वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 291–300
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 291–300
पृष्ठ 291
पाठ पढ़ें पाठ छिपाएँ
२५८ शुक्लयजुर्वेद संहिता [ अ ० २८ देवियाँ कर्णेन्द्रिय और आयु का मन्त्रार्थ - प्रकाशवान्, परस्पर प्रीतियुक्त, धन को धारण बढ़ाती करने हैं वाली । इन्द्र दोनों भी यजमान में धन प्राप्ति और उसकी यजमान में आधान करते हुए दीप्तिमान् आयुदाता इन्द्रदेव को प्रकार यजन करो ॥ ३८ ॥
स्थिति के निमित्त घृतपान करते हैं । हे मनुष्य होता, तुम भी इसी धनस्य धारयित्र्यौ ये देवी देव्यौ दीप्यमाने अनुयाजदेवते जोष्ट्री जोष्ट्र्यौ जोषयित्र्यौ च्छन्दसा वसुधिती इन्द्रियं वसुनो वीर्यं श्रोत्रं च वयश्च इन्द्रे वयोधसमायुषो धारयितारं देवं दीप्तमिन्द्रं देवमवर्धताम्, ते स्वमंशं बृहत्या वीताम् । त्वमपि हे मनुष्यहोतर्यज । दधद् धारयन्त्यौ सत्यौ वसुवननाय वसुधानाय च आज्यस्य वयोधसमिन्द्रं देवं दानादि -अध्यात्मपक्षे - देव्यौ जो ट्र्यौ भोगापवर्गप्रदानेन जोषयित्र्यौ देवं दीप्यमानं गुणकमवर्धताम् । शेषं पूर्ववद् व्याख्येयम् । देवं देवी देवमिव प्राप्या-दयानन्दस्तु - ' हे विद्वन्, यथा देवी जोट्री वसुधिती स्त्रियौ वसुवने वयोधसमिन्द्रं वयो दधत् सन् यज ' इति, तदपि वर्धताम्, बृहत्या छन्दसेन्द्रे श्रोत्रमिन्द्रियं वीताम्, तथा वसुधेयस्य यत्किञ्चित् पूर्वोक्तदोषानुषङ्गात् ॥ ३८ ॥ं
ँ दे॒वी ऊ॒र्जाहु॑तो॒ दुषे॑ स॒दु॒धे पय॒सेन्द्र॑ वयो॒धस॑ दे॒वी दे॒वम॑वर्धताम् । प॒ङ्क्त्या छन्द॑सेन्द्रि॒य शुक्रमिन्द्रे॒ वयो॒ दध॑द् वसु॒वने॑ वसु॒धेय॑स्य वीता॒ यज॑ ॥ ३ ९ ॥ ८ मन्त्रार्थ --- कामपूरक, कामना के दूध से छन्द के द्वारा वीर्य, इन्द्रिय और आयु का इन्द्र में यजमान की धन प्राप्ति और उसकी स्थिति के करो ॥ ३ ९ ॥ परिपूर्ण, दीप्तिमान्, अन्नजल को बुलाने वाली उक्त दोनों देवियां पंक्ति आधान कर अपने दूध से आयुदाता इन्द्र को बढ़ाती हैं । इन्द्र देवता निमित्त घृतपान करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन । पयसा वयोधसमिन्द्र-शक्वरी । ये देवी दात्र्यौ ऊर्जाहुती ऊर्जा बलेन रसेन वा आहुतिराह्वानं पङ्क्त्या छन्दसा ययोस्ते शुक्रं वीर्यमिन्द्रियं वयश्चेन्द्रे मवर्धताम् । कीदृश्यौ? दुधे दोग्ध्रौ सुदुवे सुखेन दोग्धुं शक्ये । ते दधत्य वीतां पितामाज्यस्य स्वमंशम् । त्वमपि हे होतज । वयोधसं अध्यात्मपक्षे - देवी दात्र्यौ ऊर्जाहुती ऊर्जाह्वान्यो देव्यौ पयसा पयस्तुल्येन शुक्रं वयश्च स्वपरिणामेन दधत्यौ वीताम् । देवमवर्धतां भोगापवर्गवन्तौ कुरुताम् । ते तत्र पङ्क्त्या छन्दसा इन्द्रियं वीर्यं शेषं पूर्ववत् । देवी देवमिवावर्धताम्, दयानन्दस्तु - ' हे विद्वन्, यथा दुघे सुदुघे देवी ऊर्जाहुती वयो पयसा दधत् वयोधसमिन्द्रं सन् यज ' इति, तदपि यत्किञ्चित्, पङ्क्त्या छन्दसा इन्द्रे शुक्रमिन्द्रियं वीताम्, तथा वसुधेयस्य वसुवने वयोधसपदस्य निरर्थकत्वापत्तेश्च प्राणहीनस्य ऊर्जापदस्य संस्कारार्थत्वे मानाभावात् इन्द्रस्य प्राणधरार्थकस्य वर्धनासम्भवात् ॥ ३ ९ ॥ दे॒वा दे॑व्या॒ होता॑ दे॒वमिन्द्र॑ वयोधस॑ दे॒वो दे॒वम॑वर्धताम् । त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं त्विष॒मिन्द्रो॒ वयो॒ दध॑द् वसुवने वसुधेय॑स्य वीतां॒ यज॑ ॥ ४० ॥
, इन्द्रिय - बल और मन्त्रार्थ - दिव्य दीप्तिमान् देवताओं के दोनों होता अश्विनीकुमार त्रिष्टुप् । इन्द्र छन्द यजमान के द्वारा की धन कान्ति प्राप्ति और उसकी रक्षा आयु को यजमान में स्थापित कर आयुदाता दीप्तिमान् इन्द्र को बढ़ाते हैं
के निमित्त घृतपान करें । हे मनुष्य होता, तुम भी यजन करो ॥ ४० ॥
पृष्ठ 292
पाठ पढ़ें पाठ छिपाएँ
म ० ४०-४२ ] वेदार्थपारिजातभाष्यसहिता २५ ९ अतिजगती । दैव्या दैव्यौ देवा देवी देवसम्बन्धिनौ होतारा होतारौ, अयमग्निरसौ च वायुः, मध्यमं देवं दातारं वयोधसमायुषो धारयितारमिन्द्रं देवमवर्धताम् । ते त्रिष्टुभा छन्दसा त्विषि कान्तिमिन्द्रियं त्वगिन्द्रियं वयश्चेन्द्रे दतौ वसुवननाय वसुधानाय च वीताम्, आज्यस्य स्वमंशम् । हे होत:, त्वमपि यज । अध्यात्मपक्षे – देवौ दातारौ दैव्यौ देवसम्बन्धिनौ होतारावग्निवायुरूपौ विरारिण्यगर्भो देवं दानादि-गुणकं वयोधसमायुषो धातारं धारयितारं देवं दीप्तं जीवात्मानमवर्धतां ज्ञानक्रियाशक्तिप्रदानेन तद्वन्तं कुरुताम् । शेषं पूर्ववत् । दयानन्दस्तु - ' हे होतारौ यथा दैव्यौ देवौ वयोधसमिन्द्रं देवो देवमिवावर्धताम्, तथा वसुधेयस्य वसुवने वताम् । हे विद्वन्, त्रिष्टुभा छन्दसेन्द्रे त्विषिमिन्द्रियं वयो दधत् सन् त्वं यज ' इति, तदपि यत्किञ्चित् । देवादिपदानां वक्तुरिच्छ्या यथेष्टार्थे प्रयोगे शाब्दनयेऽराजकतापत्तेः । सम्बोधनमपि निर्मूलमेव । होतृपदेना -ध्यापकपदेशकग्रहणमपि चिन्त्यमेव, निर्मूलत्वात् ॥ ४० ॥
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धसः॑ पत॒मिन्द्र॑मवर्धयन् । जग॑त्या॒ छन्द॑सेन्द्रि॒य ं शूष॒मिन्द्रे वयो॒ दध॑द॒ वसु॒वने॑ वसु॒धेय॑स्य॒ व्यन्तु॒ यज॑ ॥ ४१ ॥
मन्त्रार्थ - इड़ा, भारती और सरस्वती नामक तीनों देवियों ने जगती छन्द के द्वारा इन्द्रिय - बल और आयु को यजमान में स्थापित कर आयुदाता पालक इन्द्र के बल को बढ़ाया था । इन्द्र यजमान की धन प्राप्ति और उसकी रक्षा के लिये घृतपान करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ४१ ॥
एकाधिक ब्राह्मी अनुष्टुप् । यास्तिस्रो देव्यो भारतीडासरस्वत्यः । आदरार्थमभ्यासः । वयोधस-मायुषो धारयितारं पति पालयितारं पालयितव्यं वा इन्द्रमवर्धयन् वर्धयन्ति ता जगत्या छन्दसा इन्द्रियं वीर्यं शुषं बलं वय आयुश्च इन्द्रे दधद् दधत्यो व्यन्तु पिबन्तु स्वमंशमाज्यस्य । हे होतस्त्वमपि यज । अध्यात्मपक्षे -- तिस्रो देव्यो महाकाली - महालक्ष्मी - महासरस्वत्यो वयोधसमिन्द्रं पतिं पालयितव्यमवर्धयन् वर्धयन्ति ता जगत्या छन्दसा इन्द्रियं वीर्यं शूषं बलं वयश्चेन्द्रे जीवे दधत्यो व्यन्तु स्वमंशमाज्यस्य । हे होतः साधक, त्वमपि यज । दयानन्दस्तु - ' हे विद्वन्, यथा तिस्रो देवीर्वयोधसं पतिमिन्द्रमवर्धयन् वर्धयेयुः 1 तथा जगत्या छन्द सेन्द्रे शूषमिन्द्रियं वयो दधत् सन् वसुधेयस्य वसुवने यज ' इति, तदपि यत्किञ्चित्, मनुष्यमात्रे विदुषि जीवे सेनासु वा जगत्या छन्दसा इन्द्रियबलाधानसामर्थ्यायोगात् । न च विदुष्यः स्त्रियोऽपि स्वपति चक्रवर्तिनं वा वर्धतुं शक्नुवन्ति । यथा तथेति सादृश्यमपि तेन विदुषा ताभिर्न दृश्यते, तथाऽनिरूपणात् ॥ ४१ ॥
दे॒वो नरा॒शंसो॑ दे॒वमिन्द्र॑ वयो॒धस॑ दे॒वो दे॒वम॑वर्धयत् । वि॒राजा॒ छन्द॑सेन्द्रि॒य ँ रूपमिन्द्रे॒ वयो॒ दध॑द् वस॒वने॑ वसुधेय॑स्य वेतु॒ यज॑ ॥ ४२ ॥
6 मन्त्रार्थ - दानशील मनुष्यों के द्वारा स्तुत यज्ञदेवता ने विराट् छन्द के द्वारा रूप, इन्द्रिय - बल और आयु को इन्द्र में स्थापित कर दीप्तिमान् आयुदाता इन्द्र के बल को बढ़ाया था । यजमान की धन प्राप्ति और उसकी रक्षा के लिये इन्द्र देवता घृतपान करें । हे मनुष्य होता, तुम भी इसी अभिप्राय से यजन करो ॥ ४२ ॥
पृष्ठ 293
पाठ पढ़ें पाठ छिपाएँ
२६० शुक्लयजुर्वेदसंहिता [ अ ० २८ अतिजगती । देवो दाता द्युस्थानो वा नराशंसो देवं स्थानं दीप्तं वा वयोधसमायुषो धारयितारमिन्द्र-मवर्धयत् । कीदृशः? विराजा छन्दसा रूपमिन्द्रियं वयश्चेन्द्रे दधद् धारयन् वसुवननाय वसुधानाय च वेतु । होत:, त्वमपि । " अध्यात्मपक्षे - देवो नराशंसो नरैराशंस्यते यः सः, देवं दीप्तमिन्द्रं जीवमवर्धयद् विविधसाधनोपन्यासेन वर्धयति । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे विद्वन्, यथा नराशंसो देवो वयोधसं देवमिन्द्रं देवो देवमिवावर्धयत् विराजा छन्द-सेन्द्रे रूपमिन्द्रियं वेतु, तथा वसुधेयस्य वसुवने वयो दधत् सन् यज ' इति, तदपि यत्किञ्चित् मनुष्यकर्तृक-मनुष्यकर्म वर्धने विराट्छन्दस उपयोगादर्शनात् ॥ ४२ ॥
दे॒वो व॑न॒स्पति॑र्दे॒व वयो॒धस॑ दे॒वो दे॒वम॑वर्धयत् । द्विप॑दा॒ छन्द॑सेन्द्रि॒यं भगमिन्द्रे वयो॒ दध॑द् वस॒वने॑वस॒र्धय॑स्य वेतु यज॑ ॥ ४३ ॥
J 23 मन्त्रार्थ - दानशील वनस्पति देवता ने द्विपाद छन्द द्वारा सौभाग्य रूप इन्द्रिय और आयु को यजमान में स्थापित यजमान की धन प्राप्ति और उसकी रक्षा के निमित्त इन्द्र घृतपान करें । हे
कर दीप्तिमान् आयुदाता इन्द्र को बढ़ाया था ।
मनुष्य होता, तुम भी यजन करो ॥ ४३ ॥
अतिजगती । यो देवो वनस्पतिस्तत्कार्यभूतयूपाभिमानी देवं द्युस्थानमिन्द्रं वयोधसमायुषो धातारं धारयितारमवर्धयत् स इदानीं द्विपदा छन्दसा इन्द्रियं वीर्यं भगसैश्वर्यं च वय आयुश्च इन्द्रे धारयन् वसुवननाय वसुधानाय च वेतु । त्वमपि हे होतज । अध्यात्मपक्षे - यो देवो वनस्पतिः संसारवृक्षस्वामी परमेश्वरो देवं रूपादि द्योतयन्तं देहादिस्वामिनं जीवात्मानमवर्धयत्, स द्विपदा छन्दसा इन्द्रियं वीर्यं भगमैश्वर्यं वयश्वेन्द्रे दधत् सन् वसुवननाय वसुधानाय च वेतु । हे साधक, त्वमपि तं यज । छन्दसेन्द्रे दयानन्दस्तु - ' हे विद्वन्, यथा वनस्पतिर्देवो वयोधसं देवमिन्द्रं देवो देवमिवावर्धयत् द्विपदा भगमिन्द्रियं वेतु, तथा वसुधेयस्य वसुवने वयो दधत् सन् यज ' इति, तदपि यत्किञ्चित् बाधितार्थत्वाद् दृष्टान्तानुपपत्तेः । नहि वटादिस्त्वद्रीत्या देवो विद्वान् सम्भवति, जडत्वात्; न वा दिव्यगुणवान् सम्भवति, भौतिकवटे दिव्यगुणवत्त्वासम्भवात् । न च स दीर्घायुष्ट्वमैश्वर्यं वा वर्धयन् दृश्यत उत्तमगुणको जनोऽपि । न चेन्द्रपदमैश्वर्यपरम्, ‘ ऋजेन्द्राग्र ' ( उ ० २।२ ९ ) इति सूत्रे ' इन्दति परमैश्वर्यवान् भवतीति इन्द्रः ' इति स्वव्याख्यानविरोधात् । न च कश्चिज्जीवो जीवे इन्द्रियं भगमायुश्च धारयितुं शक्नोति । ईश्वरस्तु कर्मानुसारेण देहवदिन्द्रियादिकमपि विदधाति । नापि च द्विपदा च्छन्दसा कश्चिदिन्द्रियादिकं विरचयन् दृश्यते ॥ ४३ ॥
दे॒वं ब॒र्हिर्वारि॑तीना॑ दे॒वमिन्द्र॑ वयो॒धते॑ दे॒वं वयो॒ दध॑द् वस॒वने॑ वस॒घेय॑स्य वेत॒ यज॑ ॥ ४४ ॥
दे॒वम॑वर्धयत् । क॒कुभा॒ छन्द॑सेन्द्रि॒यं यश॒ इन्द्रे॒ मन्त्रार्थ- औषधियों में दीप्तिमान् कुशा की अधिष्ठात्री देवता ने ककुप् छन्द के द्वारा कीर्तिरूप - जल से उत्पन्न इन्द्रिय - बल और आयु को यजमान ' स्थापित कर दीप्तिमान् आयुदाता इन्द्र के बल को बढ़ाया था । यजमान की धन प्राप्ति और उसकी रक्षा के लिये इन्द्र घृतपान करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ४४ ॥
पृष्ठ 294
पाठ पढ़ें पाठ छिपाएँ
म ० ४४-४६ ] वेदार्थ पारिजात भाष्यसहिता २६१ ब्राह्मी बृहती । यद्देवं श्रेष्ठं बर्हिर्देवं द्युस्थानमिन्द्रं वयोधसमायुषो धारयितारं देवं दानादिगुणयुक्त-मर्धयत् । कीदृशं बर्हिः? वारितीनां देवं वार्थोऽद्भय इतीनामुद्गतानामोषधीनां मध्ये देवं श्रेष्ठम् । यद्वा वायः सकाशादितिरुत्पत्तिर्यासां तासां वारितीनां मध्ये श्रेष्ठम् । तत्ककुभा छन्दसा इन्द्रियं वीर्य यशो वय आयुश्चेन्द्रे दधद् धारयत् वसुवननाय वसुधानाय च वेतु । हे होतः, त्वमपि यज । अध्यात्मपक्षे - देवं दिव्यं बहि वारितीनामोषधीनां श्रेष्ठं देवमिन्द्रं जीवमवर्धयत् प्रोक्षणादिसंस्कारा-धानेनोपबृंहयत्, तद्वसुवननाय वसुधानाय च इन्द्रे ककुभा च्छन्दसा इन्द्रियादिकं दधद् वेतु पिवतु । हे होतः, त्वमपि यज । दयानन्दस्तु - ' हे विद्वन्, यथा वारितीनां देवं बहिर्वयोधसं देवमिन्द्रं देवं देवं चावर्धयत् ककुभा छन्दसा इन्द्रेश इन्द्रियं वेतु तथा वसुधेयस्य वसुवने वयो दधद् यज ' इति, तदपि यत्किञ्चित् जडजले उक्तानुक्त-विवेकाभावेन वर्धनासम्भवात्, अविशेषेणान्तरिक्षनिपतितजलस्य सर्ववर्धकत्वदर्शनाच्च । न च तदिन्द्रियादिकमिन्द्र आधातुं समर्थम्, जडत्वादेव ॥ ४४ ॥
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद् देवमिन्द्रं॑ वयो॒धस॑ दे॒वो दे॒वम॑वर्धयत् । अतिच्छन्दसा॒ छन्द॑सेन्द्रि॒यं क्ष॒त्रमिन्द्रे व॑यो॒ दध॑द् वस॒वने वसुधेयस्य वेत॒ यज॑ ॥ ४५ ॥
मन्त्रार्थ- दानशील, शुभकर्ता देवता अग्नि ने अतिच्छन्द नामक छन्द के द्वारा क्षन से त्राणरूप इन्द्रिय - बल और आयु को यजमान में स्थापित कर दीप्तिमान् आयुदाता इन्द्र के बल को बढ़ाया था । यजमान की धन प्राप्ति और उसकी रक्षा
के लिये इन्द्र घृतपान करें । हे मनुष्य होता, तुम भी इसी प्रकार यजन करो ॥ ४५ ॥
ब्राह्मी बृहती । देवो दाता द्युस्थानो वा अग्निः स्विकृत् साधु इष्टं कर्तव्यमिति यस्यायमधिकारः स स्विष्टकृत् देवं स्थानमिन्द्रं वयोधसमायुषो धारयितारं देवो दीप्तो देवं दीप्तमवर्धयत् अतिच्छन्दसा छन्दसा स इदानीमिन्द्रियं वीर्यं क्षत्रं क्षतात् प्रहारात् त्राणरूपं वय आयुश्च इन्द्रे दधद् वसुवननाय वसुधानाय चतु यज । अध्यात्मपक्षे - देवोऽग्निः स्विष्टकृद् वयोधसमायुषो धारयितारं देवं दीप्तं जीवात्मानमवर्धयत् । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु - - ' हे विद्वन्, यथा स्विष्टकृद् देवोऽग्निर्वयोधसमिन्द्रं देवो देवमिवावर्धयत् अतिच्छन्दसा छन्द सेन्द्रे वसुधेयस्य वसुवने वयः क्षत्रमिन्द्रियं दधत् सन् वेतु तथा यज ' इति, तदपि यत्किञ्चित्, कर्ममीमांसाप्रसिद्धस्विष्टकृद्यागानभिज्ञानमूलत्वात् । अतिच्छन्दसा छन्दसा ह्लादकरेणेत्यपि निर्मूलम्, गौणार्थाश्रयणात् ॥ ४५ ॥
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मान॒ः पच॒न् पक्तः पच॑न् पुरोडाश॑ ब॒ध्नन्निन्द्रय वयोधसे छाम् । सव॒स्था अ॒द्य दे॒वो वन॒स्पति॑र॒णव॒दिन्द्रय वयो॒धसे छार्गेन । अध॒त्तं मे॑द॒स्तः
प्रति॑ च॒ताय॑सी॒वी॑वृधत् पुरोडाशैन । त्वाम॒द्य ऋषे ० ॥ ४६ ॥
।
त्याविशोऽध्यायः ॥
पृष्ठ 295
पाठ पढ़ें पाठ छिपाएँ
२६२ शुक्लयजुर्वेद संहिता [ अ ० २८ मन्त्रार्थ - इस यजमान ने आज पकाने के योग्य हवियों को पकाते हुए पुरोडाशों को भी पकाया । इसने इन्द्र के लिये छाग को आगे किया । आज पशुपोषक वनस्पति देवता छाग को वृद्धि का आशीर्वाद देने के लिये आये हैं, इसलिये । इन्द्र के निमित्त छाग का पुरोडाश बनाया जाता है, इन्द्र के लिये, पशुओं की मेदा की वृद्धि के लिये आहुति दी गई है इसी प्रकार हे मनुष्य होता, तुम भी यजन करो ॥ ४६ ॥
अग्निमद्येत्येकाधिका ब्राह्मी त्रिष्टुप् । सूपस्था इति ब्राह्मी अनुष्टुप् । एते व्याख्याते त्रयोविंश्या-मस्मिन्नेवाध्याये | त्वामद्येति प्रतीकोक्त एकविंशेऽन्तिमकण्डिकायां पठितः सर्वोऽपि मन्त्रोऽत्र पाठ्यः, ' इन्द्राय वयोधसे ' इति विशेष इत्युव्वटमहीधरावाचार्यौ । इति वेदार्थपारिजाताख्यभाष्यमण्डितायां शुक्लयजुर्वेदमाध्यन्दिनसंहितायाम् अष्टाविंशोऽध्यायः ॥
पृष्ठ 296
पाठ पढ़ें पाठ छिपाएँ
एकोनत्रिंशोऽध्यायः समि॑द्धो अ॒ञ्जन् कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः ॥ वाजी वह॑न् वा॒जिन॑ जातवेदो दे॒वानां वक्षि प्रियमा स॒धस्थ॑म् ॥ १ ॥
मन्त्रार्थ - - हे जातप्रज्ञान, वेगवान्, अति - दीप्त अग्निदेव! आप मनुष्य की बुद्धि के रहस्य को प्रकाशित करते हुए, स्वादु घृत को देवताओं के निमित्त सींचते हुए, हवि को देवताओं तक पहुँचाते हुए उनसे हमें वांछित फल और प्रीति दिलावें ॥। १ ॥ आश्वमेधिकोऽध्यायः । प्रजापतिर्ऋषिः । आद्या आप्रीसंज्ञा एकादश त्रिष्टुभः, अश्वस्तुतयो वाम-देवपुत्रेण बृहदुक्थेन समुद्रपुत्रेणाश्वेन वा दृष्टाः, ' बृहदुक्थो वामदेव्यो ददर्शाश्वो वा सामुद्रिः ' इति सर्वानुक्रम-वचनात् समित्तनूनपादिडादिदेवताकाः । हे भगवन्नग्ने, हे जातवेदो जातप्रज्ञान! त्वं देवानां सधस्थं सह तिष्ठन्ति यत्र तत् सधस्थं सहस्थानं प्रति प्रियं प्रीतिमावक्षि आवह, देवान् प्रीणयेत्यर्थः । वहतेः शपो लुकि मध्यमैकवचने रूपम् । कथम्भूतस्त्वम्? समिद्धः सन्दीप्तः । मतीनां बुद्धीनां कृदरमुदरम् रहस्यमिति यावत्, अञ्जन् व्यक्तीकुर्वन् । मधुमद् मधुस्वादुयुक्तं घृतं पिन्वमान आत्मानं प्रति सिध्र्वन् स्वेच्छ्या पिबन् देवेषु वा सिञ्चन् । वाजी वजतीति, ' वज गतौ ' भौवादिकः, गतिमान् । वाजिनं हविर्वहन् देवान् प्रापयन् सन् देवानां प्रीतिमावहेति सम्बन्धः । आज्ये हि सर्वासां देवतानां मनांसीदं मे स्यादिदं मे स्यादित्येवंप्रायाणि भवन्ति । अध्यात्मपक्षे - हे अग्ने भगवन् परमेश्वर, हे जातवेदः सर्वज्ञ, त्वं देवानां सधस्थं सहस्थानं प्रति प्रियं प्रीतिमावक्षि, सर्वेश्वर एव सर्वान् प्रीणयतीति भावः, ' एष ह्येवानन्दयाति ' ( तै ० उ ० २ | ७ | १ ) इति श्रुतेः । स एव च मतीनामुदरमनक्ति बुद्धिरहस्यं प्रकाशयति सर्वसाक्षित्वात् सर्वान्तर्यामित्वाच्च । स एव सोपाधिकः सन् चलति, ‘ तदेजति ' ( ईशा ० ५ ) इति श्रुतेः । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु – ' हे जातवेदोऽग्ने विद्वन्, यथा समिद्धो अञ्जन्नग्निर्मतीनां मधुमद् घृतं पिन्वमानो वाजिनं वाजी वहन्निव देवानां सधस्थमावहति तथा प्रियं वक्षि ' इति, तदपि यत्किञ्चित्, समिद्धोऽग्निर्मतीनां मनुष्याणां कृदरमुदरं मधुमद् घृतं च कथं सेवत इत्यनुक्तेः, वाजिनं वहन् चालयन्नित्यसङ्गते । वाजी मनुष्यं वहतीति प्रसिद्धम्, नहि वेगवानपि मनुष्यो वाजिनं वहति ॥ १ ॥
घृ॒तेना॒ञ्जन् सम्प॒थो दे॑व॒याना॑न् प्रजा॒नन् वा॒ज्यप्ये॑तु॒ दे॒वान् । अनु॑ त्वा सप्ते प्र॒दिश॑ः सचन्ता ँ स्व॒धाम॒स्मै यज॑मानाय धेहि ॥ २ ॥
मन्त्रार्थ - अश्व घृत की सहायता से देवयान मार्ग को प्रकाशित करता हुआ देवताओं हवि को पहचान कर उन तक पहुँचाता है । हे अश्व! दिशाओं में रहने वाले प्राणी तुम्हारी सेवा करें, तुम इस यजमान के निमित्त अन्न प्राप्त कराओ ॥ २ ॥
प्रथमोऽर्धर्चः परोक्षकृतः, उत्तरः प्रत्यक्षकृतः । तयोरेकवाक्यतासिद्ध्यर्थं पुरुषव्यत्ययः । वाजी अश्वो देवानप्येतु अभ्यागच्छतु देवान् । कथम्भूतोऽश्वः? घृतेन देवयानान् पथः समञ्जन् । देवा यायन्ते यैस्ते देवयानाः
पृष्ठ 297
पाठ पढ़ें पाठ छिपाएँ
२६४ शुक्लयजुर्वेदसंहिता [ अ ० २ ९ पन्थानो हवींषि हि ते जीवन्ति । देवयानान् पथः प्रजानन् देवानां हविरहमिति जानन् । एवं परोक्षमुक्त्वा प्रत्यक्षमाह हे सप्ते अश्व, प्रदिशो दिगाश्रयाणि भूतानि त्वामनुसचन्ताम् अनुसेवन्ताम् ' षच् समवाये ' । पति कर्मणा रामवैतीति सप्तिः, ' षप् समवाये ' तत्सम्बुद्ध, अस्मै यजमानाय स्वधामन्नं धेहि प्रयच्छ | अत्र घृतशब्द-स्तनूनपाच्छब्दपर्याय इत्युव्त्रटाचार्यः । अध्यात्मपक्षे - हे राप्ते, सपति कर्मणा समवैतीति सप्तिस्तत्सम्बुद्धौ हे अश्व जीवात्मन् भवान् घृतेन देवयानान् पथो देवानां हविरहमिति प्रजानन् देवानप्येतु अभ्यागच्छतु । हे सप्ते, कर्मणा सम्बद्ध! प्रदिशो दिगाश्रयाणि भूतानि त्वामनु सचन्ताम् । अस्मै यजमानाय स्वधामन्नं धेहि । दयानन्दस्तु ' हे सप्ते, अरव इव वर्तमान विद्वन्! यथा वाज्यप्यग्निर्घृतेनाञ्जन् देवयानान् पथः समेतु, तं प्रजानन् सन् त्वं देवानेहि, येन त्वानु प्रदिशः सचन्ताम् । त्वमस्मै यजमानाय स्वधां धेहि ' इति, तदपि यत्किञ्चित्, यज्ञकर्त्रे स्वधाधारणप्रयत्नस्य निष्फलत्वेनायुक्तत्वात् त्वद्रीत्या व्याख्याने तु सिद्धसाधनत्वेन यजमानाय स्वधा-दानानुपपत्तेश्व ॥ २ ॥
ईडय॒श्चासि॒ वन्द्य॑श्च वाजिन्नाशुश्चासि मेध्य॑श्च सप्ते ।
अ॒ग्निष्ट्वा॑ दे॒वैर्वसु॑भिः स॒जोषाः प्रीतं वह्नं वहतु जा॒तवे॑दाः ॥ ३ ॥
मन्त्रार्थ - · हे वेगवान् अश्व! तुम स्तुतियोग्य और नमनीय हो, शीघ्र ही अश्वमेघ यज्ञ के योग्य बनो । व देवताओं के साथ प्रीतिमान् सर्वज्ञ अग्नि तुम्हें हवियों के धारक तुष्ट देव के निमित्त अर्पित करें ॥ ३ ॥
हे वाजिन् सप्ते, यस्त्वमीड्य ईडितुं स्तोतुं योग्यो वन्द्यो वन्दनीयवासि, आशुश्च शीघ्रश्वास, मेध्यो मेधार्हो मेधा अश्वमेधाय योग्यः, यज्ञसम्पादी चासि । चकाराः समुच्चयार्थाः । किञ्च, जातवेदा अग्निस्त्वा त्वां वहतु देवान् प्रापयतु । कीदृशोऽग्निः? वसुभिर्देवैः सजोषा जोषसा सहितः । कीदृशं त्वाम्? प्रीतं तुष्टं वह्नि विषो वोढारम् | अध्यात्मपक्षे – हे वाजिन्! गतिशीलजीवात्मन्, स्वधर्मनिष्ठत्वात् त्वमीड्यो वन्द्यश्चासि । आशुः शीघ्र-क्रियाकुशलः, मेधा यज्ञार्हश्वासि । जातवेदाः सर्वज्ञोऽग्निः परमेश्वरस्त्वां वहतु देवान् प्रापयतु । शेषं पूर्ववत् । दयानन्दस्तु – ' हे वाजिन्! सप्ते शिल्पिन् विद्वन्, यतो जातवेदाः सजोषाः सन् भवान् वसुभिर्देवैः सह प्रीतं र्वाह्न वहतु, यं च त्वामग्निर्वहतु " तस्मात् त्वमीड्यचासि वन्द्यश्च शुश्चासि मेध्यवासि ' इति, तदपि यत्किञ्चित्, अग्निकर्तृकजीववनाप्रसिद्धेः, गौणार्याश्रयणाच्च ॥ ३ ॥
स्त॒र्णं ब॒र्हिः सष्टरी॑मा जुषा॒णोरु पृथ॒ प्रय॑मानं पृथि॒व्याम् ।
दे॒वेभि॑र्युक्तमदि॑तिः स॒जोषा॑ः स्यो॒नं कृ॑ण्वा॒ना सु॑वि॒ते द॑धातु ॥ ४ ॥
मन्त्रार्थ - हम कुशाओं को भली प्रकार से विछाते हैं, प्रीतियुक्त सुख देने वाली अदिति देवी अतिविस्तीर्ण इस पृथ्वी पर फैलाई हुई कुशाओं को, जिन पर कि देवता विराजमान हैं, शुभ कर्म के निमित्त यज्ञ- गृह में स्थापित करते हैं ॥ ४ ॥
पृष्ठ 298
पाठ पढ़ें पाठ छिपाएँ
भ ० ४-५ ] वेदार्थपारिजातभाष्यसहिता २६५ वयं स्तीर्ण वेद्यामास्तीर्णमपि बहिर्दर्भान् सुष्टरीम सु सुष्ठु स्तरीम स्तृणाम । अदितिर्देवी स्तीर्णं तद्बह सुविसु इते साधु गते स्वर्गलोके दधातु स्थापयतु । कथम्भूता अदितिः? सजोषाः, जोषसा प्रीत्या युक्ता । स्योनं सुखं कृण्वाना कुर्वती, आजुषाणा आप्रीयमाणा । कीदृशं बर्हिः? उरु बहु पृथु विस्तीर्णम्, पृथिव्यां प्रथमानं विस्तार्यमाणम्, देवेभिर्देवैर्युक्तं सहितम् । अध्यात्मपक्षे - स्तीर्णं बहिर्वयं सुष्टरीम साधु स्तरीम स्तृणाम, देवानां यजनायेत्यर्थः । अदिति -खण्डनीया निर्गुगा निर्विशेषा सविशेषा चितिर्देवी दीव्यमाना तद् बहिः सुविते साधु गते स्वर्गलोके दधातु स्थापयतु । कीदृशी सा? सजोषाः, जोषसा प्रीत्या युक्ता, स्योनं सुखं कृण्वाना कुर्वती, आजुषाणा सर्वतोभावेन प्रीयमाणा, तस्या एव कर्मविधायकत्वेन विशेषणानां तत्रैव सामञ्जस्यात्, ' निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ' इति ललितासहस्रनामोत्तेः । अन्यत् पूर्ववत् । दयानन्दस्तु - ' हे विद्वन् वयं यथा पृथिव्यामुरु पृथु प्रथमानं स्तीर्ण बहिर्जुषा सजोषा देवेभिर्युक्तं स्योनं कृण्वानाऽदितिविद्युत् सर्वसुविते दधातु, तां सुष्टरीम तथा त्वं प्रयतस्व ' इति, तदपि यत्किञ्चित् तीर्णमिति बर्हिः-पदे यानग्रहणे बीजाभावात् बहिःपदप्रसिद्धार्थस्य दर्भस्य त्यागे मानाभावाच्च । तथैव देवेभिर्दिव्यैः पदार्थेरिति व्याख्यानमपि निर्मूलमेव, न चानाशित्वेन विद्युतोऽदितित्वम्, तस्या नाशदर्शनात् ॥ ४ ॥
एताउंवः॑ः सु॒भगा॑ वि॒श्वरू॑पा॒ विपक्षॊभिः॒ः श्रय॑माणा॒ उदातैः ।
ऋ॒ध्वाः स॒तीः क॒वष॒ः शुम्भ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु ॥ ५ ॥
मन्त्रार्थ - हे ऋत्विकगण और यजमानों, तुम्हारी ये द्वारदेवियाँ सुन्दर शोभा से युक्त, नानारूप चित्र - विचित्र ऊँचे उठे हुए पक्षरूप कपाटों से विस्तारयुक्त, गतियोग्य, श्रेष्ठ, खोलने और बन्द करने के समय शब्द करने वाली शोभायमान और सुगम हों ॥ ५ ॥
हे ऋत्विग्यजमानाः, वो युष्माकम् एता उ द्वारो यज्ञगृहद्वारो देवीर्देव्यः सुभगा शोभनं भगं श्रीर्यासां ताः, विश्वरूपा नानारूपचित्राः पक्षोभिः पक्षः, सान्तः पक्षसुशब्दः पक्षवाची, पक्षप्रायैः कपाटैर्विश्रयमाणा विस्तार्यमाणा भवन्तु । कीदृशैः पक्षः? उदातैः, अत्यन्ते विस्तार्यन्त इत्याताः, ' अत सातत्यगमने ', उद् ऊर्ध्वम् आता उदाताः, तैरूवं प्रसृतैरूध्वं सततमायतैर्वा । कीदृश्यो द्वारः? ऋष्वाः, ऋषन्ति इतस्ततो गच्छन्तीति, ' ऋषी गतौ ' तौदादिकः, ऋष्वा महत्य:, ' ऋष्व इति महन्नाम ' ( निघ ० ३ | ३ | ३ ) | सतीः सत्यः समीचीनाः । कवषः कुवन्ति शब्दं कुर्वन्ति कपाटपिधानसमय इति कवषः असुन्नौणादिकः, षत्वमार्षम् । ससुषिरा वा । शुम्भमानाः शोभमानाः सुप्रायणाः सु सुखेन अनायासेन प्रकृष्टमयनं गमनं यासु ताः । एवंविधा देयो दीव्यमाना यज्ञगृहद्वारो भवन्त्वित्यर्थः । अध्यात्मपक्षे - हे साधकाः, वो युष्माकमीदृश्यो भगवत्पदप्राप्तिकारिण्यो द्वारो भवन्तु । कीदृश्यः? सुभगाः परमसौभाग्यशालिन्यः परमसौभाग्यमूलभगवत्पदप्राप्तिहेतुत्वात् । विश्वरूपा विविधरूपचित्रिताः, उदातैरूर्ध्व सातत्योपेतगतियुक्तैः पक्षोभिः पक्षप्रायैः कपाटैः, विश्रयमाणा विस्तार्यमाणाः, ऋष्वा महत्यः, ससुषिराः शुम्भमानाः शोभमानाः सुप्रायणा भवन्तु । दयानन्दस्तु - ' हे मनुष्याः, यथा व एताः सुभगा विश्वरूपा ऋष्वाः कवषाः शुम्भमानाः सतीर्देवीर्द्वार उदातैः पक्षोभिः श्रयमाणाः पक्षिपङ्क्तय इव सुप्रायणा विभवन्तु तादृशीरु भवन्तो रचयन्तु ' इति, तदपि यत्कि-चित् विभक्ते रचनार्थकत्वे मानाभावात् ॥ ५ ॥
३४
पृष्ठ 299
पाठ पढ़ें पाठ छिपाएँ
२६६ शुक्लयजुर्वेदसंहिता अ ० २१
अन्तरा मि॒ित्रावरु॑णा॒ चर॑न्ती मुखे य॒ज्ञानमभिसंविदाने ।
उ॒षासः॑ बाधूं सुहिर॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह मा॑दयामि ॥ ६ ॥
मन्त्रार्थ - हे पत्नी और यजमान, तुम दोनों के बीच में इस पृथ्वीलोक और स्वर्गलोक के मध्य में विचरने वाली, अग्निहोत्र के होमकाल को बताने वाली, अच्छी ज्योति से युक्त, परस्पर समान रूप वाली उषा और रात्रि को यज्ञ में स्थापित करता हूँ ॥ ६ ॥
हे दम्पती यजमानौ, वां युवयोर्ऋतस्य यज्ञस्य योनौ गृहे इह उषासा उषसौ नक्तोषसो, द्विवचनात् सह-चरितत्वाच्च द्वितीया रात्रिः, सादयामि स्थापयामि । कीदृश्यौ नक्तोषसौ? मित्रावरुणा मित्रावरुणौ अन्तरा द्यावापृथिव्योरन्तरे सञ्चरन्ती सञ्चरन्त्यो, ' अयं वै लोको मित्रोऽसौ वरुणः ' ( श ० १२ १२ १२ १२ ) इति श्रुतेः, यज्ञानां मुखमग्निहोत्रहोमकालम् अभिसंविदाने प्रकथयन्त्यौ, उत्तिष्ठताम् । अयमग्निहोत्रहोमकाल इति प्रातर्विप्रा वदन्ति, तदुषस्युपचर्यते । सुहिरण्ये सु साधु हिरण्यं हिरण्यमयं ज्योतिर्ययोस्ते । सुशिल्पे अन्योन्यं प्रतिरूपे, ' यद्वै प्रतिरूपं तच्छिल्पम् ' ( श ० ३।२।११५ ) इति श्रुतेः । अध्यात्मपक्षे - हे दिव्यदम्पती! सीतारामौ रुक्मिणीकृष्णौ, वां युवयोरिह ऋतस्य यज्ञस्य योनौ गृहे उषासानक्तोषसौ सादयामि । शेषं पूर्ववत् । दयानन्दस्तु - ' हे दिव्यशिल्पविद्याप्रचारकौ यथाहमन्तरा मित्रावरुणौ चरन्ती प्राप्नुवन्त्यो यज्ञानां सङ्गन्तव्यानां मुखमभिसंविदाने सुहिरण्ये सुशिल्पे उषासा ऋतस्य योनाविह सादयामि तथा मह्यं स्थापयेतम् ' इति, तदपि यत्किञ्चित् तादृशसम्बोधनस्य निर्मूलत्वात् द्विवचनान्तत्वस्य स्वारस्यानुपपत्तेश्च । सङ्गमनीयाः के पदार्थाः? किञ्च तेषां मुखम्? कश्च तस्य ताभ्यां सम्बन्धः? कीदृशं च तयोः शिल्पमित्याद्यनुक्तेश्च ॥ ६ ॥
प्रथ॒मा वा॑ र॒थिना॑ सुवर्णा दे॒वौ पश्य॑न्ति॒ भुव॑नानि॒ विश्वा॑ ।
अपि॑प्रयं चोद॑ना वां मिमा॑ना॒ होता॑रा॒ ज्योति॑ः प्रदिशो दिशन्त ॥ ७ ॥
मन्त्रार्थ -- हे पत्नी और यजमान, तुम दोनों के बीच में एक रथ पर आरूढ़ सुन्दर वर्ण वाले दीप्यमान, सब भुवनों के द्रष्टा, तुम दोनों के कर्मों का निर्माण करने वाले और उपदेश द्वारा ब्रह्मज्योति का दर्शन कराने वाले दोनों होताओं को मैंने तृप्त किया है ॥ ७ ॥
हे यजमान दम्पती, वां युवयोयौं प्रथम मुख्यौ होतारो, अयं चाग्निरसौ च मध्यम इति तौ, अहमपिप्रयं प्रीणितवानस्मि, प्रीणातेणिजन्तस्य लुङि उत्तमैकत्वे रूपम् । कीदृशी होतारौ? सरथिना सरथिनौ, समानो रथः सरथः सरथोऽस्ति ययोस्ती, एकरथारूढौ । सुवर्णा सुवण सु सुष्ठु वर्णो द्युतिर्ययोस्तौ शोभनवणौं । देवौ दीप्यमान दानादिगुणयुक्तौ वा । विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि पश्यन्तौ साक्षितयाऽवलोकयन्तौ वां युवयोश्चोदना चोदनानि चोदनाप्रमाणकानि कर्माणि मिमाना निर्मिमाणौ प्रदिशा प्रदेशेनाभिनयेन ज्योति -राहवनीयाख्यं यष्टव्यमिति दिशन्तौ दर्शयन्तौ । अध्यात्मपक्षे - हे दिव्यदम्पती यजमानौ सीतारामौ रुक्मिणीकृष्णौ, वां युवयोर्होतारौ अग्निवायुतुल्यौ दवानामाह्वातारी, अहम् अपिप्रयं प्रीणितवानस्मि । कीदृशौ तौ? प्रथमो मुख्यौ समानरथारूढ सत्त्वक्षेत्रज्ञ बुद्धिजीवात्मानौ, पुरञ्जनपुरञ्जनीरूपौ वा सम्बोधनीयौ । शेषं पूर्ववत् ।
पृष्ठ 300
पाठ पढ़ें पाठ छिपाएँ
म ० ७ - ९ ] वेदार्थपारिजातभाष्यसहिता २६७ दयानन्दस्तु - ' हे विद्यार्थिनौ! यो प्रथम सरथिनौ विश्वा भुवनानि पश्यन्तौ वां चोदनानि मिमाना ज्योतिः प्रदिशा दिशन्ता होतारा देवी विद्वांसौ कुर्याताम्, यथा त्वमहमपिप्रयं तथा वां युवां तौ प्राप्नुतम् ' इति, तदपि यत्किञ्चित् द्वौ विद्यार्थिनाविति द्विवचनस्य स्वारस्यानिरूपणात् । ' यौ प्रथमौ ' इत्यत्रापि द्विवचनस्य मूलं चिन्त्यम् । न च द्वौ मानुषौ विद्वांसौ विश्वानि भुवनानि पश्यतः, जीवमात्रस्य अल्पज्ञत्वात् । सुतयोः शोभनवर्णत्वमपि क्वोपयुज्यते । भावार्थस्तु सर्वथा मन्त्राक्षरसम्बन्धशून्य एवेत्युपेक्षणीय एव ॥ ७ ॥
आ॒दि॒त्यै भार॑ती वष्टु य॒ज्ञ ì सर॑स्वती स॒ह रु॒द्रेने॑ आवीत् । इडोप॑हूत॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ दे॒वीर॒मृते॑षु धत्त ॥ ८ ॥
मन्त्रार्थ - आदित्यों से युक्त भारती देवी हमारे यज्ञ को चाहे । आह्वान की हुई प्रीतियुक्त सरस्वती और इड़ा देवी वसु और रुद्रों के साथ हमारे यज्ञ की रक्षा करें । हे भारती, सरस्वती और इड़ा देवियों! आप सब हमारे इस यज्ञ को देवताओं में स्थापित करें ॥ ८ ॥
अत्र त्रयः पादाः परोक्षकृताः, चतुर्थः पादः प्रत्यक्षकृतः । न चैवं सामञ्जस्यम्, अतश्चतुर्थस्य पादस्य सन्नतिः, प्राधान्यमिति यावत् । प्रथितं हि प्रथमपुरुषापेक्षया युष्मदर्थस्य प्राधान्यम्, ' त्यदादीनि सर्वैर्नित्यम् ' ( पा ० सू ० ११२२७२ ) इति सूत्रे, ' शेषे प्रथमः ' ( पा ० सू ० ११४ | १०८ ) इति सूत्रे भाष्ये च । फलतः पुरुष-व्यत्ययः । आदित्यैः सहिता भारती नोऽस्माकं यज्ञं वष्टुकामयताम् । रुद्रः सह सहिता सरस्वती नोऽस्माकं यज्ञमावीद् अवतु । अथवा नोऽस्मान् आवीद् अवतु । इडा चोपहूता कृतोपह्वाना वसुभिर्देवैः सजोषा प्रीतियुता अस्माकं यज्ञमावीत् । एवमनेन प्रकारेण नोऽस्माकं यज्ञं तिस्रो देवीर्देव्यो भारतीसरस्वतीडा अमृतेषु देवेषु धत्त दधतु, पुरुषव्यत्ययः । अथवा परोक्षीकृत्य स्तुतास्ता इदानीं प्रत्यक्षीकृत्य आह - हे तिस्रो देव्यः, नोऽस्माकं यज्ञं यूयममृतेषु देवेषु धत्त स्थापयत । अध्यात्मपक्षे -- आदित्यैः सहिता भारती नोऽस्माकं यज्ञं परमात्मना सङ्गमनं तत्त्वं पदार्थयोरैक्यं वष्टु कामयताम् । अन्यत् सर्वं पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे विद्वन् भवान् य आदित्यैरुपदिष्टा उपहूता भारती नो यज्ञं सम्पादयति, तया सह नोऽस्मान् वष्टु । या रुद्रैरुपदिष्टा सरस्वती नोऽस्मानावीत् या सजोषा इडा वसुभिरुपदिष्टा सती यज्ञं साधनोति, हे जनास्ता देवीरस्मानमृतेषु दध्युस्ता यूयमस्मभ्यं धत्त ' इति, तदपि यत्किञ्चित् प्रत्यक्षसम्बन्ध-मुत्सृज्य दूरसम्बन्धकल्पनायाः प्रमाणशून्यत्वात् । उपदिष्टेति पदमपि निर्मूलम्, मन्त्रबाह्यत्वात् । आदित्यादि-पदानामपि प्रसिद्धमर्थं मपहाय गौणार्थंकल्पनं निर्मूलमेव ॥ ८ ॥
त्वष्टा॑ वी॒रं दे॒वता॑मं जजान॒ त्वष्टुख जायत आ॒शुरश्वः॑ः ।
त्वष्टि॒दं विश्वं भुव॑नं जजाम ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ॥ ९ ॥
मन्त्रार्थ - त्वष्टा देव ने देवताओं के प्रार्थनीय वीर पुत्र को प्रकट किया, त्वष्टा से ही दिशाओं में व्याप्त गतिशील सूर्य प्रकट हुए और परमात्मा त्वष्टा देव ने ही इस भुवन को उत्पन्न किया है । हे मनुष्य होता, सभी कार्यों के कर्ता परमात्मा का इस यज्ञ में यजन करो ॥ ९ ॥