वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 171–180
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 171–180
पृष्ठ 171
पाठ पढ़ें पाठ छिपाएँ
१३८ शुक्लयजुर्वेदसंहिता [ अ ० २४ मन्त्रार्थ -- तीन मूषकों को भूमि के निमित्त, दो पात्रों को अन्तरिक्ष के निमित्त तीन काशों को स्वर्ग के निमित्त, तीन नकुलों को दिशाओं के निमित्त और तीन बभ्रुकों को विदिशाओं के निमित्त नियुक्त करे ॥ २६ ॥
अथ बिलजान् प्राणिनः पशुत्वेनाह-- भूम्या इति । भूम्यै भूम्यधिष्ठात्र्यै देवतायै आखून् मुषकान् त्रीना-लभते उपाकुर्यात्, अष्टमेऽन्तराल इति शेषः । अन्तरिक्षाय अन्तरिक्षाधिष्ठातृदेवतायै पाङ्क्त्रान् मूषकजाति-विशेषान् त्रीन् उपाकुर्यात् । दिवे देवतायै काशान् मूषकविशेषानेव त्रीनुपाकुर्यात् । दिग्भ्यो दिगधिष्ठातृ-देवताभ्यो नकुलान् त्रीन् उपाकुर्यात् । अत्र द्वौ नकुलावष्टमे ( सम्भूय त्रयोदशपशून् ) उपाकुर्यात् । अथ नवमेऽन्तराले एकं नकुलमुपाकुर्यादिति विवेकः । बभ्रुकान् बिलचरप्राणिविशेषान् त्रीन् अवान्तरदिशाभ्य-तदधिष्ठातृदेवताभ्य उपाकुर्यात् । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु – ' ये भूम्यादिवद् मूषकादिगुणान् विदित्वोपकुर्युस्ते बहुविज्ञाना जायन्ते ' इति, तदपि यत्किञ्चित् वेदबाह्यत्वात् ॥ २६ ॥
वसु॑भ्य॒ ऋश्या॒नाल॑भते रु॒द्रेभ्यो॒ रुव॑नादि॒त्येभ्यो॒ न्यङ्क्न् विश्वे॑भ्यो दे॒वेभ्य॑ पू॒ष॒तान् साध्येभ्यः॑ः कुलुङ्गान् ॥ २७ ॥
मन्त्रार्थ - तीन ऋश्य मृगों को वसुओं के लिये, तीन रुरु मृगों को रुद्रों के लिये, तीन न्यंकु मृगों को आदित्यों के लिये, तीन पृषत् मृगों को विश्वेदेव देवताओं के लिये और तीन कुलुंगों को साध्यों के लिये नियुक्त करे ॥ २७ ॥
अथारण्यान् पशूनाह — वसुभ्य इति । वसुभ्यो देवेभ्य ऋश्यान् त्रीन् मृगविशेषान् उपाकुर्यात् । रोहितानिति सायणः । नवमेऽन्तराल इति शेषः । रुद्रेभ्यो देवेभ्यो रुरून् त्रीन् महतः कृष्णसारान् उपाकुर्यात् । आदित्येभ्यो देवेभ्यो न्यङ्कन् त्रीन् मृगविशेषान् ( सम्भूय त्रयोदशपशून् नवमेऽन्तराले ) उपाकुर्यात् । अथ दशमेऽन्तराले - विश्वेभ्यो देवेभ्यः पृषतान् बहुभिबिन्दुभिर्युक्तान् त्रीन् पशूनुपाकुर्यात् । साध्येभ्यः साध्या नाम देवगणास्तेभ्यः, कुलुङ्गान् त्रीन् हरिणानुपाकुर्यात् । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु - ' वस्वादिभ्य ऋश्यादीन् यथालभते, तथा यूयमालभध्वम् ' इति, तदपि यत्किञ्चित् त्वद्रीत्या तेषामुपयोगाविज्ञानात् ॥ २७ ॥
ईशा॑नाय॒ पर॑स्वत॒ आल॑भते मि॒त्राय॑ गो॒ौरान् वरु॑णाय॒ महि॒षान् बृह॒स्पत॑ये गव॒यस्त्वष्ट्र उष्ट्रन् ॥ २८ ॥
मन्त्रार्थ - तीन परस्वत् मृगों को ईशान के लिये, तीन गौर मृगों की मित्र के लिये, तीन महिषों को वरुण के लिये, तीन गवयों को बृहस्पति के लिये और तीन ऊँटों को त्वष्टा के लिये नियुक्त करे ॥ २८ ॥
ईशानाय देवाय परस्वतस्त्रीन् मृगविशेषान् आलभते उपाकुर्यात्, दशमेऽन्तराल इति शेषः । मित्राय देवाय गौरान् त्रीन् मृगान् उपाकुर्यात् । वरुणाय वरुणदेवाय महिषान् श्रीन् उपाकुर्यात् । तत्रैकं महिषं दशमेऽन्तराले ( सम्भूय त्रयोदशपशून् ) उपाकुर्यात् । द्वौ च एकादशेऽन्तराले उपाकुर्यादिति विवेकः । बृहस्पतये
पृष्ठ 172
पाठ पढ़ें पाठ छिपाएँ
म ० २८-३० ] वेदार्थपारिजातभाष्यसहिता १३ ९ बृहस्पतिदेवतायै गवयान् गोसदृशान् आरण्यकपशून् त्रीन् उपाकुर्यात्, एकादशेऽन्तराल इति शेषः । त्वष्ट्रे त्वष्टृदेवतायै उष्ट्रान् त्रीनुपाकुर्यात् । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दीयमतमपि पूर्ववन्निराकरणीयम् तादृशकार्यकारणभावाप्रसिद्धेः । यो राजा मनुष्यो वा समर्थजनाय परस्वतो मृगानालभते, मित्राय गौरान् मृगान्, अतिथिश्रेष्ठाय महिषान्, महद्रक्षकाय गवयान्, त्वष्ट्रे उष्ट्रानालभते प्राप्नोति स धनधान्ययुक्तो भवतीति प्रमाणशून्यम्, को वा तेषां तेषां पशूनां तेषु तेषूपयोगः, किञ्च तत्र बीजमित्याद्यनुक्तेः ॥ २८ ॥
प्र॒जाप॑तये॒ पुरु॑षान् हस्तिन॒ आल॑भते वाचे प्लुषो॒ चक्षु॑षे म॒शकाञ्छ्रोत्रय भृङ्गः ॥ २ ९ ॥ मन्त्रार्थ -- तीन नर हाथियों को प्रजापति के लिये, तीन वक्रतुण्डों को वाणी के लिये, तीन मशकों को चक्षु के लिये और तीन भ्रमरों को श्रोत्र के लिये नियुक्त करे ॥ २ ९ ॥ प्रजापतये प्रजापतिसंज्ञकाय देवाय पुरुषान् पुंस्त्वविशिष्टान् हस्तिनस्त्रीन् आलभते उपाकुर्यात्, एकादशेऽन्तराल इति यावत् । वाचे वाग्देवतायै प्लुषीन् वक्रतुण्डान् त्रीनुपाकुर्यात् । तत्र द्वौ प्लुषी एकादशे -ऽन्तराले ( सम्भूय त्रयोदशपशून् ) उपाकुर्यात् I । अथ द्वादशेऽन्तराले एकं प्लुषिम् । प्लुषिर्वक्रतुण्ड इति महीधरः पुत्तिका इति द्विवेदगङ्गः, परमाणुतुल्यपुत्तिकादिशरीरमिति ब्रह्मयोगिनः पुत्तिकाशरीरमिति भगवत्पादाः । चक्षुषे चक्षुरभिमानिदेवतायै मशकान् त्रीनुपाकुर्यात्, द्वादशेऽन्तराल इति यावत् । श्रोत्राय श्रोत्राधिष्ठातृदेवतायै भृङ्गाः, भृङ्गान् भ्रमरान् द्वादशेऽन्तराले नियुञ्जीतेति, विभक्तिव्यत्ययः । यद्वा भृङ्गा-स्त्रयो नियोज्या इति व्याख्येयम् । एवं त्रयस्त्रय आरण्याः पशवो गताः । अध्यात्मपक्षे -- सर्वे चैते पशवस्तैर्यष्टव्याः, देवाश्च ब्रह्मोत्पन्नत्वात् तद्विकारत्वात्, तत्कल्पितत्वाद्वा तद्रूपा एवेति मन्तव्यम् । दयानन्दस्तु - ' यो मनुष्यः प्रजापतये पुरुषान् हस्तिनो वाचे प्लुषीन् चक्षुषे मशकानालभते श्रोत्राय भृङ्गा आलभते स बलिष्ठो दृढेन्द्रियो जायते ' इति, तदपि निरर्थकम्, तदुपयोगानिरूपणात् भृङ्गा आलभते इत्यसङ्गतेश्च ॥ २ ९ ॥ प्र॒जाप॑तये च वायवे च गोम॒गो म॒र्कटः शार्दूलाय॑ रोहिवृ॑ष॒भय॑ गव॒यी शिशुमारौ हिमव॑ते ह॒स्ती ॥ ३० ॥
मन्त्रार्थ - प्रजापति और वायुदेवता के लिये मेष को, मनुष्य राजा के लिये मर्कट को, शार्दूल के अधिष्ठात्री देवता के लिये वर्तिका को, नीलंगव के लिये हस्ती को नियुक्त करे ॥ ३० ॥
वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्ण मनुष्यराजाय प्रश्ये॒नाय॒ वर्तिका मील॑ङ्गो क्रिमः समु॒द्राय॑ गवय को, वरुण के लिये वन के मेष को, यम के लिये काले लिये रोहित को, ऋषभ के लिये गवयी को, शीघ्रगामी श्येन की क्षुद्र कीट को, समुद्र के लिये शिशुमार को और हिमालय के लिये अथैकैकश आलभ्यान् पशूनाह – प्रजेति । प्रजापतये च वायवे च गोमृगो गोसदृशो मृगो गवय एक आळब्धव्यः, एकवचनत्वात् । स च द्वादशेऽन्तराले । वरुणाय वरुणदेवतायै आरण्योऽरण्यजातो मे एक "
पृष्ठ 173
पाठ पढ़ें पाठ छिपाएँ
१४० शुक्ल यजुर्वेदसंहिता [ अ ० २४ आलब्धव्यः । यमाय यमदेवतायै कृष्णः कृष्णवर्ण एको मेष आलब्धव्यः । मनुष्यराजाय मनुष्याणां राजा मनुष्यराजस्तस्मै मनुष्यराजाभिमानिदेवतायै मर्कटः कपिरेक आलब्धव्यः । शार्दूलाय व्याघ्राद्यधिष्ठातृदेवतायै रोहिद रोहित ऋष्य एको नियोक्तव्यः, छान्दसोऽकारलोपः । ऋषभाय ऋषभाख्यदेवतायै गवयी गवयमृगस्त्री ( नियुञ्ज्यात् ) । अथ त्रयोदशेऽन्तराले - क्षिप्रश्येनाय एका ( सम्भूय एतान् त्रयोदशपशून् द्वादशेऽन्तराले क्षिगुणयुक्तश्येनाय वर्तिका एतन्नाम्नी पक्षिणी आलब्धव्या । नीलङ्गोः, नीलङ्गवे, विभक्तिव्यत्ययः, नितरां लङ्गति गच्छतीति नीलङ्गुः, क्रिमिजातिः, तस्मै । ' नीलङ्गस्तु क्रिमिः ' ( अ ० को ० २।५।१३ ) इत्यमरः, नीलधिष्ठातृदेवतायै कृमि:, क्राम्यतीति कृमि:, ' क्रमितमिशतिस्तम्भामत इच्च ' ( उ ० ४।१२३ ) इति इन् -प्रत्ययः, अकारस्येकारादेशश्च । अनया प्रक्रियया क्रिमिशब्दसिद्धिः । अस्मिन् सूत्रे सम्प्रसारणानुवृत्तौ कृमिरिति साधुः । कीट एक लब्धव्यः । समुद्राय तदधिष्ठातृदेवतायै शिशुमारो जलचरविशेष एक आलब्धव्यः । हिमवते हिमोऽस्त्यत्रेति हिमवान्, तन्नामा पर्वतविशेष, तस्मै तदधिष्ठातृदेवाय हस्ती एक आलब्धव्यः । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु - ' हे मनुष्याः, युष्माभिः प्रजापतये वरुणाय च गोमृगः इति, तदपि यत्किञ्चित् प्रयोगस्वरूपानिरूपणात् ॥ ३० ॥
हिमवते हस्ती च प्रयोक्तव्यः ' म॒युः प्रजाप॒त्य उ॒लो ह॒लक्ष्णो॑ वृषद॒शस्ते धात्रे दि॒शां क॒ङ्को घुङ्क्षग्ने॒यो क॑ल॒विङ्क् लोहिताहिः पु॒ष्करसा॒वस्ते॑ त्वा॒ष्ट्रा वा॒चे क्रञ्च॑ः ॥ ३१ ॥
मन्त्रार्थ - तुरंगवदन किन्नर प्रजापति देवता को समर्पित है । उल मृग, हलिक्ष्ण सिंह और विडाल ये धाता के लिये हैं । दिशाओं के निमित्त कंक, धुंक्ष अग्नि देवता के निमित्त, चटक, लाल सर्प और कमलभक्षी पक्षी - ये सब त्वष्टा देवता के निमित्त और क्रुच वाग्देवता के लिये नियुक्त है ॥ ३१ ॥
मयुस्तुरङ्गवदनः किन्नरः प्राजापत्यः प्रजापतिदेवत्यः, प्रजापतिदेवतार्थमालब्धव्यः । उलो मृगविशेषः । हलिक्ष्णः, महद् हलं हलि:, तद्वाहकानपि महाबलान् वृषभान् क्षिणोति हिनस्तीति हलिक्ष्णः सिंहविशेषः, वृषदंशो वृषान् आखून् दशतीति वृषदंशो मार्जारः एते ते पशवो धातृशब्दाभिधेयाय प्रजापतये आलब्धव्याः । दिशां दिग्देवतानां कृते कङ्कः, बक इति महीधरः, लोहपृष्ठनामा पक्षिविशेष इति सायणः । धुङ्क्षा पक्षिणी इति महीधरः, धुङ्क्षो ध्वाङ्क्षः काकविशेषः । तज्जातीया स्त्री धुक्षा । एका सा आग्नेयी अग्निदेवत्या, अग्नये आलब्धव्येति यावत् । कलविङ्कश्चटकः, लोहिताही रक्तसर्पः पुष्करसादी पुष्करे कमले सीदतीति पुष्करसादः कमलभक्षी पक्षिविशेषः, ते त्रयस्त्वाष्ट्रास्त्वष्टृदेवत्यास्त्वष्टृदेवतायै आलब्धव्याः । सम्भूय एते त्रयोदश पशवस्त्रयोदशेऽन्तराल आलब्धव्याः । अथ चतुर्दशे - वाचे वाग्देवतायै क्रुञ्च उच्चैःशब्दकारी क्रौञ्चाख्यः पक्षी सारस एक आलब्धव्यः । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु - पूर्ववदेवान्वयः । ' ये शृगालसर्पादीन् वशं नयन्ति ते धुरन्धराः सन्तीति भावार्थ: ' इति, तदपि यत्किञ्चित् पदपदार्थासम्बन्धात् ॥ ३१ ॥
सोमा॑ कुलुङ्ग आ॑र॒ण्यो॒ऽजो न॑कुलः शका ते पा॒ष्णाः क्रोष्टा मा॒योरिन्द्र॑स्य गौरमृगः वि॒द्वो न्यङ्कुः कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्कर्यं चक्रवाकः ॥ ३२ ॥
पृष्ठ 174
पाठ पढ़ें पाठ छिपाएँ
म ० ३२-३३ ] वेदार्थपारिजातभाष्यसहिता १४१ मन्त्रार्थ -- सोम के लिये कुलुंग हरिण, वन का छाग, नकुल और शकुन्ती पुषा देवता के निमित्त, शृगाल मायु चक्रवाक प्रतिश्रुत्का देवता के निमित्त, गौर मृग इन्द्र के निमित्त न्यंकु, पिद्व और कक्कट अनुमती देवी के निमित्त और देवता के निमित्त नियोजित है ॥ ३२ ॥
सोमाय सोमदेवतायै कुलुङ्गः कुरङ्गो हरिण एकश्चतुर्दशेऽवकाश आलब्धव्यः । पूषदेवत्याश्चतुर्दशेऽवकाशे आरण्यः अरण्योद्भवः, अजश्छागः, नकुलः सर्पाहिरेकः शका शकुन्तिका एका, त एते त्रयः पशवः पौष्णाः, तस्य । मायवे मृत्यु देवतायै आलब्धव्याः । क्रोष्टा शृगाल एकः, मायोः मिनोति प्रक्षिपति पित्तमिति मायुर्मृत्युः आलब्धव्यः । तथापि एकस्तत्रैवालब्धव्यः । इन्द्रस्य इन्द्राय देवराजाय गौरमृग आरण्यो मृगविशेष एक मृगविशेषः, मृगविशेषः, व्याघ्र इति सायणः एकः । न्यङ्कुः नितरामञ्चतीति न्यङ् कुर्मृगविशेष एकः । कक्कटः कर्कटक इति सायणः, एकः । त एते त्रयः । अनुमत्यै अनुमतिदेवतायै आलब्धव्याः । प्रतिश्रुत्कायै प्रतिध्वनिदेवतायै चक्रवाको रथाङ्गनामा पक्षी एकश्चतुर्दशेऽवकाशे नियोज्यः । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु – हे ' मनुष्याः, यदि युष्माभिः सोमाय कुलुङ्ग, आरण्योऽज, प्रतिश्रुत्कायै चकवाकः सम्प्रयुज्यते, तहिं बहु कृत्यं कर्तुं शक्येत ' इति, तदपि निरर्थकम्, मन्त्राक्षराऽनानुगुण्यात् । एतादृशैर्व्याख्यानैरिदमेव स्पष्टं भवति यत् प्राचीनं परम्पराप्राप्तं सायणादिव्याख्यानमुपेक्ष्य यत्किञ्चित् प्रलपितमेव श्रुतिषु बलादारोप्यत इति ॥ ३२ ॥
सौरी बलाको शार्गः सृ॑जयः श॒याण्ड॑क॒स्ते मैत्राः भौमी शर्दलो वृकः पृदा॑क॒स्ते म॒न्यवो॒ सर॑स्वते॒ शुकः॑ सर॑स्वत्यै॒ शारि॑ पुरुष॒वाक् श्वाविद् पुरुष॒वाक् ॥ ३३ ॥
शयाण्डक नामक पक्षी मित्र देवता के लिये, पुरुष के लिये, व्याघ्र, चीता और सर्प मन्यु देवता के लिये मन्त्रार्थ -- बलाका सूर्य के निमित्त, शार्ङ्ग, सृजय और समान बोलने वाली मैना सरस्वती के लिये, साही भूमि देवता के और पुरुष के समान बोलने वाला तोता समुद्र के लिये नियोजित है ॥ ३३ ॥
सौरी सूर्यदेवत्या बलाका बिसकण्डिका बकस्त्री एका चतुर्दशेऽन्तराले नियोज्या । शार्गः पक्षिविशेषः, सृजयो नीलमक्षिका, शुक्लसर्प इत्येके, नीलपक्षिणी इत्यपरे । शयाण्डकः पक्षिविशेष इति महीधरः, कृकलास इति सायणः । ते त्रयो मैत्रा मित्रदेवत्या उपाकर्तव्याः । तत्र शार्गश्चतुर्दशेऽन्तराल उपाकर्तव्यः । अथ पञ्चदशेऽन्तराले --सृजयः शयाण्डकच उपाकरणीयौ । सरस्वत्यै सरस्वतीदेवतायै शारिः शारिका शुकस्त्री एका उपाकरणीया । तद्विशेषणं पुरुषवागिति पुरुषवद्वक्तीति पुरुषवाक् । श्वाविद् श्वानं विध्यतीति श्वावित् शल्यकः सेधा ( साही ), यस्य लोमानि शल इत्याख्यायन्ते तज्जातीया स्त्री एका भौमी भूमिदेवत्या पञ्चदशेऽ-न्तराले उपाकरणीया । शार्दूलो व्याघ्र, वृकश्चित्रक इति महीधरः, बालमारक इति सायणः । पृदाकुः सर्पः । त एते त्रयो मन्यवे मन्युदेवतायै पञ्चदशेऽन्तराले उपाकर्तव्याः | सरस्वते समुद्राय देवाय शुकः पुरुषवाग एक उपाकर्तव्यः । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । --दयानन्दस्तु – ' ये बलाकादयः पशुपक्षिणस्तेषां मध्यात् केचित् पालनीयाः केचित्ताडनीयाः सन्तीति वेद्यमिति भावार्थ: ' इति तदपि यत्किञ्चित, निर्मूलत्वात् । अक्षराऽननुगुणत्वात् ॥ ३३ ॥
पृष्ठ 175
पाठ पढ़ें पाठ छिपाएँ
१४२ शुक्लयजुर्वेदसंहिता [ अ ० २४ सुप॒र्णः पर्जन्य आ॒तिर्वाहसो दर्विदा ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गराजोऽलज अन्तरिक्षः प्लवो मद्गुर्मत्स्य॒स्ते न॑दप॒तये॑ द्यावापृथि॒वीय॑ः कर्मः ॥ ३४ ॥
मन्त्रार्थ -सुपणं पर्जन्य देवता के निमित्त, आति, वाहस और कठकुटा पक्षी वायु देवता के निमित्त, पैंगराज निमित्त अलज अन्तरिक्ष के निमित्त, प्लव, कारण्डव और मत्स्य समुद्र के पक्षी वाणी के स्वामी बृहस्पति देवता के निमित्त और कच्छप द्यावापृथिवी के निमित्त नियुक्त किया गया है ॥ ३४ ॥
सुपर्णो गरुत्मान् पक्षीन्द्रजातीय एकः पक्षी पार्जन्यः पर्जन्यदेवत्यः पञ्चदशेऽन्तराले आकरणीयः । आति: आडी, कक्कुटी इति सायणः । वाहरु: ( मात्रावाहक: ) शुक्तिकान्तर्गतो जलप्राणिविशेषः । दविदा दविणा श्येन आदीयत इति दर्विदा जलपक्षी, द्रुमकुक्कुट इत्येक इति सायणः, काष्ठकुट्ट इति महीधरः । ते त्रयो वायवे वायुदेवताय उपकरणीयाः । बृहस्पतये बृहतां पतिर्ब्रहस्पतिः, एतन्नामा देवः तस्मै । वाचस्पतये वाचो वाण्याः पतिर्वाचस्पतिः, एतद्गुणविशिष्टस्तस्मै सुरगुरवे देवाय पैङ्गराजः पक्षिविशेष इति महीधरः, भरद्वाजाख्यः पक्षी समुद्रतरङ्गेषु संचारी महापक्षी पैङ्गराज इति केचिदिति सायणः । सम्भूय एते त्रयोदश पशवः पञ्चदशेऽवकाशे आकरणीयाः । अथ षोडशेऽवकाशे - अलजो भाषाख्यः पत्रिविशेषः, आन्तरिक्षोऽन्तरिक्ष-देवत्य उपकरणीयः । प्लवो मज्जन् मज्जन् वर्तमानो जलचरः पक्षी, मद्गुर्जलकाक इति सायणः, कारण्डव इति महीधरः । मत्स्यः प्रसिद्धः त एते त्रयः पशवो नदीपतये समुद्रदेवतायै आकरणीयाः । कूर्मः कच्छ्पो द्यावापृथिवीयो द्यावापृथिवीदेवत्यः षोडशेऽवकाशे उपाकरणीयः । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु - ' यः सुपर्णः स पार्जन्यो य आतिर्वाहः सः दविदा च ते वायवे पैङ्गराजो बृहस्पतये वाच-स्पतये " यः कूर्मः स द्यावापृथिवीयश्च विज्ञेयाः ' इति, तदपि यत्किञ्चित् सम्बन्धविशेषस्यानिरूपणात् सम्बन्ध-सामान्यस्यावक्तव्यत्वाच्च ॥ ३४ ॥
पु॒रुषम॒गश्च॒न्द्रम॑सो गो॒धा काल॑का दार्वाघटस्ते वन॒स्पतीनां कृकवाकुः सावि॒त्रो सो वात॑स्य ना॒क्रो मक॑रः कुल॒पय॒स्तेऽपारस्य ह्रियै शल्य॑कः ॥ ३५ ॥
मन्त्रार्थ - पुरुष मृग चन्द्रमा के निमित्त, गोधा, देवता के निमित्त, हंस वायु देवता के निमित्त, नाक, निमित्त नियुक्त किये गये हैं ॥ ३५ ॥
कालका और सारस वनस्पति देवता के निमित्त, ताम्रचूड़ सविता मकर और कुलीपय समुद्र के निमित्त तथा साही ही देवता के पुरुषमृगः पुम्मृगः, चन्द्रमसश्चन्द्रमसे देवाय आलम्भनीयः । ' चतुर्थ्यर्थे बहुलं छन्दसि ' ( पा ० सू ० २।३।६२ ) इति षष्ठी । पुरुषाकारो मृग इति सायणः । गोधा ( गोहशब्देन लोके ख्यातो जन्तुविशेषः ), मुसलि सायणः, महागोधेत्येके । कालका पक्षिविशेष इति महीधरः । उपलखण्डिनीति सायणः । दार्वाघाट: सारसः । द्रुमकुक्कुट इति सायणः । त एते त्रयो वनस्पतीनां वनस्पतिदेवताभ्यः षोडशेऽन्तराले प्रोक्षणीयाः । कृकवाकुः कृन गलेन वक्तीति कृकवाकुस्ताम्रचूडः सावित्रः सवितृदेवत्यः षोडशेऽन्तराले प्रोक्षणीयः । हंसो वातस्य वाताय वायुदेवतायै षोडशेऽन्तराले प्रोक्षणीयः । नाक्रः, न आक्राम्यतीति नाक्रो दीर्घतुण्डो ग्राहः, दीर्घपुच्छो मत्स्यविशेष इत्येके । मकरः सर्पतुण्डः । कुलीपयो बहुपान्मत्स्यविशेषः, त एते त्रयो जलचरविशेषा अकूपारस्य
पृष्ठ 176
पाठ पढ़ें पाठ छिपाएँ
मं ० ३५-३७ ] वेदार्थ पारिजात भाष्यसहिता × â अक्कूपाराय समुद्राय देवाय आलभ्याः । तत्र द्वौ पोडशेऽन्तराले, एकः कुलीपयश्च सप्तदशेऽन्तराले आलभ्यः । ह्रियै लज्जादेवतायै शल्यक एकः सप्तदशेऽन्तराले आलभ्यः । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु - ' हे मनुष्याः, यः पुरुषमृगः स चन्द्रमसो ये गोधादयस्ते वनस्पतीनां ह्रियै लज्जायँ शल्यको विज्ञेया: ' इति, तदपि यत्किञ्चित् सम्बन्धविशेषानिरूपणात् ॥ ३५ ॥
एण्यह्नों मण्डूको मूषिका तित्तिरिस्ते सर्पाणां लोपाश आश्विनः कृष्णो रात्र्या ऋक्षों ज॒तः स॑षि॒ला त ईतरज॒नानां॒ जहका वैष्ण॒वी ॥ ३६ ॥
मन्त्रार्थं - मृगी अहो देवता के निमित्त, मण्डूक, मूषक और तीतर सर्पों के निमित्त, लोपाश अश्विनीकुमारों के निमित्त, कृष्णमृग रात्रि के निमित्त, भालू, जतू और सुषिलोका इतर जनदेवताओं के निमित्त एवं जहका विष्णु देवता निमित्त नियुक्त किये गये हैं ॥ ३६ ॥
एणी मृगी, बिन्दुमती हरिणीति सायणः । अह्नः अहर्देवतायै सप्तदशेऽन्तराले नियोज्या । मण्डूको लोपाशो भेकः, मूषिका आखुः, तित्तिरिः कुररः, त एते त्रयः पशवः सर्पाणां सर्पेभ्यः सप्तदशेऽन्तराले नियोज्याः । वनचरविशेषः, क्रोष्टेति सायणः । आश्विनः अश्विदेवत्यः सप्तदशेऽन्तराले नियोज्यः । कृष्णः कृष्णमृगः, रात्र्यं रात्रिदेवता नियोज्यः । ऋक्षो भल्लूकः, जनः जतुका अजिनपत्रा, सुषिलीका प्राणिविशेषः, जतुः सुषिलीका च पक्षिविशेषाविति महीधरः । त एते त्रयः पशव इतरजनानामितरजनाधिष्ठातृदेवेभ्यो नियोज्याः । जहका गात्रसङ्कोचनी वैष्णवी विष्णुदेवत्या । एते सर्वे पशवः सप्तदशेऽन्तराले नियोज्याः । अध्यात्मपक्षे पूर्ववद् व्याख्यानम् । दयानन्दस्तु– ' हे मनुष्याः, युष्माभिर्येणी साह्नः, ये मण्डूका मूषिका तित्तिरिश्च ते सर्पाणाम्, यो लोपाशः स आश्विनः, यः कृष्णः स रात्र्य, य ऋक्षो जतुः सुषिलीका च त इतरजनानाम्, या जहका सा वैष्णवी प्रयोजनं च विज्ञेया ' इति, तदपि यत्किञ्चित् भावार्थस्यास्पष्टत्वात् । इतरजनाः के? तेषां लोपाशादिभिः किं सिद्धति? मण्डूकमूषिकातित्तिरीणां सर्वेषु क उपयोग इत्यनुक्तेः ॥ ३६ ॥
अ॒न्यवापोऽर्धमा॒सानामृश्यो॑ म॒युर॑ सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामुद्री मासां कश्यप रोहि-त्कुण्डणाची गोलत्ति॑िका तेऽप्स॒रमा॑ मृ॒त्यवेऽसि॒तः ॥ ३७ ॥
मन्त्रार्थ- कोयल शुक्ल और कृष्ण पक्ष के देवताओं के निमित्त, ऋष्य मृग, मोर और सुपर्णं गन्धंवों के निमित्त, कर्कट जल देवता के निमित्त, कच्छप मास देवता के निमित्त, रोहित, वनचरी और गोलत्तिका अप्सराओं के निमित्त तथा कृष्ण पशु मृत्यु देवता के निमित्त नियुक्त हैं ॥ ३७ ॥
अन्यवापः परभृतः कोकिलः पक्षी अर्धमासनामकानां देवानां पशु, अन्यवापो मृगविशेष इति सायणः । एते सम्भूय त्रयोदश पशवः सप्तदशेऽवकाशे नियोज्याः । अथाष्टादशेऽवकाशे - ऋश्यो मृगविशेषः, रोहित इति सायणः । मयूरो बर्ही, सुपर्णो गरुत्मान्, श्येन इति सायणः । त एते त्रयो गन्धर्वाणां पशवोऽष्टादशेऽवकाशे नियोज्याः । उद्रो जलचरः कर्कटसंज्ञोऽपां पशु, उद्र उदनशीलः पक्षिविशेष इति सायणः । मासां मासाधि -
पृष्ठ 177
पाठ पढ़ें पाठ छिपाएँ
१४४ शुक्लयजुर्वेदसंहिता [ अ ० २४ देवतानां कश्यपः कच्छपः । कश्यपः पक्षिविशेष इति सायणः । रोहिद् ऋश्यस्त्री, कुण्डुणाची वनचरीविशेषः । गृहगोधिकेति सायणः । गोलत्तिका सापि वनचरीविशेषः । खञ्जरीटकेति सायणः । पीतशुक्लेति केचित् । त एते त्रयः पशवोऽप्सरसां देवतानाम् । मृत्यवे मृत्यु देवतायै असितः कृष्णः पशुः, कृष्णसर्प इति सायणः । अध्यात्मपक्षे एते पशवस्तत्सम्बन्धिनो देवाश्च ब्रह्मात्मका एव तद्विकारत्वात् । दयानन्दस्तु - अन्वयं पदार्थं च महीधरादिवदेवाह । भावार्थे तु – ' ये कालादिगुणाः पशुपक्षिणस्ते उपकारिणः सन्तीति वेद्यम् ' इति, तदपि यत्किचित् तथात्वे देवसम्बन्धवर्णनस्य नैरर्थक्यापातः । न च देवानां गुणाः पशुषु विवक्षिता इति वाच्यम्, अर्धमासानां के गुणाः कोकिले विद्यन्त इत्याद्यनिरूपणात् ॥ ३७ ॥
वर्षाहूर्ऋतूनामा॒ाखुः कश मान्थालस्ते पि॑त॒णां बला॑याजग॒रो वसू॑नां क॒पिञ्जलः क॒पोत॒ उलूकः शशस्ते निर्ऋत्यै वरुणायार॒ण्यो मेषः ॥ ३८ ॥
मन्त्रार्थ -- भेक ऋतु देवताओं के निमित्त, मूषक, कश और मान्थाल पितरों के निमित्त, अजगर बल के लिये, कपिल वसु देवताओं के लिये, कपोत, उलूक और शश निर्ऋति देवता के लिये एवं वन का मेष वरुण देवता के लिये नियुक्त हैं ॥ ३८ ॥
वर्षाहूः वर्षाभूः, वर्षासु भवतीति । भेकीति महीधरः, भेक इति सायणः । स ऋतूनाम् ऋतुदेवानां पशुः । आखुः कशो मान्थाल इति त्रयोऽपि मूषकविशेषाः । त एते त्र्यः पितॄणां पितृदेवानां पशवः । सम्भूय एते त्रयोदश पशवोऽष्टादशेऽवकाशे नियोज्याः । अथ एकोनविंशेऽवकाशे - बलाय बलदेवतायै अजगरो महासर्पः, एकः पशुरेकोनविंशेऽवकाशे नियोज्यः । वसूनां वसुदेवताभ्यः कपिञ्जल एकः पशुर्नियोज्यः । ' चित्रपक्षः कपिञ्जलः ' इति सायणोद्धृतं वचनम् । कपोतः उलूकः, शशः – त एते त्रयः पशवो निर्ऋत्यै निर्ऋतिदेवतायै नियोक्तव्याः । वरुणाय वरुणदेवताय आरण्यो मेष एकः पशुर्नियोज्यः । अव्यात्मपक्षे - सर्वे चैते पशवस्तद्देवताश्च ब्रह्मरूपा इति ब्रह्मणः सार्वात्म्यं निगदव्याख्यातम् । दयानन्दस्तु —— ' ऋत्वादिगुणाः पशुपक्षिणस्ते तद्गुणा विज्ञेया: ' इति, तदपि यत्किञ्चित्, आख्वादीनां पितृगुणत्वानुपपत्तेः ॥ ३८ ॥
वित्र आदित्यानामुटो घृणी॒वान् वाधी॑न॒सस्ते म॒त्या अर॑ण्याय सुमरो रुरु रौद्रः क्वर्यिः कुर्दात्याहस्ते वाजिनां कामय पि॒कः ॥ ३ ९ ॥ मन्त्रार्थ - चितकबरा मृग आदित्य देवताओं के लिये, ऊँट, चील और कण्ठ में स्तन वाले पशु मति देवता के निमित्त, गवय अरण्य के निमित्त, रुरु रुद्र देवता के लिये, क्वयि, मुर्गा और कालकण्ठ वाजी देवता के लिये तथा कोयल कामदेव के लिये नियुक्त हैं ॥ ३ ९ ॥ श्वित्रः श्वेतः पशुरिति महीधरः, पशुविशेष इति सायणः, आदित्यानां पशुर्भवति । उष्ट्रो दीर्घग्रीवो घृणी -वान् घृणिवान्, संहितायां दीर्घः, तेजस्वी पशुविशेषः, वार्हीनसः कण्ठे स्तनवानजः, त एते त्रयो मत्यै बुद्धयभि-मानिदेवतायै । अरण्याय देवाय सृमरो गवयः, रुरुर्महाकृष्णसारः, रौद्रो रुद्रदेवत्यः क्वयिः पक्षिविशेषः । सम्मेल्य एते त्रयोदश पशव एकोनविंशेऽवकाशे नियोज्याः । अथ विशेऽवकाशे - कुटरु: कुक्कुट, दात्यौहः कालकण्ठः -- त एते त्रयः क्वयि -कुटरु - दात्यौहा वाजिनां देवतानाम् । तत्र क्वयिरेकोनविंशेऽवकाशे नियोज्यः । कुटरुदाहोत्यौ च विशेऽवकाशे नियोज्याविति विवेकः । कामाय देवाय पिको विशेऽवकाशे नियोज्यः ।
पृष्ठ 178
पाठ पढ़ें पाठ छिपाएँ
म ० ३ ९ -४० ] अध्यात्मपक्षे पूर्ववद् व्याख्यानम् । वेदार्थ पारिजात भाष्य सहिता १४५ दयानन्दस्तु – ' ये आदित्यगुणाः पशुपक्षिणस्ते तत्तत्स्वभावाः सन्तीति वेद्यम् ' इति, तदपि यत्किञ्चित्, उष्ट्रादीनां मतिगुणत्वादर्शनात् ॥ ३ ९ ॥ खड्गो वैश्वदेवः श्व कृष्णः क॒र्णो ग॑र्दभस्त॒रक्षुस्ते रक्ष॑सा॒मिन्द्रय सूक॒रः स॒हो मारुतः कृकलासः पिका शकुन॒स्ते श॑र॒व्यायै॒ विश्वे॑षां देवानां पृषि॒तः ॥ ४० ॥
॥ इति चतुविशोऽध्यायः ॥ मन्त्रार्थ - गेंड़ा विश्वेदेव देवताओं के लिये, काला कुत्ता, छिन्न कानों वाला गदहा और व्याघ्र राक्षसों के निमित्त, सूकर इन्द्र के लिये, सिंह मरुद् देवताओं के लिये, गिरगिट, पिका और शकुनि शरव्या देवता के लिये और पृषत् मृग विश्वेदेव देवों के निमित्त नियुक्त किये गये हैं ॥ ४० ॥
खड्गो मृगविशेषो वैश्वदेवो विश्वदेवदेवत्यो विशेऽवकाशे नियोज्यः । श्वा कृष्ण एकः कृष्णवर्णः सारमेयः, द्वितीयः कर्णः छिन्नकर्णी गर्दभः, तृतीयस्तरक्षुर्मृगादन: - - त एते त्रयो रक्षसां पशवः । इन्द्राय सुकर एको नियोज्यः । सिंहो मारुतो मरुद्देवत्यः, कृकलासः सरट, पिप्पका पक्षिणी, शकुनिः पक्षी - ते त्रयः पशवः शरव्यायै, शरव्यं लक्ष्यम्, तदभिमानिदेवतायै । पिप्पका कुलायिनाम्नी पक्षिणी, शकुनिः काक इति सायणः । एकः पृषतः पृषद्भिर्विन्दुभिर्युक्तो मृगविशेषो विश्वेषां देवानां पशुर्भवति । विश्वेभ्यो देवेभ्यो जुष्टं नियुनज्मी ति नियोज्यः । सम्भूय एते त्रयोदश पशवो विशेऽवकाशे नियोज्याः । एवं षष्ट्यधिकं शतद्वयमारण्याः पशव उक्ताः । एतदुक्तं भवति ' अश्वस्तूपरो गोमृगः ' ( वा सं ० २४ । १ ) इति प्रधानभूताः पशव:, ' रोहितो धूम्ररोहितः ' ( वा ० सं ० २४।२ ) इत्याद्याः पञ्चदशिन: ' कृष्णग्रीवा आग्नेया बभ्रवः सोम्याः ' ( वा ० सं ० २४ | १४ ) इत्याद्या-चातुर्मास्य पशवः, ' वसन्ताय कपिञ्जलान् ' ( वा ० सं ० २४।२० ) इत्याद्या ऋतुपशवः, ' समुद्राय शिशुमारान् ' ( वा ० सं ० २४।२१ ) इत्याद्याः पञ्चदशिन, ' प्रजापतये च वायवे च गोमृग: ' ( वा ० सं ० २४ | ३० ) इत्याद्या एकादशिनः। अत्र द्वाविंशतिरेकादशिनः सप्तविंशत्यधिकानि त्रीणि शतान्यश्वादयः सौर्यान्ताः, षष्ट्यधिकं शतद्वयं कपिञ्जलादयः पृषतान्ता आरण्याः पशवः । सर्वे मिलित्वा षट्शतानि नवाधिकानि पशवो भवन्ति । अत्र श्लोक: -- ' षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य यज्ञस्य नवभिश्चाधिकानि च ॥ ' इति । तेष्वारण्याः सर्व उत्स्रष्टव्याः, न तु हिंस्याः । अत्रार्थे ब्राह्मणम् —'तदाहुः | अपशुर्वा एष यदारण्यो नैतस्य होतव्यं यज्जुहुयात्क्षिप्रं यजमानमरण्यं मृत-७. हरेयुररण्यभागा ह्यारण्याः पशवो यन्न जुहुयाद्यज्ञवेशस स्यादिति पर्यग्निकृतानेवोत्सृजन्ति तन्नैव तं नाहुतं न यजमानमरण्यं मृत, हरन्ति न यज्ञवेशस, भवति ' ( श ० १३ | २ | ४ | ३ ) | प्रसन्नं ब्राह्मणम् । अत्र ये दुर्लभा दुर्ग्रहाश्चारण्याः पशवस्तान् सर्वान् पटे चित्ररूपे लिखित्वा तेषामुपाकरणादिसंस्काराः कर्तव्या इति केचित् । तमिममर्थं कात्यायनोऽप्यसूत्रयत्- ' पञ्चदश पञ्चदश रोहितादीन् सौर्यान्तानितरेषु ' ( का ० श्रौ ० २०१६।५ ) । इतरेषु यूपेषु पञ्चदश पञ्चदश पशून्नियुञ्ज्यादिति सूत्रार्थः । तेन सप्तदश मध्यमे, षोडश षोडशेतरेषु यूपेषु बद्धाः । अत्र २२ ऐकादशिनाः, ३२७ अश्वादयः सौर्यान्ताः, २६० कपिञ्जलादयः । एवं सङ्कलय्य ६० ९ पशवः । ‘ कपिञ्जलादीन् पृषतान्तांस्त्रयोदश त्रयोदश दूपान्तरेषु ' ( का ० श्र ० २० | ६ | ६ ) | ' वसन्ताय कपिञ्जलान् ' ( वा ० सं ० २४।२० ) इत्यारभ्य ' विश्वेषां देवानां पृषतः ' ( वा ० सं ० २४ ४० ) इत्यन्तान् त्रयोदश त्रयोदश १ ९
पृष्ठ 179
पाठ पढ़ें पाठ छिपाएँ
१४६ शुक्लयजुर्वेदसंहिता [ अ ० २४ । ' कपिञ्जलादीनुत्सृजन्ति पर्यग्निकृतान् ' संख्याकान् पशून् यूपानामन्तरालेष्ववकाशेषूत्पत्तिक्रमेण । ततस्ते नियुञ्ज्यात् कपिञ्जलादयः पञ्जरादेर्निप्रकाश्य मुच्यन्ते । ततो ( का ० श्र ० २० / ६ / ९ ) । अत्र नियोगक्रमेणोत्सर्गः यथेच्छं गच्छन्ति । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । व्यवहारसिद्धये सर्वे मनुष्या नियोजयन्ताम् ' दयानन्दस्तु - ' ये सर्वे पशुपक्षिणः सर्वगुणाः सन्ति, तान् विज्ञाय इति, तदपि यत्किञ्चित्, निर्मूलत्वात् । तद्देवा अश्वमेधेनैव प्रत्यदधुरेष ' प्रजापतेरक्ष्यश्वयत् । तत्परापतत्ततोऽश्वः समभवद्यदश्वयत्तदश्वस्याश्वत्वं भवति सर्वस्य वा एषा प्रायश्चित्तिः सर्वस्य भेषज ९. " ह वै प्रजापति ७, सर्वं करोति योऽश्वमेधेन यजते सर्व एव सर्वं पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन सर्वं वा एतेन पाप्मानं देवा अतरन्नपि वा एतेन ब्रह्महत्यामतरंस्तरति इद स्यादात्मन्व्यनेन स्यामिति ततोऽश्वः समभवत् ' यजते ' ( श ० १३1३ | १ | १ ) । ' सोऽकामयत । मेध्यं म दर्शिता । तस्यैव सर्वप्राप्तिफलं वक्ष्यते । इह तु ( श ० १०/६/५/७ ) इति सकलप्राजापत्यकार्यात्मताऽश्वस्य कथं नामानेनैव दर्शनेन प्रायश्चित प्रयुञ्जीत । अश्वयत् प्रजापत्यक्षिप्रभवत्वं ब्रह्महत्याप्रायश्चित्तं चोच्यते । सम्बभूव । तदेतदश्वशब्दनिर्वचनं दर्शनार्थम् । स्वतन्त्रतया बहिः पतितं गतम् । ततोऽक्ष्णो देवतामाहाभाग्यादश्वः स्थापितवन्तः । एष एव प्रजापति सर्वमविकलमधियज्ञं तदक्षि देवा अश्वमेधेन क्रतुना तस्मिन् प्रजापतौ प्रतीपं एव भवति । सर्वस्य च पातकोपपातकादेः पापस्यै-करोति, योऽश्वमेधेन क्रतुना यजते । स च तदनुकारेणाविकल सर्वस्य जन्मान्तरकृतपापप्रभवव्याधेरेषोऽश्वमेधः भेषजम् । पाऽश्वमेधात्मिका प्रायश्चित्तिः, सर्वस्य भेषजम्, ' ( श ० १३ | ३ ७ १ ) | ( १ ) प्रभूः, ' एष वै प्रभुर्नाम यज्ञः । यत्रैतेन यज्ञेन यजन्ते सर्वमेव, प्रभूतं ( ६ ) भवति ऊर्जस्वान्, ( ७ ) पयस्वान्, ( ८ ) ब्रह्म-( २ ) विभूः, ( ३ ) व्यष्टि:, ( ४ ) विधृतिः, ( ५ ) क्लृप्ति व्यावृत्तिः :, ( १२ ) प्रतिष्ठा - इति द्वादशनामभिरश्वमेधस्तुतिः । वर्चसी, ( ९ ) अतिव्याधी, ( १० ) दीर्घः, ( ११ ) " सर्वाणि भूतानि सर्वेषा, ह वै स ' एतत्पारिप्लवम् । सर्वाणि राज्यान्याचष्टे सर्वा सर्वासां विशः विशामैश्वर्यमाधिपत्यं सर्वान् वेदान् गच्छति सर्वान् वेदानवरुन्धे एतेषा, राज्याना, सायुज्य ७ सलोकतामश्नुते यस्यैवंविदेतद्धता पारिप्लवमाख्यानमाचष्टे यो वैतदेवं सर्वान् देवान् प्रीत्वा सर्वेषु भूतेष्वन्ततः प्रतितिष्ठति तद्यत्पुनः पुनः परिप्लवते तस्मात् पारिप्लव ७ षट्त्रि वेदैतदेव समानमाख्यानं पुनः पुनः संवत्सरं परिप्लवते पशवो बृहत्यैवास्मै पशूनवरुन्धे ' ( श ० १३ | ४।३।१५ ) । शतं दशाहानाचष्टे षट्त्रि शदक्षरा बृहती बार्हताः होता । तत्र पारिप्लवमिति दर्शनार्थानुवादः । एष एतत्पारिप्लवाख्यानमित्युपसंहारः । सर्वाणि राज्यान्याचष्टे सावनसंवत्सरपरिग्रहाय वचनम् । इतरथा पार्वणो वा एव तु आवृत्तिविधिः । तद्यत्पुनः पुनरिति । पारिप्लवमिति दर्शनार्थ एवायमनुवादः । ततः श्रुतिवाक्यशेषबलादेव सौरो वा नाक्षत्रो वा संवत्सरः पक्षे परिगृह्येत । अथवा दशाहानाचष्टे ' इति वचनात् । स च अश्वोत्सर्ग-सावनः संवत्सरो नियम्यते, ' सावने संवत्सरे षट्त्रि ११ शतं संवत्सर रक्षन्ति ' ( श ० १३ | ४ | २ | १६ ) इति दिवसादारभ्य गणनीयः, न ब्रह्मौदनदिवसात् । कुतः? ' वचनात् ॥ ४० ॥
॥ इति श्रीशुक्लयजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां चतुविशोऽध्यायः ॥
पृष्ठ 180
पाठ पढ़ें पाठ छिपाएँ
पञ्चविंशोऽध्यायः शाद॑ द॒द्भव॑ ब॒न्तमूलैर्मृद॒ वस्वे॑स्ते॒गां दधि॑ष्ट्रभ्या॒थ् सर॑स्वत्या अग्रजि॒ह्वं जि॒ह्वाया॑ उत्सा॒दम॑वक्र॒न्देन॒ तालु॒ वाज॒ Ü हनु॑भ्याम॒प॑ आ॒स्येन॒ वृष॑ण॒मा॒ण्डाभ्या॑मादि॒त्या॑श्मनु॑भिः॒ पन्था॑नं श्रूभ्यां द्यावा॑पृथि॒वी वतो॑भ्यां वि॒द्युते॑ क॒नीन॑काभ्याएं शुक्लाय॒ स्वाहा॑ कृष्णाय॒ स्वाहा॒ पर्याण पक्ष्मा॑ण्यवर्या इक्षवोऽवार्याणि पक्ष्मा॑णि पार्यो इक्षवः ॥ १ ॥
3 मन्त्रार्थ- -- इस अध्याय के प्रथम नौ मन्त्रों से विभिन्न देवताओं को पशुओं के अंग अर्पित किये जाते हैं और घृत की आहूति दी जाती है । मन्त्रों के अर्थ इस प्रकार हैं- दाँतों से शाद नामक महाकाल को प्रसन्न करता हूँ । दन्तमूलों से अवका नामक महाकाली को, दन्तपीठ से अपरा प्रकृति मिट्टी को, दाढ़ों से परा प्रकृति तेगा को, अथवा हे प्रजापते! तुम्हारी वाणी को प्रसन्न करता हूँ । जिह्वाय से सरस्वती को, जिह्वा से प्रलयाग्नि के अधिष्ठाता उत्साद देवता को तालु से जल देवता अवक्रन्द को, हनुभाग से अन्नाधिष्ठात्री देवता को, मुख से जल देवता को, वृषणों से कामना के दाता देवता को श्मश्रु से आदित्यों को, दोनों भौंहों से देवयान मार्ग की अधिष्ठात्री देवता को पलकों से चावापृथिवी को, नेत्र को पुनलियों से विद्युत् देवता को प्रसन्न करता हूँ । सत्त्वगुणमय विष्णुदेव के निमित्त और तमोगुणमय रुद्रदेव के निमित्त श्रेष्ठ आहुति देता हूँ । नेत्रों के ऊपर की पलकों के देवता पार हैं, नीचे की पलकों के देवता अवार हैं ॥ १ ॥
' स्विष्टकृद्वनस्पत्यन्तरे शूल्य हुत्वा देवताऽश्वाङ्गेभ्यो जुहोत्यमुष्मै स्वाहेति प्रतिदेवत १ ९ शाद-प्रभृतित्वगन्तेभ्यः ' ( का ० श्र ० २०१८ ४ ), ' विमुखाच्च परेभ्यः ' ( का ० श्र ० २०१८ ५ ) । स्विष्टकृद्वनस्पत्योरन्तरे वनस्पतियागानन्तरं स्विष्टकृद्यागात् पूर्वं शूले संस्कृतं शूल्यं मांसं ' प्राजापत्योऽश्वः ' ( तै ० सं ० ३ | २ | ६ | ३ ) इति तित्तिरिवचनात् प्रजापतये हुत्वा अमुष्मै स्वाहेति प्रतिदेवतं शादादित्वगन्तेभ्यो देवताश्वाङ्गेभ्यो देवताभ्योऽ-श्वाङ्गेभ्यश्च घृतं जुहुयात्, अनादेशे घृतस्य उक्तत्वात् । तत्र शादं दद्भिरित्यादि पृथिवी त्वचेत्यन्तः संहिताभागो ब्राह्मणं न मन्त्राः । शादादयो देवताः, दन्तादीन्यङ्गानि । ततश्चतुर्गृहीतमाज्यं गृहीत्वा शादाय स्वाहा, दद्भयः स्वाहा, अवकाभ्यः स्वाहा, दन्तमूलेभ्यः स्वाहेत्यादि पृथिव्यै स्वाहा त्वचे स्वाहेत्यन्तं जुहुयादित्येकः पक्षः शाखान्तरोदितः । स्वपक्षे तु ' शादं दद्भिः ' इत्यादिमन्त्रेषु द्वितीयया विभक्त्या निर्दिष्टा: शादादयोऽश्वमेधाङ्ग-भूता देवताः । दद्भिरित्यादि तृतीयया विभक्त्या निर्दिष्टानि हवींषि । अत्र शादमित्यादि द्वितीयानिर्दिष्टान् देवविशेषान् दद्भिरित्यादि तृतीयानिदिष्टैर्हविभिः प्रीणामि स्वाहेत्यध्याहारेण वाक्यपूर्तिः । ततश्च शादं दद्भिः प्रीणामि स्वाहेत्यादय होममन्त्राः । तत्र देवता भोक्त्री द्वितीयया, अश्वाङ्गं भोग्यं च तृतीयया निर्दिश्यते । क्वचित् केवला देवतैव निर्दिश्यते, यथा शुक्लाय स्वाहा, कृष्णाय स्वाहेति । क्वचिद्विभक्त्यन्तरेणैव द्रव्यदेवतयोनिर्देशः, यथाग्नेः पक्षतिर्वायोर्निपक्षतिरिति । तथा च श्रुतिः ' शाद दद्भिरवकान् दन्तमूलैरित्याज्यमवदाना कृत्वा प्रत्याख्यायन् देवताभ्य आहुतीर्जुहोति या एव देवता अविभागास्ता भागधेयेन समर्धयति ' ( श ० १३ | ३ ४ | १ ) । शादनामकं शादनशीलं तदभिमानिदेवविशेषं दद्भिरश्वदन्तैः, प्रोणयामीति शेषः । तदर्थमवत्तमिदमाज्यं स्वाहुतमस्त्विति