वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 161–170
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 161–170
पृष्ठ 161
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेदसंहिता १२८ वरु॒ण्यो॒ऽन्यत॑ ए॒न्यो मै॒त्र्य॑ः ॥ ८ ॥
-अध्यात्मपक्षे – पूर्ववद् व्याख्येयम् । | अ ० २४ II W दयानन्दस्तु - ' कृष्णग्रीवा: कृष्णकण्ठा आग्नेयाः, बभ्रवो नकुलवर्णाः सौम्याः श्वेता वायव्या अविज्ञाता अदित्यै अखण्डितायै जनित्वक्रियायै, ' अदितिर्जनित्वम् ' इति मन्त्रात्, सरूपा धात्रे धारकाय, अतिशयेन वत्सा वत्सतर्यो देवानां सूर्यादीनां पत्नीभ्यः पालिकाभ्यः क्रियाभ्यः ' इति, तदपि यत्किञ्चित्, सूर्यलोकपालनक्रियासु पत्नीपदप्रयोगस्य निर्मूलत्वात् ताभ्यश्च पशवः कथं प्रयोक्तव्या इत्यनुक्तेश्व ॥ ९ ॥
एतो ऐन्द्राग्ना द्विरूपा अ॑ग्नीषोमीय वाम॒ना अ॑न॒ड्वाहं आग्नावैष्ण॒वा वशा मैत्रा-मन्त्रार्थ - कबरे वर्णं वाले पशुओं के देवता इन्द्र और अग्नि हैं । दो वर्णं वाले पशुओं के देवता अग्नि और सोम हैं । नाटे बैलों के देवता अग्नि और विष्णु हैं । वन्ध्या अजाओं के देवता मित्र और वरुण हैं । एक तरफ चितकबरे वर्ण वाले अजा - पशुओं के देवता मित्र हैं ॥ ८ ॥
एताः कर्बुरवर्णास्त्रयः पशव ऐन्द्राग्ना इन्द्राग्निदेवत्याः सप्तमे यूपे नियोक्तव्याः । एता - एनी - शब्दौ कर्बुरवर्णबोधकौ, ' चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे ' ( अ ० को ० १।५।१७ ) इति कोषात् । द्विरूपा द्वे रूपे येषां ते, शुक्लकृष्णात्मकवर्णद्वयोपेतास्त्रयोऽग्नीषोमीया अग्नीषोमदेवत्या सप्तमे यूपे नियोक्तव्याः । वामना ह्रस्वाङ्गाः, अनड्वाहो भारोद्वहनदक्षबलीवर्दास्त्रय आग्नावैष्णवा अग्निविष्णुदेवत्याः सप्तमे यूपे नियोज्याः । वंशा वन्ध्यास्तिस्रोऽजा मैत्रावरुण्यो मित्रावरुणदेवत्याः सप्तमे यूपे नियोज्याः । अथाष्टमे यूपे -- अन्यत एन्य एकपार्श्वे कर्बुरवर्णास्तिस्रोऽजा मैत्र्यो मित्रदेवत्या अष्टमे यूपे नियोज्याः । अध्यात्मपक्षे – तास्ता देवतास्तत्तद्देवत्याः पशवश्च ब्रह्मविकारत्वाद् ब्रह्मरूपा एवेति पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' एताः पूर्वोक्ताः:... अन्यत एन्या अन्यतो यन्ति ताः ' इति, तदेतत्सर्वमविदितवैदिक-वृत्तान्तस्यैव शोभते, पूर्वोक्तानां ग्रहणे संख्यापूर्त्त्यसम्भवात् । अन्यतो यन्तीति व्युत्पत्तौ तादृशरूपसाधनस्य दुर्निरूपत्वाच्च ॥ ८ ॥
कृ॒ष्णग्रीवा आग्ने॒या ब॒भ्रवः॑ स॒म्याः श्वे॒ता वा॑य॒व्या अविज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो दे॒वानां॒ पत्नी॑भ्यः ॥ ९ ॥
मन्त्रार्थ- - कृष्ण ग्रीवा वाले पशुओं का देवता अग्नि है, कपिल वर्ण वाले पशुओं का सोम, श्वेत वर्ण वालों का वायु, चिह्न विशेष से अज्ञात पशुओं का देवता अदिति, समान रूप वालों का धाता और बाल अजाओं की देवता देवपत्नियाँ हैं ॥ ९ ॥
कृष्णग्रीवाः कण्ठे कालास्त्रयः पशव आग्नेया अग्निदेवत्या अष्टमे यूपे नियोक्तव्याः । बभ्रवः कपिलवर्णा-स्त्रयः पशवः सौम्याः सोमदेवत्या अष्टमे दुषे नियोक्तव्याः । श्वेताः श्वेतवर्णास्त्रयः पशवो वायव्या वायुदेवत्या अष्टमे यूपे नियोक्तव्याः । अविज्ञाता लक्षणतविविशेषेण वाऽज्ञायमानास्त्रयः पशवोऽदित्यै अदितिदेवतायै अष्टमे यूषे नियोक्तव्याः । अथ नवमे - सरूपाः समानं रूपं येषां ते सरूपा एकरूपास्त्रयः पशवो धात्रे धातृदेवतायै नवमे यूपे नियोक्तव्याः । वत्सतर्यस्तिस्रो देवपत्नीभ्यो नवमे यूपे नियोक्तव्याः ।
पृष्ठ 162
पाठ पढ़ें पाठ छिपाएँ
म ० १०-१२ ] वेदार्थपारिजातभाष्यसहिता १२ ९ कृष्णा भौमा धूम्रा अन्तरि॑क्षा बृहन्तो॑ दि॒व्याः श॒बल वैद्य॒ताः सि॒ध्मास्ता॑र॒काः ॥ १० ॥
मन्त्रार्थ - कृष्ण वर्णं वाले पशुओं की देवता भूमि है । धूम्र वर्ण वालों का अन्तरिक्ष, बड़े - बड़े पशुओं का स्वर्ग, चितकबरे वर्ण वालों का विद्युत् और सिध्म रोग वालों के देवता नक्षत्र हैं ॥ १० ॥
कृष्णाः कृष्णवर्णास्त्रयः पशवो भौमा भूमिदेवत्या नवमे यूपे नियोज्याः । धूम्रा धूम्रवर्णास्त्रयः पशव आन्तरिक्षा अन्तरिक्षदेवत्या नवमे यूपे नियोज्याः । बृहन्तः स्थूलकायास्त्रयः पशवो दिव्या द्युदेवत्या नवमे रूपे नियोज्याः । अथ दशमे शबलाः कर्बुरास्त्रयः पशवो वैद्युता विद्युद्देवत्या दशमे यूपे नियोक्तव्याः । सिध्माः सिध्मलाः सिध्मरोगवन्तस्त्रयः पशवस्तारका नक्षत्रदेवत्या दशमे यूपे नियोज्याः । अध्यात्मपक्षे - पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' यदि मनुष्याः कर्षणादिकार्यधारकान् पश्वादिपदार्थान् भूम्यादिषु संयोजयेयुस्तर्हि मङ्गल-माप्नुयुः ' इति, तदपि व्याख्यानस्वाच्छन्द्यमेव, मन्त्रेषु तादृशार्थबोधकपदाभावात् ॥ १० ॥
धूम्रान् व॑स॒न्तायाल॑भते श्वे॒तान् ग्रीष्माय॑ कृष्णान् व॒र्षाभ्यो॑रु॒णाञ्च॒रदे॒ पृष॑तो म॒न्ताय॑ पि॒शङ्गाञ्छशि॑िराय ॥ ११ ॥
मन्त्रार्थ धूम्रवर्ण के पशुओं को वसन्त के निमित्त नियुक्त किया गया है । श्वेत वर्ण बालों को ग्रीष्म के निमित्त, कृष्ण वर्ण वालों को वर्षा के निमित्त, रक्त वर्णं वालों को शरद् के निमित्त, अनेक प्रकार की बिन्दियों वाले पशुओं को हेमन्त के निमित्त और लाली मिले कपिल वर्ण वाले पशुओं को शिशिर के निमित्त नियुक्त किया गया है ॥ ११ ॥
धूम्रान् धूम्रवर्णान् त्रीनजान् वसन्ताय वसन्तर्त्वाभिमानिदेवाय आलभते आलम्भनं कुर्यात् । तान् दशमे यूपे नियुञ्ज्यात् । श्वेतान् श्वेतवर्णान् त्रीनजान् ग्रीष्माय ग्रीष्माभिमानिदेवतायै, आलभत इत्यनुषङ्गः । एतान् दशमे नियुञ्ज्यात् । कृष्णान् कृष्णवर्णान् त्रीन् पशून् वर्षाभ्यो वर्षाभिमानिदेवतायै नियुञ्ज्यात् । तान् दशमे यूपे नियुञ्ज्यात् । अथैकादशे यूपेऽरुणानऽरुणवर्णान् त्रीन् पशून् शरदे शरदधिष्ठातृदेवतायै एकादशे यूपे नियुञ्ज्यात् । पृषतो नानावर्णबिन्दुयुक्तान् त्रीन् पशून् हेमन्ताय हेमन्तर्त्वाभिमानिदेवतायै एकादशे बध्नीयात् । पिशङ्गान् लोहित मिश्रकपिलवर्णान् त्रीन् पशून् शिशिराय शिशिरर्त्वाभिमानिदेवतायै एकादशे बध्नीत । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु – ' यो मनुष्यो वसन्ताय वसन्तर्ती सुखाय धूम्रान् धूम्रवर्णान् पदार्थान् ग्रीष्माय श्वेतान् वर्षाभ्यः कृष्णान् शरदेऽरुणान् हेमन्ताय पृषतः शिशिराय पिशङ्गानालभते प्राप्नोति स सततं सुखी भवति ' इति, तदपि यत्किञ्चित् पशुप्रसङ्गे पदार्थोपादानस्य निर्मूलत्वात् रागप्राप्तस्य विधानायोगात्, ग्रीष्मादिष्विष्ट-धूम्रादिवर्णपदार्थ प्राप्तावपि सुखानुपलम्भाच्च ॥ ११ ॥
त्र्य॑त्रयो गाय॒त्र्यै पञ्चवस्त्रि॒िष्टुर्भे दित्य॒वाहो जग॑त्यै त्रव॒त्सा अ॑नु॒ष्टुर्भे तु॒र्य॒वाह॑ उष्ण ॥ १२ ॥
मन्त्रार्थ - डेढ़ वर्ष वाले पशुओं को गायत्री के निमित्त, ढाई वर्ष वालों को त्रिष्टुप् छन्द के अभिमानी देवता के निमित्त, दो वर्ष वालों को जगतो छन्द के अभिमानी देवता के निमित्त तीन वर्ष वालों को अनुष्टुप् छन्द के अभिमानी देवता और तीन वर्षं वाले पशुओं को उष्णिक् छन्द के अभिमानी देवता के निमित्त नियुक्त किया गया है || १२ || १७
पृष्ठ 163
पाठ पढ़ें पाठ छिपाएँ
१३० शुक्लयजुर्वेदसंहिता [ अ ० २४ त्र्यवयः सार्धंसंवत्सरास्त्रयः पशवो गायत्र्यै तदभिमानिदेवताये एकादशे ग्रुपे नियोक्तव्याः । अवीनां षड्भिर्मासैर्गर्भविमोचनादविशब्देन षण्मासात्मकः कालो लक्ष्यते । त्र्यविश्व सार्धसंवत्सरात्मकः काल इति । पञ्चावयः सार्धद्विसंवत्सरास्त्रयः पशवस्त्रिष्टुभे त्रिष्टुबभिमानिदेवतायै तद्देवतोद्देश्येन एकादशे यूपे नियोज्याः । अथ द्वादशे - दित्यवाहो द्विसंवत्सर वयस्कास्त्रयः पशवो जगत्यै जगत्यधिष्ठात्रे देवाय द्वादशे यूपे नियोज्याः । अथवा दित्यै खण्डनार्थं वहन्तीति दित्यवाहः, ईदृगंवस्थास्त्रयः पशवः, त्रिवत्सास्त्रिवर्षास्त्रयः पशवोऽनुष्टुभेऽनुष्टुप्-छन्दोधिष्ठातृदेवतायै द्वादशे यूपे नियोक्तव्याः । तुर्यवाहः सार्धत्रिवत्सा इति महीधरः, चतुर्बत्सरा इति सायणः, उष्ण उष्णिक छन्दोऽधिष्ठातृदेवतायै द्वादशे यूपे बन्धनीयाः । मन्त्रद्वयस्य आध्यात्मिकोऽर्थः, दयानन्दीयार्थालोचना च सार्धमेव निरूपयिष्यते ॥ १२ ॥
पृ॒ष्ठवाहो॑ वि॒राज॑ उ॒क्षाणो॑ बृह॒त्या ऋषभाः ककुभेऽन॒ड्वाहः प॒ङ्क्त्ये धेनवो -तिच्छन्दसे ॥ १३ ॥
मन्त्रार्थ - चार वर्ष के पशुओं को विराट् छन्द के अभिमानी देवता के निमित्त सेचन समर्थ तीन पशुओं ( उक्षा ) को बृहती छन्द के अभिमानी देवता के निमित्त, उक्षा ( वृषभ ) से अधिक अवस्था वाले तीन पशुओं को ककुप् छन्द के अभिमानी देवता के निमित्त, शकट वहन में समर्थ पशुओं को पंक्ति छन्द के अभिमानी देवता के निमित्त और नवप्रसूता धेनुओं को अतिच्छन्द के अभिमानी देवता के निमित्त नियुक्त किया गया है || १३ | पष्ठवाहश्चतुःसंवत्सरवयस्कास्त्रयः पशवो विराट्छन्दोऽधिष्ठातृदेवतायें द्वादशे यूपे बन्धनीयाः । पष्ठवाहः पृष्ठभागेन वोढुं शक्ताः पञ्चवर्षास्त्रयः पशव इति सायणः । उक्षाणः सेचनसमर्था बृहत्यै बृहतीच्छन्दोऽधिष्ठातृ-देवतायै द्वादशे यूपे नियोक्तव्याः । अथ त्रयोदशे यूपे - ऋषभा उक्ष्णोऽप्यधिकवयस्कास्त्रयः पशवः, अन्न-कर्षणव्यापारास्त्रयः पशव इति सायणः ककुभे ककुप् छन्दोऽधिष्ठातृदेवतायै त्रयोदशे यूपे बन्धनीयाः । अनड्वाहः शकटवहनसमर्था अजास्त्रयः पङ्क्त्यै पङ्क्तिच्छन्दोदेवतायै त्रयोदशे यूपे बन्धनीयाः । धेनवो नवप्रसूता अजा-स्तिस्रः गावस्तिस्र इति सायणः, अतिच्छन्दसे शक्वर्यादिकमतिच्छन्दः, तदभिमानिदेवतायै इति सायणः, त एते त्रयोदशे यूपे बन्धनीयाः । एतावता श्रुतिगणेन ' यत्पञ्चदशिन आलभते अर्धमासानेव तैर्यजमानोऽवरुन्धे ' ( श ० १३ । २ ॥ १ ) इति ब्राह्मणप्रतिपादिताः पञ्चदशिनः पशवो गताः । अध्यात्मपक्षे -- मन्त्रोक्ताः पशवः तैर्यष्टव्या देवताश्च ब्रह्मात्मविकारत्वाद् ब्रह्मरूपा एव । दयानन्दस्तु यथा विद्वांसोऽधीतैर्गायत्र्यादिच्छन्दोऽर्थैः सुखानि वर्धयन्ते तथा पशुपालका घृतानि वर्धयेयुः ' इति, तदपि यत्किञ्चित्, ' त्र्यवयः ' इत्यादिशब्दानां तिस्रोऽवयो मेष्यः, त्रयोऽवयो मेषा वा भवेयुर्येषां तेषां गायत्र्यादिछन्दोविशेषैः सम्बन्धस्य साधयितुमशक्यत्वात् । मन्त्राश्चेमे वयोहोमे विनियुक्ता । वयोबोधक-मन्त्रैर्होमो वयोहोमः, ' वयांसि जुहोति । पशवो वै वया सि पशुभिरेवैनमेतदन्नेन प्रीणात्यथो पशुभिरेवैनमेतदन्ने-नाभिषिञ्चति ' ( श ० ९ | ३ | ३ | ७ ) इति श्रुते । अत एव अविः षण्मासात्मकः कालः, त्रयोऽवयो यस्य स त्र्यविः सार्धसंवत्सर वयस्कः पशुरेवात्र ग्राह्यः । वयश्च पश्वादिविशेषणतयैव प्रतीयते । एवमेव पञ्चाव्यादीनामपि त्रिष्टुबादिभिः सम्बन्धविशेषोऽनिरूपणीय एव । तथैव - - ' यैर्मनुष्यैविराजे पष्ठवाहो बृहत्या उक्षाणः ककुभे पङ्क्त्या अनड्वाहोऽतिच्छन्दसे धेनवः स्वीक्रियन्ते, तेऽतिसुखं लभन्ते ' इत्यपि मूर्खजनप्रतारणमेव, बह्वध्याहारेऽ-प्यर्थास्पष्टत्वात् । त्वद्रीत्या पष्ठवाहादिभिविराडादीनां सम्बन्धविशेषासिद्धेः । ' यथा विद्वांसो विराडादिछन्दोभ्यो
पृष्ठ 164
पाठ पढ़ें पाठ छिपाएँ
म ० १३-१५ ] वेदार्थपारिजातभाष्यसहिता १३१ बहूनि विद्याकार्याणि साध्नुवन्ति, तथोष्ट्रादिपशुभ्यो गृहस्था अखिलानि कार्याणि साध्नुयुः ' इति भावार्थोऽप्यसङ्गत विवक्षितत्वे एव, तथार्थबोधकशब्दानां मूलेऽभावात् । यथा - तथा - शब्दावपि मूले न स्तः । पशूनामुपयोगनिर्देशस्य पश्वन्तराणामपि निर्देशापत्त्युदयात् ॥ १३ ॥
कष्णप्री॑वा आग्ने॒या ब॒भ्रवः सोम्या उ॑पध्वस्ताः सा॑वि॒त्रा व॑त्सत॒र्यः सारस्वत्यः श्यामाः प॒ष्णः प॒श्न॑यो॒ मारु॒ता ब॑हु॒रूपा वैश्वदे॒वा व॒शा द्यावापृथि॒वीर्याः ॥ १४ ॥
मन्त्रार्थ - कृष्णग्रीव पशुओं का देवता अग्नि है । कपिल वर्णं वालों का सोम, अध: पतनशील वर्णान्तर रूप वालों मिश्रित के पशुओं का सविता बछड़ों की सरस्वती, शुक्ल कृष्ण वर्ण वालों का पूषा, विचित्र वर्णं वालों का मरुत्, अनेक विश्वेदेव और वन्ध्या पशुओं के देवता पृथ्वी और स्वर्ग हैं ॥ १४ ॥
अथ ' चातुर्मास्यान् पशूनालभते ' ( श ० १३ | २ | ५ | २ ) इति श्रुतिविहिताचातुर्मास्यदेवत्याः पशव पशव आग्नेया उच्यन्ते, कृष्णग्रीवा इत्यारभ्य श्वेता सौर्या इत्यन्ता । तत्र प्रथमं वैश्वदेवपर्वपशवः कृष्णग्रीवास्त्रयः । अग्निदेवत्याः कार्याः । बभ्रवः कपिलवर्णास्त्रयः सौम्याः सोमदेवत्याः कार्याः । एते च त्रयोदशे यूपे बन्धनीयाः वा त्रयः अथ चतुर्दशे यूपे - उपध्वस्ता उपध्वंसनगुणविशिष्टाः, उपध्वंसनमधः पतनम्, वर्णान्तरमिश्रिता पशवः सावित्राः सवितृदेवत्याश्चतुर्दशे यूपे बन्धनीयाः । वत्सतर्यस्तिस्रः सारस्वत्यः सरस्वतीदेवत्याश्चतुर्दशे यूपे बन्धनीयाः । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवत्यास्त्रय पशवश्चतुर्दशे यूपे बन्धनीयाः, पृश्नयो स्काया विचित्र वा त्रयः पशवो मारुता मरुद्देवत्याश्चतुर्दशे यूपे नियोजनीयाः । बहुरूपा अनेकरूपाः वैश्वदेवा विश्वदेवदेवत्यास्त्रयः पशवश्चतुर्दशे यूपे बन्धनीयाः । अथ पञ्चदशे यूपे - वशा वन्ध्यास्तिस्रो द्यावा-पृथिवीया द्यावापृथिवीदेवत्या पञ्चदशे यूपे बन्धनीयाः । इति वैश्वदेवपशवः । अध्यात्मपक्षे पूर्ववद् व्याख्यानम् । य उपध्वस्तास्ते दयानन्दस्तु – ' हे मनुष्याः, युष्माभिर्ये कृष्णग्रीवास्ते आग्नेयाः, ये बभ्रवस्ते सौम्याः ये वशास्ते सावित्राः, या वत्सतर्यस्ताः सारस्वता, ये श्यामास्ते पौष्णाः, ये पृश्नयस्ते मारुताः, बहुरूपा वैश्वदेवाः, द्यावापृथिवीया विज्ञातव्याः ' इति, तदपि यत्किञ्चित् पशूनां दैवतविधाने तात्पर्याभावात् । सूत्रानुसारेण कार्याणि तत्तद्यूपे तत्तदेवत्यपशूनां नियोजनस्य विधानम् । ' यथा शिल्पिनोऽग्न्यादिभ्यः पदार्थेभ्योऽनेकानि बोधक शब्दानां साध्नुवन्ति तथा कृषीवलाः पशुभिर्बहूनि कार्याणि साध्नुयु ' इति भावार्थस्तु तादृशाभिप्राय । अन्वये हि पशूनां मूलेऽभावात् शशशृङ्गायित एव । अन्वयोक्तार्थविरोधश्वापरो गण्डस्योपरि स्फोटः तत्तद्देवतासम्बन्धज्ञानं विधीयते, भावार्थस्तु तं विरुणद्धि । ततः कुतस्त्या भावार्थता ॥ १४ ॥
उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्राग्नाः कृष्णा वा॑रु॒णाः पृश्न॑यो मारु॒ताः कायास्त॑प॒राः ॥ १५ ॥
E मन्त्रार्थ - कृष्णग्रीव आदि पन्द्रह पशुओं की ऊपर चर्चा हुई है । कर्बुर वर्ण वाले पशुओं के देवता इन्द्राग्नी हैं । १५ ॥ कृष्ण वर्ण वालों का वरुण और दुर्बल शरीर वालों का मरुत् देवता है । शृंगहीन पशुओं का देवता प्रजापति है ॥ अथ वरुणप्रघासाख्ये द्वितीयपर्वणि या देवतास्तद्देवत्यान् पशूनाह - उक्ता इति । अग्नि- सोम - सवितृ-सरस्वती - पूपात्मकं देवतापञ्चकं चातुर्मास्येषु चतुर्ष्वपि पर्वसु सञ्चरति, अनुवर्तत इति यावत् । ततश्च सञ्चरशब्देन कृष्णग्रीवा आग्नेया इत्यादयः पूर्वकण्डिकोक्ताः पञ्चदश पशव उच्यन्ते, पञ्च सचराणि हवींषि भवन्तीतिवत् ।
पृष्ठ 165
पाठ पढ़ें पाठ छिपाएँ
१३२ शुक्लयजुर्वेदसंहिता [ अ ० २४ यथा चातुर्मास्येषु चतुर्ष्वपि पर्वस्वाग्नेयादीनि पञ्च हवींषि समानानि, एवमत्रापि चतुर्णां पर्वणां सम्बन्धिना -माद्यानां पञ्चानां देवानामाद्या एते पञ्चदश पशवः समाना एव भवन्ति । तेनैते सञ्चरा उक्ताः । उक्ताः सञ्चराः, आग्नेयादय. पञ्चदश पशव उक्ता इत्यर्थः । आग्नेयाः कृष्णग्रीवास्त्रयः पञ्चदशे, बभ्रवस्त्रयः पञ्चदशे, सावित्रा उपध्वस्तास्त्रयः पञ्चदशे सारस्वत्यो वत्सतर्यस्तिस्रः पञ्चदशे । अथ षोडशे - पौष्णाः श्यामास्त्रयः षोडशे ते सचरा उक्ताः । एताः कर्बुरा ऐन्द्राग्ना इन्द्राग्निदेवत्यास्त्रयः पशवः षोडशे, कृष्णाः कृष्णवर्णा वारुणा वरुणदेवत्या -स्त्रय पशवः षोडशे पृश्नयो ह्रस्वशरीरास्त्रयो मारुता मरुद्देवत्याः षोडशे, तूपराः शृङ्गविहीनाः कायाः, कः प्रजापतिः, तद्दैवत्यास्त्रयः पशवः षोडशे यूपे नियोक्तव्याः । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु B - ' हे मनुष्याः, एता उक्ताः सञ्चरा ऐन्द्राग्नाः कृष्णा वारुणाः पृश्नयो मारुतास्तु परा हिंसकाः कायाः सन्तीति बोध्यम् ' इति, भावार्थे तु - ' ये नानादेशसञ्चारिणः प्राणिनः सन्ति, तैर्मनुष्या यथायोग्यानुपकारान् गृह्णीयुः ' इति, तदपि निःसारम् मूले तेषामुपकारग्रहणविधानानुपलम्भात् । किञ्च रागवशादेव तेभ्यस्तेभ्य उपकारग्रहणसिद्धेस्तथाविधानकल्पनस्य नैरर्थक्याच्च । न च प्राणिनः पूर्वदेशविदेशसञ्चारिणो विहिताः, सञ्चरशब्दस्य तथार्थत्वे मानाभावात् ॥ १५ ॥
अ॒ग्नयेऽर्नीकवते प्रथम॒जानाल॑भते म॒रुद्भ्य॑ः सान्तप॒नेभ्यः॒ सव॒त्यान् म॒रुद्भ्यो॑ गृ॒हमे॒धिभ्यो॒ बकिहान् म॒रुद्भय॑ क्रडिभ्य॑ सध॒स॒ष्टान् म॒रुद्भ्य॒ः स्वत॑वद्भघोऽनु॒स॒ष्टान् ॥ १६ ॥
मन्त्रार्थ- - माता के प्रथम गर्भ से उत्पन्न पशुओं को हविर्ग्रहण करने योग्य ख मवाले अग्नि के निमित्त नियुक्त किया गया है । वायुमण्डल में स्थित तीन अजों को सान्तपन मरुद्गणों के निमित्त, चिरकाल से उत्पन्न हुए पशुओं को गृहमेधी मतों के निमित्त, एक साथ उत्पन्न हुए पशुओं को क्रीड़ा में तत्पर मरुतों के निमित्त और अनुक्रम से उत्पन्न पशुओं को स्वतवान् मरुद्गणों के निमित्त नियुक्त किया गया है ॥ १६ ॥
अथ सा मेघे पर्वानुष्ठानात् पूर्वदिवसे प्राण्यङ्गतयाऽनुष्ठेयानामिष्टीनामग्निरनीकवान् मरुतः सान्तपना इत्याद्या या देव्यस्तद्देवत्यान् पशूनाह - अग्नय इति । अथ साकमेधपशवः सप्तदशे यूपे नियोक्तव्याः । प्रथमजान् मातुः प्रथमगर्भे जातान् त्रीनजान् अनीकवते स्वसैन्ययुक्तायाग्नये आलभते सप्तदशे यूपे नियुनक्ति । सान्तपनेभ्यः सन्तपनो मध्यन्दिनगतः सूर्यः, तत्सम्बन्धिनः सान्तपनास्तेभ्यो मरुद्भयः सवात्यान् वातानां समूहो वात्या ' पाशादिभ्यो यः ' ( पा ० सू ० ४। २ ४ ९ ) इति यः प्रत्ययः, तया सह वर्तन्त इति सवात्या वातमण्डलीमध्यस्थाः, तान् त्रीनजान् सप्तदशे यूपे नियुनक्ति । समानगर्भोत्पन्नानिति सायणः । गृहमेधिभ्यो गृहैर्दारैर्मेधन्ते सङ्गछत इति गृहमेधिनस्तेभ्यः, ' सुप्यजातौ णिनिस्ताच्छील्ये ' ( पा ० सू ० ३१२२७८ ) इति णिनिः, मरुद्वयो बहान चिरप्रसूतान् त्रीन् पशून् आलभते सप्तदशे यूपे नियुनक्ति । क्रीडिभ्यः क्रीडाविशिष्टेभ्यो संसृष्टान् सहोत्पन्नान् त्रीन् पशून् सप्तदशे यूपे नियुनक्ति । अनुसृष्टान् अनुक्रमेण जातान् त्रीन् पशून् स्वतवद्भयः स्वावयवकृतवलेभ्यो मरुद्भयः सप्तदशे यूपे नियुनक्ति । अध्यात्मपक्षे – पूर्ववद् व्याख्यानम् । ---दयानन्दस्तु - ' अनीकवते प्रशंसितसेनायाग्नये ऽग्निवद् वर्तमानाय सेनापतये प्रथमजान् प्रथमाद् विस्तीर्गात् कारणाज्जातानालभते । सान्तपनेभ्यो मरुद्भयः सवात्यान्, गृहमेधिभ्यो मरुद्रघो बल्कि हान्, मरुद्रयः क्रीडिभ्यः संसृष्टान् स्वतव यो स्वतो वासो येषां तेभ्योऽनुसृष्टाननुषङ्गिण आलभते प्राप्नोति, तथैव यूयमेतान्
पृष्ठ 166
पाठ पढ़ें पाठ छिपाएँ
म ० १६-१८ ] वेदार्थं पारिजातभाष्यसहिता १३३ आलभध्वम् ' इति, तदपि यत्किञ्चित्, आङ्पूर्वस्य लभतेः प्राप्त्यर्थत्वे मानाभावात् । अन्यच्च अन्यार्थ चिन्त्यः प्राप्ते-, रपुरुषार्थत्वात् । यथा विद्वद्भिर्विद्यार्थिनः पशवश्च पाल्यन्ते तथैवेतरैर्मनुष्यैः पालनीया इति भावार्थोऽपि तथा भावार्थबोधकसामग्र्या मूलेऽभावात् ॥ १६ ॥
उ॒क्ताः स॑ञ्च॒रा एत ऐन्द्रा॒ग्नाः प्रशृङ्गा मोहेन्द्रा बेहुरूपा वैश्वकर्मणाः ॥ १७ ॥
मन्त्रार्थ -- कृष्णग्रीव आदि पन्द्रह पशुओं की चर्चा ऊपर हुई है । इनमें कर्बुर वर्ण वाले पशुओं के देवता इन्द्राग्नी हैं । सुन्दर सींग वालों के महेन्द्र और बहुत रूप वाले पशुओं के देवता विश्वकर्मा हैं ॥ १७ ॥
अथ साकमेधपर्वणि प्रधानभूता या महेन्द्रष्टिः, तस्या या देवतास्तद्देवत्यान् पशूनाह, महाहविः-, पशूनिति यावत् । ते च पञ्चसु संघेषु उक्ताः । तद्यथा - कृष्णग्रीवास्त्रयः बभ्रवस्त्रयः, उपध्वस्तास्त्रयः वत्सतर्यस्तिस्रः, श्यामास्त्रय इति पञ्चदश पशवः । ते चाष्टादशे यूपे बन्धनीया । तदेतत् समाहृत्योक्तम्- यूपे उक्ताः सञ्चरा इति । अथैकोनविंशे यूपे -- एताः कर्बुरास्त्रय ऐन्द्राग्ना इन्द्राग्निदेवत्या एकोनविंशे इति बन्धनीयाः । प्राशृङ्गाः प्रकृष्टः शृङ्गो येषां ते प्राशृङ्गाः, ' अन्येषामपि दृश्यते ' ( । पा ० बहुरूपा सू ० ६।३।३७ नानारूपास्त्रयो ) दीर्घः, प्रकृष्टश्टङ्गयुक्ताः, माहेन्द्रा महेन्द्रदेवत्यास्त्रय एकोनविंशे यूपे बन्धनीया
वैश्वकर्मणा विश्वकर्मदेवत्या एकोनविंशे यूपे नियोज्याः ।
अत्र द्वयोः कण्डिकयोः सहैव व्याख्यानम् ॥ १७ ॥
६ धूम्रा बभ्रुतीकाशाः पितॄणाधि॒ सोम॑वता॑ ब॒भ्रवो॑ धूम्रनीकाशाः पितॄणां बर्हिषदां कृष्णा बनकाशाः पितॄणामग्निष्वात्तानां कृष्णाः पृ॑षन्तस्त्रेयम्बकाः ॥ १८ ॥
६ मन्त्रार्थ - काले और लाल वर्ण के मिलने से बने कपिल वर्ण के पशु सोमवत् पितरों के निमित्त नियोज्य हैं । कपिल और धूम्रवर्णं के मिलने से बने वर्ण वाले पशु बर्हिषद् पितरों की प्रीति के निमित्त, कृष्ण वर्ण और कपिल वर्ण के भेल से बने वर्णं वाले पशु अग्निष्वात्त पितरों की प्रीति के निमित्त और बिन्दुयुक्त पशु त्र्यम्बक देवता के निमित्त नियुक्त हैं ॥ १८ ॥
माहेन्द्रा दूध्वं याः साकमेधा ङ्गभूतपित्रादिदेवताः, तद्देवत्यान् पशूनाह-- धूम्रा इति । धूम्राः कृष्णवर्णमिश्रा लोहितवर्णाः, बभ्रुनीकाशाः कपिलवर्णसदृशास्त्रयः पशवः सोमवतां पितॄणां कृते नियोजनीया एकोनविशे यूपे नियोजनीयाः । बभ्रवः कपिलवर्णा धूम्रनीकाशा धूम्रसदृशवर्णास्त्रयः पशवो बर्हिषदां पितॄणां कृते एकोर्नावशे यूपे नियोजनीयाः । अथ विशे यूपे – कृष्णाः कृष्णवर्णा बभ्रुनीकाशा कपिलवर्णसदृशास्त्रयः पशवोऽग्निष्वात्तानां पितॄणां कृते विशे यूपे नियोजनीया इति । पितृयज्ञानन्तरम् - प्रतिपुरुषमेककापालान्निर्वपति ' ( तै ० ब्रा ० २।६।१०।१ ) इति यजमान संख्याकाः पुरोडाशा विहिताः । अत्र तत्स्थाने कृष्णाः कृष्णवर्णाः पृषन्तो बिन्दुयुक्ता-स्त्रयः पशवस्त्रैयम्बकास्त्र्यम्बकदेवत्या विशे यूपे नियोजनीयाः । अध्यात्मपक्षे - उभयोरपि कण्डिकयोः पूर्ववद् व्याख्यानम् । दयानन्दस्तु –'उक्ताः सञ्चराः । हे मनुष्याः, य एता ऐन्द्राग्नाः प्राशृङ्गा माहेन्द्रा बहुरूपा वैश्वकर्मणाः संचरा सञ्चरा उक्तास्तेषु गन्तव्यम् ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात् । तथाहि - सञ्चरन्ति येषु ते पूर्वोक्ता मार्गा इत्युक्तम् । न चैता ऐन्द्राग्ना अन्ये वा मार्गाः, तेषामिन्द्राग्निदेवत्य पशुत्वात् । न चैता इति पदेन
पृष्ठ 167
पाठ पढ़ें पाठ छिपाएँ
१३४ शुक्लयजुर्वेदसंहिता | अ ० २४ गृह्यन्ते, तेषां स्वतवन्मरुद्देवत्यत्वात् । न च पूर्वोक्ताः पुमांसः पशव ' एता: ' इति निर्देशार्हाः, ' एते ' इति निर्देशार्हत्वात् । ये । ' धूम्राशा हे मनुष्याः, सोमवतां पितॄणां बभ्रुनीकाशा धूम्रा कृष्णाः पृषन्तस्त्र्यम्बकाश्च सन्तीति कर्तव्यः ' विज्ञेयाः इति तत्सर्व-जनका विद्याजन्मप्रदातारश्च सन्ति तेषां घृतादिभिर्गर्वादिदानैश्च यथायोग्यं सत्कारः मुच्छृङ्खलमेव, पदपदार्थासम्बद्धत्वात् ॥ १८ ॥
उक्ताः सञ्चरा एतो नासीरयोः श्वेता वायव्याः श्वेताः सौर्याः ॥ १ ९ ॥ मन्त्रार्थ - आग्नेय आदि पन्द्रह पशु ऊपर कहे गये हैं । इनमें चितकबरे वर्ण के पशुओं के देवता इन्द्र हैं 1 श्वेतों के वायु और सूर्य देवता हैं । इस प्रकार अश्व से लेकर सौर्य पर्यन्त ग्राम्य पशुओं को इक्कीस यूपों में देवताओं की प्रीति के लिये बाँधे ॥ १ ९ ॥ अथ शुनासीरीयपशवः --- चतुर्दश्यां कण्डिकायामुक्ताः कृष्णग्रीवा आग्नेया इत्यादयः सौम्यास्त्रय पञ्चदेवत्याः पशवो पञ्चदश विशे, पशवोऽत्रापि वेदितव्याः । तेन कृष्णग्रीवा आग्नेयास्त्रयः पशवो विशे, बभ्रवः उपध्वस्तास्त्रयः पशवो विशे यूपे नियोक्तव्याः । अथैकविंशे यूपे - तिस्रो वत्सतर्कः सारस्वत्य एकविंशेयूपे इत्यव्ययं बन्धनीयाः । त्रयः श्यामाः पौष्णा एकविंशे यूपे बन्धनीयाः । एताः कर्बुरास्त्रयः पशव शुनासीरीयाः अग्रेसरा , ' शु यस्य स पूजार्थकम्, शु शोभनं नासीरं सेनामुखं यस्य स शुनासीर इन्द्रः । यद्वा शु शोभना नासीरा कः । शुनासीर । अथवा शुनति क्षिप्रं गच्छत्यन्तरिक्षमिति शुनो वायुः, ' शुन गतौ तौदादिक ' इगुपधलक्षण , ' देवता-सरति सदा सततं गच्छतीति सीरः सूर्य । औगादिक ईरन् टिलोपश्च । शुनश्च सीरव शब्दो शुनासीरौ दन्त्यद्वयस्तालव्य-द्वन्द्वे च ' ( पा ० सू ० ६।३।२६ ) इत्यानङ, शुनासीरौ स्तोऽस्येति शुनासीर इन्द्रः । अयं । श्वेताः श्वेतवर्णाश्च त्रयः द्वयश्च । शुनासीरस्येमे शुनासीरीयाः । शुनासीरदेवत्या एकविंशे यूपे बन्धनीयाः सौर्याः सूर्यदेवत्या एकविंशे पशवो वायव्या वायुदेवत्या एकविंशे यूपे नियोक्तव्याः । श्वेताः एवेतवर्णाश्च त्रयः पशवः यूपे नियोक्तव्याः । एवमग्निष्ठे यूपे सप्तदश, इतरेषु दशसु यूपेषु प्रतियूपं षोडश षोडश, इतरेषु ग्राम्याः दशसु पशवः यूपेषु प्रतियूपं पञ्चदश पञ्चदश १७ + १६० + १५० - ३२७ इति गणनया सप्तविंशत्यधिकशतत्रयं सर्वे उक्ताः । अध्यात्मपक्षे - सर्वे चैते पशवस्तैर्यद्रव्याश्च देवता ब्रह्मविकारत्वाद् ब्रह्मात्मका इति ज्ञातव्यम् । दयानन्दस्तु – हे ' मनुष्याः, यूयं य एताः शुनासीरीयाः सञ्चरा वायव्याः श्वेता सौर्याः श्वेताश्वोक्ता- । यदपि स्तान् कार्येषु सम्प्रयुङ्क्ष्वम् ' इति, तदपि शब्दशास्त्रे स्वैरित्वमेव, निर्मूलत्वात्, श्रुतिसूत्रादिविरोधात् ' शुनासीरशब्देन कृषिसाधका देवता: ' इति, तदप्यसङ्गतम्, वैश्वदेव- वरुणप्रघास - साममेध ( महाहविः ) -शुनासीरीय-पर्वानभिज्ञानविजृम्भितत्वात् ॥ १ ९ ॥ व॒स॒न्ताय॑ क॒पिञ्च॑ल॒नाल॑भते ग्रीष्मायं कलविङ्कान् वर्षाभ्य॑स्त॒त्तिरी॑छ॒रवो॒ वर्तिका हेम॒न्ताय॒ कर्कराञ्छशि॑िराय॒ विकेकरान् ॥ २० ॥
मन्त्रार्थ- - अब आरण्य पशुओं का विधान करते हैं । इनको इक्कीस यूपों के मध्य के जो बीस अन्तराल हैं, में बाँधा जाता है । तीन कपिंजलों को वसन्त ऋतु के अभिमानी देवता के निमित्त, तीन चटकों को ग्रीष्म ऋतु के अभिमानी देवता के निमित्त, तीन तीतरों को वर्षा ऋतु के अभिमानी, तीन वर्तकों को ग्रीष्म ऋतु के अभिमानी, तीन ककरों को हेमन्त ऋतु के अभिमानी और तीन विककरों को शिशिर ऋतु के अभिमानी देवता के निमित्त नियुक्त किया जाता है ॥ २० ॥
पृष्ठ 168
पाठ पढ़ें पाठ छिपाएँ
म ० २०-२१ ] वेदार्थपारिजातभाष्यसहिता १३५ अध्याय समाप्ति यावदारण्याः ' वसन्ताय कपिञ्जलानालभते ' इत्यारभ्य ' विश्वेषां देवानां पृषतः । तत्रान्तरालोत्पत्तिक्रमेण इत्यन्ता कपिञ्जलादय-पशवः प्रोच्यन्ते । अत्र एकविंशतिर्यूपाः । तेषां विंशतिरन्तरालभूमयः बन्धनोपाय उक्तो मानवश्रोत्रसूत्रे -स्त्रयोदश त्रयोदश पशव आलम्भनीयाः । अत्र यूपान्तरालभूमिष्वारण्यपशूनां कुम्भेषु मकरमत्स्यमण्डूकान् जालेषु पक्षिणः ' नाडीषु प्लुषिमशकान् करण्डेषु सर्पान् पञ्जरेषु मृगव्याघ्रसिंहान् पशवो येनोपायेन यूपान्तरालेषु तिष्ठन्ति ते तेनोपायेन कारासु हस्तिनो नौषु चौदकानि यथार्थमितरान् ' इति ये न ज्ञायन्ते तानि निगमनिरुक्तनिघण्टु-स्थापनीया इति तात्पर्यम् । अत्र येषामारण्यजीववाचिपदानामर्था लक्षणीया इति विलोक्यावगन्तव्यानि । केचिज्जीवा आटविकेभ्यश्च व्याकरणोणादिवृत्त्यभिधानग्रन्थेभ्यो महीधराचार्यः । वसन्ताय वसन्तर्त्वाभिमानि-तत्र प्रथमोत्पन्ने यूपान्तराले कपिञ्जलान् त्रीन् पक्षिविशेषान् ग्रीष्माय तदधिष्ठातृदेवाय पशून् नियुनक्ति । तित्तिरीन् देवाय आलभते नियुनक्ति । कलविङ्कान् त्रीन् पशून् चटकान् उपाकुर्यात् । वर्तिकाः ( पक्षिविशेषान् त्रीन् कररकान् त्रीन् पक्षिविशेषान् पशून् वर्षाभ्यो वर्षत्वभिमानिदेवतायै उपाकुर्यात् । हेमन्ताय हेमन्तर्त्वाभिमानिदेवतायै पशून्, ' वटेर ' इति भाषा ) तिस्रः शरदे शरहत्वभिमानिदेवतायै । तत्रैकं प्रथमेऽन्तराले द्वौ पशू द्वितीयेऽन्तराल इति ककरान् ककराख्यपक्षिविशेषान् त्रीन् पशून् उपाकुर्यात् विककराख्यपक्षिविशेषान् त्रीन् पशून् उपाकुर्याद् विवेकः । शिशिराय शिशिरर्श्वभिमानिदेवाय विककरान् द्वितीयेऽन्तराल एव । --अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । ग्रीष्माय कलविङ्कान् वर्षाभ्य-दयानन्दस्तु - - ' हे मनुष्याः पक्षिविज्जनो वसन्ताय विककरानालभते यान् कपिञ्जलान् तान् यूयं जानीत ' इति, तदपि स्तित्तिरीन् शरदे वर्तिका हेमन्ताय ककरान् शिशिराय विज्ञानं परार्थत्वेन गम्यते । पराङ्गं चात्मविज्ञाना-यत्किञ्चित् विज्ञानमात्रस्य अकिञ्चित्करत्वात्, ' सर्वत्रैव हि दन्यत्रेत्यवधार्यताम् ॥ ' इत्यभियुक्तोक्तेः ॥ २० ॥
समद्रायं शिशमारानालभते प॒र्जन्या॑य म॒ण्डको मत्स्यन् मि॒ित्राय॑ कुलीपयान् वरुणाय नाक्रान् ॥ २१ ॥
को पर्जन्य देवता के मन्त्रार्थ - तीन शिशुमार जलचरों को समुद्राभिमानी देवता के देवता निमित्त के निमित्त तीन मण्डूकों और तीन नाकों को वरुण निमित्त, तीन मत्स्यों को जल देवता के निमित्त तीन कुलोपयों को मित्र देवता के निमित्त नियुक्त करे ॥ २१ ॥
उपाकुर्यात् । पर्जन्याय पर्जन्या-समुद्राय तदधिष्ठातृदेवतायै शिशुमारान् त्रीन् जलचरजन्तून् पशून् आलभते मत्स्यान् त्रीन् पशूनुपाकुर्यात् । धिष्ठातृदेवतायै मण्डूकान् भेकान् त्रीन् पशून् उपाकुर्यात् । अद्भूयोऽबधिष्ठातृदेवताभ्यो त्रीन् मण्डूकान् द्वौ मत्स्यौ इति सम्मेल्य त्रयोदश तत्र द्वितीयेऽन्तराले द्वौ ककरौ त्रीन् विककरान् त्रीन् शिशुमारान् विवेकः । मित्राय मित्रदेवतायै कुलीपयान् पशूनुपाकुर्यात्, तृतीये चान्तरालेऽब्देवत्यमेकं मत्स्यमुपाकुर्यादिति एव नाक्राः, तान् त्रीन् जलचरविशेषान् पशून् त्रीन् जलचर प्राणिविशेषान्, वरुणाय वरुणदेवतायै नाक्रानू नका सायणाचार्यः । तृतीय एवान्तराले उपाकुर्यात् । नाक्रान् नक्रापत्यभूतान् प्राणिन इति अध्यात्मपक्षे -- पूर्ववद् व्याख्यानम् ।
पृष्ठ 169
पाठ पढ़ें पाठ छिपाएँ
१३६ शुक्लयजुर्वेदसंहिता [ अ २४ दयानन्दस्तु -- ' हे मनुष्याः, जलजन्तुपालनविद् यथा समुद्राय शिशुमारान् पर्जन्याय मण्डूकान् अयो मत्स्यान् मित्राय कुलीपयान्, नाक्रान् वरुणायालभते तथैव यूयमपि आलभध्वम् ' इति, तदपि बालभाषितम्, सर्वेषां मनुष्याणां तत्प्राप्तेरनभीष्टत्वात् ॥ २१ ॥
सोमा॑ ह॒ह्य॑सानाल॑भते वा॒यवे॑ व॒लाका॑ इन्द्राग्निभ्यः॒ क्रुञ्चन् मि॒त्राय॑ स॒द्गून् वरुणाय चक्रवाकान् ॥ २२ ॥
मन्त्रार्थ -- तीन हंसों को सोम देवता के निमित्त, तीन बलाकाओं को वायु के निमित्त तीन क्रौंचों को इन्द्र और अग्नि देवता के निमित्त, तीन जलकाकों को मित्र देवता के निमित्त और तीन चक्रवाकों को वरुण देवता के निमित्त नियुक्त करे ॥ २२ ॥
सोमाय सोमदेवतायै हंसान् त्रीन् पशून् आलभते । वायवे वायुदेवतायै बलाकास्तिस्रो बकयोषितः । एतान् त्रयोदशपशून् तृतीयेऽन्तराले नियोजयेत् । अथ चतुर्थेऽन्तराले – इन्द्राग्निभ्यामिन्द्राग्निदेवताभ्यां क्रुञ्चान् त्रीन् पक्षिविशेषान् पशून् उपाकुर्यात् । मित्राय मित्रदेवतायै मद्गन् त्रीन् जलकाकान् उपाकुर्यात् । वरुणाय वरुणदेवतायै चक्रवाकान् नियोजयेत् । अध्यात्मपक्षे पूर्ववद् व्याख्यानम् । दयानन्दस्तु – ' यथा पक्षिषु गुणविज्ञानी जनः सोमाय हंसान् ' वरुणाय चक्रवाकानालभते, तथा यूयमप्या-लभध्वम् ' इति, तदपि निरर्थकमेव, अव्यवहार्यत्वात् । सिद्धान्ते तु तत्तद्देवताभ्यस्ते ते पशव उपयुज्यन्ते ॥ २२ ॥
अ॒ग्नये॑ कुटरू॒नाय॑ते॒ वन॒स्पति॑भ्य॒ उल॑कान॒ग्नीषोमा॑भ्य॒ चापा॑न॒श्विभ्यां॑ म॒युरा॑न् मित्रावरुणाभ्यां कपोतान् ॥ २३ ॥
मन्त्रार्थ - तीन कुदरों को अग्नि देवता के निमित्त तीन उलूकों को वनस्पतियों के निमित्त, तीन चाषों को अग्नीषोम देवताओं के निमित्त तीन मग्रूरों को अश्विनीकुमारों के निमित्त और तीन कपोतों को मित्रावरुण देवता के निमित्त नियुक्त करे ॥ २३ ॥
अग्नयेऽग्निदेवतायै कुटरून् कुक्कुटान् त्रीन् आलभते उपाकुर्यात् । वनस्पतिभ्यो वनस्पत्यधिष्ठातृदेवताभ्य उलूकान् काकवैरिणस्त्रीन् उपाकुर्यात् । तन्मध्ये एकमुलूकं चतुर्थेऽन्तराले । इति सम्मेल्य त्रयोदश पशून् चतुर्थेऽ-न्तराले उपकुर्यादिति विवेक: । अथ पञ्चमेऽन्तराले शिष्टौ द्वा उलूकौ काकारी उपाकुर्यात् । अग्नीषोमाभ्यां चाषान् त्रीन् उपाकुर्यात् । अश्विभ्यां मयूरान् त्रीनुपाकुर्यात् । मित्रावरुणाभ्यां कपोतान् कपोताभिधान् त्रीन् पक्षिण उपाकुर्यात् । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु - ' कुक्कुटादिपक्षिणो न जानन्ति तान् वर्धयन्ति ' इति, तदपि मन्त्रबाह्यमेव, एतस्यार्थस्य अक्षराननुगुणत्वात् ॥ २३ ॥
सोमा॑य लवानाल॑ते॒ त्वष्टृ कौलोकान् गौषावीर्दे॒वानां॒ पत्नी॑भ्यः कुलक । देवामिभ्योऽग्नये गृ॒हप॑तये पारु॒ष्णान् ॥ २४ ॥
पृष्ठ 170
पाठ पढ़ें पाठ छिपाएँ
म ० २४-२६ ] वेदार्थ पारिजातभाष्यसहिता १३७ मन्त्रार्थ - तीन लवों को सोम के निमित्त, तीन कौलीकों को त्वष्टा के निमित्त, तीन गोषादियों को देवपलियों के निमित्त, तीन कुलीकाओं को देवबन्धुओं के निमित्त और तीन पारुष्णों को गृहपति अग्निदेवता के निमित्त नियुक्त करे ॥ २४ ॥
सोमाय सोमदेवतायै लवान् लावकान् त्रीन् पक्षिविशेषान् आलभते उपाकुर्यात् । त्रयाणां लावकानां मध्ये द्वौ पञ्चमेऽन्तराले ( सम्मेल्य त्रयोदशपशून् ) उपाकुर्यात् । अथ षष्ठेऽन्तराले लवमेकं सोमाय उपाकुर्यात् । त्वष्ट्रे त्वष्टृदेवतायै कौलीकान् एतन्नामकान् त्रीन् पक्षिविशेषान् उपाकुर्यात् । गोषादीः गाः सादयन्तीति गोषाद्यः, ता गोषादीस्तिस्रः पक्षिणीर्देवानां पत्नीभ्य उपाकुर्यात् । कुलीकास्तिस्रः पक्षिणीर्देवजामिभ्यो देव-वधूभ्यः, ' जामिः स्वसृकुलस्त्रियो: ' ( अ ० को ० ३ | ३ | १४२ ) इति कोषः | गृहपतयेऽग्नये गृहपतिसंज्ञायाग्नये पारुष्णान् त्रीन् ( सम्भूय त्रयोदशपशून् षष्ठेऽन्तराले ) उपाकुर्यात् । अध्यात्मपक्षे – पूर्ववद् व्याख्यानम् । दयानन्दस्तु – ' यथा पक्षिकर्मविज्जनः सोमाय लवान् त्वष्ट्रे कौलीकान् देवानां पत्नीभ्यो गोषादीर्देव-जामिभ्यो विदुषां भगिनीभ्यः पारुष्णान् आलभते, तथैव यूयमालभध्वम् ' इति, तदपि यत्किञ्चित् विदुषां पत्नीभ्यो भगिनीभ्यश्च पक्षिणामुपयोगावर्णनात् ॥ २४ ॥
अने॑ पा॒राव॑ता॒नाल॑भते॒ रात्र्ये॑ सचा॒ापूरहोरात्रयः स॒न्धिभ्यो॑ ज॒तुर्मासेभ्यो बात्यौहान् सं॑वत्स॒राय॑ मह॒तः सु॑प॒र्णान् ॥ २५ ॥
मन्त्रार्थ - तीन पारावतों को दिवाभिमानी देवता के निमित्त, तीन सीचापुओं को रात्रि के अभिमानी देवता के निमित्त, तीन जतुओं को अहोरात्र की सन्धियों के निमित्त, तीन नीलकण्ठों को मासाभिमानी देवता के निमित्त और तीन बड़े सुपर्णों को संवत्सर के अभिमानी देवता के निमित्त नियुक्त करे ॥ २५ ॥
अथ सप्तमेऽन्तराले – अह्ने अहरभिमानिदेवतायै पारावतान् त्रीन कलरवान् आलभते । रात्र्यै रात्र्य-भिमानिदेवतायै सीचापूरेतदाख्यास्तिस्रः पक्षिणीः । अहोरात्रयोः सन्धिभ्योऽहोरात्रयोर्मध्ये ये सन्धयस्तदभि-मानिदेवताभ्यो जतुः पात्राख्याः पक्षिणीस्तिस्र उपाकुर्यात् । मासेभ्यो मासाभिमानिदेवताभ्यो दात्यौहान् कालकण्ठान् त्रीन् उपाकुर्यात् । संवत्सराय संवत्सराभिमानिने देवाय महतः सुपर्णान् त्रीन् बृहत्पक्षिण उपा-कुर्यात् । तत्र एकं बृहत्पक्षिणं सप्तमेऽन्तराले ( सम्भूय त्रयोदशपशून् उपाकुर्यात् ) । अथाष्टमेऽन्तराले द्वौ महान्तौ सुपर्णी उपाकुर्यादिति विवेकः । अध्यात्मपक्षे - सर्वे चैते पक्षिणस्तच्छेषिणो देवाश्च ब्रह्मण्यध्यस्तत्वात् तद्रूपा एव, अधिष्ठानसत्तातिरिक्तायाः कल्पितसत्ताया अनङ्गीकारात् । दयानन्दस्तु — ' ये मनुष्याः स्वस्वसमयानुकूलक्रीडाकराणां पक्षिणां स्वभावं विदित्वा स्वस्वभावं कुर्युः, ते बहुविदः स्युः ' इति, तदपि यत्किञ्चित् मन्त्रबाह्यत्वात् ॥ २५ ॥
भूम्या॑ आ॒खूनाल॑भत॒ऽन्तरि॑क्षाय पा॒ङ्क्त्रान् दि॒वे काशा॑न् दि॒ग्भ्यो न॒कुलान् बभ्रुकामवान्तर-दि॒शाभ्यः॑ः ॥ २६ ॥
१८