वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 411–420
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 411–420
पृष्ठ 411
पाठ पढ़ें पाठ छिपाएँ
२८ शुक्लयजुर्वेदसंहिता | अ ० ३२ मन्त्रार्थं अनन्य भक्तजन ज्ञाननिष्ठ सर्वमेधयाजी की मुक्ति का वर्णन करते हुए कहते हैं कि सभी प्राणियों को ब्रह्मरूप जान कर, भू आदि लोकों को ब्रह्मरूप जान कर, सब दिशाओं और विदिशाओं को ब्रह्मरूप जान कर, प्रथमोत्पन्न वेदत्रयीरूप वचनों को भलीभाँति समझ कर, अर्थात् तदनुसार यज्ञ और उपासना करके सर्वमेधयाजी जीवरूप से ब्रह्मस्वरूप यज्ञ के अधिष्ठाता परमात्मा में प्रवेश कर जाता है, अर्थात् परमात्मा के साथ सायुज्य को प्राप्त कर लेता है ॥। ११ ॥ अथ सर्वेषु भूतेष्वह्मस्मि सर्वाणि भूतानि मयि सन्तीति विज्ञानावगुण्ठितस्य सर्वमेधयाजिनो मुक्तिरुच्यते द्वाभ्यां कण्डिकाभ्याम् । न चात्र सर्वमेधग्रहोऽपि 1 दर्शनस्यैव प्राधान्यात् । एवंविदो यजमानस्य अग्निहोत्रादयः सर्वेऽपि यज्ञाः सर्वमेधा एव । आलम्बनमात्रं हि तत्र यज्ञः । भूतानि सर्वाणि परीत्य सर्वाधिष्ठानभूतब्रह्मत्वे-नावधार्य लोकान् भूरादींच परीत्य परिज्ञाय ब्रह्मरूपान्निश्वित्य सर्वाः प्रदिशः प्राच्याद्या दिश आग्नेय्यादयोऽ-वान्तरदिशश्च परीत्य ब्रह्मरूपा ज्ञात्वा प्रथमजां प्रथमोत्पन्नां प्रथममाविर्भूतां वाचं त्रयीलक्षणाम्, ' अहि तस्मात् पुरुषाद् ब्रह्मैव पूर्वमसृज्यत ' ( श ० ६ | १ | १ | १० ) इति श्रुते ब्रह्मपदेनात्र वेद एव गृह्यते । यद्यप्यनाद्येव तादृशं ब्रह्म, तथापि महाप्रलयकाले ब्रह्मऋत्यात्मनावस्थितं तदेव पुरुषादपि पूर्वमाविर्भवति निःश्वासन्यायेन, ' अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः ' ( वृ ० २ | ४ | १० ) इति श्रुतेः । उपस्थाय संसेव्य कर्मोपासनादि कृत्वा, उपक्रमोपसंहारादिभिः षड्भिर्लिङ्गः प्रत्यगभिन्ने ब्रह्मणि महातात्पर्य -मवधार्य, तदनुगुणैः स्तवैर्मननेन श्रुतमर्थं व्यवस्थाप्य, दीर्घकालनैरन्तर्यसत्कारपूर्वकं निदिध्यास्य, आत्मना पुरुषरूपेण ऋतस्य यज्ञस्यात्मानं यज्ञाधिष्ठातारं परमात्मानमभिसंविवेश ब्रह्मात्मभावेनावतिष्ठते, ' सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥ ' ( म ० स्मृ ० १२ ९ १ ), ' ब्रह्म वेद ब्रह्मैव भवति ' ( मु ० उ ० ३१२१ ९ ) इत्यादिवचनेभ्यः । दयानन्दस्तु - ' हे विद्वन्, त्वं यो भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश्च परीत्य ऋतस्या-त्मानमभिसंविवेश प्रथनजां वेदचतुष्टयीमुपस्थाय पठित्वात्मना तं प्राप्नुहि ' इति, तदपि यत्किञ्चित् सत्यात्मकस्य परमात्मनः सत्यात्मप्रवेशानुपपत्तेः । अत एव ' ऋतस्य सत्यस्य स्वरूपमधिष्ठानं वा आत्मना स्वरूपेण अन्तःकरणेन चाभिमुख्येन सम्यक् प्रविशति ' इति व्याख्यानमपि निर्मूलम्, सर्वाधिष्ठानसत्यस्याधिष्ठानान्तरानुपपत्तेः । न च प्रवेष्टुः परमेश्वरस्यान्तःकरणमस्ति तस्य शरीरत्रयसम्बन्धानुपपत्तेः ॥ ११ ॥
परि॒ द्यावा॑पृथि॒वी स॒द्य इ॒त्वा परिं लोकान् परि दिश॒ परि॒ स्व॑ः ।
ऋ॒तस्य॒ तन्तं॒ वित॑तं विच॒त्य॒ तद॑पश्य॒त् तद॑भव॒त् तदा॑सीत् ॥ १२ ॥
मन्त्रार्थ - ज्ञानी पुरुष पृथ्वी और स्वर्ग को सद्यः ब्रह्मरूप जान कर लोकों को ब्रह्मरूप जान कर, दिशाओं को और सूर्य को ब्रह्मरूप जान कर यज्ञ की इतिकर्तव्यता को विस्तार से समझ कर जो ब्रह्म का दर्शन करता है, वह ब्रह्म ही हो जाता है, वह पहले भी ब्रह्म ही था । वस्तुतः अज्ञान की निवृत्ति को ही ब्रह्मदर्शन या ब्रह्मभाव कहा जाता है ॥ १२ ॥
परीत्युपसर्ग इत्वेत्यनेन सम्बद्ध्यते । अश्वमेधयाजी द्यावापृथिव्यौ सद्यः परि इत्वा परीत्य ब्रह्मरूपेण ज्ञात्वा लोकान् परीत्य दिशः परीत्य स्वरादित्यं च परीत्य, सर्वं ब्रह्मैव न ब्रह्मव्यतिरिक्तं किमपीति ज्ञात्वा । तत्त्वस्य गूढत्वेन पुनरुक्तिर्न दोषाय, पौनःपुन्येन श्रवणादेव चित्तारोहणसम्भवात् । ऋतस्य यज्ञस्य तन्तुमितिकर्तव्यतां विततं प्रसारितं यथा स्यात्तथा विचत्य समाप्य यज्ञं कृत्वा ब्रह्म अपश्यत् पश्यति, तदभवद् ब्रह्मैव भवति । वस्तुगत्या तदेवास्ति । अज्ञाननिवृत्तिरेव दर्शनं ब्रह्मभवनं च विस्मृतकण्ठमणिप्राप्तिवत् । दशमस्त्वमसीत्याप्त-
पृष्ठ 412
पाठ पढ़ें पाठ छिपाएँ
म ० १२–१३ ] वेदार्थपारिजातभाष्यसहिता २ ९ ' तदेव ' वाक्येन दशपुरुषाज्ञाननिवृत्त्या तद्दर्शनप्राप्तिवच्च, ' ब्रह्मैव सन् ब्रह्माप्येति ' ( बृ ० तुल्यशक्तीनि ४ | ४ | ६ ) इति निर्गच्छन्ति श्रुतेः,, एवं सन्तस्तदु तद् भवामः ' इति श्रुतेश्च । यथा ह्येकस्याग्नेः प्रदीपसहस्राणि परमात्मन इमे जीवा अपि व्युच्चरन्ति । आभ्यां कण्डिकाभ्यां गृहस्थानामेव मुक्तिर्दशिता । तेषां हि भूयांस उपाया यज्ञादयः सन्तीत्युव्वाचार्याः हिरण्यगर्भ- । इदं च सगुणब्रह्म सालोक्य - सामीप्य - साष्टि- सायुज्याद्यभिप्रायेण प्रत्येतव्यम्, कर्मोपासनसमुच्चयेन तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ' पदप्राप्तेर्वक्ष्यमाणत्वात्, ' विद्यां चाविद्यां च यस्तद्वेदोभय सह । अविद्यया मृत्यं केवलादेव ज्ञानाद् भवति, ( वा ० सं ० ४० १४ ) इति मन्त्रवर्णात् । कैवल्यमुक्तिस्तु साध्यसाधनैषणात्यागपूर्वकात् इति मन्त्रवर्गात्, ' परीक्ष्य लोकान् ' तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' ( वा ० सं ० ३११२८ ) वै तमात्मानं विदित्वा ब्राह्मणाः कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ' ( मु ० ११२।१२ ), ' एतं ) इत्यादिश्रुतिभ्यः । पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाय भिक्षाचर्यं चरन्ति ' ( बृ ० ३ | ५ | १ सद्य इत्वा दयानन्दस्तु – ' हे मनुष्याः, यः परमेश्वरो द्यावापृथिवी सद्य इत्वा पर्यभवत्, यो येन दिशः तत्सुखमभवत्, पर्यासीत्, यः स्वः सद्य इत्वा पर्यपश्यत् य ऋतस्य विततं तन्तुं विचृत्य तत्सुखमपश्यत् । तथाहि सर्वप्राप्तस्य विभोः यतस्तद्विज्ञानमासीत्, तं यथावद्विज्ञायोपासीत ' इति, तदपि यत्किञ्चित्, अनुपपत्तेः तत्सुखमपश्य-प्राप्त्यन्तरयोगः कथङ्कारं घटते? ऋतस्य विततं तन्तुं कारणं विचित्य विविधतया ग्रन्थयित्वा कीदृशमित्यपि बद्ध्वा वक्तव्य -दित्यादिकमप्यसङ्गतमेव, सत्यकारणग्रन्थिबन्धनासिद्धेः । तेन बन्धनेन सुखं विज्ञानं च मासीत् । सुखरूपस्य सद्यः सुखाप्तिरपि निर्मूलैव, विरोधात् ॥ १२ ॥
सद॑स॒स्पति॒मद्भुतं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒ने॑ मे॒धाम॑यासिष॒ स्वाहा॑ ॥ १३ ॥
मन्त्रार्थ यज्ञगृह के पालक, अचिन्त्य शक्ति से सम्पन्न, परमेश्वर की प्रिय कमनीय शक्ति अग्निदेव से मैं धन - ऐश्वर्य १३ ॥ की तथा धारणावती मेघा की याचना करता हूँ । उसके निमित्त यह श्रेष्ठ आहुति गृहीत हो ॥ , इतः प्रारभ्य तिसृभिर्ऋग्भिर्मेधा याच्यते श्रीश्र चतुर्थ्या । प्रथमा गायत्री सदसस्पतिर्देवता कमनीयं । काम्यसम्पत्करं सदो यज्ञगृहम् तस्य पतिः सदसस्पतिरग्निस्तमद्भुतं महान्तमचिन्त्यशक्तिमिन्द्रस्य प्रियं मित्रं प्रियाद् काम्यं धनमेधार्थिभिः कामनीयाद् सनि धनं मेधामयासिषं याचे, द्विकर्मको याचिः, सदसस्पतेरचिन्त्यशक्तेरिन्द्रस्य देवात् सकाशादहं सनि धनं मेधां च याचे । तस्मै देवाय स्वाहा सुहुतमस्तु । प्रियं प्रेमास्पदम्, अध्यात्मपक्षे - सदसः संसारलक्षणस्य गृहस्य पतिं परमेश्वरम् इन्द्रस्य जीवात्मनः धनं मेधां ब्रह्मात्म-सर्वैः काम्यं सर्वान्तरात्मत्वात् सर्वप्राणिपरप्रेमास्पदत्वाच्च सनिं शमदमादिषट्सम्पत्तिरूपं सनि तादृशीं च मेधां याचे इत्यर्थः । साक्षात्कारलक्षणां मेधां चायासिषमयाचिषम् । तादृशात् परमेश्वरात् तादृशं तस्मै स्वाहा सुहुतमस्तु । काम्यं दयानन्दस्तु -- ' हे मनुष्याः, अहं स्वाहा सत्यया क्रियया वाचा वा प्राप्नुत यं ' सदसस्पतिमद्भुतमिन्द्रं इति, तदपि यत्किञ्चित्, प्रियं परमात्मानमुपास्य सनि मेधामयासिषम्, तं परिचर्येतां यूयमपि सदसस्पतित्वमपि निर्मूलमेव । सदः स्थैरदृष्टस्य स्वाहापदस्य तथार्थत्वे मानाभावात् । निराकारस्य परमात्मनः वैशेध्यानुपपत्तेः ॥ १३ ॥
सदसस्पतित्वस्य लोकेऽदृष्टत्वात् । पालकत्वेन तत्त्वं तु निर्मूलमेव, पालकत्वसर्वसाधारण्येन १. अनुपलब्ध मूलेयं श्रुतिः ।
पृष्ठ 413
पाठ पढ़ें पाठ छिपाएँ
३० शुक्ल यजुर्वेदसंहिता [ अ ० ३२ यां मे॒षां दे॑वगुणाः पि॒तर॑वो॒पासते । तया॒ माम॒द्य मे॒ध्याग्ने॑ मे॒धाविनं कुरु स्वाहा || १४ || मन्त्रार्थ -- हे अग्निदेव! आप मुझे आज उस मेधा के द्वारा मेधावी बनाइये, जिस मेधा को देवसमूह और
पितृगण सेवन करते हैं । आपके लिये यह श्रेष्ठ आहुति समर्पित है । १४ ॥
मन्त्रोक्तदेवत्याऽनुष्टुप् । हे अग्ने यां मेधां धारणावती धियम्, ' धीर्धारणावती मेधा ' ( अ ० को ० ११५।२ ) इति कोषः, लोकोत्तरप्रज्ञेति यावत्, ताम् । देवगणा इन्द्रादयः पितरश्चाग्निष्वात्तादय उपासते पूजयन्ति तया मेधया मां मेधार्थिनमद्य अद्यैव मेधाविनं कुरु, देवपितृपूज्या बुद्धिरस्माकमस्त्वित्यर्थः । स्वाहा तस्मै देवाय सुहुतमस्तु । अध्यात्मपक्षे यां ब्रह्मात्मसाक्षात्कारलक्षणां मेधां देवगणाः पितरश्चोपासते पूजयन्ति तया मामद्य शीघ्रं मेधाविनं ब्रह्मात्मसाक्षात्कारवन्तं कुरु, तस्मै देवाय स्वाहा सर्वस्वमर्पितमस्तु । दयानन्दस्तु - ' हे अग्ने विद्वन् अध्यापक जगदीश्वर वा देवगणाः पितरश्च यां मेधामुपासते, तया मामद्य मेधाविनं कुरु ' इति, तदपि यत्किञ्चित् त्वदुक्तरीत्या देवपितृगणयोरभेदेन पोनरुक्त्यापत्तेः । न च रक्षका ज्ञानिनो भवन्ति, सैनिकानां रक्षकत्वेऽपि ज्ञानित्वायोगात् ॥ १४ ॥
मे॒धः॑ मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः ।
मे॒धामिन्द्र॑श्च वा॒यु॒श्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑ ॥ १५ ॥
मन्त्रार्थ - वरुणदेव मुझे तत्त्वज्ञान को समझने में समर्थ मेधा ( बुद्धि ) प्रदान करें, अग्नि और प्रजापति मुझे मेघा प्रदान करें, इन्द्र और वायु मुझे मेधा प्रदान करें । हे दाता! मुझे आप मेधा प्रदान कीजिये । आप सब देवताओं के लिये मेरी यह श्रेष्ठ आहुति समर्पित है ॥ १५ ॥
लिङ्गोक्तदेवत्याऽनुष्टुप् । वरुणो देवो मे मह्यं मेधां ददातु । अग्निः प्रजापतिश्च मे मह्यं मेधां ददातु । धाता मे मह्यं मेधां ददातु । स्वाहा तस्मै सुहुतमस्तु । अध्यात्मपक्षे - वरुणः सर्ववरणीयो देवो ब्रह्मात्मा मे मह्यं मेधां ब्रह्मात्मभावावद्योतिकां प्रज्ञां ददातु । तस्या अतिदुर्लभत्वात् तदर्थं सर्वे देवा याच्यन्ते । दयानन्दस्तु – ' यथा वरुणः परमेश्वरो विद्वान् वा स्वाहा मे मेधां बुद्धिधनं वा ददातु, अग्निः प्रजापतिर्मेधा ददातु, इन्द्रो मेधां ददातु वायुश्च धाता मे मेधां ददातु, हे मनुष्याः! तथा तुभ्यमपि ददातु ' इति, तदपि यत्किञ्चित्, वरुणाग्निप्रजापतीन्द्रादिशब्दानां तथार्थत्वस्य प्रसिद्धिविरोधात् । स्वाहापदस्य धर्मयुक्तक्रियार्थत्वमर्थो निर्मूल एव, शिष्टैस्तथा प्रयोगादर्शनात् ॥ १५ ॥
इ॒वं मे॒ ब्रह्म॑ च क्ष॒त्रं च॒भे श्रिय॑मश्नुताम् ।
मयि॑ दे॒वा द॑धत॒ श्रिय॑मु॒त्त॒मा॒ तस्यै ते स्वाहा॑ ॥ १६ ॥
इति द्वात्रिंशोऽध्यायः ॥
मन्त्रार्थ - यह ब्राह्मण जाति और क्षत्रिय जाति, दोनों मिल कर मेरी लक्ष्मी का उपभोग करें । देवगण मुझे उत्तम लक्ष्मी प्रदान करें । लक्ष्मी के निमित्त मेरे द्वारा दी गई यह श्रेष्ठ आहुति समर्पित हो ॥ १६ ॥
पृष्ठ 414
पाठ पढ़ें पाठ छिपाएँ
मं ० १६ ] वेदार्थपारिजातभाष्यसहिता ३१ मन्त्रोक्तदेवताऽनुष्टुप् । श्रीकामोऽनया श्रियं याचते । सदसस्पतीत्यारभ्य इमाश्चतस्र ऋचो वैदिकसम्प्रदाये श्रीसूक्तशब्देन प्रोच्यन्ते । सर्वोऽपि विधिः श्रीसूक्तवदेव कार्यः । इदं ब्रह्म ब्राह्मणजातिः, क्षत्रं क्षत्रियजातिः, उभे ब्रह्मक्षत्रे मे श्रियं मदीयां श्रियमुपजीवताम् । मयि च देवा उत्तमामुत्कृष्टां धर्मार्थकाममोक्षप्रापिकां श्रियं ते दधतु स्थापयन्तु, यथाहं सर्वजनभोग्यो भवामि । तस्यै ते नमः । या त्वमेव सर्वैर्जनैरभिलष्यसे, तस्यै श्रिये तुभ्यं स्वाहा सुहुतमस्तु । श्रियं मेधां चाप्राप्य यज्ञादिकं कर्तुं न कोऽपि प्रभवतीति । अध्यात्मपक्षे - इदं ब्रह्म इदं क्षत्रं च उभे ब्रह्मक्षत्रे श्रियमश्नुताम् धर्मार्थकाममोक्षप्रापिकायां तयोः प्राधान्येनाधिकारात् । अन्येषां तु श्रीः प्रायशः कामार्थप्रापिकैव भवति । अन्यत् पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे परमेश्वर, भवत्कृपया हे विद्वन्, तव पुरुषार्थेन स्वाहा मे ममेदं ब्रह्म च क्षत्रं चोभे श्रियमश्नुताम् । यथा देवा मयि उत्तमां श्रियं दधतु, तथाऽन्येष्वपि । हे जिज्ञासो, ते तुभ्यं तस्यैव प्रयतेमहि ' इति, तदपि यत्किञ्चित्, वेदेश्वर विज्ञानराज्यादेर्वा श्रीभोक्तृत्वानुपपत्तेः ॥ १६ ॥
इति शुक्लयजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां द्वात्रिंशोऽध्यायः ॥
पृष्ठ 415
पाठ पढ़ें पाठ छिपाएँ
त्रयास्त्रशोऽध्यायः
अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चमासो अ॒ग्नयः॑ः पावकाः ।
श्वितीर्यः श्वा॒त्रास भुरण्यवो वन॒र्षद वायवो न सोमा॑ः ॥ १ ॥
मन्त्रार्थ - इस यजमान की अग्नियाँ जरा - रहित हैं, शत्रुओं से लोकों की रक्षा करती हैं, देवयान और पितृयान शक्ति और पुष्टिरूप उज्ज्वलता को विद्यमान वायु की तरह यजमान के मार्ग से सम्बन्ध रखने वाली हैं । ये पवित्र अग्नियाँ यजमान के सुख, कल्याण, तुष्टि, बढ़ाने वाली, शीघ्र फल देने वाली, भरण - पोषण करने वाली और वन के काष्ठों में मनोरथों को पूर्ण करने वाली है ॥ १ ॥
सर्वमेधेऽग्निष्टोमसंस्थेऽग्निष्टुत्संज्ञे प्रथमेऽहनि ' अस्याजरासः ' इत्याद्या: ' महो अग्ने ' इत्यन्ताः सप्तदश ऋचोऽग्निदेवत्याः पुरोरुचो भवन्ति । पुरोरुचः पुरोऽनुवाक्याः । पुरोरुकशब्देन ऋग्रुपा ग्रहणमन्त्रा उच्यन्ते । न यजूरूपाः, ' ऋग्घि पुरोरुक् ' ( श ० ४।२।३।७ ) इति श्रुतेः । उक्थ- महावैश्वदेव पात्नीवत -हारियोजनेषु यजुरूपे ग्रहणमन्त्रे सत्यपि ' तं वा अपुरोरुकं गृह्णाति ' ( श ० ४।२।३।७ ) इति श्रुतेस्तत्र न दोषः । अत एवाग्नेयीभिॠच एव निवर्त्यन्ते, नोपयामादीनि । तत्र सार्वमेधिकानां चतुर्णामह्नां चत्वार आद्याः पुरोरुचः । यथास्याग्निष्टुदग्निष्टोमः प्रथममहर्भवति, तस्याग्नेया ग्रहा भवन्त्याग्नेय्यः पुरोरुचः । एवमिन्द्रस्तदुक्थ्यो द्वितीय महर्भवति । तस्य ऐन्द्रा ग्रहा भवन्त्यैन्द्रयः पुरोरुचः । सूर्यस्तदुक्थ्यस्तृतीयमहर्भवति, तस्य सौर्या ग्रहा भवन्ति सौर्यः पुरोरुचः । वैश्वदेवश्चतुर्थमहर्भवति, तस्य वैश्वदेवा ग्रहा भवन्ति वैश्वदेव्यः पुरोरुचः । trisare अनारभ्याधीताः । एताश्च पुरोरुचो यच्छन्दस्काः प्रकृतिदृष्टास्तच्छन्दस्का इहापि प्रायो दृश्यन्तेऽ-न्त्यमनुवाकं वर्जयित्वा - इति सर्वानुक्रमानुसारी उव्वटमहीधराचार्ययोरभिप्रायः । आद्ये द्वे ऐन्द्रवायवग्रहस्य पुरोरुचौ । वत्सीदृष्टा आग्नेयी त्रिष्टुप् । अस्य यजमानस्याग्नयोऽजरासः, नास्ति जरा वार्धकं येषां तेऽजरासो वार्धकविहीनाः, दमां दमानाम्, दाम्यते शीतादिर्यत्रासौ दमः, बहुत्वे दमाः तेषां दमानाम्, घञ् । ' नोदात्तोपदेशस्य मान्तस्यानाचमेः ' ( पा ० सू ० ७।३।३४ ) इति वृद्धिप्रतिषेधः, ' दमे ' इति गृहनामसु ( निघ ० ३ | ४ | १२ ), गृहाणामरित्रा रक्षकाः । नावामिव केनिपाता: ( डाँड़ा इति भाषा ), अरिभ्यस्त्रायन्त इत्यरित्राः, ' अरित्रं केनिपातक: ' ( अ ० को ० १।१०।१३ ) इत्यमरः । यद्वा दमां दमनीयानां रक्षसामरित्रास्तारकाः, आर्षत्वाद् विभक्तेर्नुडभावात् सवर्णदीर्घः, भवत्विति शेषः । पुनः कीदृशाः? अद्भूमासः, अर्चन् पूजनीयो धूमो धूमोपलक्षिता ज्वाला येषां ते तथोक्ताः पावकाः पावयितारः शोधकाः श्वितीचयः श्वेतत्वप्रचयकारिणः, श्विति श्वेतवर्णं चिन्वन्तीति श्वितिचयः, आगमशास्त्रमनित्यमिति ' ह्रस्वस्य पिति कृति तुक् ' ( पा ० सू ० ६।१।७१ ) इति प्राप्ततुगभावः, श्वितिशब्दस्य छान्दसो दीर्घः, यजमानस्य श्वेतत्वं स्वच्छत्वमुज्ज्वलत्वं वर्धयन्तः । श्वात्रासः, श्वाशब्दो धनवाचकः ( निघ ० २1१०1६ ), क्षिप्रधनप्रदा इत्यर्थः । भुरण्यवः क्षिप्रं भरणर्तारः । भुरण्युशब्दः क्षिप्रवाचकः ( निघ ० २।१५।१४ ) । वनर्षदो वने काष्ठे सीदन्तीति वनर्षदः, ' वनसदोऽवेटो रेफेण ' ( प्रा ० सू ० ३ | ३ | ११ ) इति प्रातिशाख्यसूत्रेण रेफागमः । वायवो न वायव इव दीपयितारः । सोमाः सोमा इव यजमानेष्टदाः । यद्वा वायव इव श्वात्रासः क्षिप्रगमनाः, वनर्षदो वनमुदकम्, तत्र सन्ना उदकाभिषुताः । ' श्वात्रमिति क्षिप्रनाम, आशु अतनं भवति ' ( ५३ ) इति यास्क: ।
पृष्ठ 416
पाठ पढ़ें पाठ छिपाएँ
म ० १-३ ] वेदार्थं पारिजात भाष्यसहिता ३३ अध्यात्मपक्षे - अस्य यजमानस्याग्नयो व्यष्टिसमष्टिरूपा आत्मानो विश्वतैजसप्राज्ञा विराड्ढिरण्यगर्भाव्या-कृतेश्वरास्तुरीयश्च, अजरासो जरामरणरहिताः, जराशब्देन मरणमपि लक्ष्यते, दमां गृहाणां स्थूलसूक्ष्मरूपाणा-मरित्रा रक्षकाः, नावामरित्राः केनिपाता इव । अर्चद्भूमासः, अर्चन् अर्चनीयो धूमो धूमोपलक्षितो ज्ञानरूपः प्रकाशो येषां ते तथोक्ताः । श्वितीचयः श्विति श्वेतवर्णमुज्ज्वलं ज्ञानात्मकं प्रकाशं चिन्वन्ति ये ते श्वितीचयः, छान्दसो दीर्घः । वायवो न वायव इव श्वात्रास: क्षिप्रफलप्रदाः, भुरण्यवः क्षिप्रं भरणकर्तारः, तदभावे जगदान्ध्या-पत्त्या सर्वव्यवहारलोपप्रसङ्गः । वनर्षदो वने संसाराख्ये सीदन्तीति वनर्षदः । सोमाः सोमा इवेष्टफलदातारः, भवत्विति शेषः । दयानन्दस्तु - ' हे मनुष्याः, येऽस्य जगदीश्वरस्य सृष्टी अजरासोऽरित्रा अर्चमासः पावकाः श्वितीचयः श्वानासो भुरण्यवः सोमा अग्नयो वनर्षदो वायवो न दमां धारकाः सन्ति तान् यूयं विजानीत ' इति, तदपि यत्किञ्चित्, अग्निविद्युदादीनामुत्पादविनाशशालित्वेनाजरत्वानुपपत्तेः, विद्युति धूमानुपलब्धेश्च । न च तेषां जडानामैश्वर्यवत्त्वमपि सम्भवति । पवनानां गृहरक्षकत्वमपि विप्रतिपन्नमेव । सुतरां दाष्टन्तिकेऽपि तदनुपपन्नम् । सिद्धान्ते त्वग्न्यधिष्ठातृदेवानामजरत्वं निर्वाणाभिप्रायेणैव । तेनैव चाभिप्रायेण आहवनीयादीनामजरत्वम् । किञ्च, ब्राह्मणसूत्रादिरीत्याऽग्निपुरोऽनुवाक्यत्वेन तथार्थत्वेऽपि सामान्याग्निविद्युदादिपरत्वं तु निर्मूलमेव ॥ १ ॥
हर॑यो धूमके॑तयो॒ वात॑जूता॒ उप॒ द्यवि । यत॑न्ते॒ वृथ॑ग॒ग्नय॑ः ॥ २ ॥
मन्त्रार्थ - हरितवर्णं वायु से, गतिमान् धूम से ज्ञात होने वाली ये यज्ञीय अग्नियाँ नाना रूप से स्वर्ग में गमन करने के लिये यत्नशील रहती हैं ॥ २ ॥
गायत्री विश्वरूपदृष्टा । ' इन्द्रवायू इमे ' ( वा ० सं ० ७/८ ) इत्यस्या: स्थाने ' हरयो धूम ' इति ऋक् । अग्नयो वृथक् पृथक् पृथक्, वर्णव्यत्ययोऽत्र द्रष्टव्यः, नानाप्रकारेण द्यवि स्वर्गे उपयतन्ते स्वगं गन्तुं यत्नं कुर्वन्ति । यद्वा द्यवि लोकं प्रति यतन्ते यत्नमाचरन्ति यजमानं स्वर्गं प्रापयितुं यत्नमाचरन्तीत्यर्थः । कीदृशास्ते हरयः? हरितवर्णा धूमकेतवः, धूम एव केतुः केतुवद्विज्ञापको येषां ते तथोक्ताः, यत्र यत्र धूमस्तत्र तत्राग्निरिति व्याप्तेः । वातजूता वातेन जूतं गमनं प्रसारो येषां ते तथोक्ताः । इमे द्वे ऋचौ सप्तमीययोः सप्तम्यष्टम्योर् ऋचोः थावेदितव्ये | अध्यात्मपक्षे - ते अग्नयो द्यवि स्वप्रकाशे ब्रह्मणि पृथक् पृथग् नानाप्रकारेण यतन्ते स्वप्रकाशब्रह्मभावं गमयितुं यत्नमाचरन्ति, साक्षात् पारम्पर्येण ब्रह्मात्मभावप्राप्तौ पर्यवसानात् । ते कीदृशा हरयः? उपासिताः सन्तो दुःखहर्तारः, धूमकेतवो धूमोपलक्षितज्ञानात्मक प्रकाशलिङ्गेन गम्याः, वातजूता मनआद्युपाधिभिर्मनोजवाः । स्वतोऽचला एव, अधिष्ठानरूपेण व्यापकत्वात् । दयानन्दस्तु – ' हे मनुष्याः, ये धूमकेतवो वातजूता हरयोऽग्नयः पृथग् उपयतन्ते तान् कार्यसिद्धये प्रयुध्वम् ' इति, तदपि यत्किञ्चित् त्वद्रीत्या जडानां तेषां यत्नवत्त्वानुपपत्तेः, यत्नवत्त्वस्य चेतनधर्मत्वात् ॥ २ ॥
यजा॑ नो मि॒त्राव॑रुणा॒ यजा॑ दे॒वाँ २ ॥ ऋ॒तं बृहत् अग्ने॒ यक्षि॒ स्वं वम॑म् ॥ ३ ॥
मन्त्रार्थ - हे अग्निदेव! हमारे मित्रावरुण देवताओं का यजन करो, देवताओं का यजन करो, महान् यज्ञस्वरूप अपने गृह का पूजन करो ॥ ३ ॥
५
पृष्ठ 417
पाठ पढ़ें पाठ छिपाएँ
३४ शुक्लयजुर्वेदसंहिता [ २० ३३ मैत्रावरुणी गायत्री गोतमस्यार्षम् । मैत्रावरुणस्य पुरोरुक् । ' अयं वां मित्रावरुणा ' ( वा ० सं ० ७ / ९ ) इत्यस्याः स्थाने ' यजा नो मित्रा ' इति ऋक् । हे अग्ने, नोऽस्माकं मित्रावरुणा मित्रश्च वरुणश्चेति मित्रावरुणौ, ' देवताद्वन्द्वे च ' ( पा • सू ० ६।३।२६ ) इत्यानङि, ' सुपां सुलुक् ' ( पा ० सू ० ७ १ ३ ९ ) इति विभक्तेराकारादेशे मित्रावरुणा इति रूपम् । यज देवान् यज । ऋतं यज्ञं विष्णुं बृहन्महान्तं यज । स्वं दमं स्वकीयं गृहं यक्षि यज । यजेत्यत्र ' द्वचोऽतस्तिङः ' ( पा ० सू ० ६ । ३ । १३५ ) इति दीर्घः । अध्यात्मपक्षे - हे अग्ने आत्मन् मित्रावरुणौ देवौ यज । ऋतं यज्ञं विष्णुं बृहन्महान्तं यज । स्वं दमं गृहमाश्रयं परमात्मानं यज, तस्यैव सर्वतोभावेन समर्हणीयत्वात् । दयानन्दस्तु - ' हे अग्ने, त्वं नो मित्रावरुणा देवांश्च यज, बृहतं यज, येन स्वं दमं यक्षि ' इति, तदपि यत्किञ्चित्, अग्निपदस्य विद्वदर्थत्वे मानाभावात् । न च लक्षणया सोऽर्थ इति वाच्यम्, तत्र बीजाभावात् । सर्वोऽपि मित्राणि श्रेष्ठान् विदुषश्व स्वयमेव सत्करोति, नान्यमुखेनेति । ऋतमपि स्वयमेव यजनीयं भवति नान्यमुखेन । तथा सत्यन्यद्वारा पूजनेन स्वकल्याणासम्भवात् ॥ ३ ॥
युवा हि दे॑व॒हूत॑मा॒२ ॥ अश्वाँ अग्ने र॒थोरि॑व । नि होता॑ पू॒र्व्यः स॑दः ॥ ४ ॥
मन्त्रार्थ – हे अग्निदेव! आप देवतात्रों को शीघ्र जोतिये । कारण यह है कि पुरातन काल से स्थान ग्रहण कर रहे हैं ॥ ४ ॥
बुलाने वाले घोड़ों को रथी के समान उत्साहपूर्वक अवश्य ही रथ में देवताओं का आह्वान करने वाले आप आज इस यज्ञकर्म में अपना आश्विनस्य ग्रहस्य पुरोरुक् । ' या वां कशा ' ( वा ० सं ० ७ ११ ) इत्यस्या: स्थाने ' युवा हि ' इति ऋक् । हे अग्ने, त्वमश्वान् युक्ष्वा युक्ष्व योजय । हि प्रसिद्धौ । कीदृशानश्वान्? देवहूतमान् देवान् ह्वयन्तीति देवहुवः, अतिशयिता देवहुवो देवहूतमाः, तानतिशयेन देवानामाह्वान् । तत्र दृष्टान्तमाह - रथी रथस्वामी यथाश्वान् योजयति तद्वत् । रथोऽस्यास्तीति रथी:, ' छन्दसीवनिपौ च वक्तव्यौ ' ( पा ० सू ० ५ | २ | १२२, वा ० २ ) इति ईप्रत्ययो मत्वर्थीयः । किञ्च त्वं पूर्व्यः पुरातनः पूर्वभवः, मानुषाद् होतुः प्रथमोऽग्यो भूत्वा नि सदः, अस्मिन् यज्ञे होतृसदने निषीद | अन्यत् त्रयोदशेऽध्याये सप्तत्रिंश्यां कण्डिकायामुक्तम् ॥ ४ ॥
द्वे विरूपे चरतः स्वर्थे अ॒न्यान्यः॑ व॒त्समुप॑धापयेते ।
हरि॑र॒न्यस्य॒ भव॑ति स्व॒धावा॑ञ्छुक्रो अ॒न्यस्यो॑ ददृशे सुवर्चाः ॥ ५ ॥
मन्त्रार्थ - परस्पर पृथक् पृथक रूप वाले, मोक्ष और दिव्य विषय वाले, दोनों रात और दिन अथवा पितृयान और देवयान रूप दो मार्ग जीवात्मा को क्षीरपान कराते हैं और निरन्तर घूमते रहते हैं । रात्रि में अग्नि स्वधावान् होता है । और दिन में सूर्य दीप्तिमान् दिखता है ॥ ५ ॥
शुक्रग्रहपुरोरुक् कुत्सदृष्टा, त्रिष्टुप् । ' तं प्रत्नथा ' ( वा ० सं ० ७/१२ ) इत्यस्या: स्थाने ' द्वे विरूपे ' इति ऋक् । द्वे रात्र्यहनी विरूपे नानारूपे, कृष्णा रात्रिः, शुक्लमहः । स्वर्थे सु शोभनोऽर्थो ययोस्ते तथोक्ते कल्याण-प्रयोजने । अन्या च अन्या च वत्समुपधापयेते क्षीरं पाययतः । अन्या एका रात्रिरग्निरूपं वत्समुपधापयते, रात्रौ अग्निदेवत्यस्य अग्निहोत्रस्य विधानात् । अन्या अहोरूपा वत्समादित्यरूपमुपधापयते, अह्नि सूर्यदेवत्य-स्याग्निहोत्रस्य विधानात् । तदेवाह - अन्यस्यां रात्रौ हरिर्हरितवर्णोऽग्निः, स्वधावान् अन्नवान् भवति ।
पृष्ठ 418
पाठ पढ़ें पाठ छिपाएँ
म ० ५-६ ] वेदार्थ पारिजातभाष्यसहिता ३५ | अन्यस्यामहनि शुक्रः शुक्ल आदित्यः 1 सुवर्चाः शोभनप्रकाशः, ददृशे दृश्यते । ते द्वे चरतो निरन्तरं प्रवर्तेते यद्वा द्वे द्यावापृथिव्यौ, अग्निर्भूमौ स्वधावान्, सूर्यो दिवि सुवर्चा दृश्यते । अध्यात्मपक्षे - द्वे विद्याविद्ये ज्ञानकर्मरूपे वा, विरूपे नानारूपे चरतो निरन्तरं प्रवर्तेते । कीदृशे? स्वर्थे सुष्ठु शोभनौ प्राणिनां स्वर्गापवर्गों अर्थः प्रयोजनं ययोस्ती । अन्यान्या वत्समुपधापयेते, अन्या एका अविद्यारूपा कर्मरूपा वा अन्यं चन्द्रमसं चन्द्रोपलक्षितं स्वर्गं वत्समुपधापयति क्षीरं पाययति । अन्या देवता ज्ञानरूपा विद्यारूपा वा सूर्य वत्समुपधापयति सूर्योपलक्षितं ब्रह्मलोकमुपधापयति । अन्यस्यां कर्मरूपायां हरिर्हरिद्वर्णः स्वर्गः स्वधावान् भवति । अन्यस्यां विद्यारूपायां ज्ञाने वा देवता सूर्यः सुवर्चाः शोभनप्रकाशो ददृशे । सूर्योपलक्षितो ब्रह्मलोको ब्रह्मात्मस्वरूपो वा दृश्यते । स्त्रियो दयानन्दस्तु – ' हे मनुष्याः, यथा स्वर्थे सुष्ठु अर्थ: प्रयोजनं वा ययोस्ते द्वे विरूपे विरुद्धस्वरूपे चरतोऽन्या अन्या च वत्समुपधापयेते । तयोरन्यस्यां स्वधा स्वाहा हरिर्भवति । शुक्लः सुवर्चा विरूपे अन्यस्यां स्त्रियो ददृशे तथा द्वे रात्र्यहनी वर्तेते इति जानीत ' इति, तदपि यत्किञ्चित् विप्रतिषिद्धत्वात् । द्वे कालभेदेन एकं वत्सं यद्युपधापयेते, तदैकस्यैव बालस्य हरित्वशुक्रत्वभेदेन कथं भेदः स्यात्? वसन्ति भूतान्य- चन्द्रत्वं स्मिन्निति वत्सः तमिति व्युत्पत्त्या वत्सपदस्य संसारार्थत्वेऽप्येक एवोभाभ्यामुपधापनीयः, नह्येकस्यैव सूर्यत्वं चोभयं सम्भवति । सिद्धान्ते तु वत्सभेदेन तदुपपत्तिः । नह्युपधापनकर्तृभेदेन बालभेदः सम्भवति, असति बालभेदे ॥ ५ ॥
अयमिह प्रथमो धायि धातृभिर्हता यजिष्ठो अध्वरेष्वीडयेः ।
यमप्त॑वानो॒ भृग॑वो विरुरुचुर्वनेषु चित्रं विभ्वं वि॒शेव॑शे ॥ ६ ॥
मन्त्रार्थ- - यह आहवनीय अग्नि इस स्थान में मुख्य है और आधान करने वाले यजमान के द्वारा उसका स्थापन किया गया है । यह अग्नि देवताओं का आह्वान करने वाला ( बुलाने वाला ) और उत्कृष्ट प्रकार से याग करने वाला है । यज्ञ में ऋत्विकगण उसकी स्तुति करते हैं । भृगुकुलोत्पन्न पुत्रवान् मुनियों ने प्रत्येक यजमान के लिये अरण्य में इस अग्नि को प्रदोस किया था । इस अग्नि का भिन्न - भिन्न कर्मों में उपयोग होता है, अतः वह महान् आश्चर्यकारक और व्यापक है ॥ ६ ॥
मन्थिग्रहपुरोरुक् । त्रिष्टुप् । ' अयं वेनश्चोदयत् ' ( वा ० सं ० ७ १६ ) इत्यस्याः स्थाने ' अयमिह ' इति ऋक् । अथमाहवनीयः, इह कर्मानुष्ठाने प्रथमो मुख्यः । धातृभिराधान कर्तृभिराहितः । दक्षिणाग्न्यपेक्षया प्राथम्यम् । कीदृश:? होता देवानामाह्वाता । यजिष्ठः, अतिशयेन यष्टा, अध्वरेषु यागादिषु, ईड्य ऋत्विग्भिः स्तुत्यः । विशे विशे यजमानरूपाय तस्मै तस्मै मनुष्याय । विश इति मनुष्यनाम ( निघ ० २।३।५ ) | अप्नवानो भृगव t यं वनेषु विरुरुचुर्विविधां दीप्तिं प्राप्तवन्तः । यद्वा - वनेषु ग्रामाद्वहियंजनाख्ये वरण्यप्रदेशेषु यमग्नि विरुरुचुः । कीदृशम्? चित्रम्, विविधकर्मोपयोगित्वेनाश्चर्यकारिणम्, विभ्वं विभुत्वशक्तियुक्तम् । यद्वा - यमग्निमाधाय पूर्वेऽपि ऋषयोऽप्नवानप्रभृतयो भृगवश्च भृगोरपत्यानि पुमांसः, विरुरुचुः क्वावस्थितं सन्तमाधाय विरुरुचुः? वनेष्वित्यरण्योराधानाभिप्रायम् । चित्रं चयनीयम्, विभ्वं विशे विशे । यं चेदानीमप्यादधति विभूतिशक्तियुक्तं विशे मनुष्याय । द्विवचनमादरार्थम् । तृतीये पञ्चदश्यां व्याख्यातम्,
तत्रापि द्रष्टव्यम् ।
दयानन्दीयं व्याख्यानमपि तत्रैव समालोचितम् ॥ ६ ॥
पृष्ठ 419
पाठ पढ़ें पाठ छिपाएँ
३६ शुक्लयजुर्वेदसंहिता [ अ ० ३३
त्रीणि शता त्री सहस्राण्यग्नि त्रिशच्च॑ दे॒वा नव॑ चाऽसप॒र्यन् ।
औक्ष॑न् घृ॒तैरस्तृ॒णन् ब॒हिर॑स्मा॒ आदिद्धोता॑र॒ न्य॒सादयन्त ॥ ७ ॥
मन्त्रार्थ -- तीन हजार तीन सौ उनतालीस देवता अग्नि की परिचर्या करते हैं । उन्होंने घृत से अग्नि को सींचा है और इस अग्नि के लिये कुशाओं को बिछाया है । तदनन्तर ही होता को हवन कर्म में नियुक्त किया जाता है ॥ ७ ॥
विश्वामित्रदृष्टा त्रिष्टुप् । विश्वेदेवदेवत्यस्य आग्रयणग्रहस्य पुरोरुक् । ' ये देवास: ' ( वा ० सं ० ७ १ ९ ) इत्यस्याः स्थाने ' त्रीणि शता ' इति ऋक् । त्रीणि शता शतानि त्री त्रीणि सहस्राणि त्रिशन्नव च देवाः, सङ्कलय्य ३३३ ९ भवन्ति । एते वस्वादिगणा देवा अग्निम्सपर्यन् परिचरन्ति । सपर्यतिः परिचरणकर्मा ( निघ ० ३।५।३ ) | कथं परिचरन्तीति तत्राह - औक्षन्निति । ते घृतैरग्निमौक्षन् अग्नि देवमाज्यैरसिञ्चन् । ' उक्ष सेचने ' इति भौवादिकस्य लुङि रूपम् । अस्मै अग्नये बहिरस्तृणन् आच्छादयन् आद् इद् अनन्तरमेव होतारं वृत्वा होतृवरणं कृत्वा हौत्रे कर्मणि न्यसादयन्त विनियुक्तवन्तः । घृतसेचन बहिस्तरणहोतृवरणैरग्नि परिचरन्तीत्यर्थः । अध्यात्मपक्षे - त्रीणि शतानि त्रीणि सहस्राणि त्रिशन्नव च देवा अग्नि परमात्मानमसपर्यन् परि-चरितवन्त उपासितवन्तः घृतैः स्नेहपरिप्लुतनैवेद्यैश्च अग्निमभिषिक्तवन्तस्तर्पितवन्तः । अस्मै प्रसिद्धाय परमात्मने बहिरेतदुपलक्षितमाकाशं हृदयाकाशमास्तृणन् परिष्कृतवन्तः । अनन्तरमेव होतारं वृत्वा आह्वातार-माचार्यं कृत्वा न्यसादयन्त नितरां विनियुक्तवन्तः, आत्मानमिति शेषः । दयानन्दस्तु - ' हे मनुष्याः, यथा त्रिंशच्च नव च देवास्त्रीणि शता त्री च सहस्राण्यग्निमसपर्यंन् घृतै-रौक्षन् बहिरास्तृणन्, अस्यै होतारं न्यसादयन्त स्थापयन्तु तथा यूयमपि कुरुत ' इति, तदपि यत्किञ्चित्, सहस्राणीतिपदेन सहस्रक्रोशमार्गमिति व्याख्यानस्य निर्मूलत्वात् । किश्च मन्त्रे देवा इति त्रीणि शता त्री सहस्राणि त्रिंशच्च नव चेत्येतत्संख्याका देवा उक्ताः । न च त्वद्रीत्या तेषां देवत्वं सम्भवति, जडत्वे विद्वत्त्वायोगात् । सहस्रक्रोशमितमार्गविवक्षणे त्रीणि शता त्रिंशच्च नव चेत्यादिपदानां वैयर्थ्यमेव स्यात् । न च पृथिव्यादीनां त्वद्रीत्याऽग्निसपर्याकर्तृत्वं सम्भवति, जडत्वेन चोदनानर्हत्वात् ॥ ७ ॥
मू॒र्धान॑ दि॒वो अ॑र॒तपृ॑थि॒व्या वै॑श्वान॒रमु॒त आ जा॒तम॒ग्निम् ।
कवि सम्राज॒मति॑थ॒ जना॑नामा॒सन्ना पात्रं जनयन्त दे॒वाः ॥ ८ ॥
मन्त्रार्थ - देवताओं ने द्युलोक के मस्तकस्वरूप सूर्यदेव से प्रकाशित पृथिवी की सीमाभूत जाठराग्नि के रूप में समस्त नरलोक के हितकारी यज्ञ में अरणीद्वय से उत्पन्न, अविचल और दीप्तिमान्, क्रान्तदर्शी, भक्तों के सम्मुख होने वाली, नक्षत्रमण्डली में सम्राट्, यजमान आदि समस्त जनों के अतिथिभूत हवि से आदरणीय इस ब्रह्माग्नि को मुख्य पात्र चमस से प्रकट किया है ॥ ८ ॥
प्रकृतिवदेव ध्रुवग्रहपुरोरुक् । इयं च सप्तमे चतुर्विंशी कण्डिका । तत्रैव व्याख्यातापि । तत्र प्रकृतौ यथा ध्रुवग्रहणे विनियुक्ता, तथैवात्रापि । यतो हि नास्या: स्थानेऽत्र ऋगन्तरं प्रयुक्तम् । वैश्वानरः सर्वात्मतया स्तूयते । देवा ईदृशमग्नि जनयन्त उत्पादितवन्तः । कीदृशम्? दिवो मूर्धानम्, द्युलोकस्य सूर्यात्मनावस्थितं मूर्धानं शिरोवदुन्नतप्रदेशेऽवस्थाय भासकमाहुर्ब्रह्मविदः । पृथिव्या उपरि अरतिम् अनुपरतम् । तत्र कदाचिद-प्यग्नेरुपरमोऽभावो नास्ति, दाह - पाक - प्रकाशैः सर्वानुग्रहरतत्वात् । यद्वा पृथिव्या अन्तरिक्षनामसु पाठेन पृथिव्या
पृष्ठ 420
पाठ पढ़ें पाठ छिपाएँ
१० ८-१० ] वेदार्थ पारिजातभाष्यसहिता ३७ अन्तरिक्षस्य अरतिमलम्मत पर्याप्तमतिम्, पूरकमित्यर्थः । तत्र स्थितोऽसौ यथाकालं वृष्ट्या भूतानि पुष्णाति । रलयोः सावर्ण्यम् । मकारलोपश्छान्दसः । तथा च अरतिमित्यस्य अलम्मतिमित्यर्थः । तथा वैश्वानरं विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितो वैश्वानरः, ' नरे संज्ञायाम् ' ( पा ० सू ० ६ | ३ | १२ ९ ) इति दीर्घः, जाठराग्निरूपेणान्नपाचकत्वात् तथा ऋते यज्ञे आजातं यज्ञनिमित्तमरणिद्वयान्मन्थनेन जातम् । कविं क्रान्तदर्शिनम् । सम्राजं सम्यग्दीप्यमानम् । जनानां यजमानानाम्, अतिथिम् अतिथिवत् पूज्यं हविर्भिः सत्कारयोग्यम् । विज्ञायते ह्यतिथिरूपेणाग्नेः प्रवेशो गृहेषु, तस्मात् तस्योदकमाहरन्ति । आसन् आपात्रम्, आस्यशब्दस्य सप्तम्येकवचने ' पद्दन्नोमास ' ( पा ० इति सू ० ६।१।६३ ) इति सूत्रेण आसन्नादेशः, ' सुपां सुलुक् ' ( पा ० सू ० ७ | १ | ३ ९ ) इति सप्तमीविभक्तिलोपे ' आसन् देवपान ' रूपम्, आस्ये इत्यर्थः । आभिमुख्येन पीयतेऽनेनेत्यापात्रम् । एतादृशर्माग्नि देवा इन्द्रादयोऽजनयन्त, ' चमसो इति चमसेन ह वा एतेन भूतेन देवा भक्षयन्ति ' ( ० १ ४ | २ | १४ ) इति श्रुतेः । शेषं व्याख्यानं सप्तम एव द्रष्टव्यम् ॥ ८ ॥
अ॒ग्निर्वृत्राणि जङ्घनद् द्रविण॒स्युर्व॑व॒न्यया॑ । समि॑द्धः शुक्र आहु॑तः ॥ ९ ॥
मन्त्रार्थ - दीप्त, मन्त्रशुद्ध, निमन्त्रित होकर यहाँ प्राप्त हुआ अग्नि हविरूप धन को चाहता हुआ नाना प्रकार की पूजा के द्वारा हमारे पापों को नष्ट करता है ॥ ९ ॥
भरद्वाजदृष्टा गायत्री, ऐन्द्राग्नग्रहपुरोरुक् । ' इन्द्राग्नी आगतम् ' ( वा ० सं ० ७।३१ ) इत्यस्याः स्थाने ' अग्निर्वृत्राणि ' इति ऋक् । अग्निस्तन्नामकः प्रसिद्धो देवः, वृत्राणि प्रावरकाणि वृजिनानि पापानि जङ्घनद् ( निघ ० अत्यर्थं हन्ति । यङ्लुगन्तरूपमेतत् । केन हेतुना जङ्घनत्? तत्राह - विपन्यया, विपनिरर्चतिकर्मा ३।१४।१६ ), विविधया पूजया पापं हन्ति निमित्तभूतया । कीदृशोऽग्निः? द्रविणस्युः, द्रविणो धनमिच्छति ' द्रविणस्यति, द्रविणस्यतीति द्रविणस्युः, ' सुप आत्मनः क्यच् ' ( पा ० सू ० ३।११८ ) इति क्यचि, ' क्याच्छन्दसि पुनः ( पा ० सू ० ३।२।१७० ) इत्युप्रत्यये रूपम् । ' द्रविणस् ' इति सान्तः शब्दः । हविलक्षणं धनमिच्छन् । कीदृश:? समिद्धो दीप्तः, शुक्रः शुक्लो दीप्तिमान् वा आहुतोऽभिहुतः सन्निति । अध्यात्मपक्षे - अग्निरग्रणीः परमेश्वरो वृत्राणि पातकान्यतिशयेन हन्ति, ' हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छ्यापि संस्पृष्टो दहत्येव हि पावकः ॥ ' ( वृ ० ना ० पु ० ११ । १०० ) इत्यादिवचनेभ्यः । कीदृशोऽग्निः? द्रविणस्युः, द्रविणं पत्रपुष्पादिलक्षणं द्रव्यमिच्छतीति द्रविणस्युः, ' तुलसीदलमात्रेण जलस्य चुलुकेन च । विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ॥ ' इत्युक्तेः । केन हेतुना हन्ति? तत्राह - विपन्यया भक्तकृतया पत्रपुष्प-समर्पणरूपया पूजया । पुनः कीदृशोऽग्निः? समिद्धः सम्यग् दीप्तः स्वप्रकाशोऽखण्ड बोधरूपः, शुक्रः सर्वोपाधि-विवर्जितः शुद्धः आहुतो भक्तैरासमन्तात् सर्वस्वात्मसमर्पणेनारोधितः । दयानन्दस्तु - ' हे विद्वन्, यथा समिद्धः शुक्रोऽग्निः शीघ्रकर्ता वृत्राणि मेघावयवान् जङ्घनद् भृशं हन्ति, द्रविणस्युरात्मनो द्रविणमिच्छुराहुतः कृताह्वानो भवान् विपन्यया विशेषव्यवहारयुक्त्या दुष्टान् भृशं सम्भवति हन्यात् , ' शौर्येण इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात् । किञ्च न विशेषव्यवहारयुक्त्या दुष्टानां हननं वीर्येण शस्त्रेण उद्यमेन च तद्धननसम्भवात् ॥ ९ ॥
विश्वे॑भिः स॒भ्य॑ मध्वग्न॒ इन्द्रेण वायुना॑ । पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥ १० ॥
मन्त्रार्थ - हे अग्निदेव! आपके साथ मित्र के तेज से तेजस्वी सभी देवता इन्द्र और वायु के साथ सोममय मधु का पान करें ॥ १० ॥