वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 281–290

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 281–290

पृष्ठ 281

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 281 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४८ शुक्लयजुर्वेद संहिता [ अ ० २८ आर्षी त्रिष्टुप् । देव बहिरनुयाजदेव इन्द्रं देवमवर्धयत् । अन्या अन्यानि बर्हीष्यभ्यभूद् अभिभवति, तिरस्करोति । कालसामान्ये लुङ् । कीदृशं बहिः? वारितीनाम्, वार् उदकम् इतिः स्थानं यासां ता वारितयः, अथवा वारि उदके इतिर्गतिर्यासां ता वारितयः, जलाश्रिता ओषधयः, तासां मध्ये देवं दीप्यमानम्, श्रेष्ठमिति यावत् । यद्वा वारिभवा वार्या इतयो दर्भरूपेणावस्थानं येषां ते वारितयो दर्भाः, ' तद्यदेताभ्यामुत्पुनाति ' ( ० १ | १ | ३३३ ) इत्युपक्रम्य ' तस्मादु हैका आपो बीसत्साञ्चक्रिरे त इमे दर्भाः ' ( श ० ११ १२६।५ ) इति दर्भोत्पत्तिप्रतिपादकशातपथश्रुतेः । यच्च स्वासस्थं सुखेनासनेन आस्थीयते यत्र तत् स्वासस्थम्, यद्वा सुष्ठु साधु आस्थेयं देवमनुष्यैरिति स्वासस्थम्, इन्द्रेणासन्नमाश्रितम्, तद् वसुवननाय वसुधानाय च वेतु पिबतु । हे होतः, त्वमपि यज, याज्यां पठेति यावत् । अध्यात्मपक्षे - बर्हिर्देवं बहिरनुयाजदेवता इन्द्रं देवं परमात्मानमवर्धयत् स्तवनैर्जयशब्दैश्च । शेषं पूर्ववद् व्याख्येयम् । -दयानन्दस्तु – ' हे विद्वन्, यथा देवं वारितीनां वरणीयानां पदार्थानां मध्ये वर्तमानं स्वासस्थमिन्द्रेण सहासन्नमिन्द्रं बर्हिर्देवमवर्धयत्, अन्यानि बर्हीष्यभ्यभूत्, वसुवने वसुधेयस्य वेतु, तथा यज ' इति, तदपि यत्कि -चित्, वरणार्थस्य धातोस्तादृशरूपायोगात् । अनायासलब्धस्यान्तरिक्षस्य वरणीयत्वमपि न सम्भवति, कुतस्तेषु श्रेष्ठत्वम्? न च तस्य विद्युतो वर्धकत्वमपि तस्य निर्व्यापारत्वात् । ईश्वरेणासन्नतापि दुर्निरूप्यैव । न चान्तरिक्षे सम्भवन्ति, तस्य निरवयवत्वात् ॥ २१ ॥

देवो अग्निः स्विष्टकृद् देवमिन्द्रमवर्धयत् । स्विष्टं कर्वन् स्विष्टकृत्स्विष्टमा करोतु नो वसुवने वसुधेय॑स्य वेतु॒ यज॑ ॥ २२ ॥

मन्त्रार्थ- - साधक की श्रेष्ठ अभिलाषाओं को पूरा करने वाले दिव्य अग्नि ने इन्द्र के बल में वृद्धि की, स्विष्टकृत् देवता श्रेष्ठ कर्मों का सम्पादन करते हुए हमारी श्रेष्ठ अभिलाषाओं को शुभ मनोरथों को पूरा करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ २२ ॥

आर्षी त्रिष्टुप् । स्विष्टकृत् शोभनमिष्टं कर्तव्यं यस्यायमधिकारः स स्विष्टकृद् देवोऽग्निरिन्द्र देवमवर्धयत् । यश्च स्विष्टं कुर्वन् स्विष्टकृन्नामभूतो नाम्ना प्रसिद्धः स नोऽस्माकं स्विष्टं साध्विष्टमद्यास्मिन् कर्मेण करोतु । अपि च, वसुवननाय वसुधानाय च वेतु । हे होतः, त्वमपि यज । अध्यात्मपक्षे - स्विष्टकृद्देवो देवं स्वप्रकाशं परमात्मानमवर्धयत् । शेषं पूर्ववद् व्याख्येयम् । -दयानन्दस्तु – ' हे विद्वन्, यथा स्विष्टकृ देवोऽग्निरिन्द्रं देवमवर्धयत्, यथा च स्विष्टं कुर्वन् स्विष्टकृत् सन्नग्निः स्विष्टं करोति, तथाद्य नः सुखं करोतु, घृतं वेतु, वसुधेयस्य वसुवने यज ' इति, तदपि न सङ्गतम्, श्रौतार्थवृत्तान्ता -नभिज्ञानात् इष्टस्य यज्ञस्य स्विष्टत्वं येन सम्पाद्यते, तस्य कर्मविशेषस्य स्विष्टकृन्नाम्ना प्रसिद्धत्वात् । त्वद्रीत्या जडेऽग्नौ वर्धनानुकूलव्यापारवत्त्वासम्भवः । न खलु जडः किमिष्टमिति ज्ञातुं प्रभवति । अद्य नः सुखं करोत्विति तु मन्त्रबाह्यमेव ॥ २२ ॥

अ॒ग्निम॒द्य होता॑रमवृणीताय॑ यज॑मान॒ः पच॒न् पक्तॊः पच॑न् पुरोडाश॑ ब॒ध्नन्निन्द्रा॑य॒ छाग॑म् । सुप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभव॒दिन्द्रा॑य॒ छार्गेन । अध॒त्तं मे॑द॒स्तः प्रति॑ पच॒ताय॑भि॒ववी॑वृधत् पुरोडाशैन त्वाम॒द्य ॠषे ॥ २३ ॥

पृष्ठ 282

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 282 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २३-२४ ] वेदार्थ पारिजातभाष्यसहिता २४ ९ मन्त्रार्थ - इस यजमान ने आज पकाने के योग्य हवियों को पकाते हुए पुरोडाशों को पकाया । इसने इन्द्र के लिये छाग को आगे किया । आज पशुपोषक वनस्पति देवता छाग की वृद्धि का आशीर्वाद देने के लिये आये । इसलिये इन्द्र के लिये छाग का पुरोडाश बनाया जाता है । इन्द्र को पशुओं की मेदा की वृद्धि के लिये आहुति दी गई । इसी प्रकार हे मनुष्य होता, तुम भी यजन करो ॥ २३ ॥

safat af वशेऽध्यायेऽन्त्योपान्त्यापोपान्त्यासु व्याख्याता । तत्राग्निमद्य होतारमिति प्रथमा, सूपस्था अद्य देव इति द्वितीया, त्वामद्य ऋषे इति तृतीया । अत्र तृतीयायाः कण्डिकायाः प्रतीकमात्रम् । सा च ऐन्द्रानुवाके वायोधसानुवाके चोभयत्रापि सकला ज्ञेया । अग्निमद्य एकाधिका प्राजापत्या जगती । सुपस्था ब्राह्मी उष्णिक् । त्वामद्य ऋषे एकाधिका विकृतिः । अयं यजमानोऽद्याग्नि होतारमवृणीत वृतवान् । किं कुर्वन्? पक्तीः पक्तव्यानि हवींषि पचन् । इति सामान्येनोक्त्वा विशेषमाह - पुरोडाशान् पचन, यूपे इन्द्राय छागं बध्नन् । अद्य अस्मिन् दिवसे सूपस्थाः साधु यज्ञमुपतिष्ठतीति सूपस्थाः, वनस्पतिर्देवश्छागेन कृत्वा इन्द्राय सूपस्था अभवत्, छागेन इन्द्रस्य सेवां चकारेत्यर्थः । इन्द्रो मेदस्तो मेदोवपामारभ्य छागमधत्तं धारितवान् । पचता पचतानि पच्यन्त इति पचतानि पक्वानि, विभक्तेराकारः । पचेः ' मृदशियजी ' ( उ ० ३ । १० ९ ) इत्यतचि रूपम् । प्रत्यग्रभीत्, पक्वान्यवदानानि प्रत्यगृह्णात्, अवीवृधच्च पुरोडाशेन । हे ऋषे, त्वामद्यायं होतारमवृणीत वृतवान् ॥ २३ ॥

होता॑ यक्षत् समिधानं म॒हद्यशः सुसमिद्धं वरे॑ण्यम॒ग्निमिन्द्र॑ वयो॒धस॑म् । गायत्री छन्द इन्द्रि॒यं त्र्यो॑व॒ गा॑ वयो॒ वध॒द् वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ २४ ॥

यश से मन्त्रार्थ - दिव्य होता ने गायत्री छन्द, बल, डेढ़ वर्ष की गो और आयु को स्थापित किया, दीप्यमान महान् पुनः प्रदीप्त वरणीय अग्नि का और आयु को देने वाले इन्द्र का यजन किया । इसी प्रकार हे मनुष्य होता, तुम भी यजन करो ॥ २४ ॥

एकादश वायोधसे पशौ प्रयाजप्रैषाः । समित्तनूनपादाद्या आप्रीदेवता: । अतिजगती । दैव्यो होता अग्निवायोधमिन्द्रं च यक्षद् यजतु । वय आयुर्दधातीति वयोधाः, तमायुषो धातारं धारयितारं वा । कीदृशमग्निम्? समिधानं दीप्यमानम् । महद्यशो महता यशसा ' सुषां सुलुक ' ( पा ० सू ० ७११३ ९ ) इति तृतीयैकवचनस्य सुरादेशः । समिद्धं दीप्तं वरेण्यं वरणीयम् । किं कुर्वन् यजतु? गायत्री छन्द इन्द्रियं वीर्यं त्र्यवि गांवय आयुश्च दधत् स्थापयन् इन्द्र इति शेषः । षड्भिर्मासैरवयः प्रसुवते, तेनाविशब्देन लक्षणया पण्मासात्मकः कालो लक्ष्यते । त्रयोऽवयो यस्याः सात्र्यविः सार्धसंवत्सरा गौः, ताम् । इन्द्रयुक्ता प्रयाजदेवता आज्यं वेतु । हे मनुष्य होतस्त्वमपि यज । अध्यात्मपक्षे - देव्यो होता अग्नि वाचामधिष्ठातारमिन्द्रं देहेन्द्रियादिदीपयितारं यक्षद् यजतु । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु – ' हे होतः, त्वं यथा होताग्निमिव समिधानं सुसमिद्धं वरेण्यं महद्यशो वयोधसमिन्द्रं गायत्री छन्द इन्द्रियं त्र्यवि गां वयश्च दधत् सन् यक्षद् आज्यस्य वेतु, तथा यज ' इति, तदपि यत्किञ्चित्, विद्यादिग्रहीतरि मनुष्ये तदसामर्थ्यात् । नहि कश्चिद् योगोऽग्नितुल्यो भवति, न वा प्रकाशवान् भवति, तस्य नीरूपत्वात् । तत्र कीर्तिमत्ता भवति, न तु कीर्तिरूपता । इन्द्रमित्यपि न योगस्य विशेषणम्, भिन्नप्रवृत्ति-३२

पृष्ठ 283

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 283 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५० शुक्लयजुर्वेदसंहिता [ अ २८ । किञ्च नात्र मन्त्रे योगशब्दः, न निमित्तकानां शब्दानां समानविभक्तिकत्वेऽपि सामानाधिकरण्यासम्भवात् विज्ञानरसार्थतापि निर्मूलैव ॥ २४ ॥

चोक्तविशेषणानि योगाव्यभिचारीणि, तदन्यत्रापि तत्सङ्गतेः । आज्यपदस्य उष्णिह॒ छन्द॑

होता॑ क्ष॒त्तनूनपा॑तमुद्भिदं यं गर्भ॒मदि॑तिद्धे शुच॒मिन्द्र॑ वयो॒धस॑म् ।

इन्द्रि॒यं वि॑ित्य॒वाहं गां वयो॒ दध॒द् वेत्वाज्य॑स्य॒ होत॒र्य॑ज॑ ॥ २५ ॥

का और अदिति ने मन्त्रार्थ - दिव्य होता ने पवित्र यज्ञ - फलों को प्रकट करने वाले अग्नि छन्द सहित इन्द्रिय बल, किया, उस आयु के दाता इन्द्र का यजन किया । शुचि देवता ने उष्णिक् ॥ २५ ॥

आयु को स्थापित किया । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो जिसको गर्भ में धारण दो वर्ष की गाय और गर्भ दधे, तमिन्द्रं एकाधिका जगती । दैव्यो होता तनूनपातं प्रयाजदेवं वयोधसम् आयुषो, धातारमदितियं तं यज्ञफलानामुद्भेत्तारम् । शुचि च यजतु । कीदृशमिन्द्रम्? उद्भिदम्, उद्भिनत्ति प्रकटयति फलमित्युद्भित् वीर्यं दित्यवाहं गां द्विवर्षां गां वय आयुश्च पवित्रम् । किं कुर्वन् दैव्यो होता यजतु? उष्णिहं छन्द इन्द्रियं । त्वमपि हे मनुष्य होतज । इन्द्रे दधत् । प्रयाजदेवता च इन्द्रसहिता वेतु आज्यस्य स्वमंशं पिबतु धातारमिन्द्रं जीवं अध्यात्माक्षे दैव्यो होता तनूनपातं तन्वा रक्षकं चितिरनाद्यविद्योपहिता प्रयाजदेवं वयोधसमायुषो यं गर्भं दधे धारितवती, तदन्तर्यामिणं च यक्षद् यजतु । कीदृशम्? अदितिरखण्डनीया । कीदृशं तनूनपातम्? उद्भिदं कर्मफल-मायाविशिष्टायारिचतेः सकाशादेव सोपाधिकस्व जीवस्य जन्यत्वात् । दातारम् । अन्यत् पूर्ववद् व्याख्येयम् । उष्णिगादिधारणं तु संस्कारार्थम् वयोधसं शुचिमिन्द्रं दयानन्दस्तु – हे ' होतः, यथा होता तनूनपातमुद्भिदमदितिं वेतु गर्भमिव तथैतान् यज यं ' दधे इति, तदपि यत्किञ्चित्, यक्षदाज्यस्योष्णिहं छन्द इन्द्रियं दित्यवाहं गां च वयश्च दधत् सन्, प्रत्यक्षविरोधात् । यमित्यस्य को वार्थ असम्बद्धत्वात् । गर्भस्य शरीररक्षकत्वमुद्भिद्य जायमानत्वं च नोपपन्नम् । न चावस्थावर्धकत्वमपि इत्यनुक्तेश्च । न चेन्द्रस्यैव तद्विशेषणमिति वाच्यम्, तस्य होतृकर्तृकधारणानुपपत्तेः नामभेदस्याक्षरसंख्यामूल-तस्य सम्भवति, जडत्वात् । न च गायत्र्युष्णिगादिच्छन्दसामर्थवैलक्षण्यम्, छन्दसां । हे मनुष्याः, यथा कत्वात् । न च छन्दःशब्दस्य बलकरत्वमर्थः तथात्वे उष्णिगादीनां छन्दोभिन्नत्वापातात् ' इति भावार्थस्तु माता गर्भं जातं बालं च रक्षति, तथा शरीरमिन्द्रियाणि च रक्षयित्वा विद्यायुषी वर्धयन्तु मूर्खजनप्रतारणायैव, दूरतोऽपि मन्त्रसम्बन्धाभावात् ॥ २५ ॥

होता॑ यक्षद॒डेन्य॑मीड॒तं वृ॑त्र॒हन्त॑म॒मिषा॑भि॒रोड्य॒ सहः सोम॒मिन्द्र॑ वयो॒धस॑म् । अनुष्टुभं छन्द॑ इन्द्रि॒यं पञ्चवि॒ गां वयो॒ दध॒द् वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ २६ ॥

मन्त्रार्थ - दिव्य होता ने स्तुतियोग्य देवताओं से स्तुत, वृत्रनाशक, इड़ा अथवा प्रयाज देवता आदि से स्तुतियोग्य, , ढ़ाई आयु और बल को देनेवाले, सोम के समान प्रसन्न करने वाले इन्द्र का यजन किया । अनुष्टुप् छन्द के साथ बल यजन वर्ष की गाय और पूर्णायु को यजमान अथवा इन्द्र में स्थापित किया । हे मनुष्य होता, तुम भी इसी प्रकार करो ॥ २६ ॥

पृष्ठ 284

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 284 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २६-२७ ] वेदार्थ पारिजात भाष्यसहिता २५१ ? व्यूहेन शक्वरी । दैव्यो होता इडाभि: प्रयाजदेवताभिः सह वयोधसमिन्द्रं यक्षद् यजतु स्तुतम् । कीदृशमिन्द्रम् वृत्रहन्तमम् ईडेन्यम् ईडितुं योग्यम्, ईडेरेन्य औणादिकः प्रत्ययः । ईडितम् ऋषिभिर्मन्त्रैर्मन्त्रद्रष्टृभिर्वा । ईड्यं सर्वैः स्तुतम् । उव्वटाचार्यरीत्या अतिशयेन वृत्रहन्तारम्, ' नाद् घस्य ' ( पा ० सू ० ८२२१७ ) इति नुडागमः बलेन सोमवदाह्लादकम्, वयोधसं त्विडाभिः प्रयाजदेवताभिरीड्यम् । पुनः कीदृशम्? सहः सोमम्, सहसा सामर्थ्यविशेषम् इन्द्रियं वीर्यं वयस आयुषो धारयितारम् । किं कुर्वन्? इन्द्रेऽनुष्टुभं छन्दः, अनुष्टुप छन्दसः वेतु पिबतु, आज्यस्य स्वमंशम् । हे पञ्चावि गां सार्धंद्विवर्षां गां वय आयुश्च दधत् । प्रयाजदेवता च इन्द्रसहिता मनुष्य होतः, त्वमपि यज । स्तोतुं अध्यात्मपक्षे - दैव्यो होता देवसम्बन्ध्याह्वाता इन्द्रं परमात्मानं यक्षद् यजतु आयुषो । कीदृशम् धातारम् ? ईडेन्यं । किं कुर्वन् योग्यम्, ईडितमृषिभिः स्तुतम्, सहः सोमं सहसा बलेन सोमवदाह्लादकम्, वयोधसम् । यजतु? अनुष्टुभमिन्द्रियं पञ्चावि गां वयश्च स्वकीयं सर्वमिन्द्रे दधद् इन्द्राय समर्पयन् सहो बलमीड्यं दयानन्दस्तु - हे होतः, यथा होता आदाता वृत्रहन्तममिवेडाभिर्वाग्भिरीडेन्यमीडितं आज्यस्य दधद्वेतु, तथैतान् यज ' सोमं वयोधसमिन्द्रं यक्षत् सङ्गच्छेत, इन्द्रियमनुष्टुभं छन्दः पचावि गां वयश्च सोमाद्यौषधगणधारकत्वं च न इति, तदपि यत्किञ्चित्, विसङ्गतेः, जीवे सूर्यतुल्यतानिरूपणात् । प्राणधारकत्वं इन्द्रियादिधारणे सामर्थ्यम् । स्वातन्त्र्येण जीवे सम्भवति तथात्वे स्वच्छन्दमृत्युत्वापातात् । न च होतुरपि सत्यामपि जीव प्राणापगमदर्शनात् । तस्मात् न च पृथिवीरूपाया अपि गोः पच प्राणरक्षकत्वेन पञ्चावित्वम् तस्यां यत्किञ्चिदेतद् व्याख्यानम् ॥ २६ ॥

होता॑ यक्षत् सुब॒र्हिषि॑ पू॒ष॒ण्वन्त॒मम॑त्य॒ सद॑न्तं ब॒हिषि॑ि प्रि॒येऽमृतेन्द्र वयो॒धस॑म् । बहुतीं छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सं गा॑ वयो॒ दध॒द् वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ २७ ॥

मन्त्रार्थ --- दिव्य होता ने सुबह, पोषण में समर्थ, अमर, रुचिर, अविनाशी कुशाओं पर स्थित आयुदाता इन्द्र मनुष्य होता, तुम भी का यजन किया । बृहती छन्द के बल के साथ तीन वर्ष की गाय और आयु को स्थापित किया । हे इसी प्रकार यजन करो ॥ २७ ॥

शक्वरी । दैव्यो होता सुबर्हिषं शोभनं बहिः प्रयाजदेवता यस्य तम् । पूषण्वन्तं पूषास्यास्तीति पूषण्वान् आयुषो तम्, पूष्णा संयुक्तम्, अमर्त्यममरणधर्माणम्, प्रिये प्रेमास्पदे, अमृता अमृतेऽनश्वरे बर्हिषि वत्सो वत्सरः सीदन्तं, वयोधसम् त्रयो वत्सा यस्य धातारम् इन्द्रं यक्षद् यजतु । किं कुर्वन्? बृहतीं छन्द इन्द्रियं वीर्यं त्रिवत्सं गां यज । गोः सत्रिवत्सो वृषः, त्रिवत्सं गां वयश्च दधत् स्थापयन् । वेतु पिबतु । हे मनुष्य होतः त्वमपि अध्यात्मपक्षे - इन्द्रं परमैश्वर्यवन्तं परमेश्वरं होता यक्षद् यजतु । कीदृशमिन्द्रम्? सुबर्हिषम्, शोभनं बहिर्दर्भ आस्तरणं यस्य तं सुबर्हिषं समुद्रतटे दर्भशयने स्थितं श्रीरामचन्द्रं पूषण्वन्तं पूष्णा सूर्येण स्वपूर्वपुरुषेण । किं युक्तम्, अमत्यं मर्त्यरूपेणावतीर्णमप्यमरणधर्माणम्, प्रियेऽभिरुचितेऽमृता अमृते बर्हिषि सीदन्तं तिष्ठन्तम् होतः, कुर्वन्? बृहतीं छन्द इन्द्रियं त्रिवत्सं गां वयो दधत् सन् स वेतु पिबतु आज्यस्य स्वमंशम् । हे मनुष्य त्वमपि यज । दयानन्दस्तु – ' हे होतः, यथा स होता अमृता बर्हिषि प्रिये सीदन्तममत्यं पूषण्वन्तं सुबर्हिषं तथैतानि वयोधस- यज ' मिन्द्रं यक्षत् स आज्यस्य बृहती छन्द इन्द्रियं त्रिवत्सं गां वयश्च दधत् सन् कल्याणं वेतु

पृष्ठ 285

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 285 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५२ शुक्लयजुर्वेदसंहिता [ अ ० २८ इति, तदपि यत्किञ्चित्, ' बर्हिषि ' इत्यस्य बर्हिस्तुल्यार्थत्वे मानाभावात् । न च सामानाधिकरण्यानुपपत्त्या तुल्यार्थताग्रहणमिति वाच्यम्, सिद्धान्तरीत्यापि तदुपपत्तेः । न च जीवेऽवकाशे जलं वा विद्यते, तस्यासङ्गत्वा -दमूर्तत्वाच्च ॥ २७ ॥

होता॑ यक्ष॒द् व्यव॑स्वतीः सुप्राय॒णा ऋता॒वृधा॒ द्वारो॑ दे॒वी हिर॒ण्ययो॑र्ब्रह्मण॒मिन्द्र॑ वयो॒धस॑म् ॥ प॒ङ्क्त छन्द॑ इ॒हेन्द्रि॒यं त॑र्य॒वाहं गा॑ वयो॒ द॑ध॒द् व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ २८ ॥

मन्त्रार्थ - दिव्य होता ने बड़े अवकाश वाले, श्रेष्ठ गति के सत्यवर्धक इन्द्र का स्वर्णमयी द्वार देवी के साथ यजन किया | पंक्ति छन्द, इन्द्रिय जल, माढ़े तीन वर्ष की गाय और आयु को इस इन्द्ररूपी यजमान में स्थापित करते हुए प्रयाज

देवता घृतपान करें । हे मनुष्य होता, तुम भी यजम करो ॥ २८ ॥

अतिक्वरी । दैव्यो होता व्यचस्वतीर्व्यञ्चनवतीः " व्यचो व्यञ्चनं गमनावकाशो विद्यते यासु ता व्यचस्वत्यः । सुप्रायणाः शोभनं प्रकर्षेणायनं गमनं यासु ताः सुप्रायणाः । ऋतावृधः सत्यवर्धयित्री यज्ञ-वर्धयित्री । देवीर्यज्ञफलदात्रीः । हिरण्ययी हिरण्यमयी रविनाशिनी, द्वारो यज्ञगृहद्वार:, तथा ब्रह्माणं परिवृढं वयोधसमिन्द्रं च यक्षद् यजतु । किं कुर्वन्? पङ्क्ति छन्द इन्द्रियं तुर्यवाहं गां वयश्च इह इन्द्रे दधद् धारयन् । तुयं चतुर्थं वर्षं वहतीति तुर्यवाहं सार्धंत्रिवर्षं गां वयश्च दधत् आज्यस्य स्वमंशं पिबतु । हे मनुष्यहोतः, त्वमपि यज । अध्यात्मपक्षे— होता साधकः, देवीद्यतनवतीः, द्वारो ब्रह्मप्राप्तिद्वारः, वानिरोधापरिग्रहादीन् ब्रह्माणं ब्राह्मणं गुरुं वयोधसं वयोधर्तारं दीर्घायुषं पुराणं नित्यसिद्धमिन्द्रं परमात्मानं यक्षद् यजतु । द्वारा विशेषणानि -व्यचस्वतीः, सुप्रायणाः, ऋतावृधः, देवी, हिरण्ययीः । इह इन्द्रे पङ्क्ति छन्दो वीर्यं तुर्यवाहं गां वयश्च दधत् समर्पयन् । दयानन्दस्तु - ' हे होतः त्वं यथेह होता व्यचस्वतीः सुप्रायणा ऋतावृधो हिरण्ययीवीरो वयोधसं ब्रह्माणमिन्द्रं पङ्क्ति छन्द इन्द्रियं तुर्यवाहं गां वयश्च दधदाज्यस्यैतानि यक्षद् यथा च जना व्यन्तु तथैतानि यज ' इति, तदपि यत्किञ्चित् गृहादिद्वास्सु सत्यवर्धकत्वस्यानिरूपणात् । यक्षद्, दधत् इत्युभयक्रियापदयोः सर्वै-द्वितीयान्तपदैः सम्बन्धे विप्रकृष्टान्वयादिदोषापत्तेः । न च द्वारा ब्राह्मणस्य विद्यैश्वर्यस्य च समानं धारणं सङ्गमनं वा, वैरूप्यात् । न च घृतमेव प्राप्तियोग्यम्, घटादेरपि तत्त्वेन आज्यत्वापत्तेः । किञ्च केन कस्य सङ्गतिकरणं यजनमित्यपि वक्तव्यम्? नहि पङ्क्त्या गोः सङ्गतिकरणं सम्भवति ॥ २८ ॥

होता॑ यक्षत् स॒पेश॑सा सुशि॒ल्पे बृह॒ती उ॒भे नक्ोषासा॒ न द॑श॒ते विश्व॒मिन्द्र॑ वयोधस॑म् । त्रि॒ष्टुभ् छन्दं इहेन्द्रि॒यं पृ॑ष्ठ॒वाहं गां वयो॒ दध॑द् वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥ २ ९ ॥ मन्त्रार्थ - दैवी होता ने सुरूप और सुन्दर परस्पर एक रूप महान् दर्शनीय दोनों नक्त ( रात्रि ) एवं उषा देत्रियों को और सर्वात्मक आयुदाता इन्द्र को पूजा । त्रिष्टुप् छन्द और इन्द्रिय बल के साथ भार उठाने में समर्थ वृष और आयु को इस यजमान इन्द्र में स्थापित करते हुए नक्तोषासा घृत पान करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ २ ९ ॥

पृष्ठ 286

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 286 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २ ९ -३० ] वेदार्थ पारिजातभाष्यसहिता २५३ अतिक्वरी । दैव्यो होता उभे नक्तोषासा नक्तोषसौ विश्वं सर्वात्मकं वयोधसमायुषो धर्तारमिन्द्रं च यक्षद् यजतु । नक्ता रात्रिः, उषा रात्रेरपरभागः । नकारः समुच्चयार्थः । कीदृश्यौ नक्तोषसौ? सुपेशसौ, शोभनं ययोस्ते, अन्योन्यं प्रतिरूपे, ' यद्वै पेशो रूपं ययोस्ते सुरूपे । सुशिल्पे सुष्ठु शोभनं शिल्पं निर्माणकौशलं प्रतिरूपं तच्छिल्पम् ' ( श ० ३।२।१।५ ) इति श्रुतेः । बृहती बृहत्यौ । दर्शते दर्शनीये, ' भृमृदृशियजि ' ( उ ० सू ० ३ | ११० ) इत्यादिना शेरतच् । किं कुर्वन् यजतु? त्रिष्टुभं छन्द इन्द्रियं पष्ठवाहं भारवहनसमर्थं गां च वयश्व इह इन्द्रे दधद् धारयन् । सेन्द्रे नक्तोषसाविज्यमाने वीतां पिबतामाज्यस्य स्वमंशम् । हे मनुष्य होतः, त्वमपि यज । अध्यात्मपक्षे - दैव्यो होता उभे नक्तोषसौ सुपेशसौ सुरूपे सुशिल्पे विश्वप्रपञ्चनिर्माणकौशलवत्यौ बृहती महत्या, महत्प्रपश्चोत्पादनत्वात् । दर्शते, द्रष्टव्यजगद्धेतुत्वात् । किं कुर्वन्? तस्मिन्निन्द्रे त्रिष्टुबादीन् धारयन् । इन्द्रेण सहिते ते वीताम् । यद्यपि स्वरूपतः प्राधान्यमिन्द्रस्य, तथापि पानकर्तृत्वं विद्याविद्यायोरेवेति पाने तयोरेव प्राधान्यम् । दयानन्दस्तु – ' हे होतस्त्वं यथेह बृहत्युभे सुशिल्पे दर्शते नक्तोषासा न सुपेशसा विश्वं वयोधसमिन्द्रं त्रिष्टुभं छन्दो वय इन्द्रियं पष्ठवाहं गां वीताम्, यथाज्यस्यैतानि दधत् स न होता यक्षत्, तथा यज ' इति, तदपि यत्किञ्चित्, अध्यापकोपदेशकयो रात्रिदिनतुल्यत्वानिरूपणात् । न च तयोः सुपेशस्त्वमावश्यकम्, तयोर्विद्यादि-गुणवत्त्वस्यैवादरणीयत्वात् । न च तयोर्जगत्यादिधारकत्वमुपपन्नम्, तयोस्तत्रासामर्थ्यात्, अंशतोऽन्यैरपि तद्धारकत्वोपपत्तेश्च । विप्रकृष्टगौणार्थाश्रयणं तु सर्वत्रैव दोषः ॥ २ ९ ॥ होता॑ क्ष॒त् प्रचेतसा दे॒वाना॑मुत्तमं यशो॒ होता॑रा॒ दैव्या॑ क॒वो सयुजेन्द्रं वयो॒धस॑म् । जग॑ति॒च्छन्द॑ इन्द्रि॒यमा॑न॒ड्वाहं गां वयो॒ दध॑द् वीतामाज्य॑स्य॒ होत॒र्यज॑ ॥ ३० ॥

मन्त्रार्थ - देवी होता ने सुचित्त देवताओं में श्रेष्ठ, यशस्वी, क्रान्तदर्शी, परस्पर सखा, दोनों दिव्य होताओं के साथ आयुधारक इन्द्र का यजन किया । दैवी होता जगती छन्द, इन्द्रिय बल, शकटवहनयोग्य वृष और आयु को इस यजमान रूपी इन्द्र में स्थापित करते हुए घृत - पान करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ३० ॥

एकाधिक शक्वरी । दैव्यो होता दैव्यौ होतारौ वयोधसमिन्द्रं च यजतु । अयं चाग्निरसौ च मध्यमो वायुः, एतावेव दैव्यो होतारौ । कीदृशौ होतारौ? प्रचेतसा प्रचेतसौ प्रकृष्टं चेतो ययोस्तौ प्रकृष्टज्ञानौ । देवानामुत्तमं यशः पुञ्जीकृतदेवयशोरूपौ । कवी क्रान्तदर्शनौ । सयुजा सयुजी सह युक्त इति सयुजौ तौ समानयोगौ । किं कुर्वन्? जगतीं छन्द इन्द्रियमनड्वाहं गां वयश्व इन्द्रे दधत् । अनः शकटं वहतीत्यनड्वान्, अन उपपदे वहेः क्विपि तस्य डादेशे वकारस्य सम्प्रसारणे च अनडुहः सिद्धिः तम् । तौ च दैव्यो होतारौ सेन्द्रा-विज्यमानौ आज्यस्य स्वमंशं वीतां पिबताम् । त्वमपि हे मनुष्य होतज । अध्यात्मपक्षे – दैव्यो होता साधकोऽग्निवायुतुल्यौ लक्ष्मणहनुमन्तौ इन्द्रं रामं च यजतु । कीदृशौ तौ? प्रचेतसौ, प्रकृष्टज्ञानौ देवानामुत्तमयशः स्वरूपौ सयुजा सहयोगिनौ । कीदृशमिन्द्रम्? वयोधसम्, आयुषो धारयि-तारम् । किं कुर्वन् यजतु? जगत्यादीनि इन्द्रे परमात्मनि दधद् धारयन्, समर्पयन्निति यावत् । दयानन्दस्तु – ' हे होतस्त्वं यथा देवानां प्रचेतसौ सयुजी देव्यौ होतारौ कवी अध्यापकाध्येतारौ श्रोतृ-श्रावयितारौ वा वयोधसमिन्द्रं जगतीं छन्द इन्द्रियमनड्वाहं गां च वीताम्, यथाज्यस्य मध्य एतानि दधत्

पृष्ठ 287

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 287 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५४ शुक्लयजुर्वेदसंहिता [ अ ० २८ सन् होता यक्षत्, तथा यज ' इति, तदपि यत्किञ्चित् तयोर्जगत्यादिविशेषधारकत्वे मानाभावात्, पारम्पर्येण सर्वच्छन्दआदीनामपि धारकत्वेन विशेषानुपपत्तेः ॥ ३० ॥

होता॑ यक्षत् पेश॑स्व॒तस्त॒स्रो दे॒वीहि॑र॒ण्ययो॒र्भार॑तीर्बृह॒तो म॒हीः पत॒मिन्द्र॑ वयो॒धस॑म् । वि॒राज॑ छन्द॑ इ॒हेन्द्रि॒यं धे॒नुं गां न वयो॒ दध॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३१ ॥

मन्त्रार्थ --- दैवी होता ने रूपसम्पदा वाली, सुवर्णमयी, विशाल, आदित्य, इन्द्र और अग्नि के तेज से बढ़ी हुई इड़ा, इन्द्रिय सरस्वती, भारती नामक तीनों देवियों का और आयुदाता सबके पालक इन्द्र का यजन किया । विराट् छन्द, बल, दुधारू गाय और आयु को यजमान इन्द्र में स्थापित करते हुए घृत का पान किया । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ३१ ॥

एकाधिक शक्वरी । दैव्यो होता तिस्रो देवी: पति पालकं वयोधसमिन्द्रं च यक्षद् यजतु । कीदृशी -स्तिस्रो देवी:? पेशस्वतीः, पेशो रूपमस्ति यासां ताः पेशस्वत्यः, रूपसमृद्धास्ताः । हिरण्ययीहिरण्यालङ्कारा-लङ्कृतदेहाः । भारतीर्भरत आदित्यस्तस्येमाः बहुवचनमिडासरस्वत्योरुपलक्षणार्थम्, इडासरस्वती भारती-तिस्रो देवीरित्यर्थः । बृहतीः प्रभावेण । महीमहतीस्तेजसा, आदित्येन्द्राग्निसम्बन्धात् । किं कुर्वन्? विराजं छन्द इन्द्रियं धेनुं दोग्ध्रीं गां वयश्च इन्द्रे दधद् धारयन् । नकारः समुच्चयार्थः । सेन्द्रास्तिस्रो देव्यो व्यन्तु पिबन्तु, आज्यस्य स्वमंशम् । हे मनुष्य होतः, त्वमपि यज । अध्यात्मपक्षे - दैव्यो होता तिस्रो देवी: पति पालकमिन्द्रं परमेश्वरं च यक्षद् यजतु । अन्यत् पूर्ववद् व्याख्येयम्, अधिष्ठान ब्रह्मसहितासु तिसृषु महाशक्तिष्याञ्जस्येन मन्त्रसङ्गतेः । दयानन्दस्तु – ' हे होतः, यो होता तिस्रो हिरण्ययीः पेशस्वतीर्भारती बृहतीमहीर्देवीस्त्रिविधा वाचो वयोधसं पतिमिन्द्रं विराजं छन्दो वय इन्द्रियं च यक्षत्, स धेनुं गां न व्यन्तु तथैतानि दधत् सन्नाज्यस्य फलं यज ' इति, तदपि यत्किञ्चित् तात्पर्यशून्यत्वात् तिसृणां हिरण्यमयीनां स्त्रीणां महद्भिगृहीतानां प्राप्तेः प्रयोजनानुक्तेः तथैव विराट् छन्दःप्रभृतीनामपि प्राप्तेः कैमर्थ्यानुक्त्या निरर्थकत्वात् ॥ ३१ ॥

होता॑ यक्षत् स॒रेत॑सं॒ त्वष्टा॑रं पुष्टि॒वर्धनं रू॒पाणि॒ विध॑तं॒ पृथ॑क् पुष्टि॒मिन्द्र॑ वयो॒धस॑म् । द्वि॒षद॒ छन्द॑ इन्द्रि॒यम॒क्षाणं गा॑ न वयो॒ वध॒द् वेत्वाज्य॑स्य॒ होत॒र्य॑ज॑ ॥ ३२ ॥

मन्त्रार्थ --- दैवी होता ने जगत् के उत्पादक सुन्दर वीर्य वाले, पुष्टिवर्धक, सबमें पृथक् पृथक् रूपों को और पुष्टि को धारण करने वाले पूषा देवता और आयुवर्धक इन्द्र का यजन किया । द्विपदा छन्द, इन्द्रिय बल, अनड्वान् वृष और आयु को यजमान में स्थापित करते हुए त्वष्टा देव घृत का पान करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ३२ ॥

एकाधिक शक्वरी । दैव्यो होता सुरेतसं शोभनं जगदुत्पत्तिबीजत्वाद् रेतो वीर्यं यस्य स सुरेतास्तम् । पुष्टिवर्धनं पुत्रादिपुष्टेर्वर्धयितारं पृथग् नानाजातिषु रूपाणि पुष्टि पोषणं च विभ्रतं धारयन्तं त्वष्टारं वयोधसम् आयुषो धारयितारमिन्द्रं च यजतु । किं कुर्वन्? द्विपदं छन्द इन्द्रियमुक्षाणं रेतः सेकक्षमं गां वृषं च वयश्वेन्द्रे दधत् । नश्चार्थः । सेन्द्रस्त्वष्टा बेतु पिबत्वाज्यस्य स्वमंशम् । हे मनुष्यहोतः, त्वमपि यज ।

पृष्ठ 288

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 288 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३२-३४ ] वेदार्थपारिजातभाष्यसहिता २५५ अध्यात्मपक्षे - दैव्यो होता सुरेतसं त्वष्टारं जगत्स्रष्टारं वयोधसमिन्द्रं परमेश्वरमधिष्ठानभूतं स्वप्रकाशं तु । तदानुगुयेन विशेषणान्तराण्यपि योज्यानि । दयानन्दस्तु — ' हे होतस्त्वं यथा होता सुरेतसं त्वष्टारं पुष्टिवर्धनं रूपाणि पृथग् बिभ्रतं वयोधसं द्विपदं छन्द इन्द्रियमुक्षाणं गां न इव वयः सन् आज्यस्य यक्षद्वेतु, तथा यज ' इति, तदपि यत्किञ्चित् निरर्थकत्वात् । शुभगुणग्रहीता कथं सुरेतसं त्वष्टारं कथं च सुन्दररूपाणि पृथग् धारयेत्? इन्द्रं द्विपदं च कथं धारयेत्? किन तस्य प्रयोजनम्? यथा वृषभो गर्भिणी: कृत्वा पशून् वर्धयति, तथा गृहस्थाः स्त्रीर्गर्भवती. कृत्वा प्रजा वर्धयेयुः, सन्तानेच्छया पुष्टिवर्धनीया, इत्यादिभाववर्णनं तु सर्वथा दुःसाहसमेव, मन्त्रबाह्यत्वात् ॥३२ ॥

होता॑ यक्षि॒द्वन॒स्पति॑धि॒ शर्म॑मि॒तार॑ श॒तक्र॑तु॒ हिर॑ण्यपर्णमुक्थिन॑ र॒श॒नां बिभ्रतं व॒श भग॒मिन्द्र॑ वयोधर्सम् । ककुभं छन्द इहेन्द्रियं वशां बेहतं गां वयो दधद् वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३३ ॥

मन्त्रार्थ - दैवी होता ने संस्कार के कर्ता, बहुकर्मी, सुवर्णमय पत्र वाले, यज्ञयुक्त रज्जुधारी, मनोहर, भजनीय, वनस्पति और आयुवर्धक इन्द्र का यजन किया । वनस्पति देवता ककुप् छन्द, इन्द्रिय बल, वन्ध्या गर्भघातिनी गाय और आयु को इस यजमान में धारण करते हुए घृतपान करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ३३ ॥

अत्यष्टिः । दैव्यो होता वनस्पति यूपं वयोधसमिन्द्रं च यक्षद् यजतु । कीदृशं वनस्पतिम्? शमितारम् ।, हविषां संस्कर्तारम् । शतक्रतुं शतमनन्तं क्रतवः कर्माणि यस्य तम् । हिरण्यपर्णं हिरण्यमयानि पर्णानि यस्य तम् उक्थिनम् उक्थानि शस्त्राणि सन्ति यस्य तम् । रशनां रज्जुं बिभ्रतं धारयन्तम् । यूपे हि पशुबन्धनाय रज्जुः सम्बद्ध्यते । वशि कान्तं भगं भजनीयम् । किं कुर्वन्? ककुभं छन्द इन्द्रियं वशां वन्ध्यां गां वेहतं गर्भो-पघातिनीं च गां वयश्च इह इन्द्रे दधत् स्थापयन् इन्द्रसहितो वनस्पतिर्व॑तु । हे मनुष्यहोतः, त्वमपि यज । अध्यात्मपक्षे - दैव्यो होता वनस्पति यूपमिन्द्रं परमेश्वरं वयोधसं यक्षद् यजतु । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे होतस्त्वं यथेहाज्यस्य होता शमितारं शान्तिकरं हिरण्यपणं वनस्पति सूर्यमिव शतक्रतु-मुक्थिनं रशनां बिभ्रतं वशि भगं वयोधसमिन्द्रं ककुभं छन्द इन्द्रियं वशां वेहतं गां वयश्च दधत् सन् यक्षद् वेतु, तथा यज ' इति, तदपि यत्किञ्चित् निरर्थकत्वादनुपपत्तेश्च । कथं हि पुरुषः पुरुषान्तरं धारयेत्? स्वाङ्गुलि सर्वोऽपि धारयति, अङ्गुलि च किमर्थं कथं धारयेत्? वन्ध्यां गर्भघातिनीं च किमर्थं धारयेत्? इत्याद्यसमाधानात् । यथाकथञ्चिदेवं गौणादिवृत्त्या किञ्चिदर्थलाभेऽपि निरर्थकमेव ॥ ३३ ॥

होता॑ क्ष॒ स्वाहा॑कृतोर॒ग्नि गृ॒हप॑ति॒ पृथ॒ग॒ वरु॑णं भेष॒जं वि क्ष॒त्रमिन्द्र॑ वयो॒धस॑म् । अति॑च्छन्दसं॒ छन्द॑ इन्द्रि॒यं बृह॒वृ॑ष॒भं गां वयो॒ दध॒द् व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३४ ॥

मन्त्रार्थ - दिव्य होता ने भिन्न - भिन्न यज्ञों में गृहों के पति, वरणीय, रोगनाशक, क्रान्तदर्शी, रक्षक, आयुदाता, अग्रगामी इन्द्र और स्वाहाकृती प्रयाजदेवता का यजन किया । अतिच्छन्द नामक छन्द, इन्द्रिय - बल, महान् पुष्ट वृषभ और आयु को यजमान में स्थापित करते हुए प्रयाज देवता घृतपान करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ३४ ॥

पृष्ठ 289

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 289 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५६ शुक्लयजुर्वेदसंहिता [ अ ० २८ अतिक्वरी । दैव्यो होता स्वाहाकृतीः प्रयाजदेवता यक्षद् यजतु, इन्द्रं च पृथग् यज्ञेष्वागमनानन्तरं रणीय-यजतु । अग्निम् अङ्गतीत्यग्निस्तम् । गृहपति पृथग् यजतु । वरुणम्, व्रियतेऽसौ वरुण ऋत्विग्भिर्व स्तम् । भेषजं रोगनाशकम् । कवि क्रान्तदशिनम् | क्षत्रं क्षतात् प्रहारात् त्रातारम् । वयोधसम् आयुषो धातारम् । किं कुर्वन्? अतिच्छन्दसं छन्द इन्द्रियं च वीर्यं बृहद् महद् ऋषभं पुष्टं गां वय आयुश्च इन्द्रे दधद् धारयन् । सेन्द्राः स्वाहाकृतय आज्यस्य स्वमंशं व्यन्तु पिबन्तु । हे मनुष्यहोतः, त्वमपि यज । अध्यात्मपक्षे दैव्यो होता स्वाहाकृती: प्रयाजदेवता इन्द्रं परमेश्वरं च यक्षद् यजतु । कीदृशमिन्द्रम्? अग्निम्, अग्रे गन्तारं पृथक् प्रत्येकं यज्ञेष्वग्निमग्रे गन्तारं यजतु । कथंभूतमग्निम्? गृहपत संसारगृहस्य पालकम्, वरुणं क्रियते सर्वैरिति वरुणः सर्वैर्वरणीय स्तम्, भेषजं भेषजवद्रोगनिवारकम्, कवि सर्वज्ञं क्षत्रं क्षतात् प्रहारात् त्रातारम्, वयोधसमायुषो दातारम् । किं कुर्वन्? अतिच्छन्दसं छन्दआदिकं दधत् । तस्मिन्निद्रे छन्दआदीना-माधानम्, तस्मिन् समर्पणम्, तैरभ्यर्हणं च । दयानन्दस्तु – ' हे होतस्त्वं यथा होता स्वाहाकृतीरग्निमिव गृहपत वरुणं पृथग्भेषजं कवि वयोधसमिन्द्रं क्षत्रमतिच्छन्दसं छन्दो बृहदिन्द्रियमृषभं गां वयश्च दधत् सन्नाज्यस्याहुति यक्षत्, यथा जना एतानि व्यन्तु तथा यज ' इति, तदपि यत्किञ्चित् स्वाहाकृत्यादीनां धारणा सिद्धेः निष्प्रयोजनत्वाच्च केषाञ्चिद् रागप्राप्तत्वात्, द्विधानवैयर्थ्याच्च ॥ ३४ ॥

दे॒वं ब॒हिर्व॑यो॒धस॑ दे॒वमिन्द्र॑मवर्धयत् । गाय॒त्र्या छन्द॑सेन्द्रि॒यं चक्षुरिन्द्रे वयो॒ दध॑द्वसुव वसुधेयस्य वेतु॒ यज॑ ॥ ३५ ॥

मन्त्रार्थ - बर्हि ने दिव्य आयु को बढ़ाने वाले इन्द्रदेव को बढ़ाया । गायत्री छन्द के द्वारा नेत्र इन्द्रिय, बल और आयु को यजमान में स्थापित करते हुए प्रयाज देवता धन प्राप्ति और उसकी स्थिति के निमित्त घृतपान करें । हे मनुष्य होता, तुम भी ऐसा ही करो ॥ ३५ ॥

वयोधसे पशावेव एकादशानुयाजानां प्रैषाः, बहिरादिदेवताः । एकाधिके आयौ त्रिष्टुभौ । देवं बर्हिद् द्योतनं बर्हिर्वयोधसमिन्द्रं च देवमवर्धयत् । कीदृशं बर्हिः? गायत्र्या छन्दसा चक्षुरिन्द्रियं वयश्च इन्द्रे दधद् धारयत् । तद् वसुवने वसुवननाय वसुधेयस्य वसुधानाय च वेतु पिबतु, आज्यस्य स्वमंशम् । सप्तमी -षष्ठ्यौ चतुर्थ्यर्थे । हे मनुष्य होतः, त्वमपि यज याज्यां पठ | अध्यात्मपक्षे - देवं बहिरिन्द्रं जीवात्मानं देवमवर्धयत् प्रोत्साहितवत् । गायत्र्या कृत्वा इन्द्रे चक्षुरिन्द्रियं वयश्च दधत् । शेषं पूर्ववद्वयाख्येयम् । -दयानन्दस्तु – ' हे विद्वन्, यथा देवं बहिर्वयोधसं देवमिन्द्रमवर्धयत् यथा गायत्र्या च्छन्दसा चक्षुरिन्द्रियं वयवेन्द्रे दधत् सद्वसुधेयस्य वसुवने वेतु, तथा यज ' इति, तदपि यत्किञ्चित्, बर्हिषोऽन्तरिक्षस्य जडत्वेन वर्ध-कत्वायोगात् । न च जीवेऽपि गायत्र्या छन्दसा चक्षुरादिकं धार्यते ॥ ३५ ॥

दे॒वोर्द्वा वयो॒धस॒ शुचि॒मिन्द्र॑मवर्धयन् । उ॒ष्णहा॒ छन्द॑सेन्द्रि॒यं प्राणमिन्द्रे वयो दध॑द्वसु॒वने॑ सु॒धेय॑स्य॒ व्यन्तु॒ यज॑ ॥ ३६ ॥

पृष्ठ 290

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 290 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३६-३८ ] वेदार्थ पारिजातभाष्यसहिता २५७ मन्त्रार्थ -द्वारदेवियों ने उष्णिक छन्द के द्वारा प्राण, इन्द्रिय - बल और आयु को यजमान में स्थापित करते आयुदाता पवित्र इन्द्र को बढ़ाया । इन्द्र यजमान की धनप्राप्ति और उसकी स्थिति के निमित्त घृत पान करे । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ३६ ॥

देवर्दव्यो द्वारो वयोधसमायुषो धारकं शुचि पवित्रमिन्द्रमवर्धयन् । कीदृश्यो द्वार:? उष्णिहा छन्दसा कृत्वा सह वा प्राणमिन्द्रियं वीर्यं वयश्व इन्द्रे दधद् दधत्यः, लिङ्गवचनव्यत्ययः, ता व्यन्तु । हे होतस्त्वमपि यज । अध्यात्मपक्षे - देव्यो द्वार इन्द्रं जीवात्मानमवर्धयन् । कीदृशम्? शुचिम्, स्वधर्मानुष्ठानेन विशुद्धान्तः-करणम् । अन्यत् पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे विद्वन्, यथा देवीर्द्वारो वयोधसं शुचिमिन्द्रमिन्द्रियं प्राणमिन्द्रे वसुधेयस्य वसुवने वर्धयद् व्यन्तु तथोग्हिा च्छन्दसा एतानि वयश्च दधत् सन् यज ' इति, तदपि यत्किञ्चित् वयःपदस्य जीवनार्थ मानाभावात् । द्वारामपि वर्धनानुगुणव्यापारवत्त्वं न सम्भवति ॥ ३६ ॥

देउवासा॒नक्त देवमिन्द्रं वयो॒धस॑ दे॒वो दे॒वम॑वर्धताम् ।

चल॒मिन्द्रे॒ व्य॒ दध॑द् वस॒वने॑ वसु॒धेय॑स्य वोतो॒ यज॑ ॥ ३७ ॥

अ॒न॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं 62- -मन्त्रार्थ - प्रकाशवान् उपा और रात्रि नामक देवियों ने अनुष्टुप् छन्द के द्वारा इन्द्रिय - बल और आयु को यजमान में स्थापित करते हुए आयुदाता इन्द्रदेव को बढ़ाया, इन्द्र ने भी यजमान की धन प्राप्ति और उसकी स्थिति के निमित्त घृतपान किया है मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ३५ ॥

ब्राह्मी बृत्यौ । उषासानक्ता उपाश्र्व नक्तं च उपासानक्ता, ' उपासोपस: ' ( पा ० सू ० ६ | ३ | ३१ ) इति देवताद्वन्द्वे उपःशब्दस्य उपासादेशः, विभक्तेराकारः । देवी देव्यौ दीप्यमाने देवं दानादिगुणकं वयोधसमायुषो दातारम् इन्द्रं देवं दीप्यमानमवर्धताम् । किं कुर्वन्त्यौ? अनुष्टुभा छन्दसा बलमिन्द्रियं वयश्च इन्द्रे दधद् दधत्यौ । दधदित्यव्ययम्, लिङ्गवचनव्यत्ययो वा । ते देव्यौ वसुवननाय वसुधानाय च वीतां पिबताम्, आज्यमिति शेषः । महोत्वमपि यज । अध्यात्मपक्षे- देवी देव्यौ विद्याविद्ये इन्द्रं देवं वयोधसमवर्धतां भोगापवर्गवन्तं कुरुताम् । वसुवननाय वसुधानाय च वीतां चैतन्यबलं गृह्णीताम् । दयानन्दस्तु हे ' विद्वन् यथोषासानक्तेव देवी वयोधसं देवमिन्द्रं देवी देवमिवावर्धताम्, यथा च वसुधेयस्य वसुवने वीताम्, तथा वयो दधत् सन्ननुष्टुभा छन्दसेन्द्रं इन्द्रियं बलं यज सङ्गमय ' इति, तदपि यत्किञ्चित् विसङ्गतेः, द्वाभ्यां स्त्रीभ्यामेकस्य सम्बन्धानुपपत्तेः । न च स्त्रीपदं मूलेऽस्ति । देवीति तु विशेषणपरम् । न च ताभ्यामिन्द्रस्य जीवस्य वर्धनं सम्भवति, ह्रासस्यैव दर्शनात् । न च ताभ्यां वलवयसो-वर्धनं दृश्यते, अनुष्टुभस्तत्र कथमुपयोग इत्यनुक्तेश्च ॥ ३७ ॥

दे॒वी जो वस॒धित दे॒वमिन्द्रं॑ वयो॒धस॑ दे॒वो दे॒वम॑वर्धताम् । ब॒ह॒त्या च्छन्द॑सेन्द्रि॒य ँ आ॑त्र॒मिन्द्रो॒ वयो॒ दध॑द् वसु॒वने॑ वसुधेय॑स्य वोतो॒ यज॑ ॥ ३८ ॥

2 I