्य से सम्पन्न किसान यव से पूर्ण शस्य को अलग करके शीघ्र काटता है, उसी तरह से अल्प मात्रा में रहने पर भी तुम देवगणों के प्रिय हो, इस यजमान के लिये नाना प्रकार की भोजन सामग्री इकट्ठी कर दो । कुशा के आसन पर बैठे ऋत्विकगण हवि लक्षण वाले अन्न से याज्या का नाम लेकर याग करते हैं ॥ ३८ ॥
सोमदेवत्या अनिरुक्ता त्रिष्टुप् । हे सोम! यथा यवमन्तो बहुयवसम्पन्नाः कृषीबलाः कुविद्बहुलं सर्वं यवमयं सस्यं चिद् विचार्य अनुपूर्वम् आनुपूर्व्येण वियूय पृथक्कृत्य अङ्गं क्षिप्रं दान्ति लुनन्ति तथा एषां यजमानानां सम्बन्धीनि भोजनानि भोज्यानि वस्तूनि इह अस्मिन्नेव यजमाने कृणुहि कुरु । केषामेषाम्? ये बर्हिष उपरि स्थिता नमउक्ति यजन्ति हविर्लक्षणमन्नमादाय याज्यामभिधाय यजन्ति । दशमे द्वात्रिंशत्तमे व्याख्यातेयमृक् ॥ ३८ ॥