वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 251–260

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 251–260

पृष्ठ 251

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 251 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१८ शुक्लयजुर्वेदसंहिता [ अ ० २७ विजानीत ' इति, तदपि यत्किञ्चित् त्वद्रीत्या द्यावापृथिव्योर्जडत्वेन प्रेक्षापूर्व कारित्वाभावेन कस्याप्युत्पाद-कत्वासम्भवात्, धिषणापदस्य स्त्रीवाचकत्वे देवशब्दस्य पतिवाचकत्वे च मानाभावात् । न च पत्नी धनाय पति धारयति, तथात्वे पण्यवधूत्वापत्तेः । के जना मिश्रणामिश्रणकर्तारः? कथं च ते वृद्धं वायुं प्राप्नुवन्ति? तदर्थं निःशङ्कस्थानस्य को वोपयोगः? इत्याद्याक्षेपाऽसमाधानात् । शरीरे च वायुवृद्धिरपि रोग एवेति किमर्थं तादृशस्य वायोर्धारणम् ॥ २४ ॥

आपो॑ ह॒ यद् ब्र॑हतीविश्व॒माय॒न॒ गर्भं दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।

ततो॑ दे॒वाना॒ सम॑वर्त॒तासु॒रेक॒ः फस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ २५ ॥

मन्त्रार्थ यह बात प्रसिद्ध है कि जब ब्रह्माण्ड को धारण करने वाले अग्निरूप हिरण्यगर्भ को उत्पन्न करने की इच्छा से महान् ब्रह्माण्ड रूप जल देवताओं ने विश्व का रूप धारण किया, तब एक वर्ष पर्यन्त गर्भ में स्थित देवताओं का प्रारूप आत्मा लिंगशरीरभय हिरण्यगर्भ के रूप में उत्पन्न हुआ । उस प्रजापतिरूप देवता के निमित्त हम हवि देते हैं ॥ २५ ॥

द्वे प्रजापतिदेवत्ये त्रिष्टुभौ हिरण्यगर्भदृष्टे प्रथमा द्वयक्षराधिका ' आपो वा इदमग्रे सलिलमेवास ' ( श ० ११ १ ६ | १ ) इति ब्राह्मणमेतत्कण्डिकयोर्निदानम् । पुराकल्पद्योतको ह इति निपातः । यद् यदा पुराकल्पे बृहत बृहत्महत्यो बहुला आपो जलानि गर्भं हिरण्यगर्भलक्षणं दधाना धारयन्त्यः, अग्निमग्निरूपं हिरण्यगर्भं जनयन्तीर्जनयन्त्य उत्पादयिष्यन्त्यः, गर्भं हिरण्यमयमण्डं दधाना विश्वं सर्वमात्मत्वेन आयन्, तदा ततो गर्भात् संवत्सरोषिताद् देवानामसुः प्राणरूप एक आत्मा समष्टिलिङ्गशरीररूपो हिरण्यगर्भः समवर्तत समभवत्, उदपद्यत । य इत्थंभूतो हिरण्यगर्भस्तस्मै कस्मै प्रजापतिरूपाय देवाय हिरण्यगर्भाय वयं हविषा विधेम हविर्दद्मः, विभक्तिव्यत्ययः । विधतिर्दानार्थः । अध्यात्मपक्षे- सर्वात्मत्वलक्षणवैराजपदप्राप्त्युपोद्घातत्वेन ' आपो ह वा इदमग्रे सलिलमेवास ' ( श ० ११११६ । १ ) इति ब्राह्मणमाख्यायिकया सृष्टि प्रतिपादयति । आपो हेति । इदं सवं सृज्यमानं जगत् सृष्टेः पूर्वमाप एव अबात्मकमेव, तत्कार्यत्वात् । कथमिति चेत्तत्रोच्यते - अग्रे सृष्टेः पूर्वं सर्वात्मकमिदं सर्वं सलिलमेव उदकपरिशेषं बभूव । ता अबभिमानिन्यो देवता अकामयन्त । अत्र ब्राह्मणमेवोद्भियते ---' आपो ह वा इदमग्रे सलिलमेवास । ता अकामयन्त कथं नु प्रजायेमहीति ता अश्राम्यस्तास्तपोऽतप्यन्त तासु तपस्तप्यमानासु हिरण्मयमाण्ड · सम्बभूवाजातो ह तर्हि संवत्सर आस तदिद हिरण्मयमाण्डं यावत् संवत्सरस्य वेला तावत्पर्यप्लवत ' ( श ० १ ९ | १ | ६ | १ ) । कथं नु केन प्रकारेण विविधजगदात्मना प्रकर्षेण जायेमहि । ताः कामयमाना आपोऽश्राम्यन्त खिन्ना अभूवन् । ' श्रमु तपसि खेदे च ' इति दैवादिकः । ताः श्रान्ता आपस्तप आलोचनरूपं कृतवत्यः । तद् हिरण्मयं हिरण्यस्य विकारं हिरण्मयं हिरण्यनिर्मितमण्डमप्सु प्रथमं मयूरकुकुटाण्डवत् सम्बभूव । अतः संवत्सराभावाद् यावती संवत्सरस्य वेला प्रान्तः सम्भाव्यते तावत्पर्यप्लवत । ' ततः संवत्सरे पुरुषः समभवत् । स प्रजापतिस्तस्मादु संवत्सर एव स्त्री वा गौर्वा वडवा वा विजायते संवत्सरे हि प्रजापतिरजायत स इद हिरण्मयमाण्डं व्यरुजन्नाह तर्हि काचन प्रतिष्ठास तदेनमिदमेव हिरण्मयमाण्ड यावत्संवत्सरस्य वेलासीत् तावद्विभ्रत् पर्यप्लवत ' ( श ० ११ १२६ । २ ) । तदण्डं परिप्लुतमपामुपरि स्थितमासीत् । ततः संवत्सरे पुरुषः समभवत् । ततस्तस्मादण्डात् संवत्सरे काले गते सति पुरुषः शरीरी कश्चन समभवत् । स

पृष्ठ 252

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 252 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २५ ] वेदार्थ पारिजातभाष्यसहिता २१ ९ पुरुषः प्रजापतिः । लोके शरीरिणामुत्पत्तिः संवत्सर कालसाध्या दृश्यते । यतो हि स्त्र्यादयो गर्भाशयस्थाने आण्डरूपे गर्भ धृत्वा तदवसाने पुत्रादिकं जनयन्ति । स उत्पन्नः प्रजापतिरिदं हिरण्मयमण्डं व्यरुजद् भग्नं कृतवान्, ' रुजो भङ्गे ' तौदादिकः । एवमाश्रयभूतस्याण्डस्य विरुग्णत्वात् तस्य प्रजापतेः प्रतिष्ठा आस्पदं काचन किमपि नैवास । स च निराधारत्वात् स्थातुमशक्नुवन् इदमेव भिन्नं हिरण्मयमण्डं पुनः संवत्सरपर्यन्तं बिभ्रद् धारयन् तास्वेवाप्सु परिप्लवत । ' स संवत्सरे व्याजिहीर्षत् । स भूरिति व्याहरत् सेयं पृथिव्यभवत् भुव इति तदिदमन्तरिक्षमभवत् स्वरिति साऽसौ द्यौरभवत् तस्मादु संवत्सर एव कुमारो व्याजिहीर्षति संवत्सरे हि प्रजापतिर्व्याहरत् ' ( श ० ११ १ ६ ३ ) । प्रसन्नं ब्राह्मणम् । ' स वा एकाक्षर - द्वयक्षराण्येव । प्रथमं वदन् प्रजापतिरवदत्तस्मादेकाक्षरद्वयक्षराज्येव प्रथमं वदन् कुमारो वदति ' ( श ० ११।१।६।४ ) । ' तानि वा एतानि । पञ्चाक्षराणि तान् पञ्चर्तनकुरुत त इमे पञ्चर्तवः स एवमिमाँ-ल्लोकान् जातान् संवत्सरे प्रजापतिरभ्युदतिष्ठत् तस्मादु संवत्सर एव कुमार उत्तिष्ठासति संवत्सरे हि प्रजापति -रुदतिष्ठत् ' ( श ० ११ | १ | ६ | ५ ) | हेमन्त - शिशिरयोः समासाभिप्रायेण ऋतूनां पञ्चसंख्या । स परिप्लवमानः प्रजापतिरेकस्मिन् संवत्सरे गते सत्याण्डं विहाय इमान् सृष्टान् पृथिव्यादिलोकानवलम्ब्य उदतिष्ठद् ऊध्वं स्थितवान् । यस्मादेवं तस्मादेव कारणाज्जन्मानन्तरं संवत्सरे काले गते एव कुमार उत्तिष्ठासति । ' स सहस्रायुर्जज्ञे । स यथा नद्यं पारं परापश्येदेव स्वस्यायुषः पारं पराचख्यौ ' ( श ० १ ९ | १ | ६ | ६ ) । सोऽञ्छ्राम्य-श्चचार प्रजाकामः । स आत्मन्येव प्रजातिमधत्त स आस्येनैव देवानसृजत ते देवा दिवमभिपद्यासृज्यन्त तद्देवानां देवत्वं यद्दिवमभिपद्यासृज्यन्त तस्मै ससृजानाय दिवेवास तद्वेव देवानां देवत्वं यदस्मै ससृजानाय दिवेवास ' ( श ० ११ १२ / ६ / ७ ) स आत्मनि स्वशरीर एव प्रजोत्पत्तिसाधनं योनिमधत्त । तत आस्येन ते देवा दिवं द्युलोकमभिपद्य असृज्यन्त । तस्माद्दिवमभिपन्नास्ते । तस्माद् द्युसम्बन्धात् तेषां देवत्वं देवशब्दाभिधेयता सम्पन्ना । एतावता ' विद्वांसो हि देवा ' ( श ० ३७ ३ | १० ) इति श्रुतेरशुद्धमर्थं व्याचक्षाणाः सामाजिकाः । परास्ताः । अत्र स्पष्टं द्युलोकसम्बन्धित्वेन देवत्वमुक्तम् । दिवेव प्रकाश इव बभूव । ' अथ योऽयमवाङ् प्राणः तेनासुरानसृजत त इमामेव पृथिवीमभिपद्यासृज्यन्त तस्मै ससृजानाय तम इवास ' ( श ० ११।१।६।८ ) । ' सोऽवेत् । पाप्मानं वा असृक्षि यस्मै मे ससृजानाय तम इवाभूदिति ताँस्तत एव पाप्मनाविध्यत् ते तत एव पराभवंस्तस्मादाहुर्नैतदस्ति यद्देवासुरं यदिदमन्वाख्याने त्वदुद्यत इति हासे त्वत्ततो ह्येव तान् प्रजापतिः पाप्मना-विध्यत्ते तत एव पराभवन्निति ' ( श ० ११।१।६।९ ) । योऽयमवाङ्मुखः प्राणस्तेन प्रजापतिरसुरान् असृजत । ते पृथिवीमेवाभिपद्यासृज्यन्त । असुरान् सृष्टवते प्रजापतये सासुरसृष्टिरन्धकार इवाभवत् । ततः प्रजापतिः पापमेव खल्वहं सृष्टवानस्मि यत्सृष्टौ तम इवाभूदित्येवं पर्यालोच्य तमोरूपेण पाप्मना अविध्यत् । तस्मात्कारणा-दभिज्ञा आहुः– यतः प्रजापतिना सृष्टिसमय एवासुरा निराकृताः, तेन देवासुरं देवाचासुराचेति युद्धादिकं यदस्ति तन्नैवास्ति । यद् देवैः सार्धमसुरसृष्टिप्रतिपादनम्, तदेकमेवेदम्, तदुभयं नैवास्ति सृष्टिसमय एव पापवेधेन तेषां पराभूतत्वात् । ' तस्मादेतदृषिणाभ्यनूक्तम् । न त्वं युयुत्से कतमच्चनाहर्न तेऽमित्रो मघवन् कश्चनास्ति मायेत्सा यानि युद्धान्याहुन शत्रुं न नु पुरा युयुत्स इति ' ( श ० ११।१।६।१० ) । उक्तार्थदाय मन्त्रमुदाहरति - हे इन्द्र त्वं न युयुत्से युद्धं न कृतवान् त्वत्प्रतिभटानामसुराणामभावात् । कतमच्च किमपि शत्रुसैन्यं नाहः नावधीः । हे मघवन्, ते तव प्रकृतसृष्टाव मित्रस्तव कश्चन न कोऽपि । ' स ऐक्षत प्रजापतिः । सर्वं वा अत्सारिषं य इमा देवता असृक्षीति स सर्वत्सरोऽभवत् सर्वत्सरो ह वै नामैतद्यत्संवत्सर इति स यो हैवमेतत्संवत्सरस्य सर्वत्सरत्वं वेद यो हैनं पाप्मा मायया त्सरति न हैन ७ सोऽभिभवत्यथ यमभिचरत्यभि हैवैनं भवति य

पृष्ठ 253

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 253 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२० शुक्लयजुर्वेद संहिता [ अ ० २७ एवमेतत्संवत्सरस्य सर्वत्सरत्वं वेद ' ( श ० ११ । १ । ६ । १२ ) । योऽहमिमा देवता असृक्षि सृष्टवानस्मि, सोऽहं सवं स्रष्टव्यं जगद् अत्सारिषम् छद्मगत्या प्राप्तवानस्मि, ' त्सर छद्मगतौ ' भौवादिकः । इत्यादिब्राह्मणेन यदुक्तं तदेवास्मिन् मन्त्रद्वये प्रोक्तम् । या बृहत्य आपोऽग्नि जनयिष्यन्त्यो गर्भमाण्डं हिरण्मयं दधाना विश्वं सर्वं स्वात्मत्वेनायन् अवापुः, ततः संवत्सरोषितात् देवानामसु: प्राणभूत एवात्मा हिरण्यगर्भः समवर्तत समभवत्, य ईदृशो देवानामात्मभूतो हिरण्यगर्भस्तस्मै कस्मै हविषा विधेम । दयानन्दस्तु -- ' बृहतीर्जनयन्तीर्यद्धविरिव गर्भं दधानाः सत्या आप आयंस्ततोऽग्नि देवानामेकोऽसु समवर्तत । तस्मै ह कस्मै देवाय वयं हविषा विधेम ' इति, तदपि यत्किञ्चित् त्वद्रीत्या जडानामपां पृथिव्यादि -स्रष्टृत्वासम्भवात्, गर्भपदस्य प्रधानार्थतापि निर्मूलैव । देवानां पृथिव्यादीनामेकः समवर्तत, अत्र परमात्मा कस्य शब्दस्यार्थः? न चासुशब्दस्य परमात्मार्थः, तस्य प्राणवाचकत्वात् ॥ २५ ॥

य॑श्चि॒दापो॑ महिना प॒र्य॑प॑श्य॒द् दक्षं दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् । यो दे॒वेष्वधि॑ि दे॒व एक आसीत् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ २६ ॥

मन्त्रार्थ -- जिस अविनाशी ब्रह्म ने अपनी महिमा से प्रजापतिरूप हिरण्यगर्भ को धारण करने वाले, यज्ञवाली प्रजा को भी उत्पन्न करने वाले, निजकिरणरूप जल देवता को सब ओर से देखा । जो देवताओं में प्रमुख रूप से एक होता हुआ भी नाना प्रकार के अवतारों से क्रीड़ाशील हुआ, उस ब्रह्मदेव के निमित्त हम यह आहुति देते हैं ॥ २६ ॥

यश्चिद् योऽपि, चिदप्यर्थकः, देवो अन्तर्यामी महिना महाभाग्येन आपोऽपः, विभक्तिव्यत्ययः, पूर्वोक्ताः पर्यपश्यत् सर्वतो ददर्श । कीदृशीः? दक्षं कुशलं प्रजापति दधानाः । यज्ञं सृष्टिरूपं यज्ञं च जनयन्तीः । यज्ञं यज्ञकर्त्रीः प्रजा वा, लक्षणया यज्ञशब्देन यज्ञकर्त्रीणां प्रजानां वा विवक्षितत्वात् । यश्च देवेषु अधि अधिक उत्कृष्ट एको मुख्य देव आसीत्, तस्मै देवाय हविषा विधेम हविर्दद्मः । अध्यात्मपक्षे - पूर्व एवार्थः । दयानन्दस्तु -- ' यो महिना दक्षं दधाना यज्ञं जनयन्तीरापः सन्ति ताः पर्यपश्यत् । यो देवेष्वधिकोऽधिदेव आसीत् । तस्मै चित् कस्मै देवाय वयं हविषा विधेम ' इति, तदपि यत्किञ्चित्, बलस्य संसारस्य चोत्पादने जलानामपामहेतुत्वात् । देवेषु प्रकृत्यादिजीवेष्वित्यप्यनर्थः, जडानां भोग्यत्वेन भोक्तृत्वायोगात् । न च यज्ञपदेन सङ्गत्या संसारोऽर्थः तथात्वे संसारमग्नस्य याज्ञिकत्वेन यज्ञफलप्रापकत्वापत्तेः । न च परमेश्वरे ज्ञानोत्पत्तिः सम्भवति, आत्ममनः संयोगाभावात् । न च संयोगो विद्यते, निर्हेतुकत्वात् न च निर्हेतुकमेव ज्ञानम्, तथात्वे पर्यपश्यदित्यागन्तुकत्वानापत्तेः । न च नित्यमपि सम्भवति, ज्ञानानामनित्यत्वदर्शनात् । सिद्धान्ते तु परमेश्वरस्य ज्ञानस्वरूपत्वेन नित्यत्वेऽपि भास्य संसर्गस्यागन्तुकत्वेनागन्तुकत्वोपपत्तिः ॥ २६ ॥

प्रयाभिर्यासि दाश्वा समच्छा नियुद्भिर्वायवष्टये दुरोणे । नि नौ र॒यि न्च स॒भोज॑सं यु॒वस्व॒ नि वीरं गव्य॒मश्व्य॑ च॒ राध॑ः ॥ २७ ॥

मन्त्रार्थ - हे सर्वव्यापी वायुदेव, हवि देते हुए यजमान के सम्मुख जाते हैं, धन को भी दोजिये ॥ २७ ॥

आप जिन घोड़ों की सहायता से यज्ञशाला में वर्तमान यज्ञ के अनुष्ठान के निमित्त तब आप हमें सुख भोग के साघन घन को दीजिये, वीर पुत्र, गो, अश्व आदि

पृष्ठ 254

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 254 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २७-२८ ] वेदार्थ पारिजातभाष्यसहिता २२१ वायुदेव त्रिष्टुभौ वशिष्ठदृष्टे । हे वायो, त्वं याभिर्नियुद्भिरश्वाभिरिष्ये यागाय दुरोणे यज्ञगृहे वर्तमानं दाश्वांसं हविर्दत्तवन्तं यजमानम् अच्छा आभिमुख्येन प्रयासि । नियुच्छब्द उभयलिङ्गः स्त्रियां पुंसि ) च | ' निपातस्य च ' ( पा ० सू ० ६ | ३ | १३६ ) इति संहितायामच्छेति दीर्घः । ' व्यवहिताश्च ' ( पा ० सू ० १/४/८२ इति प्रेत्यस्य व्यवहितः प्रयोगः । ताभिर्नियुद्भिरागत्य नोऽस्मभ्यं सुभोजसं सुष्ठु भुज्यत इति नियुवस्व सुभोजास्तम् देहि ।, भुजेरसुन औणादिकः । किञ्च, वीरं पुत्रं गव्यं गोसम्बन्धि अश्व्यं अश्वसम्बन्धि च रायो धनं निपूर्वो यौतिर्दानार्थः, व्यत्ययेन शः । तथा रयिं सुवर्णादिरूपां लक्ष्मीं च नियुवस्व देहि । अध्यात्मपक्षे — हे वायो सर्वान्तर्यामिन् वायुरूपधारिन्, त्वं याभिर्नियुद्भिर्वडवाभिरिष्टये यागाय रयिं दुरोणे धनं यज्ञगृहे वर्तमानं दाश्वांसं यजमानम्, अच्छाभिमुख्येन प्रयासि, ताभिरागत्य नोऽस्मभ्यं । किञ्चिद् सुभोजसं धनं सदपि सुभोजो नियुवस्व, वीरं पुत्रं गव्यं गोसम्बन्धि अश्व्यं अश्वसम्बन्धि रायो धनं च नियुवस्व देहि च धनमाद्रियते, न भवति, दुर्जरत्वात्, रोगादिजनकत्वाद्वा । तत एवार्थशास्त्रेषु धर्मानुबन्धमर्थानुबन्धं नाधर्मानुबन्धमनर्थानुबन्धमननुबन्धं चेति । दयानन्दस्तु – ' हे विद्वन् वायो, वायुरिव त्वं प्रयाभिः कमनीयाभिर्नियुद्भिर्नियतैर्गुणैरिष्टयेऽच्छ्यासि तदपि यत्किञ्चित् गौणार्था-दुरोणेन सुभोजसं दाश्वांसं रयि नियुवस्व वीरं गव्यमश्व्यं च राधो नियुवस्व ' इति, पदस्य वैयर्थ्यापाताच्च । श्रयणात्, धनमिश्रणासङ्गतेश्च नियुत्पदस्य नियतगुणार्थत्वे मानाभावाच्च, दुरोण इति विज्ञानादिगुण-दाश्वश्शब्दस्यापि रयिशब्देनासङ्गतिरेव, रये जडत्वेन तत्रानौपचारिकदातृत्वायोगात् । प्राप्तिरपि तत्रासङ्गतैव ॥ २७ ॥

आ नो नियद्भिः शतिनीभिरध्व॒र संहस्रिणी॑भि॒रुप॑याहि य॒ज्ञम् ।

वायो॑ अ॒स्मिन् सव॑ने मादयस्वयूयं पा॑त॒ स्व॒स्तिभिः॒ः सदा॑ नः ॥ २८ ॥

मन्त्रार्थ -- हे वायुदेव, शत- सहस्र संख्या वाले घोड़ों की सहायता से आप हमारे सत्यथ दाता कीजिये यज्ञ स्थान ॥। २८ पर ॥ आइये, इस तीसरे सवन से तृप्त होइये । हे ऋत्विजों, आप सब समस्त कल्याणों के साथ हमारी सदा रक्षा हे वायो, नियुद्भिरश्वाभिर्वडवाभिर्नोऽस्माकमध्वरं यज्ञमुपयाहि । कीदृशीभिर्नियुद्भिः? शतिनीभिः तर्पणे सह- वयं त्रिणीभिः शतं सहस्रं च संख्या यासां ताभिः सपरिकरोऽस्मद्यज्ञमुपागच्छ । सवाहनस्य सपरिकरस्य, सक्षमा इति भावः । एत्य चास्मिन् सवने तृतीये मादयस्व तृप्यस्व । इदानीमृत्विजो मन्त्रपादेनाह - हे ऋत्विजः यूयं स्वस्तिभिरविनाशैः कल्याणैर्वा नोऽस्मान् सदा पात रक्षत । अध्यात्मपक्षे - हे वायो! विश्वचालक परमेश्वर वायुरूपधारिन् नोऽध्वरमुपयाहि । हे ऋत्विजः, यूयं तादृशस्य वायोर्यजनेन तज्जनितैः स्वस्तिभिः कल्याणैर्नः सदा पात । शेषं पूर्ववत् । दयानन्दस्तु – ' हे वायो, यथा वायुर्नियुद्धिनिश्चितैर्गमनागमनैः शतिनीभिः सवने शतानि नोऽध्वरं बहूनि यज्ञं संगन्तव्यं कर्माणि विद्यन्ते यासु, सहस्रिणीभिः सहस्राण्यसंख्या वेगा विद्यन्ते यासु गतिषु, ताभिरस्मिन् सदा पात ' इति, व्यवहारमुपगच्छन्ति, तथा त्वमेतमायाहि मादयस्व । हे विद्वांसो यूयमेतद्विद्यया स्वस्तिभिर्नः मूलेऽनिर्देशात् । तदप्युपहासास्पदम्, असङ्गतत्वात्, सम्बोधनार्हाणां निर्मूलत्वाच्च गतिमिति विशेषणस्य, तं यौतेर्गत्यर्थतायां मिश्रणामिश्रणादेर्निर्मूलता, अन्यथा गत्यर्थतानिर्मूलता, व्यवहारस्यापि गतिविशेषरूपत्वात् तद्वर्णनस्य प्रति गत्यन्तरानपेक्षणाच्च दाष्टन्तेि विदुषस्तादृशगत्यसिद्धेश्च, किचैतस्य पश्वादिसाधारण्येन वेदे निरर्थकत्वाच्च ॥ २८ ॥

पृष्ठ 255

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 255 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२२ शुक्लयजुर्वेद संहिता अ ० २७ नि॒युत्वा॑न् वाय॒वाग॑हा॒य ँ

शुक्रो अयामि ते । गन्ससि सुन्व॒तो गृ॒हम् ॥ २ ९ ॥

मन्त्रार्थ - हे वायुदेवता, आप यजमान के गृह में आइये, वहाँ अश्व पर चढ़ कर आइये, यह शुक्र ग्रह आपको समर्पित है ॥ २ ९ ॥ षडृचो वायव्या वायव्येष्टकापशुपक्षे वपादीनां याज्यानुवाक्यात्वेन विनियुक्ताः । तत्राद्या गायत्री गृत्समदस्यार्षम् । हे वायो! यतः सुन्वतोऽभिषवं कुर्वतो यजमानस्य गृहं प्रति त्वं गन्ता गमनशीलोऽसि । तृन्नन्तोऽयं शब्दः, आद्युदात्तत्वात् । तच्छीलः, तद्धर्मः, तत्साधुकारी वा - एते हि तृनोऽर्थाः, ' आ क्वेस्तच्छील-तद्धर्मतत्साधुकारिषु ' ( पा ० सू ० ३।२।१३४ ) इति पाणिनिस्मृतेः । अतो ब्रवीमि नियुत्वान् अश्वावान् नियुद्गुणको वा भूत्वा आगहि आगच्छ । शपो लुक् । अयं शुक्रो ग्रहस्ते त्वां प्रति अयामि आगच्छतु प्राप्नोतु | लकारपुरुष-व्यत्ययः । शुक्रादिग्रहाणां त्वमेव पात्रमित्यर्थः । अध्यात्मपक्षे - हे वायो परमेश्वर, सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य गृहं प्रति गमनशीलोऽसि, अतो नियुत्वान् भूत्वा आगहि । अयं शुक्रो ग्रहोऽपि त्वां प्रत्यागच्छतु, सर्वात्मकस्य भगवत एव वायुरूपेणाप्यव-स्थितत्वात् । अथवा हे भगवन्, अयं त्वद्भक्तोऽहं शुक्रः पवित्रो भूत्वा ते तव धाम स्वरूपं वा अयामि प्राप्नोमि । अपरिच्छिन्नोऽपि भगवान् भक्तानुग्रहकातरो भूत्वा रामकृष्णादिविग्रहेण दिव्याश्वादिवाहनैः सुन्वतो भक्तस्य गृहं प्रति यातीत्य हो भक्तवात्सल्यम् । दयानन्दस्तु -- ' हे वायो, नियुत्वान् ईश्वरस्त्वं यथायं शुक्रो गन्ता वायुः सुन्वतो गृहं गच्छति, तथा मामाहि यतस्त्वमीश्वरोऽसि तस्मात्ते स्वरूप महमयामि ' इति, तदपि यत्किञ्चित् नियच्छते नियुत्वानित्यसिद्धेः । पृषोदरादिसमाश्रयणं त्वसति गत्यन्तरे बोध्यम् । न चेश्वरो गन्ता स्वेन रूपेण भवति, तस्य व्यापकत्वेना-नाप्तस्य गन्तव्यदेशस्याभावात् परिच्छिन्नस्यैव उत्क्रमणसंक्रमणादिसम्भवात् ॥ २ ९ ॥ वाय शुक्रो अ॑यामि ते॒ मध्वो अग्रं आर्याहि सामपीतये स्पार्थो दे॑व

दिविष्टिषु ।

नि॒युत्व॑ता ॥ ३० ॥

मन्त्रार्थ -- हे वायुदेवता, ज्योतिष्टोम आदि यज्ञों में रस के सारभूत इस शुक्र ग्रह को आपके लिये समर्पित करता हूँ । हे वायुदेवता, हमारे यजमान के यहाँ अपने अभीष्ट सोमपान के लिये अश्वयुक्त रथ से आइये ॥ ३० ॥

अनुष्टुप पुरुमीढाजमीढदृष्टा । हे वायो, शुक्रो ग्रहस्ते त्वां प्रत्ययामि आगच्छतु । कीदृशः शुक्रो ग्रहः? दिविष्टिषु द्यौः स्वर्ग इष्यते प्रार्थ्यते याभिस्ता दिविष्टयस्तासु, ' ज्योतिष्टोमेन ' स्वर्गकामो यजेत ' इति श्रुतेः । मध्वो मधुनो रसस्य अग्रं सारभूतः, यज्ञरसेषु शुक्रो ग्रहः सारभूत इत्यर्थः । किञ्च, हे देव वायो! नियुत्वता अश्वावतारथेन सोमपीतये सोमपानाय आयाहि आगच्छ । कीदृशस्त्वम्? स्पार्हः स्पृहायोग्यः, यजमानादिभिः स्पृहणीय इत्यर्थः । अध्यात्मपक्षे – हे वायो, दिविष्टिषु यज्ञेषु मध्वो मधुनो रसस्य अग्रं सारभूतं त्वां शुक्रः शुद्धो भूत्वा अयामि प्राप्नोमि । हे देव, अश्वावता रथेन सोमपीतये सोमोपलक्षितभक्तसमर्पितनैवेद्यग्रहणाय आयासि । त्वं सर्वस्य प्राणिमात्रस्य स्पृहणीयः, सर्वस्यात्मत्वेन सर्वप्राणिपरप्रेमास्पदत्वात् । १. अनुपलब्धमूलं वचनमिदम् ।

पृष्ठ 256

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 256 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३०-३२ ] वेदार्थपारिजातभाष्यसहिता २२३ । हे देव, स्पार्हस्त्वं दयानन्दस्तु - ' हे वायो, यो वायुरिव शुक्रस्त्वमसि, यो मध्वोऽयं दिविष्टिष्वहमायामि मधुरवचनबोधकत्वे मानाभावात्, नियुत्वता सह सोमपीतय आयाहि ' इति, तदपि विशृङ्खलितमेव, मध्व इत्यस्य तस्यायं स्पार्हः । हिन्दीभाष्ये तु दिविष्टिष्वित्यस्य उत्तमसङ्गत्यर्थकत्वस्य चिन्त्यत्वात् । यः स्पृहयति , बाह्यसापेक्षार्थापेक्षया निरपेक्षार्थस्यैव उत्तमगुणाभिलाषवतः पुत्र इति व्याख्यानम्, तदपि निर्मूलम् ज्यायस्त्वात् ॥ ३० ॥

वा॒युर॑ग्रेगा य॑ज्ञप्रीः सा॒कं ग॒न्मन॑सा य॒ज्ञम् । शि॒वो नियुद्भिः शिवाभिः ॥ ३१ ॥

घोड़ियों के साथ मन्त्रार्थ - अग्रगामी, यज्ञ से तृप्त होने वाला, सबका कल्याण करने वाला वायुदेवता कल्याणरूप प्रसन्न मन से हमारे यजमान के इस यज्ञ में आवे ॥ ३१ ॥

द्वे गायत्र्यौ । वायुरग्रेगा अग्रे गमनशील:, ' विड्वनोरनुनासिकस्यात् ' ( पा ० सू ० ६ | ४ | ४१ ) इत्याकारः साकं । यज्ञप्रीर्यज्ञेन प्रीयते तुष्यतीति यज्ञप्रीः शिवः कल्या गकरः, शिवाभिः कल्याणरूपाभिर्नियुद्भिरश्वाभिर्मनसा चित्तेन सार्धं सादरं यज्ञं गन् गच्छतु । ) इति अध्यात्मपक्षे - वायुर्वायोरपि शीघ्रगामी मनसो जवीयः, ' तद्धावतोऽन्यानत्येति ' ( वा ० सं ० । ४० अग्रेगा ४ अग्रे मन्त्रवर्णात् । व्यापकस्यापि सतस्तत्र तत्राभिव्यक्त्यपेक्षया तन्त्र्यां विद्युत इव गमनमुपचर्यते । मनसा सानुरागेण गमनशीलः, यज्ञप्रीर्यज्ञेन प्रीयते तुष्यतीति यज्ञप्रीः सर्वयज्ञैर्भगवत एव समर्हणीयत्वात् यज्ञमिमं गन् आगच्छतु । साकं शिवः कल्याणकरः कल्याणरूपः शिवाभिः कल्याणमयीभिर्नियुद्भिर्वडवाभिरश्वैर्वा आञ्जस्येन सर्वाणीमानि विशेषणानि भगवत्येव सङ्गच्छन्ते । संस्त्वं मनसा दयानन्दस्तु – ' हे विद्वन्, यथा वायुर्नियुद्भिः शिवाभिर्यज्ञं गन्, तथा शिवोऽग्रेगान् तदनुपपत्तेः यज्ञप्रीः । सम्बोधनमपि साकं यज्ञमायाहि ' इति, तदपि यत्किञ्चित्, वायोविदुषश्च क्रियासु साम्याभावेन निर्मूलमेव ॥ ३१ ॥

वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒राग॑हि । नि॒युत्वा॒न् सोम॑पीतये ॥ ३२ ॥

यजमान के मन्त्रार्थ - - हे वायुदेवता, आपके पास हजारों रथ हैं, उन रथों में अत्रों को जोत कर आप हमारे इस यहाँ आइये ॥ ३२ ॥

। किमर्थम्? हे वायो, ये ते तव सहस्रिणः सहस्रसंख्याभिर्युक्ता रथासो रथास्तेभिस्तैरथैरागहि : ' ( आगच्छ निघ ० १।१५।१० ) सोमपीतये सोमपानाय । कीदृशस्त्वम्? नियुत्वान्, अश्वायुक्तः, ' नियुतो वायो इति निघण्टुक्तेः । , अध्यात्मपक्षे — हे वायो! वायुरिव विश्वपावन भगवन्, ते तव सहस्रिणो त्वं वायुरूपेण रथाः, सहस्रपदमनन्तबोधकम् नियुत्वानश्वावानसि । अनन्तरथाः । तै रथैः साधनभूतैः सोमपीतये सोमपानाय आगहि आगच्छ । भावः । यद्वा निपूर्वस्य यौतेर्दानार्थकत्वेनानन्तदानादिगुणकोऽसि । क्विबन्तान्मतुबिति सह नियुत्वान् दयानन्दस्तु – ' हे वायो! वायुरिव वर्तमान विद्वन्, ये ते सहस्रिणो रथाः निश्चेतुमशक्यम् सन्ति, तेभिः त्वद्रीत्या तस्य सन् त्वं सोमपीतय आगहि ' इति, तदपि यत्किञ्चित्, वायुर्यज्ञमुद्दिश्याऽऽयातीति इत्यप्यशक्यनिर्णयम्, जीवानामल्प-जडत्वेन प्रेक्षापूर्व कारित्वायोगात् । तस्य काः शिवाः काश्चाशिवा ॥ ३२ ॥ नियुत

ज्ञत्वात् । विदुषोऽपि क्रियाणामपि तथात्वमशक्यनिर्णयमेव

पृष्ठ 257

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 257 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२४ शुक्लयजुर्वेद संहिता [ अ ० २७ यजमान

एकया च दशभिश्व स्वभूते॒ द्वाभ्या॑मि॒ष्टये॑ विशतीचं ।

ति॒सृभि॑श्च॒ वह॑से त्रि॒शत च नियुद्भिर्वायविह ता विम॑ञ्च ॥ ३३ ॥

मन्त्रार्थ -- हे आत्मरूप समृद्धि वाले वायुदेव, एक, दो, तीन, दस, बीस और तीस वाहनों से आकर हमारे इस यज्ञ की सम्पत्ति के लिये जिन पात्रों को आपने धारण किया था, उनकी अब छोड़िये ॥ ३३ ॥

अनयच पात्राणि मुच्यन्ते । हे वायो, स्वभूते, स्वा स्वकीया भूतिः सर्वजगद्रूपा समृद्धिर्यस्य स स्वभूति-स्तत्सम्बुद्धी, यानि पात्राणि इष्टये देवयज्यायै एकया नियुता, दशभिः, द्वाभ्यां विंशती विशत्या पूर्वसवर्णः, तिसृभिः त्रिशता च नियुद्भिरश्वाभिः कृत्वा वहसे, ता तानि पात्राणि इह यज्ञे विमुञ्च । पञ्चचकाराः समुच्चयार्थाः । अध्यात्मपक्षे - हे बायो भगवन्, हे स्वभूते, स्वकीया भूतिर्जगद्र्पा समृद्धिर्यस्यासौ स्वभूतिस्तत्सम्बुद्धौ, ब्रह्मरूपेण सर्वस्य जगतो ब्रह्मविकारत्वात् । हिरण्यगर्भरूपेणापि सूत्रात्मरूपस्य वायोरेव सर्वं जगदुत्पद्यते । स चैकया दशभिर्द्वाभ्यां विंशत्या तिसृभिश्च त्रिशता नियुद्भिरश्वैरश्वतुल्याभिः शक्तिभिर्योग्यतानुसारेण एकया द्वाभ्यां तदुपलक्षितैरनन्ताभिः शक्तिभिः कल्याणपात्राणि वहति ताभिश्व जगते कल्याणानि प्रापयतीत्यर्थः । इह यज्ञे । शेषं पूर्ववत् । दयानन्दस्तु - ' हे स्वभूते वायो, यथा पवन इहेष्टये एकया च गत्या दशभिर्दशविधाभिर्गतिभिर्द्वाभ्यां विद्यापुरुषार्थाभ्यामिष्टये विद्यासङ्गतये विंशती चत्वारिंशत् तिसृभिस्त्रिशता च नियुद्भिः सह यज्ञं वहति तथा वहसे, सत्वं ता विमुञ्च, अर्थात् ता उपदिश ' इति, तदपि यत्किञ्चित्, सर्वस्यैवार्थस्य स्वकपोलकल्पितत्वात् । नियुत्पदेन नियता गतिरित्यर्थः कथङ्कारं ग्रहीतुं शक्यते? लोके वेदे च एकादीनां गतीनामप्रसिद्धेः । ' नियुतो

वायो: ' ( निघ ० १।१५ । १० ) इति च निघण्टुप्रसिद्धिः ॥ ३३ ॥

तव॑ वावृतस्पते॒ त्वष्टु'र्जामातरद्भुत । अवास्यावृ॑णीमहे ॥ ३४ ॥

मन्त्रार्थं - - हे सत्यपालक, सूर्य के जामाता, आश्चर्य रूप वाले वायुदेव, हम यजमान के लिये आपसे धन - धान्य की और सभी प्रकार की रक्षा की कामना करते हैं ॥ ३४ ॥

गायत्री व्यश्वदृष्टा । हे वायो, हे ऋतस्पते! ऋतस्य सत्यस्य पतिः पालक इति ऋतस्पतिः, ऋतस्य पतौ परे सुडागमः, तत्सम्बुद्धौ । यज्ञपालक वा, ऋतशब्दस्य यज्ञवचनत्वात् । हे त्वष्टुरादित्यस्य जामातः! आदि-त्यादपः कन्या आदाय ता वायुर्गर्भिणीः करोति । ततो वृष्टिर्भवति । तस्माद्वायुरादित्यस्य जामाता । हे अद्भुत आश्चर्यरूप, तव अवांसि अन्नानि, ' अव इत्यन्ननामसु ' ( निघ ० २२७२ ९ ), आवृणीमहे प्रार्थयामहे | अध्यात्मपक्षे — परमेश्वर एव प्रसिद्धवायुरूपेण ऋतस्पतिरादित्यस्य च जामाता कन्यापतिर्भवति । स एवाश्चर्यरूपः, स एव चान्नानां दाता, अतस्तस्मादन्नानि प्रार्थ्यन्ते । पुराणेषु च आदित्यस्त्वष्टुर्जामाता प्रसिद्धः । आदित्यस्य च तेजः सोदुमसमर्था त्वष्टुः कन्या संज्ञा वडवा भूत्वा तपश्चचार । त्वष्ट्रा च सूर्यस्य सौन्दर्याय तदीयतेजसां बाहुल्यस्य शातनं कृतम् । ततो वडवारूपायां संज्ञायामश्विनोरुत्पत्तिर्जाता । दयानन्दस्तु - ' हे ऋतस्पते जामातरद्भूतवायो, वयं यानि त्वष्टुविद्यया दीप्तस्य तवावांसि रक्षणादीन्या-वृणीमहे, तानि त्वमपि स्वीकुरु ' इति, तदपि यत्किञ्चित् प्रकृते कन्यापतिसादृश्यानिरूपणात् विदुषः सम्बोधनस्य निर्मूलत्वाच्च । ततोऽवसां प्रार्थनमपि सिकतातस्तैलप्रार्थना कल्पमेव ॥ ३४ ॥

पृष्ठ 258

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 258 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३५-३६ ] वेदार्थ पारिजातभाष्यसहिता

अ॒भि त्वा॑ शूर मोनु॒मोऽर्दुग्धा इव धे॒नव॑ः ।

ईशा॑न॒मस्य॒ जग॑तः स्व॒र्दृश॒मोशनमिन्द्र त॒स्थुष॑ः ॥ ३५ ॥

२२५ मन्त्रार्थ - हे शौर्यवान् परमेश्वर, आप इस जगत् के स्वामी हैं, सूर्यरूपी नेत्र वाले हैं, इस स्थावर जगत् के स्वामी हैं । हम आपके सम्मुख खड़े हो उसी प्रकार स्तुति करते हैं, जिस प्रकार कि बिना दुही हुई गाय बछड़ों के सम्मुख आती है ॥ ३५ ॥

बृहती तो बृहती द्वयं प्रगाथं वसिष्ठ दृष्टमिन्द्रदेवत्यम् । ' रथन्तरं दक्षिणे पक्षे ' ( श ० ९ १ २ ३६ ) इति श्रुतिः । ' नान्योऽध्वगयेत् ' ( श ० ९ | १ | २ | ४३ ) इति श्रुत्याध्वर्योर्गानं विहितम् । अतः साम्नां योनय ऋचः पठ्यन्ते । तत्रैन्द्रः प्रगाथो रथन्तरस्य योनिः । हे शूर! हे इन्द्र, वयं त्वा त्वामभिनोनुमोऽभिष्टुमः । कथमिव? अदुग्धा धेनव इव । यथा अदुग्धा अकृतकृत्या धेनवो वत्सान् अभिष्टुवन्ति तद्वत् । कीदृशं त्वामभिनोनुमः? अस्य जगतो जङ्गमस्य ईशानं परमेश्वरम्, तथा स्वर्दृशं स्वः स्वर्गं परलोकं पश्यत्यापरोक्ष्येणेति स्वर्हक, तम् । यद्वा स्व आदित्य इव यो दृश्यते स स्वर्हक् तम् । अथ च तस्थुषः स्थितवतः स्थावरस्य ईशानं नियन्तारं त्वाभिनोनुमः । अध्यात्मपक्षे — हे इन्द्र परमैश्वर्यवन् परमेश्वर, परमैश्वर्यस्य ब्रह्मण्येव सम्भवात् । हे शूर, निरतिशय-शौर्यस्यापि तत्रैव सम्भवात् । वयं त्वामभिनोनुमः । जगतस्तस्थुषश्चेशानत्वमपि परमेश्वर एव पर्यवस्यति । शेषं पूर्ववद् व्याख्येयम् । -दयानन्दस्तु – ' हे शूर इन्द्र, धेनवोऽदुग्धा इव वयमस्य जगतस्तस्थुष ईशानं स्वर्दृशमिवेशानं त्वामभि-नोनुमः ' इति, तदपि यत्किचित् कस्यचिद्राज्ञः सभापतेर्वा वर्णने वेदस्य तात्पर्याभावात् । न चेश्वरतुल्यं सामर्थ्यं राज्ञि सम्भवति, जीवमात्रस्यैवापैश्वर्यवत्त्वात् ॥ ३५ ॥

नवाँ २ ॥ अन्यो दिव्यो न न पार्थिवो न जातो न ज॑निष्यते । अश्वायन्तो मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्तस्त्वा W हवामहे ॥ ३६ ॥

मन्त्रार्थ - हे पूर्ण धनवान् परमेश्वर, आपके समान कोई दूसरा देव नहीं है, मनुष्य भी नहीं है । आपके समान न कोई उत्पन्न हुआ है और न होगा । इस कारण अश्वों को चाहने वाले, गायों की कामना करने वाले हम हवियुक्त होकर आपका आह्वान करते हैं ॥ ३६ ॥

हे मघवन् धनवन् हे इन्द्र, येन त्वावान् त्वमिव दृश्यत इति त्वावान्, त्वत्सदृशः । ' यत्तदेतेभ्यः परिमाणे वतुप् ( पा ० सू ० ५।२।३ ९ ) इत्यत्र ( वतुबिति योगविभागाद् वतुप्प्रत्ययः । पृषोदरादिः । अन्यो दिव्यो दिवि भवः, पार्थिवः पृथिवीभवः, नास्तीति शेषः । न च पूर्वं जातः, न वा जनिष्यत उत्पत्स्यते । कालत्रयेऽपि त्वत्तुल्यस्यान्यस्याभावाद् वयं त्वा त्वां हवामहे आह्वयामः । कीदृशा वयम्? वाजिनः, वाजं हविर्लक्षणमन्नमस्ति येषां ते हविषा युक्ताः । पुनः कीदृशाः? अश्वायन्तः, आत्मनोऽश्वान् इच्छन्ति कामयन्त इत्यश्वायन्ति, ' अश्वाघस्यात् ' ( पा ० सू ० ७ | ४ | ३७ ) इत्यात्वम्, ततः शतरि अश्वायन्तः, अर्थाद् अश्वान् कामयमानाः । पुनः कीदृशाः? गव्यन्तः, गोकामा वयं त्वा हवामहे । गवाश्वान् देहीति तात्पर्यम् । अध्यात्मपक्षे - हे मघवन्, ज्ञानविज्ञानादिकं लौकिकं पारलौकिकं च मघं धनमस्ति यस्य स मघवान् तत्सम्बुद्धौ । हे इन्द्र परमैश्वर्यवन् परमात्मन् त्वावान् दिव्यः पार्थिवश्चान्यः कश्चन नास्ति, ' न त्वत्समोऽ-२ ९

पृष्ठ 259

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 259 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२६ शुक्ल यजुर्वेद संहिता [ अ ० २७ स्त्यभ्यधिकः कुतोऽन्यः ' ( भ ० गी ० ११ | ४३ ) इति भगवद्वचनेनाप्ययमर्थः समर्थितो भवति । अन्यत् पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे मघवन्निन्द्रेश्वर, वाजिनो गव्यन्तोऽश्वायन्तो वयं त्वां हवामहे, यतः कश्चिदन्यः पदार्थो न त्वावान् दिव्यो न पार्थिवो न जातो न जनिष्यते, तस्माद् भवानेवास्माकमुपास्यो देवोऽस्ति ' इति, तदपि यत्किञ्चित्, त्वद्रीत्या पूर्वस्मिन् मन्त्रे राज्ञः स्तुतिरित्यकस्मात् कुत ईश्वरप्रसङ्ग इति पर्यनुयोक्तुं शक्यत्वात् । किञ्चात्र मनुष्यातिरिक्तो देवोऽङ्गीकृत इत्यपसिद्धान्तापातश्च ॥ ३६ ॥

त्वासिद्धि हवामहे सातौ वाज॑स्य कारवः ।

त्वां व॒त्रेष्वन्द्र॒ सत्प॑ति॒ नर॒स्त्वां काष्ठास्वर्व॑तः ॥ ३७ ॥

मन्त्रार्थ - हे परमेश्वर, यज्ञ के कर्ता हम ऋत्विकगण सत्पुरुषों पालक आपका ही धन - धान्य की प्राप्ति के लिये आह्वान करते हैं, शत्रु अथवा पाप के नाश के लिये भी आपका ही आह्वान करते हैं । हमारा अश्व दिग्विजयी हो, इसके लिये भी हम आपका ही आह्वान करते हैं ॥ ३७ ॥

ऋग्द्वयमैन्द्रः प्रगाथः शम्युदृष्टो बृहत्साम्नो योनिः, अध्वर्योर्गानस्योक्तेः । आद्या बृहती द्वितीया सतो -बृहती, ' बृहदुत्तरे पक्षे ' ( श ० ९ १ २ ३७ ) इति श्रुतेः । हे इन्द्र! कारवः कर्तारः स्तोमानां यज्ञानां वा ऋत्विज वयं त्वामेव हवामहे आह्वयामः, इद् एवार्थको हि निश्चयार्थका । किन्निमित्तमाह्वानमिति चेत्, तत्राह - वाजसाताविति । वाजस्य अन्नस्य सातिर्लाभो वाजसातिस्तस्याम्, अन्नलाभनिमित्तमित्यर्थः । वृत्रेषु शत्रुषु हन्तव्येषु घातनिमित्तम् । काष्ठासु दिक्षु जेतव्यासु दिग्विजयनिमित्तम् । कीदृशं त्वाम्? सत्पतिं सतां श्रुतिस्मृतिविहितकर्मानुष्ठातृणां निषिद्धकर्मत्यागिनां पतिं पालयितारम् । तथा अर्वतः, अर्वतामश्वानां प्राप्तिनिमित्तं त्वामाह्वयन्ति । यद्वा विषयसप्तमी - वाजसातौ अन्नलाभविषये शत्रुघातविषये च सत्पतिं त्वां सन्तो नरो मनुष्याः, आह्वयन्तीति शेषः । अर्वतोऽश्ववतो रथिनो वा आह्वयन्ति । त्वदृते मनुष्याणामभीष्टासिद्धेः । आवृत्तिरादरार्था । अध्यात्मपक्षे - हे इन्द्र परमेश्वर त्वामित् त्वामेव हि निश्चयेन वयं कारवः स्तुतीनां यज्ञानां वा कर्तारो हवामहे । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु -- ' हे इन्द्र, वाजस्य ज्ञानविज्ञानजन्यस्य हि कारवो नरो वयं सातौ त्वां वृत्रेषु सूर्यमिव सत्पति त्वामर्वत इव सेनायां पश्येम, काष्ठासु त्वामिद्धवामहे गृह्णीमः ' इति, तदपि यत्किञ्चित्, वाजपदस्य विद्याविज्ञानकार्यार्थत्वे मानाभावात्, सूर्यमिवेति पदस्य मूलेऽभावाच्च । सेनायामिति पदमपि मन्त्रबाह्यमेव । न चार्वत उपमानं राज्ञि युक्तम्, तस्य पशुत्वेनोपकरणत्वेन चापकृष्टत्वात् ॥ ३७ ॥

स त्वं नश्वित्र वज्रहस्त धृष्णु॑या म॒हः स्त॑वा॒नो अ॑द्रवः ।

गामश्वं र॒थ्यमिन्द्र॒ सङ्किर सत्रा वाजं न जग्युषे ॥ ३८ ॥

मन्त्रार्थं हे अति आश्चर्यकारी, वज्रधारी, ब्रह्मा, विष्णु, महेश का रूप धारण करने वाले परमेश्वर, हम आपकी अत्यन्त प्रगल्भ और ओजस्वी वाणी से स्तुति करते हैं । आप हमें गायों और रथ में जोतने योग्य अश्वों को दीजिये । इसी तरह से संग्राम में विजय प्राप्त कराने वाले अश्व की रक्षा के निमित्त सुरक्षा और अन्न भी प्रदान कीजिये || ३८ ॥

पृष्ठ 260

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 260 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३८-३९ ] वेदार्थपारिजातभाष्यसहिता २२७ स लोकवेदप्रसिद्धस्त्वं नोऽस्मभ्यं हे इन्द्र, हे वज्रहस्त वज्रं हस्ते यस्यासौ वज्रहस्तस्तत्सम्बुद्धौ! हे अद्रिवः, अद्रयोऽजेयत्वेन सन्तीत्यद्रिवान् वज्रस्य अद्रिसारमयत्वात्, तत्सम्बुद्धौ हे अद्रिवः, ' मतुबसोरु सम्बुद्धौ छन्दसि ' ( पा ० सू ० ८ | ३ | १ ) इति रु: । ' छन्दसीर: ' ( पा ० सू ० ८ | २ | १५ ) इति मस्य वः । हे चित्र चायनीय आश्चर्यकारिन् वा, गामश्वं च संकिर देहि । सम्पूर्वः किरतिर्दानार्थः । कीदृशमश्वम्? रथ्यं रथे साधुम्, रथवहन-समर्थम् । यतो हि त्वं धृष्णुया प्रागल्भ्येन महो महसा, विभक्तिव्यत्ययः, प्रसहनेन महत्वेन च स्तवानः स्तूयमानोऽसि । धृषेः क्नुः, ततो विभक्तेर्यादेशः । धृष्णुना धृष्णुत्वेन, भावप्रधानो निर्देशः । स्तवान इत्यत्र विकरणव्यत्ययः । कथमिव संकिरेति? तत्राह - सत्रा वाजं न जिग्युषे । नकार उपमार्थीयः । यथा जिग्युषे जितवतेऽश्वाय हस्तिने वा सत्रा त्राणसहितं वाजं यवसं सस्नेहमपरिमितं संकि रेयुर्दद्युस्तद्वत्, अस्मभ्यमश्वहस्त्यादिकं सस्नेहं प्रभूतं देहीत्यर्थः । -अध्यात्मपक्षे – हे इन्द्र परमैश्वर्यवन्, हे चित्र आश्र्चर्यस्वरूप, ' आश्चर्यवत्पश्यति कश्चिदेनम् ' ( भ ० गी ० २।२ ९ ) इत्युक्तेः । हे वज्रहस्त वज्रायुधहस्त, हे अद्रिवः! अद्रयो वशंवदाः सन्ति यस्य तत्सम्बुद्धौ त्वं धृष्णुया सस्नेह-धृष्णुत्वेन महो महत्त्वेन तेजसा वा स्तवानः स्तूयमानः, जिग्युषे विजितवतेऽश्वाय हस्तिने वा सत्रा वाजं न ममितवाजं यवसमिव नोऽस्मभ्यं गां रथ्यं रथवहनसमर्थमश्वं संकिर देहि । दयानन्दस्तु - ' हे चित्र! वज्रहस्ताद्रिव इन्द्र, धृष्णुया महः स्तवानः स त्वं जिग्युषे न सत्रा वाजं न गां रथ्यमश्वं संकिर ' इति, तदपि यत्किञ्चित् मनुष्यं राजानं प्रति तादृशयाच्ञानुपपत्तेः । न च तत्रेन्द्रत्वं वज्रहस्तत्व-मद्रिवत्त्वं चाञ्जस्येन सङ्गच्छते, मनुध्येषु तददर्शनात् । परमेश्वरे देवविशेषे च तदुपपत्तेः ॥ ३८ ॥

कर्या नश्चि॒ित्र आभ॑वद्ती स॒दावृ॑ध॒ सखा॑ । कय॒ शचिष्ठाऽवृता ॥ ३ ९ ॥

मन्त्रार्थ -6 - सदा सबकी वृद्धि करने वाला, आश्चर्यरूप परमेश्वर किस तर्पण या प्रीति से, अथवा किस वर्तमान याग -क्रिया से हमारा सहायक होगा? ॥ ३ ९ ॥ तिस्रो गायत्र्य इन्द्रदेवत्या वामदेवदृष्टाः । वामदेव्यस्य साम्नो योनिः, ' वामदेव्यमात्मन् ' ( श ० ९ ।११२ ऊत्या ३८ ) इति श्रुतेः । अन्त्या पादनिवृत् सप्ताक्षरत्रिपादा | इन्द्रपदं पूर्वर्चोऽनुवर्तनीयम् । इन्द्रो देवः, कया ऊती अवनेन तर्पणेन प्रीणनेन वा नोऽस्माकं सखा सहाय आभुवद् आभिमुख्येन भवति? ऊतीत्यत्र तृतीयैकवचनस्य ' इतश्च लोपः ' सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः ’ पा ० सू ० ७ | १ | ३ ९ ) इति पूर्वसवर्णः, आभुवदित्यत्र । परस्मैपदेषु ' ( पा ० सू ० ३ | ४ | ९ ७ ) इति तिप इकारलोपः । पश्छान्दसे ङित्वे गुणाभावेन धातोरुवङ्ङादेशः कीदृश इन्द्रः? चित्रश्चायनीयो विचित्रः पूज्यो वा, सदावृधः सदा वर्धत इति सदावृधः, ' इगुपधज्ञाप्रीकिरः शचिष्ठया कः ' ( पा ० सू ० ३।१।१३५ ) इति कप्रत्ययः । तथा कया वृता वर्तत इति वृत् तया वृता वर्तमानया सा क्रिया च अतिशयेन शचीति शचिष्ठा तया अतिशयवत्या यागक्रियया नोऽस्माकं सखा भवति सा ऊती अस्माभिः सततं स्पृहणीये प्रापणीये चेत्यर्थः । यद्वा कया ऊती ऊत्या केनावनेन तर्पणेन वा अतिशयकर्मवत्या नोऽस्माकं चित्र-चायनीय इन्द्रो भुवद् भूयात् । आकारो वृता सह सम्बद्ध्यते । तथा च कया नाम शचिष्ठया । आवृता कर्मणा च सदावृधः सदाकालं वर्धयिता सखा च भूयादिति तदिन्द्रकर्तृकमवनं तच्च कर्म सदा स्पृहणीयम् पूजनीयः, आवर्त्यत इत्यावृत् क्रिया कर्म वा, तया । अत्र सायणाचार्यः -- सदावृधः सदा वर्धमानः, चित्रश्चायनीयः । शचिष्ठया प्रज्ञा-सखा मित्रभूत इन्द्रः कया ऊती ऊत्या तर्पणेन नोऽस्मान् प्रति आभुवद् आभिमुख्येन भवेत् वत्तमया प्रज्ञासहितानुष्ठीयमानेन कर्मणा कया वृता वर्तनेन कर्मणा चाभिमुखो भवेत् ।