वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 211–220
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 211–220
पृष्ठ 211
पाठ पढ़ें पाठ छिपाएँ
१७८ शुक्लयजुर्वेदसंहिता [ अ ० २५ अध्यात्मपक्षे - सर्वात्मकप्रजापतिदेवत्यत्वेन अश्वस्य सर्वाण्यपि प्रियाणि देवेषु गमितानि सर्वात्मभावमुप-गच्छन्तीति । अन्यत् पूर्ववत् । दयानन्दस्तु — ' हे मनुष्याः, यावन्तोऽस्मा अश्वाय यद्वासोऽधीवासं सन्दानं या हिरण्यानि उपस्तृणन्ति, यं पड्वीशं पद्भिर्विशन्तमर्वन्तमायामयन्ति तानि सर्वाणि देवेषु प्रियाः सन्तु ' इति, तदपि यत्किञ्चित्, वासाधीवासा-दीनां यस्याश्वस्तस्य प्रीतिकरत्वेऽपि विद्वत्सु प्रीतिकरत्वे हेत्वभावात्, देवपदेन विशिष्टशक्तिमन्तो जातिविशिष्टा देवाः, न मनुष्या इति भूमिकायां साधितत्वाच्च वासाधीवासादिशब्दानां त्वदुक्तार्थबोधकानामाच्छादकत्वा-योगात् ॥ ३ ९ ॥
यत्ते॑ स॒दे मह॑सा शूकृ॑तस्य॒ पायो॑ वा॒ कश॑या वा तु॒तोद॑ ।
स्रुचेव॒ ता ह॒विषा॑ अध्व॒रेषु सर्वा॒ ता ते॒ ब्रह्म॑णा सु॒दयामि ॥ ४० ॥
मन्त्रार्थ - हे अश्वाभिमानी जीव! तुम जब लक्ष्मी - नारायण के द्वारा रचित विषयों की ओर बढ़ते हो, तब कामदेव अपने बल से, एड़ी ( ठोकर ) या चाबुक मार कर तुम्हें शिक्षा देता है! तुम्हारी उस सारी पीड़ा को योगयज्ञ और मधुर वाणी द्वारा मैं उसी प्रकार दूर करता हूँ, जैसे स्रुक् पात्र द्वारा हवन के निमित्त आहुतियाँ दी जाती हैं ॥ ४० ॥
हे अश्व! यत् ते तव सादे सीदन्त्यस्मिन्नश्वारोहिण इति सादोऽश्वपृष्ठम्, तस्मिन्नवस्थितोऽश्ववारो महसा महत्त्वेनान्वितः सन् शुकृतस्य शब्दानुकरणमेतत् शुत्कारं कुर्वतो महसा बलेनान्वितस्य तव । अश्वेन वा सम्बद्धयते, पाय पादमूलाधोभागेन कशया वा तुतोद व्यथयामास पीडितवान्, अध्वरेषु ता सर्वा सर्वाणि ते तव पाणिकशाघातादीनि ब्रह्मणा मन्त्रेणाहं सूदयामि क्षारयामि, ' बूंद क्षरणे ' चुरादिः, यज्ञे आहुतित्वेन कल्पयामि । तत्र दृष्टान्तः - हविषः स्रुचेव, हविराज्यादिकं यथा स्रुचा जुह्वा सूदयामि तद्वत्, विभक्तिव्यत्ययः, एकं ' ता ' पदं पादपूरणार्थम् । अध्यात्मपक्षे पाणि कशाघातादिकमनिष्टमपि प्राजापत्याश्वसम्बन्धादाहुतित्वेन सङ्कल्पादश्वस्य यजमानस्य देवानां च प्रियकरं भवति, किमुत तेन देवानामिज्यया प्रियसम्पत्तौ वक्तव्यम् । दयानन्दस्तु – ' हे विद्वन्, ते सादे महसा शुकृतस्य शीघ्र शिक्षितस्य कराया वा तत् पार्ष्या वा तुतोद ता तान्यध्वरेषु हविषः स्रुचेव करोषि ता सर्वा ते ब्रह्मणाहं सूदयामि ' इति, तदपि यत्किञ्चित् करोतेः शिक्षणार्थत्वे मानाभावात् । न वा पाणिपदस्य पर्शुरर्थः, कोषनिरुक्तादेस्तत्रासाक्ष्यात् । ' पुमान् पाणिस्तयो-रधः ' ( अ ० को ० २२६।७२ ) इत्यमरसिंहः, ' पाणिः स्त्रीपुंसयोः पादमूले स्याद् ध्वजिनीकटो ' इति रन्तिदेवश्च सैद्धान्तिकमेवार्थं ब्रूतः । त्वदीयार्थे पायेति तृतीयानुपपत्तिः, निर्मूलव्यत्ययापत्तिश्च ॥ ४ ॥
चतु॑स्त्रि ँशद्वा॒जिनो॑ दे॒वव॑न्ध॒र्व॑ङ्क्ररश्व॑स्य॒ स्वधि॑तिः समे॑ति । : अच्छिद्र गात्रा॑ व॒युना॑ कृ॒णोति॒ परी॑ष्परुरनु॒घुष्या॒ विशस्त ॥ ४१ ॥
मन्त्रार्थ- -- ज्ञान रूपी खड्ग वेगवान् देवताओं के प्रिय इस अश्वाभिमानी जीव की मन सहित ग्यारह इन्द्रियों, दस प्राणों, दस विषयों और जाग्रत् आदि तीन अवस्थाओं - इस प्रकार इन चौतीस बन्धनों के छेदन के निमित्त प्राप्त होता है । हे ज्ञानचक्षु! ब्रह्मज्ञान के द्वारा अश्वाभिमानी जीव के अङ्गों को छिद्रहीन करो और प्रत्येक अंग की उपाधियों का अपने मधुर उपदेशों के द्वारा नाश करो ॥ ४१ ॥
पृष्ठ 212
पाठ पढ़ें पाठ छिपाएँ
म ० ४१-४२ ] वेदार्थ पारिजात भाष्य सहिता १७ ९ वाजिनः, वजति वेगेन गच्छतीति वाजी, तस्य । देवबन्धोः, बध्नाति प्रेम्णेति बन्धुः, देवानां बन्धुः, देवा वा बन्धवो यस्य स देवबन्धुः, तस्य । भाविनीं वा वृत्तिमाश्रित्य देवबन्धुशब्दः प्रयुक्तः । भविष्यत्ययं देवबन्धुर्देवप्रियः, तस्य देवबन्धोरश्वस्य । ईदृशेऽर्थे महाकवेः कालिदासस्य रघुवंशे प्रयोगः - ' वैदेहिबन्धोर्हृदयं स्वधितिः स्वं विदद्रे ' ( १४ | ३३ ) इति । चतुस्त्रिशद् वङ्गीश्चतुस्त्रिंशत्संख्याकान्युभयपार्श्व स्थान्यस्थीनि छेदनाय सम्यगागच्छति । धियतीति स्वधितिः पशुच्छेदनसाधनोऽसिः, समेत्येकमित्यविभक्तावयवमिति कृत्वा गात्रा अश्वस्य चतुस्त्रिंशद्वङ्क्रयः, अजादीनां षर्विंशतिः । अतो हे शमितारः, वयुना वयुनेन सच्छिद्राणि ज्ञानेन वर्तन्ते अश्वस्य , तान्यच्छि-गात्राणि अच्छिद्रा अच्छिद्राणि छिद्ररहितानि यूयं कृणोत कुरुत । स्वधितिना छिन्नानि - ' यत्तत्कर्मसु वैषम्यं द्राणि कुरुत, ब्रह्मणः सङ्कल्पेन व्यङ्गकर्मप्रतिसन्धानस्मरणात् । तथा च श्रीमद्भागवतम् इदमिदमिति ब्रह्मदृष्टं समं भवेत् ' ( ८२३१४ ) । किञ्च परुष्परुः प्रतिपर्व प्रत्यवयवं हृदयाद्यङ्गमनुघुष्य । ' नित्यवीप्सयोः ' नाम्ना संशब्द्य यूयं विशस्त छेदनं कुरुत । ' ग्रन्थिर्ना पर्वपरुषी ' ( अ ० को ० २ | ४ | १६२ ) इत्यमरः । अनुघुष्या ( पा ० सू ० ८1१1४ ) इति द्वित्वम् । ' शसु हिंसायाम् ' इत्यस्य छान्दसे शपो लोपे विशस्तेति रूपम् अनुघुष्य घुषिरविशब्दने ' इत्यस्मात् क्त्वो ल्यप् । ' अध्यात्मपक्षे - देवतोद्देश्येन विशसनमपि कल्याणकरम्, ' न वा उ एतन्म्रियसे न रिष्यसि देवाँ सत्सङ्कल्पेन २॥ इदेषि ( वा ० सं ० २५।४४ ), ' हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेष्यतीति ' ( ऐ ० ब्रा ० २। ३ ) इत्यादिवचनेभ्यः स्वधितिना कृतानि छिद्राण्यच्छिद्राणि भवन्तीति । अन्यत् पूर्ववत् । दयानन्दस्तु – ' हे मनुष्याः, यथा स्वशिक्षको देवबन्धोर्वाजिनोऽश्वस्य ' इति चतुस्त्रिशद्वङ्कीः , तदपि छद्मव, समेत्याच्छिद्रा रोगानित्य-गात्रा वयुना कृणोत, तस्य परुष्परुरनुघुष्य स्वधितिरिव रोगान् यूयं विशस्त च प्रसज्येयाताम् ॥ ४१ ॥
स्याश्रुतस्याध्याहारात् । चतुस्त्रिंशत् शिक्षणानीत्यपि निर्मूलमेव । श्रुतान्यश्रुतकल्पने
एक॒स्त्वष्टुरश्व॑स्या विश॑स्ता द्वा य॒न्तारा॑ भवत॒स्तय॑ ऋ॒तुः ।
या ते गात्राणामृतथा कणोम॒ ता ता पिण्डन॒ प्रज॑होभ्य॒ग्नौ ॥ ४२ ॥
मन्त्रार्थ -- दीप्तिमान् अश्वाभिमानी जीव को अमर पद का दाता एक तो प्रारब्ध कर्मों का समाप्ति काल है -आवरणों को तथा इसके नियमन कर्ता दो हैं - प्रकृति और पुरुष । तुम्हारी आत्मा में एकत्व को प्राप्त हुए अंगों ॥ ४२ के ॥ जिन मैं काटता हूँ, प्रारब्ध कर्म का समाप्ति काल आने पर उन आवरणों को ज्ञानाग्नि में होम देता हूँ त्वष्टुः, त्विष्यते दीप्यत इति त्वष्टा, ' नप्तृनेष्टृत्वष्टृ होतृ ' ( उ ० २२ ९ ७ ) इति निपातनात् साधुः । अका यद्वा त्विषेस्तृनि ' त्विषेर्देवतायामकारोपधायाः ' ( पा ० सू ० ३।२।१३५, वा ० ३ ) इति वातिकेनोपधाया सं ० २ ९ । १३ ) इति विहिते साधुः, तस्य । आदित्यादुत्पन्नत्वात् तद्रूपस्य ' सूरादश्वं वसवो निरतष्ट ' (, वा विशस्ता ० विशसनकर्ता, मन्त्रवर्णात् । तादृशस्य अश्वस्या अश्वस्य एक ऋतु:, ऋनुपलक्षितः संवत्सरात्मा प्रजापतिः यन्तारा यन्तारौ शसेस्तृच्, ' संवत्सरस्य तेजसा ' ( वा ० सं ० २३ | ४० ) इति मन्त्रवर्णात् । तथा अस्य अश्वस्य नियन्तारौ द्वा द्वौ द्यावापृथिव्यधिष्ठातारौ तयोरेव सर्वनियन्तृत्वात् । तथ ऋतु: ' ऋत्यकः ' ( पा ० सू ० ६ | १ | १२८ ) इति ह्रस्वप्रकृतिभाव । एवमश्वस्य विशसितृयन्तनुक्त्वाध्वर्यु स्वकर्माह - हे अश्व, ते तव गात्राणां गात्र-सम्बन्धिनां पिण्डानां मांसपिण्डानां वा या या यानि यान्यङ्गान्यहं कृणोमि छिनद्मि 1 ऋतुथा ऋनुपलक्षिते वसन्तादौ यज्ञकाले ता ता तानि तान्यङ्गानि प्रकर्षेण हुतानि करोमि ।
पृष्ठ 213
पाठ पढ़ें पाठ छिपाएँ
१८० शुक्लयजुर्वेदसंहिता [ अ ० २५ अध्यात्मपक्षे -- व्यष्टिजीवकर्मणामपि समष्टिजीवात्मकप्रजापति कर्तृकत्वमेव, मनुष्य - पशु - पक्ष्यादयोऽपि द्यावापृथिवीभ्यामुत्पन्नत्वात् तन्नियन्त्रिता एव । यथा मनुष्यादयो न भौतिका एव, किन्तु चैतन्याधिष्ठिताः, तथैव द्यावापृथिव्योरपि विशिष्टचैतन्याधिष्ठितत्वम् । विशिष्टचैतन्यं चेश्वरकोटिप्रविष्टम् । व्याख्यानं पूर्वोक्तमेव । दयानन्दस्तु - ' हे मनुष्याः, यथैक ऋतुस्त्वष्टुरश्वस्य विशस्ता भवति । यौ द्वौ यन्तारौ भवतस्तथा या ते गात्राणां पिण्डानामृतुथा वस्तून्यहं कृणोमि तानि तान्यग्नौ प्रजुहोमि ' इति, तदप्यसम्बद्धमेव, पदार्थाननुगमात्, ऋतोः कथमेकस्याश्वस्य भेदकत्वमित्यनुक्तेश्च । कौ द्वौ यन्तारा इत्यपि नोक्तम्, मनुष्यगात्राणां पिण्डानां वस्तूनि कोऽग्नौ किमर्थं जुहोति? इत्यस्य सर्वस्य प्रमत्तप्रलपितत्वमेव । ' यथाश्व शिक्षा प्रत्यत्वश्वान् सुशिक्षयन्ति तथा गुरवो विद्यार्थिनां चेष्टाकरणानि शिक्षयन्ति यथाग्नौ पिण्डान् हुत्वा वायुं शोधयन्ति, तथा विद्याग्ना अविद्याश्रमान् हुत्वात्मनः शोधयन्ति ' इति भावार्थस्तु दूरतोऽपि मन्त्राक्षराणि न स्पृशति ॥ ४२ ॥
मतपत्प्रिय आत्मा पियन्तं मा स्वत्रितिस्तन्व आतिष्ठत्ते ।
मा ते॑ ग॒ध्नुर॑विश॒स्ताति॒हाय॑ चि॒द्रा गात्रा॑ण्य॒सिना मिथ॑ कः ॥ ४३ ॥
9 मन्त्रार्थ - हे अश्वाभिमानो जीव! तुम्हारा प्रिय मन परा शक्ति में जाने वाले तुमको दुःखी न करे, ज्ञानखड्ग लोभी मन तुम्हारे हस्त पाद आदि इन्द्रिय रूप अंगों को त्याग कर तुम्हारे भोगायतन शरीर की स्थिति को क ज्ञानखड्ग से मिथ्या छिद्रों को न करे ॥ ४३ ॥
हे अश्व, प्रियोऽभीष्टो भोगायतनत्वात् तव आत्मा देहः प्राणो वा त्वा त्वां विज्ञानात्मानं सुखदुःखयो -भक्तारं मा तपत् तप्तं दुःखितं मा कार्षीत्, देहवियोगजनिता व्यथा तव भोक्तुर्मा भूदित्यर्थः । कीदृशं त्वाम्? देवानां पियन्तम्, देवलोकगमनाय प्रवृत्तम् । अथवा अपियन्तम्, अध्येतीत्यपियन् अपिपूर्वादेतेः शता तम्, देवभावं प्राप्नुवन्तम् । भागुरिमतेन अवोरुपसर्गयोरल्लोपरीत्या पियन्तमिति रूपम् । किञ्च, स्वधितिः स्वधितिः शस्त्रं ते तव तन्वस्तनूरङ्गानि मा अतिष्ठिपद् मा स्थापयतु सर्वाण्यङ्गानि छित्वा देवेभ्यो ददात्वित्यर्थः । तिष्ठतेर्ण्यन्तस्य लुङि चङि ' तिष्ठतेरित् ' ( पा ० सू ० ७ ४/५ ) इतीकारे कृते द्वित्वादि । किञ्च शमिता ते तव गात्राण्यङ्गान्यतिहाय त्यक्त्वा शास्त्रोक्तक्रमं त्यक्त्वा असिना शासेन मिथुमिथ्या छिद्रा छिद्राणि अथवा छिन्नानि मा कः, मा कार्षीत् । करोतेर्लुङि ' मन्त्रे घसह्वर ' इत्यादिना च्लेलुकि ' हल्ड्याभ्यो दीर्घात् ( पा ० सू ० ६।१।६८ ) इति तपो लोपे विसर्गः । मिथु इति मिथ्यार्थेऽव्ययम् । संहितायां दीर्घः । कथम्भूतः शमिता? अविशस्ता विशसनेऽकुशलः । पुनः कथंभूतः? गृध्नुः, गृध्यतीति गृध्नुः, ' त्रसिगृधिधृषिक्षिपेः क्तुः ' ( पा ० सू ० ३ | २ | १४० ) इति क्नुः, गर्धनः केवलं मांसग्रहणेच्छुः । शमिता शास्त्रदृष्टिर गर्धनोऽन्यथा माच्छिदत्, एकादशावदानानि सम्यक् करोत्वित्यर्थः । अध्यात्मपक्षे - अज्ञानलोभविवर्जिताः शास्त्रज्ञाः शास्त्रतत्परा एव यजमानत्विज उपासनापूर्व काणि कर्माण्यनुष्ठायाविद्यया मृत्युं तीर्त्वा उपासनारूपया विद्यया अमृतत्वमश्नुवन्ति । अक्षरार्थस्तु पूर्वोक्त एव । दयानन्दस्तु - ' हे विद्वन्, ते प्रियः यः प्रीणाति कामयत आनन्दयति वा आत्मा स्वरूपम् अपियन्तं त्वा त्वामतिहाय मा तपत्, स्वधितिस्ते तन्वो मातिष्ठिपत्, ते छिद्राण्यविशस्ता गृध्नुर्मातिष्ठिपत्, असिना मिथुर्मा कः कुर्यात् ' इति, तदप्यसङ्गतम्, प्रियस्य आत्मनः स्वरूपत्यागस्याशक्यत्वेनाप्रसक्तत्वात् । स्वधितेरत्यङ्गे स्थिति-रप्राप्तैवेति व्यर्थं एव तन्निषेधः । गृध्नुरपि धनं वाञ्छति न शरीरे स्वधितिस्थितिमिति तदपि निरर्थकमेव ।
पृष्ठ 214
पाठ पढ़ें पाठ छिपाएँ
म ० ४३ ] वेदार्थपारिजातभाष्यसहिता १८१ ' उषा वा अश्वस्य मेध्यस्य शिर. ' ( बृ ० उ ० १ | १ | १ ) इत्यारभ्य बृहदारण्यकेऽश्वमेधीयाश्वविषयं दर्शनमुपासनमुक्तम् । तत्र यज्ञेऽश्वस्य प्राधान्यम् । तच्च तन्नामाङ्कितत्वात्, प्राजापत्यत्वाच्च । तत्र ' उषा ' इति ब्राह्म मुहूर्तः । स च प्रसिद्धः कालः । अश्वस्य शिरः कालात्मके प्रजापती ब्राह्ममुहूर्तरूपस्योषसः प्राधान्यम्, शिरसश्च शरीर वानां प्राधान्यम् । तस्मान्मेध्यस्य मेधार्हस्याश्वस्योषा शिर इति सम्बन्धः । कर्माङ्गस्य पशोः संस्कर्तव्य-त्वात् तस्य शिरआदिषु उषःकालादिदृष्टयः कर्तव्याः । प्रजापतिदृष्ट्यध्यारोपणाच्च तस्य प्राजापत्यत्वम् । काललोकदेवतात्वाध्यारोपणं च पशोरश्वस्य प्रजापतित्वकरणम् । यथा शालग्रामादौ विष्णुत्वादिकरणमिति तद्वत् । यथा शालग्रामादि विष्ण्वादिदृष्ट्योपास्यते, तथैवायमश्वमेधीयोऽश्व कालदृष्ट्या संवत्सरात्मककालरूपेण, लोकदृष्ट्या सर्वलोकात्मरूपेण, देवतादृष्ट्या प्रजापतिरूपेण चोपास्यते । सूर्यश्चक्षुः शिरसोऽनन्तरत्वात् सूर्यदेवत्यत्वाच्चाश्वस्य चक्षुः सूर्यरूपेणोपास्यम् । वातः प्राणः, तस्य प्राणे समष्टिवातदृष्टिः कर्तव्या, उभयोर्वायु-स्वाभाव्यात् । अश्वस्य व्यात्तं विवृतं मुखमग्निर्वैश्वानरः, वैश्वानरनामाग्निरश्वस्य विवृतं मुखमिति चिन्तनीयम्, मुखस्य अग्निदेवतत्वात् । संवत्सर आत्मा संवत्सरो द्वादशमासस्त्रयोदशमासो वाऽस्याश्वस्य आत्मा शरीरम् । कालावयवानां क्षण - मुहूर्ताहोरात्र पक्ष- मासानां संवत्सरः शरीरम् ' मध्यं ह्येषामङ्गानामात्मा ' ( ऐ ० आ ० २।३।५ ) इति श्रुतेः । अस्य मेध्यस्याश्वस्य द्यौ पृष्ठम्, ऊर्ध्वत्वसामान्यात् । अन्तरिक्षमुदरम्, सुषिरत्वसाम्यात् । नहि साधारण-पृष्ठोदरादिकमस्याश्वस्य, किन्तु द्यौः पृष्ठम्, अन्तरिक्षमुदरम्, पृथिवी पाजस्यम्, वर्णव्यत्ययेन दकारस्य जकारः, पादस्यमिति यावत्, मेध्यस्याश्वस्य पादासनस्थानं खुरम्, तस्य खुरे समष्टिपृथिवीदृष्टिः कर्तव्या । पार्श्वे दिशः, पार्श्वयोश्चतस्रो दिशचिन्तनीयाः, पार्श्वेन दिशां सम्बन्धात् । ननु पार्श्वयोदिशां च संख्यावैषम्यात् कथं पार्श्वयोदिशादृष्टिरिति चेन्न, अश्वस्य सर्वमुखत्वोपपत्त्या पार्श्वाभ्यां चतसृणामपि दिशां सम्बन्धात् । अवान्तरदिश अग्नेय्याद्याः पशवः पार्श्वस्थीनि । अत्राप्यस्य प्राङ्मुखत्वे प्रत्यङ्मुखत्वे च दक्षिणोत्तरयोः, तन्मुखत्वे च प्राच्य - प्रतीच्योर्दिशोस्ताभ्यां सम्बन्धसम्भवात् । तेनैव पार्श्वास्थिष्ववान्तरदिशां सम्बन्धः । ऋतवोऽ-ङ्गानि संवत्सरस्य अङ्गभूता ऋतवोऽस्याङ्गानि हस्तपादादीनि, तस्याङ्गेषु ऋतुदृष्टिः कर्तव्येत्यर्थः, अङ्गसाधर्म्यात् । मासाश्वार्धमासाश्चास्य पर्वाणि सन्धयः । मासादीनां संवत्सरसन्धित्वं सन्धित्वसामान्यात् । अस्याङ्गेषु मासादिदृष्टयः कर्तव्याः । अहोरात्राणि युगसहस्राभ्यामेकं प्राजापत्यमहोरात्रम् । बहुवचनात् प्राजापत्य- दैव - पित्र्य मानुषाण्य हो-रात्राण्यश्वस्य मेध्यस्य प्रतिष्ठाः पादाः, प्रतितिष्ठत्येतैरिति प्रतिष्ठाः, अहोरात्रः कालात्मा प्रतितिष्ठति पादैश्वाश्व इति पादेष्वहोरात्रदृष्टिः कर्तव्या । नक्षत्राण्यस्थीनि शुक्लत्वसामान्यात् । नभो नभःस्था मेघा मांसान्यस्य, अन्तरिक्षस्योदरत्वोक्तेः । तस्य मांसेषु मेघदृष्टिः कार्या । यथा मेघो जलं सिवति, तथैव मांसं रुधिरं सिञ्चतीति सेककर्तृत्वसामान्यात् । तथा च नाश्वस्य मांसास्थ्यादिष्वपि प्राकृतमांसादिदृष्टिः कर्तव्या, किन्तु मेघनक्षत्रादि-दृष्ट्यैव तानि द्रष्टव्यानि । ऊवन्ध्यमुरस्थमर्धजीर्णघासाद्यशनं सिकताः, तत्र सिकतादृष्टि कार्या, विश्लिष्टा -वयवत्वसाम्यात् । सिन्धवो नद्यो गुदानाड्यः, स्पन्दनसाम्यात्, बहुवचनाच्च । यकृच्च क्लोमानश्च हृदस्या -धस्ताद् दक्षिणोत्तरौ मांसखण्डौ, क्लोमान इति दारशब्दवन्नित्यं बहुवचनान्तः शब्दः " पर्वतास्तत्र पर्वतदृष्टिः कर्तव्या, कठिनादुच्छ्रितत्वाच्च । ओषधयः क्षुद्रा: स्थावरा लतागुल्मादयः, वनस्पतयो महान्तो वृक्षा वटा-श्वत्थादयोऽस्य लोमानि केशाश्च । उद्यन्नुद्गच्छन् आमध्याह्लाद् अश्वस्य पूर्वार्धो नाभेरूर्ध्वमित्यर्थः । निम्लो-चन्नस्तं गच्छ्न् आमध्याह्लाद् अश्वस्य जघनार्धः परार्धः, पूर्वापरत्वसाधर्म्यात् । यद्विजृम्भते गात्राणि तत्स्तनयति विनामयति विक्षिपति तद्विद्योतते 1 विद्युद्विद्योतनम्, मुखघनविदारणसाम्यात् । यद्विधनुते गात्राणि कम्पयति मूत्रणे वर्षगदृष्टि: कार्या, कालात्मकत्वाल्लोकात्मकत्वात् गर्जनशब्दसाम्यात् । यन्मेहति तद्वर्षति तस्य
पृष्ठ 215
पाठ पढ़ें पाठ छिपाएँ
१८२ शुक्लयजुर्वेदसंहिता [ अ ० २५ प्रजापतिरूपत्वाच्च । तस्याश्वस्य णादिकमपि न लौकिकदृष्ट्या द्रष्टव्यम् । वागेव शब्दः, अश्वस्य वागेव 1 वाक् ' अहर्वा अश्वं पुरस्तान्महिमा न्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्महिमा न्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः सम्बभूवतुः ' ( वृ ० उ ० ११११२ ) सौवर्णराजतौ महिमाख्यौ ग्रहौ सोमग्रहणसाधनौ, अश्वस्याग्रतः पृष्ठतश्च स्थाप्येते । तद्विषयमिदं दर्शनम् । अहः सौवर्णो ग्रहः, दीप्तिसामान्यात् अश्वस्य प्रजापतिरूपत्वात् । स ह्यादित्यलक्षणोऽह्ना लक्ष्यते । अश्वं लक्षयित्वाऽजायत सौवर्णो महिमा ग्रहः । तस्य ग्रहस्य पूर्वे पूर्वः समुद्रे समुद्रः योनिः " विभक्तिव्यत्ययः, योनिरासादनस्थानम् । तथा रात्री राजतो ग्रहः, वर्णसामान्याज्जघन्यत्वसामान्यात् । एनमश्वं पश्चात् पृष्ठतो महिमा न्वजायत । तस्यापरः समुद्रो योनिरासा -दनस्थानम् । एवं महिमाख्यौ ग्रहौ अश्वमभितः सम्बभूवतुः । इत्थमसाव श्वो महत्त्वयुक्त इत्यर्थः ॥ ४३ ॥
न वा उ॒ ए॒तत्रि॑यसे॒ न रिष्यसि दे॒वाँ २ ॥ इदेषि पथिभिः सुगेभिः ।
हरी॑ ते॒ युञ्जा पृष॑ती अभूतामुपा॑स्थाद्वाजो धुरि रामस्य ॥ ४४ ॥
मन्त्रार्थ — हें अश्वाभिमानी जीव! तुम ब्रह्म हो, निश्चय ही तुम्हारी कभी मृत्यु नहीं होती, तुम कभी हिंसित नहीं होते । तुम सुगम योगमार्ग को सहायता से ब्रह्म की दिव्य शक्तियों को प्राप्त कर सकते हो । जीव और ईश्वर रूप तुम्हारी ज्योति ब्रह्म से युक्त हो जाय, तुम्हारे मन और बुद्धि आत्मा में विलीन हो जाय, प्राण की धुरी में आत्म-प्रतिबिम्ब स्थित हो जाय ॥ ४४ ॥
' हे अश्व, त्वं यद्यज्ञे संज्ञप्स्यसे नैवैतन्म्रियसे, इतराश्ववत् मृतो न भवसि । वै एवार्थकः, उ निर्धारणार्थकः, अश्वस्य देवत्वप्राप्तेः शास्त्रसिद्धत्वात् । अत एव न रिष्यसि न हिंस्य से, व्यर्थहसाया अभावात्, अहिंसनीयाननुग्राहकप्राणवियोगानुकूलव्यापारत्वाभावात् । नतु मरणमङ्गनाशश्च प्रत्यक्षमेव दृश्यते, कथमेव-मपलाप इति चेत्तत्राह – सुगेभिः पथिभिर्देवान् इदेषीति । सुष्ठु गम्यते यत्र ते सुगाः, तैः सुगेभिः सुगैः साधुगमनैः पथिभिर्मागैर्देवयानरूपैर्देवान् इद् देवानेव एषि गच्छसि अतो युक्तमेव नैतन्म्रियसे न रिष्यसीति कथनमित्यर्थः । रिषतेर्यकि ' भावकर्मणोः ' ( पा ० सू ० १ | ३ | ( ३ ) इत्यस्य जागरूकत्वात् परस्मैपदमार्धम् । देवत्व प्राप्तिप्रकार एवोच्यते - हरी ते युवा इत्यादिना । हे अश्व हरी इन्द्राश्वी ( निघ ० १ | १५ | १ ) इत्यादेशेन साहचर्यज्ञानार्थमुपयुज्यन्त इत्यादिष्टोपयोजनानि । युवा युञ्जो तव रथे योजना प्रतिधुरौ वोढारौ अभूतां भविष्यतः । ‘ आशंसायां भूतवच्च ' ( पा ० सू ० ३ | ३ | १३५ ) इति भविष्यदर्थे भूतकालप्रयोगः । तथा पृषती मरुतां सम्बन्धियाभूत अश्वौ, ' पृषत्यो मरुताम् ' ( निघ ० १।१५ / ६ ), तव युजौ अभूतां भविष्यतः । पर्षतीति सिञ्चतीति पृषत्, ' वर्तमाने पृषद बृहन्मह ० ' ( उ ० २। ५ ) इति निपातितः । युञ्ज, युक्त इति युञ्ज, ' ऋत्विग्दधृक् ' ( पा ० सू ० ३।२।५ ९ ) इत्यादिना क्विन्, ' युजेरसमासे ' ( पा ० सू ० ७ १।७१ ) इति सर्वनामस्थाने नुमि, ' नश्वापदान्तस्य झलि ' ( पा ० सू ० ८ ३।२४ ) इत्यनुस्वारे परसवर्णे च रूपम्, विभक्तेराकारः । किश्र्च, रासभस्याश्विवाहनस्य धुरि स्थाने वाजी कश्चिदश्व उपास्थाद् उपस्थास्यति । त्वामागतमुपश्रुत्य स्वयमेव वाजी त्वां वोढुमुपस्थास्यति । एवं संज्ञपनेन देवभावं प्राप्तस्य तव वहनायेन्द्रादयः स्वस्ववाहनानि प्रेषयिष्यन्तीत्यर्थः । तानि दिव्यानि वाहनानि स्वयमेव त्वां वक्ष्यन्तीति वा । अध्यात्मपक्षे – ' एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् । यत्सत्यमनृतेनेह सत्येनाप्नोति मामृतम् ॥ ' ( भा ० पु ० ११ । २ ९ । २२ ) इति श्रीमद्भागवतपद्यानुसारेण क्षणभङ्गरस्य शरीरस्य मर्त्यस्यामृतत्वप्राप्तौ साधनत्वं सम्पद्यते । देवार्थं यस्य शरीरमुपयुज्यते, तस्यैतन्मन्त्रव्याख्यानुसारेण देवत्वप्राप्तिर्भवति ।
पृष्ठ 216
पाठ पढ़ें पाठ छिपाएँ
म ० ४४-४५ ] वेदार्थपारिजातभाष्यसहिता १८३ दयानन्दस्तु - हे ' विद्वन्, यद्येतद्विज्ञानं प्राप्नोषि तर्हि न त्वं म्रियसे, न वै रिष्यसि, सुगेभिः पथिभि-देवानषि । यदि ते पृषती युञ्जा हरी अभूताम्, तर्हि वाजी रासभस्य धुर्युपस्थात् ' इति, तदपि यत्किञ्चित् तादृशयोगस्य मन्त्रेऽनुक्तत्वात् । न कोऽपि योगः पूर्वमुक्तः । त्वद्दृष्ट्या देवा मनुष्यानतिरिक्ता इति तत्प्राप्तावपि न मार्गान्तरमपेक्षितम् । न वा स्थूलशरीरावश्वौ भवेतां तदा वाजी अश्वतरधारणं कुर्यात् ॥ ४४ ॥
सुगव्यं नो वाजी स्वश्व्यं पुछ्सः पुत्र २ ॥ उ॒त वि॑श्व॒पुष॑॑ र॒यिम् ।
अनागास्त्वं तो अवितिः कृणोतु क्ष॒त्रं नो अश्व वनतां ह॒विष्मा॑न् ॥ ४५ ॥
मन्त्रार्थ- - यह दिव्य भाव को प्राप्त हुआ अश्वाभिमानी जीव हमें श्रेष्ठ गौ, अश्व, पुरुषार्थ साधक पुत्र और सबके पोषण में समय धन को प्राप्त कराता है, हमें निष्पाप बनाता है । हवि को प्राप्त करने वाले प्रजापति और परा शक्ति हमारे बल को निरन्तर बढ़ाते रहते हैं ॥ ४५ ॥
अथेदानीं याच्ञा क्रियते । वाजी देवत्वं प्राप्तो यो नोऽस्माकं सुगव्यं गवां समूहो गव्यम्, खलगोरथात् ' ' ( पा ० सू ० ४।२।५० ) इति यप्रत्ययः, शोभनं गव्यं सुगव्यं गोसमूहं शोभनं कृणोतु करोतु । तथा स्वश्यं शोभनमश्वानां समूहं करोतु । ' केशाश्वाभ्यां यञ्छावन्यतरस्याम् ' ( पा ० सू ० ४।२।४८ ) इति वैकल्पिको यञ् । तथा पुंसः पुत्रान् कृणोतु । अत्र पुत्रशब्दोऽपत्य पर्यायः, स च दुहितृपुत्रोभयार्थकः । अतो दुहितृव्यवच्छेदार्थे पुंस इति विशेषणम् । यद्वा पुंसः पुरुषार्थसाधकान् पुत्रान् कृणोतु करोतु । उतापि विश्वापुषम्, पुष्णाति पुषः, ' इगुपधज्ञाप्रीकिरः कः ' ( पा ० सू ० ३ | १ | १३५ ) इति कप्रत्यय:, विश्वस्य सर्वस्य पुषः सर्वजनपोषण-समर्थः, तं तादृशं रयि धनं करोतु । संहितायां विश्वशब्दस्य छान्दसो दीर्घः । किञ्च, नोऽस्माकमनागास्त्वम्, ईयते प्राप्यते बाधकत्वेनेत्यागः, ' इण आग अपराधे च ' ( उ ० २।२१३ ) इत्यसुन्यागादेशे च रूपसिद्धिः, नास्त्यागो यस्यासावनागाः, तस्य भावोऽनागस्त्वम्, अनागास्त्वमिति छान्दसो दीर्घः, निष्पापत्वमित्यर्थः । कृणोतु करोतु अश्वः, निरपराधत्वाभावे तादृशफलप्राप्त्यसम्भवात् । किन, अश्वो नोऽस्माकं क्षतत्राणं पुरालम्भनाद्रक्षणं वा वनतां करोतु । कीदृशोऽश्वः? अदितिः, अदीनोऽखण्डितो वा । पुनः कीदृश:? हविष्मान् हविरस्यास्तीति हविष्मान् हविर्भूतावयवः । देवत्वप्राप्त्या वा हविष्मान् भूमप्रशस्त हविर्युक्तः, तादृशोऽश्वो नः क्षत्रं वनतां करोतु । पुनः कथंभूतः? अदितिः, नास्ति दितिर्देन्यं खण्डनं वा यस्य सः । वनतिः करोत्यर्थः । अध्यात्मपक्षे --- प्रजापतिदेवत्योऽश्वो देवत्वमुपगतो यजमानस्य कामान् पूरयितुं शक्नोति । सर्वपोषण-समर्थधन पुरुषार्थसाधक पुत्राद्यभीष्टवर्षी भवति, मुख्यदेव प्रजापतित्व प्राप्त्या अनैश्वर्यहान्या परमैश्वर्यवत्त्वात् । दयानन्दस्तु - ' यो नो वाजी सुगव्यं सुष्ठु गोभ्यो हितं स्वगव्यं करोति, यो विद्वान् पुंसः पुत्रानुत विश्वापुषं रयिं च प्राप्नोति । यथादितिः कारणरूपेणाविनाशिनी भूमिर्नोऽनागास्त्वं करोति, तथा भवान् कृणोतु । यथा हविष्मानश्वो नः क्षत्रं वनतां सम्भजतां तथा त्वं सेवस्व ' इति, तदपि यत्किञ्चित् अश्वस्य सुगव्यत्वादिहेतुत्वादर्शनात् । न चाश्वः पुरुषार्थिपुत्रान् जनयन् दृश्यते, न वा विश्वापुषं रयि सम्पादयन् दृश्यते, न च भूमिरपि जडत्वादनागास्त्वं कर्तुं समर्था, न च प्राणी त्वद्रीत्या व्याप्तिशीलः, त्वया तस्याणुत्वाभ्युपगमात् ॥ ४५ ॥
इ॒मा नु कं॒ भुव॑ना सोषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः । आ॒दि॒त्यैरिन्द्रः सग॑णो म॒रुद्भिर॒स्मभ्य॑ भेष॒जा क॑रत् । य॒ज्ञं च॑ नस्त॒न्व॑ च प्र॒जां चा॑दि॒त्यैरिन्द्र॑ स॒ह सषधाति ॥ ४६ ॥
पृष्ठ 217
पाठ पढ़ें पाठ छिपाएँ
१८४ शुक्ल यजुर्वेद संहिता [ अ ० २५ मन्त्रार्थ- - इन समस्त भुवनों को और त्रिदेव रूपधारी नारायण को हमने प्राप्त कर लिया है । ऐश्वर्यवान् अपने परिवार के साथ इन्द्र, विश्वेदेव, बारह आदित्य और मरुद्गण हमारा कल्याण करें । देवराज इन्द्र द्वादश आदित्यों के साथ हमारे यज्ञ की, शरीर की तथा पुत्र आदि प्रजा की रक्षा करें ॥। ४६ ॥ ' इमा नु कमिति च द्विपदा: ' ( का ० श्र ० २० | ८ | ११ ) । अयस्मय - अश्वलोहितहोमानन्तरमिमा नु कमित्याद्याः षड् द्विपदा जुहोति । इह कण्डिकाद्वये षडर्धानि सन्ति, तैः षडाहुतीर्जुहोतीत्यर्थः । ताः षड् द्विपदा विराजः । तिस्रो वैश्वदेव्यः, तिस्र आग्नेय्यः, आप्तिपुत्रभुवनदृष्टास्तिस्र ऋचः । इमा इमानि विभक्तेराकारः, भुवना भुवनानि भूतजातानि वयं सीषधाम साधयामः, स्वायत्तानि कुर्म इत्यर्थः । साधयतेर्लुङि उत्तमपुरुषबहुवचने रूपम्, अडभाव आर्षः । किञ्च, इन्द्र ऐश्वर्यवान् सगणो निजगणैः परिवारः सहितो देवराजो द्वादशभिरादित्यैरेकोनपञ्चाशत्संख्याकै-मरुद्भिः सहिता विश्वेदेवाश्च अस्मभ्यं भेषजा भेषजानि औषधानि हितानि करत् कुर्वन्तु । हितपरमत्र भेषज-पदम्, सर्वे देवा अस्माकं हितकारिणो भवन्त्विति यावत् । किञ्च इन्द्र आदित्यैः सह नोऽस्माकं यज्ञमश्वमेधं तन्वं शरीरं प्रजां पुत्रादिकां च सीषधाति साधयतु वश्यं करोतु, नीरोगाः सपुत्रा वयं यज्ञं सम्यक् कुर्म इत्यभिप्रायः । कम् एतौ निपातौ पादपूरणार्थी । अध्यात्मपक्षे-- इन्द्रः परमैश्वर्यवान् परमेश्वरः सगणः साङ्गोपाङ्गः स्वविभूतिभूतैरादित्यैर्मरुद्भिश्च तदंशभूता विश्वे च देवा अस्मभ्यं भेषजानि हितानि करत् कुर्वन्तु । हे देवाः भवत्प्रसादाद् वयमिमानि भुवनानि सीषधाम वशीकुर्मः । भवद्विभूतिभूत इन्द्रो देवराज आदित्यैस्तदुपलक्षितैः सर्वैर्देवैः सह नोऽस्माकं त्वदाराधनलक्षणं यज्ञमश्वमेधं तन्वं प्रजां च सीषधाति । दयानन्दस्तु -- ' हे मनुष्याः यथेन्द्रश्च विश्वेदेवाचेमा विश्वा भुवनानि धरन्ति, यथा वयं कं सुखं नु सद्यः सीषधाम, यथा सगण इन्द्र आदित्यैः सह सर्वाल्लोकान् प्रकाशयति, तथा मरुद्भिः सह वैद्योऽस्मभ्यं भेषजा करत्, यथादित्यैः सहेन्द्रो नो यज्ञं विद्वत्सत्कारादिकं च तन्वं च प्रजां च सीषधाति, तथा वयं साध्नुयाम ' इति, तदपि यत्किञ्चित् दृष्टान्तदान्तानुपपत्तेः, यथा राजा सर्वे विद्वांसो भुवनानि धरन्ति तथा वयं शीघ्रं सुखं साधयेमेति सादृश्याभावात् । सुखं तु कर्मवशादनायासप्राप्तम् भुवनधारणे तु प्रयत्नसाध्यम् । न च भुवनानि मनुष्या धारयितुं शक्नुवन्ति, ' स दाधार पृथिवीं द्यामुतेमाम् ' ( वा ० सं ० २५ | १० ) इति मन्त्रवर्णविरोधोऽपि । वैद्यपदमपि मूले नास्ति । न च सत्काररूपो यज्ञो वेदे विवक्षितः, तस्य लोकतः प्राप्तत्वात् । न च सभापतिस्तन्वं प्रजां च साधयति, तथात्वे तदर्थं प्रयत्नान्तरानुपपत्तेः ॥ ४६ ॥
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त व्र॒ता शि॒वो भवा वरूथ्य॒ः । वसु॑र॒ग्निर्व॑सु॑वा॒ अच्छ नक्षि द्यु॒मत्त॑मधु॑ र॒यिं दा॑ः । तं त्वा॑ शोचिष्ट दीदिवः सु॒म्नाय॑ ना॒नमीमहे सखिभ्यः ॥ ४७ ॥
मन्त्रार्थ - हे गार्हपत्य अग्निदेव! आप सदा हमारे पास रहें, हमारा पालन करें और शान्त होकर हमारे पुत्र आदि का रक्षण करें । आप समस्त लोगों के आश्रय स्थान हो, आहवनीय आदि रूपों से गमन करने वाले हो और दाता के रूप में तुम्हारा यश सर्वत्र फैला है । हे अग्निदेव, निर्मल स्वभाव होकर आप हमारे हवन स्थान में आवें, अर्थात् जब - जब हम हवन करें, तब प्रत्येक समय हमारी हवनशाला में उपस्थित रहें और अत्यन्त प्रकाशमय द्रव्य हमें दें । हे ज्वालायुक्त सर्वप्रकाशक अग्निदेव, इन सब गुणों से विशिष्ट आपसे हम अपने मित्रों के कल्याण की कामना करते हैं ॥ ४७ ॥
पृष्ठ 218
पाठ पढ़ें पाठ छिपाएँ
मं ० ४७ ] वेदार्थपारिजातभाष्यसहिता १८५ हे अग्ने, त्वं नो अन्तमः, अमति समीपं प्राप्नोतीत्यम्, अतिशयितः अम् अन्तमः, निकटतमः । उतापि त्राता रक्षकः । शिवः शान्तः । भवा भव, संहितायां दीर्घः । वरूथ्यः, वरूथः पुत्रादिसमूहो गृहं वा, तस्मै हितः । वसुर्जनानां वासयिता । अग्निराहवनीयादिरूपेण गतिशील: ' अगि गतौ ', अङ्गतीत्यग्निः । वसुश्रवा वसुना धनेन श्रवः कीर्तिर्यस्यासौ वसुश्रवाः । हे अग्ने, त्वमच्छानक्षि अस्मानभिव्याप्नुहि । यद्वा - हे अच्छ, स्वच्छस्वभाव! त्वं नक्षि यज्ञस्थानमागच्छ, ' नक्ष गतौ ' । किन, द्युमत्तममतिदीप्तियुक्तं रयिं धनं दा देहि । हे शोचिष्ठ दीप्तिमत्तम, हे दीदिवः सर्वस्य दीपयितः, तं तादृशं त्वा त्वां सखिभ्यः सुम्नाय, द्वितीयार्थे चतुर्थी, सुम्नं सुखं नूनं निश्चयेन ईमहे याजयामहे । यद्वा सुम्नाय सुखार्थम्, सखिभ्योऽस्मत्सखीनामुपकाराय । इमे ऋचे तृतीयेऽध्याये पञ्चविंश्यां षड्विंश्यां च कण्डिकायां व्याख्याते । एवमश्वमेधाख्यं कर्म तदुपासनं च महतेऽभ्युदयाय क्रममुक्तये पारम्पर्येण बुद्धिशुद्धिक्रमेण निःश्रेयसाय च सम्पद्यते । इति समाप्तोऽश्वमेधः सप्तविंशत्युत्तर वर्षमात्रसाध्यः । तत्र वर्षमात्रं परिभ्रमणमश्वस्य । द्वादश दीक्षाः, द्वादशोपसदः तिस्रः सुत्या इति सप्तविंशतिदिनैः । अतः परमेकोनत्रिंशेऽध्याये होत्रमन्त्रा आम्नाताः, ' आश्वमेधिकोऽध्यायः ' इति सर्वानुक्रमवचनात् ॥ ४७ ॥।
इति श्रीशुक्लयजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां पञ्चविंशोऽध्यायः ॥ २४
पृष्ठ 219
पाठ पढ़ें पाठ छिपाएँ
षडविंशोऽध्यायः अ॒ग्निश्च॑ पृथि॒वो च॒ सन्त॑ते॒ ते मे॒ सन॑मताम॒दा वा॒यु॒श्वा॒न्तरि॑क्षं च॒ सन्त॑ते॒ ते॑ मे॒ सन्त॑मताम॒द आ॑दि॒त्यश्च॒ यो॑श्च॒ सन्त॑ते॒ ते मे॒ सन्न॑म॒ताम॒द आप॑श्च॒ वरु॑ण॒ सन्त॑ते॒ ते मे सन्न॑म॒ताम॒दः । स॒प्त स॒ ँसदो॑ अन॒मो भ॑त॒साध॑नो॒ | सम॒२ ॥ अध्व॑नस्कुरु सं॒ज्ञान॑मस्तु मे॒मना॑ ॥ १ ॥
मन्त्रार्थ - अग्नि और भूमि भोग के लिये प्राप्त हैं. ये मेरी अमुक अभिलाषा को पूरी करें । वायु और अन्तरिक्ष भी भोग के लिये प्राप्त हैं, वे मेरे लोभ को नियन्त्रित करें । सूर्य और स्वर्गं भोग के लिये प्राप्त हैं, वे मेरे मोह को वशवर्ती बनावें । जल और वरुण भी भोग के लिये प्राप्त हैं, दोनों क्रोध को मेरा वशवर्ती बनावें । हे सात अधिष्ठानों ( अग्नि, वायु, अन्तरिक्ष, सूर्य, स्वर्ग, जल और वरुण ) और आठवीं प्राणियों की आधारभूत भूमि, आप सब हमारे मार्गों को सफल करें, इन सबसे मेरी संगति हो ॥ १ ॥
मङ्गलं भगवान् विष्णुर्मङ्गलं गरुडध्वजः ।
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनो हरिः ॥
इषे त्वेत्यारभ्य दर्शपौर्णमासपितृयज्ञाग्निहोत्रोपस्थानपशुचातुर्मास्याग्निष्टोम वाजपेय राजसूयाग्निचयन-सौत्रामण्यश्वमेधसम्बन्धिनो मन्त्रा व्याख्याताः । इदानीं खिलान्युच्यन्ते क्वचिद्विनियोगाभावात् । एतेषां मन्त्राणां विवस्वान् ऋषिः, अन्यस्यानुक्तेः । ' आदित्यानीमानि शुक्लानि यजुषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते ' ( बृ ० उ ० ६ | ५ | ३ ) इति श्रुतेर्याज्ञवल्क्यो वा ऋषिः । अग्निश्च पृथिवी चेति सप्त लिङ्गोक्तानि यजूंषि, चतस्र ऋग्गायत्र्यः, सप्त संसद:, आसुर्यनुष्टुप् । सकामानिति प्राजापत्यानुष्टुप् । यथेमां वाचं ब्राह्मी गायत्री । एतेषा-विनियुक्तानां मन्त्रगां लैङ्गिको विनियोगः । तद्यथा अग्निश्च पृथिवी चेति सप्त सन्नतिमन्त्राः, ते च लिङ्ग-बलात् कल्पितश्रुत्या विनियुज्यन्ते । शब्दानामर्थं प्रकाशनसामर्थ्यं लिङ्गम्, ' सामथ्यं सर्वशब्दानां लिङ्गमित्यभि-धीयते ' इत्यभियुक्तोक्तेः । अग्निश्च पृथिवी च सन्नते । तत्र सन्नमनं सन्नतिः प्रह्वीभावः, आनुकूल्येन प्रवृत्तिः । तथा च भोगाय सन्नते सङ्गते स्याताम् । ते अग्निपृथिव्यौ मे मम अदोऽमुकं सन्नमताम् । अत्र णिलोपश्छान्दसः । तथा च अग्निश्च पृथिवी च मे मम अदः सन्नमयताम् अमुकं वशवर्तिनं कुरुताम् । अद इति पुरुषादेर्नाम द्वितीयान्तं प्रयोज्यम् । ' छन्दस्युभयथा ' ( पा ० सू ० ३ | ४ | ११७ ) इति शपोऽप्यार्धधातुकत्वात् ' णेरनिटि ' ( पा ० सू ० ६।४।५१ ) इति णिलोपे सन्नमतामिति रूपम् । एवमुत्तरत्रापि योज्यम् । वायुश्चान्तरिक्षं च सन्नते सङ्गते स्याताम् । ते मे ममादोऽमुकं सन्नमयताम् । आदित्यश्च द्यौश्च सन्नते अदोऽमुकं सन्नमयताम् । आपश्च वरुणश्च सन्नते ते मे अदः सन्नमयताम् । परमात्मानं प्रत्युच्यते-- हे परमेश्वर, यस्य तव सप्त संसद: संसदनान्यधिष्ठानानि प्रकृतान्यग्निवाय्वन्तरिक्षादित्य द्युलोकाम्बुवरुणान्तानि सन्ति, यस्य तव साधनी पृथिवी त्वदीयशक्तिभूता प्रकृतिर्वा, ( पृथिव्याः सप्तसंसत्स्वन्तर्भावात् ), तामन्तरेण भूतानामनुत्पत्तेः, स त्वं सर्वाधिष्ठानभूतोऽस्यतः प्रार्थ्यसे । अध्वनो मार्गान् अस्माकं सकामान् कुरु । येषु मार्गेषु
पृष्ठ 220
पाठ पढ़ें पाठ छिपाएँ
म ० १-२ 1 वेदार्थ पारिजातभाष्यसहिता १८७ मया गम्यते तत्रास्माकं कामपूर्तिरस्त्वित्यर्थः । किञ्च ममामुनाऽभीष्टेन देवदत्तादिना संज्ञानं सङ्गतं ज्ञानम्, सौहार्दमिति यावत् अस्तु । इष्टेन मम प्रीतिरस्तु | विज्ञानात्मा वाऽनेनोच्यते । यस्य तव सप्त, मनोबुद्धी द्वे पञ्च-ज्ञानेन्द्रियाणीति सङ्कलय्य सप्त संसदः सप्तायतनानि, अष्टमी भुतसाधनी सर्वप्राणिनां वशयित्री वाक् चास्ति, सत्वं नोऽस्माकमध्वनः सकामान् सफलान् कुरु । अमुना सह मे संज्ञानं संगतमस्तु । अस्मिन् पक्षेऽप्यभीष्टसाधको विज्ञानात्मावच्छिन्नोऽन्तर्याम्येव । अध्यात्मपक्षे -- हे परमेश्वर, भवत्प्रसादादग्न्यादीनि मे सन्नतानि भवन्ति । तानि च ममाभीष्टानि सन्नमयन्तु प्रापयन्तु । हे परमेश्वर, यस्य ते तव महदादीनि सप्त संसदः सदनानि तेषु सम्यक् सीदति भवान् । अष्टमी प्रकृतिर्भूतसाधनी सर्वोत्पादयित्री, स त्वं ममाध्वनो मार्गान् सकामान् सफलान् कुरु अमुनाभीष्टेन मम संज्ञानं सौहार्दमस्तु । दयानन्दस्तु - ' हे मनुष्याः, यथा ये मे अग्निश्च पृथिवी च सन्नते ते अदः सन्नमयताम् । ये मे वायुश्चान्तरिक्षं च सन्नते ते चादः सन्नमयताम् । ये मे आदित्यश्च द्यौश्च सन्नते ते अदः सन्नमयताम् । या ये मे आपश्च वरुणश्च सन्नते स्तस्ते अदः सन्नमयताम् । अष्टमी भूतसाधनी सप्त संसदः सकामानध्वनः कुर्यात् तथा कुरु, अमुना मे संज्ञानमस्तु तथैतत्सर्वं युष्माकमस्तु ' इति, तदप्यसङ्गतम्, नमतेरकर्मकस्य णित्रमन्तरानुकूलं कुर्यातामित्यर्थासङ्गतेः । किञ्च, जडानां तेषामनुकुलभवनान्यानुकूलभावनानुपपत्तेः भूतसाधनी केत्यनुक्तेश्च, संसदः सप्त का इत्यनुक्तेश्च । न चाष्टमीति संसदां विशेषणं सम्भवति, संख्यावैषम्यात् ॥ १ ॥
यये॒मां वाच॑ कणोमा॒वदा॑नि॒ जने॑भ्यः ॥ ब्र॒ह्म राज॒न्या॒भ्या॑ शूद्राय॒ चार्या॑व च॒ स्वाय॒ चार॑णाय च । प्रि॒यो दे॒वानां॒ दक्षि॑णाय॑ दा॒तुरि॒ह भ॑यासम॒यं से काम॒ः समृ॑द्ध्घता॒मुप॑ ना॒दो नमतु ॥ २ ॥
मन्त्रार्थ --- मैं इस कल्याणकारक वाणी को, ' ब्राह्मण और क्षत्रिय के लिये शूद्र और वैश्य के लिये, स्वजनों और शत्रुओं के लिये एवं समस्त जनों के कल्याण के लिये दिया जाय, भोजन किया जाय इस तरह की कल्याणकारक वाणी को सब ओर से बोलता हूँ, अत: मैं इस यज्ञ में देवताओं का और जिनके लिये धन - धान्य आदि दिया जाता है, उन सबका प्यारा बनूं, मेरी पुत्र धन आदि की प्राप्ति की कामना पूरी हो ॥ २ ॥
यजमानो भगवन्तं प्रार्थयते - हे भगवन्, यथाहं दीयतां भुज्यतामित्येवंरूपां कल्याणीमनुद्वेगकरीं वाचमावदानि आसमन्तात् सर्वेभ्यो जनेभ्यो वच्मि । के ते जना येभ्यः कल्याणी वाक् प्रयोक्तव्येति, तत्राह-ब्रह्मराजन्याभ्यां ब्रह्मणे ब्राह्मणाय राजन्याय क्षत्रियाय शूद्राय च अर्याय वैश्याय । ' अर्यः स्वामिवैश्ययोः ' ( पा ० सू ० ३ | १ | १०३ ) इति निपातनात् साधु । स्वाय आत्मीयाय, अरणाय अरणोऽपगतोदकः कुटुम्बगोत्रादि-बाह्यः । यद्वा नास्ति रणं भाषणमपि येन सह सोऽरणः शत्रुरिति यावत् । सोऽपीदानीं सत्कर्तव्यः । प्रयो देवानामिति मध्येऽवसानरहितानुष्टुप् लौगाक्षिदृष्टा । यथेति पूर्वोक्तेरत्र तथाशब्दोऽध्याहार्यः । यथा यतोऽहं ब्राह्मणादिभ्यः कल्याणी वाचं वदामि, तथा ततोऽहं देवानां प्रियो भूयासम् । इह संसारे दक्षिणायै दक्षिणाया दातुश्च प्रियो भूयासम् । देवा दक्षिणादातारश्च मयि प्रीतिं कुर्वन्तु । ममायं कामः समृद्धयतां सफलो भवतु अयमिति नामनिर्देशः । धनपुत्रादिलाभो मे सम्पद्यतामित्यर्थः । अद इति नामग्रहणम् । मा माम् उपनमतु देवदत्तादि प्रीणयत्वित्यर्थः ।