वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 201–210

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 201–210

पृष्ठ 201

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 201 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ८ शुक्लयजुर्वेदसंहिता [ अ ० २५ यत्किञ्चित्, मुख्यार्थत्यागगौणार्थग्रहणयोनिर्मूलत्वात्, परिख्यन्नित्यस्य नाशार्थत्वायोगाच्च । देवजातस्य दिव्यै-र्गुणैः प्रसिद्धस्येत्यपि नार्थः, तथार्थे तस्याशक्तत्वात् । सप्तिपदस्याप्यश्ववाचकस्य तत्तुल्यार्थतापि निर्मूलैव । न च मित्रादिषु कस्यचिदायुर्नाशकत्वं प्रसक्तम्, येन तन्निषेधसार्थक्यं स्यात् ॥ २४ ॥

यन्नि॒णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भीतां सु॑व॒तो नय॑न्ति ।

सुप्रजो मेम्य॑दि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पय॑ः ॥ २५ ॥

मन्त्रार्थ - जिस समय ब्राह्मण स्नान से और सुवर्ण, मणि आदि से संस्कार को प्राप्त हुए अश्व के मुखाग्र में ग्रहण किये घृत, सत्तू, धाना रूप दान को प्राप्त कराते हैं, तब ललाट के निकट बँधा हुआ शब्दकारी विचित्र वर्ण का छाग इन्द्र और पूषा देवता के प्रिय अन्नभाव को प्राप्त करता ॥ २५ ॥

यद् यदा विप्रा निर्णिजा निर्णेजनोदकस्नानेन प्रावृतस्य संस्कृतस्य, आलम्भनकालेऽश्वस्य यत् स्वपनं तदभि-प्रायेणैतदुक्तम् । तथा रेक्णसा धनेन मणिसुवर्णादिना प्रावृतस्य केसरपुच्छेषूपचितस्य ' मणीनु सौवर्णान् ' ' ' केसर-पुच्छे वा वयन्ति ' ( का ० श्र ० २०१५/१६ ) इत्युक्तेः अस्य महिषी - वावातादय इति शेषः । रेक्ण इति धननाम ( निघ ० २1१०/२ ), निर्णेजनं निर्णिक, तया । ' णिजिर् शौच पोषणयो: ' सम्पदादित्वात् क्विप् । तादृशस्य अश्वस्य मुखतो मुखाग्रे गृभीतां गृहीतां राति दानमाज्यसक्तुधानालक्षणं नयन्ति प्रापयन्ति, ' अश्वाय रात्रिहुतशेषं प्रयच्छतीति ' इति कात्यायनोक्तेः । तदा अजरछागोऽप्येति, अश्वाय समर्पिताज्यसक्तुधानादिभक्षणायागच्छति । कीदृशोऽजः? सुप्राङ् सुष्ठु प्राञ्चतीति सुप्राङ्, ललाटे बद्ध इत्यर्थः, ' कृष्णग्रीव आग्नेयो रराटे पुरस्तात् ' ( वा ० सं ० २४।१ ) इत्युक्तेः । तथा मेम्यत् शब्दानुकरणमेतत् मे मे इति शब्दं कुर्वाणः, तथा विश्वरूपो विश्वानि रूपाणि वर्णानि यस्य सः । इन्द्रापूष्णोरिन्द्रश्च पूषा चेति इन्द्रापूषणौ, ' देवताद्वन्द्वे च ' ( पा ० सू ० ६।३।२६ ) इत्यानङ् इन्द्रस्य पूष्णश्च प्रियमिष्टं पाथोऽन्नं पशुलक्षणं तदप्येति नाभिबद्धोऽपि भक्षाय आगच्छति, ' सोमापूष्णः श्यामो नाभ्याम् ' ( वा ० सं ० २४ | १ ) इत्युक्तेः । हुतशेषमन्नं यदाश्वाय दीयते, तदा ललाटनाभिबद्धावजौ भक्षायागच्छतः । अध्यात्मपक्षे यथा प्रजापतिसंसृष्टा अग्न्यादयः, तथैव अश्वसंसृष्टा अजादयः पशवः । प्रजापतेरन्न-मेवाग्न्यादीनामन्नम्, तथैवाश्वसमर्पितसक्तुधानादिकमजौ भक्षयतः । व्याख्यानं तु पूर्ववदेव । दयानन्दस्तु - ' यन्मनुष्या निर्णिजा सुरूपेण रेक्णसाधनेन प्रावृतस्य युक्तस्य राति गृभीतां मुखतो नयन्ति, यो मेम्यत् सुप्राङ् यः सुष्ठु पृच्छति स विश्वरूपोऽजः, इन्द्रापूष्णोः प्रियं पाथोऽप्येति, ते स च सुखमाप्नुवन्ति ' इति, तदपि यत्किञ्चित् मूले मनुष्यपदाभावात् । न च निर्णिक्पदमपि सुरूपपरम् धात्वर्थाननुरोधात् । यो गृभीतां राति मुखतः सुप्राङ् सुष्ठु पृच्छतीत्यपि यत्किञ्चित् पृच्छतेस्तादृशरूपत्वायोगात् । न वाऽजस्य जीवस्य विश्वं रूपं सम्भवति, तस्य विश्वविलक्षणत्वात् । न वा तस्य विद्युत्पवनयोगः, तस्यासङ्गत्वात् । सुखं प्राप्नुवन्तीत्यपि मन्त्र-बाह्यमेव ॥ २५ ॥

ए॒ष छाग॑ः पुरो अश्वे॑न वा॒जिनः॑ पू॒ष्णो भागो नी॑यते वि॒श्वदे॑व्यः ।

अ॒भि॒िप्रियं॒ यत्पु॑रोडाश॒मव॑ता॒ त्वष्टेदे॑न सौश्रव॒साय॑ जिन्वति ॥ २६ ॥

पृष्ठ 202

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 202 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २६-२७ ] श २२ १६ ९ वेदार्थ पारिजातभाष्यसहिता देवयान मार्ग से जाने वाले अश्व की तीन परिक्रमा देवताओं के निमित्त यज्ञ को जताता हुआ प्राप्त मन्त्रार्थ- - जब यह अग्निदेवता का भाग सब देवताओं का हितकारी अज वेगवान् अश्व के आगे किया जाता है, तब प्रजापति ही वेगवान् अश्व के द्वारा सब प्रकार से देवताओं को तृप्त करने वाले आगे देने योग्य इस अज को श्रेष्ठ कीर्ति के लिये तृप्त करते हैं ॥ २६ ॥

यद् यदा एषोऽग्निदेवत्यश्छागोऽजो वाजिना वेगवताऽश्वेन ( व्यापकेन ) पुरोऽग्रतो नीयते, ललाट-बद्धत्वात् । अश्वस्य पुरोगमनेन तस्य पुरोगमनं सिद्धयति, अश्वस्य पर्यङ्ग्यत्वात् । तदा त्वष्टा इत् त्वष्टैव प्रजापतिरेव अर्वताऽश्वेन सह एनं छागं जिन्वति प्रीणाति । कीदृशश्छाग:? पूष्णो भाग, पुष्णाति देवानिति पूषाग्निः, तस्य भागो भजनीयः, ' आग्नेयो रराटे ' ( वा ० सं ० २४ | १ ) इत्युक्तत्वात् । तथा विश्वदेव्यो विश्वेभ्यो देवेभ्यो हितः सर्वदेवार्हः, अग्नेः सर्वदेवात्मकत्वात् । किमर्थमेनं छागमश्वेन सह जिन्वतीत्याह -- सौश्रवसाय शोभनं श्रवः कीर्तिर्यस्य स सुश्रवाः, तस्य भावः सौश्रवसम्, तस्मै सुकीर्तये, यज्ञ आलब्धान्तं स्वर्गप्राप्तेरुक्तत्वात् । कीदृशमेनं छागम्? अभिप्रियमभिप्रेतम्, अभिप्रीणातीत्यभिप्रियस्तं समन्ताद्देवानां प्रीणयितारम् । तथा पुरोडाशम्, पुरो दाश्यते दीयत इति पुरोडाश:, ' अकर्तरि च कारके संज्ञायाम् ' ( पा ० सू ० ३।३।१ ९ ) इति कर्मणि घञ्, पृषोदरादिः तं देवेभ्यः पुरस्ताद् दातव्यम् । यद्वा पशुपुरोडाशरूपम् । यच्च पुरोडाशं कर्तुमर्वताऽश्वेन सहितम्, स हि संज्ञपनकाले संज्ञप्यते पशुपुरोडाशः क्रियते, तदेतदुक्तमित्युव्वटाचार्योऽभिप्रति । सौश्रवसाय शोभनान्तः-करणाय जिन्वति स हि तस्याधिकार इति च । अध्यात्मपक्षे - यः सर्वैर्देवैः सह प्रजापतिं प्रीणयितुमनिच्छ्यापि स्वात्मानं तत्पुरोडाशत्वेनोपस्थापयति, तं स त्वष्टा प्रीणाति । तदनन्तरं यज्ञं चाभिवर्धयति । व्याख्यानं तु पूर्ववदेव । दयानन्दस्तु - ' विद्वद्भिर्य एष पुरो विश्वदेव्यो विश्वेषु देवेषु साधुः पूष्णो भागः सेवनीयश्छागश्छेदको वाजिनाऽश्वेन सह नीयते यदभिप्रियं पुरोडाशमर्वता गन्त्रा सह त्वष्टैनं सौश्रवसायेज्जिन्वति स सदा पालनीयः ' इति, तदपि यत्किञ्चित् छेदक क इत्यस्यानुक्तत्वात् । भावार्थेऽजादीन् पशु नित्युक्तत्वादज एव छागो ग्राह्यः । कथं च तस्य छागस्य सर्वेषु देवेषु विद्वत्सु साधुत्वमित्यपि वक्तव्यम्? कथं किमर्थं व तस्य पूष्णा सेव्यत्वम्? अश्वेन च सह तस्य कः सम्बन्धः? पुरोडाशे कीदृशं कमनीयत्वम्? पुरोडाशप्रापकेनाश्वेन सार्धं तं छागं प्राप्य त्वष्टा सौश्रवसाय कथं जिन्वतीत्यादिप्रश्नानां दुःसमाधेयत्वात् ॥ २६ ॥

यजु॑वि॒ष्य॒मृत॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒ पर्यश्वं॒ नयन्ति ।

अश्रो पूष्णः प्रथ॒मो भाग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒वय॑न्न॒जः ॥ २७ ॥

मन्त्रार्थ - जिस समय ऋत्विकगण हवि के योग्य यज्ञकाल में करते हैं, उस समय अग्नि का भागरूप अज अग्रगामी होता हुआ, होता है ॥ २७ ॥

यद्यदा हविष्यं हविषे हितं हविर्योग्यम्, ऋतुश ऋतौ ऋता इति ऋतुशः, ' संख्यैकवचनाच्च वीप्सायाम् ' ( पा ० सू ० ५।४।४३ ) इति शस्प्रत्ययः, यज्ञकाले देवयानं देवानां प्रापणीयम्, देवेषु वा यानं गमनं यस्ये तम्, देवयानमार्गगामिनं वा, देववदादित्यवद् यानं गतिर्यस्य तं वा, आदित्यवदनिवारितगतिमित्यर्थः । अश्वं मानुषा मनुष्या ऋत्विजस्त्रिः परिणयन्ति प्रदक्षिणीकुर्वन्ति, वारत्रयं पर्यग्निकुर्वन्ति वा । स्नपनव्यञ्जन -सुवर्णमणिकप्रवारैः त्रिः संस्कृतं वा परिणयन्ति परितो नयन्ति । अत्रा अत्र, ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् '

पृष्ठ 203

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 203 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७० शुक्लयजुर्वेदसंहिता [ अं ० २५ ( पा ० सू ० ६ | ३ | १३३ ) इति दीर्घः, तत्रेत्यर्थः । तस्मिन् काले अत्रास्मिन् समये पर्यग्निकरणकाले वा पूष्णः पोषकस्याग्नेः प्रथमो भागोऽजाख्यः, एति आगच्छति, देवेभ्यो यज्ञं प्रतिवेदयन् स्वकीयेन शब्देन । तदभिप्रायेणैव चरकश्रुतौ – ' पूष्णो ' ललाटे ' इति पठ्यते । यद्वा अत्रास्मिन् समये पर्यग्निकरणकाले पूष्णः पूषति वर्धत इति पूषाग्निः, ' पूष वृद्धौ ' भौवादिकः, तस्य पोषकस्य वृद्धस्याग्नेर्भागोऽजः प्रथमः पुरोगामी सन्नेति आगच्छति । किं कुर्वन्? देवेभ्यो यज्ञं प्रतिवेदयन् स्वशब्देन ज्ञापयन् । अध्यात्मपक्षे - अश्वमेधादिभिर्यज्ञः सोपासनैर्देवयानमार्गः प्राप्यते । तत्र संस्कृतस्याश्वस्य पुरोगामी छागो देवेभ्यः स्वशब्दैर्यज्ञं प्रतिवेदयति । सर्वमेतद् ब्रह्मविकारत्वाद् ब्रह्मरूपमेव वेदितव्यम् । अक्षरार्थस्तूक्त एव । दयानन्दस्तु - ' मानुषा ऋतुशो ऋत्वहं हविष्यं देवयानमश्वं त्रिः परियन्ति, योऽत्र पूष्णः प्रथमो भागो देवेभ्यो यज्ञं प्रतिवेदयन्नेति स सदा रक्षणीयः ' इति, तदपि पूर्ववदेव प्रत्याख्येयम्, छागः कथं देवेभ्यः सत्कारं प्रतिवेदयतीत्यस्यानुक्तत्वात् ॥ २७ ॥

होता॑ ऽध्व॒र्युराव॑या अग्निमि॒न्धो ग्रवग्राभ उ॒त शस्ता सुविप्रः ।

तेन॑ य॒ज्ञेन॒ स्व॒रङ्कृतेन॒ स्व॒ष्टेन॑ व॒क्षणा॒ आपृ॑णध्वम् ॥ २८ ॥

मन्त्रार्थं - होता, अध्वर्यु, प्रतिप्रस्थाता, आग्नीध्र, ग्रावस्तोता, प्रशास्ता और ब्रह्मा ये सब ऋत्विकगण हवि दक्षिणा आदि से शोभित, भली प्रकार से अनुष्ठित अश्वमेध यज्ञ के द्वारा घृतकुल्या वाली नदियों को पूर्ण करें ॥ २८ ॥

हे होत्रादय ऋत्विजः, तेन प्रसिद्धेन यज्ञेनाश्वमेधेन वक्षणा वहन्तीति वक्षणास्ता नदीः, सनन् बाहुलकात् देवानां तुष्टिकरा घटकुल्याद्या आपृणध्वम्, घृतपयोदधिपयस्यापुरोडाशमांसैरापूरयध्वम् । साङ्गोपाङ्गयज्ञानुष्ठानेन फलं प्रापयत । कीदृशेन यज्ञेन? स्वरङ्कृतेन रलयोरभेदात् स्वलङ्कृतेन सुष्ठु अलङ्कृतेन विप्रहविर्दक्षिणादिभिः शोभितेन स्विष्टेन सुष्ठु इष्टेन यजनेन । के ऋत्विजः? तानाह - होता शंस्ता शस्त्राणाम् आह्वाता देवानाम्, होतृनामक ऋत्विग् इति यावत् । अध्वर्युरध्वरमिच्छतीति, ' सुप आत्मनः क्यच् ' ( पा ० सू ० ३ | १ | ८ ) इति क्यचि, ' कव्यध्वरपृतनयच लोपः ' ( पा ० सू ० ७ | ४ | ३ ९ ) इति लोपे, ' क्याच्छन्दसि ' ( पा ० सू ० ३।२।१७ ) इत्युप्रत्ययेन साधुः । यद्वा न ध्वरति पुमान् यत्रासावध्वरः । ' ध्वृ कौटिल्ये ' पचाद्यच्, अध्वरं याति यति युनक्ति वेत्यध्वर्युः । ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३।२ | ७५ ) इति विचि सर्वापहारिलोपे, ' मितद्रवादिभ्य उपसंख्यानम् ' ( पा ० सू ० ३ | २ | १८०, वा ० १ ) इति वार्त्तिकेन डुः । आवया अव आभिमुख्येन यजतीत्यावयाः, ' अवे यज: ' ( पा ० सू ० ३।२।७२ ) इति ण्विन् सौ च पदत्वेन ' श्वेतवहादीनां डस्पदस्येति वक्तव्यम् ' ( पा ० सू ० ३ | २ | ७१, वा ० १ ) इति ण्विनोऽपवादो इस् । भागुरिमतेन अकारलोपः, आङ् चोपसर्गः । अथवा आङ् आभिमुख्येन अवयजतीत्यावयाः प्रतिप्रस्थाता । अग्निमिन्धः, अग्निमिन्धे दीपयतीत्यग्निमिन्धः, अग्नीत् । ' भ्राष्ट्राग्न्योरिन्थे ' ( पा ० सू ० ६ । ३७०, वा ० ५ ) इति मुमागमः । ग्रावग्राभो ग्राव्णो गृह्णातीति ग्रावग्राभः, कर्मण्यण्, ' हृग्रहोर्भश्छन्दसि ' ( पा ० सू ० ३ १ ८४, वा ० १ ) इति भः सोमाभिषवाय ग्रावग्रहणशीलो ग्रावस्तुत् । उतापि शंस्ता ' तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटी ' ( उ ० २१ ९ ) इति सिद्धि:, प्रशास्ता । सुविप्रः शोभनो विप्रो ब्राह्मणः, ' ब्रह्मा सर्वविद्यः सवं वेदितुमर्हति ' ( निरु ० १ २ ) इत्युक्तेः । अयमनृतत्विगुपलक्षकः । सर्वे ऋत्विजो यूयं यज्ञेन वक्षणा आपूणध्वमिति सम्बन्धः । १. अनुपलब्धं वचनमेतत् ।

पृष्ठ 204

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 204 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २८-३० ] वेदार्थं पारिजात भाष्यसहिता १७१ अध्यात्मपक्षे - ये चैत ऋत्विजः स्वलङ्कृतेन स्विष्टेन यज्ञेन वक्षणा आपूरयन्ति, साध्यसाधनात्मकं सर्वमपि तद् ब्रह्मविकारत्वाद् ब्रह्मैवेति ध्येयम् । व्याख्यानं तु पूर्ववदेव । दयानन्दस्तु– ' हे मनुष्याः, यथा होता आवया अग्निमिन्धो ग्रावग्राभः शंस्तोत सुविप्रोऽध्वर्युर्येन स्वरङ्कृतेन स्विष्टेन यज्ञेन वक्षणा अलङ्करोति तथा तेन यूयमपि आपृणध्वम् ' इति, तदपि यत्किञ्चित् होत्रादिशब्दाना-मृत्विग्विशेषादिषु प्रसिद्धानां ग्रहीत्राद्यर्थकल्पनस्य निर्मूलत्वात् नदीनां पूरणस्य यज्ञमन्तरापि दर्शनात् ॥ २८ ॥

य॒ पुन॒स्का उ॒त ये यु॑पव॒हाश्च॒षालं॒ ये अ॑श्वय॒पाय॒ तक्ष॑ति । ये चाव॑ते॒ च॑ ७ स॒म्भय॑न्त्य॒तो तेषा॑म॒भिग॑तिर्न इन्वतु ॥ २ ९ ॥ मन्त्रार्थ - जो ऋत्विकगण यूप के निमित्त वृक्ष को काटते हैं, जो यूप को उठाने वाले हैं, जो अश्व को बाँधने के लिये यूप के निमित्त चषाल को बनाते हैं, जो अश्व के निमित्त पाकसाधन काष्ठ, भाण्ड आदि को लाते हैं, उन ऋत्विजों का उद्यम हमें तृप्त करे ॥ २ ९ ॥ तेषामृत्विजामभिगूतिरभिगोरणमभिगूर्तिः, उद्यम इति यावत् । नोऽस्मान् इन्वतु प्रीणातु व्याप्नोतु वा, अस्माकं यज्ञं सम्यक् साधयत्वित्यर्थः । ' इवि व्याप्तौ ' लोटि शपि ' इदितो नुम् धातो: ' ( पा ० सू ० ७ ११५८ ) इति नुमागमे रूपम् । तेषां केषाम्? ये यूपत्रस्का यूपाय वृश्चन्ति तरूंश्छिद्यन्ति ते यूपत्रस्काः, उतापि ये यूपवाहाः, यूपं वहन्तीति यूवाहारिछन्नस्य यूपस्य वोढार:, ये चाश्वयूपायाश्वबन्धनयू पार्थं चषालं तक्षति तक्षन्ति युपाग्रभागे स्थाप्यं कटकाकारं काष्टं तक्षन्ति, ' चषालो यूपकटक: ' ( अ ० को ० २ | ७ | १८ ) इत्यमरकोषः । ' तक्षू तनूकरणे ', साधु सम्पादयन्तीत्यर्थः । उतो अपि च ये नरा अर्वतेऽश्वाय पचनं पच्यतेऽनेनेति पचनं पाकसाधनं काष्ठ-भाण्डादिकं सम्भरन्ति संहरन्ति आनयन्ति तेषां समेषामुद्यमोऽस्मान् प्रीणात्वित्यर्थः । अध्यात्मपक्षे - येषां प्रयासेन यज्ञः सम्पद्यते, तेषामुद्यमः सङ्कल्पो वास्मान् प्रीणात्वित्यनेन साधनसाध्यो यागः सापेक्षो ब्रह्मात्मपर्यवसायी स्यात्, ब्रह्मात्मभावस्यैव निरपेक्षत्वात् । मन्त्रार्थस्तु पूर्वोक्त एव । दयानन्दस्तु -- ये यूपवस्का उतापि ये यूपवाहा अश्वयूपाय चषालं यूपावयवं तक्षन्ति ये चार्वते पचनं पाकसाधनं सम्भरन्ति, उतो ये प्रयतन्ते तेषामभिगूर्तिर्न इन्वतु ' इति, तदपि यत्किञ्चित्, अन्योद्यमापेक्षया उक्तोद्यमेषु वैशेष्यानुक्तेः । यद्यश्वमेधयज्ञोपयोगित्वादस्योद्यमस्य वैशेष्यम्, तदा तदनुगुणमेव व्याख्यानं किमिति नाद्रियते? तदन्तरा तु सर्वमुन्मत्तप्रलपितमेव ॥ २ ९ ॥

उप॒ प्रागा॑त् सु॒मन्मे॑ऽधाय॒ मन्म॑ दे॒वाना॒माश॒ उप॑ वी॒तपृ॑ष्ठः ।

अन्वे॑नं॒ विप्रा॒ ऋष॑यो मन्ति दे॒वानां॑ पु॒ष्टे च॑कृ॒मा सुबन्धु॑म् ॥ ३० ॥

ह मन्त्रार्थ - मेरे मन के अभीष्ट फल स्वयं मेरे समीप आवें । मैं उनको धारण करता हूँ । पुष्ट पीठ वाला अश्व देवताओं के मनोरथ को पूर्ण करने के लिये आवे । हमने देवताओं की पुष्टि के लिये सब प्रकार का प्रबन्ध किया है । इसका वेदों को जानने वाले ऋषि अनुमोदन करते हैं ॥ ३० ॥

मन्म मननीयं फलं सुमत् स्वयम् उपप्रागाद् उपगच्छतु, ' सुमत् स्वयमित्यर्थः ' ( निरु ० ६ । २२ ) इति यास्कोक्तः । अथवा सुष्ठु मदहेतु रतिहर्षादिकारणं मदफलं सुमत् मे मम यद् मन्म मननमधायि निहितं तत्

पृष्ठ 205

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 205 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७२ शुक्लयजुर्वेदसंहिता [ अ ० २५ स्वयमुपप्रागात् । किं तदिति चेत्, देवानामाशा आशंसनानि साधु साधु मननीयं फलं मे मया अधायि धृतम् । वीतपृष्ठो वीतं पुष्टं पृष्ठं अयं पशुरागच्छेदित्येवमादीनि । तन्मन्म यस्य सः । अश्वपृष्ठं हि सर्व एवोपारोढुं कामयन्त इत्यश्वो वीतपृष्ठ साधुपोषणेन यस्य सः, यद्वा वीतं कामितं पृष्ठ शेषः, उप उपैतु । उपोपसर्गेण क्रियावृत्तिः । किञ्च देवानां पुष्टे उच्यते । स देवानामाशाः, पूरयितुमिति यमश्वं वयं सुबन्धुं चकुमा कृतवन्तः, छान्दसो दीर्घः, शोभनो बन्धुबन्धनं , भावे निष्ठानिमित्ते सप्तमी, देवपुष्टिनिमित्तं कृतवन्त इत्यर्थः । एनमश्वं विप्रा मेधाविन ऋषयो मन्त्रद्रष्टार यस्यासौ सुबन्धुस्तं शोभनबन्धनोपेतं तुष्यन्त्वित्यर्थः । यद्वा देवानां पुष्टे पोषणाय सुबन्धुं शोभनबन्धनं शोभनमर्थवाद ऋत्विजोऽनुमदन्ति अनुमोदन्ताम्, मेधाविनोऽनुमदन्ति । वा कृतवन्तस्तमेनमृषयो अध्यात्मपक्षे - अश्वमेधीयाश्व साध्योऽश्वमेधः तत्फलं चाश्व हेतुकम् प्रजापतिरूपेणोपास्यः । यथा शालग्रामे विष्णुबुद्धिस्तथैवाश्वमेधीयाप अश्वश्च प्रजापतिदैवतः संवत्सरात्मकः यथा कालात्मके संवत्सरे उषःकालस्य प्राधान्यम्, अश्वे च शिरसः केनचित् साम्येन प्रजापतिबुद्धिः क्रियते । शिर: ' ( बृ ० १ | १ | १ ) इत्यादिकं श्रूयते । मन्त्रार्थस्तु पूर्वोक्त एव । प्राधान्यम्, तत एव ' उषा वा अश्वस्य मेध्यस्य दयानन्दस्तु - ' येन सुमत् स्वयं देवानां वीतपृष्ठो व्याप्तपृष्ठो व्यवहारो विज्ञानमाशाश्वोपप्रागात् यमेनमनु देवानां पुष्टे ऋषयो विप्रा उपमदन्ति यज्ञोऽधायि येनैतेषां मे च मन्म यत्किचित् व्यवहार ग्रहणस्यागतिकगतित्वात्, निर्मूलत्वाच्च तं सुबन्धुं वयं चक्रम ' इति, तदपि कार्यते? केन चतेषां मे च मन्मात्म विज्ञानं आशाश्च कः प्राप्नोति । केन? देवानां वीतपृष्ठ उत्तमव्यवहारः स्वयमेव पुष्टो जनः? यमृषयोऽनुमदन्तीत्यादिकं सर्वमसम्बद्धमेव ॥ ३० ॥ का प्रत्यक्षं व्यवहारमनुसृत्य देवानां मध्ये

यद्व॒जिनो॒ दाम॑ स॒न्दान॒मव॑तो॒ या शी॑र्व॒ण्या॒ रश॒ना रज्जु॑रस्य । यद्व घास्य॒ प्रभृ॑तमा॒स्य॑ तृण॒ सर्वा॒ ता ते॒ W ७ अपि॑ दे॒वेष्व॑स्तु ॥ ३१ ॥

मन्त्रार्थ - इस वेगवान् अश्व की ग्रीवाबन्धन की रज्जु, चरण बन्धन की रज्जु तथा इसके मुख में स्थित तृण आदि, हे अश्व! तुम्हारी ये सब वस्तुएँ की देवताओं रज्जु, शिरोबन्धन को रज्जु, कटिबन्धन के लिये उपयोगी हों ॥ ३१ ॥

वाजिनो वेगवतोऽर्वतोऽश्वस्य यद् दाम ग्रीवाबद्धा रज्जुः या च शीर्षण्या शिरसि भवा शिरसि बद्धा नियोजनीयास्याश्वस्य , यच्च सन्दानं सम्यगवच्छेदकं पादबन्धनरज्जुः, ( पा ० सू ० ४ | ४ | ११० ) इति यत्, ' ये च तद्धिते ' ( पा ० सू ० ६ १६१ रज्जुः शिरःशब्दात् ' भवे च्छन्दसि ' चास्यान्यापि कटिस्था रज्जुः, यच्च अस्याश्वस्य आस्ये मुखे प्रक्षिप्तं ) इति शिरः शब्दस्य शीर्षन्नादेशः । या सर्वाणि तानि देवेष्वस्तु देवोपयोगीनि भवन्तु, देवत्वं वा प्राप्नुवन्तु तृणं घ प्रसिद्धम्, हे अश्व! ते तव सर्वाः अपयुक्तानां सर्वेषां देवत्वमाशास्यते । यद्वा घः पादपूरणे । सन्त्विति प्राप्ते वचनव्यत्ययेनैकवचनम् । सर्वाणि तानि हे यजमान, तवापि देवेष्वपि प्रजापतयेऽस्तु ॥ अस्याश्वस्य प्रभृतं प्रहृतं निक्षिप्तमास्ये मुखे, अध्यात्मपक्षे - अश्वोपयुक्तरज्जुतृणादीनामपि देवत्त्वादिकं प्रजापत्यभेदोपासनयैव पूर्वोक्त एव । सम्पद्यते । अक्षरार्थस्तु दयानन्दस्तु - ' हे विद्वन्, वाजिनोऽस्यार्वतो यद्दाम सन्दानं या शीर्षण्या प्रभृतम्, ताः सर्वास्त सन्तु, एतत्सर्वं देवेष्वप्यस्तु ' इति, तदपि यत्किञ्चित् रशना रज्जुः, यद्वास्थास्ये तृणं याजमानत्वेन देवसम्बन्धित्वे किं सिद्ध्यतीत्यनुक्तत्वात् ॥ ३१ ॥ अश्वस्य विविधरशना रज्जुतृणानां

पृष्ठ 206

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 206 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३२-३३ ] वेदार्थ पारिजातभाष्यसहिता

यवश्व॑स्य क्रविषो मक्षिकाश यद्वा स्वरौ स्ववितरितमस्ति ।

यद्धस्त॑योः शमि॒तुर्य॑न्न॒खेषु सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ ३२ ॥

१७३ मन्त्रार्थ - इस अश्वाभिमानी जीव के हाथ, हृदय, मन, मुख, नासिका और बुद्धि के जिन अंशों को आवरण मन में डालने वाली विषयवासना रूप मक्षिका ने भक्षण किया है, जो अंश हिंसा के साधन अहंमय शस्त्ररूप देवताओं को प्राप्त लिप्त हैं, जो भूतात्मा के हाथों में और दस इन्द्रियों में लिप्त हैं, हे अश्व! तुम्हारे ये सब अंश हों ॥ ३२ ॥

नैरुक्ताः ' यदस्य अश्वस्य क्रविषोऽश्वाङ्गभूतस्य क्रव्यस्य मांसस्य अङ्गम् ' क्रव्यो पश्वञ्जनकाले विकृत्ताज्जायत , " स्वरुणा इति पशुमनक्ति ' ( निरु ० ६ | ११ ), मक्षिका आश भक्षितवती । वा अथवा यन्मांसं स्वरौ । यच्च शमितुर्हस्तयो -इति श्रुतेः । रिप्तं लिप्तमस्ति । यद्वा स्वधितौ शासे छेदनकालेऽवदानकाले च रिप्तं लिप्तमस्ति देवेष्वस्तु देवभोग्यानि भवन्तु, लिप्तम् यच्च शमितुर्नखेषु लिप्तम्, हे अश्व, सर्वा ता सर्वास्ता सर्वाणि तानि षष्ठी, यदाश भक्षितवती । आशेत्य-विभक्तेराकारः । यद्वा मक्षिका अश्वस्य क्रविषः क्रविः क्रव्यं मांसम् कर्मणि श्नार्तोर्लिटि रूपम् । अन्यत् पूर्ववत् । अध्यात्मपक्षे - अश्वमेधीयाश्वाङ्गादिवद् अस्माकं सर्वाः प्रवृत्तयो मनोवाक्शरीरारम्भा भगवत्प्रीत्यै भूयासुरित्यर्थः । अक्षरार्थस्तु पूर्ववदेव । , शमितुर्हस्तयो-दयानन्दस्तु - ' हे मनुष्य, यद् यदा मक्षिका क्रविषोऽश्वस्याश वा यत्स्वरौ स्वधितौ यत्किचित् स्तः निर्मूलत्वात् । द्रिप्तं यच्च नखेषु रिप्तमस्ति ताः सर्वा ते सन्तु एतत्सर्वं देवेष्वप्यस्तु ' इति, तदपि यदाश यच्च यज्ञकर्तु -शमितुर्यज्ञकर्तुरित्यपि निर्मूलम्, शामित्रप्रसङ्गाज्ञानादेव मुक्तिसम्भवात् । मक्षिका? मनुष्यैरीदृशाया-र्हस्तयोर्नखेषु रिप्तं ताः सर्वास्ते सन्त्वित्यर्थस्यास्पष्टत्वात् । किञ्च तेन यथा सिद्ध्यति यज्ञकर्तुर्हस्तयोर्हविः प्रक्षालनादि मश्वशालायामश्वा बन्धनीयाः, यत्रैषां रुधिरादिकं मक्षिकादयो न पिबेयुः, सर्वथाप्यु-निवारयन्ति, तथैवाश्वादीनां शरीरे लिप्तानि धूत्यादीनि नित्यं निवारयन्त्विति भावार्थस्तु मूलमन्त्रात् दक्षर एव ॥ ३२ ॥

यदूव॑ध्यम दर॑स्थाप॒वाति॒ य आ॒मस्य॑ व्र॒विषा॑ ग॒न्धो अस्ति ।

सु॒कृ॒ता तच्छ॑मि॒तार॑ः कृ॒ण्वन्त॒त में शृत॒पार्कं पचन्तु ॥ ३३ ॥

, मन, मन्त्रार्थ - जो योगी उदर के वध करने योग्य भोगलेश समाधि से दूर होता है, योग से अपक्व हस्त, हृदय सबको शोभन संस्कारयुक्त करें, मुख, नेत्र, नासिका और बुद्धि का जो गन्धमात्र भी है, काम की शामक वृत्तियाँ उन देवताओं के योग्य पवित्र करें एवं ब्रह्माग्नि में पकावें ॥ ३३ ॥

भक्षित-उदरस्य ऊवध्यमर्धजीर्णतृणपुरीषं यद् अपवाति अपगच्छति गन्धो । आमाशयस्थमपक्वमर्धपक्वं लेशोऽस्ति शमितारो विशसितार-तृणादिकमूवध्यमुच्यते । आमस्य अपक्वस्य क्रविषो मांसस्य यो च मेधं मेध्यमश्वं शृतपाकं यथा स्तत्सर्वं सुकृता सुकृतं संस्कृतम्, विभक्तेराकारः, कृण्वन्तु कुर्वन्तु । उतापि , स्यादिति । १. अनुपलब्धा श्रुतिरियम् । मन्येऽत्र श्रुतिशब्देन विनियोजकं प्रमाणं गृहीतं भवेत् । तादृशं वचनं क्वचित् श्रौतसूत्रे

पृष्ठ 207

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 207 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७४ शुक्लयजुर्वेद संहिता [ अ ० २५ भवति, तथा पचन्तु । श्रतो देवयोग्यो जातः पाको यस्मिन् कर्मणि तथा पचन्तु | अतिपक्वमीषत्पक्वं च मा कुर्वन्त्वित्यर्थः । उव्वटाचार्यरीत्या यश्च आमस्य अपक्वस्य क्रविषो मांसस्य गन्धोऽस्ति, सुकृता तच्छमितारः कृण्वन्तु सुकृतानि सुसंस्कृतानि दोषरहितानि कुर्वन्तु । अध्यात्मपक्षे— प्रजापत्यात्मकस्याश्वस्य मेध्यस्य उपासनं शरीरावयवकल्पनया श्रुतो विहितम् । तथाहि - ' ॐ उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यचक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वेऽवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाचार्ध-मासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मासानि । ऊवध्य ७ सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्व वनस्पतयश्च लोमानि उद्यन पूर्वार्धो निम्लोचन् जघनार्धो तद्विजृम्भते यद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ' ( बृ ० उ ० १।१।१ ) इति । दयानन्दस्तु -- ' हे मनुष्याः, उदरस्य यदूवध्यं मलिनमपवाति, य आमस्य क्रविषो गन्धोऽस्ति, तच्छमितारः शान्तिकर्तारः सुकृता सुष्ठु संस्कृतं कृण्वन्ततापि मेधं शृतपाकं पचन्तु ' इति तदपि यत्किञ्चित्, शान्तिकर्ता मलिनस्य गन्धस्य च किं कुर्युरित्यनुक्तेः ॥ ३३ ॥

यत्ते॒ गात्रा॑द॒ग्निना॑ व॒च्यमा॑नाद॒द्भिशूलं निहि॑तस्याव॒धाव॑ति ।

मा तद्भूम्या॒मात्रि॑ष॒न्मा तृर्णेषु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥ ३४ ।

मन्त्रार्थ - हे अश्वाभिमानी जीव! जिसके बन्धन नष्ट हुए हैं, ब्रह्माग्नि से पकते ऐसे तुम्हारे शरीर से जो आत्मांशु किसी विषयवासना के कारण रुद्रशूल के सन्मुख दौड़ते हैं, वे पुनर्जन्ममय संसारभूमि का स्पर्श न करें, तृण के समान असार भोगों में आसक्त न हों, हवि चाहने वाले देवताओं के लिये वे समर्पित हों, अर्थात् दिव्य भाव को प्राप्त हों ॥ दिव्य शरीर प्राप्त कर देवलोक में जाते हुए अश्व के प्रति यह उक्ति है ॥ ३४ ॥

शुले सशेषश्रपणमभिवदत्ययं मन्त्रः । हे अश्व, अग्निना पच्यमानात् तव गात्रात् शरीराद् यद् ऊष्मा रसो वा अवधावति अधस्ताद् गच्छति, तथा निहतस्य निःशेषेण हतस्य तस्य यदङ्गं रसादिकं शूलमभिधावति शून पाके क्रियमाणे यन्निर्गच्छति, तन्निर्गतं भूम्यां मा आश्रिषद् आश्लिषद् आश्लिष्टं माभूत् । विषेः पुषादित्वात् चलेरङ् । तथा तृणेषु माश्रिषत् विशसनसमये तृणलग्नं मास्तु । किं तर्हि तत्पतितं तृणलग्नं सर्वं देवेभ्यो रातं दत्तमस्तु । कीदृशेभ्यो देवेभ्यः? उशद्वयः, उशन्ति कामयन्ते ये ते उशन्तः, तेभ्यो हविः कामयमानेभ्यो देवेभ्यः, शत्रन्तम् । अध्यात्मपक्षे - वैदिकविधानबलाद् मन्त्रबलाच्च प्रजापतिदृष्ट्या दृष्टस्य प्रजापतिदैवतस्याश्वमेधीयस्या-श्वस्य सर्वाण्यङ्गानि रसादिकं च देवेभ्यो गच्छति । सर्वाणि च तत्रत्यान्यवध्यादीन्यपि प्रजापत्यात्मकान्येवेति । मन्त्रार्थस्तु पूर्वोक्त एव । --दयानन्दस्तु - ' हे मनुष्य निहतस्य निश्चयेन कृतश्रमस्य ते तव अग्निना अन्तःकरणरूपेण तेजसा पच्यमानाद् गात्राद् यच्छ्लं शु शीघ्र लाति बोधं गृह्णाति, येन तद्वचनमभ्यधावति, तद् भूम्यां माश्रिषत् तत्तृषु माश्रिषत् किन्तु तच्चोशन्यो देवेभ्यो रातमस्तु ' इति, तदपि यत्किञ्चित्, बलात्कारेणार्थान्तराश्रयणात्, ह्रस्वशुशब्देन दीर्घशुलशब्दानिष्पत्तेः, लातेः कर्मानिर्देशात्, विपरीतस्यापि सुवचत्वात् । न चाग्निपदमन्तःकरणपरम्, तस्याहङ्कारिकत्वात् वेदान्तिरीत्या पाच भौतिकत्वाच्च । न च निहतपदमपि कृतश्रममनुष्यपरम् धात्वर्थप्राति-कुल्यात् । न च वाक्यस्य भूम्या तृणैर्वा संश्लेषः प्रसक्तः, येन तन्निषिद्धयेत । तस्मादुपेक्षणीयमेव तत् ॥ ३४ ॥

पृष्ठ 208

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 208 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ३५-३६ ] वेदार्थ पारिजातभाष्यसहिता ये वा॒जने॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिन रेति । १७५ ये चाव॑तो मा Û सभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिभू॑तिर्न इन्वतु ॥ ३५ ॥

मन्त्रार्थ - जो ऋत्विक्गण ब्रह्माग्नि में परिपक्व अश्वाभिमानी जीव को देखते हैं, जो परा शक्ति को कहते हैं कि यह पाक श्रेष्ठ हुआ है, इसे आप ग्रहण कीजिये, जो देवता अश्वाभिमानी शुद्ध जोवात्मा की स्वरूप - भिक्षा को चाहते हैं, उनका भी संकल्परूप उद्यम हमें तृप्त करे ॥ ३५ ॥

ये जनाः पक्वं सन्तं वाजिनं वेगवन्तमश्वं परिपश्यन्ति, अयं पक्व इति परितो जानन्ति ईमित्यव्ययं चार्थे, ये च एनं सुरभिः सुगन्धोऽयं परिपक्वो जातः अतो निर्हर अग्नेः सकाशाद् उत्तारयेत्येवं य आहुः कथयन्ति ये च जना अर्वतोऽश्वस्य मांसभिक्षामुपासते हुतशिष्टमांसयाच्यां कुर्वते, उतो अपि च तेषां पाकनिर्हरणयाच्ञादिकर्तॄणां जनानामभिगूतिरुद्यमो नोऽस्मानिन्वतु प्रीणातु । यद्वा ये देवाः पक्वं वाजिनं परिपश्यन्ति कदा होष्यतीति प्रतीक्षन्ते ये च विलम्बं दृष्ट्वा सुरभिः पाको जातः, अस्मभ्यं निर्हर देहीत्याहुः, ये चार्वतो मांसभक्षामुपासते मांसयाच्यां कुर्वते, तेषामभिगूर्तिस्तादृशः सङ्कल्पोऽस्मान् प्रीणातु साफल्यमासाद्य अस्मान् कृतार्थयत्वित्यर्थः । अध्यात्मपक्षे - देवेभ्यो यन्निवेद्यते शास्त्रविधिना भक्त्या च यत्संस्क्रियते देवा अपि तत्कामयन्ते । किं बहुना, प्रतीक्षन्ते याचन्ते भिक्षां च लिप्सन्ते । ' पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ ( ९ ।२६ ) इति गीतोक्तः । दयानन्दस्तु – ' येऽर्वतो मांसभिक्षामुपासते येऽश्वमीं प्राप्तं हन्तव्यमाहुः, तान्निर्हर दूरे प्रक्षिप । ये वाजिनं पक्वं परिपश्यन्ति, उतोऽपि तेषां सुरभिरभिगूर्तिर्न इन्वतु ' इति, तदपि यत्किञ्चित्, निर्मूलाध्याहारसापेक्षत्वात्, उक्तरीत्याऽध्याहारमन्तरापि मन्त्रार्थोपपत्तेः श्रुतिसूत्र विरोधाच्च, अश्वमेघे यागेऽश्वस्य हविः प्रकृतित्वेनैवो-पयोगस्य तंत्र तत्र वर्णितत्वात् ॥ ३५ ॥

यन्नीक्ष॑णं मा॒ स्पच॑न्या उ॒खाया या पात्राणि य॒ष्ण आ॒सेच॑नानि ॥ ऊष्म॒ण्यापि॒धाना॑ चरुणाम॒ङ्काः समाः परि॑भूव॒न्त्यश्व॑म् ॥ ३६ ॥

मन्त्रार्थ - जीव के कर्मों के परिपक्व होने की पात्रता रखने वाला आत्मा दिव्य दृष्टि से अपने स्वरूप का जो दर्शन करता है, ज्ञानामृत रूप रस को रखने की पात्रता वाली जो इन्द्रियाँ हैं, जीव - शक्ति से परिपूर्ण पात्ररूप कमलों के ऊष्मा-धारक जो प्राणायाम रूप ढक्कन हैं, उन कमलों में देवताओं के जो स्वरूप स्थित हैं, जीवोपाधि के नाशक जो ज्ञान आदि हैं, वे सब अश्वाभिमानी जीव को शोभित करते हैं ३६ ॥ एतानि वक्ष्यमाणानि सर्वाण्येनमश्वं परिभूषन्ति स्वव्यापारेणाश्वमलङ् कुर्वन्ति । ' भूष अलङ्कारे ' भ्वादिः । कानि तानीत्याह -- मांस्पचन्या मांसं पच्यते यस्यां सा मांस्पचनी तस्या मांसपाकाधिकरणभूताया उखायाः स्थाल्या यन्नीक्षणं नितरामवलोकनम् । यद्वा -- यन्नीक्षणं नितरामीक्ष्यते श्रुताश्व तव सम्बन्धिनोऽर्था इति येन दध्यादिना तन्नीक्षणम् । मांस्पचन्या इत्यत्र ' करणाधिकरणयोव ' ( पा ० सू ० ३।३ | ११७ ) इति ल्युट् । ' लुम्पेदवश्यमः कृत्ये तुङ्काममनसोरपि । समो वा हितततयोर्मांसस्य पचि युङ्घञोः ॥ इतीष्ट्या मांसशब्दस्या-कारलोपे, ' टिड्ढाणञ् ' ( पा ० सू ० ४। १ । १५ ) इति ङीप्, प्रातिपदिकत्वेन डस् विभक्तिः, ततो रूपसिद्धिः ।

पृष्ठ 209

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 209 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७६ शुक्ल यजुर्वेदसंहिता [ अ ० २५ तथा यूष्णो वसायाः पक्वरसस्य वा आसेचनानि, आसिच्यते येषु तानि, आरोचनसाधनानि या यानि पात्राणि । ' पद्दन्नो ' ( पा ० सू ० ६ | १ | ६३ ) इति यूषशब्दस्य यूषन्नादेशः । यानि च चरूणां मांसपूर्णपात्राणामपिधाना अपिधानान्याच्छादनपात्राणि । कीदृशानि तानि? ऊष्मण्या ऊष्मण्यानि, ऊष्माणं धारयन्ति यानि तानि । धारणार्थे छान्दसो यः प्रत्ययः । आच्छादनेनोष्मा बहिन याति । तथा ये च अङ्काचि साधनानि हृदयाद्यवयवज्ञापन वेतसमयानि । शरीरवचनोऽङ्कशब्दः, सूना विशसनकरणभूताः स्वधित्यादयः, एतानि सर्वाणि परिभूषन्त्यश्व-मलङ्कुर्वन्ति । अध्यात्मपक्षे -- अश्वमेधयज्ञस्य यानि कानिचिदप्यश्वसम्बन्धीनि कर्माणि तानि सर्वाण्यपि परिभूषयन्त्यश्वम्, पारम्पर्येणापि भगवत्सम्बन्धिनां भगवदात्मत्वापत्तेः सौलभ्यात् । मन्त्रार्थस्तु पूर्वोक्त एव । दयानन्दस्तु - ' या ऊष्मण्या पिधाना सेचनानि पात्राणि, यन्मांस्पचन्या उखाया नीक्षणं चरूणामङ्काः सूनाः यू o गोऽश्वं परिभूषन्ति तानि स्वीकर्तव्यानि ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात् । अपिधानान्या-सेचनानि मांस्पचन्या उखाया नीक्षणं चरूणामङ्काः कथमश्वं भूषयन्तीत्यनुक्तेः ॥ ३६ ॥

मा त्वा॒ग्निर्ध्वनयीद् धूमग॑न्ध॒र्मोखा भ्राज॑न्त्य॒भिवि॑िक्त॒ जघ्रिः ।

इ॒ष्टं वी॒तम॒ भग॑र्तं वष॑द॒कृतं॒ तं दे॒वास॒ प्रति॑गृभ्ण॒न्त्यश्व॑म् ॥ ३७ ॥

मन्त्रार्थ - हे अश्वाभिमानी जीव! प्राण की गन्ध रखने वाला ब्रह्माग्नि तुमसे अहंकार - ममकार की ध्वनि न करावे, दीप्तिमान् गन्ध का ग्रहण करने वाला आत्माग्नि पाप कर्म से चलित न हो, उस विशेषताप्राप्त निरन्तर संकल्पित प्रिय वषट्कार से संस्कृत अश्वाभिमानी जीव को दिव्य शक्तियाँ प्राप्त हों ३७ ॥ हे अश्व, त्वा त्वामग्निर्मा ध्वनयीद् मा शब्द कारयेत् । ध्वनिः शब्दकर्मा । ' नोनयतिध्वनयत्येलयत्य-दयतिभ्यः ' ( पा ० सू ० ३ || ५१ ) इति ण्यन्ताच्च प्रतिषेधः, ' ह्यन्तक्षणश्वसजागृणिश्व्येदिताम् ' ( पा ० सू ० ७ २२५ ) इति वृद्धिनिषेधश्व । कीदृशोऽग्निः? धूमगन्धिः, धूमस्य गन्धो लेशो यत्रासौ धूमगन्धिः, ' अल्पाख्यायाम् ' ( पा ० सू ० ५ | ४ | १३६ ) इति गन्धस्ये कारो ऽन्तादेशः । ' गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः ' इति विश्वः, अल्पधूमवानिति यावत् । मांसं हि पंचन्नग्निर्दहन्नप्यल्पधूमावरणो भवति । तच्च दह्यमानं सिमसिमाशब्दं करोति, अतस्तथोच्यते । या च उखा स्थाली भ्राजन्ती सन्दीपिता अत्यन्ताग्निसंयोगेन मा अभिविक्त मा चलतु । ' ओविजी भयचलनयोः ' इति धातोर्लुङि तङि, ' झलो झलि ' ( पा ० सू ० ८ २ २६ ) इति सिचः सकारलोपे रूपम्, ' न माङ्योगे ' ( पा ० सू ० ६ | ४ | ७४ ) इत्यडभावः । अभिविक्त अभिनष्टा विदीर्येत वा । कम्भूता उखा? जघ्रिः, जिघ्रति गन्धं गृह्णातीति जघ्रिः । ' आहगमहन ' ( पा ० सू ० ३।२।१७१ ) इति किन्प्रत्ययः, लिडुवद्भावश्च, गन्धग्रहणशीला । ननु कथमचेतनोखा गन्धं जिघ्रतीति चेत्, अधिष्ठात्रीणां देवतानामिह विवक्षितत्वात् । इष्टं योगेन सङ्गतीकृतं वीतं कामितमभिगूर्तमभ्युद्यतं वषट्कृतं चादानकाले । यद्वा इष्टुं प्रयाजैवतम् आप्रोभिः पर्यग्निकृतम्, अभिगूर्त ये यजामह इत्यभिगुत्यक्तम्, वषट्कृतं वषट्कारेण संस्कृतम्, तं तादृशम एवं देवासो देवाः प्रतिगृभ्णन्ति प्रतिगृह्णन्ति । अध्यात्मपक्षे – एवंभावनया मन्त्रैस्तत्संस्कारैश्च संस्कृतमश्वं प्रजापत्यादयो देवाः प्रतिगृह्णन्ति । सर्व चैतत् साध्यसाधनात्मकमश्वमेधकर्म प्रजापतिरूपमेव ।

पृष्ठ 210

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 210 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३७-३९ ] वैदार्थपारिजातभाष्यसहिता १७७ दयानन्दस्तु– ' हे मनुष्याः, यथा देवासो यमिष्टं वीतमभिगूर्तमभितः कृतोद्यमं वषट्कृतमश्वं प्रतिगृह्णन्ति, तं यूयमभिविक्त । त्वा तं धूमगन्धिरग्निर्मा ध्वनयीत् तं जघ्रिः, जिघ्रति यस्याः सा भ्राजन्त्युखा मा ध्वनयीत् ' इति, तदपि यत्किञ्चित्, अस्पष्टत्वात् । यच्च भावार्थे – हे मनुष्याः, यथा विद्वांसो मांसाहारिणो निवार्याश्वा-दीनां वृद्धि रक्षां कुर्वन्ति, तथा यूयमपि कुरुत, अग्न्यादिविघ्नेभ्यः पृथग् रक्षत ' इति, तत्तु सर्वथापि मन्त्राक्षरा -सम्बद्धमेव ॥ ३७ ॥

निक्रमणं निषदनं विवर्तनं यच्च पड्वौशमर्वतः ।

यच्च॑ पप यच्च॑ धा॒सि ज॒घास॒ सर्वा॑ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ ३८ ॥

मन्त्रार्थ - अश्वाभिमानी जीव की जो पाद - विक्षेपरूप गति है, इन्द्रिय रूपों से रूपान्तरित जो स्थिति है, जो गति-निरोध है, जो कुछ उसने पान किया है, अन्न का भक्षण किया है, वे सब विविध गतियाँ देवताओं के लिये समर्पित हों ॥ ३८ ॥

यन्निष्क्रमणं नितरां क्रमते यत्र तन्निष्क्रमणस्थानम् । निषदनं नितरां सीदत्यस्मिन्निति निषदनम् उपवेशनस्थानम् । विवर्तनं विविधं वर्तते यत्र यद् भ्रमणम् इतस्ततो लुण्ठनस्थानम् । अत्र सर्वत्राधिकरणे ल्युट् । यच्चार्वतोऽश्वस्य पड्वीशं पादेषु विशतीति पड्वी, पड्वीशं पादबन्धनम् । निक्रमणादयः शब्दाः क्रियापरा वा । आलम्भसमये यान्यश्वस्य निक्रमणादीनि चेष्टितानि यच्च पपौ यज्जलं पीतवान् यच्च घासिमदनीयं तृणादिकं घास भक्षितवान्, हे अश्व! ता तानि सर्वाणि ते तव निक्रमणादीनि देवेषु, अस्तु सन्तु । देवार्थस्याश्वस्य कानिचिदपि चेष्टितानि निरर्थकानि मा भूवन्नित्यर्थः । अध्यात्मपक्षे देवतोद्देश्येन समर्पितानि वस्तुनि सामस्त्येन देवतात्मभावमुपगच्छन्ति । व्याख्यानं तु पूर्वोक्तमेव । दयानन्दस्तु – ' हे विद्वन्, यत्तेर्वतो निक्रमणं निषदनं विवर्तनं यच्च पड्वीशं यच्चायं पपौ यच्च घासि जघास, ताः सर्वा युक्त्या सन्तु तद्देवेष्वप्यस्तु ' इति, तदपि यत्किञ्चित्, निर्मूलाध्याहारमूलकत्वात्, तत्सर्वं निन्द्यमित्यध्याहारेण त्वद्भाष्यस्य त्वत्खण्डनपरत्वेन योजयितुं शक्यत्वाच्च ॥ ३८ ॥

यदश्वा॑य॒ वात॑ उपस्त॒णन्त्य॑धीव॒ सं या हिरण्यान्यस्मै । सन्दानमवन्तं पवशं प्रिया देवेष्वायमयन्ति ॥ ३ ९ ॥ मन्त्रार्थ - इस अश्वाभिमानी जीव के निमित्त जो देहाच्छादक रूप त्वगिन्द्रिय है, जो अन्य ज्योतीरूप इन्द्रियाँ हैं, जो सिर में स्थित ज्ञानेन्द्रियों का निरोध है, जो गतियों का निरोध है, उन सबको ऋत्विकगण देवताओं को अर्पित करते हैं, उन प्रिय इन्द्रियों को और अश्वाभिमानी जीव को हम देवताओं के लिये समर्पित करते हैं ॥ ३ ९ ॥ यदश्वाय संज्ञप्यमानाय वासो वस्त्रमुपस्तृणन्ति सर्वत आच्छादयन्ति यच्चाधीवासमुपर्याच्छादनयोग्यं वास उपस्तृणन्ति, या यानि हिरण्यानि सौवर्णशकलान्यस्मै अश्वाय उपस्तृणन्ति तथा अर्वन्तम् अर्वते, विभक्ति -व्यत्ययः, अश्वायेति सामानाधिकरण्यात् । षष्ठ्यर्थे वा द्वितीया । यच्चार्वतोऽर्वते वा सन्दानं सन्दीयतेऽनेनेति सन्दानं शिरोबन्धनम्, पड्वीशं पादबन्धनम् प्रिया प्रियाण्येतानि सर्वाण्यश्वस्य वस्तूनि ऋत्विजो देवेष्वायाम-यन्ति आगमयन्ति । २३