वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 301–310

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 301–310

पृष्ठ 301

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 301 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६८ शुक्लयजुर्वेदसंहिता [ अ ०२ ९ यस्त्वष्टा वीरं पुत्रं देवकामं देवान् कामयत इति देवकामस्तम् ऋणत्रयापाकरणसमर्थम्, जजान जनयति, यस्माच्च त्वष्टुः सकाशाद् अर्वा, ऋच्छतीत्यर्वा अरणः, अथवा इयर्तीत्यर्वा, ' स्नामदिपद्यति शकिभ्यो वनिप् ' ( उ ० ४। ११४ ) इति वनिप् । आशु, अश्नुते दिशो व्याप्नोतीति, अश्नाति भक्षयति वेत्याशुः शीघ्रोऽश्वः, जायत इति शेषः । यश्च त्वष्टा इदं विश्वं भुवनं भूतजातं जजान जनयति तं त्वष्टारं बहोर्भूतग्रामस्य कर्तारमिह यज्ञे हे होतस्त्वं यक्षि यज । अध्यात्मपक्षे --- यश्च त्वष्टा दीप्तिमान् स्वप्रकाशः परमात्मा जगत्स्रा वीरं पुत्रं हिरण्यगर्भ देवकामम्, देवैः काम्यत इति देवकामस्तम्, जजान जनयति यस्माच्च त्वष्टुरश्वोऽश्वमेधीयो जायते स चार्वा आशुश्च । यच इदं विश्वं सर्वं भुवनं जजान, तं बहोः कर्तारं हे होतः, त्वं कर्मभूमौ इह यक्षि यज । दयानन्दस्तु – हे ' होतः, त्वं यथा त्वष्टा विद्वान् देवकामं वीरं जजान, यथा त्वष्टुराशुरर्वाऽश्वो जायते, यथा त्वष्टा देवो विश्वं भुवनं जजान, तं बहोः कर्तारमिह यक्षि तथा वयमपि कुर्याम ' इति, तदपि यत्किञ्चित् त्वष्टा विद्यादिसद्गुणैः प्रकाशमानः, त्वष्टुः प्रदीप्ताच्छिक्षमाणम्, त्वष्टा स्वात्मप्रकाशित इत्याद्यर्थानां गार्थाश्रयणमुत्वेन युक्तत्वात्, रूढैर्योगापहाराच्च ॥ ९ ॥

भश्वो॑ घृ॒तेन॒ त्मन्य॒ सम॑क्त॒ उप॑ दे॒वा॑ २ ॥ ऋतुशः पाथ॑ एतु ।I वनस्पतिर्देवलोकं प्र॑जानन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ॥ १० ॥

मन्त्रार्थ -- घृतरूपी देह से पत्नियों के द्वारा सींचा हुआ अन्नरूप हवि यज्ञकाल पर देवताओं को प्राप्त हो । देवलोक को जानने वाला वनस्पति देवता अग्नि से आस्वादित हवियों को देवताओं को प्राप्त करावे ॥ १० ॥

योऽश्वः पत्नीभिर्धृतेन त्मन्या आत्मना आत्मनुशब्दात् तृतीयाविभक्तेर्यादेशे ' मन्त्रेष्वाङयादेरात्मनः ' ( पा ० सू ० ६।४।१४१ ) इत्याकारलोपे रूपम् । स्वयमेव समक्तः समुक्षितो देवान् प्रति उप एतु उपगच्छतु । ऋतु ऋतौ ऋतौ काले काले पाथोऽन्नं भूत्वा, पाथ इत्यन्ननामसु ( निघ ० ४ | ३ | ३० ) । ननु कथं देवलोक -मजानन् देवान् प्रति गच्छत्विति चेत्तत्राह - वनस्पतिर्युपो देवो देवलोकं प्रजानन् विदन्, अश्वस्य दर्शयत्विति शेषः । यद्वा वनस्पतिर्देवो हव्या हव्यानि वक्षद् वहतु देवान् प्रति । कीदृशानि हव्यानि? अग्निना तन्मित्रेण स्वदि-तान्यास्वाद्य मिष्टीकृतानि । अध्यात्मपक्षे — अश्वो व्यष्टिर्जीवः प्रजापतिरूपः पाथोऽन्नं भूत्वा देवान् प्रति एतु । अन्यत् पूर्ववत् । दयानन्दस्तु - ' हे विद्वन्, देवलोकं प्रजानन् सन् यथा घृतेन संयोजितोऽश्वस्त्मन्या ऋतुशो देवान् समक्तः सन् पाथ उपैतु । अग्निना सह वनस्पतिः स्वदितानि हव्या वक्षत्तथा त्मना वर्तस्व ' इति, तदपि यत्किचित् वीत्या देवानामपि मनुष्यत्वेन देवलोकशब्दार्थासङ्गतेः । यत्तु देवानां विदुषां लोकं दर्शकं व्यवहारं देवलोकमिति, तत्तु शाब्दिकानां व्यवहारविरुद्धत्वादुपेक्ष्यम् । ऋतुशो देवानुत्तमव्यवहारान् समक्तः सम्यक् प्रकटयन्नित्यपि क्लिष्टकल्पनमेव, प्रयोक्तृप्रतिपत्तृषु तादृशार्थे तदप्रसिद्धेः ॥ १० ॥

प्र॒जाव॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने ।

स्वाहा॑कृ॒तेन ह॒विषा॑ पु॒रोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ॥ ११ ॥

मन्त्रार्थ - हे अग्निदेव, प्रजापति के तप से वृद्धि को प्राप्त हुए आप अरणि- काष्ठ से सद्यः उत्पन्न होकर यज्ञ को धारण करते हैं । स्वाहाकार कह कर होमी हुई आहुति के साथ अग्रगामी होकर आप देवताओं को प्राप्त करें और आपके जाने से साध्यदेवता हवि को प्राप्त कर उसका भक्षण करें ॥ ११ ॥

पृष्ठ 302

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 302 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ११-१२ ] वेदार्थपारिजातभाष्यसहिता २६ ९ हे अग्ने, यस्त्वं प्रजापतेस्तपसा वावृधानो वर्धमानः सद्यो जातोऽरण्योः सकाशादुत्पन्नो यज्ञं दधिषे धारयसि, लडर्थे लिट्, तं त्वां ब्रवीमि । स्वाहाकृतेन स्वाहाकारोपलक्षितेन स्वाहाकारमुक्त्वा हुतेन वा हविषा सह पुरोगाः कीदृशं पुरो गच्छतीति पुरोगाः, अग्रगामी सन् याहि देवान् गच्छ । त्वयि गते सति देवा हविरदन्तु भक्षयन्तु : ' ( । पा ० सू ० हविः? साध्या साधु श्रेष्ठम् । साधुशब्दात् विभक्तेः ' सुपां सुलुक् पूर्वसवर्णाच्छेयाडाड्यायाजाल ७ । १ । ३ ९ ) इति ज्यादेशे टिलोपे रूपम् । अध्यात्मपक्षे - हे अग्ने, अग्रणीत्वात् सर्वश्रेष्ठ परमेश्वर, त्वमग्निरूपेण सद्यो जातोऽरणिभ्यामुत्पन्नः प्रजापतेस्तपसा वावृधानो वर्धमानो यज्ञं दधिषे धारयसि, तदभावे देवयज्ञादिलोपापत्तेः । अन्यत् पूर्ववत् । दयानन्दस्तु – ' हे अग्ने, त्वं सद्यो जातः प्रजापतेस्तपसा वावृधानः स्वाहाकृतेन हविषा सद्यः यज्ञं प्रसिद्धार्थत्वे दधिषे । ये पुरोगाः साध्या देवा हविरदन्तु, तान् पाहि प्राप्नुहि ' इति, तदपि यत्किञ्चित्. सद्योजातशब्दस्य । न च तपः-मानाभावात्, सर्वस्यैव संसारस्य परमेश्वरप्रतापजन्यत्वेन मनुष्यविशेषस्यैव तथात्वे मानाभावात् संस्कार -शब्दस्य प्रतापार्थता प्रसिद्धा, कृच्छ्रचान्द्रायणादौ मनोनिग्रहादौ च तत्प्रसिद्धेः । न च स्वाहाशब्दस्य क्रियार्थता च प्रसिद्धा । न च वायुशुद्धयर्थं कृतस्य होमस्य यज्ञत्वम्, तस्याऽन्यथाप्युपपन्नत्वात् । त्वद्रीत्या ॥ ११ ॥

विद्वांसो मनुष्या एव देवाः । मनुष्याणां च भोजनवदेव तेषां भोजनमपि तेषां हविर्भोक्तृत्वे विशेषायोगात् यवक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन् स॑मु॒द्राव॒त वा॒ पुरी॑षात् । ८ श्ये॒नस्य॑ प॒क्षा ह॑र॒जस्य॑ बाहू उ॑प॒स्तुत्यं महिं जातं ते॑ अर्वन् ॥ १२ ॥

मन्त्रार्थ - हे अश्व, जब तुमने प्रथमतः समुद्र से उच्चैःश्रवा के रूप में उत्पन्न होकर अथवा पशु योनि में उत्पन्न के पक्ष शौर्य से और हरिण की होकर हेषा शब्द किया, तब तुम्हारा माहात्म्य स्तुतियोग्य हुआ, जिस तरह से कि श्येन भुजाएँ वेग से स्तुतियोग्य होती हैं ॥ १२ ॥

त्रयोदश अश्वस्तुतिरूपास्त्रिष्टुभो भार्गवेण जमदग्निना दीर्घतमसा च दृष्टाः, अश्वस्तुतौ विनियुक्ताः । हे अर्वन् अश्व, यद् यदा प्रथमं जायमानस्त्वमक्रन्दः, हेषाशब्दमकार्षीः, तदा ते तव महि माहात्म्यमुपस्तुत्य- अपि मुपसङ्गम्य स्तुत्यं स्तवनीयमृषिभिर्जातम् । यच्च समुद्राद् अन्तरिक्षलोकात् पार्थिवाद्वा समुद्रात् पक्षौ शीघ्रतया उत वा अजैषीः, च पुरीषाद् अन्यस्माद्वा जलसङ्घात् पशोर्वा उद्यन् उद्गच्छन् अक्रन्दः, तदा श्येनस्य पक्षा, हरिणस्य बाहू शीघ्रता, अजैषीरिति शेषः । यद्वा अनेन क्रन्दनेन श्येनस्य पक्षौ शौर्येण हरिणस्य बाहू वेगेन जिता-विति शेषः । कीदृशस्त्वम्? समुद्राद् अन्तरिक्षलोकाद् उदधेर्वा प्रथमं जायमानः, उत वा अथवा पुरीषात् पशोः सकाशात्, उद्यन् उत्पद्यमानः । अध्यात्मपक्षे - हे अर्वन्! हे अश्व गतिशीलप्रजापते, यद् यदा त्वमक्रन्दः, प्रथमं जायमानः क्रन्दनं रोदनं कृतवानसि तदा ते तव महि माहात्म्यमुपस्तुत्यं जातम् । शेषं पूर्ववत् । दयानन्दस्तु -- हे अर्वन् विद्वन् यत् समुद्राद् अन्तरिक्षाद् उत अपि वा पुरीषात् पालकात् परमात्मनः प्रथमं जायमानो वायुरिव उद्यत् त्वमक्रन्दः शब्दं कुरुषे, तदा ते हरिणस्य बाहू श्येनस्य पक्षिणः पक्षाविव महि वा जातमुपस्तुत्यं भवति ' इति, तदपि यत्किञ्चित् तथानुपलब्धेः । नहि सर्वो विद्वान् अश्ववेगो भवति, न अन्तरिक्षात् परमेश्वराद्वा जायमानो विद्वान् दृश्यते, मातुर्योनेरेव सर्वस्योत्पत्तिदर्शनात् । न च पुरीषशब्दस्य पर-मात्मनि वृत्तिर्दृश्यते । न च जायमानस्य बाहू श्येनस्य पक्षाविव बलवन्तौ दृश्येते, तद्वैपरीत्यस्यैव दर्शनात् ॥१२ ॥

पृष्ठ 303

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 303 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७० शुक्लयजुर्वेदसंहिता [ अ ० २ ९

य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुनगिन्द्र एवं प्रथ॒मो अध्य॑तिष्ठत् ।

ग॒न्धर्वो अ॑स्य रश॒माम॑गृभ्णात् सूरादश्वं॑ वसवो निरंतष्ट ॥ १३ ॥

मन्त्रार्थ -- आठ वसुओं ने सूर्यमण्डल से अश्व को निकाला, वायु ने यम के दिये हुए इस अश्व को जोता । पहला इन्द्र इस अश्व पर चढ़ा । विश्वावसु गन्धर्व ने इस अश्व की रस्सी को ग्रहण किया || १३ ॥ हे वसवः यूयं सूराद् आदित्यमण्डलाद् अश्वं निरतष्ट निष्कृष्य कृतवन्तः, तक्षतेः करोतौ वृत्तिः, तं यमेन दत्तमेनमश्वं त्रितस्त्रिस्थानो वायुः, आयुनग् युक्तवान्, युजेर्लङि ' छन्दस्यपि दृश्यते ' ( पा ० सू ० ६।४।७३ ) इत्याडागमे रूपम् । इन्द्रव एणमेनमश्वम्, णत्वं छान्दसम् प्रथमोऽध्यतिष्ठद् आदावधिष्ठितवान् । गन्धर्वो विश्वावसुरस्य रशनामगृभ्णाद् गृहीतवान् । अध्यात्मपक्षे - प्रजापत्यात्मनाश्वः स्तुयते । वसवोऽष्टगणदेवाः सूरात् सूर्यमण्डलाद् एनमश्वं निरतष्ट निष्कृष्य कृतवन्तः, स्थूलप्रपञ्चविग्रहस्य विराज उत्पत्तौ पृथिव्यादीनामादित्यमण्डलस्य च हेतुत्वात् । यमेन दत्तमेनं त्रितस्त्रिस्थान वायुः सूत्रात्मा आयुनग् युक्तवान् इन्द्रचैनमधिष्ठितवान् गन्धर्वश्वास्य रशनां गृहीतवान् । दयानन्दस्तु -- ' हे वसवः, इन्द्रस्त्रितो यमेन दत्तमेनमायुनक्, एनं प्राप्य प्रथमोऽध्यतिष्ठत्,, गन्धर्वः अनेका-सन्नस्य रशनामगृभ्णात्, अस्मात् सूरादवं निरतष्ट, तं यूयं विस्तारयत ' इति, तदपि यत्किञ्चित् । अत ध्याहारमूलकत्वात् । न चेन्द्रो विद्युत् त्रितः पृथिवी जलाकाशेभ्यो जायते, तस्या अबिन्धनत्वप्रसिद्धेः एव यमेन नियमकर्त्रा वायुना दत्तं कृतमित्यपि रिक्तं वचः, यमदत्तशब्दयोरर्थाननुगमात् । न च त्वद्रीत्या वायो s स्य नियमकर्तृत्वं सम्भवति, नियमानां प्रेक्षावत्कर्तृकत्वात् । न चाग्निरिह प्रकृतः । न चेन्द्र इत्यनेन दत्तपदवाच्येनार्थेनाभेदसम्बन्धः, वैयधिकरण्यात् । प्रथमेति शब्दस्य विस्तीर्ण प्रख्यातं विद्युदिति व्याख्यानं तु जडवैयाकरणकृतव्याघ्रपदव्याख्यानमनुहरति । गन्धर्वो पृथिवीधारकोऽस्य सूर्यस्य रशनानां किरणानां गतिमगृभ्णा-दित्यपि यत्किञ्चित् । अस्येति पदस्य सूर्यः कथमर्थः? तस्याप्रकृतत्वात् । पृथिवीधारकश्च कः? रशनाशब्दस्य किरणानां गतिरर्थं इत्यपि निर्मूलम् । अश्वशब्दस्य शीघ्रगामी वायुरर्थ इत्यपि स्वाभ्युह्मात्रम्, निर्मूलत्वात् ॥ १३ ॥

असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।

असि॒ सोमे॑न स॒मया विवृ॑क्त आ॒ह॒स्ते॒ त्रीणि॑ दि॒वि बन्धनानि ॥ १४ ॥

मन्त्रार्थ - हे अश्व, तुम गोप्य कर्म द्वारा यम हो, सूर्य हो और इन्द्र हो । सोम के साथ तुम एकत्व को प्राप्त हुए हो । आकाश में तीन ऋक्, यजुः और साम रूप मण्डल में रहने वाला पुरुष तुम्हारे बन्धन के रूप में स्थित है ॥ १४ ॥

हे अन् गतिशीलाश्व त्वं यमोऽसि भवसि आदित्यचासि । तथा गुह्येन गूढेन व्रतेन कर्मणा त्रितस्त्रिस्थान इन्द्रोऽसि । तथा सोमेन समया मध्यतो विपृक्तः सम्पृक्तः, एकीभूत इति यावत् असि । एताभिर्देवताभिस्तव सायुज्यं जातमित्यभिप्रायः । किञ्च, ते तव दिवि द्युलोके आदित्यात्मना स्थितस्य त्रीणि ऋग्यजुः सामलक्षणानि मण्डलान्तरपुरुषार्चीषि त्रीणि बन्धनानि स्वरूपाणि बुधा आहुर्वदन्ति । यद्वा- सोमेन समया सह विपृक्तः सम्पृक्त एकीभूतोऽसि । एवं यमादिभिः सायुज्यं गतस्य तव दिवि नभस्यादित्यरूपेण स्थितस्य त्रीणि बन्धनानि बुधा आहुः । बध्यते संश्लिष्यन्त इति बन्धनानि स्वरूपाणि, ऋगात्मकं मण्डलं यजुरात्मकः पुरुषः सामात्मकान्यचषि, ' यदेतन्मण्डलं तपति तन्महदुक्थम् ' ( श ० १० । ५ । २ । १ ) इत्यादिश्रुतेः ।

पृष्ठ 304

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 304 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १४-१६ ] वेदार्थ पारिजातभाष्यसहिता २७१ अध्यात्मपक्षे -- नहि सामान्योऽश्वो यमादित्यसोमादिभिरेकीभूतः सम्भवति, तस्मात् संवत्सरकालात्मक-प्रजापतिरूप एवात्राश्वः स्तूयते । स एव यमादित्यादिभिरेकीभूतो भवति । स एव ऋग्यजुःसामात्मको भवति । स एव मण्डलपुरुषार्चीरूपोऽपि भवति । दयानन्दस्तु - ' हे अर्वन् यतस्त्वं गुह्येन व्रतेन त्रितो यम इवास्यादित्य इवासि विद्वानिवासि सोमेन समया समीपे विपृक्तोऽसि तस्य ते दिवि त्रीणि बन्धनान्याहु: ' इति, तदपि यत्किञ्चित्, गौणार्थाश्रयणस्यैव दोषत्वात् । न च मूले इवशब्दसम्पृक्ताः यमादयः सन्ति, येन यमतुल्य इत्यर्थः स्यात् । सम्पृक्ते ( सम्बन्धे ) नैव नैकट्यलाभे तदर्थं समयाशब्दप्रयोगस्यापार्थत्वात् । मनुष्ये कथञ्चित् त्रीणि बन्धनानि वक्तुं शक्यन्ते, न मनुष्यप्रकाशे ॥ १४ ॥

त्रीणित आहुवि बन्ध॑नानि॒ त्रीण्य॒प्सु उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्र त आ॒हुः मन्त्रार्थ - हे अश्व, जहाँ तुम्हारे श्रेष्ठ जनक सूर्यदेव स्थित हैं,

विद्यमान हैं । जल में तीन बन्धन कृषि, वर्षा और बीज के रूप में हैं ।

गर्जन के रूप में हैं । वरुण और तुम दोनों मेरी प्रशंसा करते हो ॥ १५ ॥

त्रीण्य॒न्तः स॑मु॒द्रे ।

प॑र॒मं ज॒नित्र॑म् ॥ १५ ॥

वहीं स्वर्ग में तुम्हारे पूर्वोक्त तीन बन्धन भी अन्तरिक्ष में तीन बन्धन मेघ, बिजली और हे अर्वन्, यत्र ते परमं जनित्रं जन्म बुधा आहुरादित्यरूपेण, तत्र ते तव त्रीणि बन्धनानि ऋग्यजुः-सामलक्षणानि । अप्सु उदकेषु त्रीणि बन्धनानि कृषिवृष्टिर्बीजमिति । अन्तः समुद्रे अन्तरिक्षस्य मध्ये त्रीणि बन्धनानि मेघो विद्युद् अशनिरिति बन्धनानि रूपाणि सन्ति । उतेव उतापि च वरुणो वरुणरूपस्त्वं मां छंत्सि प्रशंससि, छन्दतिरर्चतिकर्मा ( निघ ० ३ | १४ | २० ), अर्चनं प्रशंसनम्, कर्मणि षष्ठी । अध्यात्मपक्षे -- सर्वात्मकत्वात् प्रजापतेरेव दिवि उदके अन्तरिक्षे च त्रीणि त्रीणि रूपाण्युपपद्यन्ते नाश्वमात्रे । व्याख्यानं तु पूर्ववदेव । दयानन्दस्तु – ' हे अर्वन्, यत्र दिवि ते त्रीणि बन्धनानि विद्वांस आहुर्यत्राप्सु त्रीणि यत्रान्तर्मध्ये समुद्रे च त्रीणि बन्धनान्याहुः, ते च परमं जनित्रमाहुः, येन वरुणः सन् विदुषरछन्त्स्युतेव तानि मे सन्तु ' इति, तदपि यत्किञ्चित् प्रकाशे बन्धनासम्भवात् । प्राणे जले समुद्रे च त्रीणि कानि बन्धनानीत्यप्यस्पष्टमेव । भावार्थस्तु दूरादप्यक्षराणि न स्पृशति ॥ १५ ॥

इ॒मा ते॑ वाजिन्नव॒मार्जनानीमा श॒फान अत्रा॑ ते भ॒द्रा र॑श॒ना अ॒पश्यमृ॒तस्य॒ या सनतु निधान ॥ अ॑भि॒रक्ष॑न्ति गो॒पाः ॥ १६ ॥

मन्त्रार्थ - हे अश्व, तुम्हारे अवमार्जन के साधन इन वैतस, कट आदि को मैं देखता हूँ । तुम्हारे खुरों के रखने से बने इन चिह्नों को मैं देखता हूँ । इस यज्ञ की रक्षा करने में तत्पर तुम्हारी इन कल्याणरूप रस्सियों को मैं देखता हूँ । ये ही रस्सियाँ यज्ञ की रक्षा करती हैं ॥। १६ ॥ हे वाजिन्, इमा इमानि ते तवावमार्जनानि, अवमायते यैस्तानि नूतनवेतस कटप्रभृतीनि, अहमपश्यं पश्यामि । इमा इमानि शफानां खुराणां सनितुः संविभक्तुर्नियन्तुः पादवाससो निधाना निधानानि स्थानानि,

पृष्ठ 305

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 305 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७२ शुक्ल यजुर्वेद संहिता [ अ ० २ ९ यत्र पादवासःप्रभृतीनि निधीयन्ते तानि अपश्यं पश्यामि । अपि च, अत्र यज्ञे ते तव भद्राः स्तुत्या रशना मध्यबन्धनरज्जूरहमपश्यं पश्यामि । कीदृशीः? गोपाः, गोपायन्तीति गोपास्ता अभिरक्षणकर्त्रीः, ऋतस्य ऋतं यज्ञमभिरक्षन्तीति, कर्मणि षष्ठी । ' निपातस्य च ' ( पा ० सू ० ६।३।१३६ ) इति मन्त्रे दीर्घः । अध्यात्मपक्षे -- हे वाजिन्, प्रजापतिरूपाश्व! इमा इमानि ते तवावमार्जनानि वेतसकटादीन्यपश्यं पश्यामि । अन्यत् पूर्ववत् । दयानन्दस्तु – ' हे वाजिन्, यथाहं ते तवाश्वस्य मार्जनानि इमा शफानां सनितुर्निधानान्यपश्यम्, अत्र ते तवाश्वस्य या भद्रा गोपा रशना ऋतस्याभिरक्षन्ति ता अपश्यम्, तथा त्वं पश्य ' इति, तदपि यत्किञ्चित्, ' वाजिन् अश्व इव वेगादिगुणयुक्त सेनाधीश ' इति गौणार्थाश्रयणस्य निर्मूलत्वात् । सनितु रक्षणनियमस्येति, निधानानि स्थानानीत्यपि न सङ्गतम्, तथार्थत्वस्य निर्मूलत्वात् । न चेदं सेनाश्वादिरक्षणशास्त्रम्, धर्मब्रह्मपरस्य वेदस्य तादृशार्थबोधनेऽप्रवृत्तेः ॥ १६ ॥

आत्मानं ते॒ मन॑सा॒राद॑जानाम॒वो दे॒वा प॒तय॑न्तं पत॒म् ।

शिरों अपश्यं पथिभिः सु॒गेभि॑ररेणुभि॒र्जेह॑मानं पतत्रि ॥ १७ ॥

मन्त्रार्थ- हे अश्व, आकाश मार्ग द्वारा सूर्य में गिरती हुई तुम्हारी आत्मा को बहुत दूर गई हुई मैं जानता हूँ । सुगम, उपद्रवरहित देवयान मार्ग से चलने वाले तुम्हारे गतिशील सिर को मैं सूर्य के रूप में देखता हूँ ॥ १७ ॥

एतैः पुरस्तात् प्रतिपादितैरश्वमभिष्टुत्याथेदानीं भविष्यत्कर्मणा तमभिष्टौति - हे अश्व, पशुसंस्पर्शनोत्तरं ते तव दिव्यमात्मानमहं मनसा आराद् दूरेऽजानां जानामि । जानातेर्लङयुत्तमैकवचनम् । कीदृशमात्मानम्? अवोऽधस्तात् प्रदेशाद् दिवा नभोमार्गेण पतङ्गं सूर्यं प्रति पतयन्तमुत्पतन्तम् । ' पत गतौ वा ' चुरादिरदन्तः । यद्वा दिवा दिवं प्रति पतयन्तमुत्पतन्तं पतङ्गं सूर्यरूपिणम् । किञ्च ते शिरः सूर्यरूपमहं पश्यामि । कीदृशं शिरः? पथिभिर्नभोमार्गैर्जेहमानं गच्छत् । कीदृशैः पथिभिः? सुगेभिः सु सुखेन गम्यते येषु ते सुगास्तैः सुगमनैः । अरेणुभिः, अविद्यमानो रेणुर्येषु तैः, निरुपद्रवैरित्यर्थः । पुनः कीदृशं शिरः? पतत्रि उत्पतनशीलम् । अध्यात्मपक्षे - तस्यैव प्रजापतिभावनया दृष्टस्याश्वमेधीयस्याश्वस्य भविष्यत्कर्मभिरभिष्टवः । व्याख्यानं पूर्ववदेव । दयानन्दस्तु -- ' हे विद्वन्नहं यथा मनसा दिवो दिवा पतङ्गं प्रति पतयन्तं ते पतत्त्रि शिरश्वात्मानमजानाम्, अरेणुभिः सुगेभिः पथिभिर्जेहमानं पतत्त्रि शिरोऽपश्यम्, तथा त्वं पश्य ' इति, तदपि यत्किञ्चित् पश्येति ज्ञानस्य विधानासम्भवात् । यत्कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं स्यात्, तत्र क्रियायामेव विधानं सम्भवति, न तु ज्ञाने, तस्य वस्तुतन्त्रत्वेन पुरुषतन्त्रत्वायोगात् । विमानेन बहवोऽद्याधस्ताद् दिवा गच्छन्त उपलभ्यन्ते । न च स्वरूपे शिरस्तुल्यतापि सम्भवति, वैलक्षण्यात् । तथा च निरर्थकमेव तत् । सिद्धान्ते संज्ञप्तस्य पशोः कर्ममहिम्ना सूर्य प्रति गमनं नासम्भवि ॥ १७ ॥

अत्रा॑ ते रू॒पम॑त्त॒मम॑पश्य॒ जिगषमाणमि॒ष आ प॒दे गोः ।

यदा ते मर्तो अनु भोग॒मान॒डादिद् ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥ १८ ॥

पृष्ठ 306

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 306 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म०१८-१९ ] वेदार्थ पारिजातभाष्यसहिता २७३ ----मन्त्रार्थ - हे अश्व, जब मनुष्य ने तुम्हें भोग समर्पित किया, उस समय तुमने अत्यन्त भक्षक बन कर औषधियों को खा लिया । इस सूर्यमण्डल में तुम्हारे उत्तम भोगरूप अन्नों को यज्ञीय सामग्री के रूप में सब ओर से देखा ॥ १८ ॥

हे अश्व, अत्रा अत्र द्युलोके ते तव रूपमुत्तममहमापश्यं समन्तात् पश्यामि । कथम्भूतं रूपम्? इषोऽन्नानि हवींषि जिगीषमाणं जेतुमिच्छत् जयतेः सन्नन्तात् शानच्, ' सन्लिटोर्जेः ' ( पा ० सू ० ७ ३।५७ ) इति गः । पुनः कीदृशम्? गोर्गन्तुर्मण्डलस्य पदे द्युलोके आ आस्थितम् । यद्वा ' गौर्नादित्ये बलीवर्दे ' इत्यभिधानानुसारेण गौरा-दित्यस्तस्य पदे मण्डले ते तवोत्तमं रूपमहमापश्यं समन्तात् पश्यामि । एवं द्युलोकावस्थितस्य तवाहं रूप-मपश्यम् । अथ पुनः पृथिवीस्थितस्य यदा ते तव मर्तो मनुष्यो भोगं वाहनादिकमनु आनट् अनुव्याप्नोत् अनुव्याप्नोति, आत् इत् इति पादपूरणार्थी तदा ग्रसिष्ठः ' ग्रसु अदने ' ग्रसितृतमः, अतिशयेन भक्षयिता, ओषधीरजीगः, गृह्णासि गिरसि वा । अन्यो वाहितश्चलितुमपि न शक्नोति त्वं त्वतिशयेन भक्षयिता सन् ओषधी -र्घासानश्नासीति वीर्यवत्तरोऽसि सर्वेभ्य इति भावः । यद्वा मर्तो मनुष्यो यदा ते भोगमनु आनट् अनुव्याप्नोति हवीरूपं भोगं समर्पयति देवेभ्य आत् इद् अनन्तरमेव त्वमोषधीर्हवीरूपाः, अजीगो गिरसि भक्षयसि, ' गृ निगरणे ' तौदादिकः, देवरूपो भूत्वा हवीरूपा ओषधीगिरसि । कीदृशस्त्वम्? ग्रसिष्ठः, अत्यन्तं भक्षयिता । अध्यात्मपक्षे— संवत्सरप्रजापतिभावनया भावितस्य प्रजापतिदेवत्यस्य अश्वमेधीयस्याश्वस्य द्युलोका -वस्थितस्य मर्त्यलोकस्थितस्य च रूपमिह वर्णितम् । व्याख्यानं पूर्ववदेव । दयानन्दस्तु - ' हे वीर, ते विजिगीषमाणमुत्तमं रूपं गोः पदेऽत्र इषश्चापश्यम् । ते मर्तो यदा भोगमानट् तदादि ग्रसिष्ठः सन् त्वमोषधीरजीगः ' इति, तदपि यत्किञ्चित् सम्बोधनस्यैव निर्मूलत्वात् । आनन्तयं च कार्य -कारणभावेन निर्धार्यते । न च मनुष्यस्य भोगव्याप्तिर्वीरस्य ग्रसिष्ठत्वे हेतुत्वमुपगच्छति, अतोऽसम्बद्धत्वाद् हेयोऽयमर्थः, इपो जिगीषमाणमिति प्रत्यक्षं श्रुतं कर्म उत्सृज्य शत्रूनिति कर्मकल्पनस्य निर्मूलत्वाच्च ॥ १८ ॥

अनु॑ त्वा॒ रथो॒ अनु॒ यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भग॑ क॒नाना॑म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमा॑य॒रनु॑ दे॒वा म॑मिरे वी॒र्या॑ ते ॥ १ ९ ॥ मन्त्रार्थ - हे अश्व, रथ तुम्हारे पीछे विद्यमान है, मनुष्य और गायें भी तुम्हारे पीछे चल रही हैं, कन्याओं का सौभाग्य तुम्हारे साथ है, मनुष्यों ने तुमसे मित्रता की है और देवताओं ने भी तुम्हारी सामर्थ्यं को समझा है ॥ १ ९ ॥ अर्वन् अश्व, यस्य सुकृतिनो गृहे त्वं चेष्टसे, तस्य गृहे त्वामनु रथो वर्तते, त्वामनु मर्यो मनुष्यो वर्तते, त्वामनु गावो वर्तन्ते, त्वामनु कनीनां कन्यकानां भगः सौभाग्यं वर्तते । तत्रैते सर्वे पदार्था भवन्तीत्यर्थः । किञ्च व्रातासो व्राता मनुष्यसङ्घा अपि, व्राता इति मनुष्यनाम ( निघ ० २ | ३ | १४ ), तव सख्यं सखिभावं मैत्रीमन्त्रीयुः प्रापुः । किमन्यद् बहु वदामः, अनु देवा ममिरे वीर्यं ते, ते वीर्यं वीरकर्म देवा अनुममिरे अनुमितवन्तः । अचिन्त्य -शक्तिस्त्वमसीत्यर्थः । अध्यात्मपक्षे -- प्रजापतिरूपस्याश्वस्याचिन्त्यशक्तित्वेन संस्तवः । सामान्य रूपेणापि सुलक्षणोऽश्वो यत्र भवति, तत्र रथादयस्तमनुवर्तन्ते, कन्यकानां सौभाग्यं मनुष्यसङ्घानुगमनं च तत्र सम्पद्यते । व्याख्यानं पूर्ववदेव । दयानन्दस्तु - ' हे अर्वन् विद्वन्, ते कनीनां मध्ये वर्तमाना देवा ब्रातासोऽनुवीर्यमनुममिरे तव सख्यं चान्वयुः । त्वा रथोत्वा नु मर्यो त्वानु गावो त्वानु भगश्च भवतु ' इति, तदपि न किञ्चित्, मनुष्यस्याश्वतुल्य-त्वायोगात् । नहि बलेनाश्वतुल्यमपि मनुष्यं प्रति देवा अनु वीर्यमनुमिन्वन्ति न च विमानादयोऽपि तदनुगुणा ३५

पृष्ठ 307

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 307 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७४ शुक्लयजुर्वेद संहिता [ अ ० २ ९ भवन्ति । कनीनां कमनीयानां जनानामित्यप्यनर्थः, निर्मूलत्वात्, देवपदस्य जातिविशेषपरत्वस्य भूमिकायां साधितत्वाच्च ॥ १ ९ ॥

हिर॑ण्यशृङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा अव॑र॒ इन्द्र॑ आसीत् ।

दे॒वा इद॑स्य हव॒रद्य॑माय॒न् यो अव॑न्तं प्रथ॒मो अ॒ध्यतिष्ठत् ॥ २० ॥

मन्त्रार्थ - जो मुखिया स्वर्णमय मुकुट धारण किये हुए है, जो अश्व पर आरूढ़ है, उसका पद इन्द्र से छोटा है । इस अश्व के पैर मन की तरह वेग वाले हैं । देवताओं ने स्वयं इस अश्व के भक्षणयोग्य हवि को प्राप्त किया है ॥ २० ॥

हिरण्यशृङ्ग, हिरण्यं शृङ्गस्थानीयमस्येति हिरण्यशृङ्गः, हिरण्यवत् शृङ्गं दीप्तिर्यस्येति वा हिरण्य-शृङ्गः, शृङ्गाणीति ज्वलन्नामसु ( निघ ० १।१७।११ ), अयो लोहमस्याश्वस्य पादाः, अय इति सर्वेषां रजता-दीनामुपलक्षणम्, पादा इत्यवयवानामुपलक्षणम् । अस्य अश्वस्य रजतादिविशिष्टा अवयवा मनोजवा मनोवेगयुक्ताः, वायुरूपेणाश्वस्यावस्थानादिति भावः । देवा इद् देवा एव देवा अपि वा अस्याश्वस्य हविरद्यं हविर्लक्षणमदनीय-मायन्नगच्छन् । अत्तुं योग्यमद्यम्, हविश्व तदद्यं चेति हविरद्यं हविर्लक्षणं भक्ष्यं प्रति आयन् अगच्छन् । यो यश्वार्वन्तं प्रथमो मुख्योऽध्यतिष्ठद् अधिष्ठितवान् स इन्द्रो यस्मादवर आसीन्न्यूनोऽभवत् तं वयं स्तुम इति शेषः । अध्यात्मपक्षे - अश्वोऽत्र प्रजापतिः । तत एव सर्वे देवा अस्य भोग्यत्वमुपजग्मुः । इन्द्रोऽपि तस्मादवरः । हिरण्यमस्य शृङ्गस्थानीयम् । अयो रजतादयोऽस्य पादाः पादाद्यवयवाः । पादाच वायुवेगाः । व्याख्यानं पूर्ववदेव | दयानन्दस्तु -- ' हे मनुष्याः, योऽवरो हिरण्यशृङ्ग इन्द्र आसीद्यः प्रथमोऽर्वन्तमयश्वाध्यतिष्ठत् अस्य पादा मनोजवाः स्युः, देवा अस्य हविरद्यमिदायन् तं यूयमधिश्रयत ' इति, तदपि यत्किञ्चित् तादृशस्य सभापते-दर्शनात् शृङ्गतुल्यं यस्य तेजः स्यात्, लक्षणायां बीजाभावात् । नहि कस्यचिन्मनुष्यस्य पादा मनोजवा भवन्ति । विमानान्येव पादा इत्यपि निर्मूलम्, मन्त्रबाह्यत्वात् ॥ २० ॥

ई॒र्मान्ता॑स॒ः सिलिंकमध्यमास॒ः सधैं शूर॑णासो दि॒व्यासो॒ अत्या॑ः ।

ह ँसा ईव श्रेण॒शो य॑तन्ते॒ यदावि॑षु॑र्दे॒व्यमज्म॒मश्वः ॥ २१ ॥

मन्त्रार्थ --- जब विशाल जघन और वक्षस्थल वाले, कृशोदर, अति पराक्रमी, दिव्य सूर्य के रथ में जुते हुए घोड़े श्रेणीभूत हंसों के समान तीव्र गति से चलते हैं, तब वे दिव्य गति या संग्राम को प्राप्त कराते हैं ॥ २१ ॥

आदित्यस्य रथे नियुक्तानामश्वानां रूपेणायमश्वः स्तूयते । ईर्मान्तासः ईयत इति ईर्म, ' इर क्षेपे ', ' इषियुधी ' ( उ ० १।१४५ ) इति बाहुलकान्मकप्रत्ययः, ईमः क्षिप्तोऽन्तः शरीरप्रान्तो येषां ते ईर्मान्ताः, ईर्मान्ता एव ईर्मान्तासः, पृथुजघनोरस्काः । ते हि सप्ताप्यश्वाः समीरितान्ता विक्षिप्तप्रान्ताः । सिलिकमध्यमासः, सिलिकः संलग्नो मध्यमो मध्यभागो येषां ते सिलिकमध्यमासः कृशोदरा इति यावत् । ' षिल उञ्छे ' तौदादिकः, अत्र संश्लेषणे वृत्तिः, इककप्रत्ययः । एतेनापि प्रकारेण स्तुतिरुपपद्यते, निरुदरास्तेऽश्वा इत्यर्थः । संशूरणासः शू शीघ्रं रणो रवो युद्धं वा येषां ते संशूरणासः । यद्वा शृगाति हिनस्ति तमोजातमिति शूरण आदित्यः शृणाते-र्जूरणस्प्रत्ययः, तेन सहिताः संशूरणाः । दिव्यासो दिवि भवा दिव्यासो दिव्याः । अत्याः सततगमनाः । अतन्ति

पृष्ठ 308

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 308 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म • २१-२२ ] दार्थ पारिजातभाष्यसहिता २७५ सततं गच्छन्तीत्यत्याः । सकृद्युक्ता ब्राह्मं सहस्रयुगपर्यन्तमहर्यावद् वहन्ति । य इत्थम्भूता अश्वास्ते हंसा इव श्रेणिशो श्रेणीभूताः पङ्क्तिबद्धा रविरथस्था एकया रीत्या यतन्ते गमनाय सम्यक् प्रयत्नं कुर्वन्ति । कदा? यदा यस्मिन् काले दिव्यं दिवि भवम्, अज्मं गमनं संग्रामं वा आक्षिषुर्व्याप्नुवन्ति, ' अक्षू व्याप्तौ ' भौवा -दिकः, लुङि रूपम् । हंसा यथा पङ्क्तिबद्धा गमनाय यतन्ते, तथा अश्वा अपीत्यर्थः । यद्वा यद् यदा अश्वाः सप्त रविरथस्थाः श्रेणीभूता हंसा इव संयतन्ते सम्यक् प्रयत्नं कुर्वन्ति, तदा दिव्यं दिवि भवमज्मं गमनं संग्रामं वा आक्षिषुर्व्याप्नुवन्तीति सम्बन्धः । कीदृशा अश्वाः? ईर्मान्तास इति पूर्ववत् । अश्वत्वात् प्राजापत्योऽ-श्वमेधीयोऽश्व एव तेनापि स्तूयते । अध्यात्मपक्षे - प्रजापतेः सर्वात्मत्वात् सूर्यरथस्था दिव्या अश्वा अपि स एवेति स्तूयते । एवं सूर्यरथस्था-श्वदृष्ट्या दृष्टोऽश्वोऽश्वमेधीयः संस्कृतो भवति । आदित्यदृष्ट्या दृष्टयूपवत्, ' आदित्यो यूप: ' ( तै ० ब्रा ० २१५२ ) इति श्रुतेः । व्याख्यानं पूर्ववदेव । दयानन्दस्तु A - ' हे मनुष्याः यद् येऽग्न्यादय इव ईर्मान्तास: सिलिकमध्यमासः शूरणासो दिव्यासो अत्या अश्वाः श्रेणिशो हंसा इव यतन्ते, दिव्यमज्मं समाक्षिषुस्तान् यूयं प्राप्नुत ' इति, तदपि न सङ्गतम्, निर्मूलाध्याहार-मूलकत्वात् । अग्न्यादयः पदार्था इवेत्यंशोऽपि निर्मूल मन्त्रबाह्यत्वात् । दिव्याः प्राप्तदिव्यशिक्षा इत्यपि निर्मूलम्, मूले शिक्षापदाभावात् ॥ २१ ॥

तव॒ शरी॑रं पतयि॒ष्ण्व॒र्व॒न् तव॑ चि॒त्तं वात॑ इव॒ धर्जीमान् ।

तव शृङ्गणि विष्ठिता पुरुत्रारण्येष जर्भुराणा चरन्ति ॥ २२ ॥

मन्त्रार्थ --हे अश्व, तुम्हारा शरीर पतनशील हैं, तुम्हारा चित्त वायु के समान गतिमान् है तुम्हारे साथ सायुज्य को प्राप्त करने वाली नाना प्रकार की विकसित दीप्तियाँ वनों में दावाग्नि के रूप में फैलती हैं ॥ २२ ॥

हे अन् अश्व, तव शरीरं पतयिष्णु उत्पतनशीलम् तव चित्तं वात इव ध्रजीमान्, ' ध्रज गतौ ' भावादिकः, तस्माद् ई: प्रत्ययो बाहुलकात् । ध्रजीः गतिः, मतुपि ध्रजीमानिति, वायुतुल्यवेगवत्, सूक्ष्मानर्थान् प्रति गच्छतीति यावत् । तव शृङ्गाणि दीप्तयः शृङ्गाणीति ज्वलन्नामसु ( निघ ० १ | १७ | ११ ) । अर्चीषि पुरुत्रा बहुधा विद्युच्चन्द्राग्न्यिादिषु विष्ठिता विविधं स्थितानि । अरण्येषु वनेषु जर्भुराणा जर्भुराणानि देदीप्यमानानि, ' भी गात्रविनामे ', दावाग्निरूपेण प्रसरन्ति । अध्यात्मपक्षे - प्रजापतिरूपोऽश्वोऽग्निरूपोऽपि - ' स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ ' ( कु ० पु ० १ | ४ | ३८ तथा ब्रह्मा ० पु ० १।३।२४ - २५ ), ' एतमेके वदन्यग्नि मनुमन्ये प्रजापतिम् ' ( म ० स्मृ ० १२ १२३ ) इति वचनाभ्याम् । तत एवाश्वमेधीयोऽपि प्रजापतित्वादेवाग्न्या-द्यात्मना स्तूयते । तस्य शरीरं सूत्रात्मकत्वाद् वायुरूपमुत्पतनशीलम् । तस्य सूक्ष्मशरीरात्मकं मनो हिरण्यगर्भरूप-सूक्ष्मार्थवेदि भवति । अग्न्यात्मना च तस्य शृङ्गाण्यचषि पुरुत्रा विष्ठितानि । अरण्येषु दावाग्निरूपेण देदीप्यमानानि सन्ति । दयानन्दस्तु - ' हे अर्वन् वीर, यस्य तव पतयिष्णु शरीरं तव चित्तं वात इव ध्रजीमान् वेगवान् तव पुरुत्रारण्येषु जर्भुराणा विष्ठितानि शृङ्गाणि चरन्ति स त्वं धर्मं चर ' इति, तदप्यसङ्गतम्, वीरस्य पशुनाम्ना सम्बोधनासङ्गतेः । पतयिष्णु पतनशीलं नाशवानिति व्याख्यानमपव्याख्यानम्, युद्धादिप्रसङ्गे नाशवत्त्ववर्णनस्या-

पृष्ठ 309

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 309 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७६ शुक्लयजुर्वेदसंहिता [ अ ० २ ९ मङ्गलत्वात् । युद्धसमये – ' कालोऽस्मि लोकक्षयकृत् ' ( भ ० गी ० ११।३२ ) इति भावनाया एवादरणीयत्वात् । शृङ्गाणीव सेनाङ्गानीत्यपि निर्मूलम्, सेनाप्रसङ्गस्याभावात् ॥ २२ ॥

उप प्रागाच्छसेनं वा॒ज्यवो॑ देवद्रीचा मन॑सा॒ दीध्या॑नः ।

अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात् क॒वयो॑ यन्ति र॒भाः ॥ २३ ॥

मन्त्रार्थ - गमनशील देवार्पित होने की इच्छा से दीप्यमान अश्व गमन - स्थान पर प्राप्त हुआ है । इस अश्व के आगे जो नाभि है, उसमें अज को स्थापित किया जाता है । उसके पीछे स्तुति करने वाले ऋत्विकगण चलते हैं ॥ २३ ॥

अर्वा अश्वः शासनं विशसनस्थानम् उपप्रागाद् आगतः । कीदृशोऽश्वः? वाजी, वजतीति वाजी, ' वज गतौ ' भौवादिकः, गमनशीलः, अन्नवान् वा । देवीचा देवान् प्रत्यञ्चतीति देवद्रयङ्, तेन देवद्रीचा ' विष्वग्-देवयोश्व रतौ प्रत्यये ' ( पा ० सू ० ६ । ३ ९ २ ) इति देवशब्दस्य टेरञ्चतौ परेऽद्रयादेशः । मनसा दीध्यानः, दधीत इति दीध्यानो ध्यायन्, हिरण्यगर्भपदं चिन्तयन् । ' दीधीङ दीप्तिदेवनयो: ' आदादिकः, शानच्प्रत्ययः । देवान् प्रति गतेन मनसा दीप्यमानः । किञ्च अस्याश्वस्य पुरोऽग्रेऽजो नीयते स्थाप्यते, ' कृष्णग्रीवमाग्नेयं रराटे पुरस्तात् ' ( श ० १३ | २ || ३ ) इति श्रुतेः । अस्य नाभिः, अजो नाभौ स्थाप्यते, ' सौमा पौष्णं श्यामं नाभ्याम् ' ( श ० १३ २ २६ ) इति श्रुतेश्च । अस्य पश्चात् कवय ऋत्विजोऽनुयन्त्यनुलग्ना गच्छन्ति । कथम्भूताः कवयः? रेभाः, रेभन्त इति रेभाः, ' रेभृ शब्दे ' भौवादिकः, स्तोतार इत्यर्थः । अध्यात्मपक्षे - प्राजापत्योऽश्वः प्रजापतिर्यथा सर्वेषु देवेषु प्रधानभूतः तथैवाश्वोऽपि सर्वेषु पशुषु प्रधान-भूतः । अन्ये सर्वे पशवोऽस्याङ्गभूता एव । तत एवाश्वमेधे आग्नेयोऽजोऽस्य पुरतो नीयते, नाभौ च स्थाप्यते, ऋत्विजश्चानु लग्नास्तं स्तुवन्ति । एवं महामहिमवैभवोऽश्वमेधीयोऽश्व इति । व्याख्यानं पूर्ववदेव | -दयानन्दस्तु – ' यो दीध्यानो वाज्यर्वा मनसा शसनं युद्धमुपप्रागात् विद्वद्भिरस्य नाभिः पुरो नीयते, तं पश्चाद् रेभाः कवयोऽनुयन्ति ' इति, तदप्यसङ्गतम्, युद्धप्रसङ्गस्य निर्मूलत्वात् । युद्धं प्रति गमने कथमश्वस्य मनो देवान् प्रत्यञ्चति? तस्य पशुत्वेन तादृशज्ञानाभावात् । अजः क्षेपणशील इत्यप्यसङ्गतम् । नाभिपदेन पृष्ठप्रदेशग्रहणमपि बलात्कार एव । नहि मेधाविनोऽश्वमनुगच्छन्ति, निरर्थकत्वात् । सिद्धान्ते तु प्राजापत्यस्या-श्वस्य तत्सर्वं सङ्गच्छते ॥ २३ ॥

उप प्रार्गात् परमं यत्सधस्थमर्वा २ ॥ अच्छा पितरं मातरं च ।

अ॒द्या दे॒वान् जुष्ट॑तम॒ हि ग॒म्या अथाशा॑स्ते दाशुषे॒ वार्याणि ॥ २४ ॥

मन्त्रार्थ - जिस कारण से अश्व पृथ्वी और स्वर्ग के समीप सहस्थान देवलोक में प्राप्त हुआ, हे यजमान! अब परमप्रिय देवताओं को तुम भी उन्हीं कारणों से प्राप्त करो । ऐसा होने के बाद ही देवत्व को प्राप्त हुए हवि के दाता यजमान के निमित्त देवता वरणीय भोग्य वस्तुएँ प्रदान करते ॥ २४ ॥

एवमश्वमभिष्टुत्य यजमानं कृतकृत्यतया सम्बोधयन्नाह - उपेति । यद् यस्मात् परममुत्कृष्टं सधस्थं देवमनुष्याणां सहस्थानमर्वान् अश्व उपप्रागात् प्राप्तवान् नलोपाभावश्छान्दसः । अच्छा आभिमुख्येन पितरं मातरं द्यावापृथिव्यौ अभ्यागात् । तस्माद् ब्रवीमि हे यजमान, जुष्टतमः प्रीततमः सन् अद्या अद्य कृतकृत्यः सन् देवान्

पृष्ठ 310

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 310 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २४-२६ ] वेदार्थपारिजातभाष्यसहिता २७७ गम्या गच्छेः । गमेराशीर्लिङि मध्यमैकवचने रूपम् । अथैवं देवभावं गताय दाशुषे हविर्दत्तवते तुभ्यं वार्याणि वरणीयानि भोग्यवस्तूनि नूनमाशास्ते । अश्वो देवगणो वा । अध्यात्मपक्षे – प्रजापतिदृष्ट्या दृष्टः सन्नर्वा सर्वात्मभावं गच्छति । मातरं पितरं च द्यावापृथिव्या अभिगच्छति । तथैवाश्वमेधयाजी यजमानोऽपि देवभावं गच्छति । एवमुपासनासमुच्चितेन कर्मणा विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते । व्याख्यानं पूर्ववदेव । दयानन्दस्तु - ' हे विद्वन्, यद्योऽर्वान् ज्ञानी जनो जुष्टतमः सन् परमं सधस्थं पितरं मातरं देवांश्च आशास्तेऽथ दाशुषे वार्याण्युपप्रागात् तं हि त्वमच्छ गम्याः ' इति, तदपि यत्किञ्चित् ज्ञानिजनस्य पूर्ण कामत्वेन परमं सधस्थं पितरं मातरं प्रत्याशास्तेऽधिकमिच्छतीत्यसङ्गतेः । कश्च दाशुषे वार्याण्युपप्रागात्, यं त्वमच्छ गम्या इत्यनुक्तेश्व ॥ २४ ॥

समि॑द्धो अ॒द्य मनु॑षो दुरोणे दे॒वो दे॒वान् य॑जसि जातवेदः ।

आ वह मित्रमहश्चिकित्वान् त्वं दुतः क॒विर॑सि प्रचेताः ॥ २५ ॥

मन्त्रार्थ -- हे यजमान से पूजित सर्वज्ञ अग्निदेव, दान आदि दीप्त गुणों से युक्त होकर आप यजमान के यज्ञगुह में अन्य देवताओं के साथ आइये, क्योंकि आप हो यजन करने में समर्थ हैं, आप ही ब्रह्मा, विष्णु और महेश रूप वेदवक्ता प्रकृष्ट चैतन्य चित्त से युक्त हैं ॥ २५ ॥

द्वादश आप्रीसंज्ञास्त्रिष्टुभो जमदग्निदृष्टाः । समित्तनूनपादादयो देवताः । हे जातवेदः, जातप्रज्ञान! यस्त्वमद्य अस्मिन् यजनीयेऽहनि मनुषो मनुष्यस्य यजमानस्य दुरोणे यज्ञगृहे समिद्धः सन्दीप्तो देवो दानादिगुणको देवान् दानादियुक्तान् इन्द्रादीन् यजति तं त्वां प्रार्थये - हे मित्रमहः, मित्रान् यजमानान् महति फलदानादिनेति मित्रमहाः, तत्सम्बुद्धौ, देवान् आवह यज च । यस्त्वं चिकित्वान् चेतनावान् प्रेक्षापूर्वकारी, दूतः कविः क्रान्तदर्शी, प्रचेतः प्रकृष्टं चेतो ज्ञानं यस्य सः, अतो ब्रवीमि त्वं देवानावह यज च । अध्यात्मपक्षे- हे जातवेदः, जाताः प्रादुर्भूता वेदा यस्मात् स जातवेदाः, तत्सम्बुद्धौ । मनुषो मनुष्यस्य यजमानस्य दुरोणे यज्ञगृहे आहवनीयादिरूपेण समिद्धो देवः स्वयं प्राज्ञो देवान् इन्द्रादीन् यजसि देवयजनहेतुता -मुपगच्छसि । हे मित्रमहो मित्रपूजयितः 1 त्वं देवान् आवह यज च देवागमनयजनादीनां त्वदायत्तत्वात् । सौभाग्यमेतद् यत्त्वमस्माकं यज्ञे वर्तेथाः । त्वं देवानां दूतः कविः क्रान्तदर्शनः प्रचेताः प्रकृष्टज्ञानश्चासि । अतस्त्वां प्रार्थये देवान् आवह यज च । दयानन्दस्तु - ' हे जातवेदो मित्रमहो विद्वन् त्वमत्र समिद्धोऽग्निरिव मनुषो देवः सन् यजसि । चिकित्वान् तो यो दुनोति दुष्टान् तापयति सः । प्रचेताः कविः, दुरोणेऽसि, स त्वं देवांश्चावह ' इति, तदपि यत्किञ्चित्, सङ्गतिसामान्यस्य संसारे स्वतः प्राप्तत्वात्, सङ्गतिविशेषस्य चानुक्तेः । न च मन्त्रे इवशब्दोऽस्ति । मन्त्रोक्त-विशेषणानि दिव्यगुणानामेव बोधकानि । न च तादृशगुणेभ्योऽन्ये विशिष्टा गुणाः सम्भवन्ति, येषां प्राप्तिरिष्येत ॥ २५ ॥

तनू॑नपात् प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन् स्व॑दया सुजिह्व ।

मन्मा॑नि धी॒भिरु॒त य॒ज्ञम॒न्धन् दे॑व॒त्रा च॑ कृणुह्यध्व॒रं न॑ः ॥ २६ ॥

S