वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 241–250

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 241–250

पृष्ठ 241

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 241 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०८ शुक्लयजुर्वेद संहिता [ अ ० २७ दयानन्दस्तु -- ' हे अग्ने, योऽद्ये हास्मिन् राजव्यवहारे मानुषीभियो नाशयन् शिवेभिश्व सभ्यैः सह अनिष्टृतोऽ-नाधृष्यो जातवेदा जातविद्यो विराड् यः क्षत्रं राज्यं बिर्भात, स क्षत्रभृद्यदस्ति स त्वं नो दीदिहि कामय । विश्वा आशाः प्रमुञ्चन् त्वं नो वृधे परिपाहि ' इति, तदपि यत्किञ्चित्, ' अग्ने ' इत्यस्य ' सुसंगृहीतराजनीते ' इति विवरणे मानाभावात्, धर्मब्रह्मपरे वेदे राजनीतिपरायणमनुष्यमात्रवर्णने तात्पर्यासम्भवात्, शिवैरित्यस्यानेकार्थ-सम्भवे विशेष्यानिर्देशात् सभ्यैरित्यर्थविवरणे विनिगमनाविरहात् । न च कामना विधेया, तस्याः कृत्यगोचर-त्वात्, जानातीच्छ्त्यथ करोतीति नियमात् । न चाशा बाध्यन्ते, तासामनन्तत्वात् ॥ ७ ॥

बृह॑स्पते सवितर्बोधये॑न॒ सशि॑तं चित्सन्त॒रा शिशाधि ।

व॒र्धयैनं॑ मह॒ते सौभ॑गाय॒ विश्वं॑ एन॒मनु॑मन्तु दे॒वाः ॥ ८ ॥

मन्त्रार्थ – हे बृहस्पति और सविता देव, आप इस यजमान को कर्म का ज्ञाता बनाइये, शिक्षित को भी पुनः शिक्षित कीजिये । महान् ऐश्वर्य की ओर उसे बढ़ाइये, जिससे कि सभी देवता इस यजमान की प्रशंसा करें ॥ ८ ॥

हे बृहस्पते! हे सवितः, एतं यजमानं बोधय त्वदाराधनलक्षणकर्माविबोधवन्तं कुरु । संशितं चित्, चिदप्यर्थे, संशितव्रतमपि शिक्षितमपि वा सन्तरामतितरां संशिक्षय, शासेः शपः श्लौ द्वित्वम्, अभ्यासस्य छान्दसमित्वम् । किञ्च, महते सौभगाय महेश्वर्याय एनं यष्टारं वर्धय । विश्वे सर्वे देवा एनमनुमदन्तु समुत्साह-यन्तु प्रहर्षयन्तु वा । अन्तर्भावितणिजर्थो द्रष्टव्यः । अत्र सामिधेन्यङ्गभूतो बृहस्पतिसवितृशब्दाभ्यामग्नि-वोच्यते । अग्नौ बृहताम्पतित्वेन बृहस्पतित्वं विश्वहेतुत्वेन सवितृत्वं च सम्भवत्येव । वाक्यद्वयं वा मन्तव्यम् । ए बृहस्पतिरपरेण सविता च बोध्यते । अध्यात्मपक्षे -- हे बृहस्पते, बृहतां महदादीनां ब्रह्मादीनां वा पालक, हे सवितः सर्वप्रसवितः परमेश्वर, एवं स्वशरणागतं भक्तं बोधय स्वस्वरूपगुणमाहात्म्यादिज्ञानवन्तं कुरु । संशितं चित् शिक्षितमपि सन्तरामतितरां संशिशाधि शिक्षितं कुरु । महते सौभगाय त्वत्स्वरूपसाक्षात्कार सौभाग्य प्राप्तये, एनं वर्धय उपाध्यध्यासापनोदनेन स्वाभाविकं ब्रह्मात्मभावमाविर्भावय । विश्वे सर्वे देवा एनं भगवद्भावप्राप्तये समुद्यतमनुमदन्तु प्रहर्षयन्तु ॥ ८ ॥

अ॒मत्र॒भूयादध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।

प्रत्यो॑ह॒ताम॒श्विना॑ मृ॒त्युम॑स्माद्देवाना॑मग्ने भि॒षजा शची॑भिः ॥ ९ ॥

मन्त्रार्थ - हे बृहस्पति देव, आप हमें मृत्यु से, यमराज के नरकपात से और सभी प्रकार के शापों से मुक्त कीजिये | हे अग्निदेव, देवताओं के वैद्य अश्विनीकुमार इस यजमान की मृत्यु को अपनी कुशलता से दूर भगा दें ॥ ९ ॥

बृहस्पते, अमुत्रभूयाद् अमुत्र परलोके भवनममुत्रभूयम्, ' भुवो भावे ' ( पा ० सू ० ३।१।१०७ ) इति भवतेर्भावे क्यप्, तस्मात् परलोकगमनरूपान्मरणात्, अमुचः, मोक्षय, मरणाद्रक्षेत्यर्थः । अध अथ अनन्तरं यद् यमस्य भयं परलोकभयं नरकपातादि, तस्माच्च रक्ष । यद्वा अमुत्र परलोके यत् शरीरं भूयाद्भवेत्, अध अथ यद् यमस्य सदने च शरीरं भूयात्, तस्य च अमुञ्चो मुक्तं कुरु । अथ अभिशस्तेच लोकापवादादपि मुञ्च । देवानां भिषजा भिषजौ अश्विना अश्विनौ अस्माद् यजमानान्मृत्युं प्रत्यौतां निवर्तयताम् । कैः साधनैः? शचीभिः शुभकर्मभिः । ' शचीति कर्मनामसु ' ( निघ ० २१ २२ ) । अत्र बृहस्पतिरग्निरेव, सामिधेनीप्रकरणस्य आग्नेयत्वात् । ननु बृहस्पतिशब्दो नैघण्टुके पञ्चमेऽध्याये पदपाठेष्वेव पठ्यते । तत्कथङ्कार-

पृष्ठ 242

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 242 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

९ -११ ] वेदार्थं पारिजात भाष्यसहिता २० ९ समैन्ध ' तस्मादेतं प्रजापति, मग्निशब्दार्थतास्य युक्तेति चेच्छृणु, ' ता आग्नेय्यः प्राजापत्या यदग्निरपश्यत्तेनाग्नेय्यो यत्प्रजापति तेन प्राजापत्याः ' ( श ० ६ २ १ २७ ) इति श्रुतेः प्रजापतेः सर्वदेवात्मकत्वात्, सन्तमग्निरित्याचक्षते ' ( श ० ६ । १ । २ । १३ ) इति श्रुत्यन्तराच्च । अध्यात्मपक्षे - हे बृहस्पते अग्ने परमेश्वर, एनं त्वच्छरणं भक्तममुत्रभूयात् परलोकगमनरूपान्मरण-भयाद् यमस्य सदने यन्नरकपातादिभयं तस्माच्च अमुचः मोचय, मरणादिभयापनोदनेन संसारादेव मुक्तं कुरु । अभिशस्तेरभिशापात्, अर्थाद् लोकापवादाच्च मुक्तं कृत्वा शोकमोहादिरहितं कुरु । त्वत्कृपया देवानां भिषजौ वैद्यौ अस्माद् भक्ताद् मृत्युं प्रत्यौहताम् अपसारयताम् । शचीभिश्चिकित्सालक्षणैः, प्रज्ञानैर्वा । दयानन्दस्तु --- ' हे बृहस्पते, त्वममुत्रभूयात् परजन्मनि भाविनोऽभिशस्तेः सर्वतोऽपराधाद् एनममुञ्चः । अथ यद्य यमस्य शासने तिष्ठेत्तस्य मृत्युममुञ्चः । हे अग्ने, त्वं यथाश्विनौ भिषजौ शचीभिः प्रत्योहताम्, तस्मादस्माद्देवानामारोग्यं सम्पादय ' इति, तदपि यत्किञ्चित्, बृहस्पत्यग्न्यादिसम्बोधनानां मनुष्यमात्र-पर्यवसायित्वे वेदानां ब्रह्मपरत्वासिद्धेः । नहि परजन्मभाविनोऽपराधान्मोचने मर्त्यस्य सामर्थ्यमस्ति । हिन्दीभाष्ये मुक्तो भवेत्यर्थः कृतः, सोऽपि न युक्तः, तस्य परोक्षत्वे तत्रापि मर्त्यस्य सामर्थ्याभावात् । तदर्थं तु स्वधर्मानुष्ठान- निषिद्धानुष्ठानवर्जने एव कर्तव्ये । अभिशस्तिपदं तु लोकापवादे रूढम् न सर्वतोऽपराधपरम् । धर्मात्मनोऽपि मृत्यमोचनं न सामान्यजनेन सम्भवति, मृत्युदण्डातिरिक्तान्मृत्योर्मोचने राज्ञोऽपि सामर्थ्याभावात्, तस्यापि मरणदर्शनात् । ' अश्विनौ अध्यापकोपदेशक ' इत्यपि निर्मूलमेव । सिद्धान्ते कर्मपक्षेऽग्न्यादिदेवानां परमेश्वरांशत्वेन विशिष्टशक्तिमत्त्वेन आपेक्षिकमरणादिभयनिवर्तकत्वम् । अध्यात्मपक्षे तु परमेश्वरस्य सर्वशक्तिमत्त्वेन मृत्युलक्षणात् संसारादेव मोचकत्वं सम्भवति ॥ ९ ॥

उ॒द्व॒यं तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्त॒ ज्योति॑रुत्त॒मम् ॥ १० ॥

मन्त्रार्थ- में सूर्यदेवता को देखते हुए, हम --अन्धकारमय लोक से परम श्रेष्ठ स्वर्गलोक की ओर जाते हुए, देवलोक श्रेष्ठ ब्रह्मज्योति को प्राप्त करते हैं ॥ १० ॥

वयं तमसस्परि तमसः सकाशात् तमोबहुलादस्माल्लोकाद् उद् ऊर्ध्वमगन्म उद्गता भवेम । कीदृशा वयम्? उत्तरम् उत्कृष्टतरं स्वः स्वर्गं पश्यन्त ईक्षमाणाः । किञ्च देवत्रा देवलोके सूर्यं देवं पश्यन्तः, उत्तमं ज्योतिर्ब्रह्माख्यम् उदगन्म प्राप्ताः । अत्र यद् वक्तव्यं तद् विशेऽध्याय एकविंश्यां कण्डिकायामुक्तम् । तत्रैव व्याख्यातैषा ऋक् ॥ १० ॥

ऊ॒र्ध्वा अ॑स्य स॒मिषो॑ भवन्त्य॒र्ध्वा शु॒क्रा शो॒ची ँष्य॒ग्नेः । द्यु॒मत्त॑मा सुप्रतीकस्य सूनोः ॥ ११ ॥

2 मन्त्रार्थ - शोभन मुख वाले, पुत्रवत् अत्यन्त प्रिय इस अग्नि की समिधा ऊर्ध्वगामिनी होती है । इसकी शुद्ध विश्वप्रकाशक किरणें ऊर्ध्वगामिनी होती हैं ॥ ११ ॥

द्वादशाीदेवत्या उष्णहो विषमपादा आग्नेय्योऽग्निना दृष्टाः । आप्रियः प्रयाजदेवत्याः, ' ता विषया विषमपदाः । विषमाक्षरा विषमाणि हि छन्दा १७ सि ' ( श ० ६ | २ | १ | ३४ ) इति श्रुतेः । अग्नि प्रजापतित्वे स्तूयते, तेन प्राजापत्या अपि, ' ता आग्नेय्यः प्राजापत्या यदग्निरपश्यत् तेनाग्नेय्यो यत्प्रजापतिमाप्रीणात् तेन प्राजापत्याः ' ( श ० ६।२।१।३३ ) इति श्रुतेः । २७

पृष्ठ 243

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 243 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१० शुक्लयजुर्वेदसंहिता [ अ ० २७ अस्य प्रजापतिरूपेण स्तुयमानस्याग्नेः समिध ऊर्ध्वाः प्रगुणा देवमार्गेण यायिन्यो भवन्ति इति । ऊर्ध्वा द्यौः, शुक्रा शुक्राणि शुद्धानि शोचींषि अर्चीषि ऊर्ध्वानि भवन्ति । द्युमत्तमा द्युमत्तमानि प्रकाशो । दीव्यत वा येषां तानि भावे औणादिको डिविः, अव्युत्पन्नप्रातिपदिको वा दिवशब्दः । द्यौद्यतनं द्युमत्तमानि द्युमन्ति, ' दिव उत् ' ( पा ० सू ० ६ | १ | १३१ ) इत्युकारोऽन्तादेशः । अतिशयेन द्युमन्तीति दीप्तिमत्तमानि वीर्यवत्तमानि च भवन्ति । कीदृशस्याग्नेः? सुप्रतीकस्य, शोभनं सुष्ठु प्रतीकं मुखं यस्य सुप्रतीक-स्तस्य सूनोर्यजमानपुत्रस्य ' यदेनं जनयति तेनास्यैष सूनु: ' ( श ० ६ | २ | १ | ३२ ) इति श्रुतेः । य ईदृशोऽग्निस्तं तुम इति शेषः । अध्यात्मपक्षे -- अस्य प्रत्यक् चैतन्याभिन्नस्याग्नेः परमेश्वरस्य समिधः समिन्धाना ज्ञापिकास्तदाकारा वृत्तय ऊर्ध्वा उत्कृष्टा उत्कृष्टब्रह्मविषयत्वात् तत्प्राकट्याच्च, अस्य शोचींषि तेजांसि स्वरूपभूताः प्रकाशा ऊर्ध्वा ध्यानमात्रेणोर्ध्व ब्रह्मप्रापयित्र्यः । कीदृशानि तानि? शुक्रा शुक्राणि शुद्धानि सर्वोपाधिविवर्जितानि, द्यमत्तमानि दीप्तिमत्तमानि, सूर्यादिज्योतिषामपि ज्योतिष्ट्वात् । कीदृशस्याग्नेः? सुप्रतीकस्य । सुमुखस्य सुप्रसन्नस्य सुन्दरमुखस्य वा, श्रीरामादिरूपेणातिसुन्दरमुखस्य, सूनोः दशरथादिसूनुरूपेण प्रादुर्भूतस्य तस्य दयानन्दस्तु – ' हे मनुष्याः यस्यास्य सुप्रतीकस्य शोभनानि प्रतीकानि प्रतीतिकराणि यस्य सूनोः प्राणिगर्भविमोचकस्याग्नेरूर्ध्वा उत्तमाः समिधः प्रदीपकाः ऊर्ध्वा ऊर्ध्वाणि द्युमत्तमा शुक्रा शोचींषि भवन्ति, तं विजानीत ' इति, तदपि यत्किञ्चित् प्रतीकशब्दस्य प्रतीतिकरकर्मार्थताया निर्मूलत्वात् । सूनुशब्दस्यापि प्राणिगर्भविमोचकतारूपोऽर्थो निर्मूल एव स्वयं त्वया उणादिकोषे सूनुशब्दार्थस्यान्यथा वर्णनात् ॥ ११ ॥

तनूनपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः । प॒थो अ॑म॒क्तु॒ मध्वा॑ घृ॒तेन॑ ॥ १२ ॥

से मन्त्रार्थ -- जलदेवता के पौत्र, प्राणवान्, सब प्रकार के धन के स्वामी देवताओं में श्रेष्ठ अग्निदेव मधुर घृत यज्ञ - मार्ग को व्याप्त करते हैं ॥ १२ ॥

तनूनपात्, न पातयतीति नपात्, पतेर्ण्यन्तात् क्विपि रूपम्, अपत्यनामसु पुत्रस्य नपातुशब्दः पौत्रेण ब्रध्नस्याप्नोति तादृशमिदं व्याख्यानम् । तथा च मनुः -- ' पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते । अथ सुतरां नुतो हि पौत्रः । विष्टपम् || ' ( म ० स्मृ ० ९ | १३७ ) इति । यद्वा नुतशब्दस्य नपाद्भावः पुत्रापेक्षया नीचैः स्त्रियाम् ' ( उ ० तन्वन्त्यस्यां पयआदयो भोग्यपदार्था इति तनूगौंः ' कृषिचमितनिधनिसजिखजिभ्य ऊः आज्यमिति १1८० ) इति रूपसिद्धिः । गोः पयो जायते, पयस आज्यम् । तन्वा गोर्नपात् पौत्रस्तनूनपात् ओषधिवनस्पतयो , जायन्ते, यावत् । अथवा तता अन्तरिक्ष इति तन्व आपः, तासां नपात् तनूनपादग्निः । अय कीदृशोऽग्निः? तेभ्योऽग्निर्जायते, अरणेः प्रसूतेः । अथवा तनूं न पातयति जठररूपेण धारयतीति तनूनपादग्निः धनवान् ॥ अस्मिन् पक्षे असुर, असुः प्राणो बलं सोऽस्ति यत्रासौ असुरः, मत्वर्थीयो रः । यद्वा वसुरो सः, सर्वज्ञ इत्यर्थः । आदिलोपः । विश्ववेदा विश्वं वेदो धनं यस्य सः, विश्वानि सर्वाणि वेदांसि ज्ञानानि वा यस्य, देवो दानादिगुणकः । देवेष्वपि देवो दीप्तिमान् । य ईदृशः स पथो यज्ञमार्गान् मध्वा मध्वेत्यत्र मधुरस्वादवता आगमशास्त्रस्य घृतेन अभ्यनक्तु श्लक्ष्णयतु । इत्थं नाम प्रभूतं यज्ञे घृतमस्तु, येन मार्गा अप्यभ्यक्ताः स्युः । इति प्रकृतिभावः । अनित्यत्वान्नुमभावः । ' पथो अनक्तु ' इत्यत्र ' प्रकृत्यान्तः पादमव्यपरे ' ( पा ० सू ० ६ । १ । ११५ ) आज्यपक्षेऽप्याज्याधिष्ठातृदेव एव ग्रहीतव्यः, तत्रैव विशेषणानां समन्वयसम्भवात् ।

पृष्ठ 244

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 244 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १२-१४ ] वेदार्थपारिजातभाष्यसहिता २११ अध्यात्मपक्षे - तनूनपात् परमेश्वरः, तनूनामपां नपात् पौत्रोऽग्निः, तदुपलक्षितोऽसुरो बलवान्, विश्ववेदाः सर्वज्ञः, देवो दानादियुक्तः, देवेषु देवो ब्रह्मादिष्वपि देववत्पूज्यः, पथो मार्गान् मध्वा मधुरेण घृतेन अनक्तु श्लक्ष्णं करोतु, घृतबाहुल्येन मार्गा अपि सिक्ता भवन्तु, मधुरेण घृतस्नेहेन प्रेम्णा सर्वानेव कर्म - ज्ञान - भक्तिमार्गान् श्लक्ष्णान् करोतु, प्रेमान्तरा सर्वस्यैव रूक्षत्वात् । दयानन्दस्तु - हे मनुष्याः, यो देवेषु देवोऽसुरः प्रकाशरहितो विश्ववेदास्तनूनपात् शरीरेषु न पतति देवो मध्वा घृतेन सह पथोऽनक्तु तं यूयं विजानीत ' इति, तदपि यत्किञ्चित् उत्तमगुणयुक्तेष्वपि पदार्थेष्वपि य उत्तमगुणवान् भवति, तस्यासुरत्वासम्भवात्, असुरपदस्य प्रकाशरहितार्थत्वायोगात् । किञ्च वायुवेदसुरः, स । जलेन वायुः शरीरेषु न पततीत्यपि न युक्तम्, तस्य सर्वगतत्वेन शरीरपातित्वेन तथात्वासम्भवात् श्रोत्रादिमार्गान् प्रकटयतीत्यपि विसङ्गतमेव ॥ १२ ॥

मध्वः॑ य॒ज्ञं त॑क्षसे प्रीणा॒नो नराश ंसो॑ अग्ने । सु॒कृद् दे॒वः स॑वि॒ता वि॒श्ववा॑रः ॥ १३ ॥

मन्त्रार्थ - हे अग्निदेव, आप देवताओं को तृप्त करने वाले हैं । ऋत्विगणों के द्वारा स्तुति किये जाने पर सभी का शुभ करने वाले, प्रकाशयुक्त विश्व को उत्पन्न करने वाले, सबके वरणीय आप स्वादयुक्त घृत से यज्ञ को व्यास करते हैं ॥ १३ ॥

हे अग्ने, त्वं मध्वा स्वादुना घृतेन यज्ञं नक्षसे व्याप्नोषि ' नक्षति व्याप्तिकर्मा ' ( निघ ० २ १८२ ) । कथम्भूतस्त्वम्? देवान् इन्द्रादीन् प्रीणानः प्रीणीते यः स प्रीणानो देवान् तर्पयन्, नराशंसो नरैर्ऋत्विग्भि-राशंस्यते स्तूयत इति तथोक्तः । सुकृत् साधुकृच्च । देवो दीप्तिमान् । सविता विश्वस्योत्पादकः । विश्ववारो विश्वस्य सर्वस्यैव वरणीयः, विश्वेन वा व्रियते, विश्वं वृणोति अङ्गीकरोति वा, सर्वस्य वरणीयोऽङ्गीकर्ता वा भवसि तं त्वा स्तुम इति शेषः । अध्यात्मपक्षे - हे अग्ने भगवन्, यस्त्वं यज्ञं मध्वा मधुना मधुरेण घृतगन्धिना स्नेहेन यज्ञं यजनीयं देवं दातव्यं वा सर्व नक्षसे व्याप्नोषि प्रीणानो देवांस्तर्पयन् नरैः सर्वैरेव भाग्यशालिभिराशंस्यस इति नराशंसः, सुकृत् शोभनकर्मकारी देवो दानशीलः सविता सर्वोत्पादको विश्ववारः सर्वैर्वरणीयो भवसि अतस्त्वां स्तुमः । दयानन्दस्तु - ' हे अग्ने, यो नराशंसः सुकृद्विश्ववारः प्रीणानः सविता देवस्त्वं मध्वा यज्ञं नक्षसे, तं वयं प्रसादयेम ' इति, तदपि यत्किञ्चित्, विशेषानिर्देशात् । मधुरेण वचनेन पूर्वप्रसङ्गानुसारेण घृतेन वेत्यर्थविशेषे विनिगमनाविरहात्, प्रकरणस्य बलीयस्त्वेन घृतेनेत्यस्यैव युक्तत्वात् मन्त्रस्य देवसामान्यपरत्वापेक्षया देवविशेष-परत्वस्य ( परमेश्वरपरत्वस्यैव ) युक्तत्वात् । नहि सामान्यजीवो विश्ववारः सम्भवति ॥ १३ ॥

अच्छ॒यमे॑ति॒ शव॑सा घृ॒तेने॑ना॒नो वह्निर्नम॑सा । अ॒ग्निएं स्रुचो॑ अध्व॒रेषु॑ प्र॒यत्सु॑ ॥ १४ ॥

मन्त्रार्थ --- अपने ज्ञानबल से देवताओं की स्तुति करने वाला यज्ञ का अनुष्ठाता यह अध्वर्यु यज्ञ के प्रवृत्त होने पर घृत और हविरूप अन्न से भरी हुई जुहू को लेकर अग्नि के समीप आता है ॥ १४ ॥

अयमध्वर्युरध्वरेषु प्रयत्सु वर्तमानेषु सस्त्वग्नि देवम्, अच्छ एति, अभ्येति, ' अच्छाभेराप्तुमिति शाकपूणिः ' ( नि ० ५।२८ ) इति यास्कोक्तेः । कीदृशोऽध्वर्युः? शवसा स्वकीयेन प्रज्ञानबलेन युक्तः । पुनः कथंभूतः? वह्निः, वोढा वहति यज्ञभारमिति वह्निः, स चाध्वर्युः । घृतेन गृहीतेन ईडानः स्तुवन्, ' ईड स्तुतौ ' । नमसा "

पृष्ठ 245

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 245 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१२ शुक्लयजुर्वेद संहिता [ अ ० ] na नमसान्नेन हविर्लक्षणेनोप-हविर्लक्षाने अभ्युद्यतेन स्रुचो बाहुभ्यां गृहीत्वा अग्निमभ्येतीत्यनुषङ्गः । यद्वा घृतेन लक्षिता जुह्वाद्या गृहीत्वाऽभ्येतीति । अध्यात्मपक्षे - अयं जीवः साधकः, अध्वरेषु ज्ञानध्यानरूपेष्वध्वरेषु यज्ञेषु प्रयत्सु वर्तमानेषु ईडानः शवसा स्तुवन् प्रज्ञानबलेन भक्तिबलेन वा अग्नि भगवन्तं परमेश्वरमच्छा एति अभ्येति घृतेन । स्नेहलक्षणेन वह्नि भगवन्तं हृदये वहन् नमसा हविर्लक्षणेनान्नेन युक्ताः स्रुचो गृहीत्वा अभ्येतीति सह वर्तमानमग्नि दयानन्दस्तु – ' हे मनुष्याः, योऽयमीडानो वह्निः प्रयत्स्वध्वरेषु शवसा घृतेन जलादिजनितशवसादिनिर्माण नमसा सुचश्चाच्छति, तं यूयं सत्कुरुत ' इति, तदपि यत्किञ्चित् यन्त्रचालनार्थमग्नि बलादा रोपितोऽयमर्थः, न मनागपि स्तुतेरनुपयोगात् । स्रुगादियोगोऽपि न तत्रापेक्षितः । वस्तुतस्तु श्रुतिषु तादृशोऽर्थोऽतो व्यज्यते ॥ १४ ॥

१ स य॑न॒दस्य महि॒मान॑म॒ग्नेः स इ म॒न्द्रा सु॑प्र॒यत॑ः । वसुश्चेति॑ष्ठो वसु॒धात॑मश्च ॥ १५ ॥

दानशील यजमान मन्त्रार्थ - यह यज्ञ - कर्म में प्रवृत्त, सबको सावधान करने वाला और अत्यन्त धन - सम्पन्न मदजनक हवियों की देवताओं के लिये इस शुभ अन्न वाले अग्नि की महिमा को जानकर यज्ञ में प्रवृत्त हो । अध्वर्यु आहुतियाँ दे ॥ १५ ॥

मदजनकानि स पूर्वोक्तोऽध्वर्युरस्याग्नेर्महिमानं महाभाग्यं यक्षद् यजतु । स ई स एवास्मै , सुष्ठु मन्द्रा शोभनानि मन्दनीयानि प्रयांस्यन्नानि हविर्लक्षणान्यन्नानि च यक्षद् यजतु ददातु । कथम्भूतस्याग्नेः? सुप्रयसः यजत्वध्वर्युरिति चेत्तत्राह-हविलक्षणानि यस्य स सुप्रयास्तस्य । अथ कस्मादन्यदेवताः परित्यज्याग्नेर्महिमानं । स एव च चेतिष्ठोऽतिशयेन चेतयिता वसुरिति । योऽसावग्निर्वसुर्वासयिता, स एव जीवनदानेन स्थितिहेतुः स्नूयते च । सुप्रयसः, कृत्याकृत्यज्ञापयिता । वसुधातमश्च वसूनां धनानां धातमो दातृतमच, अतोऽग्निरेवेज्यते सुष्ठु शोभनानि प्रयांसि प्रीतान्यन्नानि यस्मात् स सप्रयाः, तस्य । महाभाग्यं अध्यात्मपक्षे -- सोऽध्वर्युरध्वरयोजक:, अस्य प्रत्यगभिन्नस्य परमेश्वरस्य महिमानं । स्वरूपभूतं कुत इति चेत्तत्राह -यजतु पूजयतु । स एवास्मै परमेश्वराय मन्द्राणि स्तुत्यानि हवींषि यजतु समर्पयतु यतोऽयमग्निर्व सुर्वासयिता चेतिष्ठोऽतिशयेन चेतयिता । अन्यत् पूर्ववत् । , स न ईं जलं मन्द्रा दयानन्दस्तु – ' स मनुष्यः सुप्रयसोऽग्नेर्महिमानं यक्षत् स वसुश्चेतिष्ठो वसुधातमश्र प्रीतान्नहेतुत्वासिद्धेः । न वा आनन्दप्रदानि हवींषि यक्षद् यजेत संगच्छेत ' इति, तदपि यत्किञ्चित् त्वद्रीत्याग्नेः ॥

वैज्ञानिकस्य वासयितृत्वं सिद्ध्यति । ' ई ' इत्यस्य जलार्थतापि चिन्त्या ॥ १५

॥ १६ ॥

द्वारो॑ दे॒वोरन्व॑स्य॒ विश्वे॑ व्र॒ता द॑दन्ते अ॒ग्नेः 1 । उ॒रुव्यच॑सो॒ धाम्ना॒ पत्य॑मानाः के कर्मों को धारण करते हैं । मन्त्रार्थं – सुन्दर अवयव वाले, घाम ( स्थान ) से ऐश्वर्यवान् दिव्य द्वार इस अग्नि इसके बाद अन्य सब देवता भी अग्नि के व्रत को धारण करते हैं ॥ १६ ॥

, दानार्थकस्यापि अस्याग्नेः प्रथमं द्वारो देवीद्वरदेव्यो व्रता व्रतानि कर्माणि ददन्ते दधन्ते अत्र मन्त्रे धारयन्ति देवशब्दलोपो द्रष्टव्यः । ददेरत्र धारणार्थे वृत्तिः । अनु अनन्तरं विश्वे सर्वे देवा अग्निव्रतानि ददन्ते ।

पृष्ठ 246

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 246 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म०१६-१७ ] वेदार्थ पारिजात भाष्यसहिता २१३ । व्यवहितपदप्रायोऽर्धर्चः । कथंभूता द्वारः? उरुव्यचसः, उरु विशालं व्यचोऽवकाशो यासां ता विशालान्तराः ' तप ऐश्वर्ये ' तथा धाम्ना स्थान ऋत्विक्सम्बन्धिना पत्यमाना ऐश्वर्यं कुर्वाणाः । पत्यन्ते ईशते यास्ताः, दैवादिकः । अत्राक्षरव्यत्यासेन केचित् ' पत ऐश्वर्ये ' इति पठन्ति । तथा च यास्क: - इरज्यति ', पत्यते, क्षयति, राजतीति चत्वार ऐश्वर्यकर्माणः ' ( निघ ० २।२१।१-४ ) | अस्माकं तुभयेऽप्याचार्याः प्रमाणम् । · -अध्यात्मपक्षे - अस्याग्नेर्भगवतः परमेश्वरस्य द्वारो देवीर्देव्यो द्वाररक्षित्र्यो देव्यः, तत्सख्य व्रतानि तत्प्रापककर्मनियमान् ददन्ते, शास्त्रोक्तान्यपि तदनुग्रहेणैव प्राप्यन्ते । यथाह - ' न भारती मेङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः । न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठयवता धृतो हरिः ॥ ' ( भा ० पु ० २।६।३३ ) । मृषाभाषणाद्वाचो निवृत्तिः, मनसश्च मृषा गतिनिवृत्तिः, इन्द्रियाणामसत्पथान्निवृत्तिश्च विवेके सत्यपि देवानामनुग्रहादेव भवति । श्वशृगालादिभक्ष्यशरीरादहन्ता - ममतानिवृत्तिर्देवमायातितरणं दययेदनन्तः दुर्लभमेव, भगवतोऽनुग्रहादेव तत्सम्भवः । तथा चाह श्रीमद्भागवते व्यासः - ' येषां स एव भगवान् ॥ ’ सर्वात्मना श्रतपदो यदि निर्व्यलीकम् । ते दुस्तरामति तरन्ति च देवमायां नैषां ममाहमिति धीः श्वशृगालभक्ष्ये विशालहृदयाः, ( भा ० पु ० २७ ४२ ) । कीदृश्यो द्वारदेव्यः? उरुव्यचसः, उरु विशालं व्यचो हृदयावकाशो भगवतः यासां परिकरा ता अग्निव्रतानि उरुतरा इति यावत् । अन्येऽपि भक्ता भगवद्रसमास्वादयन्त्विति । तथैव विश्वे सर्वे ददन्ते । धाम्ना स्वतेजसा पत्यमाना ईशनं कुर्वाणा विघ्नान् नियच्छमानाः । , ते स्वैश्वर्या दयानन्दस्तु – ' ये विश्वे पत्यमाना उरुव्यचसो अस्याग्नेर्धाम्ना देवीर्द्वारो व्रता, ददन्ते अग्नेर्धाम्ना स्थानेन जायन्ते ' इति, तदपि यत्किञ्चित्, ' अग्नेर्द्वार: ' इत्यस्य ' अग्निविद्याद्वार: ' इत्यर्थासङ्गतेः स्वामित्वायोगाच्च । अनुददन्ते उपदिशन्तीत्यप्यसङ्गतम्, धात्वर्थाननुरोधात् ॥ १६ ॥

ते अ॑स्य॒ योष॑णे दिव्ये न योन उषासानको इमं य॒ज्ञमव॑तामध्व॒रं न॑ः ॥ १७ ॥

। मन्त्रार्थ- -इस अग्नि की भार्या स्वर्ग में स्थित है । वह अहोरात्री नामक देवी हमारे इस कुटिलता रहित शास्त्रोक्त यज्ञ की यज्ञपुरुष बन कर रक्षा करे ॥ १७ ॥

उषासानक्ता उषाश्चाहश्च नक्ता च रात्रिश्चेत्युषासानक्ता । ' उषासोषसः ' ( पा ० सू ० ६।३।३१ ) इत्युषस्- । शब्दस्य उषासादेशः । ते प्रसिद्धे उषासानक्ता अहोरात्रिदेव्यौ नोऽस्माकमिमं यज्ञमवताम्, सुगुप्तं कुरुताम् कीदृश्यते? अस्याऽग्नेर्योषणे भायें । तथा दिव्ये दिवि भवे स्वर्गस्थे । कीदृशस्याग्नेः? योना योनौ, आहवनीयाख्ये ' ध्वृ कौटिल्ये ' स्थाने स्थितस्य, अथवा योनौ गार्हपत्यस्थाने स्थितस्य । कीदृशं यज्ञम्? अध्वरं न ध्वरतीत्यध्वरः । इत्यस्मात् पचाद्यच् । यद्वा - अध्वरं सोमं च नः सम्पादयताम् । नकारः पादपूरणार्थः अध्यात्मपक्षे-- उषासानक्ता अहोरात्राभिमानिन्यो तन्नियामके वा देवते नोऽस्माकमिमं यज्ञमुपासना-लक्ष्मीश्च पत्न्या ' लक्षणमवतां सुगुप्तं कुरुताम् । ते प्रसिद्धे श्रीलक्ष्म्यो, अस्याग्नेविष्णोर्योषणे पत्न्यौ, ' श्रीश्व । कीदृशस्याग्नेः ते? योनौ ( वा ० सं ० ३१।२२ ) इति मन्त्रवर्णात् । दिव्ये दिवि भवे दिव्यलोक निवासिन्यौ विश्वयोनौ कारणे आदित्ये स्थितस्य । कीदृशं यज्ञम्? अध्वरमकुटिलम्, शास्त्रोक्तमध्वरं सोमं च सम्पादयताम् । योनौ दिव्ये दयानन्दस्तु - ' हे मनुष्याः, ते उषासानक्ता रात्रिन्दिवो अस्य योषणे भार्ये वर्तमाने अस्य, योषणे न इव यमिममध्वरं यज्ञमवताम्, तं यूयं जानीत ' इति, तदपि यत्किञ्चित्, अहोरात्रयोर्गृहसम्बन्धायोगात् तत्कर्तृकयज्ञावनस्याप्रसिद्धत्वाच्च ॥ १७ ॥

पृष्ठ 247

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 247 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१४ शुक्ल यजुर्वेदसंहिता [ अ ० २७ दैव्या॑ होतारा ऊ॒र्ध्वम॑ध्व॒रं नो॒ ऽग्ने॑जि॒ह्वाम॒ भग॑णीतम् । कणतं नः स्विष्टिम् ॥ १८ ॥

मन्त्रार्थ -- हे अग्नि और वायु नामक दिव्य होतात्रों, आप हमारे इस शुभ यज्ञ को सम्पादित कीजिये, हमारे यज्ञ और अग्नि की ज्वाला को देवमार्गगामी बनाइये ॥ १८ ॥

अयमग्निः, असौ च मध्यमो वायुः । हे दैव्यौ देवसम्बन्धिनौ होतारावग्निवायू, युवां नोऽस्माकमध्वरं यज्ञमूध्वं देवयानमार्गयायिनं कुरुतमित्यर्थः । अग्नेर्देवस्य जिह्वां मुखं ज्वालां वा अभिगृणीतं साधु वर्णयतम्, समीचीनं मुखं ज्वाला वेति संस्तुतं कुरुतमिति यावत् । नोऽस्माकं स्विष्टि साधुयजनं कृणुतं कुरुतम् । अध्यात्मपक्षे – हे दैव्यौ देवसम्बन्धिनौ होतारौ देवानामाह्वतारी अग्निवायू वाक्प्राणी, युवां नोऽध्वर-मुपासनालक्षणं यज्ञमूध्वं ब्रह्मपरत्वाद् व्यापकत्वात् सूक्ष्मत्वाच्च ब्रह्मपर्यवसितं कुरुतम् । अग्नेः परमेश्वरस्य जिह्वां वेदलक्षणां वाचमभिगृणीतम्, साधु वर्णयतम् । नोऽस्माकं विष्ट साधुयजनं च कृणुतं कुरुतम् । दयानन्दस्तु - ' यौ दैव्यौ होतारौ जिज्ञास्वध्यापको सुखस्य दातारौ नोऽस्माकमूर्ध्वं प्राप्तोन्नतिमध्वरमहिंस-नीय व्यवहारमभिगृणीतं प्रशंसेताम्, तौ नः स्विष्टि शोभना इष्टिर्यस्यां तामग्नेः पावकस्य जिह्वां ज्वालां कृणुतम् ’ इति, भावार्थे तु जिज्ञास्वध्यापक तावित्युक्तम्, तत्सर्वमपि असम्बद्धमेव, शिष्टानां स्वव्यवहारप्रशंसने प्रेरणानुपपत्तेः, तस्य पुरुषार्थानुपयोगित्वेन निरर्थकत्वाच्च ॥ १८ ॥

ति॒स्रो दे॒वोब॒हिरे ँ

स॑द॒न्त्वना॒ सर॑स्वती॒ भर॑ती । म॒ही गृ॑णा॒ना ॥ १ ९ ॥

मन्त्रार्थ -- सर्वाधाररूप इडा, स्तुति को प्राप्त सरस्वती और भारती नामक तीनों देवियों इस कुशा के आसन पर बैठें ॥ १ ९ ॥ तिस्रस्त्रसङ्ख्याका देवीर्देव्य इदं बहिरासदन्तु आसीदन्तु विभक्तिव्यत्ययः सीदादेशाभावश्च छान्दसः, ' व्यवहिता ' ( पा ० सू ० १।४।८२ ) इत्याङोपसर्गेण क्रियापदव्यवधानम् । कास्ता देव्यः? इत्यत आह--sst पृथिवीस्थाना, सरस्वती मध्यस्थाना, भारती द्युस्थाना । मही महती गृणाना स्तुवन्तीति विशेषणद्वयं तिसृणामपि । यद्वा एकमेव वाक्यम्, महत्यो गृणाना इडा - सरस्वती - भारत्यो देव्यो बर्हिरिदमासन्तु । अध्यात्मपक्षे - मही महत्त्वोपेता गृणाना परमेश्वरं स्तुवन्ती इडा गवामधिष्ठात्री, सरस्वती ज्ञान-विज्ञानाधिष्ठात्री, भारती वाचामधिष्ठात्री -- इत्येतास्तिस्रो देव्य इदं बर्हिर्भगवदाराधनरूपं यज्ञमासदन्तु साद्गुण्यायाधितिष्ठन्तु । दयानन्दस्तु - ' हे मनुष्याः, यूयं या मही गृणाना इडा सरस्वती भारती च तिस्रो देवीर्देव्य इदं बहिरन्तरिक्षमासदन्तु ताः सम्यग्विजानीत ' इति, तदपि यत्किञ्चित्, तासामन्तरिक्षे सत्त्वेऽपि पुरुषार्थानुपयोगित्वेन निरर्थकत्वात् । न चैतास्तिस्रो वाच एव, वाचां प्रशस्तज्ञानजनकत्वेऽपि जडत्वेन ज्ञानवत्त्वायोगात् सर्वशास्त्र -मयत्वेऽपि सर्वशास्त्रधारकत्वायोगात् । तस्मात् पूर्वोक्तमेव व्याख्यानं युक्तम् ॥ १ ९ ॥ तन्त॑स्तु॒री॑प॒मद्भूतं पुरु॒क्षु॒ त्वष्टा॑ सु॒वीर्य॑म् । रायस्पोषं॒ विष्य॑तु॒ नाभि॑म॒स्मे ॥ २० ॥

। 6 मन्त्रार्थ - त्वष्टा देवता उस अद्भुत, बहुत से प्राणियों अथवा शरीरों में निवास करने वाली, श्रेष्ठ सामर्थ्य वाली, हमको शीघ्र अभीष्ट फल देने वाली, धन की अथवा योग की लक्ष्मी को पुष्टि के लिये हमारी गोद में छोड़ें ॥ २० ॥

पृष्ठ 248

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 248 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २०-२१ ] वेदार्थपारिजात भाष्यसहिता २१५ तत् प्रसिद्धं रायस्पोषं धनस्य पुष्टि नोऽस्मभ्यमस्मदर्थं तुरीपं तूर्णं शीघ्रमश्नुते भोजयति, तुर्णमाप्नोतीति वा तुरीपम्, तुरा वेगेन वा प्राप्नोतीति तुरीपं शीघ्रं प्रापकम् | अद्भुतं महदभूतपूर्वमाश्चर्यमयम् पुरुक्षु पुरुषु त्यति निवसति तत् पुरुक्षु, सुवीर्यं साधुवीर्यमित्येतादृशं रायस्पोषं त्वष्टा देवोऽस्मेऽस्मासु नाभिमध्ये ' षोऽन्त-प्रतिविष्यतु विमुञ्चतु । ' स्यतिरुपसृष्टो विमोचने ' ( निरु ० १११७ ) इति यास्करीत्या सोपसर्गः स्यतिः कर्मणि ' धातुर्विमोचनार्थकः सम्पद्यते । यद्वा - त्वष्टा देवस्तं प्रसिद्धं रायस्पोषं नोऽस्माकं नाभि प्रति विष्यतु विमुञ्चतु नाभौ मुक्तमुत्सङ्गे पततीति रीत्या मदायत्तं करोत्वित्यर्थः । ' पुरुक्षु ' इत्यत्र ' सुपां सुलुक् ' ( पा ० सू ० ७ ११३ ९ ) इति विभक्तेर्लुक् । क्षियतेरौणादिको डुप्रत्ययः । साधु वीर्यं साधु समीचीनं वीर्यं सामर्थ्यमुत्साहो वा येन तादृशं धनं देहीत्यर्थः । अध्यात्मपक्षे त्वष्टा देवः परमेश्वरस्तं रायो बाह्यस्य रत्नसुवर्णादेरान्तरस्य ज्ञानवैराग्यादेव धनस्य पोपं पोषकं भगवदनुरागरूपं नोऽस्माकं नाभिं हृदयं प्रति विप्यतु मुञ्चतु वर्षतु । कीदृशं तम्? तुरीपं तूर्णं ब्रह्मानन्दादिसुखप्रापकम्, अद्भुतं महान्तम् अभूतपूर्वमानन्दमयं वा पुरुष शुक- शौनक - सनक - नारदादिषु नाभि क्षिति निवसतीति पुरुक्षु । सुवीर्यं शोभनमुत्कृष्टं वीर्यं जायते येन तम्, तादृशं रायस्पोपमस्माकं हृदयं प्रति राष्ट्रमध्ये वा प्रतिविष्यतु मुञ्चतु । दयानन्दस्तु -'त्वष्टाऽस्मे नाभि प्रति तुरीपमद्भुतं पुरुक्षु सुवीर्यं तं रायस्पोषं ददातु नो दुःखाद्विष्यतु प्रति च ' इति, तदपि यत्किञ्चित् अचेतने धने सुष्ठुबलाद्ययोगात् । परिच्छिन्नस्यैव वस्तुनः कस्यचिन्नाभि विमोचनसम्भवः, नापरिच्छिन्नस्य सर्वत्र व्यापकस्येति ॥ २० ॥

वन॑स्व॒तेऽव॑सृजा ररा॑ण॒स्त्मना॑ दे॒वेषु॑ । अ॒ग्निर्हव्य श॑मि॒ता स॑याति ॥ २१ ॥

मन्त्रार्थ --- शान्ति को देने वाले अग्निदेव हव्य का संस्कार करते हैं । इस कारण हे वनस्पति देवता, आप भी अपनी आत्मा के द्वारा देवताओं को हवि देते हुए हव्य को छोड़ें ॥ २१ ॥

यतोऽग्निः शमिता शामित्रोऽग्निर्हव्यं हविर्जातं पशोर्हृदयादिकं सूदयाति सूदयति, ' षूद क्षरणे ', अत्र संस्कारार्थे वृत्तिः, संस्करोति, अतो हे वनस्पते, स्रुगुपादानभृतं तत्संस्कृतं हव्यमवसृज स्रुङ्मुखतोऽवाचीनं । क्षिप स्वेन । कीदृशस्त्वम्? त्मना आत्मना, ' मन्त्रेष्वाङयादेरात्मनः ' ( पा ० सू ० ६ । ४ । १४१ ) इत्याकारलोपः हविर्देवेषु रराणः, ' रा दाने ' इत्यस्मात् कानच, ददान इति यावत् । अध्यात्मपक्षे –– वनस्पतयोऽपि विग्रहवन्तश्चेतनास्तत्तदधिष्ठातारः सम्बोध्यन्ते । स्रुक्स्रुवजुह्वादयस्तत्र तत्र तदुपादानभूतवनस्पतिरूपेण सम्बोध्यन्ते । घृतादिरूपं हविरग्निः संस्करोति, संस्कृतं च हविः स्रुचा देवेषु दीयते । कारणरूपेणान्तर्यामिरूपेण च परमेश्वर एव तत्र तत्र स्तूयते । स एवाग्निरूपेण हविः संस्कारकः, स एव च स्रुगादिरूपेण देवेभ्यो हविर्दधाति । व्याख्यानं तु पूर्ववदेव । दयानन्दस्तु - ' हे वनस्पते, वनस्य सम्भजनीयस्य शास्त्रस्य पालक, यथा शमिताग्निर्हव्यं सूदयाति सूक्ष्मकृत्य वा प्रसारयति तथात्मना देवेषु रराणः सन् हव्यमवसृज ' इति, तदपि यत्किञ्चित्, वनस्पतिपदस्य प्रसिद्धार्थत्यागे यौगिकार्थग्रहणे च मानाभावात् वनपदेन ' वन संभक्तौ ' इति धातोरर्थानुगमाद् वननीयं संभजनीयं धर्मब्रह्मादिकमपि ग्रहीतुं शक्यत इति तादृशार्थग्रहणे विनिगमनाभावात् । तथैव सूदयातीति क्रियापदस्य -सूक्ष्मीकृत्य प्रसारयतीति नार्थ:, ' षूद क्षरणे ' इति धात्वर्थाननुसरणात् । न च शास्त्रपालको जिज्ञासुर्भवति, तस्य शास्त्रज्ञानेनैव निवृत्तजिज्ञासत्वात् ॥ २२ ॥

पृष्ठ 249

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 249 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१६ शुक्लयजुर्वेदसंहिता [ अ ० २७ अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रीय हव्यम् । विश्वे॑दे॒वा ह॒विर॒दं ज॑षन्ताम् ॥ २२ ॥

--मन्त्रार्थ - हे सर्वज्ञ अग्निदेव, आप इन्द्र के लिये स्वाहाकार - पूर्वक घृत आदि की आहुति दें, अन्य सब देवता इस हवि का सेवन करें ॥ २२ ॥

हे जातवेदः! जातप्रज्ञान अग्ने, इन्द्राय देवाय हव्यं स्वाहा कृणुहि स्वाहाकारेण हव्यं प्रयच्छ । विश्वे सर्वे देवा द्योतमाना इदं हविर्जुषन्तां सेवन्ताम् । अध्यात्मपक्षे - हे जातवेदः! सर्वज्ञ हे अग्ने श्रीराम परमेश्वर, इन्द्राय ऐश्वर्याय स्वाहा सत्यां वाचं कृणुहि स्वाहाकारेण प्रयच्छ । विश्वे सर्वे च देवास्त्वद्दत्तं हविर्जुषन्ताम् । दयानन्दस्तु - ' हे जातवेदोऽग्ने, त्वमिन्द्राय स्वाहा हव्यं कृणुहि । विश्वे देवा इदं हविर्जुषन्ताम् ' इति, तदपि यत्किञ्चित् इन्द्रपदस्य ऐश्वर्यार्थत्वायोगात् । स्वाहापदस्य सत्यवागर्थतापि चिन्त्या ॥ २२ ॥

पोवअन्ना रथि॒वृधः॑ः सु॒मे॒धाः श्वे॒तः संषक्ति नियुतमभिश्रीः ।

ते वा॒यवे॒ सम॑नसो॒ वित॑स्थुर्विश्वेन्नरः स्वप॒त्यानि॑ चक्रुः ॥ २३ ॥

मन्त्रार्थ- शुभ बुद्धि वाले, नियुत नामक घोड़ों के स्वामी वायुदेव पुष्ट अन्न वाले और धन - धान्य की वृद्धि करने वाले घोड़ों का सेवन करते हैं । वे मनस्वी घोड़े वायु के लिये रथ में जुतते हैं । ऋत्विजों ने शुभ सन्तान प्राप्त कराने वाले शुभ कर्मों का अनुष्ठान किया है ॥ २३ ॥

' अथैतं वायवे नियुत्वते शुक्लं तूपरमालभते ' ( श ० ६ २ २२६ ) इति हुतस्य पशोः ' पीवोअन्ना रयिवृधः ' इत्याद्याः षड् याज्यानुवाक्या: । द्वे वायुदेवत्ये त्रिष्टुभौ वशिष्ठदृष्टे । ' शुक्लो हि वायुः ' ( श ० ६।२।२।७ ) । यान् नियुतोऽश्वान् पीवोअन्ना पीवः पुष्टमन्नं येषां ते पीवोअन्नाः, ' प्रकृत्यान्तः पादमव्यपरे ' ( पा ० सू ० * ६ । १ । ११५ ) इति प्रकृतिभावः, तान् पीवोअन्ना, छान्दसो नकारलोपः । रयिवृधो रयिं धनं वर्धयन्ति ये ते रविवृधस्तान् । तादृशानश्वान् श्वेतः श्वेतवर्णो वायुः सिषक्ति, ' षच् सेचने, अयं सेवनार्थोऽपि चिि सेवते वा । श्लौ रूपम् । ते नियुतोऽश्वाः समनस्काः सममनस्काः सन्तो वायवेऽर्थाय वितस्थुर्विशेषेणावतिष्ठन्ति । कीदृशः श्वेतः? सुमेधाः सु सुष्ठु शोभना मेधा यस्य सः, कल्याणप्रज्ञान इति यावत् । पुनः कथम्भूतः? नियुतामश्वानामभिश्रीरभितः श्रयणीयः । एवं वायुना अश्वयोगे कृते नरो मनुष्या ऋत्विजो विश्वा इद् विश्वानि सर्वाण्येव स्वपत्यानि शोभनापत्यप्रापकाणि चक्रुः कर्माणीति शेषः । वाय्वश्वसंयोगे सति सर्वमिदं यज्ञादिकर्म प्रवर्तत इति भावः । अध्यात्मपक्षे - श्वेतः शुक्लः सत्त्वगुणविशिष्टो विष्णुर्वायुपलक्षितश्चेतनः परमात्मा, ' एकं सद्विप्रा बहुधा वदन्ति ' ( ऋ ० सं ० १ ९ ६४ | ०६ ) । अग्निमित्रो वरुणः सुमेधाः सर्वज्ञः, यान् पीवोअन्नान् रयिवृधो धनवर्धयितृन् नियुतो वायुसम्बन्धिनोऽश्वान् सिषक्ति सिति प्रेमामृतप्रदानेन आप्याययति, नितरां पूयन्ते सेवायां सङ्गता भवन्ति ये ते नियुतः कर्तरि क्विप्, साधकाः, नियुतां तादृशानामनन्योपासकानामभितो मनसा वाचा कर्मणा चाश्रयणीयः । पीवः पुष्टं भगवत्स्वरूपमेवान्नं भोग्यं येषां तान् पीवोअन्नान् रथिवृधः स्वोपासकानां धर्मवर्धयितॄन्, ' तस्मादात्मज्ञं ह्रर्चयेद् भूतिकामः ' ( मु ० उ ० ३ | १ | १० ) इति श्रुतेः । सिषक्ति सिञ्चति प्रेमामृतेनाप्याययति सेवते वा । औषधं सेवत इतिवत् प्रयोगः । ते समनसो सानुरागमनस्का वायवे

पृष्ठ 250

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 250 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २३-२४ ] वेदार्थं पारिजातभाष्यसहिता २१७ वायुपलक्षिताय परमात्मने वितस्थुर्विविधच्छत्रसिंहासनपादुकादिरूपेण चिन्मात्रसिद्ध हविः सोख्यादिरूपेण च भोज्यरूपेण तिष्ठन्ति । नरो मनुष्या ऋत्विग्यजमाना विश्वा विश्वानि इद् एव सर्वाण्येव स्वपत्यानि शोभनान्य-पत्यानि फलानि वा येभ्यः कर्मभ्यस्तानि कर्माणि चक्रुः कुर्वन्ति, कर्मफलदातारं भगवन्तं विना कर्मसु फलदान -सामर्थ्यायोगात्, ' क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा कृतपरिकरः कर्मसु जनः ॥ ' ( महिम्नस्तोत्रम्, २० ) इत्युक्तेः । अनुष्ठानानन्तरकर्मफलजन्यादृष्टरूपेणान्तःकरणे सुप्ते सति क्रतुमतां फलयोगे कर्मफलप्रापणे त्वमेव जाग्रद् जागरूको भवसि यतः पुरुषाराधनमन्तरा प्रध्वस्तं कर्म क्व फलदं भवति? अत एव फलदाने प्रतिभुवं प्रतिभूरूपं त्वां परमात्मानं सम्प्रेक्ष्य श्रुतौ श्रद्धां बद्ध्वा कृतपरिकरः सन्नद्धो भवति । दयानन्दस्तु — ' ये समनसो रयिवृधः सुमेधाः पीवोअन्ना: पीवांसि पुष्टिकराण्यन्नानि येषु पीवोअन्ना विश्वा स्वपत्यानि चक्रुः, ते इद्वायवे वितस्थुः । नियुतामधिश्रीरभितः श्रीः शोभा यस्य, श्वेतो गन्ता वर्धको वा वायुः सर्वान् सिषक्ति तदा स श्रीमान् जायते ' इति, तदपि यत्किञ्चित् वायुपदस्य वायुविद्यार्थकत्वे माना-भावात् । नहि स्वोत्पादनस्य वायुविद्योत्पत्तौ हेतुत्वम्, येन तद्वतां तदधिकारः सिद्धयेत् । न चाधिकार-सूचकपदमस्ति मन्त्रे || २३ ॥

रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।

अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा उ॒त श्वे॒तं वसु॒तिं निरे॒के ॥ २४ ॥

मन्त्रार्थ- - इस पृथ्वी और स्वर्ग ने वायु को जलरूप धन के निमित्त शीघ्र उत्पन्न किया है । ब्रह्मशक्ति दिव्य धन के निमित्त वायु को धारण करती है । श्वेत वर्ण के वायु के घोड़े निश्चय ही धन को धारण करने वाले वायु को बहुजनाकीर्णं स्थान में ले जाते हैं ॥ २४ ॥

यं वायुं राये धनायोदकलक्षणाय, नु क्षिप्रम्, इमे रोदसी द्यावापृथिव्यों जज्ञतुर्जनयामासतुः, वायुमन्तरेण द्यावापृथिव्योः संयोगेऽपि तेन जगद्धारणानुपपत्तेः । धिषणा धियं बुद्धिं कर्म वा सनोति सम्भजते, धियं बुद्धि सनोति ददाति वा या सा धिषणा । अत्र ह्रस्व आर्षः । वाक् मध्यस्थाना देवी, दीव्यतीति देवी, देवं दानादिगुणकं वायुं राये धनाय धाति दधाति, शपो लुक् । अध अथोत्पत्तिसमनन्तरमेव तं वायुम् उत निश्चितं स्वा नियुतो निजाश्वाः सश्चतः सरन्तः सचन्ते सेवन्ते । उतापि च श्वेतं वायुं वसुर्धिति वसुनो धनस्य उदकलक्षणस्य धारयितारम्, यद्वा वसुनो धनस्य धितिर्धारणं यत्र तम्, निरेके रेको रेचनं शून्यता, निर्गतो रेको यस्मात्तादृशे बहुजनाकीर्णे स्थानेऽवस्थितं वायुं नियुतः स्वाः सचत इति सम्बन्धः | अत्र उब्वटाचार्यमतेन सश्चत इति प्रातिपदिकम् । महीधराचार्यश्च सचतेति मध्यमपुरुषबहुवचनमाह । अत एव स पुरुषव्यत्ययं मनुते । अध्यात्मपक्षे - वायुं वाति सर्वं जगद् गच्छति चेष्टते यस्माद् स वायुस्तं परमेश्वरं हिरण्यगर्भ वा, इमे रोदसी द्यावापृथिव्य जज्ञतुरुत्पादितवत्यौ प्रकटयाञ्चक्रतुर्वा । किमर्थम्? राये विश्वस्य अभ्युदयाय देवी दीव्यती धिषणा मध्यमस्थाना वाक् च यं देवं द्योतमानं धाति धारयति । यद्वा धिषणा समष्टिबुद्धियं धाति धारयति अभिव्यञ्जयति वा । अध अथान्तरमेव श्वेतं स्वच्छं वायुं पूर्वोक्ताः स्वा निजा नियुतः समाराधकाः सश्चतः । कीदृशं वायुम्? वसुधितिम्, आध्यात्मिकाधिभौतिकादेर्धनस्य धारयितारम् । क्व? निरेके प्रदेशेऽपि सेवन्ते । दयानन्दस्तु – ' हे मनुष्याः, इमे रोदसी राये यं जज्ञतु:, धिषणा प्रज्ञा यं देवं राये नु धाति, अथ निरेके निर्गतशङ्के स्थाने स्वा नियुतो मिश्रणामिश्रणकर्तारः श्वेतं वृद्धमुत वसुधितं वायुं सश्चतः प्राप्नुवन्ति, तं यूयं २८