वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 401–410
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 401–410
पृष्ठ 401
पाठ पढ़ें पाठ छिपाएँ
१८ शुक्लयजुर्वेदसंहिता [ अ ० ३१ यः प्रजापतिः, आदित्यरूपो देवेभ्योऽर्थाय आतपति द्योतते, आदित्योदयस्य दैव्यकर्मयज्ञयागादिप्रवृत्ति-हेतुत्वात्, रात्रावसुराणां प्राधान्यं दिने देवानां प्राधान्यमिति श्रवणात् । यच देवानामग्नीन्द्रादिपुरोगमानां पुरोहितत्वं ब्रह्मरूपेण पुरोहितः सर्वकार्येषु पुरोऽग्रे हितः स्थितः, नीत इत्यर्थः । आदित्यस्य देवानामिन्द्ररूपेण पुराणादिषु स्फुटमेव, पूर्वजातत्वं च । यद्वादित्यस्य विष्णुप्रधानत्वेन विष्णोश्चेन्द्रादीनां सर्वकार्ये वहितत्वमिति देवेभ्यः सकाशात् पूर्वं देवानां कार्यार्थमेव रामकृष्णवामनादिरूपेण विष्णोरवतारप्रसिद्धेः । यश्वादित्यरूपेण यावत् । जातः प्रथममुत्पन्नः, तस्मै आदित्याय परमात्मपुरुषाय नमः प्रह्वीभावोऽस्तु, कः स्वात्मसमर्पणमस्त्विति ' ( पा ० सू ० ३ | १ | १३५ ) इति कीदृशाय? रुचाय रोचतेऽसौ रुचः, तस्मै दीप्यमानाय, ' इगुपधज्ञाप्रीकिरः तस्मै । संस्कार-कप्रत्ययेन रूपसिद्धिः । पुनः कीदृशाय? ब्राह्मये ब्रह्मणो हिरण्यगर्भस्यापत्यं पुमान् ब्राह्मिः । रूपास्वप्सु कारणभूतासु हिरण्यगर्भतेजोनिक्षेपेण ब्रह्माण्डस्य ब्रह्माण्डाच्चादित्यस्याविर्भावश्रवणात् अध्यात्मपक्षे — व्याख्यानोक्तदेवाय आत्मरूपेण परिभाविताय सर्वप्राणिहृत्सरोजे स्थिताय भूयो भूयो नमोऽस्तु । दयानन्दीयोऽर्थस्तदालोचनं च द्वितीयतृतीययोरनुच्छेदयोर्विद्यते ॥ २० ॥
वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीयखण्डे १२७ ९ तमपृष्ठीय -रु॒वं ब्राह्म॑ ज॒नय॑न्तो॒ दे॒वा अग्रे तद॑ब्रुवन् । यस्त्वे॒वं ब्रह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अ॑स॒न् वर्शे ॥ २१ ॥
करते हुए सर्वप्रथम यह मन्त्रार्थ --- इन्द्रियों के अधिष्ठाता देवताओं ने शोभन ब्रह्मज्योतीरूप आदित्य देव को प्रकट , हम सब देवता उस उपासक के वश में कहा कि हे आदित्य! जो ब्राह्मण आपके इस अजर - अमर स्वरूप को जानता है रहते हैं ॥ २१ ॥
वशे ॥ रुचं ब्राह्मम् जनयन्तः देवाः अग्रे तत् अब्रुवन् । यः त्वा एवं ब्राह्मणः विद्यात् तस्य यद् देवाः अब्रुवन् असन् यद् ब्रूयुः, रुचं देदीप्यमानं ब्राह्मं ब्रह्मण उत्पन्नं जनयन्तः सृष्ट्यर्थं देवा योगिनस्तेजसा दीप्यमाना असन् वशे, अग्रे प्रथमतः । किमूचुः? अपरोऽपि यो ब्राह्मणो ब्रह्म विद्याद् विजानीयात् तस्य देवा सनकादीनां स्थानं गच्छतीत्यर्थः । देवा दीप्यमानाः प्राणा रुचं शोभनं ब्राह्मं ब्रह्मणोऽपत्यमादित्यं जनयन्त उत्पादयन्तः ब्राह्मं , अग्रे सिद्धम् प्रथमं । तद् वचोऽब्रुवन् ऊचुः । ' ब्राह्मोऽजातौ ' ( पा ० सू ० ६ । ४ । १७१ ) इति निपातनाद् जानीयात्, तस्य ब्राह्मणस्य तत् आह - हे आदित्य, यो ब्राह्मणस्त्वामेवमुक्तविधिनोत्पन्नं भवन्ति विद्याद् । आदित्योपासको देवानामपि देवा वशे असन्, अर्थात् सर्वे इन्द्रादयो देवा इन्द्रियाणि च वश्या वश्यतामापादयतीत्यर्थः । --अध्यात्मपक्षे - आध्यात्मिकोऽप्यर्थोऽत्रैवार्थे निहितः । दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीये खण्डे १२८० तमे पृष्ठे द्वितीयेऽनुच्छेदे विद्यते ॥ २१ ॥
पृष्ठ 402
पाठ पढ़ें पाठ छिपाएँ
म ० २२ ] वेदार्थ पारिजात भाष्यसहिता १ ९ श्रचं ते लक्ष्मीश्च पयवहोरात्रे पाश्वं नक्षत्राणि रूपम॒श्विनो॒ व्यात्त॑म् । इष्णन्निषाणामुं इषाण सर्वलोकं मं इषाण ॥ २२ ॥
॥ इत्येकत्रिंशोऽध्यायः ॥ हैं, मन्त्रार्थ - हे महानारायण परम पुरुष! श्री और लक्ष्मी आपकी पत्नियाँ हैं, ब्रह्मा के दिन - रात पार्श्व - स्वरूप की आकाश में स्थित नक्षत्र आपके स्वरूपभूत हैं । द्यावापृथिवी विकसित मुख है । स्वयं चाहते हुए आप सदा मेरे कल्याण इच्छा करें 1 मुझे आप अपना कल्याणमय लोक प्राप्त करावें । सारे योगेश्वर्यं मुझे प्रदान करें ॥ २२ ॥
श्रीः च ते लक्ष्मीः च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् । इष्णन् इषाण अमुम् इषाण सर्वलोकम् मे इषाण ॥ अस्य पुरुषस्यैतेऽवयवाः । श्रीश्च लक्ष्मीश्च पत्न्यौ भायें । अहश्च रात्रिश्च ते पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तं मुखम् । इष्णन् इषाण स्वर्गस्य लोकस्य ईशानः । एतद्गुणविशिष्टो नाम मोक्षस्य ईशानः, सर्वलोकस्य च स एव देवानामीशान इति । इति शौनकप्रणीतं पुरुषसूक्तभाष्यं समाप्तम् । हे आदित्य! आदित्यान्तःपुरुष परमेश्वर विष्णो! ' ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजा-सनसन्निविष्टः | केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ इति भविष्यपुराणीया-दित्यहृदये वर्णित! श्री लक्ष्मीश्च ते तव पत्न्यौ भायें त्वद्वश्ये । यया जनः सर्वजनाश्रयणीयो भवति सा श्रीः । श्रीयते यया सा श्रीः राम्पदित्यर्थः । यया लक्ष्यते दृश्यते जनैः सा लक्ष्मीः सौन्दर्यमित्यर्थः । अत्र तत्तदधिष्ठात्र्यौ देव्यौ विष्णोः पत्न्यौ प्रसिद्धे स्तः । यद्वा सर्वनैरपेक्ष्येण श्रयते हरि या सा श्रीः क्षीरसमुद्रमन्थनादाविर्भूता भगवती श्रीः । सर्वानभिलाषिणोऽपि देवान् दैत्यान् ऋषींश्चोपेक्ष्य निरपेक्षमपि हरिमेव वव्रे तेन सा श्रयणाच्छ्री-रुच्यते । तदाश्रयणादेव श्रीयते सर्वेर्गुणैः सौन्दर्यमाधुर्यादिभिः या सा श्रीः । यद्वा श्रीयते श्रीहरिणापि या सा श्रीः, ' ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ( भ ० गी ० ४ | ११ ) इति भगवद्वचनात् । लक्ष्यते दृश्यते सर्वैर्या सा लक्ष्मीः शोभा । अथवा लप्यतेऽभिलष्यते सर्वैर्या सा लक्ष्मीः । यद्वा लष्यते हरिणापि या सा लक्ष्मीः । श्रीलक्ष्मीश्च ते तव पत्न्यौ भायें । निराकारस्य भगवतो द्वे भार्ये भार्यावद्वश्ये । अहोरात्रे तवादित्यरूपस्य पार्श्व पार्श्वस्थानी । नक्षत्राणि गगनस्थास्तारास्तव रूपम्, तवैव तेजसा भासमानत्वात्, ' तेजसो गोलकः सूर्यो नक्षत्राण्यम्बुगोलका: ' इति ज्यौतिषशास्त्राच्च । अश्विनौ द्यावापृथिव्यौ तव व्यात्तं विकसितं मुखं विकसितमुखस्थानीयौ | अश्नुवाते व्याप्नुतस्तावश्विनौ द्यावापृथिव्यौ, ' इमे ' ही सर्व मश्नुवाताम् ' इति श्रुतेः । एवं कर्मफलमिष्णन् इच्छन् सन् महामहिमवैभवं भगवन्तं त्वामहं याचे । इषाण इच्छ । किमेषणीयं तत्राह - अमुं मे मम परलोकः समीचीनोऽस्त्वित्यमुं भावमिच्छ । ननु त्वयैवेष्यतां किं मदीयेच्छ्येति चेन्न, तव परमेश्वरस्या-मोघेच्छत्वात् । मम तु जीवत्वान्मोघेच्छत्वमपि सम्भवति । अतो याचेऽस्य परलोकः समीचीनोऽस्त्विति त्वमेवेच्छ । सर्वलोकं मे मम इषाण सर्वलोकात्मकोऽहं भवेयमितीच्छ, मुक्तो भवेयमित्यभिप्रायः, ' सर्वं खल्विदं ब्रह्म ' ( छा ० ३ | १४ | १ ) इति श्रुतेः । ' कौन्तेय! प्रतिजानीहि न मे भक्तः प्रणश्यति ' ( भ ० गी ० ९ ३१ ) इति भगवानर्जुनं भक्तं प्रेरयति - हे कौन्तेय! त्वमेतत्प्रतिजानीहि मम वासुदेवस्य भक्तो न प्रणश्यति, इत्येतां प्रतिज्ञां १. अनुपलब्धमूलेयं श्रुतिः ।
पृष्ठ 403
पाठ पढ़ें पाठ छिपाएँ
२० शुक्लयजुर्वेदसंहिता [ अ ० ३१ कुरु । ननु त्वयैव शक्तिमता प्रतिज्ञायतामिति चेन्न तव भक्तस्यामोघप्रतिज्ञत्वात् त्वं प्रतिज्ञां कुरु । मम तु प्रतिज्ञा भीष्मस्य भक्तस्य समक्षे भज्यते । तेन त्वमेव प्रतिजानीहि येन न कदाचिदप्यनाश्वासाशङ्का स्यात् । यथा भक्तप्रतिज्ञाऽमोघा भवति, तथैव भगवत इच्छा सर्वथैवामोघा भवति । ---अध्यात्मपक्षे – सर्वलोकावयवस्य भगवतोऽमोघयेच्छ्या भक्तोऽपि सर्वलोकमयत्वं स्वात्मनोऽश्नुते, ब्रह्मरूपो भवतीत्यर्थः । दयानन्दीयोऽर्थस्तदालोचनं च वेदार्थपारिजात ( भूमिकाभाग ) स्य द्वितीयखण्डे १२८१ तमपृष्ठीयं द्वितीय-मनुच्छेदं प्रारभ्य १२८२ तमपृष्ठीयं प्रथममनुच्छेदं यावद् विद्यते ॥ २२ ॥
इति शुक्लयजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायाम् एकत्रिंशोऽध्यायः ॥
पृष्ठ 404
पाठ पढ़ें पाठ छिपाएँ
द्वात्रिंशोऽध्यायः तदे॒वाग्निस्तदा॑दि॒त्यस्तद्वायुस्तद्
चन्द्रमः ।
तदे॒व शुक्रं तद् ब्रह्मता आप॒ः स प्र॒जाप॑तिः ॥ १ ॥
2 मन्त्रार्थं - वह ब्रह्म ही अग्नि है । वही सूर्य और वही वायु भी है । चन्द्रमा भी वही है । वही सारे संसार का बीज ( कारण ) है । जल और प्रजापति भी उस ब्रह्म के ही स्वरूप हैं ॥ १ ॥
ब्रह्मत्वादिदं सर्वं ब्रह्मैवेति सुनिश्चितम् ब्रह्माधीनस्थितिलयं सर्वं ब्रह्मेति सूच्यते ॥ अतीतेऽध्याये पुरुषमेधमन्त्रा उक्ताः । अथात्र सर्वमेधमन्त्रा उच्यन्ते । ' प्रवायुमच्छा बृहती ' ( ३३।५५ ) । इति मन्त्रात् प्राक् सर्वमेधमन्त्राः स्वयम्भूब्रह्मदृष्टा आत्मदेवत्याः सप्तमेऽहन्यप्तोर्यामसंज्ञके सर्वहोमे विनियुक्ताः ) इति । तथा चानुक्रान्तम् -- ‘ तदेवं सर्वमेधोऽध्याय आत्मदैवतः सप्तमेऽहनि सर्वहोमे विनियुक्त: ' ( सर्वा ० ३।१५ तथा च श्रुतिः - ' अप्तोर्यामः सप्तममहर्भवति ' ( श ० १३ ७ ११ ९ ) इत्युपक्रम्य ' सवं जुहोति सर्वस्मै जुहोति सर्वस्याप्त्यै सर्वस्यावरुद्ध ' ( श ० १३।७।१।९ ) इति । द्वे अनुष्टुभौ । विज्ञानात्मा परेणात्मना विशिष्टोऽग्न्यादि-ष्वोतप्रोतत्वेनोपास्योऽभिधीयते । अग्निस्तदेव, वेदान्तेषु ब्रह्मविद्वरिष्ठगोष्ठीषु प्रसिद्धं कारणं ब्रह्मवाग्निः । तदेव चादित्यः सूर्यः । तदेव च वायुः । चन्द्रमाश्च तदेव । उ एवार्थकः । शुक्रं शुक्लं तत् प्रसिद्धं ब्रह्म ब्रह्माधिगम-हेतुभूतं त्रयीलक्षणं ब्रह्म तदेव । ताः प्रसिद्धा आपो जलानि, स प्रसिद्धः प्रजापतिरपि तदेव ब्रह्म । अध्यात्मपक्षे - आध्यात्मिकोऽप्ययमेवार्थः । दयानन्दस्तु – ' हे मनुष्याः, तदेवाग्निस्तदादित्यस्तद्वायुस्तच्चन्द्रमास्तदेव शुक्रं च तद् ब्रह्म स उ प्रजापति-रस्त्येवं यूयं विजानीत ' इति, तदपि यत्किञ्चित् ज्ञानस्वरूपत्वात् स्वप्रकाशितत्वाच्च सोऽग्निरत्यनुपपत्तेः । न -वा प्रलये सर्वस्यादातृत्वात् परमेश्वरस्य आदित्यत्वमिति युक्तम्, तथात्वे गौणप्रयोगापत्तेः, देवदत्तस्य शौर्य सति क्रौर्यादिभिः सिंहपदप्रयोगवत् । तथात्वे च मुख्यं सामानाधिकरण्यं नोपपद्यते, भिन्नप्रवृत्तिनिमित्तकत्वे समानविभक्तिकत्वे सत्येकार्थंनिष्ठत्वस्यैव सामानाधिकरण्य प्रयोजकत्वात् । अनन्त बलवत्त्व सर्वधर्तृत्वादिना वायुत्वम्, आनन्दस्वरूपत्वाद् आह्लादकत्वाच्च चन्द्रत्वम्, सर्वेभ्यो महत्त्वाच्च ब्रह्मत्वम्, सर्वत्र व्यापकत्वादप्त्वम्, सर्वप्रजायाः स्वामित्वात् प्रजापतित्वमित्यादिकमपि यत्किञ्चित् तथात्वे केनचिद् गुणेनाग्न्यादिप्रयोगसम्भवेन सर्पो साधारण्यापातात् । सिद्धान्ते तु - ' सर्वं खल्विदं ब्रह्म ' ( छा ० ३।१४ । १ ) इतिवद् बाधसामानाधिकरण्येन २।१।१४ ) रज्जुरितिवत्, मृद् घट इतिवच्च कार्यकारणभावाच्च तदनन्यत्वमारम्भणशब्दादिभ्यः ' ( व्र ० सू ० इति न्यायेन तदनन्यत्वेन तच्छब्दप्रयोगः ॥ १ ॥
सर्वे निमे॒षा ज॑ज्ञिरे विद्यतः पुरुषादधिं ।
नैन॑मू॒र्ध्वं न ति॒र्य॑श्च॒ न मध्य॒ परि॑जप्रभत् ॥ २ ॥
पृष्ठ 405
पाठ पढ़ें पाठ छिपाएँ
२२ शुक्लयजुर्वेदसंहिता मन्त्रार्थ विशेष रूप से द्योतमान महानारायण पुरुष से ही निमेष आदि काल के कोई भी प्राणी इसके ऊपरी भाग को, तिर्यक् भागों ( चारों दिशाओं ) को और मध्य को क्योंकि वह प्रत्यक्ष आदि का विषय नहीं है ॥ २ ॥
[ अ ० ३२ विविध रूप प्रकट होते हैं । भी ग्रहण नहीं कर सकता, सर्वे निमेषाः कालविशेषास्त्रुटिकाष्ठाघट्यादयः पुरुषाद् बृहत्तमरूपात् सकाशाज्जज्ञिरे उत्पन्नाः । कथम्भू तात् पुरुषात्? विद्युतः, विशेषेण द्योतते प्रकाशते स्वात्मतयेति विद्युत्, तस्मात् प्रत्यक्चैतन्याभिन्नप्रकाशात् । किञ्च, एनं पूर्वोक्तं पुरुषम्, ऊर्ध्वमुपरिभागे कश्चिदपि न परिजग्रभन्न परिगृह्णाति । एनं तिर्यञ्चं चतुर्दिक्षु न परिगृह्णाति । मध्ये मध्यदेशेऽपि नैनं कश्चित् परिगृह्णाति प्रत्यक्षादीनामविषयत्वात् स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यते ' ( बृ ० ३।९ ।२६ ) इति श्रुतेः । यो हि प्रत्यक्षादीनां विषयस्तस्य ऊर्ध्वाधस्तिर्यङ्मध्यादिसम्भवः, तस्यैव च ग्रहणं सम्भवति, नापरिच्छिन्नस्य सत्यज्ञानानन्दलक्षणस्य ब्रह्मणः । अध्यात्मपक्षे -- उक्त एवार्थः । दयानन्दस्तु - - ' हे मनुष्याः यस्माद्विद्युतः पुरुषात् सर्वे निमेषा अधिजज्ञिरे तमेनं कोऽपि नोध्वं न तिर्यञ्च न मध्ये परिजग्रभत् तं यूयं सेवध्वम् ' इति, तदपि न, आकाशादिषु व्यभिचारात् । नेत्रोन्मीलनादयः कला-काष्ठादिकाला वास्तु नेत्रादिभ्यो जायमानाः स्पष्टमुपलभ्यन्ते, कथं तेषामीश्वरहेतुकत्वं सम्भवति? सिद्धान्ते तु नेत्रादीनामपि सूर्यदैवतत्वात् तत्रापि तत्कारणकत्वं न विरुध्यते, सोपाधिकाद् आदित्यात् परमेश्वरात् तेषामुत्पत्तिसम्भवात् ॥ २ ॥
न तस्य॑ प्रति॒मा अ॑स्ति यस्य॒ नाम॑ म॒हद्यश॑ः ।
हिरण्यगर्भ इत्येष मा म हिसीदित्येषा यस्मान्न जात इत्ये॒षः ॥ ३ ॥
मन्त्रार्थ - उस महानारायण पुरुष का कोई उपमान नहीं है, अर्थात् उसकी बराबरी करने वाला कोई नहीं है । उसका नाम महान् यश को देने वाला है, इसमें वेद ही प्रमाण है । जैसे कि ' हिरण्यगर्भः ' ( २५ १० ), ' मा मा हि, सीत् ' ( २१ । १०२ ), ' यस्मान्न जात: ' ( ८1३६ ) इत्यादि श्रुतियाँ इसके महान् यश को वर्णित करती हैं ॥ ३ ॥
द्विपदा गायत्री । अपरिच्छेदमेवाह - न तस्येति । तस्य विज्ञानात्माभिन्नस्य परमात्मनः प्रतिमा प्रतिमानमुपमानं न किञ्चिदप्यस्ति सर्वस्य परिच्छिन्नत्वात् तस्य चापरिच्छिन्नत्वात्, सर्वस्य दृश्यत्वात् तस्य च दृक्त्वात् । अत एव यस्य नाम प्रसिद्धं महत् सर्वातिशायि यशः कीर्तिः । हिरण्यगर्भ इत्येषोऽनुवाकश्र्चतुर्ऋचः-( १ ) हिरण्यगर्भः ( २५१० ), ( २ ) यः प्राणतः ( २५ | ११ ), ( ३ ) यस्येमे हिमवन्तः ( २५।१२ ), ( ४ ) य आत्मदा ( २५ | १३ ); मा मा हिसीत् ( १२ । १०२ ) इत्येका एषा ऋक्, यस्मान्न जात इत्येषोऽनुवाकः । एष चानुवाको द्विकण्डिकः – ( १ ) यस्मान्न जातः ( ८ ३६ ), ( २ ) इन्द्रश्व सम्राट् । एताः प्रतीकचोदिताः पूर्वपठित-त्वादादिमात्रेणोक्ता ब्रह्मयज्ञे जपे च सर्वा अध्येयाः । एवं सर्वत्र । अध्यात्मपक्षे- ब्रह्मणः सजातीयविजातीयस्वगतभेदशून्यत्वाद् अद्वितीयत्वादनुपमत्वान्निरतिशयैश्वर्य-त्वान्निरस्तसाम्यातिशयत्वाच्च तस्योपमानं किञ्चिदपि क्वापि न सम्भवतीति तत एव यस्य महदनन्तं यशः कीर्तिवैभवः । दयानन्दस्तु – ' तस्य परमेश्वरस्य प्रतिमा प्रतिमीयते यया तत्प्रतिमापकं सदृशं तोलनसाधनं प्रतिकृति -राकृतिर्वा नास्ति । यस्य नाम स्मरणं महत् पूज्यं यशः कीर्तिकरं धर्म्य कर्मचरणं हिरण्यगर्भसूर्यविद्युदादिपदाधि-
पृष्ठ 406
पाठ पढ़ें पाठ छिपाएँ
म ० ३-४ ] वेदार्थपारिजातभाष्यसहिता २३ करण एवान्तर्यामितया प्रत्यक्षो मा मां हिंसीत यस्मान्न जात उत्पन्न एषः ' इति, तदपि यत्किञ्चित् प्रतिमा शब्दस्य प्रतिकृत्यर्थताया अनुपदं निराकरणात् । न चान्तर्यामितया परमेश्वरः प्रत्यक्षः, तथात्वे तद्विषये विवादानुपपत्तेः । वस्तुतस्तु हिरण्यगर्भ इत्यादीनि पदानि मन्त्रप्रतीरूपाण्येव । न चात्र प्रतिमानिषेधः सम्भवति, पूर्वाध्यायेऽन्त्यायां कण्डिकायां ' श्रीश्च ते लक्ष्मीश्च पत्न्यौ ' ( ३१।२२ ) इति गदितम् । कथङ्कारं निराकारस्य पत्नीद्वयम्? स एव आदित्यादिरूपेण पूज्यते । सर्वे निमेषा यतो जायन्ते, अभिन्ननिमित्तोपादानत्वाद् यस्यैव सर्वभवनम्, न तस्य प्रतिमाऽस्तीति कथं तस्य मूर्तिनिषेधः सम्भवति? तस्मात् प्रतिमाननिषेधपर एव मन्त्रः । अत्रैव हिरण्यगर्भ इति प्रतीक उक्तः । तस्य च हिरण्यगर्भत्वं ज्योतिर्मयत्वं च मूर्तिमत्त्वमेव । तस्यैव च हविषा विधेमेति पूजनं ज्ञायते । ' उत्तानं प्राञ्च हिरण्यपुरुषं तस्मिन् हिरण्यगर्भ इति ' ( का ० श्र ० १७ | ४ | ३ ) इति भगवता परमर्षिणा कात्यायनेन हिरण्यगर्भ इति मन्त्रेण मूर्तिस्थापनादिकमुक्तम् । . प्रतीकरूपम् । तस्यायमर्थः-: - यः सत्यधर्मा भगवान् पृथिव्या मा मा हिसीदित्येतदपि मन्त्रान्तरस्य दिवश्च जनयिता, यश्च जगदाह्लादजनयित्रीरपः सृजति यश्च प्रथमः सृष्टेभ्यः पूर्वमेव जजान अभिव्यक्तः, स मां मा हिंसीत् । यस्येति प्रतीकसूचिताभ्यां मन्त्राभ्यां मूर्तिमतः पूजनं स्पष्टं विज्ञायते, तेन मन्त्रेण मूर्तिनिषेध-कल्पनं विप्रतिषिद्धमेव । तत्रैव ' यस्मान्न जातः ' इति तृतीयः प्रतीकोऽपि । स चायं मन्त्रः - ' यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संरराणस्त्रीणि ज्योतींषि सचते स षोडशी ॥ ' ( वा ० सं ० ८।३६ ) । एतदर्थस्तु - यस्मादन्यः परो नास्ति, यो भुवनानि प्रविष्टोऽन्तर्यामी स षोडशी प्रजया रममाणः प्रीयमाणः, तत्पालनार्थमग्निवायुसूर्याख्यानि त्रीणि ज्योतींषि सचते । स्पष्टमत्रापि भगवतो ज्योतिष्मत्त्वं ज्ञायते । किञ्च, नात्र प्रतिमाशब्दो मूर्तिपरः, अनुपयोगात् । लोके वेदे वा स एवार्थो युक्तो यश्व स्वरूपतो भावतो वा वाच्यार्थतयोपयुज्यते । यच वाक्यार्थे नोपयुज्यते स कृतोऽप्यर्थो व्यर्थो भवति । यथा पाकोपक्रमे सैन्धवशब्दो नाश्वपरः सम्भवति । अत्र तु यस्य भगवतो महद्यशो नामास्ति, तस्य प्रतिमा प्रतिकृतिर्नास्तीति तथा नोपयुज्यते । नहि मूर्त्यभावो यशोमहत्त्वे कारणत्वमापद्यते । महायशस्विनां महोदयानां मूर्त्यभावो केनानुभूयते? प्रत्युतानु-भूयन्ते यशस्विनां सहस्रशः प्रतिकृतयः । तस्मान्न प्रतिमाशब्दो मूर्तिपरः, किन्तुपमानपर एवेत्यलमनल्प-जल्पनेन ॥ ३ ॥
ए॒षो हि॑ दे॒वः प्र॒दिशोऽनु॒ सर्वाः पूर्वो ह जातः स उ॒ गर्भे अ॒न्तः ।
स एव जा॒तः स ज॑नि॒ष्यमा॑णः प्र॒त्यङ् जनस्तिष्ठति स॒र्वतो॑मुखः ॥ ४ ॥
मन्त्रार्थ - यही पुरुष सब दिशाओं में व्याप्त होकर स्थित है । हे भक्तजनों! शास्त्रों में यह प्रसिद्ध है कि भगवान् गर्भ के नारायण ही सबसे पहले प्रकट हुए, अर्थात् ब्रह्मभाव से महानारायण पुरुषभाव को प्राप्त किया । ब्रह्माण्डरूप मध्य में ये ही स्थित रहते हैं । जो कुछ अब तक उत्पन्न हुआ है, अथवा आगे उत्पन्न होगा, वह सब इनका ही स्वरूप हैं । ये नारायण सर्वव्यापी और सब ओर मुख वाले हैं ॥ ४ ॥
चतस्रस्त्रिष्टुभः । एष प्रत्यक्चैतन्याभिन्नोऽपरोक्षो ह प्रसिद्धी देवो द्योतनात्मकत्वात् स्वप्रकाशः सर्वा निखिलाः प्रदिशः प्राच्याद्या अनुतिष्ठति व्याप्य तिर्यगूर्ध्वमधश्च वर्तते । हे जनाः, एष पूर्वः प्रथमो जात उत्पन्नो ह इति प्रसिद्धमेव । गर्भे अन्तर्गर्भमध्ये स उ स एव तिष्ठति । जातोऽपि स एव । जनिष्यमाण उत्पत्स्यमानोऽपि स एव । प्रत्यङ् प्रतिपदार्थमचतीति प्रत्यङ् सर्वतोमुखः, सर्वतो मुखं मुखाद्यवयवा यस्य सः । मुखमित्यन्येषा- सर्वत्र मप्यवयवानामुपलक्षणम् । सर्वात्मत्वादेव विश्वविराट्तैजसहिरण्यगर्भप्राज्ञाव्याकृतादिव्यष्टिसमष्टिरूपेण
पृष्ठ 407
पाठ पढ़ें पाठ छिपाएँ
२४ शुक्लयजुर्वेदसंहिता [ अ ० ३२ स एव वर्तते । स एव च केनचिद्रूपेण मध्येऽस्ति, केनचिद्रूपेण जातः केनचिद्रूपेण जनिष्यमाणः । स एव च प्रतिपदार्थमञ्चति । स एव विराट्स्वरूपेण सर्वतोमुखः सर्वतः पाणिपादः सर्वतोऽक्षिशिरोमुख इत्यर्थः । अध्यात्मपक्षे - अत्रापि स एवार्थः । दयानन्दस्तु - ' हे जनाः, एषो ह देवः सर्वाः प्रदिशोऽन्तः पूर्वो ह जातः स जनिष्यमाणः सर्वतोमुखः प्रत्यङ् तिष्ठति स युष्माभिरुपासनीयः ' इति, तदपि यत्किचित् अन्तःपदस्य अन्तःकरणार्थत्वे मानाभावात् । जनिष्यमाणः प्रसिद्धि प्राप्स्यमान इत्यप्यसङ्गतम्, निर्मूलत्वात् । निराकारस्य च कथं सर्वतोमुखाद्यवयवत्वं सम्भवति? न च तेन मुखादीन्द्रिय कार्यकरत्वं विवक्षितमिति वाच्यम्, लाक्षणिकार्थापेक्षया मुख्यार्थस्यैव प्राशस्त्यात् ॥ ४ ॥
यस्मा॑ज्जातं न पुरा किञ्च॒ नैव॒ य आ॑व॒भूव॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्रजय सराणस्त्रोणि ज्योतींषि सचते॒ स षोडशी ॥ ५ ॥
मन्त्रार्थ - जिससे पहले दूसरा कुछ भी प्रकट नहीं हुआ, जो सारे ब्रह्माण्ड और प्राणियों में व्याप्त है, वह षोडश कलाओं से सम्पन्न प्रजापालक प्रजापति नाना स्वरूप धारण कर प्रजाओं में अपने आप ही क्रीड़ा करता हुआ सूर्य, चन्द्र और अग्नि रूप ज्योतियों का सेवन करता है, अर्थात् सूर्य आदि के रूप में प्रकट होता है ॥ ५ ॥
यस्मात् पुरुषात् पुरा पूर्वं किञ्चन किमपि न जातमेव, यश्च विश्वा विश्वानि सर्वाणि भुवनानि भूत-जातानि आबभूव समन्ताद् भावयामास, अन्तर्भावितणिजर्थः । स षोडशी षोडशावयवलिङ्गशरीरी प्रजापतिः सन् प्रजया संरराणो रममाणस्त्रीणि ज्योतींषि सूर्यचन्द्राग्निरूपाणि सचते सेवते, स्वज्योतिषा ज्योतिष्मन्ति करोति । ' न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ' ( मु ० २२१० ) इति श्रुतेः । अध्यात्मपक्षे -- पूर्वोक्त एवार्थः । -दयानन्दस्तु –‘हे मनुष्याः, यस्मात् पुरा किचन न जातम् यः सर्वत आबभूव, यस्मिन् विश्वा भुवनानि वर्तन्ते, स एव षोडशी प्रजया सह संरराण सम्यग् रममाणः प्रजापतिस्त्रीणि विद्युत्सूर्यचन्द्ररूपाणि ज्योतींषि सचते समवैति ' इति, तदपि यत्किचित् सर्वास्याभावे सर्वतो भवनासम्भवात् ॥ ५ ॥
येन॒ द्यौरु॒ना पृ॑थि॒वी च॑ द॒ढा येन॒ स्व॒ स्तभि॒तं येन॒ नमः॑ ।
यो अ॒न्तरि॑क्षि॒ रज॑सो वि॒मानः कस्मै दे॒वाय॑ ह॒विषा॑ विधेम ॥ ६ ॥
मन्त्रार्थ - जिस पुरुष ने स्वर्ग को वर्षा करने के लिये उद्यत किया और पृथ्वी को दृढ़ किया, अर्थात् प्रजा के लिये प्राणधारण, वृष्टिकरण और अन्ननिष्पादन आदि कार्य किये, जिसने स्वर्ग को एक जगह स्तम्भित कर दिया, जिसकी कृपा से दुःखरहित गोलोक भक्तों को दृष्टिगोचर होता है, जो आकाश में जल का निर्माता है, उस महानारायण पुरुष के निमित्त हम आहुति देते हैं ॥ ६ ॥
येन पुरुषेण द्यौरुग्रा उद्गुर्णा वृष्टिदायिनी कृता, पृथिवी भूमि येन पुरुषेण प्राणिधारणाय वृष्टिग्रहणायान्न-निष्पादनाय च दृढा स्थिरीकृता । येन स्वर् आदित्यमण्डलं स्तभितं स्तम्भितम्, येन नाकः स्वर्गः स्तम्भितः,
पृष्ठ 408
पाठ पढ़ें पाठ छिपाएँ
भ ० ६-८ ] वेदार्थ पारिजात भाष्य सहिता २५ अन्तरिक्षे नभसि रजसो वृष्टिलक्षणस्योदकस्य विमानो विमिमीते योऽसौ विमानो निर्माता ।, तं परमात्मान-मचिन्त्यैश्वर्यमाहात्म्यमपहाय कस्मै देवाय हविषा विधेम हविर्दद्म:? नं कस्मैचिदित्यर्थः अध्यात्मपक्षे अस्मिन् पक्षेऽप्युक्त एवार्थः । रजसो विमानोऽस्ति, दयानन्दस्तु – ‘ येनोग्रा द्यौः पृथिवी च दृढा, येन स्वः स्तभितम्, योऽन्तरिक्षे वर्तमानस्य सुखस्य मोक्षस्य च तस्मै कस्मै देवाय हविषा विधेम, एवं यूयमपि सेवध्वम् ' इति, तदपि यत्किञ्चित् मातारोऽप्यनेके जीवैरपि धारणसम्भवेन स्वर्नाकयोर्धारणस्य परमेश्वरस्यासाधारणधर्मत्वानुपपत्तेः । लोकानां धर्मः । न चात्र तथात्व-सिद्धाः सन्त्येवेति योगवाशिष्ठादौ स्फुटम् । सर्वलोकस्रष्टृत्वमेव परमेश्वरस्यासाधारणो बोधकः कश्चन शब्दोऽस्ति ॥ ६ ॥
यं क्रन्द॑सी अव॑सा तस्तभा॒ने अ॒भ्य॑क्षि॑तां॒ मन॑सा॒ रेज॑माने । यत्राधि॒ सूर् उदि॑तो वि॒भाति॒ कस्मै देवाय हविषा विधेम ॥ आप ह यद् ब्र॑ह॒तीर्यश्चि॒दाः ॥ ७ ॥
स्वर्ग के मन्त्रार्थ वृष्टिजनक हविरूप अन्न से प्राणियों को तृप्त करने वाली, सब तरफ से शोभायमान पृथ्वी ने और होता है, वह देवताओं ने मन से जिस पुरुष को शोभन सृष्टि करते हुए देखा, जिस पृथ्वी और स्वर्ग के मध्य सूर्य का उदय अधिक प्रकाशित होता है, उस प्रजापति के निमित्त हम आहुति देते हैं ॥ ७ ॥
यं पुरुषं क्रन्दसी द्यावापृथिव्यौ मनसा अभ्यैक्षेतां साधुकृतमित्येतत् पश्यताम् । कीदृश्यो क्रन्दसी? अवसा । हविर्लक्षणेनान्नेन वृष्टिजनकेन तस्तभाने प्राणिजातं स्तम्भयन्त्यो धारयन्त्यौ । व्यत्यये स्तम्भतेर्जुहोत्यादित्वम् विशेषेण जमाने देदीप्यमाने शोभमाने वा । सूरः सूर्यो यत्र द्यावापृथिव्योरुदितः सन् अधि अधिको विभाति सूर्यो विभाति, दीप्यते यद्वा अधिकं शोभते वित्रासयति यद्वा यत्र अधि उपरि स्थितो यदाधार उदित आविर्भूतः सं ० २७ २६ ) तं विहाय कस्मै देवाय हविर्दद्मः | ' आपो ह यद् बृहती: ' ( वा ० सं ० २७।२५ ), ' यश्चिदाप: ' ( वा ० इति द्वे प्रतीकोक्ते जपादावध्येये । व्याख्यानं तु प्रतीकोक्तानां पूर्वमेव कृतम् । अध्यात्मपक्षे - अयमेवार्थः । दयानन्दस्तु - ' हे मनुष्याः, यं परमात्मानं प्राप्ते तस्तभाने धारिके क्रन्दसी गुणैः प्रशंसनीये विभाति द्यावापृथिव्यौ , तं तौ स्तः, सर्व धरतो यत्र सूरोऽध्युदितो यद् या बृहतीरापो ह यांश्चिदापः सन्ति, ताश्चिदपि योगाभ्या-चाध्यापकोपदेशको एनसा अभ्यैक्षेताम् । तस्मै कस्मै. ' इति, तदपि यत्किञ्चित्, हविषा आदातव्येन । सेनेति व्याख्यानस्य निर्मूलत्वात् । नहि योगाभ्यास एवादातव्यो भवति, तत्फलस्य सर्वाधिकादातव्यत्वोपपत्तेः , धात्वर्थ-विभाति विशेषेण प्रकाशयन्नित्यपि निर्मूलम् धातोरकर्मकत्वात् । क्रन्दसी प्रशंसनीये इत्यपि निर्मूलम् विरोधात् ॥ ७ ॥
व॒नस्तत्प॑श्य॒ निहि॑तं॒ गुहा सद्यत्र॒ विश्वं
भव॒त्येक॑नोडम् ।
तस्मि॑न्न॒दधि॑ सं च॒ वि चॆति सर्व॒ स ओत॒ः प्रोत॑श्च वि॒भूः प्र॒जासु॑ ॥ ८ ॥
मन्त्रार्थ - वेदान्त के रहस्यों के ज्ञाता विद्वद्गण बुद्धि अथवा हृदय में स्थित जिस नित्य ब्रह्म को देखते हैं, जिस में, ब्रह्म में सारा विश्व अद्वैत महानारायण का वासस्थान होकर स्थित है, जिस ब्रह्म में यह सारा भूत - सर्ग संहार काल भाव से प्रलय में एकीभूत हो जाता है और उत्पत्ति काल में प्रकट होता है, वह महानारायण सारी प्रजा में ओतप्रोत व्याप्त है ॥ ८ ॥
४
पृष्ठ 409
पाठ पढ़ें पाठ छिपाएँ
२६ शुक्लयजुर्वेदसंहिता [ अ ० ३२ वेनः, अजति जानाति वेदितव्यानि सर्वाणीति वेनः, ' धावृवस्यज्यतिभ्यो नः ' ( उ ० ३१६ ) इति न-प्रत्यये ' अजेर्व्यघञोः ' ( पा ० सू ० २ | ४ | ५६ ) इति वीभावे गुणे च रूपम्, विदितवेदितव्यो वेदवेदान्तरहस्यज्ञ-स्तद् ब्रह्म पश्यति जानाति । अथवा ' वेनो वेनतेः कान्तिकर्मण: ' ( निरु ० १०1३ ) इति यास्क: । सर्वजन -कमनीयः सर्वेच्छाविषयः परब्रह्म, सर्वात्मत्वात् । तज्ज्ञाता पश्यत् पश्यति जानातीत्यर्थः । कीदृशं तद् ब्रह्म? गुहा गुहायां रहःस्थाने बुद्धौ वा निहितं स्थापितम्, दुर्ज्ञेयमित्यर्थः " गुहायामिव स्थितम् । पुनः कथम्भूतं तत्? सत् नित्यम्, यत्र ब्रह्मणि विश्वं सर्व विकारजातमेकनीडम् एकं ब्रह्मैव नीडमाश्रयो यस्य तदेकनिलयं भवति, अविभक्तमविशेषकारणरूपं भवतीत्यर्थः, ' सदायतनाः सत्प्रतिष्ठाः ' ( छा ० ६ | ८ | ४ ) इति श्रुतेः । तस्मिन् ब्रह्मणीदं सर्वं भूतजातं समेति सङ्गच्छते एकीभवति संहारकाले, व्येति निर्गच्छति च ततः सर्गकाले । स परमात्मा प्रजासु ओतः प्रोतश्च ऊर्ध्वतन्तुषु पट इव शरीरभावेन ओतः, तिर्यक्तन्तुषु पट इव शरीरिभावेन प्रोतश्च । पुनः कीदृशः? विभुः कार्यकारणरूपेण विविधं भवतीति विभुः । तस्मिन्निदं सं च वि चैति सवं सर्वमिदं विकारजातं समेति संहृतिकाले समेत्य च व्येति सृष्टिकाले वैविध्योपेतं भवति । स च परमेश्वरः शरीरभावेन ओतो जीव-भावेन प्रोतश्च । इतरथा वा विभुः कार्यकारणभावेन प्रजासु विभवति च । सवं स एवेत्यर्थः । अध्यात्मपक्षे - अत्राप्येष एवार्थः । दयानन्दस्तु – ' हे मनुष्याः, यत्र विश्वमेकनीडमेकस्थानं भवति, तद् गुहा निहितं सद्वेनः पण्डितः पश्यति । तस्मिन्निदं सर्वं समेति च व्येति च । स विभुः प्रजास्वोतः प्रोतश्च । स एवोपासनीयः ' इति, तदपि यत्किञ्चित्, परमात्मनि विश्वं केन सम्बन्धेन तिष्ठतीत्यनुक्तेः । न च तन्तौ पट इव, तन्तूनामिव त्वया परमात्मनः समवायि -कारणत्वानुपगमात् । नापि रज्ज्वां सर्प इव त्वया जगतो मिथ्यात्वानुपगमात् । नाप्याकाशे पटादय इव, ब्रह्मणः सच्चिदानन्दघनत्वेन सावकाशत्वायोगात् ॥ ८ ॥
प्र तद्वचेद॒मृतं॒ न वि॒द्वान् ग॑न्ध॒र्वो धाम॒ विभृ॑तं॒ गुहा सत् ।
त्रीणि॑ प॒दानि॒ निहि॑त॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुः पि॒ताय॑त् ॥ ९ ॥
मन्त्रार्थ -- वेदवचनों का धारक विद्वान् जिस महानारायण के उस अविनाशी हृदय अथवा बुद्धि में विद्यमान तेजस्वरूप नानारूप विराट् ब्रह्मा, विष्णु, महेश आदि के रूपों में एक पद से विभक्त होकर स्थित है, उसी महानारायण के तीन पद गुफा में छिपे हुए हैं । जो इस स्वरूप को जान लेता है, वह ब्रह्मा का भी पिता बन जाता है, अर्थात् विष्णु-भाव को प्राप्त कर लेता है ॥ ९ ॥
विद्वान् वेतीति विद्वान्, विदेः शता, तस्य ' विदेः शतुर्वसुः ' ( पा ० सू ० ७ १/३६ ) इति वस्वादेशेन रूपसिद्धिः पण्डितः । गन्धर्वः, गन्धर्वलोके ब्रह्मविद्यायाः सुप्रचाराद् गन्धर्वः । अथवा गां वेदवेदान्तवाचं धारयति विचारयति यः स गन्धर्वः, वेदान्तवेत्ता । नु क्षिप्रं तद् ब्रह्म प्रवोचेत् प्रब्रूयात् । कीदृशं ब्रह्म? अमृतम्, षड्विधभाव विकारवर्जितत्वात् शाश्वतम् । पुनः कीदृशम्? गुहा गुहायां सत् साक्षित्वेन सदा विद्यमानम्, अथवा गुहायामिव निगूढ ( अविवृत ) वेदान्तरहस्यसद्भावम् धाम धर्मस्थानं स्वरूपं वा विभृतं विहृतं सृष्टिस्थिति-प्रलयैविभक्तं नानाभूतं वा । किञ्चास्याममृतस्य ब्रह्मणस्त्रीणि पदानि स्वरूपाणि गुहा गुहायां निहिता निहितानि । अथवा अस्य त्रीणि पदानि सृष्टिस्थितिप्रलयाः, त्रयो वेदाः, त्रयः काला वा । भूयस्त्वोपलक्षणार्थं वा, भूयांसो हि तत्र गुणाः श्रूयन्ते श्रुतिषु विज्ञानघनानन्दघनसत्यसङ्कल्पादयः परब्रह्मान्तर्याम्यव्याकृतानि वा त्रयः पादाः, यश्व तानि पदानि वेद जानाति स पितुरपि ब्रह्मगोऽपि पिता परमात्मा असद् भवति परब्रह्मस्वरूपो भवतीत्यर्थः । तद्धि ब्रह्मरूपं श्रेष्ठम्, ' ब्रह्म वेद ब्रह्मैव भवति ' ( मु ० ३१२१ ९ ) इति श्रुतेः ।
पृष्ठ 410
पाठ पढ़ें पाठ छिपाएँ
म ० ९ -११ ] अध्यात्मपक्षे - अयमेवार्थः । वेदार्थपारिजातभाष्यसहिता २७ दयानन्दस्तु - ' हे मनुष्याः, यो गन्धर्वो विद्वान् गुहा विभृतममृतं धाम तत् सन्तु प्रवोचेत्, यान्यस्य गुहा निहितानि पदानि त्रीणि सन्ति, तानि च वेद, स पितुः पिताऽसत् ' इति, तदप्यसत् त्वद्रीत्या प्रवोचेदित्यनेनैव पितुः पितेति वाक्यस्य गतार्थत्वात् । ' गुहा बुद्धौ विभृतं विशेषेण धृतममृतं धाम तन्नित्यं प्रवोचेत् ' इत्यप्य-सङ्गतम्, विकल्पानुपपत्तेः । तथाहि – गुहापदेन कस्य बुद्धिरिष्यते? परमेश्वरस्येति चेन्न, तस्य मनोबुद्ध्याद्य-भावात्, ' अप्रागो ह्यमनाः शुभ्रः ' ( मु ० २।१।२ ) इति श्रुतेः । नापि जीवस्य त्वद्रीत्या नित्यमुक्तिस्थानस्य बुद्धावसम्भवात् ॥ ९ ॥
स नो॒ बन्धर्जनता स वि॑धा॒ता धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑ । " यत्र॑ दे॒वा अ॒मृत॑मान॒श॒नास्तृ॒तीये धाम॑न्न॒ध्यैर॑यन्त ॥ १० ॥
मन्त्रार्थ वह परमात्मा हमारा बन्धु है, हमें उतन्न करता है, हमारा विधाता है । वह सब प्राणियों और भुवनों को एवं तेजस्वी धामों को जानता है । देवता जिस मोक्षदायक ज्ञान को प्राप्त कर स्वर्ग में स्वेच्छानुसार विचरण करते हैं, आनन्द का उपभोग करते हैं, वह उसी की कृपा का फल है ॥ १० ॥
स परमेश्वरो नोऽस्माकं बन्धुः, बध्यते स्नेहपायेनेति बन्धुः, बन्धुवन्मान्यो वा । जनिता जनयिता, तृचि ' जनिता मन्त्रे ' ( पा ० सू ० ६ । ४ । ५३ ) इति णिलोपः । स च नो विधाता धारयिता, प्राणस्यापि प्राणत्वात् । स विश्वानि सर्वाणि भुवनानि भूतजातानि धामानि स्थानानि च वेद जानाति । यद्वा स नो विधाता धारयिता । यो धामानि ब्रह्मणः स्थानानि वेद भुवनानि भूतजातानि च विश्वा विश्वानि सर्वाणि वेद । यत्र स्थिता देवा अग्न्याद- ऐरयन्त योऽमृतं परब्रह्मस्वरूपमानशाना व्याप्नुवन्तस्तृतीये धामन् धामनि स्वर्गरूपे स्थाने, अधि उपरि स्वेच्छ्या प्रवर्तन्ते, तच्च यो वेद, स नो बन्धुरित्याद्यनुवर्तते । यद्वा अमृतं मोक्षप्रापकं ज्ञानं यत्र ब्रह्मणि, आनशाना व्याप्नुवानाः, अश्नुवते इत्यानशाना, ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७६ ) इत्यशेर्ह्रादित्वेन कैवल्यम् द्वित्वे, शानच्यभ्यासस्य नुमागमे रूपम् । ब्रह्मनिष्ठं ज्ञानं प्राप्ताः सन्तः स्वर्गे देवा मोदन्ते । यद्यपि ब्रह्मज्ञानफलं स्वर्गस्त्वग्निहोत्रादिकर्मफलम्, तथापि स्वर्गप्राप्त्यनन्तरभाविब्रह्मज्ञानं नासम्भवि, तत्फलं तु स्वर्गप्रापकप्रारब्ध-कर्मसमाप्तावेव भविष्यति, प्रारब्धस्य बलवत्त्वात् । ब्रह्मज्ञानप्राप्ताः सिद्धा अपि स्वेच्छया लोकलोकान्तरस्थिति द्रष्टुं गन्तुं शक्नुवन्त्येव । अत एव ऐरयन्त स्वेच्छ्या प्रवर्तन्त इत्युव्वाचार्याः । अध्यैरयन्त स्वेच्छ्या प्रवर्तन्त इति महीधराचार्याः । अध्यात्मपक्षे -- अयमेवार्थः । दयानन्दस्तु – ' यत्र तृतीये धामन्नमृतमानशाना देवा अध्यैरयन्त यो विश्वा भुवनानि धामानि वेद स । नो बन्धुर्जनिता विधाता ' इति, तदपि यत्किञ्चित्, जीवप्रकृत्योर्धामत्वाप्रसिद्धया परमेश्वरस्य तृतीयधामत्वासिद्धेः न च मुक्तानां न च शुद्धस्य मोक्षसुखभोक्तृणामाधारत्वं सम्भवति, चेतनानां चेतनान्तराश्रयत्वासिद्धेः । स्वेच्छापि सम्भवति, तथात्वे मुक्तत्वानुपपत्तेः ॥ १० ॥
प॒रोत्य॒ भू॒तानि॑ प॒रीत्य॑ लो॒कान् प॒रोत्य॒ सर्वा॑ प्र॒दिशो दिश॑श्च । उपस्थाय प्रथम॒जाम॒तस्य॒ात्मनात्मान॑म॒भि ८ संविवेश ॥ ११ ॥