वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 141–150
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 141–150
पृष्ठ 141
पाठ पढ़ें पाठ छिपाएँ
१०८ शुक्लयजुर्वेद संहिता
कस्त्वाऽऽच्छ्च॑ति॒ कस्त्वा॒ विशो॑स्ति॒ कस्ते॒ गात्राणि शम्यति ।
क उं ते शमिता कविः ॥ ३ ९ ॥
[ अ ० २३ मन्त्रार्थ -- प्रस्तुत मन्त्र से अश्व का विशसन किया जाता है - हे अश्वाभिमानी जीव! प्रजापति तुम्हें छिन, अर्थात् माया से पृथक् करते हैं, प्रजापति तुम्हें आवरण रूप त्वचा से पृथक् करते हैं, प्रजापति तुम्हारे भावी जन्मों के शरीरों को शान्त करते हैं, ज्ञानी प्रजापति तुमको शक्ति प्रदान करते हैं ॥ ३ ९ ॥ ‘ अश्वं विशास्त्यनुवाकेन ' कस्त्वा छ्यतीति ' ( का ० श्र ० २०।७१६ ) । षचेनानुवाकेन अश्वं विशास्ति अश्वोदरं पाटयति मेदस उद्धरणाय । अश्वे वपाया अभावादुदरमध्यस्थानं स्त्यानं घृताभं घनं श्वेतं मांसं मेद इति सूत्रार्थः । अश्वदेवत्याः षड् ऋचः । आद्या गायत्री । शिष्टा अनुष्टुभः । हे अश्व, कः प्रजापतिः, त्वा त्वामाच्छ्यति आच्छिनन्ति । ‘ छो छेदने ' ' ओतः श्यनि ' ( पा ० सू ० ७ ३ ७१ ) इत्यकारलोपः । हे अश्व! कः प्रजापतिस्त्वां विशास्ति त्वचा वियोजयति । ते तव गात्राण्यङ्गानि शम्यति शमनेन संस्कारेण हविर्भावमापादयति । क उ कश्च प्रजापतिरेव कविर्मेधावी क्रान्तदर्शनो वा ते तव शमिता शमयिता शामित्रकर्म करोति । स एव सर्व करोति नाहमित्यर्थः । प्रश्नार्थक आक्षेपार्थको वा किंशब्दः । कोऽयं मनुष्यस्त्वामाच्छ्यति? न कश्चिदपीत्यर्थः । कस्त्वा विशास्ति? कश्च ते गात्राणि शम्यति? कश्च ते शमिता कविः? न कश्चिदित्यभिप्रायः । उः पादपूरणः । अध्यात्मपक्षे - हे अश्व व्यापिन् भोक्तः! कस्त्वा आच्छिनत्ति? न कोऽपि छेत्तुं समर्थः, अच्छेद्यत्वात् । कस्त्वां विशास्ति त्वगुत्पाटनं करोति, तव शरीराद् भिन्नत्वात् । कस्ते गात्राणि शम्यति संस्करोति, असंस्कार्यत्वात् । कविर्मेधावी ते तव शमिता हन्ता । ' अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ' ( भ ० गी ० २।२४ ) इति गीतोक्तः । दयानन्दस्तु - ' हे अध्येतः, त्वा क आच्छ्यति, कस्त्वा विशास्ति, कस्ते गात्राणि शम्यति क उ ते शमिता कविरध्यापकोऽस्ति ' इति, तदपि यत्किञ्चित् प्रश्नार्थत्वे प्रतिवचनस्यापि वक्तव्यत्वापातात् । अन्यत् सर्वं वेदाह्यमेव, स्वाभ्यहितत्वात् ॥ ३ ९ ॥ ऋ॒तव॑स्त ॠतथा पर्वे शमितारो विश Ì सतु ॥ स॒व॒त्स॒रस्य॒ तेज॑सा श॒मोभिः शम्यन्तु त्वा ॥ ४० ॥
मन्त्रार्थ - सत्यमयी योगशक्तियां तुम्हें शान्ति देती हैं । वे समय समय पर प्रजापति के तेज से शान्तिप्रद योगक्रियाओं के द्वारा तुम्हारी कर्म - प्रन्थियों को काटती हैं । सत्यमयी योगशक्तियां तुमको शान्त करती हैं ॥ ४० ॥
यस्मिन् पक्षे कस्त्वा प्रजापतिस्त्वाच्छ्यतीति व्याख्यातम्, तस्मिन् पक्षे व्याख्यायते - हे अश्व, ऋतव ऋतुदेवाः शमितार ऋतुथा ऋतौ ऋतौ काले काले ते तव पर्व पर्वाणि अस्थिग्रन्थीन् शमीभिः कर्मभिर्विशासतु विशासनेन भिन्नानि कुर्वन्तु । केनापरेण संवत्सरस्य संवत्सरात्मकस्य कालस्य तेजसा । किञ्च ऋतवस्त्वा शम्यन्तु पर्वविशसनेन हविः सम्पादयन्तु । प्रजापतिः संवत्सरात्मक ऋतवश्च तदंशभूता ऋतुथा ऋतौ ऋतौ संवत्सरस्य तेजसा तव पर्वाणि अस्थिग्रन्थीन् शमीभिः कर्मभिः शम्यन्तु । हे अश्व, कस्त्वां विशसितुं समर्थ इति प्रश्नार्थकत्वे त्वेवं मन्त्रार्थो ज्ञातव्यः-- ऋतवो देवास्ते शमितार इति । अन्यत् पूर्ववत् ।
पृष्ठ 142
पाठ पढ़ें पाठ छिपाएँ
मं ० ४०-४२ ] वेदार्थं पारिजातभाष्यसहिता १० ९ अध्यात्मपक्षे - हे अश्वभोक्तः, पारमार्थिकदृष्ट्या शरीरादिशून्यस्य तव नास्त्येव छेदनादिकं यद्यपि, तथाप्याध्यासिकसम्बन्धेन व्यावहारिकदृष्ट्या तु ऋतव ऋतुदेवता ऋतुथा यथाकालं शमितारः । ते संवत्सरस्य तेजसा शमीभिः कर्मभिस्त्वा शम्यन्तु संस्कुर्वन्तु । एवं संस्कृतः सन् ब्रह्मात्मसाक्षात्कारेण कृतार्थतामेष्यति । दयानन्दस्तु — ' हे विद्यार्थिनः, यथा ते ऋतवः पर्वेव शमितारोऽध्येतारं विशासतु संवत्सरस्य तेजसा शमीभिस्त्वां शम्यन्तु, तास्त्वं सदैव सेवस्व ' इति, तदपि यत्किञ्चित्, अध्यापकाध्येतृबोधकपदयोर्मूलेऽ-भावात् ॥ ४० ॥
अर्धमासाः परू॑षि ते॒ मासा॒ आच्छ॑यन्तु॒ शम्य॑न्तः । अहोरात्राणि मरुता विलिष्ट सूदयन्तु ते ॥ ४१ ॥
मन्त्रार्थ हे अश्वाभिमानी जीव! तुमको शान्त करते हुए ऋत्विजों की योगसाधना के मास, पक्ष आदि तुम्हारी कर्म - प्रन्थियों को काटते हैं । दिन - रात और प्राणाभिमानी देवता तुम्हारे शान्तिप्रद कर्मों की न्यूनता को पूर्ण करते हैं ॥ ४१ ॥
अश्व! अर्धमासाः पक्षा मासाश्च ते तव परूंषि पर्वाणि, ' ग्रन्थिर्ना पर्वपरुषी ' ( अ ० को ० २।४।१६२ ), आच्छ्यन्तु छिन्दन्तु । किं कुर्वन्तः? शम्यन्तः शमनेन संस्कारेण हविर्भावमापादयन्तः । किञ्च, अहोरात्राणि अहोरात्राभिमानिनो देवा मरुतश्च देवास्ते तव विलिष्टं विशेषेणाल्पमङ्गम्, ' लिश अल्पीभावे ', सूदयन्तु सन्दधतु, ' षूद क्षरणे ' इति चौरादिकस्य । प्रकृते तु सन्धानार्थः, क्षरणार्थे वैयर्थ्यापत्तेः । अर्धमासाद्यधिष्ठातृदेवा एव ग्राह्याः, स्वतस्तेषां जडत्वे कार्यव्यापृत्ययोगात् । अध्यात्मपक्षे -- हे अश्व भोक्तः, अर्धमासा मासाश्च पक्षाद्यधिष्ठातृदेवास्ते तव परूष्युग्राणि कर्माणि शम्यन्तः संस्कुर्वन्त आच्छ्यन्तु छिन्दन्तु नाशयन्तु । अहोरात्राणि मरुतश्च ते तव विलिष्टं विशिष्टां न्यूनतां व्यङ्गतां सूदयन्तु निर्मूलयन्तु । दयानन्दस्तु – ' हे विद्यार्थिन्, अहोरात्राणि अर्धमासा मासाश्च परूंषीव ते शम्यन्तो मरुतो दुर्व्यसना-न्याच्छ्यन्तु । ते तव मासा विलिष्टं सूदयन्तु ' इति, तदपि यत्किञ्चित्, आयुर्दुर्व्यसनशब्दयोर्मूलेऽभावेन स्पष्टमसङ्गतेः ॥ ४१ ॥
दे॒व्या॑ अध्व॒र्य॑व॒स्त्वाऽऽच्छ्य॑न्तु॒ वि च॑ शासतु । गात्राणि पर्व॒शस्ते॒ समा॑ कृ॒ण्वन्तु शय॑न्तीः ॥ ४२ ॥
मन्त्रार्थ - दिव्य शक्तियों से सम्बन्ध रखने वाले ज्ञानयज्ञ के कर्ता अध्वर्यु तुम्हें देहाभिमान से छुड़ाते हैं और उपवेश देते हैं । संस्कार करती हुई दिव्य शक्तियां तुम्हारे स्थूल, सूक्ष्म और कारण शरीरों को स ee कर्मबन्धनों के साथ विष्णु में लीन कर दें ॥ ४२ ॥
हे अश्व, दैव्या देवानामिमे दैव्या: दिव्या येऽध्वर्यवोऽश्विप्रभृतयः, ' अश्विनौ वै देवानामध्वर्यू ' ( श ० १२८२२२ ) इति श्रवणात् । त्वा त्वामाच्छ्यन्तु अच्छिन्दन्तु । विच शासतु चकारो भिन्नक्रमः । विशासतु हविर्भावमापादयन्तु । किञ्च ते तव गात्राणि गात्रेषु, विभक्तिव्यत्ययः शरीरेषु पर्वशः पर्वणि पर्वणि सिमाः सीमा मर्यादाः कृण्वन्तु कुर्वन्तु । कीदृशीः समाः? शम्यन्तीः, मर्यादादर्शनेन शमनं कुर्वाणाः संस्कुर्वाणा वा
पृष्ठ 143
पाठ पढ़ें पाठ छिपाएँ
११० शुक्लयजुर्वेदसंहिता [ अ ० २३ अध्यात्मपक्षे - हे अश्व साधक, दैव्या देवसम्बन्धिनोऽध्वर्यवः, त्वा त्वामाच्छ्यन्तु अनात्मतादात्म्याद् वियोजयन्तु पृथक्कुर्वन्तु, विशासतु विशेषेण शासतु ब्रह्मात्मतत्त्वमुपदिशन्तु । गात्राणि मुखपादादीनि तदुपलक्षितं सर्वमनात्मजातं सिमाः कृण्वन्तु शमोत्पादनेन आत्मानात्मनोः सीमाः कुर्वन्तु । दयानन्दस्तु -- ' हे विद्यार्थिन् विद्यार्थिनि वा, दैव्या अध्वर्यव आत्मनोऽहिंसाख्यं यज्ञमिच्छन्तस्तव दोषान् छिन्दन्तु विच शासतु उपदिशन्तु च । पर्वशो गात्राणि परीक्षन्ताम् । सिमाः प्रेमबद्धाः शम्यन्तीर्दुष्टस्वभावं वारयन्तीः सत्यो मातरोऽप्येवं शिक्षां कृण्वन्तु ' इति, तदपि यत्किञ्चित्, अहिंसाख्यस्य यज्ञस्य श्रौतसूत्रेष्वप्रसिद्ध-त्वात् । दोषान् परीक्षन्ताम्, मातरः शिक्षामित्यादिपदानां मूलेऽभावेन तादृशार्थस्य बलात्कृतत्वात् ॥ ४२ ॥
द्यौस्ते॑ पृथि॒व्य॒न्तरि॑क्षं वायुश्छ्द्रिं पृणातु ते ।
सूर्य॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साघुया ॥ ४३ ॥
मन्त्रार्थ - स्वर्ग, पृथ्वी और अन्तरिक्ष तुम्हारे छिद्र को पूर्ण करें, वायु तुम्हारे छिद्र को पूर्ण करे, नक्षत्रों सहित सूर्य देवता तुम्हें श्रेष्ठ लोक प्रदान करें ॥ ४३ ॥
अश्व, द्यौर्द्युलोकः पृथिवी अन्तरिक्षं लोकत्रयाभिमानिनो देवा अग्निवायसूर्या वायुरन्योऽपि शरीरस्थः प्राणादिस्ते तव छिद्रं पृणातु पृणन्तु पूरयन्तु वचनव्यत्ययः, न्यूनतामपनीय साङ्गतामापादयन्तु । नक्षत्रैरश्विन्यादि-नक्षत्रगणैः सह सूर्यः सविता ते तव साधुया साधुं समीचीनं लोके कृणोतु करोतु, ' सुपां सुलुक् ' ( पा ० सू ० ७ | १ | ३ ९ ) इति विभक्तेर्यादेशः । नक्षत्रसहितः सूर्यस्तुभ्यमुत्तमं लोकं ददात्वित्यर्थः । अध्यात्मपक्षे - हे साधक, द्युलोकपृथिव्यन्तरिक्षाधिष्ठातारो देवा वायुः सूत्रात्मा च ते तव च्छिद्रं व्यङ्गतां पृणातु पृणन्तु पूरयन्तु । नक्षत्रैः सह सूर्यस्ते तव साधुया साधुं लोकं कृणोतु करोतु । दयानन्दस्तु - ' हे शिष्येऽध्यापिके वा, यथा द्यौः पृथिव्यन्तरिक्षं वायुः सूर्यो नक्षत्रैः सह चन्द्रश्च ते छिद्रमिन्द्रियं पूणातु । ते तव व्यवहारं साध्नोतु तथा ते तव साधुया साधुं सत्यं लोकं दर्शनीयं कृणोतु ' इति, तदपि न मनोज्ञम्, छिद्रशब्दस्येन्द्रियार्थकत्वे मानाभावात् । न चेन्द्रियस्य पूरणमपेक्षितम्, पूर्णस्यैव परमात्मना निर्मितत्वात् न च पृणातेर्व्यवहारसाधनार्थता, लोकोऽपि स्वत एव दर्शनीय इति तत्कारणानुपपत्तेः । सिद्धान्ते
तूत्तमलोक प्रापणमेव लोककरणम् । न च त्वया लोकान्तरप्राप्तिरभ्युपेयते ॥ ४३ ॥
"
ते॒ परे॑भ्यो॒ गात्रे॑भ्यः॒ शम॒स्त्वव॑रेभ्यः ।
शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शव॑स्तु॒ त॒न्व॒ तव॑ ॥ ४४ ॥
मन्त्रार्थ - तुम्हारी ज्ञानेन्द्रियाँ विषयों से दूर होकर तुम्हें सुख प्रदान करें, तुम्हारी कर, चरण आदि कर्मेन्द्रियां भी सुख प्रदान करें, अस्थियों से और मज्जा से भी तुम्हें सुख मिले, तुम्हारा सारा शरीर शान्ति और कल्याण का सम्पादन करे ॥ ४४ ॥
हे अश्व, ते तव परेभ्य उच्चेभ्यो गात्रेभ्यः शिरआद्यवयवेभ्यः शं सुखमस्तु | अवरेभ्योऽधःस्थेभ्यश्च पादादिभ्यो गात्रेभ्यः शमस्तु | अस्थभ्यस्तव अस्थिभ्यश्च शं सुखमस्तु, ' अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ' ( पा ० सू ० ७ १।७५ ) इत्यनुवृत्तौ ' छन्दस्यपि दृश्यते ' ( पा ० सू ० ७ १/७६ ) इत्यनेन हलादावप्यस्थिशब्द-स्यानङ्ङादेशः । मज्जभ्यः पृष्ठधातुभ्यः शं सुखमस्तु । शं चास्तु तव तन्वै किं बहुना तव तन्वै तन्वाः सर्वस्यापि
पृष्ठ 144
पाठ पढ़ें पाठ छिपाएँ
म ० ४४–४७ ] वेदार्थपारिजातभाष्यसहिता १११ ० १ ) इति षष्ठ्यर्थे चतुर्थी । शरीरस्य शमु सुखमेवास्तु । ' षष्ठ्यर्थे चतुर्थी वाच्या ' ( पा ० सू ० २/३ ६२, वा उ एवार्थे । शमस्तु, अध्यात्मपक्षे - हे साधक, ते तव परेभ्योऽवरेभ्यश्च गात्रेभ्यः शमस्तु, अस्थिभ्यो मज्जभ्यश्च तव तन्वाः शमस्तु, येन शुद्धः संस्कृतः सन् पुरुषार्थयोग्यो भवेः । परेभ्यो गात्रेभ्यः शमवरेभ्यो दयानन्दस्तु - ' हे विद्यामिच्छो, यथा पृथिव्यादितत्त्वं तव तन्वै शमस्तु शमस्तु | स्वकीयैरुत्तमगुणैः कर्मस्वभावै-मध्यस्थेभ्यो निकृष्टेभ्यो वा गात्रेभ्यः शमस्तु । अस्थभ्यो मज्जभ्यः ॥ ४४ ॥
रध्यापकास्ते शङ्करा भवन्तु ' इति, तदपि यत्किञ्चित् अन्तिमभागस्य निर्मूलत्वात्
कः स्वदेकाकी च॑रति॒ क उ॑ स्विज्जायते॒ पुन॑ः ।
कि स्विद्धमस्य॑ भेष॒जं कि वा॒वप॑नं म॒हत् ॥ ४५ ॥
औषधि क्या है? सबसे बड़ा मन्त्रार्थ - कौन अकेला विचरता है? कौन फिर प्रकाश पाता है? हिम को क्षेत्र कोनसा है? ॥ ४५ ॥
' ( का ० श्र ० २० | ७ | १० ) । ' प्राग्व पाहोमाताऽध्वर्यू च सदसि संवदेते चतसृभिः कः स्विदेकाकीति होता अध्वर्युश्च संवादं कुरुत इति वपाहोमात् प्राक् चतसृभिर्ऋग्भिः पूर्ववदुक्तिप्रत्युक्त्या परस्परं सदो मध्ये ब्रह्मणो गत्वा ( वेदस्य ) वदनं ब्रह्मोद्यम् । ' वदः सुपि सूत्रार्थः । अष्टादश ऋचो ब्रह्मोद्यसंज्ञाः । ऋत्विजां किति ' ( पा ० सू ० ६ | १ | १५ ) इति क्यप् च ' ( पा ० सू ० ३ | १ | १०६ ) इति क्यपि, ' वचिस्वपियजादीनां शिष्टास्त्रिष्टुभः । इयमृगत्रैवाध्याये सम्प्रसारणेरूपम् । आद्याश्चतस्रः का स्विदित्याद्याश्चतस्रोऽनुष्टुभः नवम्यां व्याख्याता, तद्वदत्रापि व्याख्येया ॥ ४५ ॥
सूर्ये एकाकी च॑रति च॒न्द्रमा॑जायते॒ पुन॑ः ।
अ॒ग्निमस्य॑ भेष॒जं भूमि॑रा॒वप॑ म॒हत् ॥ ४६ ॥
अपनी धुरी पर घूमता है । मन्त्रार्थ – सूर्य, ज्योतिस्वरूप ब्रह्म अद्वितीय होकर सर्वत्र व्याप्त है, वह अकेला है । प्रकाशित होता है । अग्नि हिम की औषध चन्द्रमा पुनः पुनः प्रकाश पाता है, अथवा मन बार - बार नवीन होकर सबसे बड़ा क्षेत्र है ॥ ४६ ॥
ज्ञानाग्नि से अज्ञानरूपी हिम दूर होता है और भूलोक कर्मबीज को बोने का व्याख्याता, पूर्वस्यामृचि होताऽध्वर्युं पृच्छति । तमुत्तरयन्नाहाध्वर्युः सूर्य एकाकीति । इहैवाध्याये तद्वदिहापि व्याख्येया ॥ ४६ ॥
कि ्॑ स्व॒त् सूर्य॑समं॒ ज्योति॒ कि स॑मु॒द्रस॑म॒ध॒ सर॑ः ।
-किं स्वित् पृथिव्य वर्षीय॒ कस्य॒ मात्रा न विद्यते ॥ ४७ ॥
WW श्या मन्त्रार्थ - सूर्य के समान ज्योति क्या है? समुद्र के समान विस्तृत सरोवर कौन सा है? पृथ्वी से महान् है? किसका परिमाण नहीं है? ॥ ४७ ॥
पृष्ठ 145
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेदसंहिता [ अ ० २३ अध्वर्युर्होतारं पृच्छति - हे होतः, स्विदिति वितर्के । सूर्यसमं सूर्यमण्डलतुल्यज्योतिस्तेजः ' प्रियस्थिरस्फिरो किं तद् ब्रूहि ' ' ' ' । ' समुद्रसमं सरस्तडागः किं स्वित् । पृथिव्यै पृथिव्याः सकाशाद् वर्षीयोऽतिशयेन वृद्धं वर्षीयः । कस्य , मात्रा परिमाणं ( पा ० सू ० ६ । ४ । १५७ ) इत्यादिना वर्षिरादेशः । तंत्र इकार उच्चारणार्थः न विद्यते ॥ ४७ ॥
ब्रह्म॒ सूर्य॑समं॒ ज्योति॒द्यः
स॑मु॒द्रस॑म॒ सर॑ः ।
इन्द्र॑ पृथि॒व्यै वर्षीयान् गोस्तुमात्रा न विद्यते ॥ ४८ ॥
मन्त्रार्थ सूर्य के समान ज्योति ब्रह्म है, लोक समुद्र के समान सरोवर है, अणिमा आदि ऐश्वर्यों से युक्त इन्द्र वसुन्धरा से महान् है । यशोमयी गाय और वेदवाणी की कोई मात्रा ( परिमाण ) नहीं है ॥ ४८ ॥
अध्वर्यु होता प्रत्युत्तरयति - ब्रह्म त्रयीलक्षणं परं च सूर्यसमं ज्योतिः । द्यौः समुद्रसमं सरः परिच्छेदो । पृथिव्यै न पृथिव्याः सकाशात् विभक्तिव्यत्ययः इन्द्रः सूर्यो वर्षीयान्, गोर्धेनोर्मात्रा परिमाणमियत्तया विद्यते, यज्ञहेतोः पयोघृतादिहविषो धारकत्वात् । --इन्द्र आदित्य-अध्यात्मपक्षे - ब्रह्म वेदान्तवेद्यं सत्यज्ञानादिलक्षणं ब्रह्म सूर्यसमं ज्योतिः, ' यथा प्रकाशयत्येकः कृत्स्नं । लोकमिमं रविः । क्षेत्र क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ' ( भ ० गी ० १३३३ ) इति गीतोक्तेः द्यौर्मुलोकः समुद्रतुल्यं सरो जलाशयः, तस्य विस्तृतत्वान्, जलाधारमेघसूर्याधारत्वाच्च ॥ गोः परस्या मण्डलान्तर्गतः पुरुषः पृथिव्या वर्षीयान् बृहत्तरः, ' आदित्याद् भूमिर्जायते ' इति सूर्योपनिषच्छुतेः यदक्षरम् । विवर्ततेऽर्थ -वाचो मात्रा परिमाणं न विद्यते, सर्वप्रपञ्चजननीत्वात् । ' अनादिनिधनं ब्रह्म शब्दतत्त्वं भावेन प्रक्रिया जगतो यतः ॥ ' ( वा ० प ० १ । १ । १ ), ' न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सवं शब्देन भासते ॥ ' ( वा ० ५० १ । १ । १२३ ) इत्युक्तेः । दयानन्दस्त्वस्मिन् प्रश्नोत्तरे एवमाह - ' हे विद्वन्! किं स्वित् सूर्यसमं ज्योतिः वर्षीयानिन्द्रः ? हे जिज्ञासो सूर्यः, गोर्वाचो ! ब्रह्म बृहत् सर्वेभ्यो महद् अनन्तसूर्यसमं ज्योतिः प्रकाशकम्, समुद्रसमं सरो द्यौः ॥ ४८ पृथिव्यै ॥ मात्रा न विद्यते ' इति, तदप्ययुक्तम्, उपपत्त्यनुक्तेः, कात्यायनविरोधाच्च
पृच्छामि त्वा चि॒तये॑ देवसव॒ यदि॒ त्वमत्र॒ मन॑सा ज॒न्य॑ ।
येषु विष्णुंस्त्रिषु प॒देष्वेष्टा॒स्तेषु विश्वं॒ भुव॑न॒मावि॑िवेशां ३ ॥ ॥ ४ ९ ॥
। यदि तुम ठोक मन्त्रार्थ - ब्रह्मा प्रश्न करता है कि हे मित्रदेव! ज्ञानप्राप्ति के लिये तुमसे प्रश्न करता हूँ है, क्या उनमें सम्पूर्ण संसार प्रविष्ट से जानते हो तो बताओ कि व्यापक परमात्मा जिन तीन पदों में पूजा गया हुआ? ॥ ४ ९ ॥ ' ब्रह्मौद्गातारौ च पृच्छामि त्वेति ' ( का ० श्री ० २०/७/११ ) । ब्रह्मोद्गातारं । ब्रह्मोद्गातारं पृच्छति पृच्छति- - चकारा-च्चतुभिर्ऋग्भिर्ब्रह्मोद्गातारौ सदोमण्डपे संवादं कुरुतः पूर्ववदुक्तिप्रत्युक्त्येति ( पा ० सूत्रार्थः सू ० ५१४१ ९ १ ) इति टचि रूपम् । हे देवसख, देवानां सखा देवसखस्तत्सम्बुद्धौ, ' राजाहः सखिभ्यष्टच् न ' विजिगीषार्थमिति भावः । अत्र मत्कृते प्रश्ने हे देवानां मित्र उद्गातः त्वा त्वां चितये ज्ञानाय अहं पृच्छामि, रूपम् । गतिर्ज्ञानम् । किं पृच्छसीत्यत पृष्टः सन् मनसा प्रश्नविवेचनाय सूक्ष्मानर्थान् जगन्थ ७/८ जानासि गमेलिटि
पृष्ठ 146
पाठ पढ़ें पाठ छिपाएँ
म ० ४ ९ -५१ ] वेदार्थं पारिजातभाष्यसहिता ११३ आह - विष्णुर्व्यापनशीलो यज्ञो येषु त्रिषु पदेषु गार्हपत्याहवनीय दक्षिणाग्निषु एष्ट आसमन्ताद् यागेन इष्टस्तर्पितः, यजेर्निष्ठायां रूपम् । तेषु त्रिषु पदेषु विश्वं सर्वं भुवनमाविवेश? प्रविष्टमुत नेति प्रश्नः । भुवनमाविवेशाँ ३ ॥ इति प्रश्नेषु प्लुतः ॥ ४ ९ ॥
अपि॒ तेषु॑ त्रि॒षु प॒देष्व॑स्य॒ येषु विश्वं भुव॑न॒मावि॒वेश॑ ।
-स॒द्यः पर्यो म पृथि॒वीमु॒त द्यामेके॒नाङ्गेन दि॒वो अ॒स्य पृ॒ष्ठम् ॥ ५० ॥
मन्त्रार्थ - उद्गाता का उत्तर - ईश्वर का उपदेश है कि मैं हो उन तीन पदों में हैं, जिनमें सकल विश्व प्रकट हुआ है । पृथ्वी को, द्युलोक को तथा इस स्वर्ग के ऊपर के भाग को भी क्षण मात्र में मैं एक ही चरण के द्वारा व्याप्त करता है ॥ ५० ॥
उद्गाता ब्रह्माणं प्रत्याह येषु त्रिषु पदेषु विश्वं भुवनमाविवेशेति यत् त्वया पृष्टं तेषु त्रिषु पदेषु गार्हपत्यादिष्वहमस्मि, अर्थाद् अहमपि तत्रैव स्थितोऽस्मि । अपिशब्दात् त्वं च तत्रैवासि । न केवलमेतावदेव जानामि, किन्तु पृथिवीमुतापि च द्यां स्वर्गं दिवः स्वर्गस्य पृष्ठमुपरिभागमपि सद्यस्तत्क्षणमेव एकेनाङ्गेन मनसा पर्येमि परिगच्छामि, सर्व जानामि । किं पुनर्भूतानि प्रविष्टानीति भावः । अध्यात्मपक्षे -- सब्रह्मचारिणौ संवादं कुरुतः । हे देवसख, देवः परमात्मा सखा मित्रं यस्य स देवसखः, तत्सम्बुद्धौ । त्वां चितये ज्ञानाय विद्यावैशद्याय पृच्छामि । अत्र मत्कृते यदि मनसा शास्त्राचार्योपदेशसंस्कार-संस्कृतेन जगन्थ सूक्ष्मानर्थान् जानासि, तदा पृच्छामीत्यर्थः । किं पृच्छ्सीत्यपेक्षायामाह - येषु त्रिषु पदेषु पदनीयेषु जाग्रत्स्वप्नसुषुप्तिषु विहिरण्यगर्भाव्याकृतेषु विष्णुर्व्यापकश्चिदात्मा प्रविष्टः, एष्ट आसमन्ताद् इष्टः पूजितः, तेषु पदेषु विश्वं सर्वं भुवनं कार्यमाविवेश उत नेति? येषु त्रिषु पदेषु विश्वं भुवनमाविवेशेति यत् त्वया पृष्टम्, तत्र ब्रूमः - तेषु त्रिषु पदेष्वहमपि सद्य एककालमेव पर्येमि, अपिशब्दात् त्वमपि तत्रैव स्थितोऽसि । नैतावदेव, किन्त्वेकेन अङ्गेन मनसा पृथिवीम् उतापि द्यां स्वर्गमस्य दिवः पृष्ठमुपरिभागमपि सद्यः क्षणेन पर्येमि परिगच्छामि, किमुत विश्वं भुवनम्? तत्र प्रविष्टं जानाम्येवेति भावः । न केवलं भौतिकं जगत्, किन्त्वाध्यात्मिक-माधिदैविकं च सर्वमेव तत्र प्रविष्टमिति जानामि । दयानन्दस्तु -- ' हे देवसख, यदि त्वं मनसा जगन्थ, तर्हि त्वां चितये पृच्छामि -- यो विष्णुर्येषु त्रिषु पदेषु आ इष्टोऽस्ति तेषु व्याप्तः सन् विश्वं भुवनमाविवेश, तं च पृच्छामि ' इति, तदपि यत्किञ्चित् तेषु नाम - स्थान-जन्माख्येषु व्याप्त्यैव भुवनव्याप्तिसिद्धया भुवनव्याप्तिवचनस्य नैरर्थक्यापातात् । प्रश्नसूचकप्लुतोच्चारणेन पृच्छामीति निगदव्याख्यानेन च प्रश्नः सूच्यते । तेन न परमात्मनोऽस्तित्वसम्बन्धिप्रश्नः किन्त्वाविवेशेति प्लुतत्वे आवेशसम्बन्धिन एव प्रश्नस्य निश्वयात् । न च परमात्मावेशः प्रश्नार्हः, तस्य लोकवेदसिद्धत्वात् । यच्च ' हे मनुष्याः, यो जगत्स्रष्टेश्वरोऽहं येषु त्रिषु पदेषु विश्वं भुवनमाविवेश, तेष्वप्यहं व्याप्तोऽस्मि । अस्य दिवः पृष्ठं पृथिवीमुत द्यां चैकेनाङ्गेन सद्यः पर्येमि । तं मां सर्वे यूयमुपासध्वम् ' इति, तदपि यत्किञ्चित्, असामञ्जस्यात् । तथाहि — कारणस्य सूक्ष्मस्य व्यापकत्वं कार्यस्य स्थूलस्य च व्याप्यत्वं प्रसिद्धम् | त्वद्रीत्या च निराकारस्य निरवयवस्य निरङ्गस्य अङ्गानुपपत्तिः । न च व्यवहारो देशो वा तस्याङ्गं सम्भवति, तस्य देशकालव्यवहारा-तीतत्वात्, ' अव्यवहार्यम् ' ( मा ० उ ० ७ ) इति श्रुतेः ॥ ५० ॥
१५
केष्व॒न्तः पुरु॑ष॒ आ वि॑वेश कान्य॒न्तः पुरु॑षे॒ अपि॑तानि ।
एतद् ब्र॑ह्म॒मुप॑वरामसि त्वा कि स्विन्न॒ प्रति॑वोच॒स्यत्रं ॥ ५१ ॥
पृष्ठ 147
पाठ पढ़ें पाठ छिपाएँ
११४ शुक्लयजुर्वेदसंहितो [ अं ० २३ मन्त्रार्थ - उद्गाता प्रश्न करता है - हे ब्रह्मन्! सकल विश्व में व्यापक परमात्मा किन पदार्थों के भीतर प्रविष्ट हुआ? पुरुष के भीतर कौन कौन से पदार्थ अर्पित हैं? ये प्रश्न मैं तुमसे स्पर्धापूर्वक पूछता हूँ । इस विषय में तुम्हारा क्या कहना है? ॥ ५१ ॥
उद्गाता ब्रह्माणं पृच्छति - हे ब्रह्मन् पुरुषः केषु पदार्थेष्वन्तर्मध्ये आविवेश प्रविष्टः " कानि च वस्तूनि पुरुषेऽन्तः पुरुषमध्येऽर्पितानि स्थापितानि, एतत् त्वा त्वाम् वयमुपवल्हामसि उपबल्हामः, सर्वथा ' पृच्छामः 1 ' वल्ह प्राधान्ये ', इह तु आह्वानपूर्वे संहर्षे विद्यते । उपसङ्गम्य आहूयोत्क्षिप्य बाहू पृच्छामि भवन्तम् । ‘ वल्ह प्राधान्ये परिभाषणहिंसादानेषु ', लट् ' इदन्तो मसि ' ( पा ० सू ० ७ | १ | ४६ ) इति मस इगागमे रूपम् । यद्वा स्पर्धया पृच्छामः किं स्वित् त्वमत्रास्मिन् प्रश्ने प्रतिवोचासि उत्तरं प्रतिवदसि । ' वच उम् ' ( पा ० सू ० ७।४।२० ) इति लेटि छान्दस उम्, ' लेटोऽडाटी ' ( पा ० सू ० ३ । ४ । ९ ४ ) इत्याडागमः । अध्यात्मपक्षेऽप्ययमेव प्रश्नार्थः । दयानन्दस्तु – ' हे ब्रह्मन्, केषु पुरुषोऽन्तराविवेश । कानि पुरुषेऽन्तर्पितानि येन वयमुपवल्हामसि प्रधाना भवामः । एतत् त्वां पृच्छामः । तत्कि स्विदस्त्यत्र नो प्रतिवोचासि ' इति, तदपि यत्किञ्चित् प्रश्नस्य प्राधान्या-प्रयोजकत्वात्, उत्तरस्यैव च प्राधान्यहेतुत्वात् ॥ ५१ ॥
प॒ञ्चस्व॒न्तः पुरु॑ष॒ आवि॑वेश॒ तान्य॒न्तः पुरु॑षे॒ अर्पितानि ।
ए॒तत् त्वात्रं प्रतिमन्वा॒नो अ॑स्मि॒ न मा॒यया॑ भव॒स्युत्त॑रो॒ मत् ॥ ५२ ॥
--मन्त्रार्थ - ब्रह्मा का उत्तर - परमात्मा पांच प्राण, पाँच भूत या पांच तन्मात्राओं के भीतर प्रविष्ट हुआ है । वह पुरुष के भीतर प्रविष्ट है, अर्थात् आत्मा बिना प्राण आदि की और बिना प्राण आदि के आत्मा की स्थिति नहीं हो सकती । तुम्हारे प्रश्न का उत्तर बहुत समझ - बूझ कर दे रहा हूँ, तुम मुझसे बहुत अधिक बुद्धिमान् नहीं हो ॥५२ ॥
ब्रह्मा उद्गातारं प्रतिवक्ति पञ्चसु प्राणेष्वन्तः प्राणमध्ये पुरुष आत्मा आविवेश प्रविष्टः तानि प्रसिद्धानि श्रोत्रादीनि पुरुषेऽन्तः पुरुषमध्येऽर्पितानि, प्राणात्मनामन्योन्यापेक्षासिद्धत्वात् । आत्मानमाश्रित्यैव ते लब्धात्मकाः, ' न ' प्राणानन्तरेणात्मा ' इति बह्वृचश्रुतेः । आत्मापि न प्राणानन्तरेण व्यज्यते । यद्वा पञ्चसु भूतेषु पृथिव्यप्तेजो-वाकवात्मा प्रविष्टः, तानि चात्मनि प्रविष्टानि । आत्मनः कारणत्वात् तेषां च कार्यत्वात् तेष्वात्मा प्रविष्टः, कार्याणां च कारणाश्रितत्वादात्मनि तेषां प्रवेशः । यथा तन्तुषु पटस्याश्रितत्वात् तन्तुषु पटः प्रविष्टः, तन्तवश्च पटेषूपलभ्यमानत्वात् तत्र तन्तवः प्रविष्टा इत्युच्यन्ते, ' तत्सृष्ट्वा तदेवानु प्राविशत् ' ( तै ० उ ० २।६।१ ) इति श्रुतेः । हे उद्गातः! अहमत्र प्रश्ने त्वा त्वां प्रति एतदुत्तरं प्रतिमन्वानः प्रतिजानानोऽस्मि, एवमुत्तरं ददामीत्यर्थः । किञ्च, मायया बुद्धया मद् मत्त उत्तरोऽधिकस्त्वं न भवसि मत्तोऽधिकबुद्धिमान्नासीरित्यर्थः । अध्यात्मपक्षे - इदमेवोत्तरम् । --दयानन्दस्तु - ' हे जिज्ञासो, पञ्चस्वन्तः पुरुष आविवेश तानि पुरुषेऽन्तरर्पितानि । एतदत्र त्वा प्रतिमन्वानोऽहं समाधाताऽस्मि । यदि मायया प्रज्ञया युक्तस्त्वं तर्हि मदुत्तरः समाधाता कश्चिन्नास्तीति विजानीहि ' इति, तदपि न युक्तम् । व्याप्तानां भूतानां कार्यत्वात् कारणभूते परमात्मनि प्रवेशानुपपत्तेः । न च त्वया परमात्मन्युपादानत्वमङ्गीक्रियत इति न काचिदनुपपत्तिः ॥ ५२ ॥
१. अनुपलब्धमिदं वचनम् ।
पृष्ठ 148
पाठ पढ़ें पाठ छिपाएँ
मं ० ५३-५६ ] वेदार्थ पारिजातभाष्यसहिता
का स्विदासीत् पू॒र्वचि॑त्त॒ः किं स्विवासीद् बृ॒हद्वयः ।
का स्विदासीत् पिलिप्पिला का स्विदासीत् पिशङ्गिला ॥ ५३ ॥
११५ मन्त्रार्थ - होता प्रश्न करता है - पूर्व स्मरण का विषय कौन था, बहुत उड़ने वाला अथवा स्वर्गपर्यन्त पहुंचा हुआ कौन था? लक्ष्मी कौन थी? और रूप को निगलने वाली कौन थी? ॥ ५३ ॥
‘ पुनः पूर्वावपरेणोत्तरवेद का स्विदासीदिति ' ( का ० श्र ० २०/७/१२ ) । ततः सदसो निष्क्रम्य हविर्धानस्य पुरस्ताद् उत्तरवेदेः पश्चादुपविश्य पूर्वी पूर्वोक्तौ होत्रध्वर्यू चतुर्ऋग्भिः संवदेते इति सूत्रार्थः । होताऽध्वर्युं पृच्छति का स्विदिति । इयमृग् अस्मिन्नेवाध्याये एकादश्यां कण्डिकायां व्याख्याता ॥ ५३ ॥
द्यौरासीत्
पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृहद्वयः ।
अवि॑रासीत् पिलिप्प॒ला रात्रि॑रासीत् पिशङ्खला ॥ ५४ ॥
मन्त्रार्थ - ब्रह्मा का उत्तर- सब प्राणियों को अभीष्ट वृष्टि का दाता द्युलोक प्रथम स्मरण का विषय था । अश्वमेध यज्ञ स्वर्ग पर्यन्त पहुँचाने वाला है । सबकी रक्षा करने वाली पृथ्वी ही लक्ष्मी है । महामोह रूप वाली रात्रि ज्ञानमय रूप को निगल जाती है ॥ ५४ ॥
होतारं प्रत्याहाध्वर्युः द्यौरिति । अस्मिन्नेवाध्याये द्वादश्यां कण्डिकायामियमृग् व्याख्याता ॥ ५४ ॥
Q का ईमरे पिशङ्गिला का ई कुरुपिशङ्गिला । € 1 क ईमास्कन्दमर्षति॒ क इ पन्थां विसर्पति ॥ ५५ ॥
मन्त्रार्थ - अध्वर्यु का प्रश्न | --- हे होता! रूपों को निगलने वाली कौन है? शब्दपूर्वक रूपों को निगलने वाली कौन है? उत्प्लवन गति से चलने वाला कौन है? कौन मार्ग में नाना प्रकार से चलता है? ॥ ५५ ॥
अध्वर्युर्होतारं पृच्छति - का ईमरे इति । ईमिति चकारार्थो निपातः । अरे इत्यामन्त्रणविषयो निपातः । अरे होतः का च पिशङ्गिला का च कुरुपिशङ्गिला । क ई कश्च आस्कन्दम्, णमुलन्तमेतत् । आस्कन्द्य उत्प्लुत्य अति गच्छति । ' ऋषी गतौ ' तुदादिः । व्यत्ययेन शप् । क ई कश्च पन्थां पन्थानं मार्ग प्रति विसर्पति विविधं गच्छति ॥ ५५ ॥
अ॒जा शश पिशङ्गिला श्वावित् आ॒स्कन्द॑र्व॒त्यहिः पन्था॑
कुरुपिशङ्ग॑ला ।
विसर्पति ॥ ५६ ॥
मन्त्रार्थ - होता का उत्तर - हे अध्वर्युं! विद्यारूप परा शक्ति रूपों का भक्षण करने वाली है । देहाभिमान से प्राप्त होने वाली अपरा शक्ति कर्मकाण्ड के रूप का लय करती है । शरीर में शयन करने वाला प्राण उत्प्लवन गति से चलता है । मध्यस्थानी जीवात्मा संसार मार्ग में नाना प्रकार से चलता है ॥ ५६ ॥
होता अध्वर्युं प्रति वक्ति - अजेति । अरे अध्वर्यो अजा पिशङ्गिला, पिशङ्गिला, पिशं रूपं गिलति भक्षयतीति पिशङ्गिला । माया विश्वं ग्रसते, अजा नित्या माया वा रात्रिर्वा रात्रावपि रूपाणि न प्रतीयन्ते,
पृष्ठ 149
पाठ पढ़ें पाठ छिपाएँ
११६ शुक्ल यजुर्वेदसंहिता [ अ ० २३ क्वौ ' ( पा ० सू ० तमसाच्छन्नत्वात् । श्वावित् श्वानं विध्यतीति श्वावित्, ' नहिवृतिवृषिव्यधिरुचिसहितनिषु ' कुरुपिशङ्गिला कुरु इति शब्दानु-६ | ३ | ११६ ) इति पूर्वपदस्य दीर्घः । सेधा ' शाहीति भाषायां कः प्रसिद्धा ' ( पा ० सू ० ३।१।१३५ ) इति कप्रत्ययेन करणम्, ' पिश अवयवे ' इति तौदादिकात् ' इगुपधज्ञाप्रीकिरः कुरुपिशङ्गिला, मूलानां शतं भक्षयति पिशः । कुरु इति शब्दं कुर्वाणा पिशान् मूलाद्यवयवान् गिलति भक्षयतीति , आस्कन्दम् आस्कन्द्य आस्कन्द्य अर्षति, शतं च कुक्षौ धारयतीति सेधायाः स्वभावः । शशो वन्यो जीवविशेषः गच्छति । स हि तस्यापि स्वभावः । अहिः सर्पः पन्थां पन्थानं विसर्पति विकुर्वन् समाना लोहितशुक्ल-अध्यात्मपक्षे - गुरुराह । हे साधक, अजावद् अजा यथा लोहितशुक्लकृष्णा पिशङ्गिला पिशं बर्करी सर्वं रूपं गिलति स्वात्मनि कृष्णा बह्वीः प्रजाः सृजति तथैव अजा प्रकृती रजः सत्त्वतमोगुणा शतं विषयान् गृह्णाति शतं च प्रविलापयति । श्वावित् श्वावित्तुल्या बुद्धिः कुरु कुरु इति शब्दमनुसन्धाय आस्कन्द्य दूराद् दूरमुत्प्लुत्य अति गच्छति । वासनारूपेण कुक्षौ स्थापयति । शशवन्मन आस्कन्दम् आस्कन्द्य दूषयन् गच्छति । अहिस्तद्दीर्घमन्युः पुरुषः पन्थां पन्थानं सौहार्दमार्ग विसर्पति विकुर्वन् , का च वारं वारं कुरु-दयानन्दस्तु – ' अरे स्त्रि, काईं पिशङ्गिला का वारं विलक्षणां वारं रूपावरणकारिणी गतिं गच्छति, कश्च ईं जलस्य पन्थां मार्गं पिशङ्गला यवाद्यन्नावयवान् गिलति का ईं आस्कन्दमर्षति प्रकृतिः पिशङ्गिला प्रलये प्रविलापयति, श्वावित् विसर्पतीति समाधेहीति । तत्रोत्तरम् - अरे मनुष्याः, अजा गिलति, शशः पशुविशेष आस्कन्दमर्षति । पशुविशेषः कुरुपिशङ्गिला कुरो: कृतस्य कृष्यादेः पिशान्यङ्गानि ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात्, अहिर्मेघः पन्थां मार्गं विसर्पति विविधं गच्छतीति विजानीत सम्बोधनम् ॥ ५६ ॥
कुरोः कृतस्येति व्याख्यानस्य निर्मूलत्वाच्च । सिद्धान्ते तु सूत्रमूलकं
कत्य॑स्य वि॒ष्ठाः कत्यक्षराणि कति होमांसः कतिधा समि॑द्धः ।
य॒ज्ञस्य॑ त्वा वि॒दथा॑ पृच्छ॒मत्र॒ कति॒ होता॑र ऋतुशो य॑जन्ति ॥ ५७ ॥
हैं? वेदवचन कितने हैं? हवन कितने हैं? मन्त्रार्थ - ब्रह्मा होता से प्रश्न करता है - इस यज्ञ के कितने प्रत्येक अन्न ऋतु में कितने होता यजन करते हैं? यज्ञ की कितने प्रकार की समिधाओं से अग्नि प्रज्वलित होती हैं? और प्रक्रिया को जानने के लिये ये प्रश्न मैंने तुमसे पूछे हैं ॥ ५७ ॥
चतुर्ऋग्भिः संवदेते । ‘ उत्तरौ च कत्यस्येति ’ ( का ० श्र ० २०/७/१३ ) । विशेषेण उत्तरौ पश्चादुक्तौ तिष्ठति यासु ब्रह्मोद्गातारी ता विष्ठा अन्नानि कियन्त्यन्ना-ब्रह्मोद्गातारं प्रति पृच्छति - अस्य यज्ञस्य कति विष्ठा:? कियत्संख्याकाः । कतिधा समिद्धः कति प्रकाराः समिधः । नीत्यर्थः । अक्षराणि च कति । होमासो होमाश्च कति भावो विदथा, यज्ञवेदितृत्वेन हेतुनाऽत्र सदसि धकारस्य द्वित्वमार्षम् । यज्ञस्य विदथा वेत्तीति विदः, विदस्य ऋतौ ऋतौ कति होतारो यजन्ति ॥ ५७ ॥
त्वामहमपृच्छं पृच्छामि । पृच्छतेर्लंङ्, अडभाव आर्षः । ऋतु
षड॑स्य वि॒ष्ठाः श॒तम॒क्षरा॑ण्यश॒तिर्होमा॑ः स॒मिषो॑ ह॒ ति॒स्रः ।
य॒ज्ञस्य॑ ते वि॒दथा प्रब्र॑वीमि स॒प्त होतोर ऋतुशो य॑जन्ति ॥ ५८ ॥
। हवनों की संख्या ८० है । तीन समिधाएँ मन्त्रार्थ - यज्ञ के सभी अन्न छः रसों से युक्त हैं । वेदवचन सैकड़ों हैं बताया है ॥५८ ॥
को जानने के लिये यह मैंने तुम्हें प्रमुख हैं । सात होता प्रत्येक ऋतु में यजन करते हैं । यज्ञ की प्रक्रिया
पृष्ठ 150
पाठ पढ़ें पाठ छिपाएँ
म • ५८-५९ ] वेदार्थपारिजात भाष्यसहिता ११७ हे ब्रह्मन्, अस्य यज्ञस्य षड् उद्गाता ब्रह्माणमुत्तरयति - षडस्येति । रससंख्ययोपसजिहीर्षुराह - - अस्य यज्ञस्य शतमक्षराणि । विष्ठा अन्नानि सर्वेषामन्नानां षड्रसात्मकत्वात् । छन्दसामुद्धारेणोपसञ्जिहीर्षुराह चतुर्दश चतुर्विंशत्यक्षरादीनि छन्दोभिर्यज्ञस्य निष्पाद्यमानत्वात् छन्दांसि च गायत्र्यादीन्यतिधृत्यन्तानि भवन्ति । तद्यथा - गायत्री चतुर्विंशत्यक्षरा, चतुर्वर्णान्तराणि । तेषां क्रमोत्क्रमगत्या द्वाभ्यां द्वाभ्यां शतमक्षराणि उष्णिग् अष्टाविंशत्यक्षरा, धृतिर्द्वासप्तत्यक्षरा, सङ्कलय्य अतिधृतिः षट्सप्तत्यक्षरा, एवं द्वे मिलित्वा शतमक्षराणि । सङ्कलय्य शतम् । अष्टिश्चतुःषष्ट्यक्षरा, बृहती शतम् । अनुष्टुब् द्वात्रिंशदक्षरा, अत्यष्टिरष्टषष्ट्यक्षरा, पङ्क्तिश्चत्वारिंशदक्षरा, सङ्कलय्य शतम् । शक्वरी षट्त्रिंशदक्षरा, सङ्कलय्य शतम् । अतिशक्वरी षष्टयक्षरा शतम् । अतिजगती द्वापञ्चाशदक्षरा, जगती अष्टा-षट्पञ्चाशदक्षरा, त्रिष्टुप् चतुश्चत्वारिंशदक्षरा, सङ्कलय्य । चत्वारिंशदक्षरा, सङ्कलय्य शतम् । अनेनाभिप्रायेण शतमक्षराणीत्युक्तम् एकविंशत्यरत्नयः । वासोभिरेक-एकविंशतिरश्वमेधे यूपाः । तथा च रामायणे - ' एकविंशतियूपास्ते मध्य मयूपेऽश्वतूपरगोमृगान् नियुनक्ति । अश्वः विशद्भिरेकैकं समलङ्कृताः ॥ ' ( वा ० रा ० २।१४ २५ ) । तत्राग्निष्ठे षोडशपशू न्नियुनक्ति । तत्र विंशतियूपेषु चतस्रोऽशीतयः प्रसिद्धः । तुरः शृङ्गहीनश्छागः । गोमृगो गवयः । इतरेषु । कतिधा समिद्ध इति यदुक्तं तत्रेदमुच्यते । पशवो भवन्ति । तदभिप्रायमेतत् । अशीतिर्होमा इति स्फुटम् दीप्त इति तिस्रः समिध उक्ताः । यज्ञस्य विदथा अश्वतूपरगोमृगाः प्राजापत्याः पशवः । तद्रूपाभिः समिद्भिर्यज्ञो वषट्कर्तार ऋतु ऋतुयागेषु यजन्ति । वेदनेन हेतुना ते तुभ्यं प्रब्रवीमि प्रवदामि । किन, सप्तहोतारो यज्ञस्य विष्णोः षड् अध्यात्मपक्षे – अस्य यज्ञस्य कति विष्ठा इत्यादयः प्रश्नाः । अस्य पूर्ववज्ज्ञेयाः शतमनन्तान्यक्षराणि । अस्य व्यापनानि । विष्ठा विशिष्टाः स्थितयः षट् । त्रयो गुणा त्रयश्च तदभिमानिनः पञ्च कर्मेन्द्रियाणि पञ्च तेषां कर्माणि । ताि अस्याऽशीतिर्होमाः । पञ्च विषयाः शब्दादयः, पञ्च ज्ञानेन्द्रियाणि चाशीतयो भवन्ति । एतानि च सर्वाणि विंशतिः । अत्र प्रत्येकं सात्त्विकराजसतामसनिर्गुणभेदेन चतुविधं समिधो सम्भूय हास्य चिदग्नेरभिज्वलनसाधनभूताः सर्वाणि चिदग्नौ हूयन्त इति होमा अशीतयो भवन्ति । तिस्रोह बुद्धिश्चेति सप्त होतारः । यद्वा चत्वारो वर्णास्त्रय प्रत्यक्षानुमानागमप्रमाणानि । पञ्च ज्ञानेन्द्रियाणि मनो । ' त्रयो धर्मस्कन्धाः ' ( छा ० २।२३।१ ) आश्रमा इति सप्त होतार ऋतुशो यजन्ति, परमात्मानं स्वकर्मभिर्यजन्ति इति श्रुतिरीत्या य एवाश्रमा भवन्ति । अन्यत् पूर्ववत् । - ' हे जिज्ञासव:, अस्य यज्ञस्य जगतः दयानन्दस्तु - प्रश्नाः पूर्ववदेव व्याख्याताः । उत्तराणि दददाह - व्यवहारसाधकानि । अशीतिरसंख्याता षड्ऋतवो विष्ठाः स्थितिसाधकाः । शतमसंख्यातानि जलादिवस्तुन्यक्षराणि तिस्रः समिधो ज्ञानादिप्रकाशिका होमा दानादानयोग्याः पदार्थाः | आध्यात्मिकाधिदैविकाधिभौतिकभेदेन ' इति, तदपि यत्किञ्चित् ऋतूनां हि विद्याः । पञ्च प्राणा मन आत्मा च सप्तहोतारो दानादानव्यवहर्तारः । न चाशीतिशब्दोऽ-परिवर्तनहेतुत्वं प्रसिद्धम्, न तु स्थितिसाधनत्वम् । न चाक्षशब्दस्योत्पत्तिसाधनत्वमर्थः
नन्तबोधकः, शतादीनामेव तथात्वात् । एवमन्यदप्यूह्यम् ॥ ५८ ॥
को अ॒स्य वे॑द॒ भुव॑नस्य॒ नाभिः॒ को द्यावा॑पृथि॒वो अ॒न्तरि॑क्षम् ।
कः सूर्यस्य वेद बृहतो ज॒नित्रं॒ को वे॑द च॒न्द्रम॑सं यतो॒जाः ॥ ५ ९ ॥
जानता है? द्युलोक, भूलोक और अन्त-मन्त्रार्थ- --- ब्रह्मा पुनः प्रश्न करता है - इस ब्रह्माण्ड के कारण को कौन सब चन्द्रमा को कौन जानता है? और ये रिक्ष लोक को कौन जानता है? महान् सूर्य के जन्म को कौन जानता है? जिससे उत्पन्न हुए, उसको भी कौन जानता है? ॥ ५ ९ ॥