वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 181–190

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 181–190

पृष्ठ 181

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 181 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४८ शुक्लयजुर्वेदसंहिता 1 अ ० २५ होमार्थमध्याहृतस्य स्वाहाशब्दस्यार्थः । आज्यमवदानीकृत्वा आज्यमेवाश्वाङ्गत्वेन परिकल्प्य प्रत्याख्याय अवदानमवदानं प्रति शादादिदेवता आख्यायाख्याय आज्याहुतीर्जुहोति । सङ्कल्पिताश्वाङ्गभवा घृताहुती: शादादिभ्यो ददाति । एवं कुर्वन्नपिभागाः, अपिः कल्पनार्थः, कल्पितभागास्ता देवता भागेन समर्धयति, प्रीणातीत्यर्थः । अथ कण्डिकार्थः -- दद्भिरश्वदन्तैः शादं देवं प्रीणयामि । दन्तभूलैरवकां देवतां प्रीणामि । मृदं शादा-वकयोरधस्तात् वर्तमाना घनीभूता या मृत् तां तदभिमानिदेवतां वर्वैर्दन्तस्याधस्ताद् ग्रन्थिरूपेण वर्तमान-विशेषैर्दन्तपीठाख्यैः प्रीणामि । ' वस्वं स्याद्दन्तपीठिका ' । शादादयोऽप्रसिद्धाः देवाः, आदित्यादयः प्रसिद्धाः । अश्वस्य दंष्ट्राभ्यां पूतदन्ताभ्यां तेगां देवतां प्रीणामि । तेगा नाम जलचराः प्राणिनः तदभिमानिनो देवानिति यावत् । सरस्वत्यै अग्रजिह्वम् । अत्र चतुर्थ्यां देवतोद्देशः ( देवतानामकीर्तनम् ) प्रथमया चाङ्गस्य । अतो विभक्तिव्यत्ययः कार्यः । जिह्वाया अग्रम्, अग्रजिह्वम् । ' राजदन्तादिषु परम् ' ( पा ० सू ० २२।३१ ) इति जिह्वाशब्दस्य परनिपातः, ' ङयापोः संज्ञाछन्दसोर्बहुलम् ' ( पा ० सू ० ६ | ३ | ६३ ) इति ह्रस्वे च रूपम् । जिह्वाग्रेग अग्रजिह्वेन सरस्वतीं प्रीणामि । जिह्वाया उत्सादम् अत्र षष्ठ्याश्वाङ्गोद्देशः, द्वितीयया च देवस्य । विभक्तिव्यत्ययः । जिह्वया उत्सादम् उत्सः कूपः, जलप्रस्रवणं वा तदत्तीति उत्सादः, तदभिमानिनं देवं प्रीणामि । अथवा उद् ऊर्ध्वं सादयति जनानित्युत्सादः तम् । यद्वा उत्सीदन्ति नश्यन्ति दोषा यस्मिस्तमुत्सादम्, अथवा चतुर्थ्या देवतोद्देशो जिह्वायै, उत्सादम् उत्सृजन्तं जिह्वामध्यम् उत्सादेन जिह्वामध्येन जिह्वां तदभिमानिनीं देवतां प्रीणामि । अवक्रन्देन तालु । तत्र देवे तृतीया, अङ्गे प्रथमा, व्यत्ययः । अव अवाचीनं क्रन्दति आह्वयतीत्य-वक्रन्दः । तालुनाऽवक्रन्दं देवं प्रीणामि । अथवाऽवक्रन्दो जिह्वामूलम् । तेन तालु तदभिमानिदेवतां प्रीणामि । यद्वा अवक्रन्दन्ति दुष्टा यस्मात्तम् । वाजम्, ' वाज इति वलनाम ' तदभिमानिदेवता हनुभ्याम्, दन्तपङ्क्तिर्यत्र समाप्यते ते हनू वक्त्रैकदेश, ताभ्यां प्रीणामि, अश्वसम्बन्धिभ्यां हनुभ्यामिति यावत् । अपोऽब्देवता आस्येन अश्वसम्बन्धिमुखेन प्रीणामि । वृषणं कामानां वर्षणशीलं देवम् आण्डाभ्यां वृषणाभ्यां प्रीणामि । आदित्यान् अदितिसुतान् देवान् श्मश्रुभिरश्वमुख केशैः प्रीणामि । पन्थानं मार्ग मार्गरक्षकं देवं भ्रूभ्याम् अश्वस्य ललाटगरोमपङ्क्तिभ्यां प्रीणामि । द्यावापृथिवी देवतेवर्तभ्याम्, वर्ताः पक्ष्मपङ्क्तिः, द्विवचने वर्तसौ, ताभ्यां प्रीणामि । अथवा गमनागमनाभ्यां द्यावापृथिवी सूर्यभूमी प्रीणामि । विद्युतं विद्युद्देवतां कनीनकाभ्यां नेत्रमध्यवर्तिकृष्णगोलाभ्यां प्रीणामि । शुक्लाय स्वाहा, कृष्णाय स्वाहा इति देवोद्देश एव न त्वङ्गम् । शुक्लाय कृष्णाय देवाय स्वाहा हुतमस्तु योभयत्र चतुर्थ्या अश्वाङ्गमेव निर्दिश्यते । प्राजापत्योऽश्व इति वचनाद् देवोऽध्याहर्तव्यः । शुक्लेन कृष्णेन चाश्वाङ्गेन प्रजापतिं प्रीणामि । एवं लोमभ्यः स्वाहा इत्यादावपि बोध्यम् । पार्याणि नयनस्योपरिभाग भवानि पक्ष्माणि अक्षिरोमाणि । अत्र तद्धितेन देवतोद्देशः । पार्याणि पारदेवत्यानि ततः पक्ष्मभिः पारं देवं प्रीणामि । वार्या इक्षवोऽवारेऽधोभागे वर्तमाना या इक्षव ईक्षणशक्तयः, इक्षवोऽवारदेवत्याः । तत इक्षुभिरवारं प्रीणामि । विपरीतं वा अवारदेवत्यानि पक्ष्माणि । इक्षवः पार्याः पारदेवत्याः । शं कल्याणम् आसमन्ताद् ददातीति शादं परब्रह्म । अवति सर्वमित्यवका परदेवता । औणादिको वुन् । तत्परोक्षमिदन्तया गच्छत्यवगच्छति जानातीति गा देवताविशेषः । पृषोदरादीनि यथोपदिष्टमिति रूपसिद्धिः । अध्यात्मपक्षे - अश्वस्तदङ्गानि तैः प्रीणनीया देवताच ब्रह्मरूपा एव तस्यैव सर्वात्मत्वात् । दयानन्दस्तु - हे ' जिज्ञासो, ते दद्भिः शादं शीयते छिनत्ति यस्मिंस्तं व्यवहारं दन्तमूलैर्व वदन्तपृ ठेवा-वकां रक्षिकां मृदं दंष्ट्राभ्यां सरस्वत्यै प्रशस्तविज्ञानवत्यै वाचे गां वाणीं जिह्वाया अग्रजिह्नम् अवक्रन्दे विकलता-रहितेनोत्सादम् ॐ वं सीदन्ति यस्मिस्तम्, तालु आस्यावयवम्, हनुभ्यां मुखैकदेशाभ्यां वाजमन्नम्, आस्येन आस्यन्दन्ति क्लेदीभवन्ति यस्मिंस्तेनापो जलानि, आण्डाभ्यां वीर्याधाराभ्यां वृषणं वर्षयितारम् श्मश्रुभिः

पृष्ठ 182

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 182 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १-२ ] वेदार्थ पारिजातभाष्यसहिता १४ ९ आदित्यान् मुख्यान् विदुषो भ्रूभ्यां पन्थानं वर्तोभ्यां गमनागमनाभ्यां द्यावापृथिवी सूर्यभूमी कनीनकाभ्यां कृष्णगोलकताराभ्यां विद्युतमहं बोधयामि त्वया शुक्राय स्वाहा ब्रह्मचर्यक्रियया कृष्णाय विद्याकर्षणाय स्वाहा सुशीलतायुक्तया क्रियया पार्याणि पूरयितुं योग्यानि पक्ष्माणि परिग्रहीतुं योग्यानि कर्माणि नेत्रोर्ध्वलोमानि वार्याणि अवारे भवा इक्षवोऽवार्याण्यवारेषु भवानि पक्ष्माणि परिग्रहणानि लोमानि वा, पार्याः पारितुं पालयितुं योग्या इक्षवो गुडादिनिमित्ताः संग्राह्याः ' इति, तदपि साहसमात्रम्, निर्मुलत्वात् । मूलेऽवबोधयाम पदमपि नास्ति । कथञ्चित् तदध्याहारेऽपि दन्तैः शादनव्यवहारं बोधयामीति प्रथमवाक्यस्यार्थः स्यात्, तदपि निरर्थकमेव, पश्वादिभिरपि जन्मनैव दन्तैश्छेदनव्यवहारस्य ज्ञातत्वात् । दन्तमूलैर्वस्वैः दन्तपृष्ठैः, अवकां रक्षक मृत्तिका बोधयामीत्यपि निरर्थकमेव, दन्तानां मूलैः पृष्ठेश्च रक्षिकाया मृत्तिकायाः कथमवबोधन-मित्यनुक्तेः । तथैव दंष्ट्राभ्यां वाचे वाणीं बोधयामीत्यस्य को वार्थ:? जिह्वाया अग्रजिह्वबोधनमपि कथमिति वक्तव्यम्? अवक्रन्दशब्दस्य विकलतारहितव्यवहारोऽपि नार्थः, निर्मूलत्वात् । कथञ्चित् तदभ्युपगमेऽपि कथं तेन तालुबोधनम्? आस्येन जलबोधनमित्यादिकमपि बालभाषितम्, तद्बोधने तदहेतुत्वात्, लोके सिद्धहेत्वन्तरस्य च सत्त्वात् । अण्डाभ्यां वृषणबोधनं भवति किम्?, तदन्तराणि तज्ज्ञानस्य सिद्धत्वात् । श्मश्रुभिर्विदुषां बोधन-मभ्युपेयते चेदहो धाष्टर्यम्, अविदुषामपि श्मश्रुसत्त्वात् । भ्रूभ्यां मार्गबोधनम्, गमनागमनाभ्यां सूर्यभूमि-बोधनमित्यादिकमपि निर्मूलम् । शुक्लशब्दस्य वीर्यार्थता कृष्णशब्दस्य कर्षणार्थतापि निर्मूलैव । न च स्वाहा-पदस्य ब्रह्मचर्यक्रियार्थता न वा सुन्दरशीलयुक्तक्रियार्थता, निर्मूलत्वात् । अन्यदपि सर्वमस्पष्टमनुपपन्नं चेत्यलं दोषगवेषणेन । सर्वोऽप्यस्यार्थः श्रुतिसूत्रविरुद्ध त्वादुपेक्षणीय एव ॥ १ ॥

वात॑ प्रा॒णन्पानेन॒ नासिके उपया॒ममध॑रे॒णोष्ठ॑न॒ सव॒त्त॑रेण प्राशेनान्त॑रमनूकाशेन॒ बाह्यं निवे॒ष्य॑ मू॒र्ध्वा स्त॑नय॒त्॑ नव॒धना॒शनि॑ म॒स्तिष्के॑ण विद्युत॑ क॒नीन॑काभ्यां कर्णाभ्या श्रोत्रं श्रोत्रयां कर्णौ तेद॒नम॑धरकण्ठेनापः शुष्ककण्ठेन॑ चि॒त्तं मन्या॑भि॒रदि॑तिधि॑ शी॒र्ष्णा निर्ऋत॒ निर्जर्जल्येन शोर्ष्णा स॑क्रोशैः प्रा॒णान् रे॒ष्माण॑ स्व॒येन॑ ॥ २ ॥

मन्त्रार्थ - प्राण से वायु को, अपान से विराट् पुरुष की नासिका को नीचे के ओठ से उपयाम देवता को ऊपर के ओठ से सत् देवता को ऊपर की शारीरिक कान्ति से आन्तर देवता को नीचे के शरीर की कान्ति से बाह्य देवता को, मस्तक से प्रवेशयोग्य व्यापक परमात्मा को सिर की अस्थि में लगे मज्जा भाग से स्तनयित्नु को, शिर में स्थित जर्जर मांस भाग से अशनि देवता को आँखों की पुतलियों से ब्रह्मशक्ति विद्युत् को, कानों से समष्टि श्रोत्र देवता को, श्रोत्रेन्द्रियों से समष्टि कर्ण देवता को, कण्ठ के अधोभाग से तेदनी देवता को, शुष्क कण्ठ से जल देवता को ग्रीवा की पिछली नाड़ियों से समष्टि चित्त को, शिर से अदिति को, अति जर्जरित शिरो भाग से मृत्यु भार्या को शब्द युक्त अंगों से प्राणों को और शिखा रूप ऊँचे अंग से अनाहत शब्दमयी ब्रह्मज्योति को तृप्त करता हूँ ॥ २ ॥

अश्वमेधीयस्य हयस्य प्राणेन प्राणवायुना वातं देवं प्रीणामि । तस्यापानेनापान वायुना नासिके नासि -काभिमानिदेवते प्रीणामि । उपयाममुपयामसाधनं देवताविशेषम्, अधरेणौष्ठेन अधोभागवर्तिना ओष्ठेन प्रीणामि । सत् सत्संज्ञं सत्ताभिमानिदेवं वा, उत्तरेण उपरितनेन ओष्ठेन प्रीणामि । प्रकाशेनोपरितनदेहकान्त्या अन्तरं देवम अश्वदेहान्तर्वर्तमान मन्तरात्मानं वा प्रीणामि । अनुकाशेन अधस्तनदेहकान्त्या ' उपसर्गस्य

पृष्ठ 183

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 183 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५० शुक्लयजुर्वेदसंहिता [ अ ० २५ घञ्यमनुष्ये बहुलम् ' ( पा ० सू ० ६।३।१२२ ) इत्यनोर्दीर्घः । बाह्यम् अश्वस्य बाह्याङ्गसम्बन्धिनीं देवतां, प्रीणामि । मूर्ध्ना मस्तकेन निवेष्यं निषेकस्य पालकं देवं प्रीणामि । निर्बाधेन निश्चितं बध्यते निर्बाधः शिरोऽस्थिमध्यसंलग्नो मज्जाभागः शिरःकपालं वा तेन स्तनयित्नुं मेघगर्जनाभिमानिदेवं प्रीणामि । मस्तिष्केण मस्यत इति मस्ति, तन्मस्कत इति मस्तिष्कम् । पृषोदरादिः । शिरोमध्यस्थजर्जरो मांसभागः । तेन शिरःकपालवर्तिना मांसेन अशनि देवं प्रीणामि । ' मस्तिष्कं गोर्दम् ' ( अ ० को ० २२६२६५ ), मस्तक-मिष्यति गच्छतीति मस्तिष्कम्, ' इष् गतौ ', मस्तकमज्जेति क्षीरस्वामी । कनीनकाभ्यां विद्युतं प्रीणामीति देवौ । कर्णाभ्यां कर्णशष्कुलीभ्यां श्रोत्रं श्रवणेन्द्रियाभिमानिदेवं प्रीणामि । श्रोत्राभ्यां श्रोत्रेन्द्रियाभ्यां कर्णौ प्रीणामि । अधरकण्ठेन कण्ठस्याधरोऽधोभागोऽधरकण्ठः तेन तेदनीं तीक्ष्णां देवतां प्रीणामि ॥ शुष्ककण्ठेन मन्याभिः, शुष्को रसविधुरः कण्ठः शुष्ककण्ठः, यद्वा कण्ठस्य यः शुष्को निर्मासप्रदेशस्तेन अपो देवताः प्रीणामि प्रीणामि | मन्यत आभिरिति मन्याः, ग्रीवापश्वान्नाड्यः, यद्वा मनोवृत्तयः, ताभिश्चित्तं चित्ताभिमानिदेवतां ' पश्चाद्ग्रीवा शिरा मन्या ' ( अ ० को ० २२६ | ६५ ) इत्यमरः । शीर्णा शिरसा ' शीर्ष छन्दसि ' ( पा ० सू ० ६ | १ | ६० ) इति शीर्षन्नादेशः, अदितिम् अखण्डनीयां देवतां प्रीणामि । निर्जर्जल्येन नितरां जर्जरीभूतेन शिरोभागेन, जर्जल्याः केसरा इति सायणाचार्यः, तद्रहितेन शीर्ष्णा शिरोभागेन निर्ऋति नियता ऋतिघृणा जुगुप्सा यस्यां सा निर्ऋतिः पापदेवता, यद्वा निर्गता ऋतेः शुभादिति निर्ऋतिरलक्ष्मीर्देवता, ' स्यादलक्ष्मीस्तु निर्ऋतिः ’ ( अ ० को ० १ १ ९ १२ ) इत्यमरकोषात् तां निर्ऋति देवतां प्रीणामि । संक्रोशः सम्यक् क्रोशन्ति शब्दायन्ते यानि तानि संक्रोशानि गच्छतोऽश्वस्य यान्यङ्गानि शब्दं कुर्वन्ति, तैरङ्गैः प्राणान् प्राणदेवताः प्रीणामि । यद्वा सम्यक् क्रुश्यन्त इति संक्रोशा हेपाशब्दाः तैः प्राणान् देवान् प्रीणामि । स्तुपेन उच्छ्रितेन शिखाभूतेनाङ्गेन, समुत्सृजेन शिरोभागेनेति सायणः, रेष्माणं रेष्मणशीलां देवतां प्रीणामि । ' स्तुप उच्छ्राये ' इति धातोः रूपम् । छान्दसो ह्रस्वः । एष क्षीरस्वाम्यादिसम्मतः पाठः । अध्यात्मपक्षे - वातं वाताधिष्ठातारम् नासिके नासिकाधिष्ठातारी, उपयामम् उपयामग्रहाधिष्ठातारम्, सदिति सत्याधिष्ठातारम्, अन्तरं सर्वान्तरमन्तर्यामिणम्, बाह्यं बाह्यप्रपञ्चाधिष्ठातारम्, निवेष्यं नितरां व्यापकम्, स्तनयित्न्वधिष्ठातारम्, अशन्यधिष्ठातारम्, विद्युतं रेष्माणं प्रलयहेतुं देवं तैस्तैरश्वमेधीयाश्वाङ्गः संवत्सरकाला-त्मकप्रजापत्यवयवभिन्नं तर्पयित्वा तदात्मको भूत्वा ब्रह्मात्मभावं प्राप्नोतीति शेषः । ब्रह्मार्पणं ब्रह्म हविर्ब्रह्म ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ' ( भ ० गी ० ४।२४ ) इति गीतोक्तेः । दयानन्दस्तु - ' हे जिज्ञासो, उपदेशग्रहणेन त्वं प्राणेनापानेन वातं वायुं नासिके उपयाममुपगतनियम-मधरेणौष्ठेन उत्तरेण उपरिस्थेन प्रकाशेन सदन्तरमाभ्यन्तरमनुकाशेन अनुप्रकाशेन बाह्यं मूर्ध्ना निवेष्यं निश्चयेन व्याप्तुं योग्यं निर्बाधेन नितरां बाधेन हेतुना सह स्तनयित्नुं शब्दनिमित्तां विद्युतम् अशनिम् व्यापिकां घोषयुक्तां मस्तिष्केण विद्युतं कनीनकाभ्यां प्रदीप्ताभ्यां कमनीयाभ्यां कर्णाभ्यां श्रोत्रं शृणोति येन तत् श्रोत्राभ्यां च श्रोत्रं तेदनी श्रवणक्रियाम् अधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिर्विज्ञानक्रियाभिरदितिमनाशिका क्रियां शीर्णा शिरसा निर्ऋत भूमि निर्जर्जयेन शीर्णा नितरां जर्जरीभूतेन शीर्णा संक्रोशः सम्यगाह्वानैः प्राणान् प्राप्नुहि । स्तूपेन हिंसनेन रेष्मागमविद्यादिरोगं हिन्धि ' इति, तदपि यत्किञ्चित् तादृशकार्यकारणभावस्यासिद्धत्वात् । वायुविशेषस्यैव प्राणत्वमिति प्राणेन वातप्राप्तिरात्माश्रयदोषदुष्टा । अपानेन नासिकाप्राप्तिरपि चिन्त्यैव । न चाधरेणौष्ठेन प्राप्तनियमप्राप्तिः सम्भवति न च निर्वाधेन स्तनयित्नु प्राप्तिरपि । मस्तिष्केण विद्युत्प्राप्तिरपि तथैव । तेदनीशब्दस्य श्रवणक्रियार्थतापि निर्मूलैव । प्राप्नुहि, हिन्धीत्याद्यध्याहारोऽपि निर्मूल एव ॥ २ ॥

पृष्ठ 184

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 184 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३-४ ] वेदार्थं पारिजातभाष्यसहिता S १५१ म॒शान् केशैरिन्द्र॒ स्वप॑सा॒ वने॑न॒ बृह॒स्पति॑ शकुनिस॒देन॑ कूर्माञ्छ॒प॑रा॒क्रमा॑णं स्थूराभ्या॑म॒क्षला॑भिः क॒पिज्ज॑लान् ज॒वं जङ्घभ्य॒मध्वा॑नं ब॒हुभ्या॒ जाम्ब॑ल॒नार॑ण्यम॒ग्निम॑ति॒रुग्भ्यां॑ पूषणं दोर्भ्याम॒श्विनावं सभ्या रुद्र रोरोभ्याम् ॥ ३ ॥

मन्त्रार्थ - केशों से मशक या गगनस्थित करने वाले जीवात्मा से बृहस्पति को, खुरों से कूर्म देवताओं को, नाड़ियों से कपिंजलों को, जंघाओं से वेग के देवता को, भुजाओं से भाग से वन देवताओं को, अतिसुन्दर जानुओं से अग्नि देवता को अश्विनीकुमारों को और कन्धों की गाँठों से रुद्र देवता को तृप्त करता हूँ ॥ ३ ॥

मेघों को, शुभ कर्मों के कर्ता स्कन्ध से इन्द्र को, पक्षी समान गमन गुल्फों से आक्रमण देवता को, गुल्फ के नीचे की मागं के देवता को जंबीर फलाकार जानु के मध्य दोनों बाहुओं से पूषा देवता को, दोनों कन्धों से केशैरश्वस्य स्कन्धरोमभिर्मशकान् तदभिमानिदेवान् प्रीणामि । स्वपसा वहेन अप इति कर्मनाम, सु शोभनम् अपः कर्म ( पर्याणधारण - नरवाहनादिकं ) यस्य स स्वपा:, तेन । वहतीति वहः स्कन्धः तेन इन्द्रं देवं प्रीणामि । शकुनिसादेन सादो गमनं वेगवत् कूर्दनम्, शकुनिवत्सादः शकुनिसादस्तेन बृहस्पति देवं प्रीणामि । शर्फः खुरैः कूर्मान् देवान् प्रीणामि । स्थूराभ्यां स्थूलाभ्याम्, रलयोरभेदः, गुल्फाभ्यामिति शेषः, आक्रमणं देवं प्रीणामि । ऋक्षलाभिर्गुल्फाधः स्थाभिर्नाडीभिः कपिञ्जलान् चित्रपक्षाभिमानिनो देवान् प्रीणामि । जङ्घाभ्यां गुल्फजानुनोर्मध्यभागाभ्यां जवं देवं प्रीणामि । बाहुभ्यामग्रपादयोर्जानूर्ध्वभागाभ्याम् अध्वानं देवं प्रीणामि । जाम्बीलेन जम्बीरस्य तरोः फलं जाम्बीरम्, तदेव जाम्बीलम्, रलयोरभेदात्, लक्षणया तदाकारो जानुमध्य-भागो जाम्बील उच्यते, तेनारण्यं देवं प्रीणामि । अतिरुग्भ्यां अतिरोचेते यौ तावतिरुचौ जानुदेशौ, ताभ्यामग्नि देवं प्रीणामि । दोर्भ्याम् अग्रपादयोर्जान्विधो दोषौ करी, ताभ्यां पूषणं देवं प्रीणामि । अंसाभ्यां स्कन्धाभ्या-मश्विनौ देवौ प्रीणामि । रोरावंसग्रन्थी, ताभ्यां रुद्रं देवं प्रीणामि । अध्यात्मपक्षे – सर्वे देवाः परमात्मांशत्वात् तद्रूपा एव । अश्वाङ्गानि च प्रजापत्यवयवत्वात् तद्रूपाण्येव । मशकास्तदधिष्ठातारो देवाः, कुर्मास्तदधिष्ठातारो देवाः । आक्रमणाधिष्ठातृदेव एवाक्रमणपदवाच्यो देवः । जवाध्वारण्यपदान्यपि तत्तदधिष्ठातृदेवतापराण्येव । अन्ये च देवाः प्रसिद्धा एव । दयानन्दस्तु - ' मनुष्यैर्बहुभिरुपायैरुत्तमा गुणाः प्रापणीयाः, विघ्नाश्व निवारणीयाः ' इति, तदपि यत्किञ्चित्, मन्त्राक्षरैस्तदसिद्धेः । न च केशैरिन्द्रप्राप्तिर्दृश्यते । न च शकुनिसादेन कुर्मान् मशकां कश्चिदाप्नोति । तत्प्राप्तावपि न किञ्चित् फलम् । न च मनुष्येषु खुराः सम्भवन्ति । तस्मात् श्रुतिसूत्रानुसारि सायणमहीधरादि-सम्मताश्वमेधीयादिसम्बन्धिप्राणादिपरमेव व्याख्यानं युक्तम् ॥ ३ ॥

अ॒ग्नेः पश॒तिब॒योनप॑क्षति॒रिन्द्र॑स्य तृतीया॒ सोम॑स्य चतुर्थ्यदित्यै पञ्च॒मीन्द्रा॒ण्य॑ ष॒ष्टी म॒रुता॑ सप्त॒मो बृह॒स्पत॑रष्टा॒म्य॒र्य॒म्णो न॑व॒मो धातुदे॑श॒मन्द्रस्यैकाद॒शी वरु॑णस्य द्वादशी य॒मस्य॑ त्रयोद॒शी ॥ ४ ॥

मन्त्रार्थ दक्षिण पार्श्व की अस्थि से अग्नि देवता को, तीसरी से इन्द्र को, चौथी से सोम को, पाँचवीं से अदिति को, आठवीं से बृहस्पति को, नवीं से अर्यमा को, दसवीं से धाता को, तेरहवीं से यम देवता को तृप्त करता हूँ ॥ ४ ॥

दक्षिण पार्श्व की दूसरी अस्थि से वायु देवता को, छठी से इन्द्राणी को, सातवीं से मरु देवताओं को, ग्यारहवीं से इन्द्र को, बारहवीं से वरुण को और

पृष्ठ 185

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 185 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५२ शुक्ल यजुर्वेदसंहिता [ अ ० २५ अत्र कण्डिकायां पष्ट्या देवतोद्बोधनम् प्रथमया चाङ्गस्य । ततोऽस्त्वित्यध्याहारः । अग्नेर्देवस्य पक्षतिरस्तु । ' पक्षो मासार्धके पार्श्वे ग्रहे साध्यविरोधयोः । केशादेः परतो वृन्दे बले सखिसहाययोः ॥ चुल्लीरन्ध्रे पतत्रे च वाजिकुञ्जरपार्श्वयोः । ' ( मेदिनी ० १६६ । १८-१९ ) इत्यभिधानादत्र पक्षशब्दः पार्श्ववाची । पक्षस्य मूलं पक्षतिः । ' पक्षात्ति: ' ( पा ० सू ० ५।२।२५ ) इति मूलार्थे तिप्रत्ययः । ततः पक्षस्य पार्श्वस्य मूलभूतान्यस्थीनि वक्रिशब्द-वाच्यानि पक्षतिशब्देनोच्यन्ते । तानि च प्रतिपाखं त्रयोदश भवन्ति, षड्वि शतिरस्य वक्रयः ' ( शां ० ब्रा ० १० ४ ) इति श्रुतेः । तेषां क्रमेण देवतासम्बन्धं वक्ति - तत्रादौ दक्षिणपार्श्वस्थिनां देवता आह - अग्नेः पक्षति -रिति । पक्षतिः प्रथमं दक्षिणपार्श्वास्थि अग्नेरस्तु । विभक्तिव्यत्ययो वा । अश्वमेधीयाश्वस्य पक्षत्याग्नि देवं प्रीणामीति । वायोर्निपक्षतिः । ततो निम्ना पक्षतिनिपक्षतिः, द्वितीयं दक्षिणपार्श्वास्थि वायोर्देवस्यास्तु | द्वितीय दक्षिणपार्श्वस्थता वायुं देवं प्रीणामीति वा । एवमग्रेऽपि व्याख्येयम् । तृतीया पक्षतिरिन्द्रस्य चतुर्थी पक्षतिः सोमस्य पञ्चमी पक्षतिरदित्यं अदितेः । पव्यर्थे चतुर्थी । इन्द्राण्यै इन्द्राण्याः षष्ठी पक्षतिः । मरुतां सप्तमी पक्षतिः । बृहस्पतेरष्टमी पक्षतिः । अर्यम्णो देवस्य नवमी पक्षतिः । धातुर्देवस्य दशमी पक्षतिः । इन्द्रस्य देवस्य एकादशी पक्षतिः । वरुणस्य देवस्य द्वादशी पक्षतिः । यमस्य देवस्य त्रयोदशी पक्षतिर्दक्षिणपार्श्वास्थि अस्तु । त्रयोदश्या पक्षत्या यमं देवं प्रीणामीति वा । अध्यात्मपक्षे - तानि तानि मेध्याश्वाङ्गानि ते ते देवाश्च ब्रह्मात्मकान्येव तद्विवर्तत्वात् । दयानन्दस्तु – ' हे मनुष्याः, युष्माभिरग्नेः पक्षतिः, वायोर्निपक्षतिः, इन्द्रस्य तृतीया, सोमस्य चतुर्थी, अदितेः पञ्चमी, इन्द्राण्याः षष्ठी, मरुतां सप्तमी, बृहस्पतेरष्टमी, अर्यम्णो नवमी, धातुर्दशमीन्द्रस्यैकादशी, वरुणस्य द्वादशी, यमस्य त्रयोदशी क्रिया कर्तव्या ' इति, तदपि सर्वथा निरर्थकम् मूले क्रियापदाभावात् । न च पक्षतिपदस्यैव क्रियार्थतेति वाच्यम्, परिग्रहस्य मूलमिति त्वयैवार्थापनात् षड्विंशतिरस्य वक्य इति पूर्वोक्त-शाङ्खायनब्राह्मणविरोधाच्च ॥ ४ ॥

इ॒न्द्रा॒ग्न्योः प॑श॒तिः सर॑स्वत्यै॒ निष॑क्षति॑मि॒त्रस्य॑ तृ॒तीया॒ऽपां च॑तुर्थी निॠत्यै पञ्चम्यग्नीषो-म॑योः षष्ठी स॒र्पाणा॑ सप्त॒मो विष्णोरथ॒मी पुष्णो न॑व॒मी त्वष्टृद॑श॒मीन्द्रेस्य॑काद॒शी वरु॑णस्य द्वादशी य॒भ्य॑ त्रयोदशी द्यावा॑पृथि॒व्याद॑क्षिणं पाश्वं॑ विश्वे॑षां दे॒वाना॒मुत्त॑रम् ॥ ५ ॥

मन्त्रार्थ -- वाम पार्श्व की पहली अस्थि से इन्द्राग्नी देवताओं को, देवता को, चौथी से जल देवताओं को, पाँचवीं से निर्ऋति देवता को छठी से आठवीं से विष्णु को, नवीं से पूषा को, दसवीं से त्वष्टा को, यम देवता को तृप्त करता हूँ । दक्षिण पार्श्व द्यावापृथिवी के किये जाते हैं ॥ ५ ॥

दूसरी से सरस्वती को, तीसरी से मित्र अग्नि और सोम को, सातवीं से सर्पों को, वरुण को और तेरहवीं से देवताओं के निमित्त अर्पित ग्यारहवीं से इन्द्र को, बारहवीं से निमित्त और वाम पार्श्व सकल अथ वामपार्श्वस्थिनां देवानाह – इन्द्राग्न्योरिन्द्राग्निदेवयोः पक्षतिः प्रथममुपरिस्थं वामपार्श्वोस्थि अस्तु । सरस्वत्यै सरस्वत्याः, षष्ठ्यर्थे चतुर्थी, निपक्षतिस्ततो निम्ना द्वितीया पक्षतिः । मित्रस्य देवस्य तृतीया षष्ठी पक्षतिः । अपां देवतानां चतुर्थी पक्षतिः । निर्ऋत्यै निर्ऋतेर्देवस्य पञ्चमी पक्षतिः । अग्नीषोमयोर्देवयोः पक्षतिः । सर्पाणां देवानां सप्तमी पक्षतिः । विष्णोर्देवस्य अष्टमी पक्षतिः । पूष्णो देवस्य नवमी पक्षतिः । त्वष्टुर्देवस्य दशमी पक्षतिः । इन्द्रस्य देवस्य एकादशी पक्षतिः । वरुणस्य देवस्य द्वादशी पक्षतिः । यम्यै यमस्येयं

पृष्ठ 186

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 186 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५–६ ] वेदार्थ पारिजातभाष्यसहिता १५३ मी, तस्यै प्रथमार्थे चतुर्थी, यमसम्बन्धिनीति यावत् । त्रयोदशी पक्षतिः अथ समस्तयोः पार्श्वयोर्देवानाह-द्यावापृथिव्योर्देवयोर्दक्षिणं पार्श्वम्, अस्त्विति शेषः । विश्वेषां देवानामुत्तरं वामं पार्श्वमस्त्विति शेषः । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । -दयानन्दस्तु – ' हे मनुष्याः, यूयमिन्द्राग्न्योः पक्षतिः, यम्यै त्रयोदशी क्रिया, द्यावापृथिव्योदक्षिणं पार्श्वम्, विश्वेषां देवानामुत्तरं पाश्वं विजानीत ' इति, तदपि निरर्थकम् पौर्वापर्यानपेक्षणात्, तासां तासां क्रियाणामति-रूपणाच्च । दक्षिणं पार्श्वमुत्तरं च पाश्वं कस्य? ते च कथं द्यावापृथिव्योर्विश्वेषां देवानामित्यनुक्तेः । सर्वथापि श्रुतिसूत्रविरोधादुपेक्षणीय एवायमर्थः ॥ ५ ॥

म॒रुतो स्कन्धा विश्वे॑षां दे॒वानां॑ प्रथ॒मा कोक्सा रु॒द्राणां द्वतीया॑दि॒त्यानां तृतीय वा॒यः पु॒च्छ॑म॒ग्नीषोम॑यो॒र्भास॑द॒ क्रुञ्च॒ श्रोणि॑िभ्या॒मिन्द्राबृह॒स्पती॑ ऊ॒रुभ्यां॑ मि॒त्रावरु॑णाव॒ल्गाभ्यां॑ -मा॒क्रम॑ण॒धि॑ स्थूराभ्य॒ बल॑ कु॒ष्टुभ्याम् ॥ ६ ॥

मन्त्रार्थ - कन्धे मरुत् देवताओं के निमित्त, पीठ पर की पहली अस्थि विश्वेदेव देवताओं के लिये, दूसरी रुद्रों के लिये और तीसरी आदित्यों के लिये अर्पित है । पुच्छ वायु को, दोनों नितम्ब अग्नीषोम देवताओं को, कटिप्रदेश कुंच देवताओं को, ऊरु इन्द्र और बृहस्पति को जंघाएँ मित्रावरुण को स्थूल नितम्बों के अघोभाग आक्रमण देवताओं को और नितम्बों के दोनों आवर्ती को बल देवताओं को समर्पित कर प्रसन्न किया जाता है ॥ ६ ॥

अथाङ्गान्तराणां देवता आह- मरुतां मरुत्संज्ञकान् देवान् स्कन्धाः स्कन्धः स्कन्धप्रदेशः प्रीणामि । विभक्ति -व्यत्ययः । अश्वपुच्छोपरि तिस्रोऽस्थिपङ्क्तयः सन्ति, तासां देवता आह - विश्वेषां देवानां विश्वान् देवान् प्रथमा कीकसा प्रथत इति प्रथमम् आद्यम्, ' की ' इति कसति र्ध्वानं कुर्वच्चलतीति कीकसम् अस्थि, ' कीकसं कुल्यमस्थि च ' ( अ ० को ० २२६ ६८ ), प्रथमानि कीकसानि पुच्छोपरिस्थाद्यास्थिपङ्क्तिः, तथा चार्थः– प्रथमकीकसैर्विश्वान् देवान् प्रीणामि । अथवा प्रथमा पुच्छास्थिपङक्तिर्विश्वेषां देवानामस्तु | रुद्राणां द्वितीयास्थि-पङ्क्तिः, द्वितीयै रुद्रान् प्रीणामि । आदित्यानां तृतीया तृतीयानि कीकसानि तृतीयः कीकसैरादित्यान् प्रीणामि । वायोः पुच्छम्, पुच्छेन वायुं प्रीणामि । अग्नीषोमयोर्भासदौ भासेते तौ भासदौ, नितम्बौ पश्चिमसक्थ्नोऽवयवा-विति सायणः । भासद्भयामग्नीषोमो प्रीणामि । एतदन्तं षष्ठ्यन्तेन देवतापदेन प्रथमान्तस्य द्रव्यपदस्य सम्बन्धः प्रतिपादितः । अथ पूर्ववद् द्वितीयया विभक्त्या देवता निर्दिश्य तृतीयया द्रव्यसम्बन्धः प्रतिपाद्यते । क्रुञ्चौ पक्षिविशेषौ तदभिमानिनौ देवौ श्रोणिभ्यां दक्षवामाभ्यां कटिप्रदेशाभ्यां प्रीणामि । ' कटिः श्रोणिः ककुद्मती ' ( अ ० को ० २६ | ७४ ) इत्यमरः । इन्द्राबृहस्पती देवौ ऊरुभ्यां सक्थिभ्यां प्रीणामि । ' सक्थि क्लीबे पुमानूरू: ' ( अ ० को ० २।६।७३ ) इति कोषः । मित्रावरुणौ अल्गाभ्याम् अलमत्यर्थं गच्छत ऊरुभ्यां संयोगं प्राप्नुत इत्यगो वक्षणौ ऊरुसन्धी, ताभ्यां प्रीणामि । आक्रमणं स्थूराभ्यां स्थूलाभ्यां स्फिग्भ्यां प्रीणामीति महीधरः । खुरस्योपरि यौ स्थूलावयवो ताभ्यामिति सायणः । बलं बलाभिमानिनं देवं कुष्ठाभ्याम्, कुष्येते तो कुष्ठौ नितम्बस्थौ कृपको आवतौ ककुन्दरशब्दवाच्यौ, ताभ्यां प्रीणामि । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । २०

पृष्ठ 187

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 187 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५४ शुक्लयजुर्वेदसंहिता [ अ ० २५ दयानन्दस्तु – ' हे मनुष्याः, युष्माभिर्मरुतां स्कन्धा विश्वेषां देवानां प्रथमा कीकसा भृशं शासनानि रुद्राणां द्वितीया ताडनक्रिया आदित्यानां न्यायाधीशानां तृतीया न्यायक्रिया वायोः पुच्छम् अग्नीषोमयोर्भासदौ यो प्रकाशं दधातां तौ क्रुञ्चौ श्रोणिभ्यामिन्द्राबृहस्पती ऊरुभ्यां मित्रावरुणौ अल्गाभ्याम् आक्रमणं कुष्ठाभ्यां स्थूराभ्यां बलं च निष्पादनीयम् ' इति, तदपि निरर्थकमेव असम्बद्धत्वात् श्रोणिभ्यामिन्द्र बृहस्पत्योर्निर्माणस्य सामाजिकैरपि कर्तुमशक्यत्वात् ॥ ६ ॥

पू॒षणं वन॒ष्ठुना॑न्ध॒होन् स्थूल॑ग॒दया॑ स॒र्पान् वृष॑णम॒ण्डाभ्यो॒ वाज॑न॒ शेर्तेन प्र॒जा रेत॑सा॒ कश्मञ्छेक पण्डेः ॥ ७ ॥

A गुर्वाभिव॒हुतः॑ आ॒न्त्रैर॒पो व॒स्तिना॒ • वार्षान् पि॒त्तेन॑ प्रद॒रान् पा॒युना॑ घृत से पूषा देवता को स्थूल गुदा से अन्धे सर्पों को, गुदा के अन्य भागों से जल देवता को, वृषणों से कामनावर्षी वृषण देवता को, मेढ़ से पायु से प्रदर को और लीद के पिण्डों से कूक्ष्मों को प्रसन्न मन्त्रार्थ --- बड़ी आंत के स्थानीभूत सर्पों को, छोटी आँतों से विहृत देवता को बस्ति से वाजी को, वीर्यं से प्रजा को, पित्त से चाष को, करता हूँ ॥ ७ ॥

पूषणं देवं वनिष्ठुना, ' वन सम्भक्ती ' वनति सम्भजतीति वनिष्ठुः स्थूलान्त्रम् तेन प्रीणामि । अन्धाहीन् अन्धाश्च तेऽहयश्च अन्धाहयस्तान् तदभिमानिनो देवान् स्थूलगुदया स्थूला चासौ गुदा चेति स्थूलगुदा, तया गुदस्य स्थूलभागेन प्रीणामि । ' गुदं त्वपानं पायुर्ना ' ( अ ० को ० २।६।७३ ) इति गुदशब्दस्य यद्यपि क्लीबता, तथापि गुदेति स्त्रीत्वं छान्दसम् । सर्पान् देवान् गुदाभिरश्वस्य स्थूलगुदातिरिक्तैर्गुदभागः प्रीणामि । विहृतो विहरन्तीति विहृतो देवविशेषास्तान् आन्त्रैः, अमत्यनेनेत्यन्त्रम्, ' सर्वधातुभ्यः ष्ट्रन् ' ( उ ० ४।१५ ९ ) इति रूपसिद्धिः । ‘ अम् गत्यादिषु, गतौ शब्दे सम्भक्तौ च ' अमति भजत्यनेनान्नमित्यन्त्रम्, अन्त्रे भवा आन्त्रा अन्त्र-सम्बन्धिनो मांसभागाः, तैः प्रीणामि । अपोऽब्देवता वस्तिना वसति मूत्रमत्रेति वस्तिर्मूत्राशयः, ' वस्तिर्नाभेरधो द्वयोः ' ( अ ० को ० २।६।७३ ) इति कोषात् । तेन नाभेरधो वर्तमानेनाश्वस्य मूत्रपुटेन प्रीणामि । अश्वमेधीयस्या-श्वस्य प्रजापतिरूपत्वात् तदङ्गान्यपि दिव्यान्येव । वृषणं सेचनसमर्थं देवम् आण्डाभ्याम् अण्डौ लिङ्गोभयपार्श्वस्थौ मांसपिण्डौ, ' मुष्कोऽण्डकोशो वृषण: ' ( अ ० को ० २।६।७६ ) इति कोषात् । अण्डावेव आण्डौ, ताभ्यां प्रीणामि । वाजिनं वेगवन्तं देवं शेपेन लिङ्गेन प्रीणामि । शेते रेतःपात इति शेषः । ' वृङ्गीभ्यां रूपस्वाङ्गयोः पुट् च ' ( उ ० ४।१०२ ) इति रूपसिद्धिः । अयमदन्तः, सान्तोऽपि ' शेपपुच्छलाङ गूलेषु शुन: ' ( पा ० सू ० ६ । ३ । २१, वा ० १ ) इति वार्त्तिकादिति भावः । प्रजां प्रजाभिमानिदेवतां रेतसा वीर्येण, रिणातीति स्रवतीति रेतः ' सुरीभ्यां तुट् च ' ( उ ० ४। २०३ ) इति रूपसिद्धिः प्रीणामि, ' शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च ' ( अ ० को ० २२६६२ ) इति कोषः । चाषान् तदभिमानिदेवान् पित्तेन, अपि दीयते पाल्यत इति पित्तम्, ' देङ् पालने ' इत्यस्यात् क्तः । ‘ वष्टि भागुरिः ' इत्यकारलोपः । ' पित्तं जामातरमिव ' इत्यायुर्वेदप्रसिद्धिः प्रीणामि । प्रदरान् तदाख्यदेवान् प्रदररोगाधिष्ठातृन् देवान् वा पायुना पाति मलोत्सर्गमिति पायुर्गुदम् तेन उक्तातिरिक्तगुद तृतीयभागेन प्रीणामि । कुश्मान् कुश्माण्डाख्यान् देवजातिविशेषान् शकपिण्डैः, ' शको देशे नृपे विशि ' इति वचनात् शकस्य ( अश्व ) -विष्ठायाः पिण्डैः, लेण्डैरिति यावत् प्रीणामि । अध्यात्मपक्षे – अश्वमेधीयाश्वस्य तानि तान्यङ्गानि तैस्तर्पणीया देवाश्च ब्रह्मात्मकान्येव तज्जलानत्वात् ।

पृष्ठ 188

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 188 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७-८ ] वेदार्थपारिजातभाष्यसहिता १५५ दयानन्दस्तु – ' हे मनुष्याः, यूयं वनिष्ठुना पूषणं स्थूलगुदया सह वर्तमानानन्धाहीन् गुदाभिः सहितान् विह्नुत आन्त्रैरपो वस्तिना वृषणमा ण्डाभ्यां वाजिनं शेपेन रेतसा प्रजां पित्तेन चाषात् प्रदरान् पायुना शकपिण्डैः कुश्मान् निगृह्णीत ' इति, तदपि यत्किञ्चित् वनिष्ठुना याचनेन पूषणं पुष्टिकरं निगृह्णीतेत्यस्य निरर्थकत्वात् । न चाङ्गविशेषवाचकेन वनिष्ठुशब्देन याचनमर्थो ग्रहीतुं शक्यते, रूढर्योगापहारात् । नहि घटमानयेत्यत्र चेष्टानयनं प्रतीयते । न वा गुदाभिः सह अन्धाः सर्पा वर्तन्ते । न च गुदेन्द्रियैः सार्धं कुटिलाः सर्पास्तिष्ठन्ति । न वा तेषां ग्रहणमभीष्टम्, निगृह्णीतेति क्रियापि मन्त्रबाह्येव । न चाण्डाभ्यां वाजिनग्रहणं सम्भवति । तस्मात् सर्वमप्येतद् बालभाषितमेव ॥ ७ ॥

इन्द्र॑स्य क्रोडोऽव॑त्यै पाज॒स्य॑ दि॒शां ज॒त्रवोऽदि॑त्यै भ॒सज्जीमूता॑न् हृदयो॑प॒शेना॒न्तरि॑क्षं पुरो॒तता नभ॑ उद॒र्येण चक्रवाकौ मत॑स्नाभ्यां दिवं॑ व॒क्काभ्यां॑ ग॒रीन् प्लाशिभि॒रुप॑लान् प्ल॒ह्ना व॒ल्मोका॑न् क्लोमभग्लै भिर्गुल्मा॑न् हराभिः॒ः स्रव॑न्तीर्हदान् क॒क्षिभ्या॑ समु॒द्रमुदरेण वैश्वानरं भस्मना ॥ ८ ॥

मन्त्रार्थ -- वक्षस्थल का मध्यभाग इन्द्र के निमित्त, बलकारक अन्न अदिति को, कन्धे और कोखों की सन्धियाँ दिग्देवताओं को, मेढ़ का अग्र भाग अदिति को, हृदय का मांस मेघों को, हृदय की नाड़ियों से अन्तरिक्ष को, उदर के माँ से आकाश को, हृदय के दोनों ओर की अस्थियों से चक्रवाकों को, कोंख के माँस से स्वर्ग के देवताओं को, मेढ़-मूल की नाड़ियों से पर्वत के अधिष्ठाता देवों को, प्लीहा से उपल देवताओं को, कण्ठ की नाड़ियों से वल्मीकों को, हृदय की नाड़ियों से गुल्मों को, अन्नवाहिनी नाडियों से सर्वातियों को, कोखों से हृदों को, उदर से समुद्र को और भस्म से वैश्वानर को प्रसन्न करता हूँ ॥ ८ ॥

अत्रापि मन्त्रे देववाचके शब्दे षष्ठी, अङ्गवाचके शब्दे प्रथमा विज्ञेया । इन्द्रस्य क्रोड, क्रुयत इति क्रोड:, ' क्रूड भृड निमज्जन इत्येके ' इत्यात्रेयः । ' कुड निमज्जने, भृड इत्येके, ध्रुड इत्यपरे ' इति मैत्रेयः । ' क्रूड वाल्पेऽदने ' इति रामाश्रमः । भुजान्तरम् अस्तु । अथवा क्रोडेन वक्षोमध्यभागेन इन्द्रं प्रीणामि । ' न ना क्रोडो भुजान्तरम् ' ( अ ० को ० २२६ / ७७ ) इत्यमरसिंहः । अग्रेऽप्युभयथा व्याख्यानम् । अदित्यै अदितेर्देवतायाः पाजस्यं पाजसे बलाय हितं पाजस्यं बलकरमङ्गमस्तु । दिशां दिग्देवतानां जत्रवो जत्रूणि सन्तु । अंसकक्षयोः सन्धिर्जत्रु ' सन्धी तस्यैव जत्रुणी ' ( अ ० को ० २।६।७८ ) इत्यमरः । जायते बाहुरस्मादिति जत्रु, ' जत्र्वादयश्च ' ( उ ० ४।१०३ ) इति साधु | अंसक्षयोः सन्धिः । छान्दसं पुंस्त्वम् | अंसकक्षसन्धिरूपैर्जत्रुभिर्दिग्देवताः प्रीणामि, भसद् बभस्ति दीप्यत इति भसद् लिङ्गाग्रम्, तेन अदित्यै अदिति देवतां प्रीणामि । अथ पुनर्देवे द्वितीया, अङ्गे तृतीया । जीमूतान्, मूतं बद्धं ' मूङ् बन्धने ' कर्मणि क्तः, जीवनं जलं मूतं यैस्ते जीमूताः । अथवा ज्यानं जीः, सम्पदादित्वात् क्विप्, जिया वयोहान्या मूता बद्धा इति जीमूताः । मेघाभि-मानिनो देवाः, तान् हृदयौपशेन हृदय उपशेत इति हृदयोपशम्, यद्वा हृदयमुपशेतेऽस्मिन्निति हृदयौपशं हृदयस्थं मांसम् तेन प्रीणामि । अन्तरिक्षं द्यावापृथिव्योरन्तरीक्ष्यत इत्यन्तरिक्षम्, छान्दसं ह्रस्वत्वम्, अन्तरिक्षा-भिमानिनं देवं पुरीतता पुरीं शरीरं तनोतीति पुरीतत्, ' गमादीनामिति वक्तव्यम् ' ( पा ० सू ० ६ | ४ | ४०, वा ० १ ) इत्यनुनासिकलोपः, ‘ ह्रस्वस्य पिति कृति तुक ' ( पा ० सू ० ६।१।७१ ) इति तुकि रूपम् । अथवा पुरिः हृदया-ख्यमांसखण्डविशेषः, तं तनोत्याच्छादयतीति विग्रहः । ' पुरीतता हि हृदयमाच्छाद्यते ' इति श्रुतिरिति कर्कभाप्यम् ।

पृष्ठ 189

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 189 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५६ शुक्लयजुर्वेदसंहिता [ अ ० २५ तने: क्विपि तकारलोपे तुकि ' नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ' ( पा ० सू ० ६ | ३ | ११६ ) इति दीर्घः, हृदयाच्छादकमन्त्रम् तेन प्रीणामि । नभो नभोऽभिमानिनं देवमुदर्येण, उदरे भवमुदर्यम्, ' शरीरावयवाद्यत् ' ( पा ० सू ० ५।१।६ ) इति यति रूपम् तेन प्रीणामि । चक्रवाकौ चक्रवाकदम्पतीवन्नित्यसम्बद्ध देवविशेष मतस्नाभ्यां ग्रीवाधस्ताद्भागस्थित हृदयोभयपार्श्वस्थे अस्थिनी मतस्ने, ताभ्यां प्रीणामि । दिवं वृक्काभ्यां वृक्यते स्वादुतया गृहत इति वृक्का, ' नान्तः पुंस्ययं शब्दः, स्त्रीत्येके ' इति क्षीरस्वामी, वृक्कौ कुक्षिस्थौ मांसगोलका-वाफलाकृती इति याज्ञिकाः, ताभ्यां वृक्काभ्यां दिवं देवतां प्रीणामि । गिरीन्द्रान् देवान् प्लाशिभिः प्रकर्षेणा-सञ्चारात् रलयोरभेदः, ताभिः श्नन्ति भुञ्जतेऽन्नानीति प्लाशयः शिश्नमूलनाड्यः, तन्नाडीद्वारैवान्नस्य प्रीणामि । प्लीहा, प्लीहा हृदयवामभागे शिथिलो मांसभागः, स एव पुस्पससंज्ञः । प्लेहत इति प्लीहा । ' श्वन्तुक्षन् - ' ( उ ० १।१५ ९ ) इति निपातितो नान्तः शब्दः । तेन प्लीहा अश्वस्याङ्गविशेषेणोपलानुपला-धिष्ठातृन् देवान् प्रीणामि । ' गुल्मस्तु प्लीहा पुंसि ' ( अ ० को ० २२६ | ६६ ) इत्यमरः । क्लोमभिः क्लवत इति क्लोमा, ' क्लुङ् गतौ ' इत्यस्मान्मनिनुप्रत्ययः । यथा हृदयस्य वामभागे प्लीहा, तथा तस्य दक्षिणभागे क्लोमा भवति, स एव यकृदुच्यते । ' हृदयस्य दक्षिणे यकृत् क्लोमा वामे प्लीहा पुस्पुसश्चेति वैद्याः ' इति क्षीरस्वामी । क्लोमा गलनाडीति कर्कः । क्लोमभिर्वल्मीकान् देवान् प्रीणामि । ग्लौभिः, ग्लायन्ति श्राम्यन्तीति ग्लावो अन्नरसमिति हिरा अन्नवाहिन्यो नाड्यः, ताभिः हृदयनाड्यः, ताभिर्गुल्मान् देवान् प्रीणामि । हिराभि:, हरन्ति स्रवन्तीर्नद्यधिष्ठात्रीर्देवताः प्रीणामि । कुक्षिभ्यामुदरस्य दक्षवामभागौ कुक्षी, ताभ्यां हृदान् हृदाधिष्ठातृन् देवान् प्रीणामि । उदरेण जठरेण समुद्रं देवं प्रीणामि । भस्मनाङ्गोत्थेन वैश्वानरं देवं प्रीणामि । अध्यात्मपक्षे - द्रव्यं देवता च कर्मणां रूपम् । विहितानि द्रव्याणि देवता एव । द्रव्याणां देवतानां कियद् बृहत्क्षेत्रमित्यश्वमेधयज्ञाध्ययनेन स्पष्टं भवति । --ब्रह्मविकारत्वाद् ब्रह्मरूपा दयानन्दस्तु - ' हे मनुष्याः, युष्माभिः प्रयत्नेनेन्द्रस्य क्रोडोऽदित्यै पाजस्यं दिशां जत्रवोऽदित्यै आसच्च विज्ञेयाः । जीमूता हृदयौपशेन पुरीततान्तरिक्षमुदर्येण नभश्चक्रवाको मतस्नाभ्यां दिवं वृक्काभ्यां गिरीन्द्रान् प्लाशिभिरुपलान् प्लीह्ना वल्मीकान् क्लोमभिग्लोभिच गुल्मान् हिराभिः स्रवन्तीर्हदान् कुक्षिभ्यां समुद्रमुदरे । भस्मना च वैश्वानरं विजानीत ' इति, तदपि यत्किञ्चित् वैदिकद्रव्यदेवतादिवृत्तान्तानभिज्ञानविजृम्भितत्वात् । क्रोड - पाजस्य - जत्रु - हृदयौपश - पुरीतन्मतस्नादिशब्दानां तत्तदङ्गेषु प्रसिद्धत्वादन्यत्र तेषां वृत्तेर्बलात्कारितत्वात् कथञ्चित्तथार्थाभिगमेऽपि नैरर्थक्यमेव । विद्युतो मज्जनस्य पृथिव्या कः सम्बन्धः? किं प्रयोजना चेयमुक्तिः? इत्यनुक्तेः । मतस्नाभ्यां प्रकाशस्य कः सम्बन्धः? किमुद्दिश्य तद्वर्णनमित्यनुक्तेश्च ॥ ८ ॥

-विधृ॑ति॒ नाभ्यां॑ घृ॒त ं रसैना॒पो यु॒ष्णा मरी॑चीव॒प्रुभि॑र्नीहारमू॒ष्मणा॑ शा॒नं वस॑य॒ वा॒ अनु॑भिर्ह्रादुन दुबीका॑भिर॒स्ता रक्षसि चि॒त्राण्यङ्गा॑न॑क्ष॑त्राणि रू॒पेण॑ पृथि॒वीं त्वचा ज॑म्बकाय॒ स्वाहा॑ ॥ ९ ॥

मन्त्रार्थ - नाभि से विधृति को, वीर्यं से घृत को, पक्वान्न रस से जल को, साबिन्दुओं से मरीचियों को, शरीर को ऊष्मा से नीहार को, वसा से शीन को अश्रुओं से प्रुब्वा देवताओं को, नेत्रमल से हादिनी देवताओं को, रुधिर से राक्षसों को, शेष अंगों से चित्र देवताओं को, रूप से नक्षत्रों को और त्वचा से पृथ्वी को तृप्त करता हूँ । यहाँ तक के मन्त्रों को चतुर्थ्यन्त बोलकर घृत की आहुति दे, अगले ब्रह्महत्यानाशक मन्त्र को पढ़ कर जल में आहुति दी जाती है कि वरुण देवता को दी हुई यह आहुति भली प्रकार गृहीत हो । हारीत ऋषि ने कहा है कि

पृष्ठ 190

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 190 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ९ ] वेदार्थ पारिजातभाष्यसहिता १५७ वाजसनेय वेद में यह जुम्बका नाम की गायत्री है । जल के भीतर एक बार भी जपने पर यह ब्रह्महत्या के पाप को दूर सब अंग देवताओं के भाग हैं । वह दिव्य गुणों से युक्त हो जाता है, अतः सकल देवताओं को अथवा स्वयं अश्व ही प्रजापति है । करती है । यज्ञीय अश्व प्रसन्न कर सकता है । इसके प्रत्येक अंग का नाम लेकर घृत की आहुति देने से देवता प्रसन्न और तृप्त होते हैं । इस अश्वमेध यज्ञ का अभिप्राय यह है कि अश्व का अधिष्ठाता देवता प्रजापति है, होते हैं । यह अभिप्राय उसके विराट् शरीर के ऊपर वर्णित सभी अंग और अवयवों से सभी देवता तृप्त और पुष्ट है ॥ ९ ॥

कल्पित नहीं है । बृहदारण्यक उपनिषद् के प्रारम्भ में हो अश्वमेध का ऐसा अभिप्राय दिखाया गया । विधृति विधारणाधिष्ठातृदेवतां नाभ्या अश्वसम्बन्धिनाभिदेशेन प्रीणामि । स्वादे उदराधः तिक्तादौ स्थितो विषरागयोः ग्रन्थिर्नाभिः । घृतमाज्याभिमानिदेवतां रसेन वीर्येण धातुविशेषेण वा प्रीणामि । ' रसो गन्धरसे रसस्तेन, ' पद्दन्नोमास् ’ शृङ्गारादिरसे वीर्ये देहधात्वम्बुपारदे || ' इति विश्वकोषः । यूष्णा, यूषः क्वथितो बिन्दुभिर्मरीचीर्देवताः ( पा ० सू ० ६।१।६३ ) इत्यादिना यूषन्नादेशः, अपः अब्देवताः प्रीणामि । विप्रुडुभिर्वसा । ऊष्मणा अश्वशरीर-प्रीणामि । ' पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियः ' ( अ ० को ० १ | १० | ६ अपि ) इत्यमरः ' इति विश्वः । वसया, वस्ते गतेनौष्ण्येन नीहारं देवं प्रीणामि । ' ऊष्माणस्तु निदाघोष्णग्रीष्माः शष्पसहा वपा वसा ' मांसमिति वसा मांसस्नेहः, ' शुद्ध मांसस्य यः स्नेहः सा वसेति वैद्या: ' इति क्षीरस्वामी, ' मेदस्तु प्रुष्वा देवताः, ( अ ० को ० २२६ ६४ ) इत्यमरः, तथा शीनं मेदोऽभिमानिनं देवं प्रीणामि । अश्रुभी रोदनजन्यनेत्रजलैः ० २।६।६७ ) परुषणशीला इति यावत्, ता देवताः प्रीणामि । दूषीकाभिरश्वनेत्रमलैः ' दूषिका नेत्रयोर्मलम् ' ( अ ० को इत्यमरः, ह्रादुनीर्देवताः प्रीणामि । अस्ता अस्यते क्षिप्यत इत्यसृक्, बाहुकाद् ऋज्प्रत्ययः, अथवा कु: ' ( न पा सृज्यत ० सू ० इत्यसृक्, ' ऋत्विग्दधृक् ' ( पा ० सू ० ३।२२५ ९ ) इत्यादिना सृजे: क्विनि रूपम्, ' क्विन् प्रत्ययस्य, ' अल्लो-८ | २ | ६२ ) इत्यादिना कुत्वम् तेन अस्ना रुधिरेण । ' पद्दन्नोमास् " इत्यादिनाऽसृज् शब्दस्यासन्नादेशः पोऽन: ' ( पा ० सू ० ६ | ४ | १३४ ) इत्यकारलोपे रूपम्, रक्षांसि प्रीणामि । अङ्गः पूर्वानुक्तैरश्वावयवैश्चित्राणि । न क्षरते दैवतानि प्रीणामि । रूपेण अश्वसम्बन्धिवर्णेन सौन्दर्यातिशयेन वा नक्षत्राणि देवताः प्रीणामि ' हिनस्तीति नक्षत्रम्, क्षद इति सौत्रो धातुहिंसार्थं आत्मनेपदी । ( उ ० ४। १५ ९ ) इति ष्ट्रनुप्रत्ययः, ' नभ्राण्नपान्न ( पा ० सू ० ६।३।७५ ) इति नञः प्रकृतिभावः । अथवा ' णक्ष गतौ ' नक्षतीति नक्षत्रम्, ' अमिनक्षि ( उ ० ३। १०५ ) इत्यादिना अत्रत् । अथवा न क्षणोतीति नक्षत्रम् | ' क्षणु हिंसायाम् ' ष्ट्रन्, बाहुलकाण्णलोपः । अथवा नक्षत्रं देवत्वात् क्षत्रभिन्नत्वात् । एवं नैकधा व्युत्पत्तिः कल्पयितुं शक्या । त्वचा अश्वचर्मणा पृथिवीं देवीं प्रीणामि । स्वाहेति मन्त्रैराहुति जुहोतीत्यर्थः । अत्र ' अग्नि हृदयेनाशनि हृदयाग्रेण ' इत्यारभ्य ' द्यावापृथिवीभ्या १७ स्वाहा ' ( ३ ९।८-१३ ) इत्यन्ता आहुतीर्जुहुयात्, आश्वमेधिकत्वात् । तथा चानुक्रान्तम्- ' अग्नि, हृदयेनाश्वमेधिका तत्रत्य एवर्षिर्लोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिंशत् ' इति । ' अवभृथेष्टयन्तेऽप्सु मग्नस्य पिङ्गलखलतिविक्लिधशुक्लस्य मूर्धनि जुहोति जुम्बकाय स्वाहेति ' ( का ० श्रौ ० २०१८ १६ ) । अवभृथयागान्तेऽप्सु मग्नस्य पिङ्गलाक्षस्य खल्वाटस्य विक्लिस्य दन्तुरस्य शुक्लस्य अतिगौरस्य पुंसो मूर्ध्नि जुम्बकाय स्वाहेति मन्त्रेण सकृद्गृहीतमाज्यं जुहुयादिति सूत्रार्थः । वरुणदेवत्या द्विपदा यजुर्गायत्री उदन्यपुत्रमुण्डिभदृष्टा जुम्बकाय मूर्धनि वरुणाय जुहोत्येतद्वै स्वाहा सुहुतमस्तु । ‘ वरुणो वै जुम्बकः साक्षादेव वरुणमवयजते शुक्लस्य खलतेर्विक्लिधस्य चान्तर्जले पिङ्गाक्षस्य जप्ता पापनाशिनी । वरुणस्य रूप १७ रूपेणैव वरुणमवयजते ' ( श ० १३ | ३ | ६ | ५ ) इति श्रुतेः । एषा व्यपोहति ॥ ' इति । तदुक्तं हारीतेन - ' जुम्बका नाम गायत्री वेदे वाजसनेयके । अन्तर्जले सकृज्जप्ता ब्रह्महत्यां अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् ।