वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 391–400

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 391–400

पृष्ठ 391

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 391 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८ शुक्लयजुर्वेदसंहिता [ अ ० ३१ वेदाविर्भाववर्णनात् तत्प्रतिपाद्यस्य यज्ञस्यापि सृष्टिरुक्ता भवति । तदर्थं यज्ञोपयोगिपदार्थ सृष्टि रप्युच्यते । तस्माद् ब्रह्मणः, अत्र तस्मादिति पदस्य जनिधातोश्च पुनः पुनरुपादानं स्थानावान्तरभेदप्रदर्शनार्थम् । तदुक्तं विष्णुपुराणे प्रथम पञ्चमाध्याये -गायत्रं च ऋचश्चैव त्रिवृत्स्तोमं रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा । बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥

सामानि जगतीच्छन्दः स्तोमं सप्तदशं तथा । वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥

एकविंशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं च वैराजमुत्तरादसृजन्मुखात् ॥ इति, तथा ----( १ / ५ / ५४-५७ ) ' अवयो वक्षसश्चक्रे मुखतोऽजाः स सृवान् । सृष्टवानुदराद् गाश्र्व पार्श्वाभ्यां च प्रजापतिः ॥ पद्भ्यां चाश्वान् समातङ्गान् रासभान् गवयान् मृगान् । उष्ट्रानश्वतरांश्चैव न्यङ्कनन्याश्च जातयः ॥ इति च । ( ११५१४८-५० ) तस्मात् पूर्वोक्ताद्यज्ञाद् अश्वा अजायन्त उत्पन्नाः । तथा ये के च अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च उभयादत ऊर्ध्वाधोभागयोर्दन्तयुक्ताः सन्ति, तेऽप्यजायन्त । तथा तस्माद् यज्ञाद् गावश्च जज्ञिरे । किञ्च, तस्माद अजावयश्च जाताः । अध्यात्मपक्षे अध्यात्मपक्षोऽप्यस्मिन्नेवार्थे गतार्थः । दयानन्दीयार्थस्तदालोचनं च वेदार्थपरिजात ( भूमिकाभाग ) स्य द्वितीयभागे १२५० पृष्ठे द्वितीयतृतीया-नुच्छेदयोर्द्रष्टव्यम् ॥ ८ ॥

तं यज्ञं ब॒र्हिषि॒ प्रौक्षन् पुरु॑षं जा॒तम॑ण॒तः ।

तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥ ९ ॥

मन्त्रार्थ- - साध्य देवता और सनक आदि ऋषियों ने सृष्टि के पूर्व उत्पन्न उस यज्ञसाधनभूत विराट् पुरुष का मानस याग की सम्पन्नता के लिये प्रोक्षण किया और उस विराट् पुरुष के अवयवों से ही इस यज्ञ को सम्पादित किया ॥ ९ ॥

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातम् अग्रतः । ते देवाः अयजन्त साध्याः ऋषयः च ये । यथेन्द्रेण तत्र यज्ञेऽग्निष्टोमाख्ये बर्हिषा प्रोक्षितः पुरुषो जातः । ज्ञानमुत्पद्यते दिव्यम् । अग्रतः प्रथमतः । तेन देवा इन्द्रादयः साध्याश्च ऋषयश्च यथा अयजन्त तथा देवा योगिनः कपिलादयश्च साध्याश्चापरे ऋषयः । ऋषयश्चाप्येतेनैव प्रणवाधिष्ठितेन पुरुषेण आत्मयज्ञं कृतवन्त इति । तदेत्यध्याहार्यम् । तदा तं ब्रह्माख्यं यज्ञम्, यजन्त्यनेनेति यज्ञः, यजनीयहविरिति यावत् तम् । बहिषि प्रकृतौ, निधायेत्यध्याहार्यम् । प्रौक्षन् प्रोक्षणसंस्कारमकुर्वन् द्रव्यत्यागयोग्यतापादकान् प्रोक्षणोपस्तरणावदानाभि-धारणादिसंस्कारानकुर्वन्नित्यर्थः । अग्रतः स्थिरतरसृष्टेरग्रतो जातमुत्पन्नम् । तेन पश्वादिसृष्टेः प्रागेवायं यज्ञः प्रवृत्तः, ततो मानसमेव सर्वमक्रियत । तेन ब्रह्मरूपेण हविषा देवा इन्द्रियाण्ययजन्त यागमकुर्वन् । अनिरुद्धाग्नौ ब्रह्मरूपं हविः प्रक्षिप्तवन्तः, आत्मसमर्पणं कृतवन्तः । साध्याः कर्मसाधनानि वागादीनि । ऋषयो ज्ञानसाधनानि चक्षुरादीनि ।

पृष्ठ 392

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 392 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ९ -१० ] वेदार्थपारिजातभाष्यसहिता एतस्मिन्नर्थे पुरुषसूक्तव्याख्यानभूतं शाबल्यब्राह्मणं चोदाहरन्ति - ' तस्मात् पादनारायणान्मूलप्रकृति-रजायत । सा प्रकृतिः पादनारायण शासनान्महदहङ्कारादीन् सूक्ष्मान् पदार्थान् अजनयत् । एवं सूक्ष्मायां सृष्टौ - कृतायां स पादनारायणः स्थूलसृष्ट्यर्थं चतुर्मुखं पुरुषमभिदध्यौ । तद्ध्यानात् पश्चात् पुरुषश्चतुर्मुखाख्योऽजायत । स जातो भूमेः पश्चात् पुरतश्चातिरिच्यत । सर्वकार्यक्षमो वृद्धकायः सन् पुरुषस्तूष्णीमास । तमनिरुद्धनारायणोऽ-प्राक्षीत् - ब्रह्मस्तूष्णीं भवसीति? अज्ञानादिति होवाच । ब्रह्मंस्तवेन्द्रियाणि देवानृत्विजः कृत्वा त्वदीयं च कलेवरं हविः कृत्वा मां हविर्भुजं ध्यात्वा मय्यग्नौ निवेदय । मदङ्गस्पर्शमात्रेण जगत्कोशभूतस्त्वत्कायो बृंहिष्यते । तस्मादुद्भूतानि प्राणिजातानि यथापुरं निर्माय स्रष्टा भविष्यसि । य एवं सृष्टियज्ञं जानाति स जन्मनीह मुक्तो भवति ' इति । यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वभावनया यूपे बद्धं बर्हिषि मानसे यज्ञे प्रौक्षन् प्रोक्षितवन्तः । कीदृशम्? अग्रतः सर्वसृष्टेः प्राग् जातम्, पुरुषत्वेन उत्पन्नम् ततो विराडजायत विराजोऽधि पूरुषः ' इत्युक्तत्वात् । तेन पुरुषरूपेण पशुना देवा अयजन्त मानसं यागं सम्पादितवन्तः । के ते देवाः? साध्याः सृष्टिसाधनयोग्याः प्रजापति-प्रभृतयः, तदनुकूला ऋषयो मन्त्रद्रष्टारश्च ये सन्ति ते सर्वेऽप्ययजन्त । आध्यात्मिकपक्षे - अयमेवार्थः । दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीयभागे १२५१ पृष्ठे द्वितीय-मनुच्छेदं प्रारभ्य १२५३ पृष्ठे प्रथममनुच्छेदं यावदवलोकनीयम् ॥ ९ ॥

यत्पुरु॑षं॒ व्यद॑धुः सुखं किम॑स्यासी

क॒ति॒धा व्य॑कल्पयन् ।

बाहू किमूरू पाद उच्येते ॥ १० ॥

मन्त्रार्थ - यहाँ प्रश्न उठता है कि जब यज्ञसाधनभूत इस विराट् पुरुष की महानारायण से प्रेरित महत्, अहंकार आदि की प्रक्रिया से उत्पत्ति हुई, तब उसके कितने प्रकारों की परिकल्पना की गई? उस विराट् के मुंह, भुजा, जंधा और चरणों का निर्माण किन - किन उपादानों से किया गया ॥ १० ॥

यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किम् अस्य आसीत् किं बाहू किम् ऊरू पादौ उच्येते ॥ यत्पुरुषं देवा इन्द्रादयस्तस्मिन् यज्ञे व्यदधुः कृतवन्तो यथा तद्वद् योगिन आत्मयज्ञे पुरुषं ज्ञानं यद् ज्ञानान्तं तत्कृतवन्तः कतिप्रकारं विकल्पितवन्तः । तस्यैवंविधस्य किं मुखं कौ बाहू को ऊरू पादौ उच्येते, उच्यन्ता-मित्यर्थः । ब्राह्मणक्षत्रियवैश्यशूद्राः स्थिता इत्यर्थः । यज्ञानुष्ठायिनां ब्राह्मणादीनामुत्पत्तिरुच्यते । यद् यदा पुरुषं ब्रह्माख्यं व्यदधुः पशुमित्यध्याहार्यम्, पशुत्वेन अकल्पयन् तत् तदा कतिधा कतिप्रकार विशिष्टं व्यकल्पयन् । बहुवचनं छान्दसम् । अथवा यद् यदा पुरुषं मनुष्यं व्यदधुरकल्पयन् असृजतेत्यर्थः । तत् तदा, कस्मात् कस्मात् स्थानात् कीदृशकीदृशप्रकारविशिष्ट-मकल्पयन् । यद्वा पुरुषं मनुष्यं यद् यदा व्यदधुः, तत् तदा कतिधा व्यकल्पयन् । मनुष्याद्युपादानभूतं चतुर्मुख-शरीरं कतिभागविशिष्टमकल्पयन् । अस्य मुखं किरूपमासीत्, कार्यकारणभावमूलकं सामानाधिकरण्यमत्र | मुखादुत्पन्नं किमित्यर्थः । एवं किं बाहू, किमूरू, किं पादौ उच्येते । प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टि वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवा यद् यदा पुरुषं विरारूपं व्यदधुः सङ्कल्पेनोत्पादितवन्तः, तदानीं कतिधा कतिभिः प्रकारैर्व्यकल्पयन् विविधं कल्पितवन्तः । अस्य पुरुषस्य मुखं किमासीत्? कौ बाहू २

पृष्ठ 393

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 393 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१० शुक्ल यजुर्वेदसंहिता [ अॅ ० ३१ अभूताम्? कौ ऊरू? कौ च पादा उच्येते? प्रथमं सामान्यः प्रश्नः । पश्चान्मुखं किमित्यादिना विशेष-विषयाः प्रश्नाः । अध्यात्मपक्षे- आध्यात्मिकोऽर्थोऽत्रैव समाविष्टः । दयानन्दीयोऽर्थो वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीयभागे १२५३ तमपृष्ठे द्वितीयेऽनुच्छेदे द्रष्टव्यः, तदालोचनमपि तत्रैव विमृश्यम् ॥ १ ॥

ब्राह्मणोऽस्य॒ मुखमासीद्वाहू रा॑ज॒न्यः कृतः । I ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्या शूद्रो अ॑जायत ॥ ११ ॥

मन्त्रार्थ इस प्रश्न का उत्तर श्रुति देती है कि ब्राह्मण इस विराट् पुरुष का मुखस्थानीय हुआ, क्षत्रिय बाहु से निष्पादित हुआ, वैश्य से ऊरु का आकार बना और चरणों से शूद्र उत्पन्न हुआ ॥ ११ ॥

ब्राह्मणः अस्य मुखम् आसीत् बाहू राजन्यः कृतः । ऊरू तत् अस्य यत् वैश्यः पद्भयां शूद्रः अजायत ॥ अस्य यज्ञोत्पन्नस्य पुरुषस्य ये केचिद् ब्राह्मणास्ते मुखमासीत् । ये क्षत्रियास्ते बाहू कृताः । ये वैश्या तस्य ऊरू कृताः । ये शूद्रास्ते यामजायन्तेति कल्प्यन्ते, तदस्योत्पन्नत्वादिति । एवमेतेऽवयवाः शिरः-प्रभृतयः पुरुषस्य विद्यन्ते, नान्य इति । अथैषां प्रश्नानामुत्तराण्याह - ब्राह्मण इति । ब्राह्मणोऽस्य चतुर्मुखस्य मुखमाननमासीत्, मुखादुत्पन्नो ब्राह्मण इत्यर्थः । ब्राह्मणस्य वक्ष्यमाणसर्वावयवेषूत्तमान्मुखादुत्पन्नत्वोक्त्या तस्यान्यवर्णापेक्षया स्वत एवोत्तमवं सूचितम् । मुखव्यापारभूतवेदाध्ययनादिप्रधानत्वं मुखवीर्यत्वं च व्यञ्जितम् । बाहू राजन्यः क्षत्रियः कृत, क्षत्रियो बाहोरजायतेत्यर्थः । बाहुजत्वाद् ब्राह्मणापेक्षया न्यूनत्वं बाहुव्यापारभूतयुद्धादिप्रधानत्वं बाहुवीर्यत्वं च प्रतीयते । वैश्य इति यत् तद् अस्य ऊरू, अस्योरुभ्यां वैश्योऽजायतेत्यर्थः । ऊरुजत्वाद् वैश्यस्य क्षत्रियापेक्षया न्यूनत्व-मवगतम् । पद्भ्यां पादाभ्यां शुद्रोऽजायत । शूद्रस्य पज्जातत्वात् सर्ववर्णापेक्षयापि निकृष्टत्वं लब्धम् । पादकार्य-भूतगमनागमनादिव्यापारश्च सूचितो भवति । इदानीं पूर्वोक्तानां प्रश्नानामुत्तराणि दर्शयति - ब्राह्मण इति । अस्य प्रजापतेर्ब्रह्मणो ब्राह्मणत्वजातिविशिष्टः पुरुषो मुखमासीत्, मुखादुत्पन्न इत्यर्थः । योऽयं राजन्यः क्षत्रियत्वजातिमान् पुरुषः, स बाहू कृतः, बाहुत्वेन निष्पादितः, बाहुभ्यामुत्पादितः । तत् तदानीमस्य प्रजापतेर्यद् यौ ऊरू तद्रूपो वैश्यः, ऊरुभ्यामुत्पन्न इत्यर्थः । तथास्य पद्भयां पादाभ्यां शूद्रः शूद्रत्वजातिमान् पुरुषोऽजायत । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिः कृष्णयजुःसंहितायां सप्तमकाण्डे - स मुखतस्त्रिवृतं निरमिमीत ' ( तै ० सं ० ७ १ १ ४ ) इत्यादौ विस्पष्टमाम्नाता | वाल्मीकी रामायणेऽपि - ' मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा । ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः || ' ( अ ० का ० १४ । ३० ) | अतः प्रश्नोत्तरे उभे अपि तत्परतयैव योजनीये । अध्यात्मपक्षे - आध्यात्मिकोऽर्थोऽत्रैव गतार्थः । दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीयखण्डे १२५४ तमपृष्ठीयं तृतीयमनुच्छेदं प्रारभ्य १२५५ तमपृष्ठीयं प्रथममनुच्छेदं यावदवलोकनीयम् ॥ ११ ॥

पृष्ठ 394

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 394 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १२-१३ ] वेदार्थपारिजातभाष्यसहिता

च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः सूर्यो अजायत ।

श्रोत्रायुश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ॥ १२ ॥

११ मन्त्रार्थ -- विराट् पुरुष के मन से चन्द्रमा उत्पन्न हुआ, नेत्र से सूर्य उत्पन्न हुआ, कान से वायु और प्राण उत्पन्न हुए तथा मुँह से अग्नि की उत्पत्ति हुई ॥ १२ ॥

चन्द्रमाः मनसः जातः चक्षोः सूर्यः अजायत । श्रोत्रात् वायुः च प्राणः च मुखात् अग्निः अजायत । तस्य एवंविधस्य यज्ञोत्पन्नस्य पुरुषस्य चन्द्रमा मनसश्चेतसो जातः, अजायतेति कल्पना । मन एव चन्द्रमाः । तथा च श्रीमद्भागवते - मनश्च स चन्द्रमाः सर्वविकारकोश: ' ( २ | १ | ३४ ) इति । चक्षोत्राभ्यां सूर्यः, नेत्रे एव सूर्यः । यः प्राणो जीवः स एव वायुः श्रोत्राद् अजायतेति कल्प्यते श्रोत्रमेव वायुः । योऽयमग्निः स मुखाद-जाति कल्प्यते, मुखमेवाग्निः, अंशोत्पन्नत्वादिति । एवं यज्ञकर्तॄणामुत्तमुक्खा देवतोत्पत्तिमाह् - अस्य चतुर्मुखस्य मनसश्चन्द्रमाः शीतांशुर्जात उत्पन्नः । चक्षोचक्षुषः सूर्यः सर्वार्थप्रकाशकरो भानुरजायत । इन्द्रश्च परमैश्वर्यवान् देवता सार्वभौमः शचीपतिः, अग्निश्च देवानां मुखस्थानीयोऽनलः, अजायतामिति विपरिणतस्यानुषङ्गः । प्राणात् सर्वप्राणनहेतोश्चतुर्मुखरूपधरस्य वेदाः, भगवतः प्राणाद् वायुः सर्वप्राणनहेतुभूतोऽजायत । यथा दध्याज्यादिद्रव्याणि गवादयः पशवः, ऋगादयो ब्राह्मणादयो मनुष्याश्च तस्मादुत्पन्नाः एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्नाः । प्रजापतेर्मनसः सकाशाच्चन्द्रमा जातः, चक्षोः सूर्यो ( चक्षुकः सूर्यो ) अजायत । अस्य मुखादिन्द्रश्च अग्नि देव उत्पन्नौ । अस्य प्रागाद्वायुरजायत । अयात्मपक्षे आध्यात्मिकोऽर्थोऽत्रैव गतार्थः । दयानन्दीयार्थस्तदालोचनं च वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीयखण्डे १२५६ तमपृष्ठीयं तृतीय-मनुच्छेदं प्रारभ्य १२५७ तमपृष्ठीयं प्रथममनुच्छेदं यावद् द्रष्टव्यम् ॥ १२ ॥

नाभ्या॑ आसीद॒न्तरि॑क्षं शष्ण द्यौः सम॑वर्तत ।

पद्भ्यां भूमदिशः श्रोत्रात्तथा॑ लो॒काँ २ ॥

अ॑कल्पयन् ॥ १३ ॥

मन्त्रार्थ - नाभि से अन्तरिक्ष की उत्पत्ति हुई, शिर से स्वर्ग और चरणों से भूमि उत्पन्न हुई । इसी तरह से कानों से दिशाओं और भूमि आदि की उत्पत्ति उस विराट् पुरुष ने अपने देह के इन अवयवों से ही की ॥ १३ ॥

नाभ्याः आसीत् अन्तरिक्षम् शीर्णः द्यौः सम् अवर्तत । पद्भयां भूमिः दिशः श्रोत्रात् तथा लोकान् अकल्पयन् ॥ तस्यैवंविधस्य पुरुषस्य या नाभिस्तदेव अन्तरिक्षं नभः । या द्यौस्तत् शीषं शिरः । समवर्ततेति कल्पितम् । पादौ भूमिरेव । श्रोत्रे श्रवणौ दिशः । श्रोत्रावयवा यस्माद्दिशो ब्रह्मणो जातास्तथैव सर्वान् लोकान् पुरुषस्यावयवभूतान् अकल्पयदिति । एतावता प्रबन्धेन उपास्य देवतामुक्त्वा उपासीनानां भोगस्थानभूतस्यान्तरिक्षादिलोकस्य सृष्टिमाह नाभ्या इति । अन्तरिक्षं सूर्याण्डगोलयोर्मध्यदेशरूपोऽन्तरिक्षलोक आसीत् । शीर्ष्णः शिरसः, द्यौर्द्युलोकः समवर्तत । इदमुपरितनानां सर्वेषां लोकानामुपलक्षणम् । पद्भ्यां चरणाभ्यां भूमिः पृथ्वीमण्डलम् । इदं च सर्वेषामधोलोकाना-

पृष्ठ 395

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 395 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२ शुक्लयजुर्वेदसंहिता [ अ ० ३१ मुपलक्षणम् । श्रोत्रात् कर्णाद् दिश आशाः, इदं च सप्तद्वीपोपलक्षणम् । तथा यथा पूर्वस्मिन् कल्पे आसन् तथा लोकान् अन्तरिक्षादीन् पृथिव्यादींश्च चतुर्दशलोकान् अकल्पयन् अकल्पयत् चकार । बहुवचनं कतिधा व्यकल्प-यन्निति प्रश्नानुरूपमत्र विवक्षितम् । यथा चन्द्रादीन् प्रजापतेर्मनः प्रभृतिभ्योऽकल्पयन्, तथाऽन्तरिक्षादीन् लोकान् प्रजापतेर्नाभ्यादिभ्यो देवा अकल्पयन् उत्पादितवन्तः । एतदेव दर्शयति - नाभ्याः प्रजापतेर्नाभेरन्तरिक्ष-मासीत् । शीर्ष्णः शिरसो द्यौः समवर्तत उत्पन्ना । अस्य पद्भ्यां पादाभ्यां भूमिरुत्पन्ना । अस्य श्रोत्राद्दिश उत्पन्नाः । अध्यात्मपक्षे - आध्यात्मिकोऽप्यर्थोऽत्रैव गतार्थः । दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीयखण्डे १२५७ तमपृष्ठीयं चतुर्थ -मनुच्छेदमारभ्य १२५८ तमपृष्ठीयं प्रथममनुच्छेदं यावद् वर्तते ॥ १३ ॥

यत्पुरुषेण हविषा दे॒वा

य॒ज्ञमत॑न्वत ।

वसन्तोऽस्यासी॒दाज्यं ग्रीष्म इ॒ध्मः शरद्धविः ॥ १४ ॥

मन्त्रार्थ- -जब विद्वानों ने इस विराट् पुरुष के देह के अवयवों को ही हवि बना कर इस ज्ञानयज्ञ की रचना की, तब वसन्तऋतु तं घृत का, ग्रीष्म ऋतु ने समिधा का स्थान संभाला और शरद् ऋतु हविस्थानीय बनी ॥ १४ ॥

यत् पुरुषेण हविषा देवा: यज्ञम् अतन्वत । वसन्तः अस्य आसीत् आज्यम् ग्रीष्मः इध्मः शरत् हविः ॥ कथमन्नेनाधिरोहति? तदाह -- यद् यस्मात् कारणात् पुरुषेण हविषा हविर्भूतेन देवा इन्द्रादयो यथा यज्ञमतन्वत विस्तारितवन्तः " तथा योगिनोऽपि पुरुषेणैवामृतभूतेन दीपितेनात्मना आत्मयज्ञं समधिकृतवन्तः । अत्र यज्ञे वसन्त आज्यमासीत्, ग्रीष्म इध्मः, शरद्धविरिति । इतरयागे वसन्तशब्देन सात्त्विको गुण उच्यते, ग्रीष्मशब्देन राजसः, शरच्छब्देन तामसः । त्रयो हि गुणास्तत्रात्मयज्ञे योगिनो जुह्वतीति । स जातश्चतुर्मुखः स्वयं जगत्सृष्टिमजानानो भगवदुपदिष्टमार्गेण भगवन्तमात्मसमर्पणरूपेण मानसयागेन आराध्य तत्प्रसादाल्लब्धविज्ञानो जगत्सृष्टिमकरोदिति वक्तुं भगवदाराधनात्मकं यागमाह - यत् यदा, पुरुषेण चतुर्मुखात्मकेन हविषा देवास्तदिन्द्रियाणि यज्ञं मानसं ध्यानरूपमतन्वत, तदेत्यध्याहारः । अस्य यज्ञस्य वसन्त आज्यम्, वसन्तकालस्य आज्यप्रचुरत्वेन अत्राज्यकल्पनम् । ग्रीष्म इध्मः, तदानीं पलाशादीनां बाहुल्यो-पलम्भात् । शरद् हविः, तत्कालस्य सस्यप्रचुरत्वात् । एवं वसन्तादीनां मानसयज्ञे आज्यादित्वेन ध्यानम् । यद्-यदा पूर्वोक्तक्रमेणैव शरीरेषूत्पन्नेषु सत्सु देवा उत्तरसृष्टिसिद्धयर्थं बाह्यद्रव्यस्यानुत्पन्नत्वेन हविरन्तराऽ-सम्भवात् पुरुषस्वरूपमेव मनसा हविष्ट्वेन संकल्प्य पुरुषेण पुरुषाख्येन हविषा मानसं यज्ञम् अतन्वत अन्वतिष्ठन् । तदानीमस्य यज्ञस्य वसन्तो वसन्तर्तुरेव, आज्यम् आसीद् अभूत्, तमेवाज्यत्वेन संकल्पितवन्तः । ग्रीष्मो ग्रीष्मर्तुः, इध्म आसीत्, तमेव इध्मत्वेन भावितवन्तः । तथा शरद्धविः पुरोडाशादिहविष्ट्वेन शरदं भावितवन्तः । पूर्वं पुरुषस्य हविः सामान्यरूपत्वेन संकल्पः, अनन्तरं वसन्तादीनामाज्यादिविशेषरूपत्वेन संकल्पः । अध्यात्मपक्षे - आध्यात्मिकोऽर्थ उक्तार्थ एव समाविष्टः । दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीयखण्डे १२६० तमपृष्ठीयं द्वितीय मनुच्छेदमारभ्य १२६२ तमपृष्ठीयं द्वितीयमनुच्छेदं यावद् वर्तते । तत् तत्रैव जिज्ञासुभिरवलोक-नीम् ॥ १४ ॥

पृष्ठ 396

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 396 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ०१५ ] वेदार्थ पारिजातभाष्यसहिता

सप्तास्यासन् परिधय॒स्त्रिः स॒प्त स॒मिधः कृताः ।

दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्व॒न॒ पुरु॑षं प॒शुम् ॥ १५ ॥

१३ मन्त्रार्थ- -- जब इस मानस याग का अनुष्ठान देवताओं ने प्रारम्भ किया, तो सर्वप्रथम इस विराट् पुरुष की ही पशु के रूप में भावना की गई । उस समय गायत्री आदि सात छन्दों ने सात परिधियों का स्वरूप स्वीकार किया । बारह मास, पाँच ऋतु, तीन लोक और सूर्यदेव को मिलाकर इक्कीस अथवा गायत्री आदि सात, अतिजगती आदि सात और कृति आदि सात छन्दों को मिलाकर इक्कीस समिधाएँ बनीं ॥। १५ ॥ सप्त अस्य आसन् परिधयः त्रिःसप्त समिधः कृताः । देवाः यत् यज्ञम् तन्वानाः अबध्नन् पुरुषं पशुम् ॥ देवा इन्द्रादयः, यथा यज्ञं पुरुषमेधाख्यं विस्तारयन्तः पुरुषं पशुम् अबध्नन् हतवन्तः अस्य पुरुषमेधयज्ञस्य सप्त समुद्राः परिधय आसन् । भारतेहि वर्षे यागः प्रवर्तते । त्रिःसप्त छन्दांसि गायत्र्यादीनि समिधः कृताः । आत्मयागे परिधिशब्देन पृथिव्यापस्तेजोवायुराकाशं मनो बुद्धिरित्येते परिधयः कल्प्यन्ते । त्रिःसप्त समिध: पञ्च महाभूतानि पृथिव्यादीनि पञ्च तन्मात्राणि रूपादीनि पञ्च बुद्धीन्द्रियाणि श्रोत्रादीनि पञ्च कर्मेन्द्रियाणि पाण्यादीनि मनश्च । एतास्त्रिः सप्त समिधः कल्पयन्ति । तथा देवा दीव्यमाना ज्ञानेन योगिनः समाध्याख्यं यज्ञं तन्वाना विस्तारयन्तः पुरुषं ज्ञानं पुरुषमेधा शुरूपेणावस्थितमबध्नन् अगृह्णन् । अस्य यज्ञस्य परिधयः परितो धीयन्त इति तथोक्ताः, आहवनीयादीनां त्रिषु पार्श्वेषु प्रथममेखलाया उपरि निधीयमानानि मेखला परिमितायामानि काष्ठानि परिधय उच्यन्ते । सप्त आसन् न त्रय एव । उत्तरवेदि-परिधयस्त्रयः, आहवनीयपरिधयस्त्रयः सप्तमश्च आदित्यः परिधिरिति सप्त परिधयं भवन्ति । यद्यप्यत्र वसन्तादीनामाज्यादित्वमिव न परिधित्वेन कस्यचिद् ध्यानमुक्तम्, तथापि पूर्व सृष्टिषु सप्तसंख्याकानां पदार्थानामेव परिधित्वेन भावनं कर्तव्यम् । ते च महदहङ्कारौ पञ्च तन्मात्राश्च सप्त पदार्थाः परिधित्वेन ध्याताः । अस्य यज्ञस्य त्रिःसप्तत्रिवृत्ताः सप्तसंख्या:, एकविशतिसंख्याका इत्यर्थः, समिधोऽग्नेर्दीप्तिसाधनीभूतानि ष्ठान दशेन्द्रियाणि मनः, पञ्चतन्मात्राः, पञ्चमहाभूतानि च मिलित्वा एकविंशतिसंख्याकाः समिद्रूपेण भाव्यन्ते । देवा इन्द्रियरूपाः साध्याश्च यद् यदा, यज्ञं देवता उद्दिश्य द्रव्यत्यागरूपं तन्वानाः पुरुषं चतुर्मुखाख्यं पशुं पशुस्थानीयमबध्नन् हृदयाख्ये यूपेऽध्यवसायरूपया रशनयाऽनन्यगतिं चक्रुः, मूलप्रकृतिरूपे वा यूपे भगवदाज्ञा-रूपया रशनया न्ययुञ्जन् । अस्य साङ्कल्पिकस्य यज्ञस्य गायत्र्यादीनि सप्त छन्दांसि परिधय आसन् । ऐष्टिकस्य आहवनीयस्य त्रयः परिधयः, उत्तरवेदिकास्त्रयः, आदित्यश्च सप्तमः परिधिः परिधिप्रतिनिधिरूपः । अत एवाम्नायते - ' न पुरस्तान् प्रतिदधाति, आदित्यो ह्येवोद्यन् पुरस्ताद्रक्षांस्यपहन्ति ' ( तै ० सं ० २ / ६ / ६१३ ) इति । तदेते आदित्यसहिताः सप्त परिधयोऽत्र सप्तच्छन्दोरूपाः । तथा समिधस्त्रिः सप्त त्रिगुणीकृत सप्तसंख्याका एकविंशतिः कृता । ' द्वादशमासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश: ' ( तै ० सं ० ५ | १ | १० | ३ ) इति श्रुताः पदार्था एकविंशतिर्दारु-युक्तमत्वेन भाविताः । यद् यः पुरुषो वैराजोऽस्ति तं पुरुषं देवाः प्रजापतिप्राणेन्द्रियरूपा यज्ञं तन्वाना मानसं यज्ञं तन्वानाः कुर्वाणाः, पशुमबध्नन्, विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्वत्र -- ' यत्पुरुषेण हविषा ' इत्युक्तम् । अध्यात्मपक्ष - आध्यात्मिकोऽप्यर्थ उक्तार्थ एव समाविष्ट: ।

पृष्ठ 397

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 397 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४ शुक्लयजुर्वेदसंहिता [ अ ० ३१ दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीये खण्डे १२६३ तमपृष्ठीयं द्वितीयमनुच्छेदमारभ्य १२६५ तमपृष्ठीयं प्रथममनुच्छेदं यावद् द्रष्टव्यम् ॥ १५ ॥

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्माणि प्रथ॒मान्या॑सन् ।

ते ह नाके॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे साध्याः सन्ति॑ दे॒वाः ॥ १६ ॥

मन्त्रार्थ - सिद्ध संकल्प वाले देवताओं ने यज्ञ में यज्ञपुरुष महानारायण की आराधना की । बने । जिस स्वर्ग में पुरातन साध्य देवता रहते हैं, करने वाले भक्तगण प्राप्त करते हैं ॥ १६ । विराट् पुरुष के अवयवों की छवि के रूप में कल्पना कर प्रस्तुत मानस बाद में ये ही महानारायण की उपासना के प्रथम ( मुख्य ) उपादान उस दुःख से रहित लोक को हो महानारायण यज्ञपुरुष की उपासना यज्ञेन यज्ञम् अयजन्त देवाः तानि धर्माणि प्रथमानि आसन् । ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ यथा इन्द्रादयो देवा यज्ञेन ज्योतिष्टोमाख्येन यज्ञपुरुषं वासुदेवं विधिना अयजन्त । यतस्तानि यजनरूपाणि धर्माणि प्रथमान्यासन् ते ह महाभाग्ययुक्ता नाकं सचन्त स्वर्गं सेवन्ते, यत्र पूर्वे साध्याः प्रथमे सुराः सन्ति विद्यन्ते देवास्तेजसा देदीप्यमानाः । एवं योगिनोऽपि दीपनाद्देवा यज्ञेन समाधिना नारायणाख्यं ज्ञानरूपमयजन्त । यतस्तानि समाधिरूपाणि धर्माणि प्रथमान्यासन् । ते तु नाकं सनकादीनां स्थानं गच्छन्ति । ये तु योगिनो महिमानो जन्मान्तरैर्निर्धूतगुणाः शुद्धास्ते नारायणाख्यं पुरुषमाविशन्ति, मुक्ति गच्छन्तीत्यर्थः । यजनीयदेवतोद्देश्यकद्रव्यत्यागरूपेण कर्मणा परमपुरुषोद्देश्यक - प्रणवकरणकात्मसमर्पणरूप मानसयज्ञेन मुमुक्षूणामात्मसमर्पणस्यैवावश्यकर्तव्य यज्ञरूपत्वात्, ' अहमेवाहं मां जुहोमि स्वाहा ', ' इदमहं माममृतयोनौ सूर्ये ज्योतिषि जुहोमि ', ' ओमित्यात्मानं युञ्जीत ' इत्यादिभिरात्मसमर्पणस्य यागरूपता विज्ञायते । यज्ञं यजनीय-देवतारूपं भगवन्तं परमपुरुषम्, ' यज्ञो वै विष्णुः ' ( श ० १ १ २ १३ ) इति श्रुतेः, अयजन्त भगवन्तमुद्दिश्य आत्मसमर्पणरूपं यज्ञमकुर्वन् । तान्येव धर्माणि स धर्म एव प्रथमानि प्रधानः आसन् आसीत् । लिङ्गवचन-व्यत्यय छान्दसः । तेषां फलमुच्यते - ते यज्ञानुष्ठातारो नाकं निरतिशयानन्दैकतानं मोक्ष परमपदाक्षर - पर-धामादिशब्दितं नाकाख्यं वैकुण्ठलोकम् । कं सुखम्, अकं दुःखम्, तन्न विद्यते यत्र तन्नाकमिति व्युत्पत्त्या दुःख-शून्यत्ववाचकस्य नाकशब्दस्य योगरूढ्या तादृशपरमव्योमबोधकत्वात्, ' नाकोऽम्बरे रवौ स्वर्गे परमव्योम्नि च स्मृतः ' इति निघण्टुवचनात् । महिमानः परमसाम्यापत्तिरूपमहिमवन्तः, ' ब्रह्मणो महिमानमाप्नोति ' ( नारायणोप ० ८० ) इति श्रुतेः । अथवा भगवन्महिमभूता भगवद्विभूतिभूताः । परब्रह्मोपसम्पत्त्या निवृत्ताविद्यातिरोधानस्य सुविदितात्म-याथात्म्यस्य परमात्मात्मक - स्वात्मानुसन्धानेन ' अहं ब्रह्मास्मि ' ( बृ ० १ | ४ | १० ) इत्येव ह्यनुभवस्तद्युक्तस्य । अथवा महिमानो भगवन्तमर्चयन्तः, ' मह पूजायाम् ' इति धातोस्तद्रूपनिष्पत्तेः । अथवा महिमानः पूज्यमानो-ऽचिरादिभिरातिवाहिकैः प्राप्येत्यध्याहार्यम् | सचन्ते समवेता भवन्ति नित्यसूरिपरिषदा सह एकीभवन्ति । ति प्रसिद्ध | ' ब्रह्मविदाप्नोति परम् ' ( तै ० २। १ ), परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ' ( छा ० ८ | १२ | ३ ) | कैः समवेता भवन्ति? यत्र ह वैकुण्ठे लोके पूर्वे लोके पुरातनाः, ' यत्र ऋषयो जग्मुः प्रथमजा पुराणा: ' ( वा ० सं ० १८।५८ ) इति मन्त्रवर्णात् । सर्वदा भगवन्नित्यसङ्कल्पेनास्खलितज्ञानाः साध्याः प्राप्यभूताः । चेतनस्वरूपस्य तदीयशेषत्वपर्यन्तत्वेन प्राप्यस्यापि तदीयैकपर्यन्तत्वेन नित्यसूरिपरिपामपि परमप्राप्यत्वात्

पृष्ठ 398

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 398 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १६ - १७ ] वेदार्थ पारिजातभाष्यसहिता १५ ते साध्या उच्यन्ते । यद्वा साध्याः साध्याख्या देवा भगवत्स्तुतिपरायणा अनन्तगरुडविष्वक्सेनप्रभृतयो नित्या दीव्यन्ति क्रीडन्ति भगवत इति देवाः सन्ति समिन्धते । तं नाकं ते महिमानः सचन्तेऽनन्तादिभिः सह भगवदनुभवं कुर्वन्ति, ‘ तद्विष्णोः परमं पद सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् || ' ( वा ० सं ० ६।५ ) इति मन्त्रवर्णात् । पूर्व प्रपचितमर्थमत्र संक्षिप्य दर्शयति देवाः प्रजापतिप्राणरूपा यज्ञेन यथोक्तेन मानसेन सङ्कल्पेन । यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिमयजन्त पूजितवन्तः । तस्मात् पूजनात् तानि प्रसिद्धानि धर्माणि जगद्रूपविकाराणां धारकाणि प्रथमानि मुख्यान्यासन् । एतावता सृष्टिप्रतिपादक सूक्तभागार्थः संगृहीतः । अथोपा सनतत्फलानु-वादकभागार्थः नाके साध्याः पुरातना विराडुपास्तिसाधका देवाः संगृह्यते- -- यत्र यस्मिन् विराट्प्राप्तिरूपे सन्ति तिष्ठन्ति, तन्नाकं विराट् प्राप्तिरूपं स्वर्ग ते महिमानस्तदुपासका महात्मानः सचन्त समवयन्ति प्राप्नुवन्ति । अध्यात्मपक्षे अध्यात्मिकोऽप्यर्थोऽत्रैव ज्ञातव्यः । दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थ पारिजात ( भूमिकाभाग ) स्य द्वितीये खण्डे १२६६ तमपृष्ठीय द्वितीयमनुच्छेदमारभ्य १२६७ तमपृष्ठीयं प्रथममनुच्छेदं यावद् विद्यते ॥ १६ ॥

अ॒द्भः सम्भूतः पृथि॒व्यै रसच्च विश्वकर्मणः सम॑वर्तताग्रे ।

तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मत्यै॑स्य देव॒त्वमा॒जान॒मये॑ ॥ १७ ॥

मन्त्रार्थ - उस महानारायण की उपासना के ओर भी प्रकार हैं- पृथिवी और जल के रस से अर्थात् पाँच महाभूतों के रस से पुष्ट, सारे विश्व का निर्माण करने वाले, उस विराट् स्वरूप से भी पहले जिसकी स्थिति थी, उस रस के रूप को धारण करने वाला वह महानारायण पुरुष पहले आदित्य के रूप में उदित होता है । प्रथम मनुष्यरूप उस पुरुष -मेयाजी का यह आदित्य रूप में अवतरित ब्रह्म ही मुख्य आराध्य देवता बनता है ॥ १७ ॥

अद्भयः सम्भृतः पृथिव्यै रसात् च विश्वकर्मणः समवर्तत अग्रे । तस्य त्वष्टा विदधत् रूपम् एति तत् मर्त्यस्य देवत्वम् आजानम् अग्रे ॥ त्वष्टा प्रजापतिर्ब्रह्मा यद्रूपमेकांशभूतं विदधत् कृतवान् तदेव मर्त्यस्य मर्त्ये भूलोके देवत्वं प्रभुत्वम् आजानम् आप्तमित्यर्थः । किम्भूतोऽसौ? अद्भयः सकाशात् सम्भृतः पिण्डीभूतः पृथिव्या साच्च । विश्वकर्मणोऽग्रे प्रथमतः समवर्तत संयोगरूपेण कृतः । तस्यैव नान्यस्य तदेव कारणान्मर्त्ये प्राप्त -वान् स तु पालनीयदानवादिविनाशनायेति । ' अद्भयः सम्भृतः ' इति षट्कण्डिका उत्तरनारायणशब्देनोच्यन्ते । तथा च सर्वानुक्रमः - ' अद्भयः षडृच उत्तरनारायणो मन्त्र आद्यास्तिस्रस्त्रिष्टुभो द्वे अनुष्टुभी अन्त्या त्रिष्टुप् ' इति । आदित्यदेवत्याः । पूर्वकल्पे पुरुष-मेधयाजी आदित्यरूपं प्राप्तः स्तूयते । अद्भूयो जलात् पृथिव्याः सकाशाच्च । पृथिव्यपां ग्रहणं भूतपञ्चकोपलक्षकम् । भूतपञ्चकाद् यो रसः सम्भूतः पुष्टः, तथा विश्वकर्मणो विश्वं कर्म यस्यासौ विश्वकर्मा कालः, तस्य । रसात् प्रीतेर्यो रसोऽग्रे प्रथमं समवर्तत समभवत् । भूतपञ्चकस्य कालस्य च सवं प्रति कारणत्वात् पुरुषमेधयाजिनो लिङ्गशरीरे कालः पञ्चभूतानि च तुष्टानि । ततस्तुष्टेभ्यः कश्चिद् रसविशेषफलरूप उत्तमजन्मप्रद उत्पन्न इत्यर्थः । तस्य रसस्य रूपं विदधद् धारयन् त्वष्टा आदित्य एति प्रत्यहमुदयं करोति । अग्रे प्रथमं मर्त्यस्य मनुष्यस्य सतस्तस्य पुरुषमेधयाजिन आजानदेवत्वं मुख्यं देवत्वं सूर्यरूपेण द्योतते । द्विविधाः खलु देवाः - कर्म-

पृष्ठ 399

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 399 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६ शुक्लयजुर्वेदसंहिता [ अ ० ३१ देवाः, आजानदेवाश्च । कर्मणा उत्कृष्टेन देवत्वं प्राप्ताः कर्मदेवाः । सृष्ट्यादावुत्पन्नाः आजानदेवाः । ते कर्मदेवेभ्यः श्रेष्ठाः, ' अथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः ' ( श ० १४ | ७ | १ | ३५ ) इति श्रुतेः । सूर्यादय आजानदेवाः । अध्यात्मपक्षे-- यः कर्मसमवायिन्य आपः संस्काररूपास्ताभ्यः । तथा पृथिव्यै पृथिवीशब्देन सूक्ष्माणि स्थूलानि च पञ्चमहाभूतान्युच्यन्ते तेभ्यः, विभक्तेर्विपरिणामः तेषां रसाच्च सम्भृतः पिण्डीभूतो रसो विश्व -कर्मणो विश्वनिर्मातुः प्रजापतेः सर्वकर्मणामग्रे समवर्तत । अन्तःकरणे संस्कार - वासनादिरूपेण दृढं निहितानां कर्मणां परिपाके फलरूपेणोपनतानां भोगाय प्रथमं जागरितवदिति ध्वनिः । तस्य भोगस्य रूपं विदधद् भोगं साकारं कुर्वन्, भोगं प्रयच्छन्निति यावत् त्वेषतीति त्वष्टा, त्विषेः तृनि त्विषेर्देवतायांमकारोपधायाः ' ( पा ० सू ० ३।२।१३५, वा ० ४ ) इति वार्त्तिकेन रूपसिद्धिः । आदित्य एति प्रत्यहमुदयं करोति । अग्रे प्रथमं मर्त्यस्य मनुष्यस्य सतस्तस्य पुरुषमेधयाजिन आजानं देवत्वम्, सूर्यरूपेण मुख्यं देवत्वमित्यर्थः । दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थ पारिजात ( भूमिकाभाग ) स्य द्वितीयखण्डे १२७१ तमपृष्ठीयं चतुर्थमनुच्छेदमारभ्य १२७३ तमपृष्ठीयं प्रथममनुच्छेदं यावद् विद्यते ॥ १७ ॥

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादित्यव॑र्ण॒ तम॑सः पु॒रस्ता॑त् ।

तमे॒व वि॑दि॒त्वाऽति॑मृ॒त्यु॒मे॑ति॒ नान्यः पन्था॑ विद्य॒तेऽय॑नाय ॥ १८ ॥

मन्त्रार्थ - मैं इस आदित्यस्वरूप अविद्या के लवलेश से भी रहित ज्ञानस्वरूप परम पुरुष उस महानारायण को जानता हूँ । कोई भी प्राणी उस महानारायण पुरुष को जान लेने के उपरान्त ही मृत्यु का अतिक्रमण कर अमृतत्व को प्राप्त करता है । अमृतत्व की प्राप्ति का इससे भिन्न कोई दूसरा उपाय नहीं है || १८ || वेद अहम् एतम् पुरुषम् महान्तम् आदित्यवर्णं तमसः परस्तात् । तम् एव विदित्वा अतिमृत्युम् एति न अन्यः पन्थाः विद्यते अयनाय ॥ ऋषेः प्रतिवचनम् । अहमेतं पुरुषं वेद । महान्तं देशकालाद्यवच्छेदरहितम् । आदित्यवर्णं स्वप्रकाशम् । तमसः परस्ताद् अविद्याया भेददर्शनम् । तमेव विदित्वा अतिमृत्युमेति अतिक्रम्य मृत्युं तं पुरुषमनुप्रविशति । न अन्यः पन्था मार्गस्तस्य अयनाय गमनाय विद्यते । एतं महान्तं सर्वोत्कृष्टं पुरुषं सूर्यमण्डलस्थमहं वेद जानामीति ऋषेर्वचनम् । कीदृशम्? आदित्यवर्णम्, आदित्यस्य वर्ण इव वर्णो यस्य स आदित्यवर्णस्तम्, उपमान्तराभावात् स्वोपमम् । तथा तमसः परस्ताद् दूरतरम्, तमोरहितमित्यर्थः । तमः शब्देन अविद्योच्यते । तमेवादित्यं विदित्वा ज्ञात्वा मृत्युमत्येति अतिक्राम्यति परं ब्रह्म गच्छति । अयनाय आश्रयाय अन्यः पन्या मार्गे न विद्यते । सूर्यमण्डलान्तःपुरुषमात्मरूपं ज्ञात्वैव मुक्तिः । अध्यात्मपक्षे- एतं स्वशरीरान्तर्वतिनमित्यङ्गुल्या निर्देशः । महान्तमवेद्यत्वे सत्यपरोक्षम् । पुरुषं शरीर-शायिनमहं सर्वसाक्षित्वेन वेद इति ज्ञानिनः साधकस्यर्षेर्वचनम् । आदित्यवर्णं निरपेक्षप्रकाशम् । तमसः परस्ताद् अविद्यातत्कार्यादिसर्वोपाधिशून्यम् । तमेव एतमेव प्रत्यक्चैतन्यं परब्रह्माभिन्नतया विदित्वा ज्ञात्वा मृत्युं जनन-मरणाविच्छेदलक्षणम्, अत्येति अतिक्रम्य स्वस्वरूपेऽवतिष्ठते । अयनाय जननमरणप्रवाहविच्छेदाय मोक्षाय, अन्यः पन्था मार्गो न विद्यते ।

पृष्ठ 400

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 400 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १८-२० ] वेदार्थ पारिजात भाष्यसहिता १७ दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीयखण्डे १२७४ तमपृष्ठीयं द्वितीय-मनुच्छेदमारभ्य १२७६ तमपृष्ठीयं प्रथममनुच्छेदं यावद् विद्यते ॥ १८ ॥

प्र॒जाप॑ति॒श्वत॒ गर्भे अ॒न्तरर्जायमानो बहुधा विजयते ।

तस्य॒ यो॑न॒ परि॑पश्यन्ति॒ धोरा॒स्तस्मिन् ह तस्थुर्भुव॑नानि॒ विश्वा॑ ॥ १ ९ ॥

मन्त्रार्थ - सर्वात्मा प्रजापति अन्तर्यामी रूप से गर्भ के मध्य में प्रकट होता है । जन्म न लेता हुआ भी वह देवता, तिर्यक्, मनुष्य आदि योनियों में नाना रूपों में प्रकट होता है । ब्रह्मज्ञानी ब्रह्मा के उत्पत्ति स्थान उस महानारायण पुरुष को सब ओर से देखते हैं, जिसमें कि यह सारा ब्रह्माण्ड स्थित है ॥ १ ९ ॥ प्रजापतिः चरति गर्भे अन्तः अजायमानः बहुधा विजायते । तस्य योनिम् परिपश्यन्ति धीराः तस्मिन् ह तस्थुः भुवनानि विश्वा ॥ स एव पुरुष एकांशभूतः प्रजापतिरस्य गर्भस्य अन्तरजायमानश्चरति चतुर्विधेषु भूतेषु । स एव जायमानो बहुधा अनेकप्रकारं विजायते । ये धीरा योगिनस्ते तस्य योनि परिपश्यन्ति सर्वत्यागेन परिहरन्ति । विश्वे त्रैलोक्ये भुवनानि तस्मिन् आतस्थुः । यः सर्वात्मा प्रजापतिः, अन्तर्हृदि स्थितः सन् गर्भे चरति गर्भमध्ये प्रविशति, जीवरूपेण अन्तर्यामिरूपेण च । यश्च अजायमानोऽनुत्पद्यमानो नित्यः सन् बहुधा कार्यकारणरूपेण विजायते मायया प्रपञ्चरूपेण उत्पद्यते । धीरा ब्रह्मविदस्तस्य प्रजापतेर्योनिं स्थानं स्वरूपं परिपश्यन्ति, अहं ब्रह्मास्मीति जानन्ति । विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि तस्मिन् ह तस्मिन्नेव कारणात्मनि ब्रह्मणि तस्थुः स्थितानि । सर्वं तदात्मकमेवेत्यर्थः । अध्यात्मपक्षे -- आध्यात्मिकोऽप्यर्थोऽत्रैव गतार्थः । दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीये खण्डे १२७६ तमपृष्ठीयं द्वितीयमनुच्छेदं प्रारभ्य १२७७ तमपृष्ठीयं प्रथममनुच्छेदं यावद् विद्यते ॥ १ ९ ॥

यो दे॒वेभ्य॑ आ॒प॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः ।

पूर्वो यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒वाय॒ ब्राह्मये ॥ २० ॥

मन्त्रार्थ -- जो परम पुरुष महानारायण सूर्य, चन्द्रमा आदि देवताओं को शक्ति प्रदान करने के लिये अपने प्रकाश से उनको आलोकित करता है, जो ब्रह्मा, विष्णु, महेश आदि देवताओं का बहुत पूर्व काल से हित करता आया है, इन सबका पूज्य है, जो इन सब देवताओं से पहले प्रादुर्भूत हुआ है, उस ब्रह्मज्योतिस्वरूप परम पुरुष को हम प्रणाम करते हैं ॥ २० ॥

यः देवेभ्यः आतपति यः देवानाम् पुरः हितः । पूर्वः यः देवेभ्यः जातः नमः रुचाय ब्राह्मये ॥ अग्रे यो देवेभ्यः । योगिनस्तं नमन्ति ध्यायन्ति । यो देवेभ्यः सर्वेभ्य आतपति अतिशयेन तेजसा तपति, आदित्यरूपेणे-त्यर्थः । यश्च देवानां पुरोऽग्रे इन्द्रत्वेन स्थितः, यश्च पूर्वोऽग्रे ब्रह्मरूपेण देवेभ्यो जातः, तस्मै रुचाय तेजसे ब्राह्मये ब्रह्मपुरुषापत्याय नमः । ३