वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 151–160

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 151–160

पृष्ठ 151

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 151 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११८ शुक्लयजुर्वेदसंहिता [ अ ० २३ जगतो उद्गाता ब्रह्माणं पृच्छति — को अस्येति । हे ब्रह्मन् अस्य भुवनस्य भवनशीलस्य कार्यरूपस्य । ' णह बन्धने ' नाभि नह्यते बध्यते यत्र तं नाभि बन्धनस्थानम्, कारणमिति यावत्, तत्कारणं को वेद जानाति । द्यावापृथिवी दैवादिकः, अस्मात् ' नहो भव ' ( उ ० ४। १२७ ) इतीत्र प्रत्यये हकारस्य भकारादेशे च रूपम् कस्मा-द्यावापृथिव्यौ अन्तरिक्षं च को वेद । बृहतो महतः सूर्यस्य जनित्रं जन्मकारणं को वेद, सूर्यस्योत्पत्तिः, इति दित्यर्थः । जनेरित्रो बाहुलकात् । चन्द्रमसं व्यत्ययेन चन्द्रमसो यतोजा जन्म, जनेर्डास्प्रत्ययो पा ० बाहुलकात् सू ० ३२।६७ ) को वेद । यद्वा यतो जायत उत्पद्यत इति यतोजाः, यत इत्युपपदे ' जनसनखनक्रमगमों विट ' ( द्वितीयार्था । इति विट्प्रत्ययः, ' विड्वनोरनुनासिकस्यात् ' ( पा ० सू ० ६ | ४ ४१ ) इति नकारस्यात्वम् । प्रथमा यत उत्पन्नं चन्द्रमसमिन्दु को वेद, यतश्चन्द्रस्योत्पत्तिस्तं को जानातीत्यर्थः ॥ ५ ९ ॥

वेदा॒हम॒स्य भुव॑नस्य॒ नाभ वेद॒ द्यावा॑पृथि॒वो अ॒न्तरि॑क्षम् ।

वेद सूर्यस्य बृहतो जनित्र॒मथो॑ वेद च॒न्द्रम॑सं यतोजाः ॥ ६० ॥

ब्रह्म की मन्त्रार्थ इस ब्रह्माण्ड के कारण परब्रह्म को मैं जानता हूँ । द्युलोक, भूलोक और अन्तरिक्ष लोक को चन्द्रमा को भी मैं विभूति के रूप में मैं जानता हूँ । महान् सूर्य की उत्पत्ति के कारण ब्रह्म को मैं जानता हूँ और उस परमात्मा को भी मैं जानता ॥ ६० ॥

जानता हूँ । यह सब प्रपंच जिससे पैदा हुआ है, ब्रह्मेत्यहं ब्रह्मा प्रत्युत्तरमाह वेदेति । अस्य भुवनस्य कार्यजातस्य नाभि नहनं बन्धनं कारणं परं जानामि । द्यावापृथिवी अन्तरिक्षं च ब्रह्मविकारत्वेन अहं वेद जानामि । बृहतः सूर्यस्य जानामीत्यर्थः जनित्रमुत्पत्तिकारणं । ब्रह्मवेत्यहं जानामि । अथो अपि च यतोजाश्चन्द्रमसमहं वेद । परमात्मनी जातं चन्द्रमहं अध्यात्मपक्षेऽप्ययमेवार्थः । च दयानन्दस्तु - ' विडन्नस्य भुवनस्य नाभि मध्यमाङ्गं बन्धनस्थानं को वेद । द्यावापृथिवी अन्तरिक्षं , अस्य को वेद । बृहतः सूर्यस्य जनित्रं को वेद । यतोजास्तं चन्द्रमसं च को वेदेति समाधेहि । हे जिज्ञासो एतत्सर्वमहं भुवनस्य नाभि बन्धनं स्थितिकारणमहं वेद । लोकत्रयस्य कारणं सूर्याचन्द्रमसोवोपादाननिमित्ते प्रकृतिरिति जानामि | ब्रह्मैवास्य सर्वस्य निमित्तं प्रकृतिखोपादानम् ' इति, तदपि महीधराद्यनुकरणमेव । उपादानं तु निर्मूलमेव, ' प्रकृतिश्च प्रतिज्ञादृष्टान्तानुरोधात् ' ( ब्र ० सू ० १।४।२३ ) इति ब्रह्मण एव प्रकृतित्वविरोधात् सम्बोधनस्य निर्मूलत्वाच्च ॥ ६० ॥

पच्छात्वा पर॒मन्ते॑ पृथि॒व्याः पृच्छामि॒ यत्र॒ भुव॑नस्य॒ नाभः ।

प॒च्छासि॑ त्वा॒ बृष्ण॒ अश्व॑स्य॒ रेत॑ः पृच्छामि॑ि वा॒चः प॑र॒मं व्यो॑म ॥ ६१ ॥

मन्त्रार्थ - यजमान का प्रश्न - पृथ्वी की अन्तिम अवधि के विषय में मैं तुमसे पूछता हूँ । ब्रह्माण्ड के विषय के कारण में भी के विषय में, मनोरथ पूर्ण करने वाले प्रजापति को सामर्थ्य के विषय में और त्रयी वाणी के उत्तम स्थान मैं तुमसे प्रश्न करता हूँ ॥ ६१ ॥

' यजमानोऽध्वर्युं पृच्छामि त्वेति ' ( का ० श्र ० २०/७/१४ ) | यजमानोऽध्वर्युं पृच्छति पृच्छामि धातुः त्वेति । मन्त्रेणेति सूत्रार्थः । हे अध्वर्यो, पृथिव्याः परम् अन्तमवधिभूतं पर्यन्तं त्वामहं पृच्छामि । द्विकर्मकोऽयं सेक्तुरश्वस्य रेतो यत्र यस्मिन् स्थले भुवनस्य भूतजातस्य नाभिर्नहनं कारणम्, तदपि त्वां पृच्छामि । वृष्णः ॥ ६१ ॥

वीर्यं त्वां पृच्छामि । वाचो वाण्यास्त्रयीलक्षणायाः परममुत्कृष्टं व्योम व्यवनं स्थानं त्वां पृच्छामि

पृष्ठ 152

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 152 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६२-६३ ] वेदार्थं पारिजात भाष्यसहिता इ॒यं वेदः पर॒रो॒ अन्त॑ः पृथि॒व्या अय॑ य॒ज्ञो भुव॑नस्य॒ नाभि॑ः । अ॒य ँ सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वाचः प॑र॒मं व्यो॑म ॥ ६२ ॥

११ ९ मन्त्रार्थ- - यह उत्तरवेदी रूप गगनमण्डल देहरूप भूमि को अन्तिम सीमा है । यज्ञपुरुष सारे ब्रह्माण्ड का कारण है । सारे मनोरथों को पूर्ण करने वाली सामर्थ्य प्रजापति का वीर्य है । यह सोम और ब्रह्मा वेदवाणी के उत्तम स्थान हैं ॥ ६२ ॥

' इयं वेदिरित्यध्वर्युः ' ( का ० श्र ० २०१७ | १५ ) | अध्वर्युर्यजमानमुत्तरयन् इयं वेदिरिति मन्त्रं ब्रूत इति सूत्रार्थः । इयं वेदिरुत्तरवेदिः पृथिव्याः परोऽन्तोऽवधिः वेदेः सर्व पृथिवीरूपत्वात् । अयं यज्ञोऽश्वमेधो भुवनस्य प्राणिजातस्य नाभिः कारणम्, ' यज्ञाद्वै प्रजाः प्रजायन्ते ' ( श ० ११ ९ / २२५ ) इति श्रुतेः । अयं सोमश्चन्द्रः सोमलता वा वृष्णः सेचनसमर्थस्याश्वस्य आदित्यात्मकस्य रेतो वीर्यम्, यस्मात् सूर्यसकाशाच्चन्द्रमसस्तेजः-प्राप्तिस्तत इत्यर्थः । अथवा सोमलताश्वस्थ वीर्याज्जातेत्यर्थः । अयं ब्रह्मा ऋत्विग् वाचस्त्रयीरूपायाः परमं व्योम स्थानम्, ब्रह्मणस्त्रिवेदसंयोगादित्यर्थः । समाप्तं ब्रह्मोद्यम् । अध्यात्मपक्षे इयं वेदिः परमात्मस्वरूपा चितिः पृथिव्या मायाभूमेः परोऽन्तः, तत्रैव तस्या अध्यस्त -त्वात् । अयं यज्ञोऽपरोक्षात्मा भिन्नो विष्णुः परमेश्वरो भुवनस्य सर्वस्य प्राणिजातस्य कार्यजातस्य वा नाभिर्नहनं बन्धनस्थानं कारणम्, ‘ यतो वा इमानि भूतानि जायन्ते तद्ब्रह्म ' ( तै ० उ ० ३।२ ) । अयं सोमरचन्द्रमा ( वा ० सं ० वृष्णोऽभीष्टवर्पणशीलस्याश्वस्य प्रजापतेः परमेश्वरस्य रेतो वीर्य बलम्, ' चन्द्रमा मनसो जात: ' ३१।१२ ) इति मन्त्रवर्णात्, तत्सङ्कल्पादेव सर्वोत्पत्तेश्च । अयं ब्रह्मा रजोऽवच्छिन्नश्चेतनो विश्वविधाता वाचो वेदलक्षणायाः परमं व्योम स्थानम्, ' अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदः ' ( वृ ० उ ० २ | ४ | १० ) इति श्रुतेः । कः स्विदेकाकी चरति ' इत्यादिब्रह्मोद्यमन्त्रेषु दयानन्देन यथेच्छं सम्बोधनानि कल्पितानि । उव्वट सायण - महीधराचार्यैस्तु शतपथानुसारेणैव सम्बोधनमुपात्तम् । अत्र दयानन्दः -- ' हे विद्वन्, अहं पृथिव्या अन्तं सीमानं भुवनस्य नाभि मध्याकर्षणेन बन्धकं वृष्णोऽश्वस्य बलवतो रेतः पृच्छामि । वाचः परमं प्रकृष्टं व्योम आकाशरूपं स्थानं पृच्छामि । तदुत्तरम् - हे जिज्ञासो, इयं वेदिर्मध्यरेखा पृथिव्याः परोऽन्तः । अयं यज्ञः पूज्यो जगदीश्वरो भुवनस्य संसारस्य नाभिः । अयं सोम ओषधिराजो वृष्णो वीर्यकरस्य अश्वस्य बलेन युक्तस्य रेतः पराक्रमः । ब्रह्मा चतुर्वेदविद् वाचः परमं व्योमास्ति ' इति, तदप्यसङ्गतम्, सम्बोधनस्य निर्मूलत्वात् । वेदिपदस्य मध्यरेखार्थत्वे मानाभावात् । तथैव नाभिपदस्य मध्याकर्षणार्थतापि निर्मूलैव । सोमः पराक्रम इत्यप्यनर्थः, पराक्रमस्य पुरुषधर्मत्वात्, सोमस्य बाह्यत्वाच्च ॥६२ ॥

स॒भूः स्व॑य॒म्भूः प्र॑थ॒मोऽन्तर्म॑हत्य॒र्ण॒वे । द॒धे ह॒ गर्भ॑म॒त्विय॒ यतो॑ जा॒तः प्र॒जाप॑तिः ॥ ६३ ॥

H S मन्त्रार्थ - अध्वर्यु सुवर्णमय पात्र में महिम ग्रह को ग्रहण कर कहता है -- यह बात प्रसिद्ध है कि सबके आदि-कारण, विश्व के उत्पादक, अपनी इच्छा से प्रकट होने वाले परमात्मा ने महान् विस्तार वाले कल्पान्त काल के सागर में ब्रह्माण्ड रूप गर्भ को स्थापित किया था । इसी से प्रजापति ब्रह्मा की उत्पत्ति हुई थी ॥ ६३ ॥

सुभूरिति पूर्वस्य प्राजापत्यस्य महिम्नो ग्रहस्य पुरोऽनुवाक्या उत्तरस्य याज्या च, ' उदिते ब्रह्मोद्ये प्रपद्याध्वर्युर्हिरण्मयेन पात्रेण प्राजापत्यं महिमानं ग्रहं गृह्णाति तस्य पुरोरुग्धिरण्यगर्भः समवर्तताग्र इत्यथास्य पुरोऽनुवाक्या सुभूः स्वयम्भूः प्रथम इति होता यक्षत् प्रजापतिमिति प्रेषः प्रजापते न त्वदेतान्यन्य इति होता

पृष्ठ 153

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 153 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२० शुक्लयजुर्वेदसंहिता [ अ ० २३ यजति वषट्कृते जुहोति यस्तेऽहन् संवत्सरे महिमा सम्बभूवेति नानुवषट्करोति सर्वहुत, हि सुष्ठु जुहोति भवतीति ' ( श ० १३।५।२।२३ ) इति श्रुतेः । प्रजापतिदेवत्याऽनुष्टुप् । प्रथमः सर्वस्य आदिरनादिनिधनः सुभूः । स्वयम्भूः सुभूः साघुभवनः, अथवा भवनं भूरुत्पत्तिः, सुष्ठु सर्वेषां भूरुत्पत्तिर्यस्मात् स सुभूविश्वोत्पादकः समुद्रेऽन्तर्मध्ये स्वयमेव भवतीति स्वयम्भूः स्वेच्छया धृतविग्रहः, पुरुषो हिरण्यगर्भो महत्यर्णवे कल्पान्तकालिके स ऋत्वियः, तं प्राप्त-गर्भं दधे स्थापितवान् । ह इति प्रसिद्धौ । कीदृशं गर्भम्? ऋत्वियम् ऋतुः प्राप्तो यस्य उत्पन्नः । कालम् । ' छन्दसि घस् ' ( पा ० सू ० ५।१।१०६ ) इति घस् । यतो गर्भात् प्रजापतिर्ब्रह्मा जात ब्रह्मोद्यं वदन्ति अत्र ब्राह्मणम् -'शृतासु वपासु । स्वाहाकृतिभिश्चरित्वा प्रत्यञ्चः प्रतिपरेत्य सदसि । कः स्विदेकाकी पूर्वा द्वारा प्रपद्य यथाधिष्ण्यं व्युपविशन्ति ' ( श ० १३।५।२।११ ) | ' स होताध्वर्युं पृच्छति सूर्यसमं चरतीति तं प्रत्याह सूर्य एकाकी चरतीति ' ( श ० १३।५।२।१२ ) । ' अथाध्वर्युर्होतारं पृच्छति । कि स्वित् ज्योतिरिति तं प्रत्याह ब्रह्म सूर्यसमं ज्योतिरिति ' ( श ० १३ | ५ | २ | १३ ) | ' अथ ब्रह्मोद्गातारं पृच्छति । पृच्छामि त्वा चितये देवसखेति तं प्रत्याहापि तेषु त्रिषु पदेष्वस्मीति ' ( श ० १३ | ५ | २ | १४ ) | ' अथोद्गाता ब्रह्माणं पृच्छति । केष्वन्तः पुरुष आविवेशेति तं प्रत्याह पञ्चस्वन्तः पुरुष आविवेशेति ' ( श ० १३ | ५ | २ | १५ ) | ( एतस्यामुक्ताया-मुत्थाय । सदसोऽधि प्राचो यजमानमभ्यायन्त्यग्रेण हविर्धाने आसीनमेत्य यथायतनं पर्युपविशन्ति ' ( श ० ' १३।५।२।१६ ) । ' स होताध्वर्यु पृच्छति । का स्विदासीत् पूर्वचित्तिरिति तं प्रत्याह द्यौरासीत् पूर्वचित्तिरिति ' ( श ० ( श ० १३।५।२।१७ ) । ' अथाध्वर्युर्होतारं पृच्छति । का ईमरे पिशङ्गिलेति तं प्रत्याहाऽजारे पिशङ्गिलेति पडस्य विष्ठाः १३।५।२।१८ ) । ' अथ ब्रह्मोद्गातारं पृच्छति । कत्यस्य विष्ठा: कत्यक्षराणीति तं प्रत्याह नाभिमिति तं शतमक्षराणीति ' ( श ० १३ | ५ | २ | १ ९ ) । ' अथोद्गाता ब्रह्माणं पृच्छति । को अस्य वेद भुवनस्य प्रत्याह वेदाहमस्य भुवनस्य नाभिमिति ' ( श ० १३५ २ २० ) । ' अथाध्वर्युं यजमानः पृच्छति ) । ' । सर्वाप्तिर्वा पृच्छामि एषा त्वा परमन्तं पृथिव्या इति तं प्रत्याहेयं वेदिः परो अन्तः पृथिव्या इति ' ( श ० १३।५।२।२१ १३।५।२।२२ ) । वाचः । यद् ब्रह्मोद्य ँ, सर्वे कामा अश्वमेधे सर्वया वाचा सर्वान् कामानाप्नवामेति ' ( श ० । एवं श्रुतीराधृत्य उव्वटसायणादिव्याख्यानम् । तस्मात् सायणाद्याचार्यव्याख्यानमेव सर्वतो विजयतेतमाम् अध्यात्मपक्षे - पूर्वोक्त एवार्थः । दयानन्दस्तु - ' हे जिज्ञासो, यतः प्रजापतिर्जातः, यश्च सुभूः स्वयभूः प्रथमो जगदीश्वरो महत्यर्णवेऽन्त- सुभूः-ऋत्वियं गर्भं दधे तं ह् सर्वे जना उपासीरन् ' इति, तदपि यत्किचित् सम्बोधनस्य निर्मूलत्वात् बीजधारणं । स्वयम्भूरित्यनयोरन्यतरेणैव गतार्थत्वेनान्यतरस्य वैयर्थ्यापत्तेः । न च निराकारस्य निरवयवस्य । न च त्वन्मते सम्भवति । सिद्धान्ते तु हिरण्यगर्भस्य सङ्कल्पवशात् सर्वं सम्भवति विनश्यति चेति नानुपपत्तिः ॥ ६३ ॥

सङ्कल्पोऽपि सम्भवति, तद्धेतोरात्ममनःसंयोगस्याभावात् । न च संयोगोऽपि सम्भवति, तद्धेतोरभावात् होता॑ यक्षत् प्र॒जाप॑ति॒ सोम॑स्य॒ महि॒म्नः । जु॒षतां॒ पिब॑तु॒ सोम॒॑ होत॒र्यज॑ ॥ ६४ ॥

सेवन मन्त्रार्थ - होता ने महान् सोम सम्बन्धी प्रजापति का यजन किया था । पूजित प्रजापति ने सोम का किया था । हे मनुष्य होता! तुम भी यजन करो और सोम का पान करो ॥ ६४ ॥

महिम्नः प्रैषः, ' होता यक्षत् प्रजापतिमिति प्रैष: ' ( श ० १३ | ५ | २ | २३ ) इति श्रुतेः । आर्षी गायत्री । महिम्नो महिमसंज्ञकस्य सोमग्रहस्य सम्बन्धिनं प्रजापति दैव्यो होता यक्षद् यजतु । इज्यमानः स प्रजापतिर्जुषतां सोमं महिमग्रहं च प्रीत्या परिगृह्णातु पिबतु च । हे मनुष्य होतः, त्वमपि यज ।

पृष्ठ 154

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 154 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ६४-६५ ] वेदार्थपारिजातभाष्यसहिता १२१ अध्यात्मपक्षे -- दैव्यो होता प्रजापति परमात्मानं यक्षद् यजतु । इज्यमानः स देवः सोमपूर्ण महिमग्रहं प्रीत्या सेवतां पिबतु च । हे मनुष्यहोतः, दैवहोतृवत् त्वमपि परमात्मानं प्रजापतिं यज । दयानन्दस्तु —– ' हे होतः, यथा होता सोमस्य महिम्नः प्रजापति यक्षतु जुषतां च सोमं च पिबतु, तथा त्वं यज पिब च ' इति, तदपि यत्किञ्चित् शतपथब्राह्मणविरोधात् । तत्र महिमाख्यो ग्रहो महिम पदार्थो व्याख्यातः, न महत्त्वमिति ॥ ६४ ॥

प्रजा॑ते॒ न त्वदे॒तान्यन्यो विश्वा॑ रू॒पाणि॒ परि॒ता ब॑भूव ।

यत्का॑मास्ते॒ जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ६५ ॥

॥ इति त्रयोविंशोऽध्यायः ॥

मन्त्रार्थ - हे प्रजापते! प्रजापालन आदि कार्यों में तुमसे अधिक निपुण कोई नहीं है, अतः तुम ही हमारी प्रार्थना पूरी कर सकते हो । हे देव! हम जिस कामना से हवन करें, वह सफल हो । आपकी कृपा से हम अपरिमित धन के स्वामी बनें ॥ ६५ ॥

पूर्वस्य महिम्नो याज्या, ' प्रजापते न त्वदेतान्यन्य इति होता यजति ' ( श ० १३।५।२।२३ ) इति श्रुतेः । हे प्रजापते, त्वत् त्वत्तोऽन्यो देवताविशेषः, तान्येतानि विश्वा विश्वानि सर्वाणि रूपाणि नानाजातीयानि वर्तमान-भूतभविष्यत्कालत्रयविषयाणि न परिबभूव परिभवितुं नाशयितुं समर्थो नाभूत् । परिभवः सृष्टेरप्युपलक्षकम् । त्वदन्यो देव एतानि स्रष्टुं पालयितुं चाप्यसमर्थः, अतो वयं यत्कामास्ते जुहुमस्तत्कामरूपं नोऽस्मासु सुभृशं स्यात् । वयं रयीणां पतयः स्याम । इयमृग् विशेषतो दशमेऽध्याये २० कण्डिकायां व्याख्याता ॥ ६५ ॥

॥ इति श्रीशुक्लयजुर्वेदीयमाध्यन्दिनसंहिताया वेदार्थ पारिजातभाष्ये त्रयोविंशोऽध्यायः ॥ १६

पृष्ठ 155

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 155 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्विंशोऽध्यायः अश्व॑स्तूप॒रो गा॑म॒गस्ते प्रा॑जाप॒त्याः कृष्णग्रव आग्ने॒यो र॒रावे॑ मे॒ष्यध॑स्त॒द्धन्वराश्व॒िनाव॒धोरा॑मी ब्राह्वोः समाप॒ष्णः श्या॒मो नाभ्या॑ कृष्णश्र्च॑ पा॒श्व॑स्याष्ट्रो लम॒शस॑क्थौ स॒क्थ्योवो॑व॒व्यः श्वे॒तः पुच्छ वे॒द्वैष्ण॒वो वा॑म॒नः ॥ १ ॥

८ पु॒रस्ता॑त् सारस्व॒तो सौर्याम श्वे॒त इन्द्रा॑य स्वप॒स्याय मन्त्रार्थ - अश्वमेध में २१ यूप ( यज्ञस्तम्भ ) होते हैं । उनमें मध्यम ग्रूप का नाम अग्निष्ठ है । उसके समीप सत्रह पशुओं को बाँधकर उनके अधिष्ठात्री देवताओं का स्मरण तथा उन देवताओं के गुणों और चिह्नों का वर्णन किया जाता है । मन्त्र का अर्थ इस प्रकार है - अश्व, शृंगोत्पत्ति के समय भी शृंगहीन पशु और गवय ये तीनों प्रजापति देवता वाले हैं । इनको प्रजापति की प्रीति के निमित्त बाँधता हूँ । अग्नि देवता वाले काली गर्दन के अज को अश्व के आगे ललाट के पास बाँधे, हनु के नीचे सरस्वती देवता वाली मेषी को बाँधे, अधोभाग में अश्विनीकुमार देवता वाली शुक्ल वर्ण की दो अजाओं को अश्व की बाहुओं के निकट बाँधे, सोम और पूषा देवता वाले शुक्ल और कृष्ण रोम वाले अज को नाभि के समीप बाँधे, सूर्य और यम देवता वाले श्वेत और काले पशुओं को अश्व के दोनों ओर बाँधे, बहुत रोम वाले पूँछ वाले त्वष्टा देवता के पशु को जाँघों के समीप बाँधे, वायु देवता वाले श्वेत वर्ण पशु को पूँछ के पास बाँधे, शु. कर्मा इन्द्र के निमित्त गर्भघाती विष्णुसम्बन्धी नाटे पशु को बाँधे ॥ १ ॥

श्रुतिरूपा मन्त्रा आश्वमेधिकानां पशूनां देवतासम्बन्धविधायिनोऽनेनाध्यायेनोच्यन्ते । तत्राश्वमेवे एक-विंशतिर्नृपाः । तत्र मध्यमो यूपोऽग्निष्ठनाम्ना प्रसिद्धः । तत्र सप्तदश पशवो नियुज्यन्ते । देवतासम्बन्धकथनपूर्वकं तानाह-- अश्वस्तूपरो गोमृगस्ते प्राजापत्या इति । अश्वः प्रसिद्धः, तूपरः शृङ्गोत्पत्तिकालेऽतीतेऽपि शृङ्गहीनो योऽजः स तूपरः, गोमृगो गवयः - त एते प्राजापत्याः प्रजापतिर्देवता येषां ते, अर्थात् प्रजापतिदेवताकाः । ततः प्रजापतये जुष्टं नियुनज्मीति मन्त्रेण ते पशवस्तत्र यूपे बन्धनीयाः । एवमग्रेऽपि यो यद्देवत्यः पशुः स अमुष्मै जुष्टं नियुनज्मीत्यादिमन्त्रैबंन्धनीयः । अत्र सर्वत्र पशुविधिषु यत्र यो जातिविशेषबोधकः शब्दस्तत्र तज्जातीय एव पशु, विशेषश्रवणाभावे तु अज एव पशुः । कृष्णग्रीवः, कृष्णा ग्रीवा यस्यासौ । आग्नेयोऽग्निदेवत्यः, रराटे ललाटे । छान्दसो रेफः । पुरस्ताद् अश्वस्य पुरस्तात्, ललाट इति यावत् । तत्रोपनये बन्धनीयः । सारस्वती सरस्वत्या इयं सारस्वती सरस्वतीदेवत्या मेषी हन्वोरश्वहनु प्रदेशयोरधस्तान्नियोज्या । आश्विनौ अश्विदेवत्यौ अधोरामौ अधः कायस्य अधोभागः, रामो रमणीयः शुक्लवर्णो ययोस्ती, एवंभूतावजो बाह्वोरश्वस्य पूर्वपादयोरेकैको बन्धनीयः । सौमा पौष्णः, सोमश्च पूषा च सोमपूषणौ तौ देवते यस्य स सौमा पौष्णः सोमपूषदेवत्यः श्यामः कृष्ण रोमाऽजः, अश्वस्य नाभ्यां नाभिप्रदेशस्याधस्तान्नियोक्तव्यः । सौर्ययामौ, सूर्यो देवता यस्यासौ सौर्यः, यम्रो देवता यस्यासौ यामः, सौर्यश्व यामश्च सौर्ययामौ, श्वेतश्च कृष्णश्च तो सौर्ययामौ यथाक्रमं श्वेतवर्णः कृष्णवर्णश्च भवतः । तौ कुत्र बन्धनीयावित्याह – पार्श्वयोरिति । अर्थात् श्वेतः सूर्यदेवत्यो दक्षिणपार्श्वे यमदेवत्यः कृष्णोऽश्वस्य वामपार्श्वे । लोमशसक्थौ लोमानि सन्ति ययोस्ते लोमशे, ' लोमादिपामादिपिच्छादिभ्यः शनेलचः ' ( पा ० सू ०

पृष्ठ 156

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 156 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १-२ ] वेदार्थपारिजातभाष्यसहिता १२३ ५। 1१०० ) इति शः । लोमशे लोमबहुले सक्थिनी ऊरुमुले ययोस्तौ लोमशसक्यौ । ' बहुव्रीहौ सक्थ्योः स्वाङ्गात् षच् ' ( पा ० सू ० ५ | ४ | ११३ ) इति षचि साधुः । तौ पशु त्वाष्ट्रौ त्वष्टृदेवत्यौ बहुरोमपुच्छकौ सक्थ्योः अश्वस्य पश्चात्पदयोरेकैको नियोजनीयः । वायव्यो वायुदेवत्यः श्वेतः पशुः पुच्छेऽश्वस्य पुच्छे बन्धनीयः । स्वपस्याय इन्द्राय, ' अप इति कर्मनामसु ' ( निघ ० २ १ १ ), अपसि कर्मणि साधु अपस्थं धनम्, शोभनमपस्यं यस्य स स्वपस्यः, तस्मै इन्द्राय बेहद गर्भघातिनी । वामनः, वामयतीति वामनः, नन्दादित्वाल्ल्युः । अथवा वाम-मतिसुन्दरमस्त्यस्येति वामनः पामादित्वान्नः । खर्वावयवः पशुर्वेष्णवो विष्णुदेवत्यः " स च पुच्छ एवं बन्धनीयः, अङ्गान्तरानुक्तेः । एवमश्वादयः सङ्कलय्य पञ्चदश पशवो भवन्ति । एते पर्यङ्ग्या उच्यन्ते । परितोऽङ्गेषु भवा पर्ययाः, कृष्णग्रीवा इत्यादयः । अत्र अश्वस्य शरीरं तुम्बीफलवद्रज्जुं बद्ध्वा गुम्फनीयम् । ततः कृष्णग्रीव आग्नेयो रराटे इत्यादयोऽश्वस्य शरीरे यथोक्तस्थाने सम्बद्धायां रज्ज्वां बन्धनीयाः । ततोऽग्रिमायां कण्डिकायां श्रुता रोहितः, धूम्ररोहितः, कर्कन्धुरोहित इत्यादयः शितिबाहुः, अन्यतः शितिबाहुः समन्तशितिबाहुः, ते बार्हस्पत्या इत्यन्ता द्वादशपशवो मध्यम एव यूपे नियोज्याः । ततः पृषती क्षुद्रपृषतीत्यादीनां श्वेताः सौर्या इत्यन्तान ( मेकोनविशीं कण्डिकां यावत्पठितानां शतत्रयसंख्याकानां पशूनां मध्ये पञ्चदश पञ्चदश पशून् नियुञ्ज्यात् । एवं मध्यमं यूपं विहाय इतरेषु यूपेषु पञ्चदश पञ्चदश एते पशवः, एकैकश्च एकादशिन इति षोडश षोडश पशवो भवन्ति । तथा चाह श्रुतिः -- ' सप्तदशैव पशून् मध्यमे यूप आलभेत । प्रजापतिः सप्तदशः सर्व " सप्तदशः सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्धयै षोडश षोडशेतरेषु षोडशकलं वा इदं सर्वम् ' ( श ० १३ | ५ | १ | १५ ) । अध्यात्मपक्षे अत्र भगवतः सार्वात्म्यबोधनाय तत्तदेवताकानां पशूनां तत्तदेवतानां च हिरण्यगर्भ -प्रजापतिसम्बन्धः, प्रजापतेश्च सर्वाधिष्ठानभूतेन परमात्मनाऽभेदबोधनात् तस्य सर्वात्मता व्यज्यते । अश्वस्तूपरो गोमृगश्चैते पशवः प्राजापत्याः । प्रजापतिश्च परमात्मैव परमात्मकार्यत्वात् । मृद्विकाराणामिव मृत्तिकारूपव-दिति । मन्त्रव्याख्यानं तु पूर्ववदेव । दयानन्दस्तु -- हे मनुष्याः, यूयमश्वस्नुपरो गोमृगस्ते प्राजापत्याः कृष्णग्रीव आग्नेयस्ते पुरस्ताद् रराटे मेषी सारस्वतोऽधस्ताद् हन्वोर्बाह्वोरधोराम आश्विनौ सौमापौष्णः श्यामो नाभ्यां पार्श्वयोः श्वेतश्च कृष्णश्च सौर्याम लोमशसक्थ्यौ त्वाष्ट्रो पुच्छे श्वेतो वायव्यो वेहद् वैष्णवो वामनश्च स्वपस्यायेन्द्राय संयोजयत ' इति, तदपि यत्किञ्चित्, मन्त्रार्थानवगमात् असङ्गतेश्च । यथा कश्चिदमरकोशश्लोकैश्चिकित्सां साधयेत्, तत्तु बलात्कारितमेवेति, तद्वत् । अश्वादिषु सूर्यदेवतागुणाः कथं सिद्धयन्ति? किञ्च तैः कर्तव्यमित्याद्यनुक्तेः । कृष्णग्रीवस्य कथमग्निदेवताकत्वम्? कथं च तस्य ललाटनिमित्तत्वमिति? हन्वोरधस्तात् सरस्वती देवता का? मेषी कथं किमर्थं च कर्तव्येत्यादिकं सर्वं दुःसमाधेयमेव ॥ १ ॥

रोहितो धूम्ररोहितः कर्कन्धुरोहित॒स्ते सौम्या बभ्रुर॑रु॒णव॑भ्रुः शुक॑बच॒स्ते वा॑रु॒णाः शि॑िति॒रन्योऽन्यत॑ः शितिरन्ध्रः सम॒न्तशि॑ितिरन्ध॒स्ते सा॑वि॒त्रः शि॑ति॑बा॒हुर॒न्यत॑ः शितिबाहुः सम॒न्तशि॑तिबाहस्ते र्बार्हस्प॒त्याः पृष॑ती क्षुद्रवृ॑षती स्थूलवृ॑षत ता मैत्रावरु॒ण्य॑ः ॥ २ ॥

मन्त्रार्थ - सर्वरक्त, धूम्र वर्ण से मिला रक्त और बेर के हैं । नेवले के समान भूरे वर्ण के, लाल भूरे रंग के और तोते के देवता के हैं । मर्मस्थान में श्वेत वर्ण और अन्य स्थानों में श्वेत समान रक्त- ये तीनों वर्णों के पशु सोम देवता वाले समान हरे और कपिल वर्ण के -- ये सब पशु वरुण रंध्र वाले तथा सब ओर से श्वेत रन्ध्र वाले - ये सब

पृष्ठ 157

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 157 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४ शुक्ल यजुर्वेदसंहिता [ अ ० २४ श्वेत चरण वाले- ये पशु सविता देवता वाले हैं । श्वेत पूर्व पद वाले, एक स्थान में श्वेत पूर्व पद चित्ती वाले वाले और सब और स्थूल विचित्र चित्ती सब पशु बृहस्पति देवता के हैं । विचित्र वर्ण चित्ती के शरीर वाले, सूक्ष्म विचित्र वाले- ये तीनों पशु मित्रावरुण देवता से सम्बन्ध रखने वाले हैं ॥ २ ॥

- इत्येते त्रयः रोहितः सर्वरक्तः, धूम्ररोहितो धूम्रवर्णमिश्रो रक्तः, कर्कन्धुरोहितो बदरसदृशरक्तः मध्यमे यूप एव नियोज्याः । सौम्याः सोमदेवत्याः पशवः सोमाय जुष्टं नियुनज्मीत्यादिमन्त्रेण प्रत्येकं सोमदेवतायै , शुकबभ्रुः शुकपक्षिसमवर्णः कपिलश्च, बभ्रुः कपिलवर्णः । अरुणबभ्रुररुणवर्णमिश्रः कपिलः, कैर इति भाषायाम् शब्दास्तदभिधानद्वारेण ते त्रयो वारुणा वरुणदेवत्या मध्यमयूप एव नियोज्याः । श्वेतबध्वादिगुणवाचिनोऽपि दृश्यते ) यस्मिन् पशौ स शितिरन्ध्रः, गुणिनि पौ पर्यवस्यन्ति । शितिरन्ध्रः शिति कृष्णं रन्धं छिद्रं ( छिद्रमिव समन्तं सर्वतः शितिरन्ध्रं यस्य स अन्यतः शितिरन्ध्रोऽन्यत एकपार्श्वे शितिरन्ध्रं यस्य सः, समन्तशितिरन्ध्रः कृष्णबिन्दवो यस्यासौ समन्तशितिरन्ध्रः । समन्तशितिरन्ध्रः, स्वभावतः शुक्लवर्णे पशौ - सर्वस्मिन् गात्रे रन्ध्रसमाः शिती श्वेतौ बाहू पूर्वपादो ते त्रयः सावित्राः सवितृदेवत्याः पशवो मध्यमयूप एव नियोज्याः । शितिबाहुः सर्वः श्वेतबाहुः ‘ शिती यस्य सः शितिबाहुः, अन्यतः शितिबाहुरेकस्मिन्नेव पार्श्वे शितिपादः समन्तशितिबाहुः बृहस्पतिदेवत्याः । एतेऽपि धवलमेचकौ ' ( अ ० को ० ३।३।८३ ) इति कोषात्, त एते त्रयः पशवो बार्हस्पत्या क्षुद्राणि सूक्ष्माणि पृषन्ति मध्यम एव यूपे नियोज्याः । पृषती पृषन्ति विचित्रवर्णबिन्दवो स्त्रीपशवो यस्यां सा, मैत्रावरुण्यो क्षुद्रपृषती मित्रावरुणदेवत्या द्वितीये बिन्दवो यस्यां सा, स्थूलपृषती स्थूलविचित्रबिन्दुयुक्ता, ता एताः नियोज्याः । एवं पञ्चदशपशुके एको गणो मतः । अध्यात्मपक्षे – सर्वे चैते पशवो यस्यै यस्यै देवतायै नियुज्यन्ते सा सा परमात्मरूपैव । भावार्थ: ' इति, तदपि दयानन्दस्तु - ' ये चन्द्रादिगुणयुक्ताः पशवः सन्ति, तैस्तत्तत्कार्यं मनुष्यः सावित्रा साध्यमिति वारुणा इत्यादिभिर्बोधितदेवता-यत्किञ्चित् निर्मूलत्वात् केन किं कार्यं साध्यमित्यनुक्तेश्च, सौम्याः मानाभावात् ॥ २ ॥

सम्बन्धाभिप्रायानुक्तेश्च । नहि बृहस्पत्यादयो देवताः पशूनां गुणाः सम्भवन्ति तथात्वे रु॒द्राय॑ शुद्धर्वाः सर्वशुद्धवालो मण॒वाल॒स्त आ॑श्व॒िनाः श्येतः श्येताक्षोऽरु॒णस्ते पशु॒पत॑ये क॒र्णा या॒मा भ॑वल॒प्ता रौद्रा नर्भोरूपा पार्जन्याः ॥ ३ ॥

मन्त्रार्थं- शुद्ध केश वाले, सर्वशुद्ध केश वाले और मणि के समान स्वच्छ केश वाले – ये तीनों पशु अश्विनी-कर्मबद्ध जीवों के स्वामी रुद्रदेव की कुमार देवता वाले हैं । श्वेत, श्वेतनेत्र और लाल वर्णं के पशु पशुसमाज तीन के, पशु यम देवता के, गर्वीले तीन पशु प्रीति के निमित्त नियुक्त किये गये हैं । चन्द्रमा के समान श्वेत कान वाले जाते हैं ॥ ३ ॥

रुद्र देवता के और आकाश के समान नील वर्णं वाले तीन पशु पर्जन्य देवता के माने । सर्वशुद्धवालः सर्वतः गणान्तरमाह - शुद्धवाल इति । शुद्धवालः शुद्धो वालः केशो यस्य स शुभ्रवालः ये पशवस्ते आश्विना अश्वि-शुद्धो वालो यस्य सः, मणिवालो मणिभिरलङ्कृत इव वालो यस्य सः । एवंविधा अक्षिणी यस्य सः । ' बहुव्रीहौ देवत्याः । एते द्वितीये यूपे नियोज्याः । श्वेतः श्वेतवर्णः पशुः श्येताक्षः श्येते शुक्लवर्णे , अव्यक्तराग इति सायणाचार्यः । सक्थ्यक्ष्णोः स्वाङ्गात् षच् ' ( पा ० सू ० ४ | ४ | ११३ ) इति साधुः । अरुणो रक्तः । एतेऽपि द्वितीये यूपे नियोज्याः । य एवंरूपाः पशवस्ते पशुपतये रुद्राय पशुपालनविशिष्टरुद्र देवतायै नियोक्तव्याः विश्वकोषोक्तिरीत्यार्थो ज्ञेयः । अत्र यद्यपि कर्णाश्चन्द्रसदृशश्वेतकर्णास्त्रयः पशवः, ' कर्णश्चन्द्रे च वृक्षे च ' इति इति वाक्यं विषयीकृत्य विचारपरे त्रित्वसंख्या पशुविशेषणतया नोपात्ता, तथापि ' वसन्ताय कपिञ्जलानालभते '

पृष्ठ 158

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 158 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३-४ ] वेदार्थपारिजात भाष्य सहिता १२५ कपिञ्जलाधिकरणे बहुवचनस्य त्रित्वे पर्यवसानस्य मीमांसायां सिद्धान्तितत्वाद् बहुवचनोपपत्तये त्रित्वसंख्या पशुविशेषणतया योजनीया । त एते पशवो यामा यमदेवत्या द्वितीये यूपे नियोज्याः । अवलिप्ताः सगर्वास्त्रयः पशवो रौद्रा रुद्रदेवत्याः, एते द्वितीये यूपे पञ्चदश पशवः । अथ तृतीये यूपे नभोरूपा आकाशवन्नीलवर्णास्त्रयः पशवः पार्जन्याः पर्जन्यदेवत्यास्तृतीये यूपे नियोज्याः । अध्यात्मपक्षे - सर्वे चैते पशवस्तैर्यजनीया देवताश्च ब्रह्मविकारत्वाद् ब्रह्मरूपा ज्ञातव्याः । दयानन्दस्तु पूर्ववदेवमर्थमाह - ' यो यस्य पशोर्देवतास्ति स तस्य गुणोऽस्तीति वेद्यमिति भावार्थे विशेषः ' इति, तदपि यत्किञ्चित्, निर्मूलत्वात्, पशुषु यमरुद्रपर्जन्यगुणानामदर्शनाच्च ॥ || नस्तर॒चीन॑ पृश्निरू॒र्ध्वपृश्न॒िस्ते मा॑ह॒ताः फल्गुलहितोर्णी प॑ल॒क्षी ताः सरस्वत्यः प्लीहाकणैः शुण्ठा कर्णोऽद्धयालोहकर्णस्ते त्वाष्ट्राः कृष्णग्रीवः शिति॒कक्षॊऽञ्जि स॒क्थस्त ऐन्द्राग्नाः क॒ष्णाञ्चरत्वञ्जर्म॒हाञ्जस्त उ॑ष॒स्याः ॥ ४ ॥

मन्त्रार्थ - चित्र वर्ण, तिरछी रेखा वाले और ऊपर नीचे लम्बी रेखा वाले तीन पशु मरुद् देवता, अ शरीर, लोहित रोम वाले और श्वेत वर्ण के तीन पशु सरस्वती देवता के कान पर प्लीहा रोग वाले अथवा लम्बे कान वाले, छोटे - छोटे कान वाले और रक्तवर्ण कान वाले पशु त्वष्टा देवता के, ग्रीवा में कृष्ण वर्ण रोम वाले, बगल में श्वेत वर्णं रोम वाले और जंघा पर रेखाक्रम के रोम वाले त्रिविध पशु इन्द्र और अग्नि देवताओं के · शरीर पर काली रेखा वाले, देह पर दो चार रेखा वाले और पूरे शरीर पर बड़ी - बड़ी रेखा वाले त्रिविध पशु उषा देवता के माने जाते हैं ॥ ४ ॥

पृश्निविचित्रवर्णः, तिरश्चीनपृश्निस्तिरश्चीनानि पृश्नीनि बिन्दवो यस्य सः, ऊर्ध्वपृश्निरूर्ध्वानि पृश्नीनि यस्य सः एवं विविधबिन्दूपेतः, तिरश्चीनबिन्दु:, ऊर्ध्वबिन्दुश्चैते त्रयो मारुता मरुद्देवत्याः । एते तृतीये यूपे नियोज्याः । पृश्निरल्पतनुः, तिरश्रीनपृश्निस्तिर्यक्प्रमाणेनाल्पशरीरः, ऊर्ध्वपृश्निरूर्ध्वप्रमाणेन आयामेन अल्पाकार इति सायणाचार्यः । फल्गुरपुष्टशरीरा, सम्पुष्टशरीरेति सायणः । विश्वकोषे फल्गुशब्दस्योभयार्थक-त्वम् । लोहितोर्णी रक्तरोमयुक्ता, पलक्षी श्वेता, पलक्षशब्दो वलक्षार्थः श्वेतपर्यायः । एतास्तिस्रोऽजाः सारस्वत्यः सरस्वतीदेवताकाः । एतेऽपि पशवस्तृतीये यूपे नियोज्याः । प्लीहाकर्णः प्लीहा वामकुक्षिवर्तमांसपिण्डविशेषः, तथाप्यत्र रोगविशेषः, प्लीहा कर्णे यस्य स प्लीहाकर्णः, ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति दीर्घः । शुण्ठाकर्णः शुण्ठौ ह्रस्वी कर्णौ यस्य सः शुण्ठाकर्णः पूर्ववद्दीर्घः । अद्वयालोहकर्णो रक्तवर्णकर्णः । ते त्रयस्त्वाष्ट्रा-स्त्वष्टृदेवत्यास्तृतीये यूपे नियोज्याः । कृष्णग्रीवः शितिकक्षः श्वेतकक्षः, असिक्थोऽञ्जि पुण्ड्र सक्थ्नोरूर्वोर्यस्य सः, अभिव्यक्तोरुरिति सायणाचार्य:, ते त्रय ऐन्द्राग्ना इन्द्राग्निदेवत्या इति पञ्चदशसंख्याकाः पशवस्तृतीये यूपे नियोज्याः । अथ चतुर्थे यूपे कृष्णाञ्जः कृष्णमञ्जि पुण्ड्रं यस्य सः, अल्पाञ्जिरल्पमञ्जि यस्य सः, महाजि -महद् अञ्जि यस्य सः, कृष्णाञ्जिः कृष्णवर्णाभिव्यक्तिमान्, अल्पाञ्जिरीषदभिव्यक्तिमान्, महाञ्जिर्महापुंस्त्वाभि-व्यक्तिमानिति सायणाचार्यः । त एते त्रय उषस्या उषोदेवत्याश्चतुर्थे यूपे नियोज्याः । अध्यात्मपक्षे - एते पशवस्तैर्यष्टव्या देवताश्च ब्रह्मविकारत्वाद् ब्रह्मरूपा ज्ञातव्याः । दयानन्दस्तु -- ' पृश्नि: प्रष्टव्यः, तिरवीनः पृश्निः स्पर्शो यस्य सः ' इति एतच्च निर्मूलमेव, प्रमाण-शून्यत्वात् । या फलानि गच्छति प्राप्नोति सा फल्गुरिति, तदपि न, रूढ्या योगापहारात् । पलक्षी पले चले अक्षिणी या सा पक्षीत्यपि न वलक्षशब्दस्य श्वेतार्थे रूढत्वात् ' वलक्षो धवलोऽर्जुनः ' इत्यमरात् । शुण्ठ

पृष्ठ 159

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 159 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२६ शुक्लयजुर्वेद संहिता [ अ ० २४ roat कणो यस्य स शुण्ठाकर्ण इत्यपि निर्मूलम्, ह्रस्वार्थतायां शुण्डशब्दप्रसिद्धेः । प्लीहेव कर्णे यस्येत्यपि निर्मूलम्, प्लीहशब्दस्य वामकुक्षिवर्तिमांसपिण्डविशेषे रूढत्वात् । रोगस्तु तत्र विकारः । न च कर्णे प्लीहा भवति, तस्माद् रोगविशेष एव प्लीहेति मन्तव्यम् । ' अधिगतं च तल्लोहं च सुवर्णं च तद्वद्वर्णो यस्य सः ' इति, तदपि यत्किञ्चित्, तादृशपश्वप्रसिद्धेः । कृष्णा विलिखिता अञ्जिर्गतिर्यस्येत्यादिकमपि यत्किञ्चित् गतेविलेखनस्याप्रसिद्धत्वात् । ‘ ये पशवः पक्षिणश्च वायुगुणा ये नदीगुणा ये सूर्यगुणा ये वायुविद्युद्गुणा ये चोषोगुणाः सन्ति, तैस्तदनुकूलानि कार्याणि साधनीयानीति भावार्थः ' इति, तदपि यत्किञ्चित्, तथाविधानां पशूनां तदनुकुलानां कार्याणां चानिरूपणात् । नहि विद्युत्कार्यं दहनप्रकाशादिकं पशुभिः सम्पादयितुं शक्यम्, तथाऽदर्शनात् ॥ ४ ॥

शिल्पा वैश्वदेव्यो रोहि॑िण्य॒स्त्र्यव॑यो वा॒चेऽविज्ञाता॒ अव॑त्य॒ सरू॑पा धा॒त्रे व॑स्त॒र्यो दे॒वानां पत्नीभ्यः ॥ ५ ॥

W मन्त्रार्थ - विचित्र वर्णं के पशु विश्वेदेव देवताओं के, रक्त वर्ण डेढ़ वर्ष की अवस्था वाले पशु वाक् देवता, उपर्युक्त लक्षणों से न पहचाने जा सकने वाले पशु अदिति देवता के, इकरंगे पशु धात्री देवता के और कम उम्र की छागी देवलियों की प्रीति के निमित्त नियुक्त हैं ॥ ५ ॥

शिल्पा विचित्रवर्णाः स्त्रीपशवो वैश्वदेव्यो विश्वेदेवदेवत्या विश्वेदेवा देवता यासां तास्तिस्रश्चतुर्थे यूपे नियोज्याः । रोहिण्यो रक्तवर्णाः, त्र्यवयः सार्धसंवत्सरायुष्मत्यस्तिस्रोऽवयो वाचे वाग्देवतायै चतुर्थे यूपे, नियोक्तव्या इति शेषः । अविज्ञाताः कृष्णग्रीवादिचिह्नविशेषविज्ञानशून्यास्त्रयः पशवोऽदित्यै अदितिदेवतायै चतुर्थे यूपे नियोज्याः | सरूपाः समानरूपास्त्रयः पशवो धात्रे धातृदेवतायै चतुर्थे यूपे नियोज्याः । एवं पञ्चदश पशवः सम्पन्नाः । अथ पञ्चमे यूपे वत्सतर्यो बालछाग्यः, उपरतस्तनपाना इत्यर्थः । तास्तिस्रो देवानां पत्नीभ्यो देवपत्नीदेवत्याः पञ्चमे यूपे नियोज्याः । अध्यात्मपक्षे - पूर्ववदेवार्थः । दयानन्दस्तु - ' हे मनुष्याः, युष्माभिर्या: शिल्पा वैश्वदेव्यो वाचे रोहिण्यस्त्रयवयोऽदित्या अविज्ञाता धात्रे सरूपा देवानां पत्नीभ्यो वत्सतर्यश्च ता विज्ञेयाः ' इति, तदपि यत्किञ्चित्, सुस्पष्टं महीधराद्युक्तमर्थमपहाय सुदृढबद्धद्वेषतया निरर्थक प्रलापमात्रत्वात् । सुरूपाः शिल्पकार्यसाधिका आरोढुमहश्च का? किञ्च ताभिः कर्तव्यमित्यादेरस्पष्टत्वात् ॥ ५ ॥

क॒ष्णवा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑ना॒ रोहि॑ता रु॒द्रार्णा श्वे॒ता अ॑वरोकिर्ण आदि॒त्यानां॒ नमो॑रूपाः पर्जन्याः ॥ ६ ॥

मन्त्रार्थ - काली ग्रीवा वाले तीन पशुओं का देवता अग्नि है, तीन भौं वाले तीन पशुओं का देवता वसु है, रक्त वर्ण तीन पशुओं का देवता रुद्र है, श्वेत वर्ण के तीन पशुओं का देवता आदित्य है, आकाश के समान वर्ण वाले तीन पशुओं का देवता पर्जन्य है ॥ ६ ॥

कृष्णग्रीवाः कृष्णाः कृष्णवर्णा ग्रीवाः कण्ठा येषां ते 1 तथाभूतास्त्रयः पशव आग्नेया अग्निदेवत्याः पञ्चमे यूपे नियोज्याः । शितिभ्रवः शितिः श्वेतवर्णा भ्रूर्येषां ते तथाविधास्त्रयः पशवो वसूनां कृते पञ्चमे यूपे नियोज्याः । रोहिता लोहितवर्णास्त्रयः पशवो रुद्राणां कृते पञ्चमे यूपे नियोज्याः । श्वेता अवरोकिणोऽवलो-

पृष्ठ 160

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 160 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मै ० ६-७ ] वेदार्थपारिजातभाष्यसहिता १२७ किनः । यद्वा अत्र अधस्ताद् रोकं छिद्रमवरोकम्, तदस्ति येषां तेऽवरोकिणः ' छिद्रं निर्व्यथनं रोकम् ' ( १८२ ) इत्यमरः, त्रय आदित्यानां कृते पञ्चमे यूपे नियोज्याः । अथ षष्ठे यूपे नभोरूपा नीलवर्णास्त्रयः पार्जन्याः पर्जन्यदेवत्याः षष्ठे यूपे नियोज्याः । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु - ' हे मनुष्याः, ये कृष्णग्रीवाः कृष्णाकर्षिका ग्रीवा निगरणं येषां ते आग्नेयाः आदित्यानाम् , वसूनां, पृथिव्यादीनां ये शितभ्रवस्ते वसूनाम्, ये रोहितास्ते रुद्राणाम्, ये श्वेता अवरोकिणोऽवरोधिकास्त ये नभोरूपास्ते पार्जन्या बोध्या: ' इति, तदपि यत्किञ्चित् पृथिव्यादिभिस्तेषां सम्बन्धविशेषानिरूपणात् । यत्तु भावार्थे – ' मनुष्यैरग्नेराकर्षणक्रियाः पृथिव्यादीनां धारणक्रिया वायूनां प्ररोहणक्रिया विदित्वा कार्येषूपयोज्याः न चाग्ने - ' इति, तदतीव मन्दम्, कृष्णग्रीवेति पशूनां बोधकः शब्दः, अनेन अग्नेराकर्षणक्रिया कथं सिद्ध्यति? वचनानां राकर्षणक्रियया कृष्णग्रीवपशूनां सम्बन्धविशेषः सिद्ध्यति । न चैतद्वचनबलादेव तत्सिद्धिरिति वाच्यम्, ज्ञापकत्वेन कारकत्वायोगात् । तथैव शितपशूनां पृथिव्यादिभिरपि सम्बन्धविशेषोऽसिद्ध एव । अवरोक-शब्दस्य अवरोधार्थकतापि चिन्त्यैव, प्रमाणविरहात् ॥ ६ ॥

उ॒न्न॒त ऋ॒ष॒भो वा॑म॒नस्त ऐन्द्रावैष्ण॒वा उ॑न्न॒तः शितिबाहुः शितिपृष्ठस्त ऐन्द्राबा॑र्हस्प॒त्याः शुक॑रूपा वाज॒नाः क॒ल्माषा॑ आ॒ग्निमारु॒ताः श्यामाः पौष्णाः ॥ ७ ॥

मन्त्रार्थ -- ऊँचे आकार वाला हृष्ट - पुष्ट और नाटे शरीर वाला --- ये तोम पशु इन्द्र और विष्णु देवता पक्षी के हैं के । ऊँचा श्वेत वर्ण, श्वेत चरण वाला और श्वेत पीठ वाला ये तीन पशु इन्द्र और बृहस्पति देवता के हैं । शुक समान वर्ण वाले पशुओं का देवता वाजी है । चितकबरे वर्ण वाले पशुओं के देवता अग्नि और वायु हैं । शुक्ल कृष्ण वर्णं वाले पशुओं के देवता पूषा हैं ॥ ७ ॥

उन्नत उच्छ्रिताङ्गः, ऋषभ ऋषतीति ऋषभः परिपुष्टाङ्गः, वामनो वामयति मदमिति वामनः षष्ठे , बहुनि यूपे वयस्यतिक्रान्तेऽपि वृद्धिरहितः, अर्थाद् ह्रस्वकाय, त एते त्रय ऐन्द्रावैष्णवा इन्द्राविष्णुदेवत्याः नियोज्याः । उन्नत उच्छ्रितः शितिबाहुः श्वेतपूर्वपादः, शितिपृष्ठः श्वेतपृष्ठः, ते त्रय ऐन्द्राबार्हस्पत्या शुकसमान इन्द्रा- -बृहस्पतिदेवत्याः षष्ठे यूपे नियोज्याः । शुकरूपाः शुकः रूपं ( शुकस्य रूपमिव रूपम् ) येषां ते, वर्णास्त्रयः पशवो वाजिना वाजिदेवत्याः षष्ठे यूपे नियोज्याः । कल्माषाः कर्बुरास्त्रयः पशव आग्निमारुताः । षष्ठे यूपे नियोज्याः । एवं पञ्चदशपशवः । कल्माषशब्देन कृष्णाः पशवो गृह्यन्त इति सायणाचार्यः ' कल्माषः कर्बुरे कृष्णे ' इति मूर्धन्यान्तेषु रभसः । अथ सप्तमे यूपे श्यामाः कृष्णवर्णाः पौष्णाः पूषदेवत्यास्त्रयः पशवो नियोज्याः । अध्यात्मपक्षे पूर्ववद् व्याख्यानम् । दयानन्दस्तु – ' उन्नत ऋषभो वामनो वक्राङ्गः, ते ऐन्द्रावैष्णवाः, य उन्नतः शितिबाहुः शितिपृष्ठश्च सन्ति ते त्रय ऐन्द्रावैष्णवाः, उन्नतः शितिबाहुः शिती तनूकर्तारौ बाहू इव बलं यस्य सः शिति तनूकरणं पृष्ठं यस्य सः, त ऐन्द्राबार्हस्पत्याः, वाजिना वेगवन्तः, कल्माषाः श्वेतकृष्णवर्णाः । अन्यत् पूर्ववत् ' इति, तदपि यत्किञ्चित्, रुढेर्योगापहारकत्वात् । वाजिना वेगवन्त इत्यप्यसङ्गतम्, वाजिना इति देवतानिर्देशात्, सूत्रब्राह्मण-विरोधाच्च । तत्र हि पञ्चदशसंख्यापूर्तिरपि विवक्षिता ॥ ७ ॥