वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 311–320
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 311–320
पृष्ठ 311
पाठ पढ़ें पाठ छिपाएँ
२७८ शुक्लयजुर्वेद संहिता [ अ ० २ ९ मन्त्रार्थ - हे जल देवता के पौत्र, श्रेष्ठ जिल्ह्वा वाले अग्निदेव! ब्रह्मप्राप्ति के साधनस्वरूप मार्गों को मधुर रस से सींचते हुए आप हवियों का भक्षण कीजिये । हमारी बुद्धि और ज्ञान के साथ यज्ञ को समृद्ध करते हुए हमारी आहुतियों को देवताओं तक पहुँचाइये ॥ २६ ॥
तनूनपात्तन्यन्ते कर्माण्याभिरिति तन्वः, ' कृषिचमितनि ' ( उ ०१1८० ) इत्यू: आपस्तनूनां नपात् पौत्रः, आज्यमग्निर्वा । अद्भूयो वृक्षा जायन्ते, तेभ्योऽग्निरित्यपां पौत्रत्वमग्नेः । तथैव तनूनां गवां सकाशात् पयो जायते, तत आज्यमिति तनूनपादाज्यम्, हे तनूनपादग्ने आज्य वा । हे सुजिह्व, शोभना कल्याणरूपा जिह्वा यस्यासौ सुजस्तत्संबुद्धी, अग्नेजिह्वा नानादेवत्यानि हवींष्यभ्यवहरति, न किञ्चनोच्छेषयति, तस्मात् कल्याण-रूपा सा । ऋतस्य यज्ञस्य यानान् गमनान् पथो हवींषि, हविर्भिर्हि यज्ञो याति प्रवर्तते, अतो यज्ञमार्गशब्देन हवींष्युच्यन्ते । यायन्ते यैर्येषु वा ते यानाः, ' करणाधिकरणयोश्च ' ( पा ० सू ० ३ | ३ | ११७ ) इति ल्युट् । मध्वा मधुररसेन समञ्जन् म्रक्षयन् स्वदया स्वदय । ' ऋचि तुनुघमक्षुतङ कुत्रोरुष्याणाम् ' ( पा ० सू ० ६ | ३ | १३३ ) इति दीर्घः । देवेभ्यो रोचयेत्यर्थः । किञ्च, नोऽस्माकमध्वरं यज्ञं देवत्रा कृणुहि देवान् गमय । करोतिरत्र गत्यर्थः कथमिति चेत्तत्राह - धीभिर्बुद्धिभिः सहितानि मन्मानि मननानि ज्ञानानि, उतापि च यज्ञमृन्धन् समर्धयन्नस्माकं ज्ञानं वर्धयन्, यज्ञं देवलोकं गमय । अध्यात्मपक्षे - हे तनूनपात्, सर्वात्मकत्वात् तनूनपात्, सुजिह्वरूपेणापि परमेश्वर एवं सम्बोध्यते । स एव नानादेवत्यानि हवींषि भक्षयन्नपि नोच्छिष्टानि करोति । तादृशस्त्वमृतस्य यानान् पथो हवींषि स्वदय देवेभ्यः । स त्वं मध्वा हवींषि संम्रक्षयति संम्रक्षयसि । यज्ञं ज्ञानं च स एव समर्धयति, विश्वसृष्टिहेतुत्वात् । दयानन्दस्तु -- ' सुजिह्व तनूनपात् यस्तनूविस्तृतानपि पदार्थान् न पातयति, त्वं ऋतस्य यानान् पथोऽग्नि-रिव मध्वा समञ्जन् स्वदय धीभिर्मन्मानि मानागि उत नोऽध्वरं यज्ञं सङ्गमनीयं व्यवहारं धनं देवत्रा च कृणुहि ' इति, तदपि यत्किञ्चित् तनूनपाच्छब्देन विदुषः सम्बोधने मानाभावात् । न च तादृशी व्युत्पत्तिरेव तन्मान-मिति वाच्यम्, विस्तृतपदार्थानां धारणे पातनेऽल्पशक्तीनां जीवानामनधिकारात् । नह्यंशं कालं वा जीवः पातयति धारयति वा । न वा सत्यस्य जलस्य मार्गानग्निरपि स्वदयति, कुतस्तद्दृष्टान्तेनान्योऽपि विद्वान् स्वदयितुं प्रभवति । किञ्च सत्यस्य मार्गः कः? जलस्य वा को मार्गोऽत्र विवक्षित इत्यनुक्तेश्च । कथं च समञ्जनं तस्य? मन्मपदेन यानग्रहणमपि निर्मूलमेव, धात्वर्थविरोधात् ॥ २६ ॥।
नरा॒शस॑स्य॒ महि॒मान॑मेषा॒मुप॑स्तोषाम यज॒तस्य॑ य॒ज्ञैः ।
ये स॒क्रत॑वः शुच॑यो धिय॒न्धा स्वद॑न्ति दे॒वा उ॒भया॑नि हव्या ॥ २७ ॥
मन्त्रार्थ - सभी यज्ञों में पूजनीय, भक्तों के द्वारा स्तुतियों से प्रसन्न किये गये अग्निदेव की महिमा को हम इन सभी देवताओं के बीच में गाते हैं । शुभ कर्म के कर्ता, शुद्ध ज्ञान से सम्पन्न ये सब देवता हमारी दी हुई अधिदैव और अध्यात्म दोनों प्रकार की हवियों ग्रहण करते हैं ॥ २७ ॥ ।
नराशंसस्य नरा अस्मिन्नासीनाः शंसन्तीति नराशंसो यज्ञः, यद्वा नरा आशंसन्ति यं स नराशंसोऽग्निः प्रजापतिर्वा, नरैः प्रशस्यो भवति । तस्य प्रजापतेरग्नेर्यज्ञस्य वा महिमानं महाभाग्यमेषां देवानां मध्ये वयमुप-तोषाम उपस्तुमः । स्तौतेलेंटि उत्तमैकवचने ' सिब्बहुलं लेटि ' ( पा ० सू ० ३ | १ | ३४ ) इति सिपि रूपम् । कथम्भूतस्य नराशंसस्य? यज्ञैर्यजतस्य यज्ञैराहुतिभिर्यष्टव्यस्य । यजेरतच्प्रत्ययः ' भृमृदृशियजि ' ( उ ० ३ | ११० )
पृष्ठ 312
पाठ पढ़ें पाठ छिपाएँ
म ० २७-२८ ] वैदार्थं पारिजात भाष्यसहिता २७ ९ इत्यादिनेति ज्ञातव्यम् । केषां देवानां मध्ये उपस्तोषामेति तत्राह - ये देवाः सुक्रतव इति । ये देवाः बुद्धि सुक्रतवः कर्म वा सुष्ठु शोभनः क्रतुः कर्म येषां ते । शुचयः शुद्धा निष्पापा अणिमाद्यैश्वर्ययुक्ताः । धियन्धाः धियं दधतीति तथोक्ताः । अलुगार्षः । ये च देवा उभयानि हव्यानि सोममितराणि च भक्षयन्ति अध्यात्मपक्षे— नराशंसस्य सर्वैर्जीवैः संस्तुतस्य परमेश्वरस्य महिमानं महाभाग्यं वयमेषां देवानां मध्ये उपस्तोषाम अस्तुमः । कथम्भूतस्य? यज्ञैरग्निष्टोमादिभिर्यजतस्य यष्टव्यस्य । अन्यत् पूर्ववद् व्याख्येयम् । , एषां दयानन्दस्तु – ' हे मनुष्याः, यथा वयं ये सुक्रतवः शुचयो धियन्धरा देवा उभयानि हव्या स्वदन्ति, यज्ञैर्नराशंसस्य यजतस्य व्यवहारस्य महिमानमुपस्तोषाम, तथा यूयमपि कुरुत ' इति, तदपि यत्किञ्चित् व्यवहारस्य अस्पष्टत्वात् । स्वदन्ति यज्ञः सङ्गादिलक्षणैर्नराशंसस्य नरैः प्रशंसितस्य यजतस्य सङ्गन्तुं योग्यस्य महिमानं प्रशंसेत्यप्यसङ्गतम्, असम्बन्धात् ॥ २७ ॥
आह्वान ईड्यो वन्द्यश्चाया॑ग्ने॒ वसू॑भिः स॒जोषाः ।
त्वं दे॒वाना॑मसि य॒ह्म॒ होता॒ स ए॑नान्यक्षोषि॒तो यजी॑यान् ॥ २८ ॥
मन्त्रार्थ - हे अग्निदेव! देवताओं का आह्वान करने वाले स्तुतियोग्य नमनीय वसु देवताओं के साथ प्रीति करने वाले आप हमारे इस यज्ञ में आइये । हे महान् शक्तिसम्पन्न अग्निदेव, आप देवताओं का आह्वान करते हैं । वह अभीष्ट यजमान आप सब देवताओं को यज्ञ के अनुष्ठान के द्वारा तृप्त करे ॥ २८ ॥
याहि हे अग्ने, यस्त्वमाजुह्वान आहूयमानः सन् ईड्यः स्तुत्यो वन्द्यो नमनीयवासि भवसि ६ | १ स | ३३ त्वं ) इति आयाहि । यद्वा आह्वयते देवानित्याजुह्वानः, ह्वयतेः शपः श्लुः, ' अभ्यस्तस्य च ' ( पा ० सू ० सम्प्रसारणे शानचि रूपम् । यश्च त्वं वसुभिः सजोषाः समानप्रीतिः । किञ्च, हे यह्न हे महन्, ' महागुणविशिष्टो यतः ' इति भट्टभास्करः, यह्व इति महन्नामसु ( निघ ० ३ | ३ | १३ ), यजतीति यह्नः, शेवयह्वजिह्वाग्रीवा- क्वन् प्वमीवाः ' ( उ ० १।१५४ ) इति वन्प्रत्ययः, जकारस्य हकारश्च निपात्यते । ' यसु प्रयत्ने ' इत्यस्मात् इति भोजदेवः । यस्यति प्रयतते शत्रुजयादाविति यः । य इति महतो नामधेयं यातश्च हूतश्च भवति ' ( निरु ० ८८ ) इति याकः । ' यातश्चासावाहूतश्चार्थिभिः, हूतवासौ शरणार्थिभिद्विधातुजत्वं दर्शितम् ' इति स्कन्दस्वामी । यश्च त्वं देवानां होतासि स एतान् देवानाहूय यक्षि यज । कीदृशस्त्वम्? इषितः प्रेषितः, सत्कृत्य व्यापारितो वा । यजीयान् यजतीति यष्टा, अतिशयेन यष्टा यजीयान् ईयसुनि ' तुरिष्ठेमेयस्सु ' ( पा ० सू ० ६।४।१५४ ) इति तृचो लोपः । अध्यात्मपक्षे- हे अग्ने परमेश्वर, त्वं याहि आयाहि आगच्छ । कीदृशस्त्वम्? आजुह्वानः, भक्तैराहूय-मानः, ईड्यः सर्वैः सुरासुरैः स्तुत्यः, वन्द्यो नमनीयश्च । वसुभिर्भीष्माद्यैः सजोषाः सहप्रीतिः । किञ्च, यह्व महन्, यस्त्वं देवानां होता आह्वाता श्रीरामश्रीकृष्णादिरूपेण यजनाय देवानामाह्वानकर्ता, इषितः सर्वैरभीष्टो यजीयान् रामादिरूपेण यष्टृतम आगच्छेति । दयानन्दस्तु - ' हे यह्वाग्ने, यस्त्वं देवानां होता यजीयानसि, इषितः सन्नेनान् यक्षि, स त्वं वसुभिः सह सजोषा आजुह्वान ईड्यो वन्द्यश्चैतानायाहि ' इति, तदपि यत्किचित् गौणार्थाश्रयणात् पावकवत् पवित्र विद्वन्निति मुख्यार्थत्यागस्य गौणार्थस्वीकरणस्य च निर्मूलत्वात् । न च स्पर्धा प्रशंसाहेतुः, न चेड्यत्ववन्द्यत्वा-दिभिर्मनुष्यस्य कश्चित् पुरुषार्थः सिद्धयति ॥ २८ ॥
पृष्ठ 313
पाठ पढ़ें पाठ छिपाएँ
२८० शुक्लयजुर्वेद संहिता [ अ ० २ ९
प्राचीन॑ ब॒हः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्य वृ॑ज्यते॒ अग्र॒ अह्नम् ।
6 प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये॒ स्योनम् ॥ २ ९ ॥
मन्त्रार्थ - अतिश्रेष्ठ देवताओं को और अदिति को सब प्रकार का सुख देने वाली कुशाओं को हम प्रातःकाल पूर्व दिशा के अभिमुख बिछाकर वेदी का श्रुतिवाक्यों के उच्चारण द्वारा आच्छादन करते हैं ॥ २ ९ ॥ प्राचीनं बहिः प्रागग्रं दर्भसमूहः, अह्नां दिवसानामग्रे पूर्वाहणे वृज्यत आस्तीर्यते, यागे पूर्वाह्लकालस्य प्रशस्तत्वात् । ननु किमेतत् स्वमनीषयेति चेन्नेत्याह -- प्रदिशेति । प्रदिक्शब्देनात्र श्रुतिवाक्यमभिधीयते, ' प्रदिशा प्रागग्रं बर्हि स्तृणाति ' इति श्रुतेः । किमर्थम्? अस्याः पृथिव्या वेदेर्वस्तोर्वसनाय छादनाय । तद्बहि-वृज्यमानं सद् वि उ प्रथते विविधं विस्तीर्णं भवति, विविधं वा आच्छादयति । उकारः पादपूरणः । कीदृशं बर्हिः? वितरं वरीयः, अत्यन्तं वि विशिष्टमिति वितरम्, अत्यन्तमुरु इति वरीयः, उरुतरम्, ' प्रस्थस्फ ' ( पा ० सू ० ६ । ४ । १५७ ) इत्यादिना उरोर्वरादेशः । देवेभ्योऽदितये च स्योनं सुखकरम् । अध्यात्मपक्षे — प्राचीनं पुराणं बहिराकाशं परं ब्रह्म प्रदिशः प्रकृष्टया दिशा गुरूपदेशेन पृथिव्याः पृथिव्युप-लक्षितस्य सर्वस्यैव प्रपञ्चस्य वस्तोर्वस्तुमाच्छादयितुमह्नाम प्रातः काले वृज्यतेऽध्यारोपापवादेन तत्त्वसाक्षात्कारेणा-तदंशो व्यावर्त्यते, ' ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत् ' ( ई ॰ उ ॰ १ ), ' अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयते ' इत्याद्युक्तेः । वृज्यमानं बर्हिर्ब्रह्म विउ प्रथते विविधं प्रथते आच्छादयति, रज्जुसाक्षात्कारेण सर्प इव ब्रह्मात्मसाक्षात्कारेण प्रपञ्चमाच्छादयति, चन्दनागर्वादिभिरिव निघर्षणजेन सौगन्ध्येन मृत्तृणजलादिक्लेदादिजनित-दौर्गन्ध्यमिवापनोद्यते । तच्च बर्हिर्वितरमतितरां वरीयो वरतरं देवेभ्य इन्द्रियेभ्योऽदितये तेषां मातृभूतायै शक्त्यै स्योनं सुखकरम् । दयानन्दस्तु -- ' हे मनुष्याः, यदस्याः पृथिव्या मध्ये प्राचीनं बहिस्तोवृज्यतेऽह्नामग्रे देवेभ्य उ अदितये वितरं वरीयः स्योनं विप्रथते, तद् यूयं प्रदिशा विजानीत प्राप्नुत च ' इति, तदपि यत्किञ्चित् ब्रह्मणः सर्व-व्यापित्वे पृथिव्या इति विशेषोक्तेरस्वारस्यात्, व्यापकं ब्रह्म दिवसस्य प्रकाशेन वृज्यते व्यज्यत इत्यसङ्गतेश्च । देवेभ्योऽदितये वरीयः स्योनं सुखं यद् ब्रह्म विप्रथते, तद् यूयं प्रदिशा विजानीतेत्यपि यत्किञ्चित् तथात्वे सर्वस्यानायासेन मुक्तिसिद्धौ प्रयासवैयर्थ्यापत्तेः । वितरं विशेषेण दुःखेभ्यस्तारकमित्यपि यत्किञ्चित् तादृशेऽर्थे शब्दस्यासङ्गतेः ॥ २ ९ ॥ व्यच॑स्वतीरुव॒या विश्र॑यन्ता॒ पति॑भ्यो॒ न जन॑य॒ शुम्भ॑मानाः । : देवी॑र्द्वारो बृहतीविश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्रायणाः ॥ ३० ॥
मन्त्रार्थ - अतिविस्तीर्णं अवकाश वाली द्वाराभिमानिनी देवियाँ यहाँ वैसे ही विस्तार से उपस्थित रहें, जैसे कि स्त्रियाँ अपने पति के लिये उपस्थित रहती हैं । विशाल विश्व के गमनस्थान में शोभायमान हे द्वारदेवियों, आप सब यज्ञीय देवताओं के निमित्त सुगमता से यहाँ उपस्थित रहें ॥ ३० ॥
द्वारो देवीर्देव्यो व्यचस्वतीर्व्यञ्चनवत्यो गमनवत्यः, उर्विया उरुत्वेन ' इयाडियाजीकाराणामुपसंख्यानम् ' ( पा ० सू ० ७ | १ | ३ ९, वा ० १ ) इत्युरुशब्दात् तृतीयैकवचनस्य इया । विश्रयन्तां विवृता भवन्तु । कथमिव? १. नेयं श्रुतिः कस्यचित् सूत्रस्य वचनं सम्भाव्यते ।
पृष्ठ 314
पाठ पढ़ें पाठ छिपाएँ
म ० ३०-३१ ] वेदार्थपारिजातभाष्यसहिता २८१ पतिभ्यो जनयो न जनय इव । यथा जनयो जाया मैथुन्यधर्मेण शुम्भमानाः शोभमाना आत्मानं शोभयन्त्यः पत्यर्थ विश्रयन्ति विवृतौ कुर्वन्ति । एवं परोक्षेणोक्त्वा प्रत्यक्षमाह - हे द्वारो देवीर्देव्यो यूयं देवेभ्यो देवार्थ सुप्रायणाः सुप्रगमना भवत । कीदृश्यो द्वार:? बृहतीबृंहत्यो महत्यः । विश्वमिन्वा विश्वमेति गच्छति यासु ताः । एतेर्व्वक्प्रत्ययः, अलुक्समासः । उर्विया इति द्वारविशेषणं वा । उरवो विशालाः । उक्तेन वार्त्तिकेण विभक्ते -डियाजादेशः । चित्वादन्तोदात्तः । अत्रैकवाक्यतायै परोक्षकृतोऽर्धर्चस्य विपरिणामः । अध्यात्मपक्षे - द्वारो भगवत्प्राप्तिद्वार: सत्सङ्गादयः, देवीर्देव्यो व्यचस्वतीर्व्यचस्वत्यो गमनागमनवत्य उर्विया उरुत्वेन विवृता भवन्तु । कथमिव? पतिभ्यो जनयो न जाया इव । यथा जाया विश्रयन्ति पतिभ्यः स्वात्मानमुद्घाटयन्ति, तद्वत् । द्वारो देव्यो बृहत्यो विश्वमिन्वा देवेभ्यो देवभावमुपजिगमिषुभ्यः सुप्रायणाः सुमना भवन्ति ॥ ३० ॥
आ सुष्वयन्ती यजते उप के उषासानक्त दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रिय॑
सदतां नि योनौ ।
शुक्र॒पिशं दधा॑ने ॥ ३१ ॥
मन्त्रार्थ- - परस्पर हँसती हुईं, भली प्रकार से शयन करती हुईं, परस्पर एक दूसरे के साथ चलती हुईं, यजन-योग्य दिव्य स्त्रियों के साथ सुन्दर आभूषण अथवा ज्योति से युक्त, नाना प्रकार की शोभा को धारण करने वाली दिन - रात्रि रूप देविर्या इस यज्ञगृह में भली प्रकार बैठें ॥। ३१ ॥ उपासानक्ता उषाश्च नक्तं चेति उषासानक्ता, प्रथमाद्विवचनस्य डादेशः, अहोरात्रे देवते योनी यज्ञगृहे आनिसदतां समन्तात् सम्यगुपविशताम् । कथम्भूते? सुष्वयन्ती स्मयतेः स्वपतेर्वा सुपूर्वस्य रूपम् । प्रथमपक्षे मकारस्य वकारः, द्वितीयपक्षे पकारस्य यकारश्छान्दसः । परस्परं हसन्त्यौ साधु स्वपन्त्यौ वा यजते यजनीये उपाके उप समीपमकतो गच्छत इत्युपाके परस्परं समीप स्थिते यज्ञगृहे दिव्ये दिवि भवे योषणे योषे प्रीतिमत्यौ वा, बृहती बृहत् महत्यो सुरुक्मे सुरोचने सु शोभनं रुक्मं ययोस्ते रुक्माभरणयुक्ते वा, शुक्रपिशं शुक्रं शुक्लं च पिशं कपिशं चानयोः समाहारः शुक्रपिशं शुक्लां कपिशां च श्रियं शोभामभिदधाने । शुक्लमहः, कपिशा रात्रिश्च । तादृशीं शोभामधिदधाने अधिकं धारयन्त्यौ, उपविशतामिति । अध्यात्मपक्षे – उषासानक्ता अहोरात्ररूपे विद्याविद्ये कर्मोपासनारूपे वा योनी योनिरूपायां त्रिकोणायां सत्त्वरजस्तमसां साम्यावस्थायां प्रकृतौ, आनिसदतां सम्यग् उपविशताम् । कीदृश्यौ ते? सुष्वयन्ती परस्परं हसन्त्यौ साधु स्वपन्त्यौ वा यजते यजनीये, उपाके परस्परं समीप स्थिते, दिव्ये दिवि भवे, योषणे योषे स्त्रीरूपिण्यौ परस्परं प्रीतिमत्यौ वा, ' जुषी प्रीतिसेवनयोः ' जकारस्य यकारश्छान्दसः, बृहती बृहत्यौ, शुक्रपिशी शुक्लां कपिशां च श्रियं शोभामभिदधाने, ' विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽ-मृतमश्नुते || ' ( वा ० सं ० ४० १४ ) इति मन्त्रवर्णात् । दयानन्दस्तु – ' हे विद्वन्, यदि दिव्ये योषणे इव सुरूक्मे बृहती अधिश्रियं शुक्रपिशं च दधाने सुष्वयन्तो उपाके उपासानक्ता योनौ न्यासदताम्, ते भवान् यजते, तर्ह्यतुलां श्रियमाप्नुयात् ' इति, तदपि यत्किञ्चित्, दिनरात्र्योः परस्परविरुद्धत्वेन सङ्गतेरयोगात्, कथञ्चित् सङ्गतेः स्वतः सिद्धत्वात्, पुरुषतन्त्रत्वाभावेन विनियोगायोगात् । तर्ह्यतुलां श्रियमवाप्नुयादित्यादिकं निर्मूलमेव, मन्त्रबाह्यत्वात् ॥ ३१ ॥
३६
पृष्ठ 315
पाठ पढ़ें पाठ छिपाएँ
२८२ शुक्लयजुर्वेदसंहिता [ अ ० २ ९
दैव्या होता॑ प्रथ॒मा सुवाच॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑द्ध्यै ।
प्रचो॒दय॑न्ता वि॒दथे॑षु ारू प्राचीनं॒ ज्योति॑ः प्रदिशो दश ॥ ३२ ॥
मन्त्रार्थ - आद्य वेदवक्ता स्वयं कर्ता जो दिव्य दो होता हैं, वे इस यज्ञ में पूर्व दिशा में स्थित आहवनीय अग्नि को श्रुति वाक्यों का श्रवण कराते हुए, मनुष्यों के यज्ञों को परिपूर्ण करते हुए यज्ञीय कर्म के लिये प्रेरणा देते रहते हैं ॥ ३२ ॥
दैव्यौ देवसम्बन्धिनौ होतारा आह्वातारौ, अयं चाग्निरसौ च मध्यमो वायुः, तौ प्रथमो आद्यौ सुवाचा शोभना वाग्ययोस्ते शोभन वाग्विषयौ वा, आसाते इति शेषः । यद्वा तावस्मदीयमभीष्टम्, प्रसाधयेथामिति शेषः । कीदृशौ तौ? मनुषो मनुष्यस्य यजध्यै यष्टुं यज्ञं कर्तुं मिमाना यज्ञं निर्मिमाणी, ' तुमर्थे सेसेन ' ( पा ० सू ० ३ | ४ | ९ ) इत्यादिना शध्यैप्रत्ययः । विदथेषु यज्ञेषु, अन्यान् ऋत्विजः प्रचोदयन्ता प्रचोदयन्तौ प्रेरयन्तौ । स्वयं च कारू कुरुतस्तौ कारू स्वयं कर्तारौ, ' उणादयो बहुलम् ' इत्युण् । प्राचीनं प्राच्यां पूर्वस्यां दिशि भवं प्राचीन-माहवनीयाख्यं ज्योतिर्यष्टव्यमिति प्रदिशा अभिनयेन श्रुतिवाक्येन वा दिशन्तौ कथयन्तौ । सर्वत्र विभक्तेराकारः । अध्यात्मपक्षे - तौ रामलक्ष्मणौ कृष्णबलौ दैव्यौ होतारौ ममाभीष्टं प्रसाधयेताम् । कीदृशौ? प्रथमौ मुख्यो, प्रधानभूतौ वा । सुवाचौ शोभनया वाचा युक्ती, मनुषो मनुष्यस्य यजध्यै यागं कर्तुं मिमानौ यज्ञं निर्मिमाणौ तयोः पूर्णकामत्वेन मनुष्याणां यजनायैव यागं कुर्वन्तो विदथेषु यज्ञेष्वन्यानधिकारिणः प्रचोदयन्तौ प्रेरयन्तौ, कारू स्वयं यज्ञकर्तारौ प्राचीनं सनातनं ब्रह्मज्योतिर्ज्ञातव्यमिति प्रदिशाऽभिनयेन श्रुतिवाक्येन वा दिशन्तौ उपदिशन्तौ प्रसाधयेतामित्यन्वयः । दयानन्दस्तु - ' यौ दिव्यौ होतारौ प्रथमौ सुवाची मिमानौ यज्ञं यजध्यै मनुषो मनुष्यान् विदथेषु प्रचोदयन्तौ प्रदिशा प्राचीनज्योतिर्दिशन्तौ कारू भवेताम्, ताभ्यां शिल्पविज्ञानशास्त्रमध्येयम् ' इति, तदपि यत्किञ्चित्, प्राचीनं ज्योतिरित्यस्य शिल्पविद्याप्रकाशोऽर्थो निर्मूलः, ज्योतिःपदस्य ज्ञानार्थत्वेऽपि शिल्पज्ञानमिति कुतस्त्यम्, कुतस्तरां प्राचीनत्वम्? सविकल्पज्ञानस्यानित्यत्वेन प्राचीनत्वायोगात् । दैव्या इति द्विवचनं तु निःस्वारस्यमेव ॥ ३२ ॥
आ नो॑ य॒ज्ञं भार॑ति॒ तूय॑मे॒त्विया॑ मनु॒ष्वद॒ह च॒तय॑न्ती । ति॒स्रो दे॒वोर्बहिरेद ँ स्योन सर॑स्वती॒ स्वप॑सः सदन्तु ॥ ३३ ॥
मन्त्रार्थ यज्ञ कर्म में मनुष्य को सभी प्रकार की विधियों का ज्ञान कराने वाली भारती, इड़ा और सरस्वती देवी हमारे यज्ञ में शीघ्र आवें । शुभ कर्मों में प्रेरित करने वाली ये तीनों देवियाँ इस सुखरूप कुशा के आसन पर बैठें || ३३ || आडुपसर्गः सदन्त्वित्याख्यातेन सम्बद्धयते । भारती भरत आदित्यस्तस्येयं भा भारती, इडा ई या सा इडा, सरस्वती सरतीति सरो जलम्, तदस्त्युत्पत्तिस्थानत्वेनास्येति सरस्वान् ब्रह्मा, ' अप एव ससर्जादौ तासु बीजमवासृजत् ' ( म ० स्मृ ० ११८ ) इति मनुक्तेः, तस्येयं शक्तिः सरस्वती च नोऽस्माकं यज्ञं तूयं क्षिप्रमा एतु आगच्छतु, तूयमिति क्षिप्रनामसु ( निघ ० २ | १५ | ११ ) । कथम्भूताः? स्वपशः, सु शोभनमपः कर्म यासां ताः स्वपसः, अप इति कर्मनामसु ( निघ ० २।१।१ ), शोभनकर्माणः । अग्निहोत्रादिकर्मणामप्सम -वायित्वादशब्दवाच्यत्वम् । पुनः कथम्भूता सरस्वती? मनुष्वद् मनुष्यवदिह कर्माणि चेतयन्ती ज्ञापयन्ती कर्म ज्ञानं च बोधयन्ती, परिदृष्टपरिकारिणी वा । एतास्तिस्रो देवीर्देव्यः स्योनं सुखरूपमिदं बहिरासदन्तु आसीदन्तु ।
पृष्ठ 316
पाठ पढ़ें पाठ छिपाएँ
म ० ३३-३५ ] वेदार्थपारिजातभाष्यसहिता २८३ अध्यात्मपक्षे – भारतीडासरस्वतीरिच्छाज्ञानक्रियारूपा एतास्तिस्रो देवीर्देव्यो मनुष्वद् मनुष्यवद् इह चेतयन्ती व्यवहरन्ती, आसदन्तु आसीदन्तु इदं स्योनं सुखरूपं बहिरासीदन्तु । कीदृश्यः? स्वपसः शुभकर्माणः, नो यज्ञं क्षिप्रमागच्छन्तु, आगत्य उपविशन्तु । दयानन्दस्तु - ' हे मनुष्याः, या भारती इडा शिल्पविद्याधारिणी क्रियाशक्ति: सरस्वती विज्ञानवती प्रज्ञा नस्तूयं यज्ञं शिल्पविद्याप्रकाशमयं मनुष्यवच्चेतयन्ती सुशिक्षिता मधुरवाग् अस्मानेतु । इमास्तिस्रो देवीर्देव्य इदं बर्हिः स्योनं स्वपसोऽस्माना सदन्तु ' इति, तदपि यत्किञ्चित् भारत्यादिपदानां तत्तदर्थत्वे मानाभावात् । तथैव यज्ञपदस्य शिल्पविद्याप्रकाशमयोऽर्थं इत्यपि चिन्त्यम्, विपरीतस्यापि सुवचत्वात् विनिगमना-विरहाच्च ॥ ३३ ॥
य इ॒मे द्यावा॑पृथि॒वी नि॑त्री रूपैरपि॑िशद् भुव॑नानि विश्वा ।
तम॒द्य तरिषि॒तो यजी॑यान् दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥ ३४ ॥
मन्त्रार्थ हे होता, अनेक यज्ञ करने वाला यह यष्टा अपने अधिकार के ज्ञाता ईप्सित परमात्मा को, अपनी माया पृथक् करने वाले देव को इस यज्ञ में पूजे । उस महानारायण को पूजे, जिसने सभी जीवों को; पृथ्वी, स्वर्ग और अन्य सभी भुवनों को देवता, मनुष्य, पशु - पक्षी आदि से युक्त किया ॥ ३४ ॥
यस्त्वष्टा देव इमे द्यावापृथिवी द्यावापृथिव्यौ जनित्री सर्वभूतानां जनयित्र्यौ जनयतः, ते प्राण्युत्पादि तादृश्यौ रूपैरपिशदवयवैः सुचित्रिते अकरोद् विचित्रे अकरोद् वा । ' पिश अवयवे ' तौदादिकः, ' शे मुचादीनाम् ' ( पा ० सू ० ७ १ ५ ९ ) इति नुम् । विश्वा विश्वानि सर्वाणि भुवनानि भूतानि रूपरपिशद् विविधरूपाण्यकरोत् । तं त्वष्टारं देवमद्य अस्मिन्नहनि हे होतः, इषितः प्रेषितोऽधीष्ट इति वा, यजीयान् यष्टृतमः, ' तुरिष्ठेमेयस्सु ' ( पा ० सू ० ६ । ४ । १५४ ) इति तृचो लोप:, विद्वान् स्वाधिकारं जानान इह यज्ञे यक्षि यज । अध्यात्मपक्षे - हे होतः, तं त्वष्टारं विश्वस्रष्टारं परमात्मानमिह यज्ञे यक्षि यज । तद्यजनेनैव त्वं यष्टृतम विद्वांश्च, स्या इति शेषः । कं तम्? यस्त्वष्टा इमे द्यावापृथिवी रूपैरपिंशत् । शेषं पूर्ववत् । दयानन्दस्तु - हे होतर्यो यजीयानिषितो विद्वान् यथेश्वर इह रूपैरिमे जनित्री द्यावापृथिवी विश्वा भुवनान्यपिंशत्, तथा तं त्वष्टारं देवं त्वमद्य यक्षि यज, तस्मात् सत्कर्तव्योऽसि ' इति, तदपि यत्किञ्चित्, मन्त्रे यथेश्वर इति पाठाभावात् । यजीयानित्यस्यातिशयेन सङ्गन्तेत्यर्थं उक्तः, स च न युक्तः, अतिशयेन स्त्रीगमनस्य निषिद्धत्वात् । द्यावापृथिवीत्यस्य विद्युद्गामीत्यर्थ उक्तः सोऽप्यसङ्गतः द्योरित्यनेन विद्युत ग्रहणे मानाभावात् दृष्टान्तदान्तासङ्गतिश्च । यथेश्वरो रूपैरिमे जनित्री द्यावापृथिवी विश्वा भुवना-न्यपिंशत्, न तथा विद्वान् पिंशति । होता यथा त्वष्टारं यजति तथा नेश्वरस्तं यजतीति विषम उपन्यासः । पदानां सम्बन्धविप्रकर्षस्तु सर्वत्रैवास्य व्याख्याने राजेते ॥ ३४ ॥
उ॒पाव॑सृज॒ त्मन्या॑ सम॒ञ्जन् दे॒वानां॒ पार्थ ऋतुथा ह॒वींषि ।
वन॒स्पति॑ः शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु॒ ह॒व्यं मधु॑ना घृ॒तेन॑ ॥ ३५ ॥
I मन्त्रार्थ- - यजमान कहता है कि हे होता, तुम देवताओं के लिये हवि को मधुर रस घृत से सींच कर यज्ञकाल में परमेश्वर के निमित्त हवियों को छोड़ो । यूप, शमिला देवता और अग्नि ये तीनों हवियों को स्वादिष्ट बनावें ॥। ३५ ॥
पृष्ठ 317
पाठ पढ़ें पाठ छिपाएँ
२८४ शुक्लयजुर्वेदसंहिता [ अ ० २ ९ यजमान आहे - हे होतः, त्वं त्मन्या आत्मना आत्मनुशब्दस्य विभक्तेयदेशे ' मन्त्रेष्वाङयादेरात्मनः ' ( पा ० सू ० ६ | ४ | १४१ ) इत्याकारलोपे रूपम् । ऋतुथा ऋतौ ऋतौ यज्ञकाले हवींप्युपावसृज देहि । कथमिति चेत्तत्राह - देवानां पाथो हविलक्षणमन्नं मधुना मधुररसेन घृतेन समञ्जन् संम्रक्षयन् । के देवा इत्याह-वनस्पतिर्युपः, शमिता, देवोऽग्निरेते त्रयो देवा हव्यं होत्रा सम्मृज्य दत्तं स्वदन्तु भक्षयन्तु । उव्वटाचार्यरीत्या त्वध्वर्युः सम्बोधनीयः । हे अध्वर्यो, उपावसृज उत्पिष्टं पाशुकमवसृज अवदानं निक्षिप । अन्यत् पूर्ववत् । अध्यात्मपक्षे -- हे साधक, त्मन्या आत्मना हवींषि ऋतुथा यथाकालम् उपावसृज देहि । किं कुर्वन्? Aarti पाथ हविर्लक्षणमन्नं मधुना मधुररसेन घृतेन प्रेम्णा वा समञ्जन् संम्रक्षयन् । के देवा इत्याह - वनस्पति-जंगवृक्षाधिष्ठाता, शमिता शान्तिदानेन पालकः, देवोऽग्निश्च रुद्रो रविरेते त्रयो देवा हव्यं होत्रा सम्मृज्य दत्तं स्वदन्तु भक्षयन्तु । दयानन्दस्तु - ' विद्वन्, त्वं देवानां पाथो मधुना घृतेन समञ्जन् त्मन्या आत्मना हवींषि ऋतुथोपावसृज । तेन त्वया दत्तं हव्यं वनस्पतिः शमिता अग्निश्च स्वदन्तु ' इति, तदपि यत्किञ्चित् सर्वेषां विदुषां पाथोऽन्नं तत्तत्कर्मकरैः पत्न्यादिभिः संस्कर्तव्यत्वेन तदर्थं जनसामान्यस्य चोदनानर्हत्वात् । हिन्दीभाष्ये तु - ' यथावद् होमं कुरु ' इत्युक्तम्, तदप्यसङ्गतमेव । नहि होमेन विदुषां क्षुण्निवृत्तिपूर्विका तृप्तिः सम्भवति । वनस्पतिः किरणानां स्वामी सूर्यः शमिता शान्तिकर्ता देव उत्तमगुणो मेघोऽग्निः स्वदन्तु, अर्थाद् हुताः पदार्था एतेभ्य उपसर्पन्त्वित्यपि यत्किञ्चित्, होमेन तेषां प्राप्तौ मानाभावात्, जडेषु प्राप्यप्रापकभावासम्भवाच्च ॥ ३५ ॥
स॒द्योजातो व्य॑मितीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत् पुरोगाः ।
अ॒स्य होत॑ प्र॒दिश्य॒तस्य॑ वा॒च स्वाहा॑कृत ह॒विर॑दन्तु दे॒वाः ॥ ३६ ॥
मन्त्रार्थ- से विस्तार करते हैं । - तत्काल प्रादुर्भूत हुए अग्निदेव देवताओं के अग्रगामी हैं, यज्ञ का विशेष रूप इन देवताओं का आह्वान करने वाले आहवनीय रूप से स्थित अग्निदेव के पूर्व दिशा में स्थित वागिन्द्रिय उपलक्षित मुख में स्वाहाकारपूर्वक दी गई हवि को अन्य देवता ग्रहण करें ॥ ३६ ॥
योग्निः सद्योजातः शीघ्रमुत्पन्नः सन् यज्ञं व्यमिमीत विशेषेण निरमिमीत, यश्च देवानां पुरोगाः, पुरो गच्छतीति पुरः पूर्वात् गमेर्विचि ' विड्वनोरनुनासिकस्यात् ' ( पा ० सू ० ६ | ४ | ४१ ) इति मकारस्याकारे रूपम् । तस्याग्नेर्होतुर्देवानामाह्वातुः प्रदिशि प्राच्यां दिशि ऋतस्य आहवनीयात्मना स्थितस्य वाचि वागिन्द्रियोपलक्षिते मुखे स्वाहाकृतं स्वाहाकारेण हुतं हविर्देवा अदन्तु भक्षयन्तु । वाग्ग्रहणेन लक्षणया वा मुखग्रहणम् । ' अभिधेया-विनाभावप्रतीतिर्लक्षणोच्यते । लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता ॥ ' इति भट्टपादोक्तेः । अध्यात्मपक्षे – सर्वात्मा परमेश्वरः, अरण्योर्मन्थनेनाग्निरूपेण सद्योजातो योऽग्निः शीघ्रमुत्पन्नः सन् यज्ञं व्यमिमीत निरमिमीत । अन्यत् पूर्ववत् । दयानन्दस्तु - ' हे मनुष्याः, यः सद्योजातोऽग्निर्होतुर्ऋतस्य प्रदिशि वाचि यज्ञं व्यमिमीत देवानां पुरोगा अभवदस्य स्वाहाकृतं हविर्देवा अदन्तु तं सर्वोपरि विराजमानं मन्यध्वम् ' इति, तदपि यत्किञ्चित्, निर्मूलाध्याहार-मूलकत्वात्, अग्निपदस्य विद्याप्रकाशितो विद्वान् इत्यर्थस्य गौणत्वात् । न चाभिधयाऽर्थसम्भवे गौणार्थता युक्ता, मुख्यार्थबाधस्यान्याय्यत्वात् । न च शीघ्रतया प्रसिद्धिर्भवति, पुरुषस्य क्रमेणैव प्रसिद्धिदर्शनात् । न च प्रदिशीति निर्देशिका वागित्युच्यते, तथार्थकरणे मानाभावात् । न च ज्ञपदस्यापि व्यवहारोऽर्थः तथा यजेत्युक्ते व्यवहारं
पृष्ठ 318
पाठ पढ़ें पाठ छिपाएँ
म ० ३६-३८ ] वेदार्थपारिजात भाष्यसहिता २८५ कुवित्यर्थः स्यात् । न चायमर्थो युक्तः, व्यवहारस्य स्वतः प्राप्तत्वेन चोदनानर्हत्वात् । एवमन्यान्यपि दुषणा-तराहनीयानि । ३६ ॥
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । समु॒षद्भि॑रजायथाः ॥ ३७ ॥
मन्त्रार्थ -- हे अग्निदेव, अज्ञानी मनुष्य के लिये ज्ञान की तथा रूपहीन को रूप की प्राप्ति कराने के लिये आप अग्नि में आहुति देने वाले यजमानों के द्वारा प्रकट किये गये हो ॥ ३७ ॥
' इत उत्तरमश्वरक्षिणो योद्धारो युद्धोपकरणानि च स्तूयन्ते, प्रागाग्नेय इति श्रुतेः ' इत्युव्वाचार्यः । अग्निदेवत्या गायत्री मधुच्छन्दोदृष्टाऽनिरुक्ता । हे अग्ने, त्वमुषद्भिः, उषन्ति दहन्ति हविरित्युषन्तः, शता, अग्निहोत्रकर्ता यजमानाः तैः कृत्वा अजायथा उत्पन्नोऽसि । कृतसम्प्रसारणस्य वसतेर्वा रूपम् । तथा उषद्भिः, अग्नि प्रति निवसद्भिर्जायमानः सन् अजायथाः । कीदृशस्त्वम्? अकेतवे न केतुः प्रज्ञानं यस्य तस्मै, मर्या मर्याय मनुष्याय, ' सुपां सुलुक् ' ( पा ० सू ० ७ | १ | ३ ९ ) इति विभक्तेराकारः, केतुं ज्ञानं कृण्वन् कुर्वन् । अपेशसे नास्ति पेशो हिरण्यरजतादिरूपं धनम्, पेश इति हिरण्यनामसु ( निघ ११२२६ ), यद्वा पेश इति रूपनामसु ( निघ ० ३।७।१० ), सोऽपेशा: सुवर्णरजतादिधनहीनाय पेशो हिरण्यरजतादिरूपं धनं कुर्वन्, रूपहीनाय सुन्दररूपादि प्रयच्छन् । अध्यात्मपक्षे - हे अग्ने परमेश्वर, त्वमुषद्भिरग्नि परमात्मानं प्रति निवसद्भिर्भगवद्भक्तैरजायथाः, रामकृष्णादिरूपेण बहुधा उत्पद्यसे । कथम्भूतस्त्वम्? अकेतवे ज्ञानरहिताय मर्याय मनुष्याय केतुं ज्ञानं कृण्वन् कुर्वन्, केतुः प्रज्ञानामसु ( निघ ० ३ ९ | १ ) इति । अपेशसे सुवर्णादिधनरहिताय मनुष्याय पेश: सुवर्णादि-धनं कुर्वन् । दयानन्दस्तु - ' हे विद्वन्, यथा मर्या अपेशसे पेशोऽकेतवे केतुं कृण्वन् संस्त्वं समजायथाः ' इति, तदपि यत्किञ्चित्, उषद्भिः सह प्रज्ञां श्रियं च कृण्वन्नित्यसङ्गतेः, मुले तादृशपाठाभावात्, मनुष्ये तादृशसामर्थ्या-भावेन तादृशविधेयोगाच्च ॥ ३७ ॥
ज॒मूत॑स्येव भव॑ति॒ प्रती॑कं॒ यद॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ ।
अना॑विद्धया त॒न्वा जय॒ त्वं स त्वा वर्म॑णो महिमा विपत् ॥ ३८ ॥
मन्त्रार्थ -- इस प्रकार अग्नि की स्तुति करने के बाद अश्व की रक्षा के लिये योद्धा और युद्धोपकरणों की स्तुति के समान हो की जाती है । - जब कवच को धारण करने वाला योद्धा संग्रामों के बीच जाता है, तब सेना का मुख करे मेघ || ३८ ॥ जाता है | है कवचधारी, तुम अक्षत शरीर रह कर विजय प्राप्त करो, कवच की महिमा तुम्हारी रक्षा एवर्माग्न स्तुत्वाश्वरक्षिणो योद्धारो युद्धोपकरणानि च स्तूयन्ते । भरद्वाजसुतः पायुः संग्रामाङ्गानि समदां प्रत्यृचं स्तौति । अनया त्रिष्टुभा वर्म स्तूयते । यद् यदा वर्मी, वर्म विद्यतेऽस्येति वर्मी, कवचवान् संमाद्यन्ति सह वा माद्यन्ते योद्धारो यासु ताः समदः संग्रामास्तासाम्, उपस्थे उत्सङ्गे याति तदा प्रतीकं सेनामुखं जीमूतस्य मेघस्येव विद्युत्स्फुरित - स्तनयित्नु - धारानिकरैरसह्यं भवत्यन्तःसरणैः । एवं हस्त्यश्वपदाति- तया मुखं निशितास्त्रगम्भीर तूर्यनिनादशरधाराभिरसह्यं भवति । तमुपलक्ष्य ब्रवीमि - हे वर्मिन्, अनाविद्धया प्रभावस्त्वां अक्षतया अरिष्टया तत्वा शरीरेण त्वं जय । शत्रून् हत्वा विजयं प्राप्नुहि । स वर्मणो महिमा पिपर्तु पालयतु ।
पृष्ठ 319
पाठ पढ़ें पाठ छिपाएँ
२८६ शुक्लयजुर्वेदसंहिता [ अ ० २ ९ अध्यात्मपक्षे -- यद् यदा वर्मी चण्डीकवच - नारायणकवच - ब्रह्मात्मसाक्षात्कारलक्षणकवचयुक्तो वीरः साधकः समदामुपस्थे देवासुर संग्रामाणामुपकण्ठे याति तदा सेनामुखं जीमूतस्य मुखमिवासह्यं भवति । मेघस्य मुखं यथा विद्युत्स्तनयित्नुवारिधाराभिरसह्यं भवति, तथा कामक्रोधलोभदम्भमोहादिकृतशस्त्रास्त्रसङ्घातैरसह्यं भवति । अतो ब्रवीमि हे वर्मिन्, अनाविद्धया तन्वा शत्रून् जय, स वर्मणो महिमा त्वां पिपर्तु । दयानन्दस्तु – ' यद् यो वर्म्याविद्धया तन्वा समदामुपस्थे प्रतीकं याति स जीमूतस्येव विद्युद् भवति । वि त्वां वर्मणो महिमा पिपर्तु स त्वं शत्रून जय ' इति, तदपि यत्किञ्चित् गौणार्थाश्रयणसम्बन्ध-विप्रकर्षाभ्यामनुपपत्तेः । विद्युत्पदं तु मूले नास्त्येव । सम्बोधनमपि निर्मूलमेव ॥ ३८ ॥
धन्व॑ना गा धन्व॑नाजि ज॑येम॒ धन्व॑ना तीव्राः समर्दो जयेम ।
घनः शत्रौरपकामं कृणोति॒ धन्व॑ना सर्वोः प्र॒दिशों जयेम ॥ ३ ९ ॥
मन्त्रार्थ - योद्धागण धनुष के प्रताप से गोरूप धन को जीतें, धनुष के द्वारा राजमार्ग को जीतें, धनुष से उग्र शत्रु के संग्रामों को जीतें । यह धनुष शत्रु के मनोरथों को नष्ट कर देता है । इस धनुष से हम सब दिशाओं को जीतें ॥ ३ ९ ॥ अनया त्रिष्टुभा धनुः स्नूयते । धन्वना धनुषा कृत्वा वयं गा धेनूर्जयेम । धन्वना धनुषा आजिम्, अजन्ति गच्छन्ति यस्मिन्नसावा जिर्मार्गस्तं जयेम । धन्वना च तीव्रा उग्रा उद्गूर्णायुधाः समदः संग्रामान् जयेम शत्रोरपकामं कृणोति काममपनयति कर्तृत्वविवक्षात्र धनुषि, मनोरथाभावमपकामं हतकामं वा करोत्वित्यर्थः । धनुश्च । कामस्याभावोऽपकामम्, ' अव्ययं विभक्ति ' ( पा ० सू ० २।१६ ) इत्यादिनाऽर्थाभावेऽव्ययीभावः । किञ्च धन्वना धनुषा सर्वाः प्रदिशो जयेम । एवं महत्त्वं धनुष इत्यर्थः । अध्यात्मपक्षे - ' प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ' ( मु ० उ ० २।४ ) । तादृशेन प्रणवात्मकेन धन्वना धनुषा गा इन्द्रियाणि जयेम । तेनैव धनुषा आजि दुर्गमं साधनमार्ग जये | धन्वना तीव्रा उग्राः समदः कामाद्यरातिसङ्घर्षान् जयेम । धनुः शत्रोरपकामं मनोरथाभावं भग्नमनोरथत्वं करोतु | धन्वना च सर्वाः प्रदिशो जयेम, प्रणवोपासनया सर्वाभीष्टसिद्धेः श्रवणात् ' एतद्ध्येवाक्षरं ज्ञात्वा यदिच्छति तस्य तत् ' ( कठो ० १२ १६ ) इति श्रुतेः । यो दयानन्दस्तु - ' देवा यथा वयं यद्धनुः शत्रोरपकामं कृणोति, येन च धन्वना गा धन्वनाजि च जयेम, धन्वना तीव्राः समदो जयेम, धन्वना सर्वाः प्रदिशो जयेम, तथा यूयमप्येतेन जयत ' इति, तदपि यत्किञ्चित्,
तस्य रागास्पदत्वेनोपदेशानर्हत्वात् । तादृशं सम्बोधनं च निर्मूलमेव ॥ ३ ९ ॥
व॒क्ष्यन्ती॒वेदाग॑नोग॑न्ति॒ कर्णौ प्रिय सखा॑यं परिषस्वजाना ।
योषैव शिङ्क्ते॒ वित॒ताऽधि॒ धन्व॒न् ज्या इ॒य ँ सम॑ने पा॒रय॑न्ती ॥ ४० ॥
मन्त्रार्थ --- यह संग्राम में विजय दिलाने वाली प्रत्यंचा बहुत जोरों का शब्द करती है, स्त्रीके समान अव्यक्त शब्द करती है, प्रिय बाणरूप सखा का आलिंगन करती है और कुछ कहना चाहती हुई - सी योद्धाके कान तक जाती है ॥ ४० ॥
पृष्ठ 320
पाठ पढ़ें पाठ छिपाएँ
म ० ४०-४१ ] वेदार्थ पारिजात भाष्यसहिता २८७ ज्या नूयते त्रिष्टुभा । इयं ज्या मौर्वी धन्वन् धन्वनि धनुषि अधि उपरि वितता आतता सती शिङ्क्ते अव्यक्तं शब्दं करोति, ' शिजि अव्यक्ते शब्दे ' अदादि:, ' इदितो नुम् धातो: ' ( पा ० सू ० ७ १।५८ ) इति करोति नुमि । रूपम् । योषेव यथा योषा वचनोत्सुकेव कामिनी कामुकरञ्जनायाव्यक्तं वदति, एवमियमव्यक्तं शब्दं कीदृशी ज्या? समने संग्रामे पारयन्ती, समनमिति संग्रामनामसु ( निघ ० २।१७ १६ ), संग्रामादुत्तार-यन्ती विजयं कुर्वन्ती । याच ज्या योद्ध्रुर्दक्षिणं श्रोत्रं प्रति आगनीगन्ति आकृष्टा मन्त्रं सती वक्तुं कर्णं अत्यर्थमागच्छति प्रत्यागच्छति, गमेर्यङ्लुकि रूपम् । पुनः कीदृशी? वक्ष्यन्तीव वक्तुमिच्छन्तीव । यथा कश्चन गुप्तं तद्वत् । प्रियं सखायं बाणरूपं परिषस्वजाना आलिङ्गन्ती, ष्वजेः शानचि शपः श्लौ द्वित्वे रूपम् । इत् पाद-पूरणार्थः । उव्वटाचार्योऽपि तथैवाह - या ज्या वक्ष्यन्तीव वचनोत्सुकेव योषिद् आगनीगन्ति धानुष्ककर्णमूलं प्रत्यत्यर्थमागच्छति, या च प्रियमिव सखायमिषं परिषस्वजाना योषेव शिङ्ङ्क्ते, अन्यत् पूर्ववत् । अध्यात्मपक्षे - प्रणवो धनुस्तस्यैवाङ्गभूता शरप्रेरिता ज्यावज्जीवप्रेरिका चोदना, सा च ज्यारूपा प्रवर्तनाव्यापारं चोदना धनुषि प्रणवविकारभूतायां विधिवाचि, अधिवितता अध्यारोपिता शिक्ते अव्यक्तं शब्दं करोति करोति । यथा योषित् पतिरञ्जनार्थमव्यक्तं कूजितं करोति, तद्वत् । कर्णं प्रति वचनोत्सुकेव धानुष्ककर्णमूलमिव आगनीगन्ति अत्यर्थमागच्छति । सेयं ज्या समने संग्रामे पारयन्ती स्वाभाविकपाशविकव्यापारान्निवारयन्ती प्रियं सखायमिव शरं जीवं परिषस्वजाना आलिङ्गन्तीव स्तूयते । कणं प्रियं सखायं पति दयानन्दस्तु - ' हे वीराः, येयं वितता धन्वन्नधि ज्या वक्ष्यन्ती वेदागनीगन्ति इति, परिषस्वजाना योषेव शिङ्क्ते समने पारयन्ती वर्तते तन्निर्मातुं बद्धुं चालयितुं च विजानीत कर्णपदस्य ' तदपि यत्किञ्चित्, अध्याहारस्य निर्मूलत्वात्, योषाशब्दस्य स्त्रीमात्रार्थत्वात् गमेर्बोधार्थत्वे नैरर्थक्यापाताच्च ॥ ४० ॥
ते आ॒चर॑न्तो॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं वि॑िभृतामु॒पस्थे॑ ।
अप॒ शत्र॑न् विध्यताथ् संविदा॒ने आत्नी॑ इ॒मे वि॑िष्फुरन्तो॑ अ॒मित्रा॑न् ॥ ४१ ॥
5 मन्त्रार्थ- -- यह धनुष की कोटि एक पति में मन लगाने वाली स्त्री के समान आचरण करती है, परस्पर संकेत करती है । शत्रुओं पर टंकार करती हुई मानो यह कहती है कि मेरे मध्य भाग में बाण को चढ़ाओ, जैसे कि माता पुत्र को
अपनी गोदी में चढ़ाती है । तब इसके बाद इस बाण से शत्रु पर प्रहार करो ॥ ४१ ॥
अनया त्रिष्टुभा धनुषः कोटी स्तूयेते । ते प्रसिद्धे इमे आर्ली आत्म्यौं धनुःकोटी उपस्थे उत्सङ्गे मध्यभागे समना इव समने समानभर्तृगतमनस्के योषे इव, वचनव्यत्ययः, यथा तादृशे ते पतिमागच्छतः, तथा आचरन्ती आगच्छन्त्यौ धानुष्कं प्रति मातेव पुत्रं बिभृताम्, शरमिति शेषः । यथा माता उत्सङ्गे पुत्रं धारयति, तथा मध्यभागे शरं धारयताम् अप शत्रून् विध्यताम्, ' व्यध ताडने ', अपविध्यतां शत्रून् ताडयताम् । संविदा सुखमनुभवन्त्यौ । अमित्रान् शत्रून् विष्फुरन्ती टङ्कारं कुर्वाणे । संविदाने इति ' समो गम्यच्छिभ्याम् ' ( पा ० सू ० १।३।२ ९ ) इत्यात्मनेपदित्वात् शानच् परस्परं संकेतं कुर्वाणे बिभृतामित्यन्वयः । अध्यात्मपक्षे अनेकासूपनिषत्सु पुराणेषु काश्यां मरणान्मुक्तिरिति सिद्धान्तो जागर्तितमाम् । तत्र धनुराकारा अनुगङ्गं काशी काशते । तत्रासीवरुणे द्वे नद्यौ धनुषः कोटी इव राजेते | गङ्गा धनुर्ज्येव शोभते । प्रसिद्धे इमे आर्ली आत्म्य उपस्थे उत्सङ्गे मध्यभागे बिभृतां धारयताम्, शरं जीवरूपं परमलक्ष्ये ब्रह्मणि वेधाय । तत्रैव दृष्टान्तः - माता पुत्रमिव, यथा जननी पुत्रमुत्सङ्गे बिर्भात तथा विध्यतां ताडयतां पापमविद्या-