वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 261–270
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 261–270
पृष्ठ 261
पाठ पढ़ें पाठ छिपाएँ
२२८ शुक्लयजुर्वेदसंहिता [ अ ० २७ अध्यात्मपक्षे - इन्द्रः परमेश्वरः कया ऊती ऊत्या केन तर्पणेन वा नोऽस्माकं सखा आभुवद् आभिमुख्येन भवति कया वृता वर्तमानया शचिष्ठयातिशयवत्या यागक्रियया नोऽस्माकं सखा भवति, तदेव प्रीणनं तर्पणं सैव च क्रिया सर्वतोभावेनास्माभिरावर्तनीयमित्यर्थः । कीदृश इन्द्रः? चित्र आश्चर्यरूपः । सदावृधो वर्धयिता । दयानन्दस्तु – हे विद्वन्, चित्रः सदावृधः सखा भुवत् कयोती नोऽस्मान् रक्षः? कया शचिष्ठया वृताऽस्मान्नियोजये: ' इति तदपि यत्किञ्चित् निर्मूलबह्वध्याहारमूलकत्वेन मन्त्रबाह्यत्वात् । विद्वन्निति सम्बोधनमपि निर्मूलमेव ॥ ३ ९ ॥
कस्त्वा॑ स॒त्यो मर्दानां महि॑ष्ठो मत्स॒वन्ध॑सः । दृढा चि॑दा॒रुज॒ वसु॑ ॥ ४० ॥
मन्त्रार्थ - हे परमेश्वर, सोमरूप अन्न की मदजनक हवियों में कौन सा श्रेष्ठ अंश आपको प्रसन्न करता है? जिस प्रसन्नता में कि दृढ़ता से रहने वाले भक्तगणों को आप धन का विभाग करके देते हैं ॥ ४० ॥
हे इन्द्र, अन्धसोऽन्नस्य सोमात्मकस्य कोंऽशस्त्वा त्वां मत्सद् माद्यति मदयुक्तं करोति, ' मदी हर्षे ' इत्यस्माल्लेटि ' सिब्बहुलं लेटि ' ( पा ० सू ० ३ | १ | ३४ ) इति धातोः सिबागमे, इकारपकारानुबन्धयोर्लोपे, ' लेटोऽडाटा ' ( पा ० सू ० ३।४।९ ४ ) इति लेटोऽडागमे सिबादेशे, ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३।४ / ९ ७ ) इतीकारलोपे मत्सदिति रूपम् । कीदृशोऽन्धसोंऽशः? मदानां मदयन्तीति मदानि मदजनकानि हवींषि, तेषां मध्ये मंहिष्ठः श्रेष्ठः, अत्यन्तमदजनकः । ' महि वृद्धौ ' भ्वादि:, मंहते वर्धत इति मही, अत्यन्तं मही मंहिष्ठः, येनांशेन मत्तः सन् दृढा चिद् दृढान्यपि वसु वसूनि कनकादीनि त्वमारुजे, ' रुजो भङ्गे ' तुदादिः, पुरुषपदव्यत्ययः, आरुजसि दातुं चूर्णयसि भनक्षि, भङ्क्त्वा भङ्क्त्वा ददासीति यावत् । यद्वा कस्त्वा को नाम त्वा त्वां मत्सद् मादयति सोऽन्धसः सोमरूपस्यांशस्य अंशः सत्योऽवितथः । स च मदानां मध्ये मंहिष्ठोऽतिशयेन मदजनकः । येन मत्तः सन् त्वं दृढा चित् सुदृढान्यप्यसुरवृन्दानि, आरुजे आरुजसि चूर्णयसि, वसु च ददासीति शेषः । यद्वा ढाप व वसूनि सुवर्णप्रभृतीनि चिरकालावस्थायीन्यारुजसि चूर्णयसि दानाय । अध्यात्मपक्षे - हे इन्द्र परमेश्वर, अन्धसः सोमलक्षणस्यान्नस्य को मदानां मदजनकानां हविषां मध्ये मंहिष्ठः श्रेष्ठः, अतिशयेन मदजनकस्त्वा त्वां मत्सद् मादयति, येन मत्तः सन् दृढा चिद् दृढान्यप्यसुरवृन्दानि, आरुजे आरुजसि, वसु च ददासि तमेवांशं भक्तिरसपरिप्लुतं तुभ्यं समर्पयामीत्यर्थः । दयानन्दस्तु – ' हे विद्वन्, कः सुखप्रदः सत्यः सत्सु साधुमंहिष्ठो विद्वांस्त्वान्धसो मदानां मध्ये मत्सद् आनन्दयेत, आरुजे समन्ताद्रोगे औषधानि चिदिव दृढा वसु सच्चिनुयात् सोऽस्माभिः पूजनीयः ' इति, तदपि यत्किञ्चित् क इत्यस्य सुखार्थत्वे सत्यपि सुखप्रदार्थत्वस्य निर्मूलत्वात् । अन्धसो मदानामानन्दानां निराकारत्वेन तन्मध्यत्वापरिच्छेदात् । औषधानि सञ्चिनुयादित्यस्य तु वेदबाह्यत्वमेव, मन्त्रे तदनुपलम्भात् ॥ ४० ॥
अ॒भी षु ण॒ सखा॑नामवि॒ता ज॑रितॄणाम् । श॒तं भ॑वस्य॒तये ॥ ४१ ॥
I मन्त्रार्थं - - हे इन्द्रदेव, मित्ररूप में आपकी स्तुति करने वाले हम भक्तों के आप रक्षक हैं । हमारी रक्षा के लिये भली प्रकार से अभिमुख होकर आप राम - कृष्ण आदि अनेक रूपों को धारण करते हैं ॥ ४१ ॥
हे इन्द्र, अभी षु णः, नोऽस्माकं सखीनां मित्राणां अभी आभिमुख्येन सुष्ठु शोभनरीत्या अविता पालयिता रक्षकोऽसि । जरितॄणां स्तोतॄणामस्माकम् ' जरितेति स्तोतृनामसु ' ( निघ ० ३।१६ २ ), ऊतये पालनाय शतं भवासि भवसि अनन्तरूपेण प्रादुर्भवसीत्यर्थः । अभी षु ण इत्यत्र ' इकः सुत्रि ' ( पा ० सू ० ६ | ३ | १३४ ) इत्यनेन
पृष्ठ 262
पाठ पढ़ें पाठ छिपाएँ
म ० ४१-४२ ] वेदार्थपारिजातभाष्यसहिता २२ ९ अभीत्यस्य दीर्घः, ' सुत्र: ' ( पा ० सू ० ८ | ३ | १०७ ) इति मूर्धन्यः, ' नश्च धातुस्योरुषुभ्यः ' ( पा ० सू ० ८।४।२७ ) इति नस्य णः । ' द्वा सुपर्णा सयुजा सखाया ' ( ऋ ० सं ० १।१६४।२० ) इति मन्त्रे परमेश्वरस्य जीवानां च परस्परं सख्यसम्बन्धस्योक्तत्वात् । अध्यात्मपक्षे - हे इन्द्र परमेश्वर, नोऽस्माकं सखीनां सख्यभावेन भजताम्, अविता पालयितासि । जरितॄणां स्तोतॄणामस्माकभूतये रक्षणाय शतं भवासि अनन्तरूपो भवसि । दयानन्दस्तु – ' हे विद्वन् यस्त्वं नः सखीनां जरितॄणां चाविता ऊतये शतं सुभवासि सोऽभियुज्यः स्याः ' इति, तदप्यसङ्गतम्, विदुषः कस्यचिन्मनुष्यस्य शतं सुभवनासम्भवात् । पूज्यस्य रागास्पदत्वेन विधेयत्वायोगाच्च, ' विधिरत्यन्तमप्राप्तौ ' इति सिद्धान्तात् ॥ ४१ ॥
यज्ञा यज्ञा वो अ॒ग्नये गिरा गिरा च 1 प्र प्र व॒यम॒मृते॑ जातवेदसं प्रियं मि॒त्रं न श॑सिषम् ॥ ४२ ॥
मन्त्रार्थ - हे परमेश्वर, हम प्रत्येक यज्ञ में आपकी स्तुति करते हुए आपके निमित्त अतिबली, अविनाशी, सर्वज्ञ, प्रीतिजनक, मित्र के समान अग्नि के रूप में आपका गुणगान करते हैं ॥ ४२ ॥
तृचः प्रगाथः, अग्निदेवत्यः । यज्ञायज्ञियस्य साम्नो योनिः, ' यज्ञायज्ञियं पुच्छम् ' ( श ० ९ ११ १२ १३३ ९ ) इति श्रुतेः । शंयोरार्षम् । द्वे बृहत्यौ, तृतीया सतोबृहती । यज्ञा यज्ञा इति वीप्सायां सप्तम्येकवचनस्य आ आदेशः । ' वः ' इति द्वितीयाबहुवचनमेकवचनार्थे, यजमानविषयं वा । ' अग्नये ' इत्यस्य व्यत्ययेन अग्निमित्यर्थः । गिरा गिरेति वीप्सायां द्वित्वम् । चः पादपूरणः । ' दक्षसे ' इति द्वितायार्थे चतुर्थी । ' प्रसमुपोदः पादपूरणे ' ( पा ० सू ० ८ | १ | ६ ) इति द्वित्वम् । शंसिवमित्याख्यातेन सम्बन्धः । वयमिति बहुवचनमेकवचनार्थे । तथा चैवं मन्त्रार्थः - - यज्ञा यज्ञाऽनेकेषु यज्ञेषु गिरा गिरा अनेकया स्तुतिरूपया गिरा वाचा वस्त्वामग्नयेऽग्नि प्रशंसिषं स्तौमि । ' शंसु स्तुतौ ' भौवादिकः । लुङि रूपम् । अभाव आर्षः । यद्वा - वो युष्माकमर्थेऽग्नि प्रशंसिषम् । कीदृशमग्निम्? दक्षसे दक्षसम् उत्साहवन्तम् । वृद्ध्यर्थकस्य दक्षतेरत्रोत्साहे वृत्तिः । दक्षतेरसुन-प्रत्ययः । दक्षते उत्सहत इति दक्षास्तम् । यद्वा - दक्षसं बलवन्तम् । ' दक्ष इति बलनाम ' ( निघ ० २ / ९ / १३ ) | अन्तर्भावितमत्वर्थं द्रष्टव्यम् | अमृतं मरणरहितं जातवेदसं जातप्रज्ञानं वेदो ज्ञानं धनं वा यस्मात्तम्, प्रियं प्रेमास्पदं प्रीतिजनकं वा मित्रं स्नेहवन्तं न इव । यथा कश्चित् प्रियं मित्रं स्तौति, तद्वर्दाग्न स्तुम इत्याशास्महे । यद्वा अहं यज्ञे यज्ञे वो युष्माकं यजमानानामर्थेऽग्निमुत्साहह्वन्तममृतं जातवेदसं तया तया गिरा स्तुतिरूपया वाचा प्रियं मित्रमिव प्रशंसिषमिति । अध्यात्मपक्षे - यज्ञा यज्ञा प्रतियज्ञं वस्त्वामग्नि परमात्मानममृतं षड्विधभावविकारवर्जितं जातवेदसं ज्ञानधनादिजनकं प्रियं सर्वप्राणिपरप्रेमास्पदं मित्रं स्नेहवन्तं दक्षसमुत्साहवन्तं निरतिशय प्रशस्त बलवन्तं वा गिरा गिरा तया तया स्तुतिरूपया वाचा प्रियं मित्रमिव प्रशंसिषं स्तौमि । दयानन्दस्तु - ' हे मनुष्याः, यथाहमग्नये गिरा गिरा दक्षसे यज्ञा यज्ञा वो युष्मान् प्रशंसिषम्, वयं जातवेदस-ममृतं प्रियं मित्रं न वो युष्मान् प्रशंसेम, तथा यूयमप्याचरत ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात्, मनुष्याणां प्रशंसनं किमर्थमित्यनुक्तेः । यज्ञे यज्ञे गिरा गिरा नहि मनुष्यस्य प्रशंसा भवति, तादृशविध्यदर्शनात्, ' अग्नये ' इति चतुर्थ्यन्तस्य सम्बन्धायोगाच्च । ' दक्षसे ' इत्यस्य न बलमर्थः, तस्य तद्वत्वबोधकत्वात् । न च मनुष्याणा-ममृतमित्यादीनि विशेषणानि सङ्गच्छन्ते, तेषां मरणादिधर्मकत्वात् ॥ ४२ ॥
पृष्ठ 263
पाठ पढ़ें पाठ छिपाएँ
२३० शुक्लयजुर्वेदसंहिता
पाहि नो॑ अग्न एक॑या वा॒युत द्वि॒तीय॑या ।
पाहि गोभिस्तिभिरूज पते पाहि च॑त॒सृभि॑र्वसो ॥ ४३ ॥
[ अ ० २७ मन्त्रार्थं - हे धनधान्य के स्वामी अग्निदेव, आप सबके आश्रय स्थान हैं । आप ॐकार का अथवा अद्वय श्रुतियों का उपदेश कर हमारी रक्षा करें, निर्गुण के साथ सगुण स्वरूप का रक्षा करें, ऋक्, यजु और सामरूप त्रयी वेदवाणी का उपदेश रक्षा करें ॥ ४३ ॥
प्रतिपादन करने वाली वेदवाणी का उपदेश कर हमारी कर हमारी रक्षा करें, चारों वेदों के मन्त्रों से हमारी गर्गदृष्टा । हे अग्ने, हे ऊर्जाम्पते अन्नानां बलानां रसानां वा पालक, हे वसो वासयितः! अथवा लुप्तमत्वर्थः । हे वसुमन् धनवन्, एकया ऋग्लक्षणया गिरा, गिरेति पदस्य पूर्वतोऽनुषङ्गः । स्तुतः सन्निति वाक्यशेषः । नोऽस्मान् पाहि रक्ष । उतापि च द्वितीयया यजुर्लक्षणया गिरा स्तुतः सन्नः पाहि । तिसृभिर्गीर्भि-ऋग्यजुः सामलक्षणाभिः स्तुतः सन्नः पाहि । चतसृभिर्ऋग्यजुः सामनिगदलक्षणाभिः स्तुतो नः पाहि । ऋगाद्यास्तिस्रो गद्यपद्यकाव्यादिरूपा चतुर्थी गीर्ज्ञेया, अथर्वाङ्गिरसां तु पद्यरूपत्वेन ऋक्ष्वेवान्तर्भावात् । ब्रह्मत्विक्सम्बन्धेन तु तस्य चतुर्थत्वेन परिगणनमिति । अध्यात्मपक्षे - हे अग्ने परमात्मन्, हे ऊर्जा बलानां रसानां वा पते, हे वसो, सर्वत्र वसति सर्वाणि वा वसन्त्यस्मिन्निति वसुः, तत्सम्बुद्धौ । त्वमेकया ऋग्लक्षणया अग्नेरद्वितीयया द्वाभ्यामृग्यजुर्लक्षणाभ्यां गीर्भ्यां तिसृभिः स्तुतः सन्नोऽस्मान् पाहि । चतसृभिर्ऋगाद्याभिर्गद्यपद्यादिलक्षणया चतुर्थ्या च गिरा स्तुतः सन् नः पाहि अविद्यातत्कार्यनिवर्तनेन स्वरूपसाक्षात्कारसम्पादनेन च पाहि । दयानन्दस्तु - ' हे वसो! सुवासप्रद हे अग्ने, त्वमेकया सुशिक्षया द्वितीयया अध्यापनक्रियया तिसृभिः कर्मोपासनज्ञापिकाभिः, हे ऊर्जाम्पते, चतसृभिर्धर्मार्थकाममोक्षज्ञापिकाभिः क्रियाभिर्नोऽस्मान् पाहि ' इति, तदपि यत्किञ्चित्, मनुष्यस्यात्पैश्वर्यस्य सतः सर्वसुवासप्रदत्वासम्भवात् । न च कश्विदेकस्तादृशो विद्वान् सम्भवति, यः सुवासप्रदोऽपि स्यात्, सर्वस्य बलानां रक्षकोऽपि स्यात्, सुशिक्षामध्यापनं च कुर्यात्, कर्मोपासन-ज्ञानधर्मार्थकाममोक्षज्ञापिकाभिः क्रियाभिश्व पालयेत् । न च स तादृशः केनचिन्नियोक्तव्यो भवेत्, सर्वतन्त्र-स्वतन्त्रत्वात् ॥ ४३ ॥
ऊ॒र्जो नपा॑त॒ स हिनाऽयम॑स्मा॒युर्दाशेम हव्यवा॑तये ।
भुव॒द्वाजेष्ववि॒ता भुव॑व॒ध उ॒त ऋ॒ता त॒नूना॑म् ॥ ४४ ॥
॥
मन्त्रार्थ - हे अध्वर्यु, तुम जलदेवता के पौत्र अग्निदेव को तृप्त करो । यह अग्निदेव हमें चाहते हैं, इस कारण हवि देने का हम संकल्प करते हैं और ये अग्निदेव हमारे घन - धान्य की रक्षा करते हैं, हमारी सब प्रकार की समृद्धि के निमित्त हमारे शरीर की भी रक्षा करते हैं ॥ ४४ ॥
यजमानोऽध्वर्युं प्रार्थयते । हे अध्वर्यो, ऊर्जा नपातमपां पौत्रम्, ऊर्जशब्देनात्रापो गृह्यन्ते, ताभ्योऽद्भय ओषधिवनस्पतयो जायन्ते, तेभ्यो वनस्पतिभ्योऽरणिरूपेभ्य एवाग्निर्जायत इत्यपां पौत्रोऽग्निर् ' अपांनपात् ' उच्यते । अग्नि स त्वं हिन हिनु तर्पय । ' हि गतौ वृद्धौ च ' स्वादिः, लोट्, उलोपश्छान्दसः । यतोऽयमग्निरस्मयु-रस्मा निच्छतीत्यस्मयुः, ' क्याच्छन्दसि ' ( पा ० सू ० ३।२।१७० ) इत्यु:, अतो हव्यदातये हविषो दानाय दाशेम
पृष्ठ 264
पाठ पढ़ें पाठ छिपाएँ
मं • ४४-४५ ] --2 २३१ वेदार्थपारिजातभाष्यसहिता ॥ इति सप्तविंशोऽध्यायः ॥ स्तुति करते हैं कि हे अग्निदेव, आप मन्त्रार्थ - ज्योतिष शास्त्र में उक्त बोगाध्यक्ष पंचसंवत्सर रूप प्रजापति आदि की आपके अवयव के रूप में कल्पित हैं । संवत्सर हैं, परिवत्सर हैं, इदावत्सर हैं, इद्वत्सर हैं और वत्सर हैं आपके । प्रातःकाल अवयव के रूप में कल्पित हैं । संवत्सररूपी काल दिन - रात्रि, पक्ष, चैत्र आदि मास, वसन्त आदि ऋतुएँ - ये सभी अपना संकोच विकास करते हैं । आप सुपर्णाकार भी आपका ही अवयव है । आप गति और आगति के लिये इच्छापूर्वक समान अचल होकर हमारे यज्ञ में विराजमान चैतन्य स्वरूप हैं । उस वाग्रूप देवता के साथ अंगिरा ऋषि के होइये ॥ ४५ ॥
अग्निदेवत्यं यजुः । अत्र यजुषि नवनवतिरक्षराणि । एको ' व्यूहः इति, ज्योतिःशास्त्रे ततः शताक्षराभिकृतिश्छन्दः यदुक्तं तदिहोच्यते ॥ चित्याग्नेरभिमर्शने विनियोगः । ' पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम् सूर्यात्मकोऽग्निरुक्तः, तद्गमनागमनै-हे अग्ने, त्वं संवत्सरोऽसि सर्वस्य सारितासि, न त्वामन्यः सारयति परिच्छेदकः । अत्र, न तस्यान्यः कश्चन परिच्छेदकः, रेव संवत्सरव्यवहारात् । कालात्मकत्वात् स एव सर्वस्य सारिता त्वं परिवत्सरोऽसि सर्वतः सारितासि । इदा-सर्वस्य कालपरिच्छिन्नत्वात् तस्य च कालातीतत्वात् । यच वाजेष्वन्नेषु विषयभूतेष्वविता गोप्ता भुवद् सङ्कल्पयामः, ‘ दाशृ दाने ' भ्वादि: । अत्र सङ्कल्पार्थे वृत्तिः वृधे । वृद्धौ यतोऽयं च भुवद् भवति । तनूनामिति बहुवचनं भार्या -भवति, उतापि तनूनां शरीराणां त्राता रक्षिता भवति, कामयते, अतो हविर्दानाय तं सङ्कल्पयामः । पुत्रादिशरीराणां ग्रहणार्थम् । अग्निरन्नतनुरक्षिता वर्धयिताऽस्मान् विषममन्त्रा व्याख्येया इत्युव्वटाचार्यः । एतेन यत एवमत ऊर्जा नपातं हिनु इति सम्बन्धः । एवमदूरविप्रकर्षेण दूरविप्रकर्षेण व्याख्यातारोऽपास्ता वेदितव्याः । , न पातयतीति नपातः, तम् । अध्यात्मपक्षे - ऊर्जा नपातम् ऊर्जः शक्तेर्बलरसस्या मधातोर्नपातम्, अकारणकरुणः करुणावरुणालयो परमेश्वरं हे साधक, हिन हिनु तर्पय । अयमस्मयुः, अस्मानिच्छतीत्यस्मयुः तस्मै हविषो दानाय दाशेम सङ्कल्पं कुर्याम, भगवान् वत्सला गौर्वत्समिव भक्तान् कामयते । अतो हव्यदातये , वृधे अस्माकं वर्धनाय च भवति, उतापि च त्राता यतोऽयं वाजेष्वन्नेषु विषयभूतेष्वविता गोप्ता भुवद् भवति भवति । तादृशाय परमोपकारिणेऽस्मान् कामयित्रे तनूनामस्मच्छरीरस्यास्मद्भार्यापुत्रादिशरीराणां च रक्षको परमात्मने हविर्दानाय सङ्कल्पयामः । हिन हिनु वर्धय, यतोऽयं भवान-दयानन्दस्तु - ' हे विद्यार्थिन्, स त्वमूर्जः पराक्रमस्य , ततस्त्वां नपातं हव्यदातये विद्याबोधनं वयं दाशेम ' इति, तदपि यत्किञ्चित्, स्मयुर्वाजेष्वविता भुवत्, उतापि तनूनां वृधे त्राता भुवत् ब्रह्मचर्यादीनां सत्त्वेन विद्याबोधग्रहणे विनिगमनाविरहात्, तादृशसम्बोधनस्य निर्मूलत्वात्, पराक्रमापातयितृणां कामयते तं दातव्यानां दानाय स्वीकुर्याति विद्याबोधवतामप्यदान्तानां पराक्रमनाशकत्वोपलब्धेः । योऽस्मान् ॥ रागसिद्धा प्रवृत्तिरिति धर्मब्रह्मपरे वेदे न तत्स्थानमर्हति ॥ ४४ कल्पन्ता-संवत्सरोऽसि परिवत्सरोऽसीदावत्स रोडसीद्वत्सरोऽसि वत्स॒रोऽसि । उ॒षस॑स्ते॒ संवत्स॒रस्ते॑ महोरा॒त्रास्ते॑ कल्पन्तामर्धमा॒सास्ते॑ कल्पन्तां मासस्ते कल्पन्तामृ॒तव॑स्ते॒ कल्पन्ताधु॑ दे॒वत॑याऽङ्गिर॒स्वद् कल्पतात् । प्र॑त्या॒ ए॒त्यै॒ सञ्चाञ्च॒ प्र॑ च सारय । सुप॒र्ण॒विद॑सि तया॑ ध्रुवः सौद ॥ ४५ ॥
पृष्ठ 265
पाठ पढ़ें पाठ छिपाएँ
२३२ शुक्लयजुर्वेदसंहिता | अ ० २७ वत्सरोऽसि इदानीं सारितासि । इदा इदानीमिति समानार्थी ( निघ ० ३।२८।५ - ६ ) । इद्वत्सरोऽसि । इदिति निपातः, स च पादपूरणार्थः । तथा च दुर्गाचार्यः - ' क्रियावाचकमाख्यातमुपसर्गो विशेषवत् । सत्त्वाभिधाय कं नाम निपातः पादपूरणः ॥ ' इति । यश्च वत्सरोऽसि निर्विशेषेण वत्सररूपोऽसि । एवं पञ्चवत्सरात्मकयुगरूपोऽ-सीत्यर्थः, ' युगं भवेद् वत्सरपञ्चकेन ' इति ज्यौतिषशास्त्रोक्तेः । तादृशस्य ते उषसः प्रातः सङ्गव - मध्याह्लादयः कालविशेषा अहोरात्रा अर्धमासाः पक्षा मासा चैत्रादय ऋतवो वसन्तादयः कल्पन्तामवयवत्वेन क्लृप्ता भवन्तु । संवत्सरस्ते कल्पतां संवत्सरोपलक्षिताः पञ्चापि वत्सरा अवयवत्वेन क्लृप्ता भवन्तु । कल्पन्तामिति क्रियावृत्ति-रादरार्थी । किञ्च प्रेत्यै प्रगमनाय एत्यै आगमनाय सञ्चाच प्रसारय, स्वेच्छया सङ्कोचविकासधर्मा भव । यद्वा समञ्च संकुच प्रसारय च । किच, सुपर्णाकारेण चयने चितत्वात् सुपर्णचिदसि तया देवतया वाचा सहितः सन् अङ्गिरस्वद् अङ्गिरस इव प्राणा इव ध्रुवः स्थिरः सीद अवस्थानं कुरु । अध्यात्मपक्षे - हे अग्ने परमेश्वर, त्वमेव संवत्सरोऽसि, परिवत्सरोऽसि, इदावत्सरोऽसि इद्वत्सरोऽसि, वत्सरोऽसि । सर्वात्मकत्वाद् देशकालवस्तूनि त्वय्येव कल्पितानि । तानि त्वदन्तर्गतानि, न त्वं तैः परिच्छिद्यसे । उषसः प्रातःकालादयस्ते तवावयवत्वेन कल्पन्ताम् । अर्धमासा मासाश्च तेऽवयवत्वेन कल्पन्ताम् । संवत्सरस्तेऽवय-वत्वेन कल्पताम् । उपलक्षणमेतत् पञ्चविधानामपि । पञ्चापि तेऽवयवत्वेन कल्पन्ताम् । प्रेत्यै प्रगमनाय, एत्ये आगमनाय सञ्चाञ्च प्र च सारय स्वेच्छया सङ्कोचविकासधर्मा भव । प्राणिनां कर्मानुसारेण तत्तद्धर्मवत्त्वेना-विर्भावतयेति यावत् । हे अग्ने, त्वं सुपर्णचिदसि, सुपर्णाकारेण चयने चितत्वात् । तया देवतया वाचा सहितः सन् अङ्गिरस्वतोऽङ्गिरसः प्राणा इव ध्रुवः सन् सीद । दयानन्दस्तु - ' हे विद्वन् जिज्ञासो वा यतस्त्वं संवत्सरोऽसि, परिवत्सरोऽसि, इदावत्सरोऽसि, इद्वत्सरोऽसि, वत्सरोऽसि, तस्मात्ते कल्याणकर्यं उषसः कल्पन्ताम्, मङ्गलप्रदा अहोरात्रा अर्धमासाः कल्पन्ताम्, ते मासास्ते ऋतवः कल्पन्ताम्, ते संवत्सराः कल्पन्ताम् त्वं च प्रेत्यं समञ्च त्वमेत्यै स्वप्रभावं प्रसारय च यतस्त्वं सुपर्णचिदसि तस्मात्तया देवतया सहाङ्गिरस्वद् ध्रुवः सीद ' इति, तदपि यत्किञ्चित् विदुषः संवत्सरादित्वा-योगात् । संवत्सर इव नियमेन वर्तमानत्वात् संवत्सर इति चेत्, अश्वादिवद् गन्तृत्व - भोक्तृत्वादिना अश्वत्वा-द्यापत्तेः । वर्जितव्यो वत्सरे इव दुष्टाचारत्यागित्वात् परिवत्सर इत्यपि निरर्थकम्, संवत्सरे त्यागग्रहणायोगेन दुष्टाचारत्यागेन परिवत्सरत्वायोगात् । न च निश्चयेन समन्ताद् वर्तमानत्वं सम्भवति, परिच्छिन्नत्वात्, वर्णा इवेत्यत्र तद्धर्मानुक्तेः । ' उषसः प्रभाता मङ्गलप्रदाः ' इत्यपि निर्मूलम्, मन्त्रे तादृशशब्दाभावात् । ' यः शोभनानि पर्णानि पालनानि चिनोति सोऽसि ' इति, तदपि यत्किञ्चित् चयनादियागवृत्तान्तानभिज्ञानमूलकत्वात् । ' य आप्ता व्यथं कालं न नयन्ति, सुनियमेन वर्तमानाः कर्तव्यानि कुर्वन्ति, त्यक्तव्यानि त्यजन्ति तेषां सुप्रभाता अहोरात्रादयः ' इति, तदपि फल्गु, वेदाक्षरबाह्यत्वात् । त्वं च प्रेत्यै एत्यै स्वप्रभावे विस्तारयेत्यादिकमपि निर्मूलम्, वेदाक्षरबाह्यत्वात् ॥ ४५ ॥
इति श्रीशुक्लयजुर्वेद माध्यन्दिन संहितायां वेदार्थपारिजातभाष्यमण्डितायां सप्तविंशोऽध्यायः ॥
पृष्ठ 266
पाठ पढ़ें पाठ छिपाएँ
अष्टाविंशोऽध्यायः होता॑ यक्षत्स॒मिधेन्द्र॑मि॒डस्प॒दे नाभा॑ पृथि॒व्या अधि॑ । दि॒वो वर्ष्मन् समि॑द्ध्यत ओजिंश्चर्षणीसहां वेत्वाज्य॑स्य॒ होत॒र्य॑ज॑ ॥ १ ॥
मन्त्रार्थ - दिव्य होता ने समिधा के द्वारा इन्द्र का यजन किया । यह इन्द्र तीन स्थानों में प्रदीप्त होता है । पृथ्वी के यजनीय देश में अग्निरूपी आत्मा से पृथ्वी की नाभि अन्तरिक्ष में विद्युत् रूपी आत्मा से और तीसरे ऊपर स्वर्ग के श्रेष्ठ स्थान में आदित्य रूप से यह प्रदीप्त होता है । मनुष्य का अभिभव करने वालों में अतितेजस्वी इन्द्र घृत का पान करें । हे मनुष्य होता, तुम भी यजन करो ॥ १ ॥
' इन्द्रमिड ः सौत्रामणिकोऽध्याय: ' ( सर्वानुक्रमे तृतीये ) इति कात्यायनोक्त्याऽयमध्यायः सौत्रामणियाग-सम्बन्धी सौत्रामण्य ङ्गभुतयोरैन्द्रवायोधसयोराद्यन्तपश्वोः प्रयाजानुयाजप्रेषरूपः । आप्रीदेवतास्तु इन्द्रस्यैव विभूतय इति । ततश्च प्रजापत्यश्विसरस्वत्योऽध्यायस्य ऋषयः । आद्येऽनुवाके एकादश ऐन्द्रपशोः सम्बन्धिन आप्रीदेवता: । समित्तनूनपादित्यादिदेवताकाः प्रयाजानां प्रैषाः ' होता यक्षत्समिवेन्द्रम् ' इत्यादयो ' होता यक्षदिन्द्रम् ' इत्यन्ताः । अथ मन्त्रार्थ: - आर्षी त्रिष्टुप् । दैव्यो होता । समिधा समित्काष्ठेन हविर्भूतेन । अथवा समिधाप्री-देवतया सहितमिन्द्रं होता यक्षद् यजतु । कोऽसाविन्द्र इत्यत आह - य इन्द्रस्त्रिषु पृथिव्या स्थानेषु अन्तरिक्षस्य समिध्यते सम्यग् दीप्यते । प्रथमम् इडः पृथिव्याः पदे यजनीयप्रदेशे अग्न्यात्मना समिध्यते, द्वितीयं प्रदेशे नाभौ मध्ये अधि उपरि विद्युदात्मना समिध्यते, तृतीयं दिवः स्वर्गस्य वर्ष्मन् वर्ष्मणि वर्षिष्ठे आदित्यात्मना समिध्यते । कथम्भूत इन्द्रः? चर्षणी सहामोजिष्ठः, ' चर्षणयो मनुष्याः ' ( निघ ० २१३३८ ), तान् सहन्तेऽभिभवन्तीति चर्षणीसहो देवाः, तेषां मध्ये ओजिष्ठोऽतिशयेन ओजस्वीत्योजिष्ठः, ' विन्मतोर्लुक् ' ( पा ० सू ० ५३३६५ ) इति विनो लुकि, ' टे: ' ( पा ० सू ० ६ । ४ । १५५ ) इति टिलोपे रूपम् । संहितायां चर्षणिशब्दस्य ' नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ' ( पा ० सू ० ६ | ३ | ११६ ) इति दीर्घः । स च इज्यमान इन्द्रो वेतु स्वामाज्यस्य पिबतु । हे मनुष्य होतस्तं यज । अध्यात्मपक्षे - देवानां सम्बन्धी होता इन्द्रं परमात्मानं समिधा यक्षद् यजतु । स एव लीलया इड: पृथिव्याः पदे यजनीय प्रदेशे अग्न्यात्मना समिद्धयते । पृथिव्या अन्तरिक्षस्य नाभौ मध्ये अधि उपरि विद्युदात्मना समिद्धयते । स एव दिवः स्वर्गस्य वर्ष्मन् वर्ष्माणि वर्षिष्ठे प्रदेशे आदित्यात्मना समिद्धयते । यश्च तत्र चर्षणीसहा- दीप्यते, मोजष्ठः, स आज्यस्य स्वांशं वेतु । हे मनुष्य होतस्त्वमपि तं यज । परमेश्वर एव लीलया तत्र इज्यते च । दयानन्दस्तु - ' हे होतस्त्वं यथा होता आदाता ज्ञानप्रकाशेन संमिधास्पदे वाण्याः पदे प्राप्तव्ये मध्ये समिध्यत पृथिव्या भूमेर्नाभौ दिवोऽधि वर्ष्मन्निन्द्र वर्षके मेटे विद्युदाख्यर्माग्नि यक्षत् तेनौजिष्ठ: सन् चर्षणीसहां सर्वत्रैव वाण्या आज्यस्य वेतु, तथा यज ' इति, तदपि यत्किञ्चित्, योद्धृकर्तृकघृतादिपानस्य लोकसिद्धत्वात् ज्ञानपूर्वकत्वेन तत्राप्यवैशेष्यात् । पृथिव्या मध्ये प्रकाशस्य उपरि वर्षके मेघमण्डले इन्द्रविद्युदाख्यमग्नि सङ्गमयेत्यपि यत्किञ्चित्, मेघमण्डले विद्युतः सङ्गतेः स्वतः सिद्धत्वेन नियोगानर्हत्वात् । वर्ष्मन्नित्यस्य मेघमण्डलार्थतापि चिन्त्यैव, होतुरपि चर्षणित्वेन तस्य चर्षणीसहामोजिष्ठत्वायोगात् ॥ १ ॥
३०
पृष्ठ 267
पाठ पढ़ें पाठ छिपाएँ
२३४ होता॑ शुक्लयजुर्वेद संहिता [ अ ० २८ प॒थिभि॒र्म॑ध॒मत्तम्-च॒त्तनूनपा॑तम॒तिभि॒जेता॑र॒मप॑राजितम् । इन्द्र॑ दे॒वधि॑ स्व॒विदे॑ S नराश सेन तेजसा वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ २ ॥
सहित तनूनपात् को तथा शत्रुओं को जीतने वाले, देव इन्द्र को तृप्त करने वाली रक्षा और यजमान को द्वारा यजन करें । इस प्रकार दो देवताओं से युक्त इन्द्र घृत का पान करें । मन्त्रार्थ - दैवी होता तेजस्वी मनुष्यों से प्रशंसनीय देव के किसी से न हारने वाले, स्वयं अपने को और स्वर्ग को जानने वाले स्वर्गं में ले जाने वाली अतिमधुर हवियों के हे मनुष्य होता, तुम भी यजन करो ॥ २ ॥
-- पथिभिः, अतिजगती । नराशंसेन देवेन युतमिन्द्रं देवं च दैव्यो होता यक्षद् यजतु । कथम्भूतैः । केन यजतु ?? मधुमत्तमैः तत्राह, अतिशयं पतन्ति द्रुतं गच्छन्ति स्वर्गं लोकं प्रति यजमाना यैस्ते पन्थानो कथम्भूतैः हवींषि तैः? ऊतिभिः, अवन्ति तर्पयन्तीत्यूतयः, मधुमन्त इति मधुमत्तमाः, अतिशयेन रसयुक्तास्तैः । पुनः बाहुलकात् कर्तरि निपातः तैः । कीदृशमिन्द्रम्? ' ऊतियूतिजू तिसातिहेतिकीर्तयश्र्व ' ( पा ० सू ० ३ | ३ | ९ ७ ) इति वा । स हि मरीचेः पौत्रः । पुनः कथम्भूतम्? तनूनपातम् । इदं विशेषणम् आत्रीदेवताभिप्रायमिन्द्राभिप्रायं केनाप्यपराभूतम् देवं दानादिगुणयुक्तम् जेतारम्, शत्रूणामयज्वनां पराभवितारम् । तथा स्वयमपराजितं तम् । यद्वा स्वः स्वर्गे विद्यत इति स्ववित् स्वविदं स्वः स्वर्गं वेत्ति स्वामित्वेन स्वीयं जानातीति स्ववित् नराशंसेन नरा आशंस्यन्ते देवरूपेण यत्र स नराशंसो तम् । ' विद् सत्तायाम् ' । पुनः कथंभूतम्? तेजसा तेजस्विना पठिता इत्युभयवानयं प्रयाजः । स चेज्यमान इन्द्र यज्ञः, तेन । अत्र तनूनपान्नराशंसावेकस्मिन् प्रयाजे आज्यस्य स्वमंशं वेतु पिबतु । , तमिन्द्रमैश्वर्यवन्तं परमेश्वरं अध्यात्मपक्षे - दैव्यो होता तनूनपातं भक्तानां तनूनं । पातयतीति मधुमत्तमैरत्यन्तमधुरैः तनूनपात् पथिभिर्हविर्भिर्यक्षद् यजतु । देवं दानादिगुणयुक्तम् । स्वर्गे सुखरूपे स्वरूपे विद्यते तेजसा यस्तम् ज्ञानलक्षणेन स्वरूपेण सहितम् । स चेज्यमानो देव कथम्भूतमिन्द्रम्? नराशंसेन सर्वजनप्रशंसितेन आज्यस्य आज्यं वेतु पिबतु । पथिभिस्तनूनपातं जेतारमपराजितं स्वविदं दयानन्दस्तु - ' हे होतर्भवान् यथा होता ऊतिभिर्मधुमत्तमैः ' इति, तदपि यत्किश्चित् होता सुखदाता ऊतिभी देवमिन्द्रं यक्षन्नराशंसेन तेजसाज्यस्य वेतु तथा यज, शरीराणां रक्षकं जेतारमपराजितं सुखप्रापकं देवं रक्षायुक्तैर्मधुमत्तमैर्मधुरजलयुक्तः पथिभिर्मार्गेरित्यस्यार्थस्य नराशंसेन तेजसा आज्यं ज्ञातुं योग्यं विषयं वेतु विद्याविनयशोभितं परमैश्वर्यवन्तं राजानं सङ्गच्छेत, तथा, त्रयाणामसङ्गतेः । होता यथा राजानं संगच्छेत्, तथा प्राप्नोतु त्वं सङ्गच्छस्वेत्यस्यासङ्गतेरित्यस्य च निरर्थकत्वात् किं केन श्लिष्यत इत्यनवगमात् यजेत्यस्य कश्चिद् ज्ञातुं योग्यं विषयं प्राप्नोतु, त्वं च यज संगच्छेति किं कर्मेत्यनुक्तेश्च ॥ २ ॥
होता॑ क्ष॒विवा॑भि॒रिन्द्र॑मोड॒तम॒जुह्वा॑न॒मम॑र्त्यम् । दे॒वो दे॒वैः सर्वा॑यो॒ वज्र॑हस्तः पुरन्द॒रो वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३ ॥
आहूयमान मरणधर्मरहित इन्द्र का मन्त्रार्थ — दैवी होता प्रयाज देवताओं के साथ वेद मन्त्रों से स्तुत, यजमानों से यजन पान करें । हे मनुष्य होता, तुम भी यजन करे । देवताओं के समान धर्म वाले व ज्रधारी पुरन्दरदेव घृत का करो || ३ ||
पृष्ठ 268
पाठ पढ़ें पाठ छिपाएँ
म ० ३०४ ] वेदार्थपारिजात भाष्यसहिता २३५ , ऋत्विग्भिः ब्राह्मी उष्णिक् । होता इडाभि: प्रयाजदेवताभिः सह इन्द्रं यजतु । अमर्त्यममरणधर्माणम् कीदृशमिन्द्रम्? ईडितम् । स चेज्यमानो स्तम्, आजुह्वानम् यजमानैराहूयमानम्, यजमानैर्देवान् आह्वयन्तं सवीर्यः वा,, सर्वदेवेषु यादृशं वीयं तदेकस्मिन्निन्द्र देवो द्युस्थान इन्द्रो देवैर्द्युस्थानैः सवीर्यः समानं वीर्यं यस्य स आज्यस्य स्वमंशं पिबतु, त्वमपि इत्यर्थः । वज्रहस्तो वज्रं हस्ते यस्य सः । पुरन्दरः पुरां दारयिता । वेतु हे मनुष्य, होतयंज | । अध्यात्मपक्षे - होता इन्द्रं परमात्मानं यक्षद् यजतु । कीदृशम्? ईडितम्, वेदैर्ऋषिभिर्भक्तैश्च देवानामपि देवः संस्तुतम् , ' एको आजुह्वानं आर्तेरर्थार्थभिजिज्ञासुभिर्ज्ञानिभिर्यजमानैराहूयमानः " स चेज्यमानो समानवीय देवो वज्रहस्तो वज्रादप्युग्र-देवः सर्वभूतेषु गूढः ' ( वे ० ६।११ ) इति श्रुतेः । देवैर्द्युस्थानैः सवीर्यः, कर्मणि षष्ठी, घृतगन्धि प्रेमपरिप्लुत-चक्रहस्तः । पुरन्दरो रावणादिशत्रुपुराणां दारयिता आज्यस्य आज्यम् प्रयच्छति । तदहं भक्त्युपहृत-भक्तसमर्पितपत्रपुष्पफलजलादिकं बेतु पिबतु । ' पत्रं पुष्पं फलं तोयं यो मे भक्त्या मश्नामि प्रयतात्मनः ॥ ' ( भ ० गी ० ९ ।२६ ) इति गीतोक्तेः । दयानन्दस्तु – ' हे होतस्त्वं यथा होतेडाभिरमर्त्य माजुह्वानभीडितमिन्द्रं यक्षत्,, तदपि यथायं यत्किञ्चित् वज्रहस्तः होत्रादि- पुरन्दरः सवीर्यो देवो देवैः सहाज्यस्य विज्ञानेन रक्षितुं योग्यस्यावयवान् वेतु यज ' इति । राज - राजपुरुष-शब्दानामर्थविशेषे प्रसिद्धत्वात् त्वदुक्तेऽर्थे तेषामसङ्गतेः । त्रयाणां पुरुषाणामप्यसङ्गतिरेव । तत्प्रसङ्गेनैव व्यवहारादिकं साधारण व्यवहारवर्णनमपि निरर्थकमेव, वेदस्य धर्मब्रह्मणोरेव तात्पर्यात् वर्णयितुं योग्यमेव ॥ ३ ॥
होता॑ यक्षहिषीन्द्रे निषहरं वृ॑ष॒भं नर्या॑सम् । वसु॑भी रु॒द्रैरा॑दि॒त्यैः स॒युग्भिब॒हिरास॑द॒द् वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ४ ॥
कुशा के आसन पर मन्त्रार्थ - देवी होता ने बैठने वालों में श्रेष्ठ, वर्षंणकारी, यजमानों के हितकारी बैठ कर ये इन्द्र घृत की का पान करें । हे मनुष्य पूजा की है, समान योग वाले वसु, रुद्र और आदित्यों के साथ कुशा के आसन पर होता, तुम भी इसी अभिप्राय से यजन करो ॥ ४ ॥
यज्ञ-आर्षी त्रिष्टुप् । बर्हिषि प्रयाजदेवतायां स्थितमिन्द्रं दैव्यो होता यक्षद् यजतु निषद । प्रयाजदेवता उपदेष्टारः बह्रित्र तेषां वरं साधनमेव । कथम्भूतमिन्द्रम्? निषद्वरम् अनिराकुर्वतां वरमुत्कृष्टम् । निषीदन्तीति कर्म यस्यासौ नर्यापस्तम् । ' अप श्रेष्ठं वृषभं वर्षितारम्, नर्यापसं नरेभ्यो यजमानेभ्यो हितं नर्यम्, नर्यमपः कर्माख्यायां ह्रस्वो नुट् च वा ' इति कर्मनामसु ' ( निघ ० २ ( १११ ), आप्नोति कर्तारं फलरूपेणेत्यपः वसुभी । ' आपः रुरादित्यैश्च सवनत्रयदेवैः सहितो ( उ ० ४।२० ९ ) इत्यसुनि हस्वे तुडभावे च रूपम् । स तादृश इन्द्रो? सयुग्भिः " सह युञ्जन्ति ये ते बहिरासदत् आसीदतु, आज्यस्व स्वमंशं वेतु पिबतु च । कीदृशैर्वस्वादिभिः सयुजस्तैः समानयोजनैः । हे मनुष्यहोतः त्वमपि तं यज । ? अध्यात्मपक्षे – दैव्यो होता बर्हिषि प्रयोजदेवतायां स्थितमिन्द्रं परमात्मानं यक्षद् यजतु । कीदृशम् कः, निषद्वरं बर्हिषि निषीदतां सर्वेषां देवानां वरं श्रेष्ठं देवम्, देवत्वाद् वृषभम्, वर्षतीति वृषः, इगुपधलक्षणः , तं तादृश इन्द्रः वृषो धर्मः, स भाति येनासौ वृषभस्तमभीष्टवषितारं वा । नर्यापसं जीवानां हितकर्मकारिणम् तं यज । समानयोगैर्वस्वादिभिर्देवैः सहितो बहिरासदद् आसीदतु, आज्यं वेतु । होतस्त्वमपि
पृष्ठ 269
पाठ पढ़ें पाठ छिपाएँ
२३६ शुक्लयजुर्वेदसंहिता [ अ ० २८ दयानन्दस्तु - - ' हे होतः, होता यथा सयुग्भिर्वसुभी रुद्रैरादित्यैः सह बर्हिषि उत्तमायां विद्वत्सभायां निषद्वरं निषीदन्ति वराः श्रेष्ठा यस्य सविधे तं वृषभं नर्यापसंः नृषु साधून्यपांसि यस्य तमिन्द्रं नीत्या शोभमानं यक्षद् आज्यस्य बहिरासदत् सुखं बेतु तथा यज ' इति, तदपि यत्किञ्चित् असम्बद्धार्थप्रतिपादनात् । तथाहि--बर्हिः पदस्य विद्वत्सभा, आज्यपदस्य कर्तुं योग्यो न्यायः, होतृपदस्य सुखेप्सुरित्यादयोऽर्थास्तथाविधा एव । निषीदन्ति नरा यस्य सविधे स निषद्वर इत्यपि चिन्त्यम्, गौरवावहत्वादपर्यवसानाच्च । एवमेव वस्वादिपदाना-मप्यर्थाः काल्पनिका निर्मूला एव ॥ ४ ॥
होता॑ यक्षि॒दोजो न वोर्युं स द्वार॒ इन्द्र॑मवर्धयन् । सु॒प्राय॒णा अ॒स्मिन् य॒ज्ञे विष॑यन्ता-मृतावृधो द्वार इन्द्राय मढषे॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ५ ॥
मन्त्रार्थ - देवी होता ने इन्द्र का यजन किया है । द्वारदेवता ने इन्द्रिय के, शरीर के और मन के बल को बढ़ाया में है । सुख से जाने योग्य, यज्ञ के कारण खुले हुए द्वार अमृत का सिंचन करने वाले इन्द्र के निमित्त खुल जाँय । इस यज्ञ इन्द्र घृत का पान करे । हे मनुष्य होता, तुम भी इसी अभिप्राय से यजन करो ॥ ५ ॥
अतिजगती । नकारः समुच्चयार्थकः । दैव्यो होता ता द्वारः प्रयाजदेवता यक्षद् यजतु या इन्द्रं इन्द्रे, सप्तम्यर्थे द्वितीया, ओज इन्द्रियबलम्, वीर्यं शारीरं बलम्, सहो मनोबलम्, समुच्चितानीन्द्रियशरीरमनोबलानि , मेहतीति, अवर्धयन् वर्धयन्ति । ताश्च द्वार इन्द्राय इन्द्रार्थं विश्रयन्तां विवृता भवन्तु । कथम्भूतायेन्द्राय? कीदृश्यो मीदुषे द्वारः? मीढ्वान्, ' दाश्वान्साह्वानमीढ्वांश्च ' ( पा ० सू ० ६ | १ | १२ ) इति क्वसन्तो निपातः, तस्मै ऋतं सेक्त्रे यज्ञं । वर्धयन्तीति ऋता-सुप्रायणाः, सु सुखेन अनायासेन प्रकृष्टमयनं गमनं यासु ताः, विवृतत्वादिति यावत् । यज्ञे आज्यस्य स्वं वृधः, ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति दीर्घः । ताश्च द्वारदेवता अस्मिन् स्वमंशं व्यन्तु पिबन्तु । हे मनुष्य होतः त्वमपि ता यज । प्रयाजदेवता यक्षद् यजतु या इन्द्रं इन्द्रे जीवे ओजश्च वीर्यं च देवाभीष्टहविषां वर्षित्रे इन्द्राय कर्मोपासनानिष्ठाय जीवाय विश्रयन्तां ? सुप्रायणा ऋतावृधः । अस्मिन् यज्ञे ता द्वारः प्रयाजदेवता आज्यस्य अध्यात्मपक्षे - दैव्यो होता ता द्वारः सहश्चावर्धयन् वर्धयन्ति । ताश्व द्वारो मीढुषे विश्रिता विवृता भवन्तु । कीदृश्यो द्वारः व्यन्तु । हे मनुष्यहोतः, त्वमपि ता यज । ता ऋतावृधो दयानन्दस्तु - ' हे होतः, यथा याः सुप्रायणा द्वार ओजो न च वीर्यं सह इन्द्रं चावर्धयन् तया यज ' इति, तदपि द्वारो मीढुष इन्द्रस्य अस्मिन् यज्ञे विद्वांसो विश्रयन्ताम् आज्यस्य व्यन्तु । होता च यक्षत् । यत्किञ्चित् राजाश्रयणस्य रागप्राप्तत्वेन वेदे तद्विधानायोगात् पदानां तेषु तेषु त्वदुक्तार्थेष्वसंङ्गतेश्च जलवेगार्थस्य द्वारपदस्य विद्याविनयद्वारा अर्थ इत्यपि चिन्त्यम्, निघण्टुरीत्या ओज इत्युदकनामप्रसिद्ध्यापि यत्किञ्चित् वीर्ये सहने कल्पितत्वात् । ' द्वारो जलवेगः समानं वीर्यं बलं सहनमिन्द्रमैश्वर्यं च वर्धयन्ति ' इत्यपि । ' मीढुषे स्निग्धवीर्यवते ऐश्वर्ये च जलवेगतुल्यतानुपपत्तेः । न चेन्द्रपदस्य ऐश्वर्यमर्थः, तस्य ऐश्वर्यवच्चेतनपरत्वात् सङ्गतियोग्यः संसारोऽर्थं इन्द्राय राज्ञे ' इत्यपि निर्मूलम्, मीढ्वस्पदस्य तादृशार्थत्वे मानाभावात् । यज्ञपदस्य
इत्यपि चिन्त्यम् । एवमन्येऽपि दोषा ज्ञातव्याः ॥ ५ ॥
होता॑ यक्षदुषे इन्द्र॑स्य॒ धेनू सुदुधे मातरो मही । सवातरौ न 2: तेज॑सा व॒त्समिन्द्र॑मवर्धतां वीतामाज्य॑स्य॒ होत॒र्यजः ॥ ६ ॥;
पृष्ठ 270
पाठ पढ़ें पाठ छिपाएँ
म ० ६-७ ] वेदार्थ पारिजातभाष्यसहिता २३७ मन्त्रार्थ - दिव्य होता ने इन्द्र की मातास्वरूप सुन्दर दूध देने वाली दो गायों का रूप धारण करने वाली रात्रि और उषा का यजन किया है, इन्होंने इन्द्र तेज को बढ़ाया है । जैसे एक ही बछड़े वाली दो गायें बछड़े को पुष्ट करती हैं, उसी प्रकार हे इन्द्र, तुम पुष्टि के लिये घृत का धान करो । मनुष्य होता भी इसी अभिप्राय से यजन करे ॥ ६ ॥
आर्षी त्रिष्टुप् । दैव्यो होता उष, अत्र पूर्वपदलोपश्छान्दसः, नक्तोषे इत्यर्थः, नक्तोषाधिष्ठात्र्यौ देवते यजतु । ते च नक्तोषे देवते तेजसा इन्द्रमवर्धतां वर्धयताम्, आज्यस्य आज्यं वीतां पिबतां च । कीदृश्यों उषे? तत्राह – इन्द्रस्य धेनू धिनुतो ये ते धेनू प्रीणयित्र्यो । सुदुधे सुष्ठु दुग्धो ये ते सुदुघे सुष्ठु दोहने सुष्ठु दुग्धे पूरयित्र्यौ वा, मातरा मातरौ मातृवत् पालयित्र्यौ, विभक्तेराकारः, मही मह्यौ महत्यौ, विभक्तिलोपः । कथमिव ते इन्द्रं वर्धयताम्? तत्र दृष्टान्तः - सवातरौ न, नकार उपमार्थीयः, वातृशब्दो वत्सवचनः समानो वातावत्सो ययोस्ते, एक शिशुके गावौ यथा वत्सं वर्धयेते, तद्वन्नक्तोषे तेजसा इन्द्रं वर्धयतामित्यर्थः । हे मनुष्य होतः, त्वमपि ते यज । • अध्यात्मपक्षे – इन्द्रं भगवत्परायणं साधकं जीवं नक्तोषे रात्र्यहनी तेजसा अवर्धतां वर्धयताम्, ते इन्द्रस्य धेनू प्रीणयित्र्यौ । शेषं पूर्ववद् व्याख्येयम् । 7 दयानन्दस्तु– हे होतः, त्वं यथेन्द्रस्य विद्युतः सुदुघे मातरा मही धेनू सवातरौ वायुना सह वर्तमानी प्रतापयुक्त भौतिकसूर्याग्न्योस्तेजसा इन्द्रं परमैश्वयं वत्सं वीतां प्राप्नुताम् । होताज्यस्य प्रक्षेप्तं योग्यस्य यक्षद् वर्धताम्, तथा यज ' इति, तदपि यत्किञ्चित्, ' उपे ' इति पदेन प्रतापयुक्तयोभौतिकसूर्याग्न्योर्ग्रहणे मानाभावात्, उषापदस्य उपसोऽनन्तरभाविनः सूर्यस्य ततस्तद्गत प्रतापस्य ततस्तद्वतोभौतिक सूर्याग्न्योर्ग्रहणे विप्रकृष्टलक्षणापत्तेः, तयोश्च विद्युतः पोषकत्वमपि चिन्त्यमेव ॥ ६ ॥
होता॑ यक्षद्देव्या होता॑रा भि॒षजा॒ सखा॑या ह॒विषेन्द्रै भिज्यतः । क॒वी दे॒व प्रचे॑तसा-विन्द्राय धत्त इन्द्रियं वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥ ७ ॥
दिव्य होता ने वैद्य, मित्र, दीप्तिमान् क्रान्तिदर्शी परमज्ञानी देवताओं के दोनों होताओं का यजन किया है । इन्द्र की चिकित्सा करते हुए इन्द्र को बलवान् बनाते हुए ये दोनों दैवी होता घृत का पान करें । हे मनुष्य होता, तुम भी इसी अभिप्राय से यजन करो ॥ ७ ॥
अतिजगती । दैव्यो होता दैव्यौ होतारो, अयं चाग्निरसौ च मध्यमस्थानो वायुः, तौ यजतु यौ च हविषा इन्द्रं भिषैज्यतश्चिकित्सतः, ' भिषज् चिकित्सायाम् ' कण्ड्वादिभ्यो यक्, तस्माच्छ्तरि रूपम् । इन्द्राय इन्द्रे इन्द्रियं वीर्यं धत्तः स्थापर्यंतः । तौ च आज्ये वीतां पिवताम् । कीदृशौ तौ? भिषजा भिषजौ चिकित्साकुशलो, संखाया सखायौ परस्परं स्नेहवन्तौ समानख्यानौ वा दुवी क्रान्तदर्शनौ देवौ द्युस्थानौ दीप्यमानौ वा प्रचेतसौ प्रकृष्ट चेतो ज्ञानं ययोस्ती प्रकृष्टज्ञानवन्तौ । हे मनुष्य होतः स्वमपि तौ यज । ति अध्यात्मपक्षे - दैव्यो होता शास्त्राचार्यरूपी दैव्यौ होतारौ यजतु । यौ च इन्द्रं भवरोगपीडितं जीव हविषा भिषज्यतः, धर्मब्रह्मात्मतत्वोपदेशेन चिकित्सतः । कीदृशौ तौ भिषजौ? भवरोगवैद्यौ, सखायौ परस्परं स्नेहवन्तौ, कवी अतीतानागतवर्तमानदर्शनी सर्वज्ञकल्पौ देवौ दिव्य दिव्यात्मभावप्रापकी प्रकृष्टं ब्रह्मात्मविषयं चेतसा साक्षात्कारात्मकं ज्ञानं याभ्यां तो, यो च इन्द्राय साधकाय जीवाय, तस्मिन् जीव इत्यर्थः " इन्द्रियं वीर्यं धत्तः स्थापयतः, तौ चेज्यमानौ वीतां पिबताम् आज्यं घृतगन्धिस्नेहं स्वीकुरुताम् । हे होतः, साधक! त्वमपि तौ यज ।