वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 191–200
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 191–200
पृष्ठ 191
पाठ पढ़ें पाठ छिपाएँ
१५८ शुक्लयजुर्वेद संहिता [ अ ० २५ युष्णा मरीचीर्विप्रुभिर्नीहारमुध्मणा दयानन्दस्तु - हे ' मनुष्याः, यूयं नाभ्या विधृति घृतं रसेनापो रक्षांस्यस्नाङ्गे रूपेण नक्षत्राणि त्वचा पृथिवीं शीनं संकुचितं वसया प्रुष्वा अश्रुभिर्ह्रादुनी दूषिकाभिश्चित्राणि तदपि निरर्थकमसम्बद्धत्वात् नाभ्या विधारणस्य रसेन घृतस्य विदित्वा जुम्बकाय स्वाहा प्रयुङ्क्ष्वम् ' इति, तूष्मणा नीहारस्य ऊष्मणा शीनस्य सम्बन्धविशेषासिद्धेः । अपो युष्णा कथं ज्ञानमित्यनुक्तेः । विप्रुभिर्मरीचीना कः सम्बन्धः? त्वचा कथं पृथिवी वेदितव्या? तद्वेदनस्य दूषिकाभिश्चित्राणि रक्षांस्यस्नाङ्गे रूपेण नक्षत्राणां प्रयोग इत्याद्यनुक्तेः ॥ ९ ॥
चातिवेगवता कः सम्बन्धः? तत्र सत्यवाण्याः किमर्थं
हिर॒ण्यगर्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
सदा॑धार पृथि॒वीं द्यामुतेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ १० ॥
। यः प्रा॑ण॒तो नि॑षि॒तो म॑हित्वैक इद्राजा जग॑तो ब॒भूव॑ ॥ य ईश॑ अ॒स्य द्वि॒पद॒श्चत॑ष्पद॒ः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ११ विश्व का पालक हुआ, वही मन्त्रार्थ - सृष्टि के पहले जो अद्वितीय हिरण्यगर्भ था, सृष्टि होने? पर इसको वही कोई सकल स्थूलदृष्टि नहीं बता सकता । अपनी शक्ति से इस पृथ्वी और द्युलोक को थामे हुए है । वह कैसा है ऐसे देवता की प्रीति के लिये हम आहुति देते हैं ॥ १० ॥
समय जगत् के प्राणियों में अपनी अद्वितीय मन्त्रार्थ - जो प्रजापति श्वास - प्रश्वास लेते समय, पलक झपकते है, उस घोड़े आदि चौपायों पर शासन करता महिमा के साथ विराजमान है, जो मनुष्य - पक्षी आदि दोपायों और गाय प्रजापति देवता के निमित्त हम हवि रामर्पित करते हैं ॥। ११ ॥ याज्यानुवाक्याः । चतस्रः कदेवत्यास्त्रिष्टुभः प्रजापतिसुतहिरण्यगर्भदृष्टाः । प्राजापत्य पशूनामश्वादीनां तत्र प्रथमा त्रयोदशेऽ चतुर्थकण्डिकास्थले, द्वितीया च त्रयोविंशेऽध्याये तृतीयकण्डिकास्थ व्याख्याता ॥ १० - ९ १ ॥ यस्य॒मे हिमव॑न्तो महित्वा यस्य॑ समु॒द्र र॒सय॑ स॒हाहुः । I यस्ये॒माः प्रविशो यस्य॑ बाहू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥। १२ ॥ मन्त्रार्थ - ये शिखर वाले पर्वत जिसकी महिमा को दिशाएँ जिसकी महिमा को गाती हैं, जिसकी भुजाएँ जगत् की हवि अर्पित करते हैं ॥ १२ ॥
कहते हैं, पृथ्वी सहित समुद्र जिसकी महिमा है, ये सब रक्षा करती हैं, उस अनिर्वचनीय प्रजापति के लिये हम , कशब्दस्य सर्वनामत्वमार्षम् । वयं कस्मै देवाय प्रजापतये देवाय हविषा विधेम हविर्दद्मः केवले , विभक्तिव्यत्ययः तथा । साधारणे समानेऽल्पे संख्यायां च अत्र - ' एकशब्द: प्रधानार्थकः ' एकोऽन्यार्थे प्रधाने च प्रधानाय प्रथमे देवाय हविर्दद्मः ' इति तत्रभवान् शङ्कराचार्यः । प्रयुज्यते ॥ ' तथा च छान्दस एकारलोपः । कस्मै एकस्मै प्रथमास्थाने द्वितीया । इमान् हिमवद्विन्ध्यादीन् इमे हिमवन्तो हिमयुक्ताः पर्वताः, बहुवचनादन्येऽपि पर्वता ग्राह्याः इति शेषः, महित्वेति विभक्तेराकारः । रसया नद्या पर्वतान् यस्य प्रजापतेर्महित्वा महित्वं महिमानमाहुः, बुधा
पृष्ठ 192
पाठ पढ़ें पाठ छिपाएँ
म ० १२-१३ ] वैदार्थपारिजात भाष्यसहिता १५ ९ सह, ' रसा नदी, रसतेः शब्दकर्मण: ' ( नि ० ११।२५ ) इति यास्क: । समुद्रं यस्य महित्वमाहुः । रसयेति जातावेक-वचनम् । इमाः प्रदिशः पूर्वाद्याः प्रकृष्टा दिशो यस्य महित्वमाहुः । यस्य बाहू भुजौ जगद्रक्षणायोद्यताविति शेषः । पिलक्षितं सर्वं जगद् यस्य प्रजापतेर्विलासमात्रम्, तस्मै कस्मै प्रजापतये देवाय हविषा विधेमेति सम्बन्धः । अध्यात्मपक्षे -- इमान् हिमवदादीन् पर्वतान् नदीभिः सह सर्वान् समुद्रान् सर्वा ( दिश: ) प्रदिशश्च यस्य कार्यत्वाद वेदान्ता बुधाश्च यस्य महिमानं विलासमात्रमाहुः " यस्य परमेश्वरस्य बाहू सदैव तद्रक्षणायोद्यतौ स्तः, तस्मै कस्मै प्रजापतये परमेश्वराय हविषा विधेम परिचरेम । दयानन्दस्तु – ' हे मनुष्याः, यस्य सूर्यस्य महित्वा महत्त्वेनेमे हिमवन्त आकर्षिताः प्रकाशिताः सन्ति, यस्य रसया सह समुद्रमाः यस्येमा दिशो यस्य प्रदिशश्च बाहू इवाहुः, तस्मै कस्मै देवाय हविषा विधेम । एवं यू-मपि वित्त ' इति, तदपि यत्किञ्चित् मन्त्रार्थस्य मन्त्रबाह्यत्वात् । अध्याहारादिमूलकत्वेनापव्याख्यानत्वाच्च । न चाकर्षणार्थकः कश्चनापि शब्दो मन्त्रे श्रुतः । दिश इति शब्दोऽपि मूले नास्ति, तस्माद् दिक्षु प्रदिक्षु च बाहुत्वारोपोऽपि निराधार एव । तथात्वे दिशां बहुत्वेन बाहूनामपि बहुत्वं स्यात् । इवशब्दोऽपि मूले नास्ति, प्रजापतेर्बाहुद्वय वर्णनान्निराकारत्वकल्पनापि व्याहन्येत ॥ १२ ॥
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्वं॑ उ॒पास॑ते प्रशिषं॒ यस्य॑ दे॒वाः । यस्य॑ धा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै दे॒वाय॑ ह॒विषा॑ विधेम ॥ १३ ॥
अचेतन शरीर में चेतना का संचार करते हैं, बल देते हैं, आदि देवता जिसके शासन में कार्य मृत्यु का, जरामरण का भय सदा बना मन्त्रार्थ -- जो परमात्मा भक्तों को सायुज्य देते हैं, सारा विश्व जिनके शासन में है, देवता जिसके अनुग्रह को चाहते हैं, अथवा सूर्य करते हैं, जिसकी छाया अमृत ( मुक्ति ) को देने वाली है, जिसको न जानने से रहता है, उस प्रजापति देवता के निमित्त हम हवि अर्पित करते हैं ॥ १३ ॥
कस्मै देवाय हविषा विधेमेति व्याख्यातम् । यः स्वतः सिद्धः प्रजापतिः, आत्मदा आत्मानं ददाती -त्यात्मदा उपासकानां स्वात्मरूपसायुज्यप्रदः, बलदा बलं सामर्थ्यं ददातीति बलदा भोगमोक्षप्राप्तिसामर्थ्यप्रदः, विश्वे सर्वे मनुष्यादयो यस्य प्रजापतेः प्रशिषं प्रशासनमुपासते, देवाश्च यस्य प्रशिषमुपासते, तदुक्तम्- ' यस्य arraft ज्ञानं शिक्षावधि च शासनम् । कार्यावधि च कर्तृत्वं स स्वयम्भूः पुनातु वः ॥ ' इति । यस्य छाया छायावदाश्रयणं ज्ञानपूर्वकमुपासनममृतममृतत्वं मुक्तिहेतु:, यद्वा बलदा ये देवास्तेऽपि यस्य प्रशासनमुपासते, यस्य चामृतममृतत्वं मोक्षसाधनं छायेव स्वाधीनं भवति, यस्य चाज्ञानमिति शेषः मृत्युः संसारहेतु:, तदुक्तम्-' य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ' ( वे ० उ ० ३१० ) इति । यद्वा - यथा छाया कायमाश्रयते, तथैव ममाश्रयते ज्ञानपूर्वकमुपास्ते, स चित्तशुद्धितत्त्वसाक्षात्कारक्रमेण मुच्यते । यस्य अज्ञानं वैमुख्यं वा संसारहेतु:, यद्वा यस्य च मृत्युर्मरणादिधर्मयुक्तः संसारः स्वपतो भवति, तस्मै हविषा विधेमेति सम्बन्धः । अध्यात्मपक्षे - इदमेव व्याख्यानम् । दयानन्दस्तु ' हे मनुष्याः, य आत्मदा बलदा, यस्य प्रशिषं विश्वे देवा उपासते यस्य सकाशात् सर्वे व्यवहारा जायन्ते यस्य छायामृतम्, यस्याज्ञाभङ्गो मृत्युः, तस्मै कस्मै देवाय वयं हविषा विधेम ' इति, तदपि चित् त्वया आत्मदत्वानुपपत्तेः । नहि सर्वगतः परिच्छिन्नाय जीवायापरिच्छिन्नं स्वात्मानं दातुं शक्नोति । सिद्धान्ते तु सायुज्य प्रदत्वेनात्मप्रदत्वमपि सम्भवत्येव ॥ १३ ॥
पृष्ठ 193
पाठ पढ़ें पाठ छिपाएँ
१६० शुक्लयजुर्वेदसंहिता [ अ ० २५ आ नो भद्राः क्रतवो यन्तु वि॒श्वतोऽद॑ब्धासो अप॑रो॒तास उद्भिदः ॥ दे॒वा नो यथा सद॒मिद्बुधे अस॒न्नप्रा॑यु॒वो रक्षि॒तारो॑ दि॒वेदि॑वे ॥ १४ ॥
मन्त्रार्थ - सब ओर से निर्विघ्न, स्वयं अज्ञात, अन्य यज्ञों को प्रकट करने वाले कल्याणकारी यज्ञ हमें प्राप्त हों । सब प्रकार से आलस्यरहित होकर प्रतिदिन रक्षा करने वाले देवता सदैव हमारी वृद्धि के निमित्त प्रयत्नशील हों ॥ १४ ॥
वैश्वदेवानां पशूनां याज्यानुवाक्या दशर्चो विश्वदेवदेवत्या गोतमदृष्टाः । तत्रादौ पश्च जगत्यः । क्रतवो यज्ञाः सङ्कल्पा वा नोऽस्मान् प्रति आयन्तु आगच्छन्तु वयं यष्टारः शुभसङ्कल्पाश्च भवेमेत्यर्थः । कीदृशाः क्रतवः? भद्रा भन्दनीयाः स्तुत्याः, ' भदि कल्याणे सुखे च ' भन्दते कल्याणं सुखं च प्राप्नोत्यनेनेति भद्रम्, अथवा भद्रं प्राप्नोतीति भद्रः, बहुषु भद्राः कल्याणकारिणः कल्याणमयाः । ' ऋत्रेन्द्राग्रवज्र ' ( उ ० २।२ ९ ) इत्यादिना रन्प्रत्ययः, नकारलोपो निपातनात् । भद्रशब्दार्थं सायणाचार्यः स्वीय - ऋक्संहिताभाष्ये ( १ | १ | ६ ) इत्यत्र निरूपयन् शाट्यायनश्रुतिमुज्जहार । तद्यथा - ' भद्रशब्दार्थं शाट्यायनिनः समाननन्ति - ' यद्वै पुरुषस्य वित्तं तद् भद्रम्, गृहा भद्रम्, पशवो भद्रम् ' इति । तथा विश्वतः सर्वतोऽनुपहसिताः, निर्विघ्ना इति यावत्, अपरीतासो न परीता अपरीता अपरिगताः, अपरिज्ञाताः केनचिदिति भावः, फलानुमेया एवेत्यर्थः । उद्भिद उद्भिन्दन्ति प्रकटयन्तीत्युद्भिदः, यज्ञान्तराणां प्राकट्यकर्तार इत्यर्थः । किश्च यथा येन प्रकारेण देवा नोऽस्माकं सदमित् सदैव वृधे वृद्ध असन् भवेयुस्तथा क्रतव आयन्त्वित्यर्थः । सदमिदित्यव्ययं सदार्थे । कीदृशा देवा:? अप्रायुवः, प्रकर्षेण आसमन्ताद्युवन्ति प्रमाद्यन्ति ये ते प्रायुवः, यौतेः क्विपि तुगभाव आर्ष:, न प्रायुवोऽप्रायुवोऽप्रमत्ताः, अस्मद्वृद्धये भवन्त्वित्यर्थः । तथा दिवे दिवे प्रतिदिनं रक्षितारः पालका भवेयुरित्यर्थः । अध्यात्मपक्षे - देवा देहेन्द्रियमनोबुद्धयधिष्ठातारः क्रतवः सङ्कल्पा उपासनरूपा नोऽस्माकं भद्राः कल्याण-मया आयन्तु अनुकूला भवन्तु, ' तत्क्रतुर्भवति ' ( वृ ० उ ० ४।४।५ ) इति श्रुतेः । कीदृशास्ते? विश्वतः सर्वतः, अदब्धासोऽनुपहसिताः, अपरीतासोऽपरिज्ञाताः फलानुमेया, उद्भिदा विशिष्टफलोत्पादका देवाः पूर्वोक्ता यथा नोऽस्माकं वृधे वृद्ध्यै ब्रह्मप्राप्तिलक्षणायै सदमित् सदैव असन् भवेयुः, तथा क्रतव आयन्तु । कीदृशा देवाः? अप्रायुवः सदा सावधानाः, तथा दिवे दिवे प्रतिदिनं रक्षितारः पालकाः । दयानन्दस्तु - ' हे विद्वांसः, यथा नोऽस्मान् विश्वतो भद्रा अदब्धासोऽपरीतासोऽन्यैरव्याप्ता उद्भिदो दुःख-भेदकाः क्रतवो यज्ञा बुद्धयो वा आयन्तु । यथा नः सदं सभां प्राप्ता अप्रायुवोऽनष्टायुषो देवाः पृथिव्यादय इव विद्वांसो दिवे दिवे वृधे रक्षितारोऽसन्, तथानुतिष्ठन्तु ' इति, तदपि यत्किञ्चित् यज्ञानां बुद्धीनां वा स्वप्रयत्नसाध्यत्वेन विद्वत्प्रार्थनानुपयोगात् । त्वद्रीत्या क्रतूनामनुष्ठाने सर्वेषामधिकारादन्यैरव्याप्तिरपि न
सम्भवत्येव । १४ ॥
दे॒वानां॑ भ॒द्रा म॒तिर्ऋजूय॒तां दे॒वाना॑ रातिर॒भि नो निव॑र्तताम् ।
दे॒वाना॑ स॒ख्यमुप॑सेदमा व॒यं दे॒वा न॒ आय॒ प्रति॑रन्तु वसे ॥ १५ ॥
• मन्त्रार्थ - यजमान की इच्छा रखने वाले देवताओं की कल्याणकारिणी श्रेष्ठ बुद्धि सदा हमारे सन्मुख रहे, देवताओं का दान हमें प्राप्त हो, हम देवताओं की मित्रता प्राप्त करें, देवता हमारी आयु को जीने के निमित्त बढ़ावें ॥ १५ ॥
भद्रा कल्याणकारिणी देवानां सुमतिः शोभना बुद्धिर्नोऽस्मान् प्रति अभिनिवर्तताम् अभितो नितरां वर्तताम्, अस्मदभिमुखी भवतु । कथम्भूतानां देवानाम्? ऋजूयताम् ऋजु सरलमवक्रं यन्ति गच्छन्तीति ऋजूयन्तः,
पृष्ठ 194
पाठ पढ़ें पाठ छिपाएँ
म ० १५-१७ 1 वेदार्थ पारिजात भाष्यसंहिता १६१ छान्दसो दीर्घः, तेषाम् । यद्वा ऋजु अवक्रं प्रगुणं साधुं वा यजमानं कामयन्ते, ते ऋजूयन्तः, सुप आत्मनः क्यच् ' ( पा ० सू ० ३।१।८ ) इति क्यचि शता, ' अकृत्सार्वधातुकयोर्दीर्घः ' ( पा ० सू ० ७।४।२५ ) इति दीर्घः, तेषां साधुं यजमानं कामयमानानां देवानां रातिर्दानं नोऽस्मान् प्रत्यभिनिवर्ततामाभिमुख्येन नितरां वर्तताम्, देवा अस्मभ्यमभीष्टं ददत्वित्यर्थः । तेभ्यो लब्धदाना वयं देवानां सख्यं सखिभावं मंत्रीमुपसेदिमा प्राप्नुयास, सदेर्लिटि उत्तमबहुत्वे रूपम्, संहितायां दीर्घः । देवा नोऽस्माकं सखीनामायुर्जीवसे प्रतिरन्तु प्रवर्धयन्तु । अध्यात्मपक्षे - देवानाम्, पूजायां बहुवचनम्, देवस्य स्वप्रकाशस्य परमेश्वरस्य भद्रा भक्तकल्याणकारिणी सुमतिर्नोऽस्मान् प्रत्याभिमुख्येन नितरां वर्तताम्, देवस्य परमेश्वरस्य रातिर्दानं नोऽभिनिवर्तताम्, वयं देवानां परमेश्वरस्य सख्यमुपसेदिम प्राप्नुयाम, ' द्वा सुपर्णा सयुजा सखाया ' ( ऋ ० सं ० १।१६४ | २० ) इति मन्त्रवर्णात् । देव: परमेश्वरो न आयुः प्रतिरतु प्रवर्धयतु । किमर्थम्? जीवसे, चिररात्राय जीवनाय अमृतत्वाय मोक्षलाभा-येति यावत् । दयानन्दस्तु – हे मनुष्याः, यथा देवानां भद्रा सुमतिरस्मान् ऋजूयताम्, देवानां रातिर्नोऽस्मान् अभिनि-वर्तताम्, वयं देवानां सख्यमुपसेदिम, देवा नो जीवसे आयुः प्रतिरन्तु, तथा युष्मान् प्रति वर्तन्ताम् ' इति, तदपि यत्किञ्चित् सम्बोधनस्य युष्मान् प्रति वर्तन्तामित्यस्य च मन्त्रवर्णबाह्यत्वेन निर्मूलत्वात्, गुरूणां नियोगानर्हत्वाच्च, आयुर्वर्धनकर्तृत्वस्य मनुष्येषु विद्वत्स्वसम्भवाच्च । विद्यादातृषु गुरुत्वबुद्धिर्भवति, न सख्यम् ॥ १५ ॥
तान् पूर्वया निविदा हूमहे व॒यं भग॑ मि॒त्रमदि॑ति॒ दक्ष॑म॒नध॑म् ।
अ॒र्य॒मण॒ वरु॑ण॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒मय॑स्करत् ॥ १६ ॥
मन्त्रार्थ - हम वेदरूप सनातन वाणी के द्वारा अच्युतरूप भग, मित्र, अदिति, प्रजापति, अर्यमा, वरुण, चन्द्रमा और अश्विनीकुमारों का आह्वान करते हैं । ऐश्वर्यमयी सरस्वती महावाणी हमें सब प्रकार का सुख प्रदान करे ॥ १६ ॥
तान् देवान् पूर्वया अकृत्रिमया स्वयम्भुवा निविदा निविदिति वाङ्नाम, वाचा वेदरूपया वयं हूमहे आह्वयामः । तान् कानित्याह - भगं मित्रमदितिं देवमातरं दक्षं प्रजापतिमर्यमणं वरुणं सोममश्विना अश्विनौ, अस्त्रिधमित्येतेषां सर्वेषां विशेषणम् । दक्षमित्यस्य विशेषणमित्युव्वताचार्यः । न स्रेधति, ' षिध गत्याम् ' इत्यत्र षिघेति पाठः, गतिरत्र क्षरणरूपा, न च्योतत इत्यस्त्रित् तमस्त्रिधम्, अप्रच्युतसद्भावम् । कि, एतैः सहिता सरस्वती सुभगा सुष्ठु शोभनं भगं भाग्यं यस्याः सा सुभगा भजनीया, नोऽस्माकं मयः करत् सुखं करोतु । अध्यात्मपक्षे — तान् ब्रह्मरूपान् देवान् पूर्वया स्वयम्भुवा वाचा वेदरूपया हूमहे । देवविशेषानाह — भगं भजनीयं मित्रं स्नेहवन्तमदितिमखण्डनीयां दक्षं कुशलमस्त्रिधमच्युतमर्यमणमर्यमभिगन्तव्यं मननीयं च वरुणं वरणीयं सोममुमासहितमश्विनौ अश्विद्वयरूपं सुभगा शोभनभाग्यविधात्री ज्ञानविज्ञानलक्षणा सरस्वती तैस्तैर्भगवद्रूपः सहिता मयः सुखं करत् करोतु । दयानन्दस्तु – ' हे मनुष्याः, यथा वयं पूर्वया निविदा दक्षमर्यमणमस्त्रिधं भगं मित्रमदिति वरुणं सोममश्विनौ हूमहे यथा सुभगा सरस्वती नोऽस्मभ्यं मयस्करत्, तथा तान् यूयमाह्वयत कुरुत च ' इति, तदपि यत्किञ्चित्, मात्रामात्रस्यापि कल्पने मानाभावात्, मनुष्यातिरिक्तानां देवजातिविशेषाणां साधितत्वात् ॥ १६ ॥
२१
तन्नो॒ वातो॑ मयो॒भुवा॑ भेष॒जं तन्मा॒ता पृ॑थि॒वी सत्पि॒ता द्यौः ।
तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या युवम् ॥ १७ ॥
पृष्ठ 195
पाठ पढ़ें पाठ छिपाएँ
१६२ शुक्लयजुर्वेदसंहिता [ अ ० २५ मन्त्रार्थ - वायु देवता हमें सुखकारी ओषधियां प्राप्त करावें । माता पृथ्वी और पिता स्वर्ग भी हमे सुखकारी ओषधियाँ प्रदान करें । ' सोम का अभिषव करने वाले सुखदाता ग्रावा उस औषधरूप अदृष्ट को प्रकट करें । हे अश्विनी-कुमारों, आप दोनों सबके आधार हैं, हमारी प्रार्थना सुनिये ॥ १७ ॥
वातः पवनः, नोऽस्माकं भेषजं हितं यथा स्यात्तथा वातु, ' वा गतिगन्धनयो: ' प्रवातु, अनुगृह्णात्वित्यर्थः । कीदृशं भेषजम्? मयोभु मयः सुखं भवति यस्मात्तन्मयोभु सुखभावयितृ भेषजं हितं ददात्वित्यर्थः । माता जगन्निर्मात्री पृथिवी तद् हितं वातु । पिता पालको द्यौः स्वर्गस्तद् भेषजं वातु । सोमसुतः सोमं सुन्वन्ति तथोक्ताः सोमाभिपवकारिणो ग्रावाणो दृषदो मयोभुवः सुखभावयितारः सुखदातारस्तद् भेषजं वान्तु ददतु । अश्विना! हे अश्विनौ, युवं युवां तद् वातादिभ्यो भेषजप्रार्थनं शृणुतम्, युवामपि हितं दत्तमित्यर्थः । कीदृशौ युवाम्? धिष्ण्या धिष्ण्यौ गृहद्वारयितारौ । अध्यात्मपक्षे -- वातो हिरण्यगर्भः समष्टिसूक्ष्मप्रपञ्च चेतनरूपः परमेश्वरो मयोभु सुखकारिभेषजं हितं वातु ददातु । माता पृथिवी पिता द्यौश्च तद् भेषजं वातु । सोमसुतो मयोभुवो ग्रावाणश्च तत्प्रवान्तु । हे अश्विना अश्विनौ, धिष्ण्य धारकौ युवां त द्वेषजं शृणुतं दत्ताम् । सर्वत्र तत्तदवच्छिन्नचेतनरूपा भेषजं हितं सुखं ददत्व -त्यर्थः, ' एष ह्येवानन्दयाति ' ( तै ० उ ० २७ ) इति श्रुतेः । दयानन्दस्तु – ' हे अश्विनौ धिष्ण्यौ अध्यापकाध्येतारौ युवमस्माभिरधीतं शृणुतम्, यथा नो वात-स्तन्मयोभु भेषजं वातु तन्माता पृथिवी पिता द्यौस्तत्सोमसुतो मयोभुवो ग्रावाणो मेधा वान्तु तद्युष्मभ्यमस्तु ' इति, तदप्यसम्बद्धमेव, अस्माभिरधीतमित्यस्य कर्मत्वे मानाभावात् । अधीतश्रवणेन वातादिकर्तृकभेषजप्राप्त्या कः सम्बन्धः? भेषजं पृथिव्यामेव भवतीति तत्प्राप्तिवचनं निरर्थकमेव । द्यमेधादिप्राप्तिवर्णनमपि न सम्भवति ॥ १७ ॥
i
तमोशनं जग॑तस्त॒स्थुषस्वतं धिय॑जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑दु॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥ १८ ॥
मन्त्रार्थ - हम स्थावर - जंगम के स्वामी, बुद्धि को संतोष देने वाले, रुद्रदेवता का रक्षा के निमित्त आह्वान करते हैं । वैदिक ज्ञान व धन की रक्षा करने वाले, पुत्र आदि के पालक, अविनाशी पुष्टिकर्ता देवता हमारी वृद्धि और कल्याण के निमित्त हों ॥ १८ ॥
तं लोकवेदप्रसिद्धम् ईशानं रुद्रं जगतो जङ्गमस्य तस्थुषः स्थावरस्य च भूतजातस्य पति पालकं धिय-प्रीणातीति धियञ्जिन्वस्तम्, विभक्तिव्यत्ययः, अलुक् जिन्वं धिया बुद्ध्या, सङ्कल्पमात्रेणेति यावत् जिन्वति च । यद्वा धियं बुद्धि जिन्वति प्रीणातीति धियञ्जिन्वस्तं बुद्धिसन्तोषकारकम् तादृशं परमात्मानमवसे रक्षिता अवितुं तर्पयितुं हूमहे आह्वयामः, तुमर्थे असे प्रत्ययः । यथा येन प्रकारेण पूषा पुष्टिकारकः सविता वेदसां धनानां स्वस्तये पालकः, पायुः पुत्रादीनां पालकः, ज्ञानानां वा पालकः, अदब्धोऽनुपहसितो नोऽस्माकं वृधे वृद्ध्यै कल्याणाय च असद् भवतु, तथा हुमह इत्यर्थः । अध्यात्मपक्षे - तमीशानं परमात्मानं जगतस्तस्थुषश्च सर्वस्य स्थावरजङ्गमात्मकस्य पति सङ्कल्पमात्रेण तर्पयितारम्, अवसे अविद्यातत्कार्यात्मकसंसाराद् रक्षणाय हूमहे । यथा वेदसां रक्षिता पूषा पायुरभीष्टानां पालकः, अदब्धः स नीऽस्माकं जीवानां वृधे वृद्धयै स्वस्तये च भूयात् तथा तमाह्वयामः ।
पृष्ठ 196
पाठ पढ़ें पाठ छिपाएँ
म ० १८-२० 1 वेदार्थपारिजातभाष्यसहिता १६३ दयानन्दस्तु – ' हे मनुष्याः, वयमवसे जगतस्तस्थुषः पतिं धियञ्जिन्वं तमीशानं हूमहे, स यथा नो वेदां वृधे पूषा रक्षिता स्वस्तये पायुरदब्धोऽसत्तथा यूयं कुरुत । स च युष्मभ्यमप्यस्तु ' इति, तदपि यत्कि -ञ्चित्, तथाध्याहारस्य निर्मूलत्वात् । सिद्धान्तरीत्या अध्याहारं विनापि तात्पर्योपपत्तेः ॥ १८ ॥
स्व॒स्ति न॒ इन्द्रो॑ स्व॒स्ति न॒स्ताक्ष्यो॒
वृ॒द्धभ॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
अरि॑ष्टनेमिः स्व॒स्त नो॒ बृह॒स्पति॑र्दधातु ॥ १ ९ ॥
मन्त्रार्थ - महती कीर्ति वाला ऐश्वर्यशाली इन्द्र हमारा कल्याण करे, सर्वज्ञ सबके पोषणकर्ता सूर्य हमारा कल्याण करें । जिनकी चक्रधारा के समान गति को कोई रोक नहीं सकता, वह गरुड़देव हमारा कल्याण करें । वेदवाणी के स्वामी बृहस्पति हमारा कल्याण करें ॥ १ ९ ॥ षष्टी विराट्स्थाना । आद्यौ पादौ नववण तृतीय: पादो दशाक्षरः । चतुर्थश्च व्यूहेन एकादशाक्षरः । ' नवको वैराजस्त्रिष्टुभरच द्वौ वा वैराजो नवकस्त्रैष्टुभश्च विराट्स्थाना ' ( ऋ ० सर्वा ० ९ ) इति दशविधत्रिष्टुभो मध्ये चतुर्थी विराट्स्याना त्रिष्टुप् । इन्द्रः परमैश्वर्योपेतो देवराजः परमेश्वरो वा नोऽस्मभ्यं स्वस्ति अविनाशं शुभं दधातु ददातु । कथम्भूत इन्द्रः? वृद्धश्रवाः श्रव इत्यन्नस्य कीर्तेर्वा नामधेयम्, वृद्धं महत् श्रवो यस्य स वृद्धश्रवाः । पूषा देवो नोऽस्मभ्यं स्वस्ति क्षेमं दधातु स्थापयतु । कीदृशः पूषा? विश्ववेदाः, विश्वं सर्वं वेदो धनं यस्य सः, विश्वं वेत्तीति वा विश्ववेदाः । तार्क्ष्यः, तृक्षस्यापत्यं तार्थः, ' गर्गादिभ्यो यञ् ' ( पा ० सू ० ४।१।१०५ ) इति रूपसिद्धिः । ' तार्क्ष्यस्तु स्यन्दने वाहे गडे गरुडाग्रजे ' इति हैमः । स्यन्दनं गरुडो वा नः स्वस्ति दधातु नेदृशः तार्क्ष्यः? अरिष्टनेमिः अरिष्टा अनुपहसिता नेमिरचक्रधारा पक्षो वा यस्य सः, नयतीति नेमिः, ' नियो मि: ' ( उ ० ४ ४ ४ ) चक्रावयवः पक्षो वा । बृहस्पतिः ' तवृहतोः करपत्योः ' ( पा ० सू ० ६ । १ । १५७, वा ० - १ ) इति रूपसिद्धिः । देवगुरुनः स्वस्ति दधातु ददातु । अध्यात्मपक्षे - इन्द्रः परमेश्वरो वृद्धश्रवा महायशा नोऽस्मभ्यं स्वस्ति कल्याणं मोक्षरूपं दधातु धारयतु । विश्ववेदाः सर्वज्ञः पूषा सर्व पोषकत्वगुणविशिष्टो नः स्वस्ति दधातु । तार्क्ष्यो गरुत्मान् अरिष्टनेमिरव्याहतपक्षो नोऽस्मभ्यं स्वस्ति दधातु बृहस्पतिर्वृहतां वेदलक्षणानां वाचां पतिः परमेश्वरः, तादृशगुणविशिष्टः स्वस्ति दधातु । एतैरिन्द्रादिपदैः परमात्मन एवं व्यपदेश:, ' एकं सद्विप्रा बहुधा वदन्ति ' ( ऋ ० सं ० १ | १६४।४६ ) इति मन्त्रवर्णात् । दयानन्दस्तु - ' हे मनुष्याः, वृद्धभवा इन्द्रो नः स्वस्ति यो विश्ववेदाः पूषा नः स्वस्ति, यस्तार्क्ष्य इवारिष्ट-नेमिः स नः स्वस्ति, यो बृहस्पतिर्नः स्वस्ति दधाति स युष्मभ्यमपि सुखं दधातु ' इति, तदपि यत्किञ्चित्, अध्याहृतपदानां निर्मूलत्वात् । बहुश्रोतुर्वृद्धश्रवस्त्वमपि चिन्त्यम् यशसि श्रुतौ कर्णे नक्षत्रे च श्रवःशब्द-प्रसिद्धेः । तथा च मेदिनी - ' श्रवः श्रुतौ च कर्णे च नक्षत्रे न नपुंसकम् ' इति ॥ १ ९ ॥
पू॒ष॑वश्वा म॒रुतः पृश्निमातरः शुभ॒यावा॑नो वि॒दथे॑षु॒ जन॑यः ।
अग्निजिह्वा मन॑वः सूरचक्षसो॒ विश्वे॑ नो दे॒वा अवसा गमन्निह ॥ २० ॥
मन्त्रार्थ - चितकबरे वर्ण के घोड़ों वाले, अदिति माता से उत्पन्न, सबका कल्याण करने वाले, यज्ञशालाओं में जाने वाले, सर्वज्ञ, सूर्यरूप नेत्र वाले मरुद्गण और विश्वेदेव देवता हविरूप अन्न को ग्रहण करने के लिये हमारे इस यज्ञ में आवें ॥ २० ॥
पृष्ठ 197
पाठ पढ़ें पाठ छिपाएँ
१६४ शुक्लयजुर्वेदसंहिता [ ० २५ जगती । मरुतो देवाः पृषदश्वाः प्रावृषि सर्वतः पृषत्यो विचित्रा मेघमाला अश्वा येषां ते तथोक्ताः । अथवा पृषत्यः पृषतीसंज्ञा अश्वा वडवा ( वाहनं ) येषां ते तथोक्ताः " पुंवद्भावः, ' पृषत्यो मरुताम् ' ( निघ ० १।१५।६ ) इति निघण्टुक्तेः । यद्वा पृषद्भिबिन्दुभिर्युक्ताः पृषद्युक्ताः पृषद्युक्ता अश्वा येषां ते पृषदश्वाः, मध्यमपदलोपः । यद्वा पृषन्तः शबला अश्वा येषां ते पृषदश्वाः । पृश्निमातरः पृश्निद्योगदितिर्वा माता जननी येषां ते तथोक्ताः । शुभंयावानः शुभं कल्याणं यान्ति प्राप्नुवन्ति प्रापयन्ति वा ये ते शुभंयावानः, ' या प्रापणे ' इत्यस्मात् ' आतो मनिनक्वनिब्वनिपश्च ' ( पा ० सू ० ३।२।७४ ) इति वनिप्, द्वितीयाया अलुक् । विदथेषु यज्ञगृहेषु जग्मयो गमनशीलाः, ' आहगमहनजनः किकिनौं लिट् च ' ( पा ० सू ० ३।२।१७१ ) इति किः । अग्निजिह्वा अग्निजिह्वा भोजनसाधनं येषां ते, ' अग्निमुखा उ वै सर्वे देवाः? ( श ० १३ ७ १ ३ ) इति श्रुतेः, हुताद इत्यर्थः । विदथेषु वेत्ति देवपूजादिकं यत्र तानि विदथानि ' विद् ज्ञाने ', विन्दति लभते हि दक्षिणादिकमत्रेति विदथानि ' विल लाभे ', विन्ते विचारयति मन्त्राणां छन्दोदेवर्ण्यादिसम्बन्धविशेषरूपं विनियोगमत्रेति विदथानि, विद्यते कर्मणां विविधानां प्रचारों यत्र तानि विदथानि यज्ञस्थानानि, ' सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे । विन्दते विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ॥ ' तेषु जग्मयो गमनशीलाः । ईदृशा मरुतों देवा अवसा हविर्लक्षणेनान्नेन निमित्तेन आहूताः सन्त इह यज्ञे आगमन् आगच्छन्तु । मनवों मन्यन्ते जानन्ति ये ते मनवः सर्वज्ञाः, सुरचक्षसः सूरः सूर्यश्चक्षश्चक्षुर्येषां ते, अथवा सूर्यं चक्षते पश्यन्ति ये ते सूरचक्षस आदित्यदर्शनाः, न केवलं मरुतः, किन्तु विश्वे सर्वे देवा नोऽस्माकमवसा हविर्लक्षणेनान्नेन निमित्तेन इहास्माकं यज्ञे, आगच्छन्त्विति भावः । अध्यात्मपक्षे- तत्तद्विशेषणविशिष्टा मरुतोऽन्ये चाग्निजिह्वा मनवः सूरचक्षसों विश्वे देवाः परमात्मांशभूता इह यज्ञे यजनस्थाने आगच्छन्तु । दयानन्दस्तु - ' हे पृश्निमातर इव पृपदश्वा मरुतो मनुष्याः, विदथेषु शुभं यावानो जग्मयोऽग्निजिह्वाः सूरचक्षसो विश्वेदेवा मनवोऽवसा सह वर्तन्ते, त इह नोऽस्मानागमन् ' इति, तदपि निरर्थकम्, प्रार्थनामात्रेण पृषदश्वानां मनुष्याणां विदुषां चागमनासम्भवात् । यत्तु - ' पृषतः पुष्ट्यादिसंसिक्ताङ्गा अश्वा येषां ते पृषदश्वाः ' इति, तदपि न, पृषच्छब्दस्य तादृशार्थतायां मानाभावात्, ' पर्षेति सिचति हिनस्ति वा तत् पृषद् ' मृगविशेषो बिन्दुर्वा ' इति त्वदुक्तः । न च विद्वांसोऽन्तरिक्षमातरो भवन्ति, नापि तेऽग्निजिह्वा भवन्ति, न चाग्निशब्देन तद्वद्दीप्तिरर्थः, मुख्यार्थत्यागे मानाभावात् ॥ २० ॥
भद्रं कणभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांस॑स्त॒नूभि॒व्य॒ शेमहि दे॒वहि॑तं॒ यदायुः ॥ २१ ॥
मन्त्रार्थ - हे यजमान के रक्षक देवताओं! हम दृढ़ अंगों वाले शरीर से पुत्र आदि के साथ मिलकर आपकी स्तुति करते हुए कानों से कल्याण की बातें सुनें, नेत्रों से कल्याणमय वस्तुओं को देखें, देवताओं की उपासना योग्य आयु को पावें ॥ २१ ॥
तिस्रस्त्रिष्टुभः । हे देवाः, कर्णेभिः कर्णैर्भद्रं कल्याणमनुकूलं वयं शृणुयाम । हे यजत्राः, यजन्तं त्रायते रक्षन्तीति यजत्रा यजमानपालकाः, तत्सम्बोधने । अथवा इज्यन्ते ये ते यजत्राः । ' अमिनक्षिय जिवधि -पतिभ्योऽवन् ' ( उ ० ३।१०५ ) इत्यत्रन्प्रत्ययेन साधुः, तत्सम्बोधने हे यजत्रा यष्टव्या देवाः । अक्षभिरक्षिभ्याम्,, ' छन्दस्यपि दृश्यते ' ( ( पा ० सू ० ७१ ७६ ) इत्यनङ्ङादेशः । भद्रं कल्याणं पश्येम । किञ्च देवहितं यदायुर्देवहितं निहितं स्थापितं देवेभ्यो हितं वा, देवोपासनयोग्यमिति यावत् यदायुर्जीवनं तद् वयं व्यशेमहि व्यश्नुवीमहि
पृष्ठ 198
पाठ पढ़ें पाठ छिपाएँ
म ० २१-२२ ] वेदार्थपारिजातभाष्यसहिता १६५ प्राप्नुयाम । कीदृशा वयम्? स्थिरैर्दृढैरङ्गैरवयवैर्हस्तपादादिभिस्तनूभिः शरीरैश्च पुत्रादिभिर्वा युतास्तुष्टुवांसो भवतः स्तुवन्तः सन्तः । अध्यात्मपक्षे - त्रिगुणात्मके संसारे देवानुग्रहादेव भद्रदर्शनं भद्रश्रवणं च सम्पद्यते, अतो भगवदंशा वैदिकमाएँ देवा एव प्रार्थ्यन्ते । हे देवाः, वयं कर्णैः श्रोत्रन्द्रियैर्भद्रं मङ्गलमयं भगवच्चरित्रं भगवत्तत्त्वप्रतिपादकं । वाचापि शिष्टवाक्यं शृणुयाम, नेत्रैश्च भद्रं माङ्गलिकं भगवद्भागवतस्वरूपादिकं पश्येम | उपलक्षणमेतत् | तदुक्तं परमभागवतेन मङ्गलं भगवन्नामस्तुत्यादिकं वदेम, मनसापि भगवन्तं सङ्कल्पयेम, तमेवाध्यवस्याम धिया । मनश्च भद्रं प्रह्लादेन श्रीमद्भागवते - ' स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो मृषोप-भजतादधोक्षज आवेश्यतां नो मतिरप्यहैंतुकी ॥ ' ( ५। १८ / ९ ) । ब्रह्मणाप्युक्तं तत्रैव - ' न भारती मेऽङ्ग ॥ " लक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः । न मे हृषीकाणि पतन्त्यसत्पथे यन्मे संस्कृतैश्वाङ्गः हृदौत्कण्ठ्यवता करचरणादिभि- धृतो हरिः ( २।६।३३ ) इति । हे यजत्रा यष्टरक्षका यजनीया वा भगवन्तः, वयं स्थिरैर्दृढैः स्थापितमायुर्जीवनं स्तनूभिः समष्टिशरीरैश्च भार्यापुत्रप्रपौत्रादिभिर्वा तुष्टुवांसो भवतः स्तुवन्तः सन्तो देवहितं देवैः देवानां हितयजनोपासनाद्यनुकूलं वा जीवनं व्यशेमहि व्यश्नुवीमहि । दयानन्दस्तु - ' हे यजत्रा देवाः भवत्संगेन वयं कर्णेभिर्भद्रं शृणुयाम, अक्षभिर्भद्रं पश्येम, स्थिरैरङ्ग-स्तुष्टुवांसः सन्तस्तनुभिर्यद्देवहितमायुस्तद्वयशेमहि ' इति, तदपि यत्किञ्चित्, मनुष्येभ्यो देवेभ्यस्तथाभिल- तथावचनस्य षितासिद्धेः । लिङ्लकारोऽध्येषणाद्यर्थको भवति, अन्यथा कर्तुः श्रवणदर्शनादिक्रियासु स्वातन्त्र्येण विशिष्टशक्तिमन्तो नैरर्थक्यात् । अङ्गानां तनूनां स्थैर्यं देवहितायुः प्रार्थनं न मनुष्येभ्योऽल्पशक्तिभ्यः प्राप्तुं शक्यमिति देवाः परमेश्वरश्च प्रार्थनीया इति मन्तव्यम् ॥ २१ ॥
श॒तमिन्नू शरदो अन्तिं देवा यत्र नश्च॒क्रा जरसे त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या रा॑रिषि॒तायुर्गन्तोः ॥ २२ ॥
मन्त्रार्थ - हे देवताओं! आप सौ वर्ष की आयु पर्यन्त हमारे समीप रहें, जिस आयु में हमारे शरीर को जरा लोग अवस्था प्राप्त हो, जिस आयु में हमारे पुत्र पिता, अर्थात् पुत्रवान् बन जाँय 1 हमारी उस गमनशील आयु को आप बीच में खण्डित न होने दें ॥ २२ ॥
हे देवाः " शतमित् शतमपि शरदो वर्षाणि यूयमन्ति अन्तिके, भवतेति शेषः । आकल्पकालं युष्माकं सन्निधानमस्त्वित्यर्थः । यत्रा यत्र यस्मिन् शरच्छते, ' ऋचि तुनुघमक्षुत कुत्रोरुष्याणाम् ' ( पा ० सू ० ६ | ३ | १३३ ) इति दीर्घः । नोऽस्माकं तनूनां शरीराणां यूयं जरसं जरा जरानिमित्तां शक्ति चक्रा चक्र कुरुथ, कृतवन्त इति यावत्, ' द्वचोऽतस्तिङ ' ( पा ० सू ० ६ | ३ | १३५ ) इति दीर्घः, वार्धकावधि यूयं समीपे भवतेत्यर्थः । यत्रास्माकं जरायां पुत्रासोऽस्मत्पुत्राः पितरो भवन्ति पुत्रवन्तो भवन्ति, यावदस्माकं पौत्रा भवन्तीत्यर्थः, तावन्मध्या मध्ये नोऽस्माकमायुर्मा रीरिषत मा हिंसीष्ट, रिषतेहिंसार्थस्य णिजन्तस्य चङि रूपम् । कीदृशमायुः? गन्तोः सञ्चिन्त्य , गन्तृ. गमनशीलम्, ' ईश्वरे तोसुन्कसुनौ ' ( पा ० सू ० ३ | ४ | १३ ) इति तोसुन्प्रत्ययः । उक्तं च - ' सञ्चिन्त्य ॥ इति । तमुग्रदण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षासु सिक्ता इव चर्मबन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति जनितारो पुत्रासो यत्र पितरो भवन्तीत्यत्र उव्वटाचार्यः -- " पुत्रा अग्नयो यत्र शरदां शते यजमानस्य पितरो " भवन्ति । तदुक्तम् - - ' यत्र वै प्रजापतिः प्रजाः ससृजे ' ( श ० २ | ३ | ३ | १ ) इत्युपक्रम्य । यत्रैनमग्नावभ्यादधाति ' तं जनयित्वाबिभः ( श ० २।३।३।२ ) इति । यत्र पितरो भवन्ति । एतदप्युक्तमेव स यत्र म्रियते
पृष्ठ 199
पाठ पढ़ें पाठ छिपाएँ
4 १६६ शुक्लयजुर्वेदसंहिता | अ ० २५ तदेषोऽग्नेरधिजायते स एष पुत्रः सन् पिता भवति ' ( श ० २१३ ( ३१५ ) | अथवा पुत्रा एव पितॄणामौर्ध्वदेहिकं कुर्वाणाः पितरो यत्र सम्पद्यन्ते, तदपि शरदां शतमन्तिक एवेति ' इति । यजमानोऽग्नीनादधाति ताग्नयोऽस्य पुत्रा भवन्ति मरणानन्तरं यदा यजमानमग्नावभ्यादधाति तदा तेभ्योऽग्निभ्य एव तस्याभीष्टस्वर्गादिसुखोपभोग-योग्यं जन्म भवति । तदा तेऽग्नयो यजमानस्य पुत्रा भवन्तीति । अध्यात्मपक्षे --- हे देवाः, शतमिन्नु शतमपि शरदो वर्षाणि अन्ति अन्तिके समीपे भवतेति । देवानां सन्निधानेन सद्बुद्धिसदाचरणानि सिद्ध्यन्ति । तावन्मध्ये गन्तोर्गन्तृ गमनशीलमायुर्मा रीरिषित । तावत्कालं निर्विघ्नजीवन प्राप्त्या श्रवणमननादिभिर्ब्रह्मात्मसाक्षात्कारेण जन्मसाफल्यमपि सम्पद्यते । मन्त्रार्थव्याख्यानं तु पूर्ववदेव । दयानन्दस्तु -- ' हे देवाः, भवदन्तिस्थितानां नोऽस्माकं यत्र तनूनां जरसं शतं शरदः स्युस्तन्नु चक्र यत्र पुत्रास इत्पितरो भवन्ति तन्नो गन्तोरायुर्मध्या मा रीरिषत ' इति, तदपि यत्किञ्चित्, मानुषेभ्यो देवेभ्योऽदृष्टद्वारा तत्कार्यासम्पत्तेः । दृष्टो व्यवहारों लौकिको नास्ति सम्प्रतिपन्नो येन तत्सिद्धयेत । मनुष्येभ्यो भिन्ना विशिष्टशक्तिसम्पन्ना देवास्त्वया नाभ्युपेयन्ते तत एव तत्सम्बद्धानि कर्माण्यपि नोपेयन्ते । घृताद्याहुतयश्च वाय्वादिशुद्ध एवेति कुतोऽभीष्टसिद्धिः स्यात् । गन्तोरित्यस्य गमनमित्यर्थोऽपि चिन्त्यः, तुमर्थे तोसुन्-विधानात् ॥ २२ ॥
7 अदितिर देतिरन्तरिक्षमदितिर्माता स पिता स पत्रः । ७ विश्वे॑ दे॒वा अदिति पञ्चजना अदि॑ितिर्जातमदि॑ति॒र्जनि॑त्व॑म् ॥ २३ ॥
} ; मन्त्रार्थ -- अखण्डित परा शक्ति स्वर्ग है, वही अन्तरिक्ष रूप है, वही पग शक्ति माता, पिता और पुत्र भी है । सकल देवता पराशक्ति के ही स्वरूप हैं, अन्त्यज सहित चारों वर्णों के सकल मनुष्य पराशक्तिमय हैं, जो उत्पन्न हो चुका है और जो उत्पन्न होगा, सब परा शक्ति के ही स्वरूप हैं ॥ २३ ॥
मन्त्रदृक् सर्वात्मभावेनादिति स्तौति - अदितिर्देवमाता सर्वमाताऽनन्तब्रह्माण्डजननी चिती राजराजेश्वरी, न द्यति खण्डं परिच्छेदं प्राप्नोतीत्यदितिर परिच्छिन्नाऽखण्डा स्वप्रकाशा चित् । सैव द्यौः स्वर्गः, तदधिष्ठानत्वात् तदधिष्ठातृत्वाच्च । अदितिरन्तरिक्षम् । अदितिरेव माता जननी पुत्रश्च । स साऽदितिः, लिङ्गव्यत्ययः । पिता जनकः स सादितिरेव पुत्रः । विश्वे सर्वे देवा अदितिः पञ्चजनाः पञ्चभिर्भूतैर्जन्यन्त इति पञ्चजनाः, च कारके संज्ञायाम् ' ( पा ० सू ० ३।३।१ ९ ) इति घञ्, ' जनिवध्योश्च ' ( पा ० सू ० ७।३।३५ ) इति वृद्धभावः । अथवा पञ्चजना उत्पादका: यस्य ते पञ्चजना मनुष्याः स्युः पुमांसः पञ्चजना: ' ( २/६/१ ) इत्यमरवचनात् । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजना आख्यायन्ते, अथवा गन्धर्वाप्सरसो देवा असुरा रक्षांसि इत्येते सर्वेऽपि पञ्चजना इति सायणः । एते सर्वेऽप्यदितिरेव । किं बहुना जातमुत्पन्नं प्राणिजातं जनित्वं जनिष्यमाणं च सर्वमदितिरेव । यद्वा-- द्यौरन्तरिक्षं माता पिता पुत्रो विश्वे देवाः पञ्चजनग जातं जनित्वं च सर्वमदितिरदीना महाभाग्ययुक्तमस्त्वित्यध्येषणा । अध्यात्मपक्षे - इदमेव व्याख्यानम् । दयानन्दस्तु -- ' हे मनुष्याः, युष्माभिद्यौरदितिर्माता च पिता स पुत्रवादितिः पञ्चजना अदितिर्जातं जनित्वं चादितिरस्तीति वेदितव्यम् ' इति, तदपि यत्किञ्चित् त्वद्रीत्या कार्यस्य कारणत्वासम्भवात् । परमेश्वरस्तु •
पृष्ठ 200
पाठ पढ़ें पाठ छिपाएँ
म ० २३-२४ ] वेदार्थं पारिजात भाष्यसहिता १६७ निमित्तकारणमेव । न च कार्यस्य निमित्तकारणरूपत्वम्, घटादीनां कुलालरूपत्वापत्तेः । स्वरूपेण नित्यत्वेऽपि न ब्रह्मरूपता सम्भवति, कालाकाशादीनां नित्यत्वेऽपि परमात्मरूपत्वाभावात् । सिद्धान्ते तु - ' प्रकृतिश्च ' तदनन्यत्व- प्रतिज्ञा-दृष्टान्तानुपरोधात् ' ( ब्र ० सू ० १ ४ | २३ ) इति न्यायेन परमात्मन एवाभिन्ननिमित्तोपादानत्वेन मारम्भणशब्दादिभ्यः ' ( ब्र ० सू ० २।१।१४ ) इति न्यायेन कार्यस्य कारणानन्यत्वेन ब्रह्मरूपत्वमेव ॥ २३ ॥
} मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभुक्षा म॒रुतः॒ परि॑ख्यन् । F यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तैः प्रव॒क्ष्यामो॑ वि॒दर्थे वीर्याणि ॥ २४ ॥
: मन्त्रार्थ- - यज्ञ में सूर्य से उत्पन्न देवताओं के अश्वों के चरित्रों का जो हम वर्णन करेंगे, उसके कारण मित्र, वरुण, सूर्य, वायु, इन्द्र, प्रजापति और मरुद् देवता हमारी निन्दा न करें ॥ २४ ॥
' मा नो मित्र इति च प्रत्यृचमनुवाकाभ्याम् ' ( का ० श्र ० २०१८ ६ ) | मा न इत्यादि षोडशकण्डिकात्म-केनानुवाकद्वयेन पूर्ववच्चतुर्गृहीतमाज्यं गृहीत्वा जुहोतीति सूत्रार्थः । ' मा नो मित्रो यदश्वस्याष्टकौ ' इत्यनुवाक -सूत्रवचनम्,!! ' षोडशाश्वस्तोमीया जुहोति ' ( श ० १३३ । ६।५ ) इति श्रुतिश्च । अत आरभ्य द्वाविंशतिर्ऋचोऽश्व-अत्र ' या तेनोच्यते सा देवता ' ( निरु ० ) इति स्तुतिपरत्वादश्वदेवत्यास्त्रिष्टुभो दीर्घतमोदृष्टाः नियमात् । अत्र ' एष छागः इति तृतीया ( अध्यायारम्भतः षविशी ) ' यूपवस्का ' इति षष्ठी ( अध्यायारम्भत एकोनत्रिंशी ) इत्येते द्वे जगत्यौ । ततः षोडशभिर्होमः, षड्भिः स्तुति, सर्वाभिर्वा होम:, ' अश्वस्तोमीय, हुत्वा द्विपदा जुहोति ' ( श ० १३ । ३ । ६ । ३ ) इति श्रुतेः । मन्त्रार्थस्तु - यद्वयं विदथे यज्ञे वाजिनोऽश्वस्य वीर्याणि चरित्राणि प्रवक्ष्यामो वर्णयिष्यामः, तत्र मित्रादयो ' देवा नोऽस्मान् मा परिख्यन् मा गर्हन्ताम् । परिख्यानं गर्हणम्, परिपूर्वात् ख्यातेर्लुङि ' अस्यतिवक्तिख्यातिभ्योऽङ् स्तुत्याः, ( पा ० सू ० ३।१।५२ ) इति चलेरङ्, ' न माङ्योगे ' ( पा ० सू ० ६।४।७४ ) इत्यभावः । अस्माभिर्देवाः । न त्वश्वप्रभृतयस्तिर्यञ्च इति यद्यपि निन्दा युक्ता, तथाप्यश्वरूपेण देवानामेव स्तुतत्वान्न गर्हणीया , " सूरादश्वं वयमित्यर्थः वसवो कथम्भूतस्य अश्वस्य? देवजातस्य, देवात् सूर्याज्जात उत्पन्नो देवजातस्तस्य देवैर्जनितस्य वा सप्तिः, ' षप् समवाये ' निरतष्ट ' ( वा ० सं ० २१११३ ) इति मन्त्रवर्णात् । सप्तेः, सपति समवैति देवैः सहेति के मा गर्हन्ताम्? इत्यस्मात् ' क्तिच्क्तौ च संज्ञायाम् ' ( पा ० सू ० ३।३।१७४ ) इतिं क्तिच्प्रत्ययः, तस्य ।, तानाह - मित्रः, अहरभिमानी देवः । वरुणो रात्र्यभिमानी देवः । अर्थमा आदित्यः । आयुरेति सततं स्वर्गोऽदितिर्वा गच्छतीत्यायुः, ' एतेणिच्च ' ( उ ० २।१२० ) इति इसिः वायुः । इन्द्रो देवराजः । ऋभुक्षा ऋशब्दवाच्यः स्वरादिपाठादव्ययत्वम्, तत्र भवन्ति ततो वा भवन्तीति ऋभवो देवाः, मित्रद्रवादित्वाद् ङः, ऋभवः क्षियन्त्य-, ति ऋभुक्षाः, औणादिक इनिः । ' पथिमथ्यभुक्षामात् ' ( पा ० सू ० ७ ११८५ ) इति सौपर आकारोऽन्तादेशः देवाधारः प्रजापतिरिति यावत् । यद्वा - इयति व्याप्नोति सर्वमिति ऋभुक्षाः, अर्तेर्भुक्षिनकप्रत्ययः । मरुतो देवतान्तराणि । एते सर्वेऽपि मा परिख्यन् । सप्तगुणितसप्तसंख्याका मरुतो वा मा परिख्यन्नित्यनुषङ्गः । अध्यात्मपक्षे – देवार्थं जातस्य सप्तेर्वाजिनो यद्वयं वीर्याणि प्रवक्ष्यामस्तेन मित्रादयो नोऽस्मान् मा परिख्यन् मा गर्हन्ताम्, प्रजापतिदैवतत्वेन तस्यापि देवरूपत्वात् । यथा शालग्रामो विष्णुबुद्धया स्तूयते, तथैवा-श्वोऽपि प्रजापत्यात्मना स्तूयते । दयानन्दस्तु – ' हे विद्वांसः, यथा मित्रो वरुणोऽर्यमेन्द्र ऋभुक्षा मरुतो न आयुर्मा परिख्यन्, येन वयं देव-जातस्य वाजिनः सप्तेरिव विदथे यद्वीर्याणि प्रवक्ष्यामस्तानि मा परिख्यन्, तथा यूयमुपदिशत ' इति, तदपि