वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 221–230
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 221–230
पृष्ठ 221
पाठ पढ़ें पाठ छिपाएँ
१८८ शुक्लयजुर्वेदसंहिता [ अ ० २६ अध्यात्मपक्षे - यजमानः परिजनाननुशास्ति परमेश्वरं च प्रार्थयते -- यथा येन प्रकारेणाहं जनेभ्यः सर्वेभ्यो ब्रह्मराजन्याभ्यां शूद्राय वैश्याय स्वाय अरणाय शत्रवे च इमामागम्यतामुपविश्यतां भुज्यतां पीयतामित्येवंरूपां कल्याणीमनुद्वेजिनीं वाचमावदानि तथा तेनैव प्रकारेण यूयमपि तथाभूतां वाणीं संवदध्वम्, समेषां दान-सम्मानादिभिः सत्कारं कुरुध्वम् । हे परमेश्वर, अहं देवानाम्प्रियो भूयासम् । दक्षिणाया दातुश्चाहं प्रियो भूयासम् । ये दक्षिणादिदाने धनादिसाहाय्यं कुर्वन्ति तेषामहं प्रियः स्याम् । येन यज्ञेषु पुष्कलदक्षिणाया दाता स्याम् । अयममुको धनपुत्रादिलाभरूपः कामो मे समृद्ध्यतां सम्पद्यताम्, अदोऽभीष्टं ज्ञानविज्ञानादिकं अन्यद्वा अभीष्टं वस्तु मा मामुपनमतु प्राप्नोतु । दयानन्दस्तु – ' हे मनुष्याः, यथाहमीश्वरो ब्रह्मराजन्याभ्यामार्याय शूद्राय वैश्याय स्वाय स्वकीयाय अरणाय सल्लक्षणाय प्राप्ताय अन्त्यजाय च जनेभ्य इहास्मिन् संसारे इमां प्रत्यक्षीकृतां वाचं वेदचतुष्टयीं वाणीमावदानि, तथा भवन्तोऽप्यावदन्तु । यथाहं दातुर्देवानां विदुषां दक्षिणायै दानाय प्रियो भूयासम् । मेऽयं कामः समृद्ध्यताम्, मादः परोक्षं सुखमुपनमतु, तथा भवन्तोऽपि भवन्तु ' इति, तदप्यशुद्धम्, पूर्णकामस्य परमेश्वरस्य तादृशकामानुपपत्तेः । नहि परमेश्वरस्याहं प्रियो भूयासम्, अयं मे कामः समृद्धयताम्, अदः परोक्षसुखं मामुपनमत्विति प्रार्थना सम्भवति । न च परमेश्वरः सर्वेभ्यो वेदचतुष्टयीं वाणीमुपदिशन्नुपलभ्यते । अध्यापको यस्मै वेदं पाठयति स तमध्यापकं न पश्यति । नहि ब्राह्मणानां विदुषामपि वेदोपदेष्टुः परमेश्वरस्य दर्शनं भवति । नहि सोऽज्ञः सम्भवति, यस्य परमेश्वरोऽध्यापकः । किञ्च, नहि परमेश्वराध्यापितस्यान्याध्या-पापेक्षेति कुतो भवन्तोऽप्यावदन्त्विति परमेश्वरोक्तिः सम्भवति । तस्मात् पूर्वोक्तमेव व्याख्यानं युक्तम् ॥ 11 बृह॑स्पते॒ अति॒ यद॒र्यो अर्हीच॒मद्वयाति॒ क्रतु॑म॒ज्ञ्जने॑षु । यद्ददय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु द्रवि॑णं धेहि चि॒त्रम् । उपयामगृहीतोऽसि बृह॒स्पत॑ये॒ त्वे॒ष ते॒ योनि॒र्बृह॒स्पत॑ये॒ त्वा ॥ ३ ॥
मन्त्रार्थ - हे सत्य से प्रकट होने वाले वेदों के पालक सर्वाधार भगवन्! आप अनेक प्रकार का धन हम यजमानों को प्राप्त कराइये, जो धन ईश्वर के अधिकतर सत्कारयोग्य है, कान्तिमान् है, यज्ञ के योग्य है, प्राणियों में अनेक प्रकार से शोभित होता है, अपने बल से दूसरे धन को लाता है, उस धन को हमें प्राप्त कराइये । हे ग्रह! तुम उपयास पात्र में गृहीत हो, बृहस्पति की तुष्टि के लिये तुम्हारा ग्रहण करता हूँ । यह तुम्हारा स्थान है, बृहस्पति की तुष्टि के निमित्त तुमको यहाँ स्थापित करता हूँ ॥ ३ ॥
ब्रह्मदेवत्या त्रिष्टुप् गृत्समददृष्टा । बृहस्पतिसवे बार्हस्पत्यग्रहणेऽस्याः सोपयामाया विनियोगः । हे ऋत-प्रजात ऋतात् सत्याद् ब्रह्मणः सकाशात् प्र प्रकृष्टं जातं जन्म यस्यासौ ऋतप्रजातः, तत्सम्बुद्धौ । हे बृहस्पते बृहतां वेदानां पतिः पालको बृहस्पतिः, ' तद्बृहतोः करपत्योचीरदेवतयोः सुट् तलोपश्च ' ( पा सू ० ६।१।१५७, ० १ ) इति साधुः, तत्सम्बुद्धौ । चित्रं नानाविधं तद् द्रविणमस्मासु यजमानेषु धेहि धारय, देहीत्यर्थः । किं तद् द्रविणमित्याह — अर्यो यद् अर्हात् । अर्यः स्वामी यद्धनम् अर्हद् अर्हति । ' लेटो s डाटा ' ( पा ० सू ० ३ | ४ ९ ४ ) इत्याडागमः, ईश्वरयोग्यमतिशयेन धनं प्रयच्छेत्यर्थः । ' अर्यः स्वामिवैश्ययो: ' ( पा ० सू ० ३ | १ | १०३ ) इति निपातनाद् ऋधातोर्यंति रूपसिद्धिः । तस्य च ' यतोऽनाव: ' ( पा ० सू ० ६ | १ | २१३ ) इत्याद्युदात्तत्वे प्राप्ते, ' स्वामिन्यन्तोदात्तत्वं च वक्तव्यम् ' ( पा ० सू ० ३ | १ | १०३, वा ० १ ) इत्यन्तोदात्तत्वम् । वैश्ये चार्थे आद्युदात्तत्वम् । यच्च धनमति अतिशयेन घुमद् ' घु अव्ययं दीप्त्यर्थकम् ' दीप्तिमद् इत्यर्थः । अथवा द्योतते येनासौ द्यौर्दीप्तिः, द्यौस्तस्य तद्मद् दीप्तिमत्, ' दिव उत् ' ( पा ० सू ० ६ | १ | १३१ ) इत्युकारादेशः । क्रतुमज्जनेषु क्रतवो
पृष्ठ 222
पाठ पढ़ें पाठ छिपाएँ
म ० ३-४ ] वेदार्थ पारिजातभाष्यसहिता १८ ९ विद्यन्तेऽनुष्ठेयत्वेन येषां ते क्रतुमन्तो यज्ञानुष्ठातारः क्रतुमन्तश्च ते जनाश्च क्रतुमज्जनाः " तेषु । विभाति विशेषेण शोभते । यच्च धनं शवसा बलेन दीद्यद् दाययति प्रापयति वा धनान्तरमिति तादृशं धनं देहीत्यर्थः । ' दय दानगतिरक्षण हंसादानेषु ' इति धातोर्णिजन्ताल्लुङि रूपम्, अडभाव आर्षः । हे बार्हस्पत्य ग्रह, उपयामपात्रेण गृहीतोऽसि, बृहस्पतये देवाय त्वा गृह्णामि । एष ते योनिः स्थानम्, बृहस्पतये त्वां सादयामि । इति स्थापनमन्त्रः । अध्यात्मपक्षे - हे बृहतां वेदानां महदादीनां वा पालक परमेश्वर, यदतिद्युमद् द्रविणमतिशयेन दीप्तिमद् ब्रह्मज्ञानात्मकम्, तदस्मासु धेहि । यच्चार्य ईश्वरो:, अर्हात् पूजयति, यच्च क्रतुमज्जनेषु, क्रतव उपासनालक्षणाः सङ्कल्पा येषां ते क्रतुमन्तः, ते च ते जनाच क्रतुमज्जनास्तेषु विभाति विभासते । हे ऋतप्रजात, ऋतं सत्यं प्रजातं यस्मात् स त्वम् ऋतप्रजातः, तत्सम्बुद्धौ । चित्रं विविधमैहिकामुष्मिकमन्यच्च यद्धनम्, तदपि मयि धेहि । हे समर्पणीय सोमादिद्रव्य, त्वमुपयामगृहीतोऽसि प्रेम्णा गृहीतोऽसि । बृहस्पतये त्वां गृह्णामि तस्मै त्वां सादयामि | दयानन्दस्तु ' हे बृहस्पते, यस्त्वमुपयामगृहीतोऽसि तं त्वा बृहस्पतये यस्यैष ते योनिरस्ति तस्मै त्वा वयं स्वीकुर्मः । हे ऋतप्रजातार्यस्त्वं जनेष्वद्यद्युमत् क्रतुमदति विभाति यच्छवसा दीदयद्यदस्ति तच्चित्रं विज्ञानं द्रविणं चास्मासु धेहि ' इति, तदपि यत्किचित् मन्त्रे यशोबोधकपदाभावात् । न च द्रविणमेव यश इति वाच्यम्, तथात्वे धनं यति त्वदुक्तिविरोधात् द्युमत्क्रतुमदिति पदाभ्यां मनोबुद्धयोर्ग्रहणे मानाभावात् । बृहस्पतये बृहत्या वाचः पालनायेत्यप्यसङ्गतम्, पतिशब्दस्य पालकार्थत्वेन पालनार्थत्वायोगात् ॥ ३ ॥
इन्द्र गोम॑न्तार्या हि पिबा सोम॑ शतक्रतो । विद्यद्विग्रभिः सतम् । उपयामगृहीतोऽ-सोन्द्रीय ते॒ योनि॒रिन्द्रयत्वा गोमंते ॥ ४ ॥
त्वा॒ गोम॑त एष मन्त्रार्थ -- हे शोभन यज्ञ वाले, अनन्त कर्मों वाले, परम ऐश्वर्य सम्पन्न गोमान् इन्द्र देवता, आप इस यज्ञ में आइये, विशेष प्रकार के पाषाणों से अभिषुत हुए सोम को पीजिये । हे ग्रह, तुम उपयाम पात्र में गृहीत हो, गोमान् इन्द्र की प्रीति के निमित्त तुम्हारा ग्रहण करता हूँ, यह तुम्हारा स्थान है, गोमान् इन्द्र की प्रीति के निमित्त तुमको यहाँ स्थापित करता हूँ ॥ ४ ॥
इन्द्रदेवत्ये गायत्र्यौ रम्याक्षिदृष्टे । गोसवे यज्ञे इन्द्राय गोमते ग्रहग्रहणे विनियुक्ते । हे शतक्रतो! शत-मसंख्यातानि क्रतवः कर्माणि यस्य स शतक्रतुः क्रियते योऽसौ क्रतु:, ' कृञः कतु: ' ( उ ० १।७६ ) इति रूपसिद्धिः । शतक्रतोः सम्बोधने हे शतक्रतो शताश्वमेधानुष्ठायिन्! हे गोमन्! गावो धेनवः स्तुतयः किरणा वा विद्यन्ते यस्य स गोमान् तत्सम्बुद्धौ, हे इन्द्र इह यज्ञे आयाहि आगच्छ । सोमं च पिबा पिब, ' द्वयचोऽतस्तिङ: ' ( पा ० सू ० ६ | ३ | १३५ ) इति दीर्घः । कीदृशं सोमम्? ग्रावभिः पाषाणविशेषैः सुतम् अभिषुतम् । कीदृशैर्ग्रावभिः? विद्यद्भिर्विशेषेण द्यन्ति खण्डयन्तीति विद्यन्तः तैः । ' दोऽवखण्डने ' इति धातोः शतरि दिवादित्वात् श्यनि च ' ओतः श्यनि ' ( पा ० सू ० ७ ३ ७१ ) इत्यकारलोपे च रूपसिद्धिः । अन्यत् पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे - हे इन्द्र परमेश्वर! शतक्रतो अनन्तसृष्ट्यादिकर्तः! गोमन् गोपालकृष्णरूपेण बहुगोयुक्त! भक्तानां हृदये आयाहि प्राकट्यमुपगच्छ । सोमं पिब । कीदृशं सोमम्? विद्यद्भिग्रविभिः सुतमभिषुतम् । हे सोम, त्वमुपयामगृहीतोऽसि । इन्द्राय गोमते वा गृह्णामि । एष आराधनप्रदेशस्ते योनिः स्थानम् । तत्र त्वां तादृशाय इन्द्राय सादयामि ।
पृष्ठ 223
पाठ पढ़ें पाठ छिपाएँ
११० शुक्ल यजुर्वेदसंहिता [ अ ० २६ दयानन्दस्तु -- ' हे शतक्रतो गोमन्निन्द्र, त्वमिहायाहि विद्यद्भिर्ग्रावभिः सुतं सोमं पिब । यतस्त्वमुपयाम-गृहीतोऽसि तस्माद् गोमत इन्द्राय त्वा यस्यैष ते योनिरस्ति तस्मै गोमत इन्द्राय त्वा च वयं सत्कुर्मः ' इति, तदपि यत्किञ्चित् विद्यद्भिरिति पदस्य वैयर्थ्यापातात्, अविद्यमानस्य हेतुत्वानुपपत्तेः ॥ ४ ॥
इन्द्राया॑हि वृत्रहन् पिवा॒ सोम॑ शतक्रतो । गोम॑द्भिर्ग्राव॑भिः सु॒तम् । उपया॒मगृ॑होता॒ऽ-सीन्द्र त्वा॒ गोम॑त॒ ए॒ष ते॒ योनि॒रिन्द्रय त्वा॒ गोम॑ते ॥ ५ ॥
मन्त्रार्थ - हे वृत्रनाशक सौ यज्ञों को करने वाले देवराज इन्द्र, आप यहाँ आइये, स्तुतियुक्त पाषाणों से अभिषुत सोम का पान कीजिये | हे ग्रह, तुम उपयाम पात्र में गृहीत हो, इन्द्र की प्रीति के लिये तुम्हारा ग्रहण करता हूँ । यह तुम्हारा स्थान है, इन्द्र की योनिस्वरूप तुमको यहाँ स्थापित करता हूँ ॥ ५ ॥
हे वृत्रहन् वृत्रं हतवानिति वृत्रहा, तत्सम्बुद्धौ । हे शतक्रतो हे इन्द्र त्वमायाहि सोमं च पिब । कीदृशं सोमम्? गोमद्भिः स्तुतिमद्भिः, ग्रावभिरश्मभिः सुतमभिषुतम् । शेषं पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे — वर्तते सदैवेति वृत्रोऽज्ञानम्, तं हतवानिति वृत्रहा, तत्सम्बुद्धौ । हे शतक्रतो बहुकर्मन् इन्द्र, आयाहि स्तुतिमद्भिर्ग्रावभिः सुतं सोमं पिब, परमेश्वरपूजोपकरणनिष्पादकवस्तूनामपि वेदैः स्तुयमान-त्वात् । हे सोम, त्वमुपयामगृहीतोऽसि प्रेम्णा गृहीतोऽसि, इन्द्राय गोमते त्वां गृह्णामि । दयानन्दस्तु — ' हे शतक्रतो वृत्रहन् त्वं गोमद्भिर्ग्रावभिः सदायाहि, सुतं सोमं पिब । यतस्त्वं गोमत इन्द्रायोपयामगृहीतोऽसि तं त्वा यस्यैष ते गोमत इन्द्राय योनिरस्ति, तं त्वा वयं सत्कुर्याम ' इति, तदपि यत्किञ्चित्, मुख्यार्थत्यागगौणार्थग्रहणयोर्निर्मूलत्वात् । नहि कस्यचिन्मनुष्यस्य सूर्यतुल्यत्वमपि सम्भवति, न वा गर्जनयुक्तैः किरणैः सहागमनं सम्भवति ॥ ५ ॥
ऋ॒तावा॑नं वैश्वान॒रमु॒तस्य॒ ज्योति॑ष॒स्पति॑म् । अज॑स्त्रं घ॒र्ममी॑महे । उपयामगृहीतोऽसि वैश्वान॒राय॑ त्वे॒ष ते॒ यो नैवै॑श्वान॒राय॑ त्वा ॥ ६ ॥
मन्त्रार्थ- -सत्यस्वरूप अविनाशी तेज के पालक अनुपहसनीय, दीप्तिकारी, सब प्राणियों के हितकारी, परमात्म-स्वरूप अग्निदेव की हम प्रार्थना करते हैं । हे ग्रह, तुम उपयाम पात्र में गृहीत हो, वैश्वानर की प्रीति के निमित्त तुम्हारा ग्रहण करता हूँ । यह तुम्हारा स्थान है, वैश्वानर की तुष्टि के लिये तुम्हें यहाँ स्थापित करता हूँ ॥ ६ ॥
तिस्रो वैश्वानरीयाः पुरोनुवाक्या: । तत्राद्या गायत्री प्रादुराक्षिदृष्टा । वयं वैश्वानरमीमहे याचामः, यज्ञसमाप्तिमिति शेषः । ‘ ईमह इति याच्याकर्मसु पठित: ' ( निघ ० ३ | ११११ ) कीदृशं वैश्वानरम्? ऋतावानम्, ऋतं सत्यं यज्ञं जलं वास्यास्तीति ऋतवा, ' छन्दसीवनिपौ च वक्तव्यौ ' ( पा ० सू ० ५।२११० ९, वा ० २ ) इत्यस्त्यर्थे निप्रत्ययः, संहितायां ऋतस्य छान्दसो दीर्घः, ऋतावा, तं ऋतावानम् । दुह्यादेर्धातोद्विकर्मकत्वात् कर्मद्वयम् । ऋतस्य सत्यस्याबाध्यस्य ज्योतिषस्तेजसः पतिं पालकम्, तेजोऽधिष्ठानमित्यर्थः । ' जसु मोक्षणे ' दैवादिकः । अयं नञ्पूर्वः स्वभावतः क्रियासातत्ये वर्तते । न जस्यतीत्यजत्रम्, ' नमिकम्पिस्म्यजसकर्मा हंसदीपो र: ' ( पा ० सू ० ३।२।१६७ ) इति रः, सन्ततमित्यर्थः । घर्मम् जिघर्तीति धर्मः, ' घृ क्षरणदीप्त्योः ' इत्यस्मात् ' घर्मग्री मौ ' ( उ ० १।१४ ९ ) इति मक्प्रत्यये साधु, तं धर्मम् । ईमहे वैश्वानरयज्ञसमाप्ति याचामहे । उपयामेति पूर्ववद् व्याख्येयम् ।
पृष्ठ 224
पाठ पढ़ें पाठ छिपाएँ
मं ० ६-७ ] वेदार्थपारिजातभाष्यसहिता t ९ १ अध्यात्मपक्षे वैश्वानरं विश्वेषां नराणां हितं हितकारिणं परमात्मानम्, ईमहे याचामहे, भक्तिमिति शेषः । कीदृशम्? ऋतावानम्, सत्यव्रतं यज्ञवन्तं वा, ऋतस्य सत्यस्य यज्ञस्य वा पालकम् । ज्योतिषः सूर्यादेः पति पालकम् | अजस्रमक्षीणं धर्ममक्षरणं दीप्तं स्वप्रकाशं वा । उपयामगृहीतोऽसीति । हे निवेदनीय द्रव्य, त्वमुप-यामेन प्रेम्णा गृहीतोऽसि । वैश्वानराय त्वा गृह्णामि । अन्यत् पूर्ववद् व्याख्येयम् । दयानन्दस्तु ' हे मनुष्याः, यथा वयं ऋतावानं वैश्वानरं तस्य ज्योतिषपति घर्ममीमहे, तथा यूथमप्येनं याचत । यतस्त्वं वैश्वानरायोपयामगृहीतोऽसि तं त्वा यस्यैष ते योनिरस्ति तं त्वा च वैश्वानराय सत्कुर्मः, तथा यूयमपि कुरुत ' इति, तदपि यत्किञ्चित्, विशेष्यानिर्देशात् । भावार्थे त्वग्निरुक्तः । त्वद्रीत्या तस्य जाड्यमेवेति कुतो याचनीयता, चेतनस्यैव याच्यमानत्वदर्शनात् । सत्करणादिकमपि तस्य न सङ्गतम् त्वद्रीत्या जडपूजनस्य निन्दितत्वात् ॥ ६ ॥
वैश्वान॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभिश्रीः । इ॒तो जातो विश्व॑मि॒दं विच॑ष्टे वैश्वान॒रो य॑तते॒ सूर्येण । उपयामगृहीतोऽसि वैश्वान॒राय॑ त्वैष ते॒ या निर्वैश्वान॒राय॑ त्वा ॥ ७ ॥
मन्त्रार्थ -- सम्पूर्ण जगत् के हितकारी वैश्वानर देव की सुबुद्धि में हम गृहीत हों, क्योंकि वह सम्पूर्ण भुवनों और प्राणियों का आश्रयस्थल वैश्वानर देव इस भूलोक में अथवा ज्ञानाग्नि में प्रकट होकर इस चराचर जगत् को देखता है । सूर्य के साथ स्पर्धा करता है, सब प्रकार से दीप्तिमान् है, अथवा सूर्य रूप से वृष्टि आदि कर्मों में निरत है । हे ग्रह, तुम उपयाम पात्र में गृहीत हो, वैश्वानर देव की प्रीति के लिये तुम्हारा ग्रहण करता हूँ । यह तुम्हारा स्थान है, वैश्वानर की तुष्टि के लिये तुम्हें यहाँ स्थापित करता हूँ ॥ ७ ॥
त्रिकुटा । वैश्वानरस्य देवस्य सुमतौ शोभनायां सानुग्रहायां बुद्धौ वयं स्याम भवेम, तदनु-ग्रहभाजनानि भवेमेत्यर्थः । कं निपातः पादपूरणः । हि यस्माद्धेतोर्वैश्वानरः 1 इतोऽरणितो जातोऽरणिमन्थना-दुत्पन्नः सन् इदं विश्वं सवं विचष्टे कर्मानुरूपं पश्यति, सूर्येण सह यतते स्पर्धते च स्वकीयदीप्त्या सूर्यसमान-तेजस्क इत्यर्थः । कीदृशो वैश्वानरः? राजा, भुवनानां भूतग्रामाणां लोकानां वा । अभिश्रीः, अभि अभितः समन्तात् श्रीयते सेव्यत इत्यभिश्रीः 1 सर्वभूतैः सर्वलोकैराश्रयणीय इति यावत् । कर्मणि क्विप् । अन्यत् पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे- विश्वान् नृणाति स विश्वानरः, स एव वैश्वानरः, स्वार्थिकोऽणु । यः सर्वनियामको-ऽन्तर्यामी यश्च राजा राजमानः स्वयंप्रकाशः, यश्व भुवनानां सर्वलोकानामभिश्रीः सर्वलोकैः समन्तादाश्रयणीयः, य इतोऽरणितोऽन्यतो वा जात इदं विश्वं सर्वं विचष्टे सौविध्यदानायाविशेषेण पश्यति यश्च सूर्येण यतते सूर्यद्वारा विश्वपोषणाय प्रयतते तस्य वैश्वानरस्य भगवतः सुमतौ सानुग्रहायां बुद्धौ वयं स्याम भवेम । शेषोंऽशः पूर्ववद् व्याख्येयः । दयानन्दस्तु -- ' वयं यथा राजा भुवनानामभिश्रीः कं हि साध्नोति, इतो जातः सन् विश्वमिदं विचष्टे । यथा सूर्येण सह वैश्वानरो यतते, तथा वयं वैश्वानरस्य सुमतौ स्याम । हे विद्वन् यतस्त्वमुपयामगृहीतोऽसि, तस्माद्वैश्वानराय त्वा यस्यैष ते योनिरस्ति तं त्वा च वैश्वानराय सत्करोमि ' इति, तदपि यत्किञ्चित् साध्नोतीति क्रियापदस्य मूलेऽभावात् । अध्याहारश्च निर्मूल एव । न च त्वद्रीत्या सूर्यः कं सुखं साधयति, तस्य जडत्वेन
पृष्ठ 225
पाठ पढ़ें पाठ छिपाएँ
१ ९ २ शुक्लयजुर्वेदसंहिता [ अ ० २६ कृतिमत्त्वाभावात् । अतश्चैतनस्यैव विचार्यकारित्वेन हेत्वपेक्षणात् न जडे कारणापेक्षापि । परमेश्वरस्य , तं सुमतौ सर्वेषां विषयत्वेऽपि राज्ञोऽल्पज्ञस्य सुमतौ समेषां सत्त्वासम्भव एव । विद्वान् कथं कैर्नियमैर्गृह्यते च वैश्वानराय किमर्थं गृह्णातीत्यादिकं सर्वं विशृङ्खलितमेव ॥ ७ ॥
वैश्वान॒रो ने ऊतय आ प्रयोतु परावर्तः । अ॒ग्निरुक्थेत वाह॑सा । उपयामगृहीतोऽसि वैश्वान॒राय॑ त्व॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥ ८ ॥
देश से मन्त्रार्थ - सारे जगत् का हितकारी अग्नि देवता हमारी रक्षा के लिये स्तोमरूप वाहन के द्वारा दूर तुम्हारा यहाँ आवे । हे ग्रह, तुम उपयाम पात्र में गृहीत हो, वैश्वानर की प्रीति के निमित्त तुम्हारा ग्रहण करता है । यह स्थान है, वैश्वानर की तुष्टि के लिये तुम्हें यहाँ स्थापित करता हूँ ॥ ८ ॥
गायत्री । वैश्वानरोऽग्निर्नोऽस्मान् ऊतये अवनाय पालनाय परावतो दूरदेशाद् आप्रयातु आगच्छतु ॥ यो हि पालनाय दूरादागच्छेत् स समीपादप्यागच्छेदेवेत्यभिप्रायः । केन आप्रयातु? तदुच्यते उक्थेनेति हुतं नरा ' उक्थेन स्तोमेन वाहसा वाहनेन वाहनभूतेनोक्थेनाप्रयात्वित्यर्थः, " वाहिष्ठो वाहनानां स्तोमो दूतो इति श्रुत्यन्तरे स्तोमस्य वाहनत्वश्रवणात् । उपयामेत्यादिकं पूर्ववत् । अध्यात्मपक्षे — वैश्वानरः परमेश्वरः, नोऽस्माकं भक्तानामूतये पालनाय कार्यसाधनाय परावतो दूरदेशादपि दूरं आप्रयातु । परमेश्वरस्य सर्वव्यापकत्वेऽपि भक्तानुग्रहार्थं धृतविग्रहस्य सुदूरवर्तिनामपि भक्तानां उक्थेन पालनाय स्तोमेन गतस्यापि समागमनं सम्भवति, किमुत समीपवर्तिन इति भावः । स चाग्निरग्निवत्पापनाशकः ॥ हे पूजोपकरण, वाहसा वाहनेन यातु, शीघ्रमिति शेषः । भगवतो वाहनस्य गरुडस्य छन्दोमयत्वं, वैश्वानराय प्रसिद्धमेव त्वा सादयामि । त्वमुपयामगृहीतोऽसि । वैश्वानराय त्वां गृह्णामि । एष पूजाप्रदेशस्ते योनिः स्थानम् , दयानन्दस्तु – ' यथा वैश्वानरः परावतो न ऊतये आप्रयातु, तथाग्निरुक्थेन वाहसा सहाप्नोतु प्रागेव रक्षणीय- ' इति तदपि यत्किञ्चित्, मनुष्यस्य कस्यचित् सर्वेषां रक्षणाय दूरादागमनं न सम्भवति, तदागमनात् मानाभावात् । विनाशसम्भवात् । न वा तस्य उक्थेन वाहनेनागमनं सम्भवति, उक्यपदस्य प्रशस्तार्थतापरत्वे ॥ तस्माद्देवविशेषः परमेश्वर एव वा वैश्वानरपदार्थ इति मन्तव्यम्, तत्रैव विशेषणानां सामञ्जस्यात् ॥ ८ अ॒ग्निर्ऋषि॒ पव॑मान॒ः पाञ्च॑जन्यः पुरोहितः । तमी॑महे महाग॒यम् । उपय॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स एष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से ॥ ९ ॥
से मन्त्रार्थ - जो अग्निदेवता प्रकाशक मन्त्रद्रष्टा पवित्रतम सकल मनुष्यों का हितकारी है, यज्ञ में हितकारी में होने गृहोत हम उसे यहाँ आगे स्थापित करते हैं । उस महती स्तुति वाले की प्रार्थना करते हैं । हे ग्रह, तुम उपयाम पात्र लिये तुम्हें यहाँ हो, तेजोरूप अग्नि की तुष्टि के लिये तुम्हारा ग्रहण करता हूँ । यह तुम्हारा स्थान है, तेजोयुक्त अग्नि के स्थापित करता ॥ ९ ॥
पवमानः अग्निदेवत्या गायत्री वसिष्ठभरद्वाजदृष्टा पुरोरुक् पुरोऽनुवाक्या । योऽग्निर्ऋषिर्मन्त्राणां द्रष्टा पाञ्चजन्यः , पवत इतस्ततो गच्छतीति पवमानः, ' पूङ् पवने ' । यद्वा पवते पवित्रयति शोधयतीति पवमानः १. नेदानीं श्रुतिरियमुपलभ्यते ।
पृष्ठ 226
पाठ पढ़ें पाठ छिपाएँ
मं ० ९ -१० ] वेदार्थ पारिजातभाष्यसहिता १ ९ ३ चत्वारो वर्णा निषादपञ्चमाः पञ्चजनाः, तेषां यज्ञाधिकारात्, तेभ्यो हितः पाञ्चजन्यः, ' पञ्चजनादुपसंख्यानम् ' ( पा ० सू ० ४।३।५८, वा ० १ ) इति ञ्यः प्रत्ययः । पञ्चजनानामेवाधिकारः शास्त्रबलाद् यज्ञेषु लभ्यते । तथाहि -- ब्राह्मण - क्षत्रिय - विशामुपनयनपूर्वक वेदाधिकाराद् यथायोग्यमधिकारिता । शूद्राणामनुपनीतानां च पाकयज्ञाधिकारः । ' तया निषादस्थपति याजयेत् ' ( मै ० सं ० २।२1४ ) इतीष्टिविशेषे निषादस्याप्यधिकारः, शास्त्रदृष्टीनां शास्त्रवचनादेव प्रवृत्तिनिवृत्त्योः सम्भवात् । यश्च पुरोहितः पुरो दधाति यज्ञं कुर्वाणो यं सः अथवा पुरोऽग्रे हितः स्थापितो वा, तं तादृशं महागयं महान गयो गातुं योग्या कीर्तिः स्तुतिर्वा यस्य स महागयः, तम् । महान्तं गृहरूपं वा, ' गय इति गृहनाम ' ( निघ ० ३ ४ | १ ), महत्त्वं च गृहस्य द्रव्यनिबन्धनम् । अग्निमभीष्टं याचामहे । उपयामेत्यादि पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे - यश्चाग्निरग्रणीऋषिरतीन्द्रियदर्शी पवमानः पवित्रकारकः, यश्च पाञ्चजन्यः सर्वजन -हितैषी, पुरोहितः सर्वेषु कार्येषु पुरोहितवत् पूज्यः, तं महागयं महागृहं संसारगृहिणं संसारगृहपति परमेश्वर-मीमहे याचामहे संसारसागरोत्तारणाय । हे अग्ने, त्वमुपयामेन प्रेम्णा गृहीतोऽसि । अग्नये वर्चसे तेजोरूपाय त्वा त्वां गृह्णामि समाश्रये । एष मे आत्मा ते योनिर्निवासस्थानम्, तत्र त्वा सादयामि स्थापयामि । दयानन्दस्तु - ' हे मनुष्याः, यः पाञ्चजन्यः पुरोहितः पवमान ऋषिरग्निरस्ति, तं महागयं यथा वयमीमहे तथा त्वं वचसेऽग्नये उपयामगृहीतोऽसि । यस्यैष ते योनिर्वर्चसेऽग्नयेऽस्ति, तं त्वा वयमीमहे तथैतं यूयमपी-हध्वम् ' इति, तदपि यत्किञ्चित् एकस्य मनुष्यविशेषस्य पाञ्चजन्यत्वाद्यनुपपत्तेः, गौणार्थंकल्पनाया निर्मूलत्वात् । न च तत्राग्नित्वाद्युपपत्तिः, सर्व पञ्चजनसाधुत्वमपि तत्र नोपपद्यते, मनुष्यविशेषतारतम्यसमाप्त्यसम्भवात् ॥ ९ ॥
म॒हाँ २ ॥ इन्द्रो॒ वज्र॑हस्तः षोडशी शर्म॑ यच्छतु । हन्त॑ पा॒प्मानं योऽस्मान् द्वेष्टिं । उपयाम-गृहीतोऽसि महेन्द्राय॑ त्व॒ष ते योनिर्महे॒न्द्राय॑ त्वा ॥ १० ॥
मन्त्रार्थ - श्रेष्ठ वज्रधारी पाँच प्राण, दस इन्द्रिय और एक मन - इस प्रकार १६ पदार्थों से युक्त लिंगशरीर वाला, अथवा परिपूर्ण आत्मस्वरूप परम ऐश्वर्यवान् इन्द्रदेव हमारा कल्याण करें । उस पापी को नष्ट करें, जो हमारे प्रति द्वेष करता है । हे ग्रह, तुम उपयाम पात्र में गृहीत हो । महेन्द्र की प्रीति के निमित्त तुम्हारा ग्रहण करता हूँ । यह तुम्हारा स्थान है, महेन्द्र की पुष्टि के लिये तुम्हें यहाँ स्थापित करता हूँ ॥ १० ॥
महेन्द्रदेव त्या गायत्री वशिष्ठ दृष्टा पुरोरुक् । इन्द्रः शर्म सुखं यच्छतु ददातु । योऽस्मान् द्वेष्टि तं पाप्मानं पापिष्ठं हन्तु विनाशयतु । यद्वा अस्मद्वेष्टारं पाप्मानं पापं ब्रह्महत्यादिकं च हन्तु । ' अस्त्री पङ्कं पुमान् पाप्मा ' ( अ ० को ० १ | ४ | २३ ) इत्यमरः । कीदृश इन्द्रः? महान् सर्वश्रेष्ठः वज्रहस्तो वज्रं हस्ते यस्य सः, षोडशी प प्राणा दशेन्द्रियाणि मनश्चेति षोडशपदार्था लिङ्गशरीररूपा यस्य सः । यद्वा षोडशकलादिरूपाणि यस्मिन् स षोडशी, आत्मस्वरूप इत्यर्थः । योऽस्मान् द्वेष्टि तं पाप्मानं हन्तु । उपयामेत्यादि पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे —– इन्द्रः परमेश्वरः शर्म सुखं लौकिकं मोक्षरूपं वा यच्छतु । स महान् ब्रह्मरूपत्वाद् निरतिशयमहत्त्वोपेतः । वज्रहस्तः, वज्रचक्रादिरूपो हस्ते यस्य सः । षोडश कला यस्मिन् अध्यस्ता सः । यः संसाररूपः पाप्मा नो द्वेष्टि तं पाप्मानं हन्तु, अज्ञानतत्कार्यरूपं संसारं हन्तु निवर्तयतु । दयानन्दस्तु -- ' हे मनुष्याः, वज्रहस्तः षोडशी महानिन्द्रः शर्म यच्छतु, योऽस्मान् द्वेष्टि तं पाप्मानं हन्तु ' इति, तदपि यत्किञ्चित्, लौकिकस्य राज्ञो वज्रहस्तत्वाभावात् । षोडशकलत्वमपि न तत्राव्यभिचारि, सर्वस्यैव जीवस्य तद्वत्त्वात् ॥ १० ॥
२५
पृष्ठ 227
पाठ पढ़ें पाठ छिपाएँ
१ ९ ४ तं वो॑ शुक्लयजुर्वेदसंहिता
द॒स्ममृ॑त॒हं वसो॑म॑न्दा॒नमन्ध॑सः ।
अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्र॑ गोभिर्नबामहे ॥ ११ ॥
L अ ० २६ मन्त्रार्थ - अपने बल से शत्रुओं को जीतने वाले, दर्शनीय स्वरूप, स्थिति हेतु अन्न से प्रसन्न होने वाले ऐश्वर्यवान् हैं, जैसे कि चरने को गई गायें परमात्मा को स्तुति रूप पवित्र वाणियों से हम सब प्रकार से उसी प्रकार प्रणाम करते अपने बछड़ों को हुँभारव से बुलाती हैं ॥ ११ ॥
इन्द्रदेवत्या पथ्याबृहती नोधागोतमदृष्टा जपस्वाध्यायादिषु विनियुक्ता । आदित्ययाज्ञवल्क्ययोरार्षम् ' णु स्तुतौ ' व्यत्ययेन आ अध्यायपरिसमाप्तेः । हे यजमानाः तमिन्द्रं गीभिः स्तुतिलक्षणाभिर्नवामहे अभिष्टुमः, शपो लुग् न । कीदृशमिन्द्रम्? वो युष्मभ्यं दस्मं दर्शनीयं प्रियदर्शनं कार्यसाधकं च, ' इषियुधीन्धिदसिश्या- अरणम्, धूभ्यो मक ' ( उ ० १।१४५ ) इति दसेर्मकप्रत्ययः । ' दस दर्शने ' चुरादिः । पुनः कथम्भूतम्? ऋतीषहम् संहितायां तु ऋतिः ' ऋ गतौ ' इत्यस्मात् क्तिन्प्रत्यये ऋतिर्गतिः, तया शत्रून् सहतेऽभिभवतीति ऋतिषाट् सहेः पृतनर्ताभ्यां च ' ' नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ' ( पा ० सू ० ६ | ३ | ११६ ) इति दीर्घः । ऋतीषहम् ' । वसोः ( पा ० सू ० ८ | ३ | १.९ ) इत्यत्र सहेरिति योगविभागान्मूर्धन्यादेशः । अवग्रहे तु ऋतिसहमित्येव । यद्वा तृतीयार्थे वासयितुः सोमस्य स्वकीयेनैकदेशेन मन्दानं माद्यन्तम्, अन्धसोऽन्नस्य स्वकीयेनैवांशेन माद्यन्तम् ' मदि स्तुति-षष्ठी । वसोरन्धसो वसुना अन्धसा वासयित्रा स्थितिहेतुभूतेनान्धसा अन्नेन मन्दानं मोदमानम् ? तत्राह । - अभिवत्सं न मोदमदस्वप्नकान्तिगतिषु ' इति धातो: शानचि शपो लुकि रूपम् । कथमिव नवामहे तेषु स्वसरेषु धेनव इति । नकार उपमार्थीयः । स्वसरेषु स्वयमेव सरन्ति किरणा येषु तानि शब्देराश्वासयेयुः स्वसराण्यहानि, एवं अभि आभिमुख्येन यथा घेनवो नवप्रसूता गावो अतिहार्दात् स्नेहातिशयाद् वत्सं वयमप्यतिसौहार्देन इन्द्रं गीर्भिर्नवामह इति । अध्यात्मपक्षे - तं वेदादिशास्त्रप्रसिद्धमिन्द्रं परमात्मानं वयं गीभिर्नवामहे । कीदृशम्? वो अज्ञाना- युष्माकं दस्मं दर्शनीयम्, ' आत्मा वा अरे द्रष्टव्य: ' ( बृ ० उ ० २।४।५ ) इति श्रुतेः । ऋतीषहम् मन्दानं ऋत्या मोदमानम् ज्ञानेन, सर्वं हङ्कारादिशत्रून् सहतेऽभिभवतीति तम् । वसोरन्धसा वसुना स्थितिभूतेनान्धसा अन्नेन इति तत्राह - अभिवत्सं मोदयन्तं हर्षयन्तम्, ' एष ह्येवानन्दयाति ' ( तै ० उ ० २७ ) इति श्रुतेः । कथमिव नवामह आभिमुख्येन स्नेहाति -न स्वसरेषु धेनव इति । स्वसरेषु दिवसेषु धेनवो नवप्रसूता गावो अभिवत्समिव यथा ता शयेन वत्सं शब्दैराश्वासयन्ति तथा वयं सौहार्दातिशयेन भगवन्तं गीर्भिर्नवामहे । मन्दानमिन्द्रं वो दयानन्दस्तु – ' हे मनुष्याः, वयं स्वसरेषु धेनवो वत्सं न यं दस्मंमृतीषहं वसोरन्धसो , राजस्तुतौ ब्रह्मपरस्य गीभिरभिनवामहे, तथा तं भवन्तोऽपि सदा प्रीतिभावेन स्तुवन्तु ' इति, तदपि यत्किञ्चित् मरणादिदुःखदर्शनात् । वेदस्य पर्यवसानायोगात् । न च राज्ञो दुःखक्षयित्वमपि सम्भवति, तेन रक्ष्यमाणस्यापि तादृशमेन, गतिसहत्वं तु न तदव्यभिचारि, तस्य प्रजास्वपि सम्भवात् । धनेनान्धसा आनन्दवत्त्वमपि तस्यान्यत्रापि सत्त्वात् ॥ ११ ॥
यद्वाहि॑ष्ठ॒ तद॒ग्नये॑ ब॒हद॑च॑ विभावसो । महिंषीव॒ त्वद॒यिस्त्वद्वाजा॒ उदी॑रते ॥ १२ ॥
मन्त्रार्थ इच्छित पदार्थ को प्राप्त कराने वाले बृहत्साम का गान अग्निदेव की तुष्टि के लिये किया जाता है । है, अन्न सामगान से प्रत्यक्ष हुए अग्नि से प्रार्थना की जाती है कि हे ज्योतिर्मय अग्निदेव आपसे उसी प्रकार धन प्राप्त होता प्राप्त होता है, जैसे कि पटरानी पति को भोग पदार्थ देती है ॥ १२ ॥
पृष्ठ 228
पाठ पढ़ें पाठ छिपाएँ
म ० १२-१३ ] वेदार्थ पारिजात भाष्यसहिता १ ९ ५ अग्निदेवत्यानुष्टुप, वसूयोरार्षम् । हे उद्गातः यद् वाहिष्ठमतिशयेन वाहयितृ इति विग्रहे ' तुच्छन्दसि ' ( पा ० सू ० ५। ३ ५ ९ ) इति इष्ठनि, ' तुरिष्ठेमेयस्सु ' ( पा ० सू ० ६ | ४ | १५४ ) इति तृशब्दस्य लोपे वाहिष्ठमिति रूपम्, वोड्द्धृतमम् । साम अग्नये अग्न्यर्थमर्च गाय, अग्न्यर्थं बृहत्सामगानं कुरु । वाह्यति प्रापयत्य-मिति वा । श्व, बृहत्सामगानेन अग्नि प्रत्यक्षीकृत्य ब्रूहि । हे विभावसो, विभा कान्तिरेव वसु यथा धनं यस्यासौ विभावसुस्तत्सम्बुद्धौ, हे अग्ने, महिषीव त्वद्रयिः, महिषी प्रथमपरिणीता धर्मार्थकामात्मिका, सा उदीर्त उत्तिष्ठते सुखात्मिका भवति, एवं त्वद्रयिः सुखात्मिका उदीर्ते उत्तिष्ठते, वाजाश्च उदीरते उत्तिष्ठन्ते । अथवा महिषी यथा सर्वान् भोगान् उदीर्ते उत्क्षिपति परोपकाराय, एवं त्वत्तो रयिरुदीर्ते त्वत्तश्च वाजा अन्नानि अदभ्यस्तात् ' ( ( पा ० उदीरते उद्गच्छन्ति परोपकाराय । ' ईर गतौ कम्पने च ' लट्, आदादित्वात् शपो लुक्, ' सू ० ७ ११४ ) इति झस्य अदादेशः । यद्वा रयिर्धनम्, वाजा अन्नानि त्वत्तः सकाशादुदीरते उद्गच्छन्ति भक्तेभ्यो हिताय । यथा प्रथमपरिणीता पत्नी भोगार्थं पतिमुदीर्ते उद्गच्छति, तद्वत् । अस्मिन् पक्षे एकं त्वपदं पादपूरणार्थम् । अध्यात्मपक्षे हे उद्गात:, अग्नये सर्वपापदाहकाय स्वरूपप्रकाशकाय परमात्मने वाहिष्ठं वोड्द्धृतमं बृहत्साम अर्च गाय । एवमुद्गातारमुक्त्वा अग्निमाह - हे विभावसो, विभा प्रज्ञानं धनं यस्य तत्सम्बुद्धौ प्रज्ञानं धनं त्वत् त्वत्तो रथिर्ज्ञानवैराग्यादिधनं उदीर्ते, त्वत् त्वत्तश्च वाजा अन्नानि स्वरूप सुखभोगा वा उदीरते भक्तानां हितायोद्गच्छन्ति । कथमिव? महिषीव प्रथमपरिणीता पत्नीव । सा यथौत्सुक्येन पतिं प्रति उदीर्ते उद्गच्छति, तद्वत् । -- .. दयानन्दस्तु -- ' हे विभावसो, अग्नये यद् बृहद् वाहिष्ठमस्ति तदर्च, तद्वयमप्यर्चेम | महिषीव त्वद्रयिस्त्व-द्वाजाश्चोदीरते तं वयं सत्कुर्याम ' इति, तदपि यत्किञ्चित् दृष्टान्तासिद्धेः । नहि राज्ञ्याः समेषां सुखप्रापकत्वं धनप्रदत्वं वा प्रसिद्धम् राज्ञा समानयोगक्षेमत्वात् । किं तद्वाहिष्ठं बृहद्यदग्नयेऽर्चनीयमित्यस्यास्पष्टत्वात् । सत्कार-करणस्य चर्चापि मन्त्रे नास्तीति वृथैव तदुपढौकनम् ॥ १२ ॥
एह्य
वा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिर॑ः । एभिर्व॑धा॑स॒ इन्दुभिः ॥ १३ ॥
मन्त्रार्थ — हे अग्निदेव, 3 आप भली प्रकार यहाँ आइये । मैं अपनी वाणी से भली प्रकार से आपकी स्तुति करता हैं । इस सोम रस का पान कर आप वृद्धि को प्राप्त कीजिये ॥ १३ ॥
आग्नेयी गायत्री भरद्वाजदृष्टा । हे अग्ने, त्वमेहि आगच्छ । उः पादपूरणः । ' इकः सुत्रि ' ( पा ० सू ० ६।३।१३४ ) इति संहितायां दीर्घः । हे भगवन्नग्ने, इत्था इत्थमनेन प्रकारेण त्वदीयैर्नामिबन्धकर्मरूपैर्ग्रथिता इतराः स्तुतिलक्षणा गिरस्ते तव सुत्रवाणि साधु ब्रवाणि । यद्वा - इत्थमुद्गातृस्तोत्रजनिता इतरा गिरो या गीयन्ते तास्तु सुत्रवाणीति सुतरां वदानि । किञ्च एभिरिन्दुभिरध्वर्युणाऽभिषुतैः सोमैस्त्वं वर्धासे वर्धस्व । अध्यात्मपक्षे - हे अग्ने भगवन्, एहि आगच्छ । आगमने हेतुमाह - इत्था इत्थं त्वदीयगुणकर्मनामोपबृंहिता इतरा असाधारणीः स्तुतिलक्षणा गिरः सुब्रवाणि साधु ब्रवाणि, तादृशीभिर्गीभिरध्वर्युणाऽभिषुतैरिन्दुभिः सोमैश्च त्वं वर्धा वर्धस्व । दयानन्दस्तु – ' हे अग्ने, अहमित्था त इतरा गिरः सुत्रवाणि यतस्त्वमेता एहि । उ एभिरिन्दुभिर्वर्धासे ' इति, तदपि यत्किञ्चित्, मुख्याग्निपदार्थत्यागस्य निर्मूलत्वात् । नहि प्रकाशितप्रज्ञस्य अज्ञाता वाचः सम्भवन्ति, न वा तस्योपदेशो युक्तः, प्रकाशितप्रज्ञस्य कृते तन्नैरर्थक्यात् ॥ १३ ॥
पृष्ठ 229
पाठ पढ़ें पाठ छिपाएँ
१ ९ ६ शुक्लयजुर्वेदसंहिता [ अ ० २६
ऋ॒तव॑स्ते य॒ज्ञं वित॑न्वन्त॒ मासा॑ र॒क्षन्तु॑ ते॒ हव॑ः ।
संवत्स॒रस्ते॑ य॒ज्ञं द॑धातु नः प्र॒जां च॒ परि॑पातु नः ॥ १४ ॥
मन्त्रार्थ - हे अग्निदेव, सब ऋतुएँ आपके इस यज्ञ को विस्तीर्ण करें, सभी महीने आपके पुरोडाश आदि की रक्षा करें । संवत्सर की अधिष्ठात्री देवताएँ आपके और हमारे लिये यज्ञ को पुष्ट करें एवं हमारी सन्तति की रक्षा करें ॥ १४ ॥
अग्निदेवत्या बृहती एकवर्णाधिकपादा, ' नवकाष्टकादशाष्टिनो विषमपदा चतुर्नवका बृहत्येव ' इति भगवत्कात्यायनवचनात् । हे अग्ने, ऋतव ऋतुपलक्षिताः कालविशेषाः, ते तव यज्ञं वितन्वन्तु विस्तारयन्तु । मासाश्चैत्राद्यधिष्ठातारः, ते तव हविश्वरुपुरोडाशादिकं रक्षन्तु । संवत्सरः संवत्सराधिष्ठाता देवः, ते तुभ्यं त्वदर्थं नोऽस्माकं यज्ञं दधातु पुष्णातु । स एव संवत्सरो नोऽस्माकं प्रजां च पुत्रादिलक्षणां परिपातु । अध्यात्मपक्षे - हे अग्ने, ऋतव ऋतुदेवतास्ते तव यज्ञं त्वत्कर्मकं यजनं वितन्वन्तु । मासाश्चैत्रादयो विस्तव रक्षन्तु । संवत्सरात्मा हिरण्यगर्भस्ते तव यज्ञं दधातु पुष्णातु प्रजां च परिपातु । दयानन्दस्तु -- ' हे विद्वंस्ते यज्ञमृतवो वितन्वन्तु । ते हविर्मासा रक्षन्तु । यज्ञं ते संवत्सरो दधातु, प्रजां च परिपातु ' इति, तदपि यत्किञ्चित् ऋतुनां मासानां संवत्सरस्य च कथं व्यवहारः? यज्ञस्य च कथं विस्तारः? कथं वा हविषो वर्धनम्? पोषणं च कथमित्याद्यनुक्तेः । कालादीनां कार्यमात्रं प्रति साधारणकारणत्वेन एषोक्तिश्चेत्, तथा सति प्रार्थनानुपपत्तिः ॥ १४ ॥
उपह्वरे गिरीणां सङ्गमे च॑ न॒दीना॑म् । धि॒या विप्र अजायत ॥ १५ ॥
मन्त्रार्थ -- पर्वतों के निकट, अर्थात् ऋषीकेश आदि पवित्र स्थानों के सागर आदि पवित्र स्थानों में अपने अपने साधन और बुद्धि के प्रभाव के जाता है ॥ १५ ॥
समीप और नदियों के संगम, अर्थात् गंगा-अनुसार विप्रत्व अथवा ब्रह्मत्व प्राप्त किया सोमदेवत्या गायत्री वत्सदृष्टा । गिरीणां पर्वतानामुपह्वरे निकटे, नदीनां गङ्गादीनां च सङ्गमे, विप्रो मेधावी सोमः, अजायत उत्पन्नः । केन प्रकारेण अजायत? तत्राह - धिया, विप्रादयो मया यज्ञं करिष्यन्तीति मया क्रियन्तामित्यनया धिया विप्रो मेधावी सोमो जगद् बुद्धया, विचार्येति शेषः । अथवा एकाहाहीनसत्राणि धारयितुमिच्छन् अजायतेति । सोमचन्द्रोऽपि तद्रूप एवेति तस्य विप्रत्वम्, ' सोमोऽस्माकं ब्राह्मणाना, राजा ' ( वा ० सं ० १०।१८ ) इति मन्त्रवर्णात् । लतारूपस्य सोमस्यापि तदधिष्ठातुश्चन्द्रमसचेतनत्वेन विप्रत्वं मेधायित्वं वा, जडमात्रे तदसम्भवात् । अध्यात्मपक्षे – गिरीणामुपह्वरे नदीनां च सङ्गमे धिया ब्रह्मानुसन्दधानो विप्रो मेधावी ब्रह्मसाक्षा-त्कारवान् जायते । दयानन्दस्तु – ' यो मनुष्यो गिरीणामुपह्वरे नदीनां च सङ्गमे योगेनेश्वरं विचारेण विद्यां चोपासीत, स धिया विप्रोऽजायत ' इति, तदपि यत्किञ्चित्, तथाध्याहारस्य निर्मूलत्वात् ॥ १५ ॥
उ॒च्चा ते॑ जा॒तमन्ध॑सो दि॒विसद् भूम्याद॑दे । उग्रधुं शर्म॑ महि॒ श्रवः॑ः ॥ १६ ॥
पृष्ठ 230
पाठ पढ़ें पाठ छिपाएँ
म ० १६-१७ ] वेदार्थं पारिजातभाष्यसहिता १ ९ ७ मन्त्रार्थ हे सोम, तुम्हारे रसरूप अन्न से वेदी रूप उच्च भूमि के द्वारा उत्पन्न हुए स्वर्ग में विद्यमान उत्तम सुख और महान् कीर्तिरूपी धन को मैं ग्रहण करता ॥ १६ ॥
सोमदेवत्यास्तिस्रो गायत्र्य आमहीयवदृष्टाः । हे सोम, ते तव अन्धसोऽन्नाद् रसरूपाज्जातमुत्पन्नं यज्ञपरिणामभूतमदृष्टमपूर्वं वा उच्चा उच्चैदिविसद् द्युलोके देवादिदेहरूपेण विद्यमानं भूम्या भूमिः, विभक्ते-राकारादेशः, छान्दसो वा विसर्ग लोपः, ततः सन्धिः, आददे गृहीतवती । किं तद् यद् द्युलोकं प्राप्तं भूमिराददे, तदाह - उग्रम् उद्गूणं महाचौरादिभिरप्यनाधृष्यम्, अदृष्टत्वादेव शर्म शरणं गृहं पुण्यादिरूपमदृष्टमेव प्राणिनां शरणम्, महिश्रवो महच्च श्रवणीयं च तद् धनम्, शास्त्रसंस्तुतत्वात् । पञ्चाहुतिपरिणामोद्घाटनमेतत् । यथा ss हुतिः प्रथमं दिवि गच्छति, ततोऽन्तरिक्षे जलरूपेण, ततो भूमावन्नरूपेण, ततो नरे रेतोरूपेण, ततो भार्याया योनौ पुरुषरूपेण | ' पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' ( छा ० ५ | ३ | ३ ) इति छान्दोग्यश्रुतिः । अध्यात्मपक्षे - अयमेवार्थः । दयानन्दस्तु - ' हे विद्वन्नहं ते यदुच्चान्धसो जातं दिविसदुग्रं महिश्रवः शर्माददे, तद् भूमीव भवतु ' इति, तदपि यत्किञ्चित्, अन्धसो जातस्य गृहस्याप्रसिद्धत्वात् । ' दिवि प्रकाशे वर्तमानम् ' इत्यपि यत्किचित् दिवसे
सामान्यगृहस्यापि विद्यमानत्वात् । महत्त्वं प्रशस्तत्वं च प्रशस्तितुल्यमेव ॥ १६ ॥
स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय॒ म॒रुद्भः । वरिवोवित् परिस्रव ॥ १७ ॥
मन्त्रार्थ - हे सोम, आप कीर्तिरूप धन के दाता अथवा प्राप्त कराने वाले हैं । आप यजनयोग्य इन्द्र के निमित्त, वरुण के निमित्त और मरुद्गणों की तृप्ति लिये रस रूप होकर आहुति भाव को प्राप्त कीजिये ॥ १७ ॥
हे सोम, यस्त्वं वरिवोविद् वरिवो धनं विन्दति वेत्ति वेति वरिवोदाः, ' वरिव इति धननामसु ' ( निघ ० २1१०।५ ), धनस्य लब्धा वेदिता वा स नः सोऽस्माकम् यज्ञमिति शेषः । यज्यवे यष्टुं योग्यो यज्युः, ' यजिमनि-शुन्धिदसिजनिभ्यो युच् ' ( उ ० ३।२० ) इति रूपसिद्धिः, तस्मै इन्द्राय देवराजाय वरुणाय जलाधिराजाय मरुद्र्यचार्थाय परिस्रव रक्ष । यद्वा विभक्तिव्यत्ययेन वरिवोविदिति इन्द्रादीनां विशेषणम् । वरिवोविद इन्द्राय वरिवोविदे वरुणाय वरिवोविद्भूयो मरुद्भूयो यज्ञं परिस्रव रक्ष । क्रियाविशेषणं वा एतेभ्यो देवेभ्यो यथा वरिवोविद्भवति तथा परिस्रवेति । यद्वा हे सोम, स त्वं नोऽस्माकं परिस्रव परितः क्षर । रसरूपो भूत्वाऽऽ-हुतित्वमेहि । किमर्थमिति चेत्, इन्द्राय वरुणाय मरुद्रयश्च । कीदृशाय? यज्यवे, यष्टुं योग्याय इन्द्राय यज्यवे वरुणाय यज्युभ्यो मरुद्भयश्चेति त्रयाणां विशेषणम् । कीदृशस्त्वम्? वरिवोवित्, धनस्य ज्ञाता प्रापकश्चेति । अध्यात्मपक्षे - हे सोम, उमया सहित शिव! श्रेयः स्रुतिस्वरूप! त्वं यष्टुं योग्येभ्य इन्द्रादिभ्यस्तदभीष्टं रसं परिस्रव क्षर । कीदृशस्त्वम्? वारिवोवित्, लौकिकं मणिरत्नसुवर्णादिकमलौकिकं धर्मब्रह्मज्ञानवैराग्यादिकं धनं वेत्सि जानासि विन्दसि प्राप्नोसि च । दयानन्दस्तु - ' हे विद्वन्, मरुद्भयो न इन्द्राय यज्यवे वरुणाय वरिवोवित् संस्त्वं परिस्रव ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात् मरुदिन्द्रादिपदानां मनुष्याद्यर्थकत्वस्य च निर्मूलत्वात् इन्द्रपदस्य ऐश्वर्यवदर्थकत्वेऽप्यैश्वर्यार्थकत्वायोगात् । तथैव यज्युपदस्याप्यर्थश्चिन्त्यः ॥ १७ ॥