वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 271–280
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 271–280
पृष्ठ 271
पाठ पढ़ें पाठ छिपाएँ
२३८ शुक्लयजुर्वेदसंहिता [ अ ० २८ साधू होतारा रोगमपसार्य दयानन्दस्तु - ' हे होतः सुखप्रदातः त्वं यथाज्यस्य यक्षद्देव्यो विद्वत्सु हविषेन्द्र भिषज्यतः, इन्द्राय इन्द्रियं धत्तः, आयुर्वीताम्, सुखदातारी सखाया कवी प्रचेतसौ देवौ भिषजौ । एवमेव होतृपदस्य युक्ता-तथा यज ' इति, तदपि यत्किञ्चित्, आयुरादिमन्त्रबाह्य पदाध्याहारादिदोषत्, होतारौ रोगं निवर्त्य सुखस्य हारविहारतद्वैद्यो ऽर्थं इत्यपि स्वातन्त्र्यमेव । आज्यं ज्ञातुं योग्यं निदानं सङ्गमय निर्मूलमेव, तथात्वे शब्दक्षेत्रेऽराजकता-प्रदातारौ हविषा यथायोग्येन ग्रहीतव्येन व्यवहारेणेत्यादिव्याख्यानमपि प्रसङ्गात् ॥ ७ ॥
। होता यक्षत्तिस्रो देवीनं भैषजं त्रयस्त्रिधात॑वोऽपस इडा सर॑स्वती भारती म॒हीः इन्द्र॑पत्नीर्ह विष्म॑ती॒र्व्य न्त्वा॒ज्य॑स्य॒ होता॑र्यज॑ ॥ ८ ॥
को धारण करने वाली, मन्त्रार्थ - दिव्य होता ने भेषज रूप तीन लोक और अग्नि, वायु, सूर्यं नामक तीन धातुओं इड़ा, सरस्वती, भारती - इन तीन देत्रियों शीत, उष्ण आदि को धारण करने वाली महती इन्द्र की पत्नी और हवि से युक्त करे ॥ ८ ॥
का यजन किया है । ये सब घृत का पान करें । मनुष्य होता भी उनका यजन - सरस्वती - भारतीति तिस्रो देवीश्च ब्राह्मी अनुष्टुप् । दैव्यो होता भेषजरूपा ये त्रयो लोकास्तान् समुच्चयार्थकः इडा । कीदृशास्त्रयो लोकाः? यक्षत् यजतु । इज्यमानाश्च ता आज्यं व्यन्तु पिबन्तु । नकारोऽत्रापि । अपस: अपस्विनः, मत्वर्थीयलोपः, ' अप त्रिधातवः, त्रयोऽग्निवायसूर्या धातवो धर्तारो येषां ते तथोक्ताः कर्माणि तैः कर्मवन्तो लोकाः । इति कर्मनामसु ' ( निघ ० २।१।१ ) कर्मवन्तः, शीतोष्णवातवर्षादीनि हि तेषां पालयित्र्यः, हविष्मतीर्हविष्मत्यः, कीदृश्यस्तिस्रो देव्यः? महीर्मा, महत्य इति यावत् । इन्द्रपत्नीरिन्द्रस्य । air विद्यते यासां ताः, हविषा संयुक्ता इत्यर्थः । हे मनुष्य होतः, त्वमपि यज I ये च भेषजं अध्यात्मपक्षे — होता देवानामाह्वाता साधकस्तिस्रो देवीरिडा- येषां सरस्वती ते । अपसोऽपस्विनः - भारतीरूपाः, शीतोष्णवात-भेषजरूपास्त्रयो लोकाः, त्रिधातवस्त्रयोऽग्निवायुसूर्या धातवो धर्तारो जीवस्य पालयित्र्यः, वर्षादियुक्ताः, तांश्च यक्षद् यजतु । कीदृश्यो देव्यः? महीर्मह्यो महत्यः, इन्द्रपत्नीरिन्द्रस्य होतर्यज । इडा वागधिष्ठात्री, हविष्मतीर्हविषा युक्ताः । ताश्चेज्यमाना आज्यस्य स्वमंशं व्यन्तु पिबन्तु । जीवस्य पालयित्र्यः, सरस्वती ज्ञानाधिष्ठात्री, भारती प्रतिभाधिष्ठात्रीत्येतास्तिस्रो देव्यो भोगापवर्गसम्पादकत्वेन मह्यश्च महत्त्वपूर्णाश्च । त्रयो लोका अपि भेषजं भेषजरूपाः क्षुत्पिपासानिद्रातन्द्रालस्याज्ञानप्रमादादिनाशहेतुत्वे- शीतोष्णादिकर्मवत्त्वाच्च । देहादि-नौषधरूपाः । तत्र हेतुगर्भाणि विशेषणानि - त्रिधातवः, अग्निवायुसूयैर्धृतत्वात् होता करोतु, तथैव मानुषोऽपि कार्यकारणसङ्घातोपबृंहकत्वेनोपकारकत्वेन तेषां तासां च यजनं पूजनं यथा दैव्यो होता यजतु । देवीर्न भेषजं मही इडा दयानन्दस्तु - ' हे होतः, यथा होताज्यस्य यक्षद् यथा ये धातवो यास्तिस्रो वेदार्थ-सरस्वती भारती च हविष्मतीरिन्द्रपत्नीर्व्यन्तु तथा यज ' इति, तदपि यत्किञ्चित् व्यक्तिविशेषाभ्यूहस्य दाता आदाता वा, त्वायोगात् । प्रयोक्तृ - प्रतिपत्त - व्यवहारारूढार्थे रेव शब्दैर्व्यवहरन्ति व्यवहर्तारः । होता विद्याया - इत्यादिव्याख्यानानि देवीः सकलविद्याप्रकाशिकाः, त्रयोऽध्यापकोपदेशकवैद्याः, हविष्मती विविधज्ञानसहिताः व्यक्तिविशेषाभ्यूहमात्राणि ॥ ८ ॥
पृष्ठ 272
पाठ पढ़ें पाठ छिपाएँ
म ० ९ -१० ] वेदार्थपारिजातभाष्यसहिता २३ ९ होता॑ यक्ष॒त् त्वष्टा॑र॒मिन्द्रं॑ दे॒वं भि॒षज॑ सु॒यज॑ घृत॒श्रिय॑म् । पुरु॒रूप॑धि॑ सु॒रेत॑सं म॒घोन॒-मिन्द्रा॑य॒ त्वष्टा॒ दधा॑दिन्द्रि॒यासि॒ वेत्वाज्य॑स्य॒ होत॒र्य॑ज॑ ॥ ९ ॥
मन्त्रार्थ - दिव्य होता ने परम ऐश्वयं युक्त, रोगनिवर्तक, सुपूज्य, दिव्य किरण जाल से शोभित, बहुरूप के आदि का यजन किया है । त्वष्टा इन्द्र के लिये पराक्रम किया है, घृत का आस्वादन कारण, सुवीर्यवान्, धनवान् त्वष्टा देव किया है । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥। ९ ॥ अतिजगती । दैव्यो होता त्वष्टारं देवं प्रयाजदेवतां यक्षद् यजतु । कीदृशं त्वष्टारम्? इन्द्रम्, परमैश्वर्य-वन्तं प्रभुम् । देवं दानादिगुणकं दातारम् । भिषजं रोगनिवर्तकं सुयजं यः सुष्ठु इज्यते तम् । साधुयष्टव्यमक्लेशयागं तम् । घृतश्रियं घृतेन श्रीः शोभा यस्य तम् । आज्यहविष्का हि प्रयाजाः । पुरुरूपं पुरूणि बहूनि रूपाणि यस्य सुरेतसं शोभनवीर्यम् । स त्वष्टा इन्द्राय इन्द्रे, विभक्तिव्यत्ययः, दधद् धारयतु आज्यं वेतु । अध्यात्मपक्षे - दैव्यो होता त्वष्टारं विश्वस्य प्रकाशकं रचयितारं परमात्मानं देवं यक्षद् यजतु द्योतमानं । कीदृशं वा त्वष्टारम्? इन्द्रं परमैश्वर्यवन्तम्, निरतिशयैश्वर्यस्य परमात्मन्येव पर्यवसानात् । देवं स्वप्रकाशं दातारं वा । भिषजं भवरोगवैद्यम् । सुयजं सुखेन अनायासेन पत्रपुष्पफलजलादिना यष्टुं शक्यम् । घृतश्रियं घृतगन्धिना स्नेहेन श्री स्वाराज्यलक्ष्मीर्मोक्षलक्ष्मीः साम्राज्यलक्ष्मीर्विजयलक्ष्मीर्वा लभ्यते यस्मात्तम् रावणादि- । पुरुरूपं पुरूणि बहूनि मत्स्य -कर्म - वराहादीनि ब्रह्मविष्णुशिवादीनि वा रूपाणि यस्य तम् । सुरेतसं शोभनं पराभवितृ रेतो वीर्यं पराक्रमो वा यस्य तम् । मघोनं कामधेनुचिन्तामणिकल्पवृक्षकौस्तुभादिबाह्यधनवन्तं इन्द्रियाणि वीर्याणि तथा ज्ञानवैराग्यादिलक्षणान्तरधनवन्तम् । इज्यमानस्तादृशस्त्वष्टा इन्द्राय इन्द्रे स्वांशे जीवे निद्रालस्याज्ञानाद्यपनोदनक्षमाणि दधत् स्थापयतु । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे होतः, यथा होता त्वष्टारं दोषविच्छेदकं सुरेतसं मघोनं पुरुरूपं घृतश्रियमुदकेन शोभमानं भेषजं देवमिन्द्रं यक्षद् आज्यस्येन्द्रायेन्द्रियाणि श्रोत्रादीनि धनानि दधत् सन् त्वष्टा वेतु, तथा यज ' इति, तदपि यत्किचित्, गौणार्थाश्रयणात् । सामान्य वैद्यादिप्रतिपादेन वेदस्य तात्पर्यायोगात् ॥ ९ ॥
होता॑ यक्ष॒द्वन॒स्पति॑थ॒ शमि॒तार॑ श॒तक्र॑तुं धि॒यो ज॒ष्टर॑मिन्द्रि॒यम् । मध्वा॑ सम॒ञ्जन् प॒थिषि॑ः सु॒गेभिः॒ स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ १० ॥
S मन्त्रार्थ --- दिव्य होता ने संस्कारकर्ता बहुकर्मी बुद्धि के सेवक इन्द्र के हितकारी वनस्पति देवता का यजन किया है । हैं । स्वादु घृत से सींचते हुए वे वनस्पति देवता सुगम मार्ग से स्वादु घृत के द्वारा यज्ञ को देवताओं को प्राप्त कराते वनस्पति देवता घृत का पान करें । हे मनुष्य होता, तुम भी इसी अभिप्राय से यजन करो ॥ १० ॥
शक्वरी । होता वनस्पति प्रयाजदेवतां यजतु । कीदृशं वनस्पतिम्? शमितारम् उलूखलादिरूपेण, हविषां संस्कर्तारम्, तण्डुलादिरूपेण निष्पादयितारम् । शतक्रतुं शतं क्रतवः कर्माणि यस्य तं बहुकर्माणम् स धियो जोष्टारं बुद्धेः कर्मणो वा सेवितारम्, ' जुषी प्रीतिसेवनयो: ', इन्द्रियं वीर्यरूपमिन्द्रायात्मने हितं वा । चेज्यमानो वनस्पतिर्मध्वा समञ्जन् मधुस्वादुना घृतेन यज्ञं संमृष्टीकुर्वन् पथिभिः सुगेभिः शोभनगमनैर्मागर्मधुना स्वमंशम् । स्वादुना घृतेन युक्तं यज्ञम् स्वदाति देवान् प्रापयतीति । स्वदातिः प्रापणार्थः । वेतु पिबतु चाज्यस्य हे मनुष्यतः, त्वमपि यज ।
पृष्ठ 273
पाठ पढ़ें पाठ छिपाएँ
२४० शुक्लयजुर्वेद संहिता [ अ ० २८ अध्यात्मपक्षे - व्रीहियवादिहविषामुलूखलादिरूपेण संस्कर्तारं दैव्यो होता यजतु । परमात्मनः सर्वात्मभावं निरूपयन् मन्त्रवर्ण आह होता यक्षदिति । उलूखलादिरूपवनस्पत्यभिमानिविशेषणानीमानि सङ्गच्छन्ते । अन्यथा वनस्पतौ संस्कर्तृत्वशतक्रतुत्वधियोजोष्टृत्वयज्ञसमञ्जनकर्तृत्वादिकं निरालम्बनमेव स्यात् । व्याख्यानं तु पूर्ववदेव । दयानन्दस्तु - ' हे होतः, यथा होता वनस्पतिमिव वनानां किरणानां स्वामिनं सूर्यमिव शमितारं शतक्रतुं धियो जोष्टारं यक्षन् मध्वा सुगेभिः पथिभिराज्यस्येन्द्रियं समञ्जन् स्वदाति मधुना घृतेन यज्ञं वेतु, तथा यज ' इति, तदपि यत्किञ्चित् वनस्पतिपदस्य तथार्थत्वायोगात् । शमितृपदस्य यजमानपरत्वमपि - चिन्त्यमेव । मधुना मधुरेण विज्ञानेनेत्यपि निर्मूलम् । प्रकृते किमभिप्रेत्य सूर्यस्योपमानत्वमुक्तमित्यनुक्तेः । आज्यस्य संसारार्थतापि न युक्ता, ज्ञातुं योग्यानां बहुत्वेन विनिगमनाविरहात् । घृतेन जलेन सङ्गतियोग्यव्यवहारस्य कथं प्राप्तिरित्याद्यनुक्तेश्च ॥ १० ॥
होता॑ यक्षविन्द्र स्वाहा॑हा॒ज्य॑स्य॒ स्वाहा॑हा॒ मेद॑सः स्वाहा॑ स्तोकानां स्वाहा स्वाहा-कृतीनाएं स्वाहा॑ ह॒व्यसूक्तनाम् । स्वाहा॑ दे॒वा आ॑ज्य॒पा जु॑षा॒णा इन्द्र॒ आज्य॑स्य॒ व्यन्तु॒ I होतयं ॥ ११ ॥
मन्त्रार्थ दिव्य होता ने इन्द्र का स्वाहाकारपूर्वक यजन किया । यह घृत भाग सुगृहीत हो, मेदावर्धक हवि सुगृहीत हो, सोम की बिन्दु सुगृहीत हो । स्वाहाकार से देवताओं के निमित्त प्रयाज देवता का यजन करें, स्वाहाकार से हव्यसम्बन्धी सुवचनों के साथ देवताओं का यजन करें, स्वाहाकार से प्रसन्न हो देवताओं के साथ इन्द्र घृत का पान करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ११ ॥
शक्वरी । दैव्यो होता इन्द्रं यक्षद् यजतु । स एव होता स्वाहाकारेण आज्यस्य देवान् यक्षद् यजतु । स्वाहाकारेण मेदसो देवान् यजतु । स्वाहाकारेण स्तोकानां सोमबिन्दूनां देवान् यजतु । स्वाहाकारेण स्वाहा-कृतीनां देवानां स्वाहाकृतीः प्रयाजदेवता यजतु । स्वाहाकारेण हव्यसुक्तीनां हव्यसम्बन्धिसुवचनानां देवान् यजतु । स्वाहाकारेणाज्यपा देवाः प्रयाजा जुषाणाः प्रीयमाणा भवन्तः सन्त इन्द्रश्च आज्यं व्यन्तु । हे मनुष्य होतस्त्वमपि यज । अध्यात्मपक्षे — होता इन्द्रं परमात्मानं यजतु । तद्विभूतिभूतानाज्यस्य शास्त्रस्य देवान् स्वाहाकारेण यजतु । तथैव मेदसो देवान् सोमबिन्दूनां च देवान् यजतु, परमात्मन एव सर्वात्मत्वेन सूर्यरूपेण पूज्यत्वात् । दयानन्दस्तु --- हे होत:, यथेन्द्रः परमैश्वर्यप्रदो होताज्यस्य स्वाहा सत्यां वाचं मेदसः स्वाहा स्तोकान स्वाहा स्वाहाकृतीनां स्वाहा हव्यसूक्तीनां स्वाहेन्द्रं यक्षद्यथा स्वाहाज्यस्य जुषाणा आज्यपा देवा इन्द्रं व्यन्तु तथा यज ' इति, तदपि यत्किञ्चित्, सन्निकृष्टान्वयापेक्षया विप्रकृष्टान्वयस्यायुक्तत्वात् असम्बद्धत्वाच्च । इन्द्रः परमैश्वर्यप्रद इत्यपि निर्मूलम्, प्रदेत्यंशस्य मन्त्रबाह्यत्वात् । स्वाहापदानामपि तत्तदुक्तार्था निर्मूला एव तत्र तत्रार्थेषु तेषां पदानामशक्तत्वात् ॥ ११ ॥
दे॒वं ब॒हिरिन्द्र॑ सु॒दे॒वं दे॒वैर्वी॒रव॑त् स्त॒र्णं वेद्यमवर्धयत् । वस्तीवंतं प्राक्तोर्भूतं राया ब॒हिष्म॒सोऽत्य॑गाद्वस॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ १२ ॥
पृष्ठ 274
पाठ पढ़ें पाठ छिपाएँ
म ० १२-१३ ] मन्त्रार्थ -- श्रेष्ठ देवता वाले, कुशाओं के देवता इन्द्र को पुष्ट करते हैं, के घर में धन - धान्य की वृद्धि करने के करो ॥ १२ ॥
वेदार्थपारिजातभाष्यसहिता २४१ देवताओं में वीर्यवान्, वेदि पर बिछाये गये, दिन में काटकर रात भर रखे गये धनसम्पन्न बहि वाले अन्य यागों से बढ़कर धन देने इच्छा करने वाले यजमान लिये घृत का पान करे । हे मनुष्य होता, तुम भी इसी अभिप्राय से यजम एकादश ऐन्द्रपशोः सम्बन्धिन एवानुयाजप्रैषाः । देवता बहिरादयः । अतिजगती । मैत्रावरुणो वदति-देवं बर्हिर्बहिःसंज्ञानुयाजदेवता इन्द्रमवर्धयत् पुष्णाति । कीदृशं बहिः? सुदेवं शोभना देवा मरुदादयो यत्र तत्, तथा देवैर्दातृभिर्ऋत्विग्भिर्वीरवद् वीरयुतम् वेद्यां स्तीर्णमाच्छादितम्, आहवनीयगार्हपत्यमध्यवर्तिन्या-मिति यावत् । वस्तोर्वृतम् अहनि लूनम् धातोरनेकार्थत्वात् । अक्तोः रात्रौ प्र प्रकर्षेण भृतं धृतम् । वस्तोः, अक्तोः -- इत्युभयमव्ययं क्रमशो दिवारात्रिपययम् । यद् बहिः, राया हविर्लक्षणेन धनेन, बर्हिष्मतो बर्हिषा-युक्तानन्यान् यजमानान् अत्यगाद् अतिक्रम्य गतं संस्कारोत्कर्षात् तद् बहिर्वसुवने वसुवननाय धनदानाय वसुधेयस्य वसुधेयाय वसुनो धानाय निधानाय यजमानगृहे निखननाय वेतु आज्यं पिबतु । वसुवने वसुधेयस्येति सप्तमीषष्ठ्ट्यौ चतुर्थ्यर्थे । हे मनुष्य होतस्त्वमपि यज । यद्वा - यज्ञसाधनभूतं बर्हिरिह देवता विवक्षिता । यद्देवं बर्हिरिन्द्रमवर्धयत् । कथंभूतमिन्द्रम्? सुदेवं शोभना देवा मरुदादयो यस्य परिकरभूतास्तम् । शेषं पूर्ववद् व्याख्येयम् । एवमग्रेऽपि कण्डिकाशेषो व्याख्येयः । अध्यात्मपक्षे - बहिर्देवं बर्हिः संज्ञानुयाजदेवता इन्द्रं देहेन्द्रियादिदीपयितारं जीवमवर्धयत् । कीदृशं बर्हिः? सुदेवम् । अन्यत् पूर्ववद् व्याख्येयम् । दयानन्दस्तु – ' हे विद्वन्, यथा बर्हिष्मतोऽत्यगाद् वसुधेयस्य वसुवने वेद्यां स्तीर्णं वस्तोर्वृतम् अक्तोर्भृतं तं द्रव्यनैरोग्यं प्रावर्धयत् सुखं वेतु, तथा बर्हिरिव राया सह देवं देवैः सह वीरवद्वर्तमानं सुदेवमिन्द्रं यज ' इति, तदपि न, असम्बद्धत्वात्, अध्याहारादिमूलकत्वाच्च । बर्हिः पदस्यान्तरिक्षार्थत्वेऽपि तत्तुल्यार्थता त्वसङ्गतैव, निष्ठान्तस्य स्तीर्णशब्दस्य आच्छादितमर्थो न त्वाच्छादनीयमिति । वेद्यामित्यस्य हवनाधारकुण्डार्थता निर्मूला, हि दिने स्वीकृतस्य रात्रौ धारितस्य द्रव्यस्य हवनाङ्गत्वेन विधानम्, तथाऽदर्शनात् । नैरोग्यमिति तु मन्त्रबाह्यमेव । हुतं द्रव्यं सुखमित्यादिकमपि वेदबाह्यमेव, मन्त्रे तथाऽदर्शनात् ॥ १२ ॥
दे॒वीर्द्वार॒ इन्द्र॑थ॒ स॑घा॒ते वी॒ड्वीर्याम॑न्नवर्धयन् । आ व॒त्सेन॒ तरु॑णेन कुमा॒रेण॑ च मीव॒ता-पार्वाश॑धि॒ रे॒णुक॑काटं नुदन्तां वसु॒वने॑ वसु॒धेय॑स्य॒ व्यन्तु॒ यज॑ ॥ १३ ॥
I मन्त्रार्थ - देहली, किवाड़ आदि में दृढ़ द्वार वाली देवी ने अपने कर्मों से इन्द्र को सब तरह से बढ़ाया है, ये मरखने तरुण और कुमार वत्स द्वारा अभिमुख गमन से कुत्सित धूल और वृष्टि को हटावें, धन देने के लिये यजमान के घर में धन की वृद्धि के लिये घृतपान करें । हे मनुष्य होता, तुम भी इसी अभिप्राय से यजन करो ॥ १३ ॥
एकाधिका शक्वरी । यज्ञगृहद्वारोऽत्र देवताः । यमन् यच्छन्ति नियता भवन्ति ऋत्विजो यत्र तद् याम कर्म, तस्मिन् यामन्, यमेरनिण्प्रत्ययो वृद्धिश्व, सप्तम्याश्व लुक् । या द्वारो देव्य इन्द्रमवर्धयन् । कीदृश्यो द्वार:? सङ्घाते देहली- कपाट - द्वार शाखार्गला दिसमूहे सति विड्वीर्वीडयो दृढाः सङ्घातं विना द्वारां दृढत्वाभावात् । ता द्वारो रेणुककाटमपनुदन्ताम् । काटः कृपः कुत्सितः काट: ककाटः, रेणुभिर्हेतुना काटो रेणुककाट:, तमपनुदन्तां निवर्तयन्तु । उपलक्षणमेतत्, यज्ञभ्रंशकराणि कूपादीनि यज्ञमार्गादपनयन्त्वित्यर्थः । ३१
पृष्ठ 275
पाठ पढ़ें पाठ छिपाएँ
२४२ शुक्लयजुर्वेदसंहिता [ अ ० २८. कीदृशं रेणुककाम्? वत्सेन गोपुत्रेण तरुणेन कुमारेण च आ आभिमुख्येन अर्यते गम्यते पत्यते यत्रेत्यर्वा, तम् अर्वाणम्, ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३।२७५ ) इति ऋधातोर्वनिप् । कीदृशेन वत्सेन? मीवता, ' मी हिंसायाम् ' भावे क्विपि मी:, मीरस्यास्तीति मीवान् तेन हिंसाशीलेन । हिंसाशीलाश्चञ्चला उच्चलन्तो वत्साः कुमाराश्च यत्र पतन्ति तं रेणुककाटमपनुदन्तु, वसुवननाय वसुनिधानाय च ता व्यन्तु । हे मनुष्यतः, त्वमपि यज । यद्वा या देव्यो द्वारो यज्ञगृहद्वारो यामन् यामनि कर्मणि कर्मप्राप्तौ सत्यामिन्द्रमवर्धयन् वर्धयन्ति, याश्च सङ्घाते सति विड्वीर्दृढाः, ता इदानीमाभिमुख्येन स्थित्वा वत्सेन गोवत्सेन तरुणेन कर्मक्षमेण कुमारेण मीवता शत्रूणां हिंसावता अर्वाणं रेणुककाटमपनयन्तु । यस्मिन् कृपे वत्सादीनां पतनं सम्भाव्यते, तदादीनि यज्ञविघ्नकराण्यपनुदन्तु । अध्यात्मपक्षे - देव्यो दीव्यमाना द्वारो यज्ञगृहद्वारदेवता इन्द्रं यज्ञादिकर्तारं साधकं जीवं वर्धयन्ति । याच सङ्घाते सति विड्वीवडयो हढास्ता बाह्याध्यात्मिकयज्ञविघ्नकराणि चापनुदन्तु । ता द्वारो वसुवननाय स्वर्णरत्नज्ञानवैराग्यादिरूपधनदानाय वसुधानाय तादृशधन निधानाय व्यन्तु । हे मनुष्य होतस्त्वमपि यज । दयानन्दस्तु -- ' हे विद्वन्, यथा विड्वीविशेषेण स्तोतुं योग्याः, देवीर्देदीप्यमाना द्वारो रेणुककाटं यामन् वर्जयित्वा तरुणेन मीता कुमारेण वत्सेन च सह वर्तमानमर्वाणमिन्द्रमवर्धयन् वसुवने सङ्घाते वसुधेयस्य विघ्नमपनुदन्तु व्यन्तु तथा यज ' इति, तदपि यत्किचित् सम्बोधनादेर्निर्मूलत्वादसम्बद्धत्वाच्च । नहि द्वारः स्तुत्यर्हाः, त्वद्रीत्या जडानामपूज्यत्वात् । रेणुककाटं यामन् मार्गे वर्जयित्वेत्यपि निर्मूलम्, वर्जयित्वेति क्रियापदस्य मूलेऽभावात् । न च मार्गे तादृशः कृपः सम्भाव्यते । नह्यर्वतो हिंसावत्कुमारादिभिः सहभावो युक्तः । न चावत ऐश्वर्यस्य च साधम्यं युज्यते, येन सामानाधिकरण्यं स्यादिति ॥ १३ ॥
देवी उषासानक्तेन्द्र यज्ञे वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥ प्र॑य॒त्यह्वेताम् ॥ देोविशः प्रायसिष्टाएं सुप्रीते सुर्धिते १४ ॥ मन्त्रार्थ -- पूर्ण प्रीतिमान् परम हितकारी देवी, उषा और रात्रि की आह्वान करें । देवता सम्बन्धी प्रजा वसु, रुद्र आदि को निरन्तर प्रवृत्त करें, की वृद्धि के निमित्त घृतपान करें । हे मनुष्य होता, तुम भी इसी अभिप्राय से देवता यज्ञ के प्रवर्तमान होने पर इन्द्र का धन देने के लिये यजमान के घर में घन यजन करो ॥ १४ ॥
ब्राह्मी उष्णिक । उषाश्च नक्ता चेत्युषासानक्ता, ' उषासोषसः ' ( पा ० सू ० ६।३।१ ) इति उषः शब्दस्य उषासादेशः, विभक्तेश्च आकारादेशः । अहोरात्राधिष्ठात्र्यो देवी देव्यौ यज्ञे प्रयति प्रवर्तमाने सतीन्द्रं देवमता-माहूतवत्यौ । ये च देव्यौ देवीविशो देवसम्बन्धिनीः प्रजाः प्रायासिष्टां प्रगतवत्यौ, यातेर्लुङि रूपम्, वसवो रुद्र आदित्या विश्वेदेवा मरुत इत्यादयो देवसम्बन्धिन्यः प्रजाः । यद्वा - देवीविशो यज्ञाङ्गभूतान् पशून् प्रति प्रायासिष्टां प्रगतवत्यो, ' दैव्यो वा एता दिशो यत्पशवः ' ( श ० ३७ / ३ / ९ ) इति श्रुतेः । अनुयाजेषु तयोर्देवतयोर्भाग इत्यभिप्रायः । ये च सुधिते साधुहिते सुतरां हिते वा, ये च सुप्रीते अतितुष्टे, ते वसुवने वसुवननाय वसुधेयस्य वसुधानाय वीतां पिबताम्, आज्यस्य स्वं भागमिति यावत् । हे मनुष्यहोतः त्वमपि यज । अध्यात्मपक्षे- देवी देव्यौ उषासानक्ता अहोरात्राधिष्ठात्र्य यज्ञे प्रवर्तमाने इन्द्रं परमात्मानमह्वेता-माहूतवत्यो, अनादिकालादनन्तकालं यावत् परमात्मानमाह्वयत इत्यर्थः । अहोरात्रयोस्तथाकरणेन तदन्तर्गत-सर्व प्रजानां तथाकरणं सिद्ध्यति, तयोश्च सुप्रीतसुधितत्वादिना सर्वप्रजानामपि सुप्रीतत्वादिलाभः ।
पृष्ठ 276
पाठ पढ़ें पाठ छिपाएँ
म ० १४–१६ ] वेदार्थ पारिजातभाष्यसहिता २४३ दयानन्दस्तु – ' हे विद्वन्, यथा सुप्रीते सुधिते देवी उषासानक्ता प्रयति यज्ञ इन्द्रमह्वेताम्, वसुधेयस्य वसुवने दैवीविशः प्रायासिष्टाम्, सर्वं जगद् वीतां व्याप्नुताम्, तथा यज ' इति, तदपि यत्किञ्चित्, निष्ठान्तस्य सुप्रीतशब्दस्य सुप्रीतिहेत्वर्थत्वानुपपत्तेः । हितकारित्वमपि तयोर्नोपपद्यते, त्वद्रीत्या तयोर्जडत्वेन हितज्ञाना-भावात् । दैवीविशो न्यायकारिणां विदुषां प्रजाः प्रति तयोर्गमनमपि नोपपद्यते, विवेकाभावात् । न च तयोः शब्दव्यवहार कारयितृत्वमपि युक्तम्, जडत्वादेव ॥ १४ ॥
दे॒वी जा॑ष्ट॒ वसु॑धितो दे॒वमिन्द्र॑मवर्धताम् । अया॑व्य॒न्याघाद्वेषा॒स्यान्याव॑क्ष॒द्वस॒ वार्या॑णि॒ यज॑मानाय शिक्षिते वस॒वने॑ वसुधेय॑स्य वीतां॒ यज॑ ॥ १५ ॥
मन्त्रार्थ - प्रीतियुक्त तत्त्वज्ञाता धन के निधान द्यावापृथिवी ने देव इन्द्र को बढ़ाया । इन दोनों में से एक पाप और दुर्भाग्य को दूर करती है तथा दूसरी वरणीय भोगयोग्य धन यजमान को देती है । हे मनुष्य होता, तुम भी इसी अभिप्राय से यजन करो ॥ १५ ॥
एकाधिकातिजगती । जोष्ट्री जोष्ट्र्यौ जुषेते इति जोष्ट्रयौ प्रीतियुक्ते, जोषयित्र्यौ वा, देवी देव्यौ, वसुधिती वसुनो धनस्य धारयित्र्यौ, अथवा वसुनो धनस्य धितिर्धारणं याभ्यां ते । के ते? द्यावापृथिव्यौ वा अहोरात्रे वा, ' सस्यं च समा चेति कात्यक्य: ' ( नि ० ९ ४१ ) इति यास्कोक्तेः । सस्यं व्रीह्यादि, समा संवत्सरः । इन्द्रं देवमवर्धतां वर्धयेताम् । तयोर्मध्ये अन्या एका अघा अघानि पातकानि द्वेषांसि दौर्भाग्यानि च अयावि दूरीकरोति । ' यु मिश्रणे, अमिश्रणे च ' । यौतेश्चिण् लकारव्यत्ययश्च । अन्या द्वितीया वार्याणि वरणीयानि वसु वसूनि धनानि यजमानाय आवक्षद् आवहति । कीदृश्यौ ते? शिक्षिते विनीते ज्ञातज्ञेये प्रबुद्धे । ते च वसुवननाय वसुधानाय च वीतां पिबताम् । हे मनुष्य होतः, त्वमपि ते यज । अध्यात्मपक्षे - जोष्ट्र्यो इन्द्रं जीवं वर्धयताम्, भोगमोक्षप्रदानेन पोषयताम् । अन्यत् पूर्ववत् । दयानन्दस्तु - ' हे विद्वन्, यथा वसुधिती जोष्ट्री सेवमाने देवी उषासानक्ता इन्द्रं देवमवर्धताम्, तयोरन्याऽघा-द्वेषास्ययावि, अन्या च वसु वार्याणि च वक्षत् । यजमानाय वसुधेयस्य वसुवने शिक्षिते वीतां तथा यज ' इति, तदपि यत्किञ्चित् जडाभ्यामहोरात्राभ्यां सूर्यस्य वर्धनासम्भवात् तयोस्तज्जन्यत्वाच्च तदनुपपत्तेः । न चान्धकाररूपाया रात्रेः पापद्वेषसां पृथक्कारकत्वं सम्भवति, अन्धकाररूपत्वेन विवेचकत्वाभावात् । नहि स्वापजनकत्वेन तद्वत्त्वं सम्भवति, स्वापेऽपि संस्कारात्मना पापानां सत्त्वात् । अन्यथा स्वापमात्रेण सर्वोऽपि मुक्तः स्यादिति कृतं प्रायश्चित्तादिभिः । न च दिनस्यापि वसुवार्यादिप्रापकत्वम्, जडत्वाविशेषात् । शिक्षितत्वमपि तयोर्दुर्लभमेव । न च तयोर्मनुष्यस्य शिक्षितत्वेन अधिकरणविधया तथात्वम्, तथात्वे भूमिभवनादेरपि शिक्षितत्वापातात् ॥ १५ ॥
दे॒वो ऊ॒र्जाहु॑ति॒ दुषे॑ सु॒दु॒त्रे॒ पय॒सेन्द्र॑मवर्धताम् । इष॒मूर्ज॑म॒न्या व॑क्ष॒त्सग्ध॒भुं सर्प॑तिम॒न्या नवे॑न॒ पूर्व॒दय॑माने पुराणेन॒ नव॒मध॑ता॒मूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑मान॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॑ते॒ वसु॒वने॑ वसुधेय॑स्य वीतां॒ यज॑ ॥ १६ ॥
पृष्ठ 277
पाठ पढ़ें पाठ छिपाएँ
२४४ शुक्लयजुर्वेदसहिता [ अ ० २८ मन्त्रार्थ- - अन्नजल सहित आह्वान वाली कामदुघा, कामनारूप दूध से परिपूर्ण दोनों देवियाँ दूध से इन्द्र को बढ़ाती हैं । उनमें से एक अन्न और रसरूप जल का वहन करती है तथा दूसरी सहभोजन और सहपान को देती है । कृपामयी ऊर्जायुक्त आह्वान वाली, रस को बढ़ाने वाली, तत्त्व को जानने वाली देवी नवीन अन्न के परिवर्तन में पुरातन और पुरातन के परिवर्तन में नूतन अन्न को धारण करती है, यजमान को वरणीय धन देती है । हे मनुष्य होता, तुम भी इसी अभिप्राय से यजन करो ॥ १६ ॥
विकृतिश्छन्दः । अधस्तनमन्त्रोक्त एव देवताविकल्पः । देवी देव्यौ पूर्वप्रेषमन्त्रोक्ते पयसा दुग्धेन इन्द्रमवर्धताम् अवर्धयताम्, ' छन्दस्युभयथा ' ( पा ० सू ० ३ | ४ | ११७ ) इति शप आर्धधातुकत्वात् णिचो लोपः । कीदृश्य? ऊर्जाहुती ऊर्जा बलं तद्युक्ता आहुतिराह्वानं ययोस्ते । दुधे दुग्धः प्रपूरयत इति दुघे दोग्ध्रयौ, ' दुहः कब्घव ' ( पा ० सू ० ३1२1७० ) इति दुहे: कप्प्रत्ययो हकारस्य घकारादेशश्च, ' अनयोरनुसम्भोगमिमाः सर्वाः प्रजा अनु सम्भुञ्जते ' ( श ० १/७/२/१६ ) इति श्रुतेः । सुदुघे सुष्ठु साधु दुग्ध इति सुदुघे साधुदोहने, तयोर्मध्ये अन्या एका इषमन्नमूर्जं तदुपसेचनं दध्यादि च वक्षद् वहति यजमानाय । अन्या द्वितीया सग्धिम्, अदनं ग्धिः } समाना ग्धिः सग्धिः, अदेः ' स्त्रियां क्तिन् ' ( पा ० सू ० ३ | ३ | ९ ४ ) इति क्तिनि, ' बहुलं छन्दसि ' ( पा ० सू ० २ | ४ | ३ ९ ) इति घसादेशे, घस् + ति इत्यवस्थायाम् ' घसिभसोर्हलि च ' ( पा ० सू ० ६।४।१०० ) इत्युपधालोपे घति इत्यवस्थायाम्, ' झलो झलि ' ( पा ० सू ० टा | २६ ) इति सकारलोपे घ् + ति इत्यवस्थायाम्, ‘ झषस्तथोर्धोऽधः ( पा ० सू ० ८ २४० ) इति तकारस्य धकारे घ् + धि इत्यवस्थायाम्, ' झलां जश झशि ' ( पा ० सू ० ८ | ४ | ५३ ) इति घकारस्य गकारे ' ग्धिः ' इति रूपम्, ' सुपा ' ( पा ० सू ० ३ | १ | ४ ) इति समासे सग्धिरिति, ताम् । सपीतिः समाना पीतिः पानं सपीतिः, ताम् । अर्थात् पुत्रादिभिः सह समान-पानभोजने वक्षद् वहति । ये च देव्यौ नवेन नवीनेनान्नेन पूर्वं पुराणमन्त्र मधातां धारयन्त्यौ पुराणेनान्नेन नवमन्नमधातां धारयन्त्यौ यजमानाय वार्याणि वरणीयानि वसु वसूनि धनानि च अधातां धारितवत्यौ, अन्नं धनं चाक्षयं कृतवत्यौ । पुराणेन धान्येन वपनादिद्वारा नवीनं धान्यमुत्पाद्य, नवीनेन च धान्येन पुराणं सुरक्षितं धान्यं रक्षयित्वा धारितवत्यौ । नवीनानुत्पत्त्या पुराणस्य भक्षणादिना समाप्त्यापत्तेः । कीदृश्यो? दयमाने दयामनुग्रहं कुर्वन्त्यौ, उक्षन्त्यौ कृपयन्त्यौ बा, ऊर्जाहुती ऊर्जावती हुतिर्होमो ययोस्ते, ऊर्ज रसं ऊर्जयमाने वर्धयन्त्यौ । शिक्षिते कृतशिक्षे ते वीताम् । हे होतस्त्वमपि इमे यज । यद्वा ये देव्यो नवेन ऊर्जाधान्येन पूर्व पुरातनमूर्जं धान्यं दयमाने रक्षितवत्यौ सत्यौ अधाताम्, पुराणेन च ऊर्जाधान्येन नवमृर्जाधान्यमधातां धारितवत्यौ ये च ऊर्जाहुती ऊर्जयमाने स्वीकुर्वाणे, वरणीयानि वसूनि यजमानाय ऊर्जयमाने स्वीकुर्वाणे । शेषं पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे- ये देवी देव्यौ पयसा इन्द्रं जीवात्मानमवर्धताम् । अन्यत् पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे विद्वन्, यथा वसुधेयस्य वसुवने वर्तमाने विद्वद्भिर्वसुवार्याणि शिक्षिते रात्रिदिने यजमानाय व्यवहारं वीताम्, तथोर्जाहुती देवी पयसा दुघे सुदुघे सत्याविन्द्रमवर्धताम्, तयोरन्या इषमूर्जं वक्षद् अन्या सपीति सग्धि वक्षत् । दयमाने सत्यौ नवेन पूर्वं पुराणेन नवमधाताम्, ऊर्जयमाने ऊर्जाहुती ऊर्जमधातां तथा यज ' इति, तदपि यत्किञ्चित् सम्बोधनस्यैव निर्मूलत्वात्, ईश्वरस्य नित्यैश्वर्यवत्त्वेन तत्रैश्वर्यस्य धारणा-सङ्गतेः । ईश्वरस्य धनदानस्थानं जगदित्यपि चिन्त्यमेव, देयसम्प्रदानयोरपि जगदन्तः पातित्वेन जगादित्युक्ते-रपार्थकत्वात् । रात्रिदिनयोः शिक्षितत्वं पूर्वमेवापास्तम् । यजमानायेत्यस्य सङ्गत्यर्थं प्रवर्तमानायेत्यर्थोऽपि यत्किञ्चित्, यज्ञपतौ यज्ञानुष्ठातरि तत्प्रसिद्धेः, रूढ्या योगापहारात् । अहोरात्रयोर्बलप्राणधारणमपि प्रमाण-सापेक्षम् । भोजनपानप्रापकत्वमपि तयोः साध्यमेव, तयोरैश्वर्यवृद्धिकारणत्वे सर्वस्यैश्वर्यवत्त्वापत्तेः, तयोः सर्वान्
पृष्ठ 278
पाठ पढ़ें पाठ छिपाएँ
म ० १६-१८ ] वेदार्थ पारिजात भाष्यसहिता २४५ प्रति सौलभ्यात् । नवेन पूर्वं पुराणेन नवमधातामित्यप्यपास्तमेव । यत्तु ' दयमाने गमनागमनगुणवत्यौ प्राची द्वे निशे प्रवर्तमाने नवपदार्थेन सार्धं पूर्वं पुराणेन साधं नवं वस्तु धारयतु ' इति, तदपि यत्किञ्चित्, नवस्य कालातिक्रमणेन प्राचीनत्वापत्तौ सत्यामपि पुराणस्य नवत्वापत्तौ मानाभावात् । यदपि च - ' वर्तमानरूपे रात्रिदिने पूर्वापर स्वरूपज्ञापिके ' इति, तदपि न, तथात्वेऽपि प्रकृतमन्त्रेण तदसम्बन्धात् ॥ १६ ॥
दे॒वा दे॑व्य॒ होता॑रा दे॒वमिन्द्र॑मवर्धताम् । ह॒ताव॑शसा॒वाना॑ष्ट॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिषि॒तौ वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑ ॥ १७ ॥
मन्त्रार्थ- - पाप कर्म के प्रशंसकों को दूर करने वाले, ईश्वरीय नियम के अनुसार शुभाशुभ फल देने वाले अभिप्राय देवसम्बन्धी से दिव्य दो होता इन्द्र को बढ़ाते हुए यजमान के लिये वरणीय धन लाते हैं । हे मनुष्य होता, तुम भी इसी यजन करो ॥ १७ ॥
अतिजगती । देवा देवौ दैव्या दैव्यो होतारा होतारौ विभक्तेराकारः । एकः पार्थिवोऽग्निः, अन्यो, मध्यम इन्द्रं देवमवर्धताम् अवर्धयताम् । यजमानाय वार्याणि वरणीयानि वसु वसूनि च आभार्थ्याम् आहाष्टम् आहृतवन्तौ । आङ्पूर्वात् हरतेर्लुङ्, हस्य च भः । कथम्भूतौ तौ? हताघशंसौ । अघं पापं शंसन्तीच्छन्तीत्य- । घशंसाः, हता अघशंसा याभ्यां तो, पापनिवर्तको इति यावत् । तौ वीतां पिबताम् । शेषं पूर्ववद् व्याख्येयम् अध्यात्मपक्षे - तौ दैव्यौ देवौ इन्द्रं देवं साधकं परमात्मानं वा ध्येयाकाराकारितवृत्तिमदन्तःकरणादिभि-रुत्साहयताम् । अन्यत् पूर्ववत् । दयानन्दस्तु – ' हे विद्वन्, यथा दैव्या होतारा देवी वायुवी इन्द्रं देवमवर्धताम्, हताघशंसौ रोगानभाष्टम्,, यजमानाय शिक्षितौ सन्तौ वसुधेयस्य वसुवने वसु वीर्याणि च वीताम्, तथा यज ' इति, तदपि यत्किचित् ताभ्यां सूर्यवर्धनस्यासाध्यत्वात् । अधशब्दस्य चौरेऽशक्तत्वात्, रोगानित्यस्य मन्त्रबाह्यत्वाच्च । यजमानाय कर्मसु प्रवर्तमानाय शिक्षितावित्यपि निर्मूलम् तयोस्त्वद्रीत्या जडत्वेन विवेकायोगात् । वसुधेयशब्दस्य ईश्वरार्थ-तापि न युक्ता, समुद्रेषु वृष्टिवत् तत्र वसूनां धानस्य निरर्थकत्वात् ॥ १७ ॥
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पत॒मिन्द्र॑मवर्धयन् । अस्पृ॑श॒द्भार॑ति॒ दिव॑ रु॒द्रैय॒ज्ञथ॒ सर॑स्व॒ती-डा वसु॒मती गृ॒हान्वसुवने वसुधेय॑स्य॒ व्यन्तु॒ यज॑ ॥ १८ ॥
मन्त्रार्थ - तीन देवियों ने मिलकर अपने पति इन्द्र को बढ़ाया । भारती ने द्युलोक को, रुद्रों सहित सरस्वती ने यज्ञ को और धन वाली इड़ा ने गृहों को स्पर्श किया । ये तीनों देवियाँ धन की प्राप्ति और उसकी रक्षा के लिये घृतपान करती हैं । हे मनुष्य होता, तुम भी इसी तरह से यजन करो ॥ १८ ॥
अतिजगती । तिस्रो देवीर्देव्यः पतिं पालकमिन्द्रमवर्धयन्, आदरार्थोऽभ्यासः । भरतः, बिर्भात सर्वमिति भरत आदित्यः, तस्येयं कान्तिर्भारती दिवं द्युलोकमस्पृक्षत् स्पृशति, स्पृशेर्लुङि च्लौ तस्य ' शल इगुपधादनिटः कः क्स: ' ( पा ० सू ० ३ | १ | ४५ ) इति क्सादेशे, ' ववभ्रस्ज ' ( पा ० सू ० ८ २ ३६ ) इति शस्य षत्वे, तस्य ' षढोः सि ' ( पा ० सू ० ८ | २ | ४१ ) इति ककारे, ' आदेशप्रत्यययोः ' ( पा ० सू ० ८ ३।५ ९ ) इति मूर्धन्यादेशे रूपम् । सरस्वती, सरतीति सरो ज्ञानम्, तदस्यास्तीति सरस्वान्, तस्येयं शक्ति: सरस्वती, रुद्रैर्युता यज्ञमस्पृक्षत्
पृष्ठ 279
पाठ पढ़ें पाठ छिपाएँ
२४६ शुक्लयजुर्वेदसंहिता [ अ ० २८ · स्पृशति । इडा पृथिवी वसुमती वसुभिः सहिता गृहान् अस्पृक्षत् स्पृशति । अत्र गृहशब्देनायं लोक उच्यते लक्षणया, पृथिवीस्थानत्वादिडायाः । ता वसुदानाय वसुधानाय व्यन्तु पिबन्तु । हे होतस्त्वमपि यज । अध्यात्मपक्षे - तिस्रो देव्य इन्द्रं परमेश्वरं पति सर्वपालकमवर्धयन् स्तुत्यादिभिः प्रोत्साहितवत्यः । काः ताः? इत्यत आह -- भारतीति । शेषं पूर्ववत् । दयानन्दस्तु - ' हे विद्वन्, रुद्रैर्भारती धारिका दिवं सरस्वती यज्ञं वसुमती इडा प्रशस्ता वाणी गृहान् धारयन्त्यो देवीदिव्याः क्रियास्तिस्रो देवीः पतिमिन्द्रं सूर्यमिव जीवं चावर्धयन् वसुधेयस्य वसुवने गृहान् व्यन्तु, यस्त्वं यत्र भवानस्पृक्षत् स्पृहेत् ' इति, तदपि यत्किञ्चित्, निर्मूलगौणार्थाश्रयणात् । किचं, कोऽयं सूर्य तुल्यो जीवः, यमेतास्तिस्रो देव्यो वर्धयन्ति । रुद्रैः प्राणैर्भारती धारिकेत्यपि न युक्तम्, कस्या धारिका, का च सेति विशेषानिर्देशात् । विज्ञानयुक्तापि वाक् प्रशंसनीया भवति । सा कुत इडातो भिद्यत इत्यनुक्तेश्च । गृहान् गृहस्थानित्यपि निर्मूलम्, लक्षणामन्तरा तदयोगात् । न च सा युक्ता, निर्बीजत्वात् ॥ १८ ॥
S दे॒व इन्द्रो॒ नरा॒शस॑स्त्रिवरू॒थस्त्रबन्धुरो दे॒बमिन्द्र॑मवर्धयत् । श॒तेन॑ शितिपृ॒ष्ठाना-माहि॑तः स॒हस्रेण॒ प्रव॑र्तते मि॒त्राव॑रु॒णेद॑स्य होत्रमहि॑तो॒ बृह॒स्पति॑ स्तो॒त्रम॒श्विनाध्व॑र्यवं वसुवने वसुधेय॑स्य वेतु॒ यज॑ ॥ १ ९ ॥ मन्त्रार्थ - देवताओं की प्रशंसा का स्थान यज्ञ, सदोमण्डप, हविर्धान, आग्नीध्र युक्त ऋक्, यजुः, सामरूप बन्धन वाला यज्ञदेव दिव्यरूप इन्द्र को बढ़ाता है, श्याम पृष्ठ वाली सैकड़ों, हजारों गायों के साथ चलता है । इस यज्ञ के होता मित्रावरुण हैं, स्तोता बृहस्पति हैं और अध्वर्यु के कर्म में अश्विनीकुमार लगे हुए हैं । हे मनुष्य होता, तुम भी इसी अभिप्राय से यजन करो ॥ १ ९ ॥ कृतिः । देवो दानादिगुणक इन्द्र ऐश्वर्यवान्, ' इदि परमैश्वर्ये ' इत्यस्मात् ' ऋजेन्द्राग्रवज्र ' ( उ ० २।२ ९ ) इत्यादिना रम्नन्तो निपातितः । नराशंसो नरा यस्मिन्नासीनाः शंसन्ति तादृशो यज्ञः, इन्द्रं देवमवर्धयत् । स कीदृशः? त्रिवरूथः, वरूथशब्दो गृहवचन:, त्रीणि वरूथानि गृहाणि सदहविर्धानाग्नीप्राणि यस्य सः । त्रिबन्धुरः, बन्धुरशब्दः सारथिस्थानवचनः, त्रीणि बन्धुराणि ऋग्यजुः सामलक्षणानि सारथिस्थानानि यस्य स त्रिबन्धुरः । अथवा त्रीणि बन्धुराणि ऋग्यजुःसामलक्षणानि बन्धनानि यस्यासौ । शितिपृष्ठानां शिति श्यामं पृष्ठं यासां ताः शितिपृष्ठाः, तासां शतेन आहितः सन् अर्थात् शतसंख्याकाभिः शितिपृष्ठाभिर्गोभिराहितः, शतगुणो ह्यग्निराधेय इत्यभिप्रायमेतत् । सहस्रेण गवां प्रवर्तते, सहस्रेण गवां यष्टव्यमित्यभिप्रायमेतत् । यस्य चास्य नराशंसस्य यज्ञस्य मित्रावरुणा इद् मित्रावरुणावेव होत्रमर्हती होतृकर्मणि योग्यौ भवतः, बृहस्पतिः स्तोत्रम् औद्गात्रं कर्म अर्हति, अश्विना अश्विनौ आध्वर्यवमर्हतः स वसुवननाय वसुधानाय वेतु । होतः " त्वमपि यज । अध्यात्मपक्षे - नाराशंसो यज्ञ इन्द्रं परमैश्वर्यवन्तं परमात्मानं देवं द्योतनवन्तं स्वप्रकाशं वाऽवर्धयत् । कीदृशः स देवः? इन्द्रः । शेषं पूर्ववत् । दयानन्दस्तु - ' हे विद्वन्, यथा त्रिवरूथस्त्रिबन्धुरो नराशंसो नरान् शंसो नरान् शंसति स्तौतीति । देवो जीव इन्द्र ऐश्वर्यमिच्छुः शतेन इन्द्रं देवमवर्धयत् यः शितिपृष्ठानां मध्य आहितः सहस्रेण प्रवर्तते, मित्रावरुणा अस्य होमर्हतः, वसुधेयस्य बृहस्पतिः स्तोत्रमश्विनाध्वर्यवं वसुवने वेतु, तथा यज ' इति, तदपि यत्किञ्चित्, निरङ्कुश-
पृष्ठ 280
पाठ पढ़ें पाठ छिपाएँ
म ० १ ९ -२१ ] वेदार्थ पारिजातभाष्यसहिता २४७ त्वात् । देवो जीव इन्द्र ऐश्वर्यमिच्छुरित्यादिकं निर्मूलमेव, तथा प्रमाणानुपन्यासात् । त्रीत्यनेन त्रिविधसुखप्रदा-नीति कथं ग्रहीतुं शक्यते, तत्र तदशक्तेः । शतेन शतसंख्याकेन कर्मणेत्यपि स्वातन्त्र्यमेव तथा प्रमाणानुप-न्यासात् । शितिपृष्ठानां शतेनेति सरलतयान्वये सम्भवति पदान्तराध्याहरणमुपस्थितं परित्यज्यानुपस्थित -कल्पनन्यायमनुसरति । तथैव गोसहस्रेण यष्टव्यमिति श्रौतमध्याहारं परित्यज्य पुरुषार्थपदाहरणमपि । शितिपृष्ठ-पदव्युत्पत्तिरपि स्वैरित्वमेव तस्य गमयति । नहि पृष्ठे गतयो भवन्ति, तस्य स्थिरत्वात् । होत्र - स्तोत्राध्वर्यवादि-पदानां श्रौतार्थानभिज्ञानमूलकमेव यत्किचित् प्रलपनम् ' मुखमस्तीति वक्तव्यं दशहस्ता हरीतकी ' इत्याभाणक-मनुसरति ॥ १ ९ ॥ दे॒वमन्द्र॑मवर्धयत् । दे॑व॒मग्रे॑णा-दे॒वो दे॒वैर्व॑न॒स्पति॒ हिर॑ण्यपर्ण॒ मधु॑शाखः सुपिप्प॒लो स्पृश॒दान्तरि॑क्षं पृथि॒वोम॑दृद्ध्होद्वसुवने वसुधेय॑स्य वेतु॒ यज॑ ॥ २० ॥
मन्त्रार्थ - सुवर्णमय पत्र वाले, मधुमय शाखाओं से युक्त, अतिस्वादु फल वाले वनस्पति देव ने अन्य देवताओं के साथ मिल कर कान्तिमान् इन्द्र के बल को बढ़ाया । वनस्पति देव ने अग्र भाग से स्वर्ग को, मध्य भाग से अन्तरिक्ष को और मूल भाग से पृथ्वी को स्पर्श करते हुए यह कार्य सम्पन्न किया । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ २० ॥
अतिशक्वरी । यूपोऽत्र स्तूयते । वनस्पतिर्यूपः, वनस्पतिकार्यत्वात् । देवो द्योतमानः, अभिमान्यभि-प्रायेणैतत् । तथा च ब्रह्मसूत्रम् - ' अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ' ( २११५ ) | देवैः सह इन्द्रमवर्धयत् । कथम्भूतो वनस्पतिर्देवः? हिरण्यपर्णः । हिरण्यमयानि पर्णानि पत्राणि यस्य सः । कारणभूतवनस्पत्यभिप्रायेणैतत् । मधुशाखः, मधुर्मधुररसवती शाखा यस्य सः । सुपिप्पलः, सु शोभनानि पिप्पलानि फलानि यस्य सः । यो वनस्पतिः, अग्रेणोपरितनेन भागेन दिवं द्युलोकमस्पृक्षत् स्पृशति । अन्तरिक्षं अन्तरिक्षपर्यन्तमाऽस्पृक्ष, मध्येनेति शेषः, साकाङ्क्षत्वात्, आस्पृशति । पृथिवीमध्हीद् दृढामकरोत्, अपरेणेति शेषः, अधस्तनेन भागेनेत्यर्थः । स वनस्पतिर्वसुवननाय वसुधानाय च वेतु । त्वमपि हे होतर्यज । अध्यात्मपक्षे - वनस्पतिर्देवो देवैः सह इन्द्रं परमात्मानं देवमवर्धयत् । कीदृशो देवः? हिरण्यपर्ण इत्यादिकं पूर्ववद् व्याख्येयम् । दयानन्दस्तु -- ' हे विद्वन्, यथा देवैः सह वर्तमानं हिरण्यपर्णो मधुशाखः सुपिप्पलो देवो वनस्पतिर्देवमिन्द्र-मवर्धयत्, अग्रेण दिवमस्पृक्षत्, अन्तरिक्षं तत्स्थान् लोकान् पृथिवीं चाहहीत्, वसुवने वसुधेयस्य वेतु तथा यज ' इति, तदपि यत्किचित्, वनस्पतिमात्रे पूर्वोक्तविशेषणानुपपत्तेः, जडस्य वनस्पतेः स्पृहासम्भवात् । दिवमन्तरिक्षं पृथिवीं च वनस्पतिः कथं द्रढयतीत्यनुक्तेः । सिद्धान्ते तु यूपाभिमानिदेवस्याचिन्त्यैश्वर्यवत्त्वेन नानुपपत्तिः ॥ २० ॥
दे॒वं ब॒हवा॑रि॑तीनां दे॒वमिन्द्र॑मवर्धयत् । स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम॒न्या ब॒र्हीष्यभ्यभूद् वस॒वने॑ वस॒र्धय॑स्य वेत॒ यज॑ ॥ २१ ॥
मन्त्रार्थ - जलाश्रित औषधियों के मध्य में दीप्तिमान्, सुखासन से बैठे हुए इन्द्र के भाश्रित अनुयाज देवताओं ने इन्द्र के बल को बढ़ाया और बहियों को तिरस्कृत किया । हे मनुष्य होता, तुम भी इसी अभिप्राय से यजन करो ॥ २१ ॥