वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 231–240
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 231–240
पृष्ठ 231
पाठ पढ़ें पाठ छिपाएँ
१ ९ ८ शुक्लयजुर्वेदसंहिता [ अ ० २६
ए॒ना विश्वा॑न्य॒र्य आच॒म्नानि॒ मानु॑षाणाम् । सिषा॑सन्तो वनामहे ॥ १८ ॥
मन्त्रार्थ - हे देवेश स्वामिन्, आप सभी मनुष्यों को धन और यश का भागी बनाइये । दान करने वाले हम यजमान सोम के दिये हुए धन - धान्य आदि का सम्यक् अभोग करें ॥ १८ ॥
अर्यः स्वामी, ईश्वरः सोमः, एना एनानि, विश्वानि सर्वाणि, मानुषाणां मनुष्याणां द्युम्नानि धनानि यशांसि वा आ आदाय अस्मभ्यं ददात्विति शेषः । तानि च सोमदत्तानि द्युम्नानि सिषासन्तः सनितुं दातुमिच्छन्तः, सनेः सन्नन्तात् शता, ' जनसनखनां सञ्झलो: ' ( पा ० सू ० ६ | ४ | ४२ ) इत्यात्वम्, ' सन्यतः ' ( पा ० सू ० ७।४।७ ९ ) इत्यभ्यासस्येकारः, वनामहे वयं द्युम्नानि सम्भुज्महे सम्भजामहे वा, दानं कुर्वाणा धनभाजः स्यामेत्यर्थः । अध्यात्मपक्षे - अयमीश्वरः, एना एनानि मानुषाणां विश्वानि सर्वाणि घुम्नानि धनानि आदाय अस्मभ्यं प्रयच्छतु । तानि च सिषासन्तो दातुमिच्छन्तो दानायाभिमुखीभूता वयं यज्ञदानादिभिर्वनाम भजामहे, परमेश्वरमिति शेषः । ---दयानन्दस्तु – ' यो यो मानुषाणामेना विश्वानि द्युम्नानि प्रदीप्तानि यशांसि शास्ति, तं सिवासन्तः सेवितुमिच्छन्तः, वयं सुखान्यावनामहे ' इति, तदपि यत्किञ्चित् निर्मूलाध्याहारमूलत्वात् । ' शास्ति सुखानि इत पदे भूले न स्तः । अन्यथा मानुषाणामार्यब्रुवाणां द्युम्नान्यादायास्मभ्यं प्रयच्छत्वित्यपि किं न स्यात् ॥ १८ ॥
अनु॑ वोरैरनु॑ पु॒ष्पास्म॒ गोभि॒रन्वश्वे॒रनु॒ सर्वे॑ण॒ पुष्टैः । ह अनु॒ द्विष॒दान॒ चतु॑ष्पदा व॒यं दे॒वा नो॑ य॒ज्ञमृ॑त॒था न॑यन्तु ॥ १ ९ ॥ मन्त्रार्थ - हम वीर पुत्रों से, गायों से, अश्वों से, सब कामनाओं से, गृह आदि से, दास आदि से और चौपायों से सब प्रकार से पुष्ट हों । हर समय देवता हमारे यज्ञ को सम्पन्न कराने के लिये तत्पर हों ॥। १ ९ ॥ आशीरियं देवदेवत्या त्रिष्टुप् मुद्गलदृष्टा । वयं वीरैः पुत्रैः, अनु पुष्यास्म पुष्टा भूयास्म । पुषेराशी -लिङि उत्तमबहुवचने रूपम् । गोभिर्धेनुभिरनु पुष्यास्म, अश्वैरनु पुष्यास्म, सर्वेणान्येनापि कामेन अनु पुष्यास्म उपसर्गावृत्त्या क्रियावृत्तिः । पुष्टैः सर्वैः पदार्थैर्गृहादिभिः पुष्यास्म । यद्वा अनु सर्वेण पुष्टैः, अत्र वचनव्यत्ययः, सर्वैः पुष्टैर्गृहादिभिरनु पुष्यास्म, पुष्टा भूयास्मेत्यर्थः । द्विपदा द्वौ पादौ यस्य स द्विपात्, ' संख्यासुपूर्वस्य ' ( पा ० सू ० ५ | ४ | १४० ) इत्यकारलोपः । तेन द्विपदा ' पाद: पत् ' ( पा ० सू ० ६ | ४ | १३० ) इति पदादेशे रूपम् । मनुष्येण दासादिना चतुष्पदा गजाश्वादिना चानु पुष्यास्म । किञ्च, देवा नोऽस्माकं यज्ञम् ऋतुथा ऋतौ ऋतौ क काले नयन्तु प्रापयन्तु प्राप्नुवन्तु । अध्यात्मपक्षे हे परमेश्वर, भवत्कृपया वयं वीरैर्धर्मनिष्ठैर्भगवद्भक्तैः पुत्रैस्त्वत्सेवोपयोगिभिर्गोभिरश्वैः सर्वैः पुष्टैरनु पुष्यास्म पुष्टा भूयास्म । नोऽस्माकं यज्ञमर्चनं ऋतुथा काले काले देवा नयन्तु प्रापयन्तु, भगवदु-पासने देवानामनुग्रहस्योपकारकत्वात् । दयानन्दस्तु -- ' हे विद्वांसः, यथा वयं पुष्टैर्वीरैरनु पुष्यास्म, पुष्टैर्गोभिरनु पुष्यास्म, पुष्टैरश्वैरनु पुष्यास्म, सर्वेणानु पुष्यास्म, द्विपदानु पुष्यास्म, चतुष्पदाज्नु पुष्यास्म, तथा देवा नो यज्ञमृतुथा नयन्तु ' इति, तदपि यत्किञ्चित्, असामञ्जस्यात् । तथाहि अत्र यज्ञपदेन धर्म्यव्यवहारो गृहीतः । तस्य विद्वत्कर्तृकं कथं नयनम्? धर्म्यस्य अधर्म्यस्य वा व्यवहारस्य व्यवहर्तृसाध्यत्वेन तत्र देवानपेक्षणात् । ज्ञाने विदुषामपेक्षणेऽपि व्यवहारे तेषामन्यथासिद्धत्वात् ॥ १ ९ ॥
पृष्ठ 232
पाठ पढ़ें पाठ छिपाएँ
म ० २०-२२ ] वेदार्थपारिजातभाष्यसहितां
अग्ने॒ पत्नी॑रि॒हाव॑ह दे॒वाना॑मुश॒तीरुप॑ । त्वष्टा॑र॒ सोमपीतये ॥ २० ॥
-१ ९९ मन्त्रार्थ - हे अग्निदेव, आप देवताओं की हवि की इच्छा रखने वाली पत्नियों को और त्वष्टा देवता को सोमपान के निमित्त हमारे इस यज्ञ में बुलाइये ॥ २० ॥
अग्निदेवत्या गायत्री मेधातिथिदृष्टा । इत उत्तरं पश्च याज्या अग्निष्टोमे नेष्टुः । तत्र आद्या प्रातः सवने नेष्टृचमसयागे प्रयुज्यते । हे अग्ने, देवानां पत्नीः, इह यागे त्वमुपावह आगमय । कथम्भूतास्ताः? उशतीर्हविः कामयमानाः, वशेः शत्रन्तात् ' उगितश्च ' ( पा ० सू ० ४। १ ६ ) इति ङीप् । त्वष्टारं देवं च उपाव | किमर्थम्? सोमपीतये, पीतिः पानम्, सोमस्य पीतिः सोमपीतिस्तस्यै सोमस्य पानाय । अध्यात्मपक्षे हे अग्ने, कृष्ण परमेश्वर! देवानामिन्द्रादीनां पत्नी: शक्तिरूपा उपावह स्वसमीप -मानय । कीदृशीस्ताः? उशती: परमेश्वरप्रीति कामयमानाः । त्वष्टारं देवं च उपावह । किमर्थम्? सोमपीतये सोमस्य त्वदीयस्वरूपसौन्दर्यमाधुर्यामृतस्य वा पीतये पानाय । देवा इन्द्रियाधिष्ठातारः, तत्पत्न्यश्चेन्द्रिय शक्तयः । त्वष्टारं दयानन्दस्तु – ' हे अग्ने, त्वमिह स्वसदृशान् पतीनुशतीः कामयमाना देवानां पत्नीः सोमपीतये -देदीप्यमानमुपावह ' इति, तदपि यत्किञ्चित् पत्नीनां पत्यन्तरकामनाया धर्मविरुद्धत्वात् त्वष्टृपदस्य देदीप्य मानपतिबोधकत्वे बहुवचनस्य प्रयोक्तव्यत्वात्, पत्नीपदस्थाने कन्यापदस्य प्रयोक्तव्यत्वापाताच्च ॥ २० ॥
अ॒भि य॒ज्ञं गृ॑णीहि नो ग्नावो॒ नेष्टः पिब॑ ऋतु । त्व हि र॑त्न॒धा असं ॥ २१ ॥
: मन्त्रार्थ -- हे पत्नीयुक्त नेष्टा नामक अग्निदेव, आप हमारे यज्ञ की सराहना कीजिये, ऋतु देवता के साथ सोमपान कीजिये, क्योंकि आप रमणीय धन को धारण करने वाले हैं ॥ २१ ॥
ऋतुदेवत्ये गायत्र्या मेधातिथिदृ । ऋतुयागे नेष्टुर्याज्ये । नेष्टा स्वकीयामधिष्ठात्री देवतां ब्रवीति । नाव:, गमयन्ति प्रापयन्ति धर्मं पतिमिति ग्नाः पत्न्यः । गमिधातोरौणादिको नप्रत्ययः, टिलोपः । ग्नाः सन्ति यस्यासौ ग्नावान्, तत्सम्बुद्धौ हे ग्नाव:, ' मतुवसो रु सम्बुद्धौ छन्दसि ' ( पा ० सू ० ८ | ३ | १ ) इत्यलोऽन्त्य-परिभाषामहिम्ना नकारस्य रुः, तस्य च विसर्गः । हे नेष्टः, नोऽस्माकं यज्ञमभिगृणीहि स्तुहि । ' गृ शब्दे ) ' क्रयादित्वात् श्ना, ' ई हल्यघो: ' ( पा ० सू ० ६ । ४ । ११३ ) इत्याकारस्येकारः, ' प्वादीनां ह्रस्वः ' ( पा ० सू ० ७।३।८० रत्नानि इति ह्रस्वः, गृणीहीति रूपम् । ऋतुना देवेन सह पिब, सोममिति शेषः । हि यस्मात् त्वं रत्नधा असि दधाति धारयति यजमानायेति रत्नधा, रमणीयधनानां दातेति यावत् । अध्यात्मपक्षे - हे ग्नावः, पत्नीवन् पत्नीवन्तो देवाः, व्यत्ययेनैकवचनम्, यज्ञं परमेश्वरं भगवन्तं श्रीकृष्णमभिगृणीहि अभिगृणीत, आभिमुख्येन स्तुतिं कुरुतेत्यर्थः । दयानन्दस्तु -- ' हे ग्नावः, नेष्टुः स्वमृतुना सह नो यज्ञमभिगृणीहि । यतस्त्वं हि रत्नधा असि, तस्मात् सदोऽवधिरासीनः पिब ' इति, तदपि यत्किञ्चित्, असम्बद्धत्वात्, ऋत्विग्विशेषे प्रसिद्धस्य नेष्टृशब्दस्य नायकार्थत्वा-योगात् । नहि शिष्या उत्तमस्यापि स्वव्यवहारस्यैव प्रशंसाकरणार्थं प्रेरयन्ति । यः स्तोता स एवोत्तम रत्नधारक इत्यप्यसङ्गतम्, निर्धनानामपि स्तोतृत्वदर्शनात् ॥ २१ ॥
द्रविणोदाः पि॑पोषति जु॒होत॒ प्रच॑ तिष्ठत । नेष्ट्रादृतुर्भिरिष्यत ॥ २२ ॥
पृष्ठ 233
पाठ पढ़ें पाठ छिपाएँ
२०० शुक्लयजुर्वेदसंहिता [ अ ० २६ मन्त्रार्थ - धन के दाता अग्निदेव सोमपान करना चाहते हैं । हम उनकी प्रीति के लिये आहुति देते हैं, अनुष्ठान करते हैं । हे अग्निदेव, आप नेष्टा के धिष्ण्य स्थान से ऋतु देवताओं के साथ सोमपान के लिये जाइये ॥ २२ ॥
ऋत्विजः, अथमग्निर्द्रविणोदाः, द्रविणो धनं बलं वा ददातीति द्रविणोदाः, द्रविणसशब्दो धनस्य बलस्य च वाचकः । पिपीषति पातुमिच्छति, सोममिति शेषः । ' पी पाने ' दिवादिः । अतो ब्रवीमि हे ऋत्विजः यूयं जुहोत जुहुत । प्रच तिष्ठत कर्मसूद्युक्ता भवतेत्यर्थः । अध्यात्मपक्षे - अयं परमेश्वरो द्रविणोदाः, द्रविणसो धनस्य भौतिकस्य आध्यात्मिकस्य च दाता । पिपीषति प्रेमामृतं पेतुमिच्छति, नान्यत् पूर्णकामत्वात् । अतः प्रेम्णा जुहोत स्वसर्वस्वं निवेदयत । प्रतिष्ठ तदुपासनासु स्थिरा भवत । ऋतुभिर्देवैः सह नेष्ट्राद् नेष्टुरधिष्ठानं नेष्ट्रम, वृद्धयभाव आर्षः, तस्मान्नेष्टुधिष्ण्याद् ऋतुभिर्देवैः सह नेष्टृ पलक्षितानां युष्माकं धिष्ण्येभ्यः स्वस्थानेभ्यस्तं प्रति इष्यत आश्रयत्वेन निश्चिनुत । दयानन्दस्तु – ' हे मनुष्याः, यथा द्रविणोदा ऋतुभिः सह नेष्ट्राद्विनयाद् रसं पिपीति तथा यूयं रसमिष्यत जुहोत प्रतिष्ठत च ' इति, तदपि यत्किञ्चित्, अध्याहारस्य निर्मूलत्वात् । नेष्ट्रशब्दस्य विनयार्थतापि चिन्त्यैव ॥ २२ ॥
तायतं॒ सोम॒ख्वमेह्यर्वाङ् श॑श्वत्त॒मधि॑ सु॒मना॑ अ॒स्य पा॑हि ।
अ॒स्मिन् य॒ज्ञे ब॒र्हिष्या नि॒षया॑ दधि॒ष्वेम॑ ज॒ठर॒ इन्द॑मिन्द्र ॥ २३ ॥
मन्त्रार्थ - हे इन्द्रदेव, यह सोम आपके लिये है, आप हमारे सम्मुख आइये । प्रसन्न मन से बहुत काल तक इस सोम की आप रक्षा कीजिये इस यज्ञ में स्थित होकर इस सोम को आप उदरस्थ कीजिये ॥ २३ ॥
इन्द्रदेवत्या त्रिष्टुप् विश्वामित्रदृष्टा, माध्यन्दिने सवने नेष्टृचमसयागे याज्या । हे इन्द्र, यतस्तवायं माध्यन्दिनीयः सोमोऽस्ति, अतोऽस्माभिः प्रार्थ्यमानोऽर्वाङ् अस्मदभिमुखः, त्वमेहि आगच्छ । एत्य च शश्वत्तमं शाश्वतिकं सर्वकालं सोमं सोमभागं गृहाण । संगृह्य च सुमनाः प्रसन्नचित्तो भूत्वा अस्य सोमस्य इमं सोमम्, कर्मणि षष्ठी, पाहि रक्ष । अस्मिन् यज्ञे बर्हिष्यास्तृतदर्भेषु निषद्यावस्थानं कृत्वा उपविश्य इमं पुरोवर्तिनम् इन्दुं सोमं जठरे उदरे दधिष्व धारयस्व । ' धि धारणे ' तौदादिकः, व्यत्ययेन शपः श्लुः, तङ्, अभ्यासे -कारस्याकारश्च । अध्यात्मपक्षे -- हे इन्द्र परमेश्वर, यतोऽयं सोमः सोमोपलक्षितो निवेदनीयः पदार्थोऽस्ति, अतोऽर्वाङ अस्मदभिमुखः, त्वमेहि आगच्छ । सुमनाः प्रसन्नमनाः शश्वत्तमस्य सोमस्य इमं सोमं रक्ष । अस्मिन् यज्ञे बर्हिष्यास्तीर्णेषु कुशेषु निषद्य अवस्थाय इममिन्दुं जठरे उदरे दधिष्व धारयस्व पिब खाद च । परमेश्वरस्य नित्यत्वात् तस्मै देयं भोग्यं सोमादिकमपि प्रवाहरूपेण नित्यमेव । दयानन्दस्तु — ' हे इन्द्र विद्वन्, यस्तवायं सोम ऐश्वर्ययोगोऽस्ति तत्त्वमेहि प्राप्नुहि । सुमना अर्वाङ् सन् अस्य शश्वत्तमं पाहि । अस्मिन् बर्हिषि उत्तमे साधुनि यज्ञे सङ्गन्तव्ये निषद्य जठरे इममिन्दुं चादधिष्व ' इति, तदपि यत्किञ्चित् इन्द्रपदेन गौणार्थग्रहणे बीजाभावात् । सोमपदस्य ऐश्वर्यार्थतापि प्रसिद्धिविरुद्धैव । तस्य च नित्यत्वे प्राप्त्यभिधानं निरर्थकं स्यात् । न च शश्वत्तममिति शब्देन धर्मो गृह्यते, विशेष्यानिर्देशेन विनिगमनाविरहात् ॥ २३ ॥
पृष्ठ 234
पाठ पढ़ें पाठ छिपाएँ
म ० २४-२५ ] वेदार्थ पारिजातं भाष्यसहिता
अ॒मेव॑ नः सु॒हवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टा॒न ।
अर्था मदस्व जुजुषाणो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सुमद्र्गणः ॥ २४ ॥
२०१ मन्त्रार्थ हे देवपत्नियों, आप अपने घर के समान समझ कर हमारे इस यज्ञ में अवश्य आइये । कुशा के आसन पर बैठकर परस्पर वार्तालाप करते हुए प्रसन्नता पूर्वक यहाँ बैठिये । हे त्वष्टादेव, देवपत्नियों के आने पर, हविरूप अन्त का सेवन करने वाले देवता और देवपत्नियों के तृप्त होने पर, आप भी उनके साथ तृप्तिलाभ कीजिये ॥ २४ ॥
त्वष्टृदेवत्या जगती गृत्समददृष्टा, तृतीयसवने नेष्टृचमसयागे याज्या | देवपत्न्यः प्रार्थ्यन्ते । अमाशब्दो गृहवचन: ( निघ ० ३ | ४ | ११ ) । हे देवपत्न्यः, नोऽस्माकं यज्ञगृहाणि अमेव स्वगृहमिव यूयमागन्तन आगच्छत । गमेर्लोटि मध्यम बहुवचने शपो लुकि रूपम् । हिः पादपूरणः । आगत्य च बर्हिषि दर्भे निषदतन निषीदत उपविशत । निषद्य च रणिष्टन रतिं प्रीति कुरुत । अथवा ' रण शब्दे ' लुङि रूपम्, अडागमाभावः, परस्परं वार्तां कुरुत । ' तप्तनप्तनथनाश्च ' ( पा ० सू ० ७ १ ४५ ) इति सर्वत्र तनबादेशः । कीदृश्यो देवपत्न्यः? सुहवाः, सुष्ठु शोभनो व आह्वानं यासां ताः । अथोपविष्टासु देवपत्नीषु त्वष्टारमाह - हे त्वष्टः, अन्धसः सोमस्य स्वमंशं जुजुषाणः सेवमानः, ' जुषी प्रीतिसेवनयोः ' व्यत्ययेन शानचि शपः श्लुः । कथम्भूतस्त्वम्? देवेभिर्देवैर्जनिभिर्जननहेतु-भूताभिर्देवपत्नीभिः सुमद्गणः, सुष्ठु माद्यन्ति हृष्यन्तीति सुमदः । मदेः क्विप् । सुमदः परमसन्तुष्टा देवगणाः स्त्रीगणाश्च यस्य स सुमद्गणः । अध्यात्मपक्षे - हे देवपत्न्यः, सुहवाः शोभनाह्वाः, अमेव स्वगृहवत्, नोऽस्माकं यज्ञगृहाणि आगन्तन आगच्छत । बर्हिषि निषदतन निषीदत । रणिष्टन प्रीतिं कुरुत । एवं देवैः सह देवपत्न्यो यज्ञे उपासनारूपे परमेश्वरस्य सौन्दर्यामृतास्वादनाय आगच्छन्ति । त्वष्टा विश्वनिर्माता परमेश्वरस्तमाह - अथागतासु सपतिका देवपत्नीष्वन्धसः, अन्धः सोमलक्षणमन्नं जुजुषाणो मदस्व तृप्यस्व । कीदृशस्त्वम्? देवैस्तदीयाभिर्जनिभिश्च सुमद्गणः सुप्रसन्नगणो देवानां जनीनां च यस्य सः । भक्तानां प्रसादे भगवानपि प्रसीदति । यथा भक्ता भगवन्तं दृष्ट्वा तदीयसौन्दर्यामृतपाने माद्यन्ति तथैव भगवानपि भक्तानां प्रेमामृतमास्वाद्य माद्यतीति ॥ २४ ॥
स्वादि॑ष्ठया॒ मदि॑ष्ठया॒ पव॑स्व सोम॒ धार॑या । इन्द्रा॑य॒ पात॑वे सु॒तः ॥ २५ ॥
1 ॥ मन्त्रार्थ - हे सोम, अत्यन्त स्वादिष्ट अति हर्ष को प्रदान करने वाली धारा के साथ तुम दशापवित्र से द्रोणकलश में आओ, क्योंकि तुम इन्द्र के पान के निमित्त अभिषुत हुए हो ॥ २५ ॥
सौम्य पावमान्यौ गायत्र्यो मधुच्छन्दोदृष्टेजपादिषु विनियुक्ते । उक्तं च- - ' ' रसीभूतो यदा सोमः पवित्रात् क्षरति ग्रहम् । ऋग्भिः स्वादिष्ठयाद्याभिः पवमानः स उच्यते ॥ ' इति । हे सोम, धारया कृत्वा पवस्व दशापवित्राद् द्रोणकलशं प्रति पवस्व गच्छ । कीदृश्या धारया? स्वादिष्ठया स्वादो विद्यते यस्यां सा स्वादवती, अत्यन्तं स्वादवती स्वादिष्ठा, तया । ' विन्मतोर्लुक् ' ( पा ० सू ० ५।३।६५ ) इति मतुपो लुक् । मदिष्ठया मदतीत मदयित्री, अतिशयेन मदयित्री मदिष्ठा, तया । ' तुरिष्ठेमेयस्सु ' ( पा ० सू ० ६ | ४ | १५४ ) इति तृचो लोपः । यत इन्द्राय तन्नामकाय देवाय पातवे पातुं त्वं सुतोऽभिषुतोऽस्यस्माभिरतो धारया पवस्व । अध्यात्मपक्षे - हे सोम, उमया सहित शिव, त्वं सोमरसो भूत्वा इन्द्राय परमैश्वर्यवते भगवते विष्णवे श्रीरामाय श्रीकृष्णाय च स्वादिष्ठया मदिष्ठया धारया पवस्व द्रोणकलशं प्रति गच्छ, यतस्त्वमिन्द्राय भगवते पातवे तस्य पानाय सुतोऽभिषुतोऽस्यस्माभिः । भक्ताः सर्वशेषिणे भगवते स्वात्मानमपि तदुपकरणं कुर्वन्ति, भगवद्भोग्यतां चोपगच्छन्ति । तेन उमया सहितः शिव एव सोमत्वमुपगम्य स्वादिष्ठया मदिष्ठया धारया
भगवन्तं तर्पयति । व्याख्यानं तु पूर्ववदेव ॥ २५ ॥
२६
पृष्ठ 235
पाठ पढ़ें पाठ छिपाएँ
२०२ शुक्लयजुर्वेद संहिता [ अ ० २६
रक्षोहा वि॒श्वच॑र्षणिर॒भि योनि॒मयो॑हते । द्रोणे॑ स॒धस्थ॒मास॑दत् ॥ २६ ॥
॥इति षविशोऽध्यायः ॥
मन्त्रार्थ - राक्षसों का नाश करने वाले सभी प्राणियों के शुभ - अशुभ कर्मों को देखने वाले अथवा समस्त ऋत्विक् और यजमानों से युक्त त्वष्टा देव के शस्त्र से संस्कृत द्रोणकलश में स्थित होकर हे सोमरस, तुम इस यज्ञ स्थान में सबके सम्मुख स्थित रहो ॥ २६ ॥
अयमेव सोमो रक्षोहा रक्षसामपहन्ता । विश्वचर्षणिविश्वं कृषतीति विश्वचर्षणिः, ' कृषेरादेश्च चः ', ( उ ० २ १०६ ) इत्यनिप्रत्यय:, धातोरादेश्चकारश्च । अथवा विश्वं सर्वं जगच्चष्टे पश्यतीति विश्वचर्षणिः बाहुलकादनिः, रमागमश्च । सर्वस्य जगतो द्रष्टा । यद्वा विश्वे सर्वे चर्षणयो मनुष्या ऋत्विग्यजमानलक्षणा स्थानं द्रोणे द्रोणम्, विभक्तिव्यत्ययः, द्रोणकलश रूपं कण्डनाहरणादिषु प्रवृत्ता यस्य सः । एतादृशः सोमो योनिं योनि-योनिं स्थानमभि आभिमुख्येन आसदत् सीदति । कीदृशे द्रोणे? अयोहते अयसा कृष्णलोहेन हते उत्कीर्णे, मित्यनेन सामानाधिकरण्यात् । अयसा कृत्वा वास्या तक्ष्णा सोमभाजनीकृतं द्रोणं तद्रूपं स्थानम्, तथा सधस्थं सह सार्धं तिष्ठन्ति सोमा यत्र स सधस्थः, ' सुपि स्थः ' ( पा ० सू ० ३ २ ४ ) इति कप्रत्ययः, ' आतो लोप सधादेशः इटि च । ' ( पा ० सू ० ६ | ४ | ६४ ) इत्याकार लोप:, ' सध मादस्थयोश्छन्दसि ' ( पा ० सू ० ६।३।२६ ) इति सहस्य असदत् ' छन्दसि लुङ्लङ्लट: ' ( पा ० सू ० ३ | ४ | ६ ) इति सदेर्लडर्थे लुङ् । ' गुषादिद्युताद्यदितः परस्मै -पदेषु ' ( पा ० सू ० ३ | १ | ५५ ) इति चलेरङि रूपम् । कि, नेष्ट्राद् नेष्टुरिदं नेष्ट्रम, वृद्ध्यभाव आर्षः, नेष्टुधिष्ण्याद् ऋतुभिर्देवैः सह इष्यते सोमं प्रति गच्छति । ' इष् गतौ ' दिवादित्वात् श्यन् । अन्तःसदसं प्राक् पदद्वयमवशेष्य पृष्ठयायां तथैव होतुः खरं करोति - ' वह्निरसि हव्यवाहनो रौद्रेणानीकेन पाहि माग्ने पिपृहि माग्ने गोपाय मा नमस्ते अस्तु मा मा हि ७ सीः ' इति । अयं होतृखरो होतृधिष्ण्यमुच्यते प्रचेता । अग्रेणाहवनीयं पर्याहृत्य होतृधिष्ण्याद् दक्षिणतोऽरत्निमात्रे मैत्रावरुणस्य खरं करोति - ' श्वात्रोऽसि रौद्रेणानीकेन पाहि माग्ने पिपूहि माग्ने गोपाय मा नमस्ते अस्तु मा मा हि सीः ' इति । अयं खरो मैत्रावरुणधिष्ण्यम् । तस्य धिष्ण्यस्योत्तरतोऽरत्निमात्रे ब्राह्मणाच्छंसिनः खरं करोति - ॐ तुथोऽसि विश्ववेदा रौद्रेणानीकेन पाहि माग्ने पिपृहि माग्ने गोपाय मा नमस्ते अस्तु मा मा हि सीः ' इति । अयं खरो ब्राह्मणाच्छंसि-धिष्ण्यम् । तस्योत्तरतोऽरत्निमात्रे पोतुः खरं करोति - ' उशिगसि कवी रौद्रेणानीकेन पाहि माग्ने पिहि माग्ने गोपाय मा नमस्ते अस्तु मा मा हिसी: ' इति । अयं खरः पोतृधिष्ण्यम् । तदुत्तरतोऽरनिमात्रे नेष्टुः खरं करोति – ' अङ्घारिरसि बम्भारी रौद्रेणानीकेन पाहि माग्ने पिपृहि माग्ने गोपाय मा नमस्ते अस्तु मा मा हि ७ सीः ' इति । अयं खरो नेष्टृधिष्ण्यमुच्यते । अध्यात्मपक्षे - स सोमः साम्बसदाशिवः, रक्षोहा रक्षसामपहन्ता विश्वचर्षणिः सर्वस्य द्रष्टा द्रोणमयोतं द्रोणकलशं सधस्थमभ्यासदत् । दयानन्दस्तु -- ' यो रक्षोहा विश्वचर्षणिविद्वानयोहतेऽयसा सुवर्णेन हते द्रोणे सधस्थं योनिमभ्यासदत्, स सर्व सुखमाप्नुयात् ' इति, तदप्यसङ्गतम्, द्रोणकलशा दिवैदिकवृत्तान्तानभिज्ञानात्, सोमप्रसङ्गमपहाय वि त्प्रसङ्गयोजने प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गाच्च । नहि विद्वानयोहते द्रोणे योनिमासीदति ॥ २६ ॥
॥ इति श्रीशुक्लयजुर्वेदमाध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां षड्वंशोऽध्यायः ॥
पृष्ठ 236
पाठ पढ़ें पाठ छिपाएँ
सप्तविंशोऽध्यायः
समा॑स्त्वाग्न ऋतवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा आभहि प्रदिशश्चत॑स्रः ॥ १ ॥
मन्त्रार्थ – हे अग्निदेव, महीने - महीने, ऋतु - ऋतु और प्रत्येक संवत्सर में ऋषिगण जिन सत्यरूप मन्त्रों से आपकी वृद्धि करते हैं, उनसे दिव्य कान्ति द्वारा आप प्रदीप्त हों । चारों दिशाओं और विदिशाओं को आप प्रकाशित करें ॥ १ ॥
अयमध्यायः पञ्चचितिकस्याग्नेः सम्बन्धी प्रजापतिदृष्टः । नव ऋचोऽग्निदेवत्यास्त्रिष्टुभोऽग्निना दृष्टाः । इष्टकाशी समिध्यमानसमिद्वत्योरन्तराले आसां विनियोगः । अग्निर्ऋषिः कर्माङ्गभूतर्माग्न स्तौति - हे अग्ने, । ऋतवो वसन्ताद्याः, संवत्सरास्तद-समा मासाः, नात्र समाशब्दः संवत्सरवचनः संवत्सरा इति पृथगुक्तेः धिष्ठातारो देवाः, ऋषयो मन्त्रद्रष्टारश्च । यानि सत्या सत्यानि, सत्यरूपा मन्त्रा इत्यर्थः, एते त्वां वर्धयन्तु । त्वमप्येतैर्वर्धमानः सन् दिव्येन दिवि भवो दिव्यस्तेन, ' घुप्रागपागुदक् प्रतीचो यत् ' ( पा ० सू ० ४।२।१०१ ) इति यत् । रोचनेन दीप्त्या सन्दीदिहि सन्दीप्यस्व । क्रीडाविजिगीषाद्यर्थकस्य दिवेर्व्यत्ययेन श्लौ ' तुजादीनां दीर्घोऽभ्यासस्य ' ( पा ० सू ० ६ | ११७ ) इति तुजादीनामाकृतिग गत्वादभ्यासदीर्घः । किव, विश्वाः सर्वाः प्रदिशो विदिशश्चतस्रो दिशा आभाहि प्रदीपय, अन्तर्भूतो ण्यर्थः, ' भा दीप्तौ ' । अध्यात्मपक्षे --- हे अग्ने परमात्मन्, एते मासास्त्वां वर्धयन्तु तव वर्धापनं कुर्वन्ति । तैरेवं वर्धापितस्त्वं दिव्येन लौकिकेनाद्भूतेन रोचनेन दीप्त्या सन्दीदिहि सन्दीप्यस्व । विश्वाः सर्वाः प्रदिशोऽवान्तरदिशश्चतस्रो दिशश्च आभाहि प्रदीप | माधुर्यभावेन वशिष्ठादय इव ब्रह्मादिदेवा अपि भगवन्तं रामचन्द्रं वर्धापयन्ति । तैर्धापितो भगवान् प्रदीप्यते, सर्वाः प्रदिशः, चतस्रः प्राच्यादिदिशश्च प्रदीपयति । दयानन्दस्तु - ' हे अग्ने, समा ऋतवः संवत्सरा ऋषयो यानि सत्यानि सन्ति ते त्वा वर्धयन्तु यथाग्नि-दिव्येन रोचनेन विश्वाश्चतस्रः प्रदिशः प्रकाशयति तथा विद्यां सन्दीदिहि, न्याय्यं धर्ममाभाहि ' इति, तदपि यत्किञ्चित्, निर्मूलाध्याहारमूलकत्वात् । नहि खलु ऋतवो जडाः सन्तः प्रार्थनाः श्रोतुं शक्नुवन्ति, कुतः पूरयितुम्? प्राकृतिक नियमबद्धत्वात् । न वा त्वद्रीत्या जडाः स्तोतुमर्हाः । सिद्धान्ते तु तत्तदवच्छिन्न चैतन्यात्मानो देवा माहाभाग्यात् शृण्वन्ति कर्तुं शक्नुवन्ति च । न च विद्यान्याय्यधर्मादिशब्दा मूले सन्ति, तस्माद् वेदबाह्यमेवैतत् सर्वमिति ॥ १ ॥
सं च॒द्धयस्वा॑ग्ने॒ प्रच॑ बोधय॑न॒मुच्च॑ तिष्ठ महते सौभगाय ।
मारिषदुपत्ता ते॑ अग्ने ब्रह्माण॑स्ते य॒शस॑ सन्तु मान्ये ॥ २ ॥
मन्त्रार्थ - हे अग्निदेव, आप प्रदीप्त होइये और इस यजमान को प्रबोधित कीजिये । महान् ऐश्वर्य के निमित्त तत्पर होइये । हे अग्निदेव, आपकी उपासना करने वाले भक्त का अनिष्ट न हो, ऋत्विकगण और यजमान यशस्वी हों । जिनको आपके प्रति भक्ति नहीं है, वे यशस्वी न हों ॥ २ ॥
पृष्ठ 237
पाठ पढ़ें पाठ छिपाएँ
२०४ शुक्लयजुर्वेदसंहिता [ अ ० २७ हे अग्ने, समिद्वयस्व दीप्यस्व | ' व्यवहिताश्च ' ( पा ० सू ० १२४।८२ ) इत्युपसर्गक्रिययोर्व्यवधानेन प्रयोगः । व्यत्ययेन च श्यन् । तथा च प्रबोधय एनं यजमानम्, यथाग्निचेतव्य इति यजमानमवगतार्थं कुरु, महते बृहते सौभगाय लोकोत्तरैश्वर्याय उत्तिष्ठ च तथाभूतमैश्वर्यं दातुमुद्यतो भवेत्यर्थः । हे अग्ने, ते तवोपसत्ता उपसीदतीत्युपसत्ता, ' ण्वुल्तृचौ ' ( पा ० सू ० ३ | १ | १३३ ) इति तृच् सेवको मा रिषद् मा नश्यतु च । स सीदति । हे अग्ने, ते तव ब्रह्माणस्तव सम्बन्धिन ऋत्विग्यजमाना यशसो यशस्विनः सन्तु । मत्वर्थीय -प्रत्ययलोपः । मा अन्ये, अन्येऽयज्वानो यशस्विनो मा सन्तु । अध्यात्मपक्षे - हे अग्ने परमेश्वर श्रीराम, समिद्धयस्व प्रतापतेजोभ्यां प्रज्वल, प्रबोधय चैनं यजमानं भजनपरायणम् । स्वभक्तस्य महते सौभगाय उत्तिष्ठ बद्धकक्षो भव, तीव्रतममुद्योगं कुर्विति यावत् । हे भगवन्, ते तवोपसत्ता उपसदनकर्ता त्वदाराधको मा रिषद् मा नश्यतु, ते तव सम्बन्धिनो ब्रह्माणो ब्राह्मणा यशस्विनः सन्तु । अन्ये तथा मा सन्तु । -दयानन्दस्तु – ' हे अग्ने, त्वं समिद्धयस्व एनं प्रबोधय च । महते सौभगाय चोत्तिष्ठ । उपसत्ता भवान् सौभगं मा रिषत् । हे अग्ने, ते ब्रह्माणोऽन्ये च मा सन्तु । ते यशस उन्नतिर्मा रिषत् ' इति, तदपि यत्किञ्चित्, विशृङ्खलान्वयात् । अध्याहारमन्तरापि ते तव उपसत्ता सेवको मारिषद् मा विनश्यत्वित्यन्वयोपपत्ती सौभग-मित्यध्याहारानौचित्यात् । नहि सेवातः समुपसत्ता भवति, उपसदनस्य सेवकधर्मत्वात् । ब्रह्माणोऽन्ये च मा सन्तु, ते यशस उन्नतिर्मारिषदित्यसङ्गतेः तथा प्राप्त्यभावेन निषेधायोगात् ॥ २ ॥
त्वम॑ग्ने॒ वृ॒णते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वरणे भवा नः ।
स॒पत्नहा म अभिमाति॒जच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन् ॥ ३ ॥
मन्त्रार्थ - हे अग्निदेव, ये ब्राह्मण आपकी उपासना करते हैं । ब्राह्मणों के द्वारा प्रार्थना किये जाने पर आप हमारा कल्याण कीजिये । हमारे शत्रुओं के नाशक, अभिमानियों को जीतने वाले आप हमारे गृह में प्रमादरहित होकर जागिये || ३ || हे अग्ने, इमे ब्राह्मणा ऋत्विजस्त्वां वृणते यागाय सम्भजन्ते । यत एवमतः प्रार्थयामहे । हे अग्ने, संवरणे ब्राह्मणैः सह एकस्मिन् वरणे जाते सति नोऽस्माकं कृते शिवः शान्तो भव । नोऽस्माकं सपत्नहा शत्रुहन्ता भव, अभिमातिजिच्च भव, जयतीति जित्, अभिमातीनां शत्रूणां जिदभिमातिजित् हतावशिष्टानां शत्रूणां जेता च भव । स्वे स्वकीये गये गृहेऽप्रयुच्छन् अप्रमाद्यन्, ' युछ् प्रमादे ', जागृहि सावधानो भव । अध्यात्मपक्षे - हे अग्ने भगवन्, इमे ब्राह्मणा ब्रह्मविदस्त्वां वृणते सम्भजन्ति समाश्रयन्ते । हे अग्ने, एवं संवरणे भक्तकर्तृकसमीचीनवरणे कृते सति शिवो मोक्षप्रदानेन तेषां सुखमयो भव । व्यवहारे च तेषां सपत्नानां हन्ता भव, हतावशिष्टानामभिमातीनां जेता भव । स्वे गये स्वीये भक्तानां गये भवनेऽप्रमाद्यन् जागृहि । कथञ्चिदपि यथा तेषां भक्तानां ब्राह्मणानां मनागपि हानिर्न स्यात्तथा सावधानो भवेति सदाऽवहितस्याप्यवधानं प्रार्थयन्ते भक्ताः । दयानन्दस्तु - ' हे अग्ने विद्वन्, य इमे ब्राह्मणास्त्वां वृणते, तान् प्रति स्वं च संवरणे शिवो भव । नोऽस्माकं सपत्नहा भव । हे अग्ने, अप्रयुच्छन्न भिमातिजिच्च त्वं स्वे गये जागृहि । नोऽस्मांश्व जागृतान् कुरु ' इति, तद यत्किञ्चित् मनुष्यमात्रस्य विदुषः प्रार्थितसम्पादने सामर्थ्याभावात् न चाविद्वानेवं विद्वांसं प्रति वक्तुमर्हति
पृष्ठ 238
पाठ पढ़ें पाठ छिपाएँ
म ० ३-५ ] वेदार्थपारिजातभाष्यसहिता २०५ प्रार्थनीयोपदेष्टव्ययोर्भेदात् । न चोभौ उपदेष्टव्या एवेति वाच्यम्, अस्माकं सपत्ना भवेत्युक्तेः । अभिमातिपदं च शत्रौ प्रसिद्धमिति नाभिमानबोधकम् ॥ ३ ॥
इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा निक्रेन पूर्वचित निकारिणः ।
क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मु॒पस॒त्ता व॑र्धतां ते॒ अन॑ष्टृतः ॥ ४ ॥
मन्त्रार्थ -- हे अग्निदेव, आप इन यजमानों के धन में वृद्धि कीजिये, अधिक यज्ञ करने वाले ऋत्विकगण आपकी अवज्ञा न करें । हे अग्निदेव, आपके प्रभाव से क्षत्रिय जाति हमारे लिये सुख से वश में करने योग्य हो, आपका भक्त किसी प्रकार भी दुःखित न होकर धन - पुत्र आदि के द्वारा वृद्धि को प्राप्त करे ॥ ४ ॥
हे अग्ने, इहैव कर्मणि वर्तमानानामस्माकमधि उपरि रयिं धनं धारय । यद्वा - - इहैव अस्मास्वेव यजमानेषु रयिं धनं त्वमधि अधिकं धारया देहि, संहितायां दीर्घः । पूर्वचितः पूर्व येऽग्नि चितवन्तः, अत एव निकारिणो नितरां यज्ञशीला ज्ञानकर्मसमुच्चयानुष्ठायिनो यज्ञानुष्ठायिनो वा, ते त्वां मा निक्रन् मा नीचैः कुर्वन्तु, माऽवजानन्त्वित्यर्थः । करोतेर्लङि शपि लुप्ते प्रथमपुरुषबहुवचने रूपम् । किञ्च, हे अग्ने! क्षत्रं क्षत्रियजातिस्तुभ्यं तव प्रसादात् सुयमं साधु नियन्तृ अस्तु । अथवा क्षत्रजातिस्तव सुयमं सुखेन नियन्तुं वशीकर्तुं शक्यमस्तु, ' ईषद्-दुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल् ' ( पा ० सू ० ३ | ३ | १२६ ) इति सुपूर्वाद्यमेः खलप्रत्यये रूपम् । ते तव उपसत्ता उपसदनकर्ता यजमानः, अनिष्टृतोऽनुप हिंसितः सन् वर्धतां धनपुत्रादिभिः । निपूर्वस्य स्तृञ् आच्छादने ' इत्यस्य निष्ठायां रूपम् । अत्र हिंसायां वृत्तिः । अध्यात्मपक्षे - हे अग्ने ईश्वर, इहैवास्मास्वेव यजनशीलेषूपासकेषु रथिं धनं बाह्यमाध्यात्मिकं च ज्ञानवैराग्यादिलक्षणं धारय स्थापय । निकारिणो नितरां कर्मकारिणः कर्मणा त्वा मा निक्रन् माऽवजानन्तु, ' वेदवादरताः पार्थ नान्यदस्तीति वादिनः ' ( भ ० गी ० २।४२ ) इति गीतोक्तेः । हे अग्ने परमेश्वर, क्षत्रं तुभ्यं तव सुयमं सुखेन नियन्तुं शक्यमस्तु । ते तव उपसत्ता उपासकः, अनिष्टृतोऽनुपहसितो वर्धताम्, क्रममुक्त्या कैवल्यमुक्त्या वोत्कर्षं प्राप्नुतात् । दयानन्दस्तु - ' हे अग्ने, त्वमिह रयिं धारय । पूर्वचितो निकारिणस्त्वा मा निक्रन् । हे अग्ने, ते सुयमं क्षत्रमस्तु, येनोपसत्ता सन्निष्टृतो भूत्वा एव भवानधिवर्धताम् । तुभ्यं क्षत्रं सुसुखदातृ भवतु ' इति, तदपि यत्किञ्चित्, पुनरुक्त्यादिदोषदुष्टत्वात् । ते सुयमं क्षत्रमस्तु, तुभ्यं क्षत्रं सुसुखदातृ भवत्विति पुनरुक्ते-निर्मूलत्वात् । सुखदात्रित्यध्याहारोऽपि निर्मूल एव । क्षत्रपदस्य धनराज्यपरत्वमपि निर्मूलमेव । पूर्वचित इत्यस्य पूर्वैः प्राप्तविज्ञानादिभिर्वृद्वैरित्यर्थोऽपि न युक्तः, चिनोतेश्र्चयतेर्वा तथार्थत्वायोगात् ॥ ४ ॥
क्ष॒त्रेणा॑ग्ने॒ स्वाय॒ः सभस्व मि॒त्रेणा॑ग्ने मित्रधेये॑ स्व ।
सजा॒तानां॑ मध्यम॒स्था ए॑धि॒ राज्ञमग्ने विह॒व्य॒ो दीदिहीह ॥ ५ ॥
मन्त्रार्थ -- हे श्रेष्ठ दशा वाले अग्निदेव, आप क्षत्रिय यजमान के साथ यज्ञ का आरम्भ करें । सूर्य के साथ आप इस यजमान के यज्ञ में प्रयत्नशील हों । यह सजातियों के मध्य में स्थित होकर वृद्धि पावें । हे अग्निदेव, राजाओं के द्वारा आहूत होकर आप इस यज्ञ में प्रदीप्त हों ॥ ५ ॥
पृष्ठ 239
पाठ पढ़ें पाठ छिपाएँ
२०६ शुक्लयजुर्वेदसंहिता [ अ ० २७ हे अग्ने, त्वं क्षत्रेण आत्मानं सम्पाद्य स्वायुः, सुष्ठु शोभन आयुर्जीवितकालो यस्यासौ स्वायुः सन्, यज्ञं वोढुं संरभस्व समारभस्व । मित्रेण सम्पाद्य आत्मानं मित्रधेये यतस्व यथा मित्राणि धार्यन्ते तथा यतस्व । सजातानां समानजन्मनां मध्यमस्थाः, मध्यमे तिष्ठतीति मध्यमस्थाः, क्विपि रूपम्, मध्यमस्थः सन् एधि । यथा सजाता अपि यज्वानो भवन्तु तथा एधि । हे अग्ने, राज्ञां राजभिः कर्तरि षष्ठी, विहव्यो विविधं हूयत आहूयत इति तथोक्तः, राजभिर्यज्ञे आह्वातव्यस्त्वमिह यज्ञगृहे दीदिहि दीप्यस्व, दीव्यतेर्व्यत्ययेन शपः श्लौ ' श्लौ ' ( पा ० सू ० ६।१।१० ) इति धातोद्वित्वे, ' तुजादीनां दीर्घोऽभ्यासस्य ' ( पा ० सू ० ६ । १।७ ) इति तुजादेराकृतिगणत्वाद् दीर्घे, ' लोपो व्योर्वलि ' ( पा ० सू ० ६ । १ । ६६ ) इति वकारलोपे रूपम् । यद्वा - हे अग्ने, त्वं क्षत्रेण संरभस्व समारभस्व समारम्भय, यज्ञमिति शेषः । अन्तर्भावितण्यर्थो बोध्यः । क्षत्रियान् यज्ञे प्रवर्तयेत्यर्थः । स्वायुः, एति प्राप्नोति सर्वान् पुरुषार्थानित्यायुः; ' छन्दसीण: ' ( उ ०१२ ) इत्येतेरुण्प्रत्ययः, मनुष्यः, सुष्ठु शोभन आयुर्मनुष्यो यजमानो यस्यासौ स्वायुः, अयमुकारान्त आयुशब्दो मनुष्यवाची । मित्रेण सूर्येण सह वर्तमानः सन् मित्रधेये, धातुं योग्यं धेयं कार्यं यागादिलक्षणम्, मित्रस्य यजमानस्य धेयं मित्रयम्, तत्र । त्वं यतस्व यजमानेन यज्ञादिकं कारयेत्यर्थः । शेषं पूर्ववत् । अध्यात्मपक्षे हे अग्ने भगवन् विष्णो, त्वं क्षत्रेण श्रीरामरूपेणात्मानं सम्पाद्य यज्ञं संरभस्व विविधान् यज्ञान् अनुष्ठाय यज्ञमर्यादां स्थापय । हे अग्ने विष्णो, सुग्रीवविभीषणादेमित्ररूपेणात्मानं सम्पाद्य मित्र मित्रसम्पादनार्थे कार्ये यतस्व, सुग्रीवविभीषणाद्यभीष्टं कार्यं कुरु । सजातानां समानजन्मनामन्येषां मध्यमस्था एधि, सजाता अपि यथा यज्वानो भवन्ति तथा भव । हे अग्ने, इह यज्ञस्थाने भक्तहृदये च दीदिहि दीप्यस्व | कीदृशस्त्वम्? राज्ञां विहव्यः, राजभिर्विविधैः प्रकारैर्हयते यः सः, राजभिरपि य आश्रीयते, आत्मरक्षार्थमाहूयते स राजराजेश्वरोऽग्निरित्यर्थः । दयानन्दस्तु - ' हे अग्ने, त्वमिह क्षत्रेण सह स्वायुः संरभस्व । हे अग्ने, मित्रेण सह मित्रये यतस्व । हे अग्ने, सजातानां राज्ञां मध्ये मध्यमस्था एधि । विहव्यः सन् दीदिहि च ' इति, तदपि यत्किञ्चित्, वेदाक्षर-वात्वात्, क्षत्रशब्दस्य राज्यधनार्थतासिद्धेः । मध्यमाः पक्षपातरहिता ये तेषां नाधिकरणता, न वाग्नेराधेयता सम्भवति । अग्निपदस्य न्यायप्रकाशतारूपोऽर्थोऽपि गौण एव । न च मुख्यार्थतायां सत्यां गौणार्थता युक्ता । साक्षीत्यर्थस्तु दुर्लभ एव । सत्यां गतौ न व्युत्क्रमेणान्वयः । तेन सजातानां राज्ञामिति नान्वयः ॥ ५ ॥
अि निहो अति॒
त्रिधोऽत्य चि॑ित्त॒मत्य रा॑तिमग्ने ।
विश्वा॒ ह्यग्ने दुरि॒ता स॑ह॒स्वाथा॒स्मभ्य॑ स॒हवरा॑ र॒यिं दा॑ः ॥ ६ ॥
मन्त्रार्थ - हे अग्निदेव, आप जीवघातियों का अतिक्रमण कर, दुराचारियों का अतिक्रमण कर, चंचल चित्त वालों का अतिक्रमण कर, कृपणों का अतिक्रमण कर सकल पापों को अवश्य दूर करें । तदनन्तर हे परमात्मन्, हमें वीर पुत्रों और धन से सम्पन्न करें ॥ ६ ॥
अग्ने, हि नि विश्वा विश्वानि दुरिता दुरितानि पापानि त्वं सहस्व अभिभव, विनाशयेत्यर्थः । किं कृत्वा? हिः, निहान् निहन्तृनतिक्रम्य निघ्नन्तीति निहाः निपूर्वात् हन्तेः ' त्रमन्ताड्ड: ' ( उ ० १।११३ ) ङ, ङित्त्वाट्टिलोपः, तान्, ' सुपां सुलुक् ' ( पा ० सू ० ७ | १ | ३ ९ ) इति शसः सु:, निहान् अतिक्रान्तोऽतिक्रम्य स्थित इति यावत् । अति स्रिधः, स्रेधतिः कुत्सितकर्मा, धन्तीति त्रिधः कुत्सिताचरणान् अतिक्रम्य । अत्यचित्तिम्
पृष्ठ 240
पाठ पढ़ें पाठ छिपाएँ
म ० ६-७ ] वेदार्थपारिजातभाष्यसहिता २०७ अन्यमनस्कतामतिक्रम्य । अरातिम्, न रातिर्दानं यस्यासावरातिः तम् अदातारमतिक्रम्य, हे अग्ने, हि निश्चितं दुष्टान् सर्वानतिक्रम्य पापं नाशयेत्यर्थः । किञ्च, अथ अनन्तरं हे अग्ने, अस्मभ्यं सहवीरां वीरैः पुत्रैः सहितां दाः देहि । अध्यात्मपक्षे- सर्वमेतदाञ्जस्येन भगवत्येव सङ्गच्छते । हे भगवन्नग्ने परमेश्वर, विश्वानि सर्वाणि दुरितानि सहस्व अभिभव नाशय । यस्य नाम्नापि पातकानि प्रणश्यन्ति, किमु वक्तव्यं तस्य दुरितनाशकत्वे वा । भगवन्, निहो निहान् निहन्तृन् अतिक्रम्य त्रिधो दुराचारानतिक्रम्य अचित्तिममनस्कतामन्यमनस्कतां अतिक्रम्य अरातिमतिक्रम्य सर्वान् दोषानतिक्रम्य दुरितानि नाशय । अस्मभ्यं सहवीरां राय श्रियं च देहि | दयानन्दस्तु – ' हे अग्ने, त्वमतिनिहः सन् स्त्रिधोऽतिसहस्व । अचित्तिमत्यराति सहस्व । हे अग्ने, त्वं हि विश्वा दुरितानि सहस्व । अथ अस्मभ्यं सहवीरां रयिं दाः ' इति, तदपि यत्किञ्चित्, वैरूप्यार्थस्वीकारात् । योऽसत्यं नितरां जहाति स निह इत्यप्यसङ्गतम्, असत्यपदस्य अत्राश्रुतत्वात् । तदपेक्षया निहन्तीति निह इत्यधिकं श्लिष्यते । हिन्दीभाष्ये दुराचारानतिसहस्वेत्युक्तम्, तत्र सहस्वेत्यनेन सहनमुक्तम् । तथात्वेऽचित्तिमज्ञानमति-सहस्वेत्यत्रापि तथार्थः किन्न स्यात् ॥ ६ ॥
अनाधष्यो जा॒तवे॑द॒ अनि॑ष्ट॒तो वि॒राड॑ग्ने क्षत्र॒भृद्दीविहोह । ८ विश्वा॒ आशा॑ः प्रमुञ्चन्मानु॑षीभि॒यः श॒वेभि॑र॒द्य परिपाहि नो वृधे ॥ ७ ॥
मन्त्रार्थ - हे अग्निदेव, आप तिरस्कार के अयोग्य, सर्वज्ञ, अविनाशी, सर्वत्र राजमान क्षात्र तेज को पुष्ट करने वाले हैं । इस कर्म सकल आशाओं को परिपूर्ण कीजिये, मनुष्य सम्बन्धी भय को दूर करते हुए शान्त भाव से हमारे ऐश्वर्य में वृद्धि कीजिये, हमारी रक्षा कीजिये ॥ ७ ॥
हे अग्ने, इह कर्मणि विद्यमानस्त्वं सर्वा आशा दिशो दीदिहि दीप्यस्व प्रकाशयस्व । नोऽस्मान् अस्मिन् दिने वृधे वर्धनाय शिवेभिः शिवः शान्तैरचिभिः सर्वतः परिपाहि । वर्धनं वृत्, सम्पदादित्वाद् भावे क्विप् तस्यै । कीदृशस्त्वम्? अनाधृष्यः, अप्रधृष्यः, पराभवितुमशक्य इति यावत् । जात उत्पन्नो वेदो धनं ज्ञानं वा यस्मात् स जातप्रज्ञानः । अनिष्टृतः, निःशेषेण स्तृतो हिंसितो निष्टृतः, न निष्टृतोऽनिष्टृतः । आच्छाद-नार्थकस्याप्यत्र हिंसार्थे वृत्तिः, निघण्टौ द्वितीयेऽध्याये एकोनविंशेऽनुच्छेदे स्तृणातेर्वधकर्मसु परिगणनात् । विराट्, विविधं राजत इति विराट् । क्षत्रभृत् क्षत्रं विभर्तीति क्षत्रपोषकः । तथा मानुषीर्मनुष्यस्य इमा मानुष्यः, ता भियो मनुष्यसम्बन्धिनोर्जन्मजरामृतिशोकादिकाः प्रमुञ्चन् निवर्तयन् सर्वतः परिपाहीति । अध्यात्मपक्षे- हे अग्ने परमेश्वर, इहास्मिन् संसारकान्तारेऽज्ञानान्धतमसे विश्वाः सर्वा आशाः शिवैः शान्तैः प्रकाशैर्दीदिहि प्रकाशय, परमेश्वरस्यैव तव तादृशसामर्थ्य सत्त्वात् । अद्यास्मिन् दिने नोऽस्मान् सर्वत आन्तराद् बाह्याच्चोपद्रवान्मानुषीर्मनुष्य सम्बन्धिनीभियो जन्मजरामरणशोकदैन्योत्थानि प्रमुञ्चन् अपसारयन् परिपाहि रक्ष | किमर्थम्? वृधे वर्धनाय उपाधिपरिच्छेदनिवृत्तिपूर्वक भूमपदप्राप्तये । कीदृशो भवान्? अनाधृष्यः प्रधर्षयितुमशक्यः, जातवेदा जाताः प्रादुर्भूता वेदाः सर्वविद्योद्गमस्थानभूता ऋगादयो यस्मात् सः, नित्यत्वादद्वितीयत्वादसङ्गत्वाच्चानुपहसितः । विराड् विशेषेण राजते दीप्यत इति विराट् स्वप्रकाशः । क्षत्रभृत् क्षत्रस्य क्षत्रं धर्मं बिभर्तीति क्षत्रभृद् धर्मरक्षकः, ' यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ' ( भ ० गी ० ४।७-८ ) इति गीतास्मरणात् ।