वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 41–50
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 41–50
पृष्ठ 41
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेदसंहिता [ अ ० २१ अविः रक्षणं यस्मात् स गौः स्तोता ' इति, तदपि यत्किञ्चित् सर्वस्यास्य व्याख्यानस्य प्रमाणसापेक्षत्वेन निर्भ्रमत्वायोगात्, निष्प्रमाणकाध्याहारसापेक्षत्वाच्च । समिधोत्तमप्रकाशेन सूर्यस्य कथं प्रकाशमानत्वम्? प्रकाशस्य प्रकाशान्तरनिरपेक्षत्वात्, वरेण्यपदस्य श्रुतसमिद्धाग्निविशेषणत्वोपपत्ताश्रुतजनकल्पनाया निर्मूलत्वात् । एवं सर्वोऽपि रागवशादेव शरीरेन्द्रियात्मनो रक्षतीति व्यावर्त्याभावान्निरथिकोक्तिः । मनोऽपि कर्मवशात् सर्व एव प्राप्नोतीति कर्तृक्रियान्तराध्याहारश्च निरर्थक एव ॥ १२ ॥
तनू॒नाच्छुचि॑िव्रतस्तनू॒पाश्च॒ सर॑स्वती । 9 उष्णिहा च्छन्द इन्द्रियं दि॑त्य॒वाङ्गौर्वयो॑ दधुः ॥ १३ ॥
मन्त्रार्थ – पवित्र कर्म वाले जलदेवता का पौत्र अग्निदेव, शरीर को पुष्ट करने वाला गौ घृत या प्रयाज देवता, सरस्वती देवी, उष्णिक् छन्द और दिव्य हवि को वहन करने वाली दो वर्ष की गाय पूजित होकर यजमान में बक और दीर्घायु की स्थापना करें ॥ १३ ॥
तनूनपात्, न पातयति न पतति वा स नपात्, ' नभ्राण्नपात् ' ( पा ० सू ० ६।३।७५ ) इति निपातनात् साधुः, तनूं न पातयति जाठररूपेण धारयतीति तनूनपादग्निः । अथवा नपात् नप्ता पौत्रः ' नपात् इत्यनन्तरायाः प्रजाया नामधेयम् ' ( निरु ० ८१५ ), तन्वन्ति तता भवन्त्यन्तरिक्षे इति तन्व आपः । ताभ्य ओषधिवनस्पतयो जायन्ते, ओषधिवनस्पतिभ्योऽग्निर्जायत इति तनूनामपां नपात् पौत्रस्तनूनपाद् अग्निः । यद्वा तन्वन्ति य आदयो भोगा यस्यां सा तनूः, गोनाम । अस्याः पयो जायते, पयस आज्यमिति तनूनपादाज्यम् । शुचिव्रतः शुक्लं व्रतं कर्म यस्यासौ तथोक्तः । ' व्रतमिति कर्मनामधेयम् ' ( निघ ० २।१।६ ) उज्ज्वलकर्मा । तनूपाः तनूं शरीरं ( यज्ञस्य ) पातीति तनूपाः । सरस्वती प्रयाजदेवता, उष्णिक् छन्दः । स्त्रीत्वविवक्षायाम् उष्णिहा, अजादिगणे पाठात् ' अजाद्यष्टाप् ' ( पा ० सू ० ४ | ११४ ) इति टाप् । दित्यवाड् दित्यां भवं दित्यम्, दित्यं विहतीति दित्यवाट् गौश्च एते चत्वार इन्द्रे इन्द्रियं वीर्यं वयश्च दधुर्दधतु । दधाति । अध्यात्मपक्षे - परमात्मैव सर्वात्मत्वात् तनूनपादादिरूपेण इन्द्रे जीवे इन्द्रियं वीर्यं वयः सत्त्वमन्नमायुर्वा दयानन्दस्तु - ' यथा शुचिव्रतस्तनूनपात् तनूपाः सरस्वती उष्णिहा च छन्द इन्द्रियं जीवस्य लिङ्गं दधाति यथा च दित्यवाड् दितये हितं वहति गौर्वयः कामनां वर्धयति, तथैतत्सवं विद्वांसो दधुः ' इति, तदपि यत्किञ्चित्, असम्बद्धत्वात् छन्दसो जीवलिङ्गधारणे कथमुपयोग इत्यनुक्तेः । गौरित्यस्य स्तोतार्थ इत्यपि प्रमाणसापेक्षम, अध्याहारस्यागतिकगतित्वाच्च ॥ १३ ॥
इभिरग्निरीड्यः सोमो॑ दे॒वो अम॑र्त्यः ।
अ॒नु॒ष्टुप् छन्द॑ इन्द्रि॒यं पञ्चा॑वि॒र्गौर्वयो॑ दधुः ॥ १४ ॥
मन्त्रार्थ - प्रयाज देवताओं के द्वारा जिनकी स्तुति की गई है, ऐसे अग्नि देवता मरण धर्म रहित देवता सोम, अनुष्टुप छन्द, ढ़ाई वर्ष की गाय के साथ पूजित होकर यजमान में बल और दीर्घायु का आधान करें ॥ १४ ॥
इडाभिः प्रयाजदेवताभिः सह अग्निः सोमो देवः, अनुष्टुप् छन्दः, गौः -- एते पञ्च इन्द्रे इन्द्रियं वयश्च दधुः । कीदृशोऽग्निः? ईड्यः स्तुत्यः । कीदृशः सोमः? अमर्त्यः अमरणधर्मा । कीदृशो गौः? पञ्चाविः पञ्च अवयोऽनुचराः षण्मासरूपकालविशेषा वा यस्य सः, सार्धद्विवर्ष इति यावत् ।
पृष्ठ 42
पाठ पढ़ें पाठ छिपाएँ
म ० १४-१६ ] --२ वेदार्थ पारिजातभाष्यसहिता सुबहर॒ग्निः वृ॑ष॒ण्वान् स्त॒र्णव॑ह॒रम॑र्त्यः ॥ दुरौ देवोदिश महोब्रह्मा देवो बृहस्पतिः । अध्यात्मपक्षे - सार्वात्म्यद्योतनाय एपा ऋ । इडादयो भगवद्रूपा एव इन्द्रे इन्द्रियं वयश्च दधुः । कर्मानुष्ठानकालेऽपि द्रव्यदेवतादिरूपेणापि भगवानेव भावनीय इति भावः । दयानन्दस्तु - ' यथाग्निरमर्त्यः सोम ईड्यो देवः पञ्चाविगविद्वानिडाभिरनुष्टुप् छन्द । पञ्चभिः इन्द्रियं वयश्च दध्यात्, तथैव तत् सर्वे दधुः ' इति, तदपि यत्किञ्चित् गौणार्थाश्रयणादसम्बद्धत्वाच्च सर्वोऽपि रक्ष्यते । देवपदमपि योनिविशेषे रूढत्वाद् दिव्यगुणवति लक्षणैव । सा च अन्वयानुपपत्तिमूला तात्पर्यानुपपत्तिमूला वा ग्राह्या । न चात्रानुपपत्तिद्वयी दृश्यते । तस्मान्मुधैव तदाश्रयणम् । न च छन्दस उपयोगो दर्शितः । गोपदं स्तोतव्यपरमित्यपि निर्मूलमेव ॥ १४ ॥
ब॒ह॒तो छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सो गौर्वयो॑ दधुः ॥ १५ ॥
मन्त्रार्थ- सुन्दर बहिवाला पूषा देवता, प्रयाज देवता और अग्नि देवता, विस्तृत कुशा युक्त मरणधर्मरहित बृहती छन्द, तीन वर्ष की गाय - ये सब पूजित होकर यजमान के बल और आयु को बढ़ावें ॥ १५ ॥
सुबह: शोभनबहिः प्रयाजदेवता, अग्निः, बृहतीच्छन्दः, गौः -- एते चत्वार इन्द्रियं वयश्व इन्द्रे दधुर्दधतु । कीदृशोऽग्निः? पूषण्वान् पूष्णा संयुक्तः, स्तीर्णबर्हिः स्तीर्णमास्तृतं बहिर्दर्भो यस्मै स तथोक्तः, अमर्त्यः अमरणधर्मा । कथंभूतो गौः? त्रिवत्सः, त्रयो वत्सा अनुचरा वत्सरत्रयरूपः कालविशेषो वा यस्य सः । अध्यात्मपक्षे - सुबहः प्रयाजदेवता पूषण्वान् पूष्णासहितः स्तीर्णबहिरमत्र्त्यो जरामरणादिरहितः स्तीर्ण बहिः, बृहतीच्छन्दः, त्रिवत्सश्च गौः सर्वे चैते भगवद्र्पा इन्द्रे इन्द्रियं वीर्यं वयः सत्त्वमायुर्वा दधुः । दयानन्दस्तु —–— यथा पूषण्वान् पूषाणः पुष्टिकरा गुणा विद्यन्ते यस्मिन् स्तीर्णबहिः स्तीणं बहिरन्तरिक्षं येन सः, अमर्त्यो मृत्युधर्मरहितः । त्रीणि देहेन्द्रियमनांसि वत्सा इवानुचराणि यस्य स सुबह: शोभनं बहिरन्तरिक्षं यस्मात् स सुबहरग्निरिव जनो बृहतीच्छन्दश्चेन्द्रियं दध्यात् । त्रिवत्सो गौरिव वयो दध्यात् तथैतद्दधुः ' इति, तदपि यत्किञ्चित् वत्सपदस्यानुगाम्यर्थतायां गौणार्थाश्रवणात् । त्रीत्यनेन देहेन्द्रियमनसां ग्रहणमपि प्रमाणापेक्षमेव ॥ १५ ॥
प॒ङ्क्तञ्छन्द॑ इ॒हेन्द्रि॒यं त॑र्य॒वाड् गौर्वयो॑ दधुः ॥ १६ ॥
मन्त्रार्थ -- महती दिशाएं, दीप्तिमान् द्वारों की देवियां, बृहस्पति, ब्रह्मदेव, पंक्ति छन् तथा चार वर्ष की गौ - ये सब पूजित होकर इस यजमान के बल और आयु की वृद्धि करें ॥ १६ ॥
दुरो द्वारो देव्यः प्रयाजदेवताः । छान्दसं सम्प्रसारणम् । महीमहत्यो दिशो ब्रह्मा देवो बृहस्पतिः पङ्क्तिश्छन्दः तुवा गौस्तुयं चतुथं वर्षं वहतीति तुर्यवाट् । एते षड् देवा इह इन्द्रे ( अभिनयनिर्देशः ) इन्द्रियं वयश्च दधुः । अध्यात्मपक्षे - पूर्ववदेव व्याख्यानम् 1 दयानन्दस्तु – ' हे मनुष्याः, यथेह देवीमहीर्दुरो दिशो ब्रह्मा देवो बृहस्पतिः पङ्क्तिश्छन्द इन्द्रियं तुर्यवाड् गौर्वयो जीवनं दधस्तथा यूयमपि धरत ' इति, तदपि यत्किञ्चित् सम्बोधनस्य दान्तस्य च निर्मूलत्वात्, ब्रह्मपदेन अन्तरिक्षस्य पवनस्य बृहस्पतिपदेन सूर्यस्य च ग्रहणे मानाभावात् तत्तच्छन्दसस्तत्र तत्र कथमुपयोग इत्यनुक्तेश्च । सिद्धान्ते तु तत्तच्छन्दोऽधिष्ठातृदेवता अभ्युपेयन्ते तेषां चाप्यन्यदेवानामिव इन्द्रे इन्द्रियाधान उपयोगस्य सूपपादत्वात् । ॥ १६ ॥
पृष्ठ 43
पाठ पढ़ें पाठ छिपाएँ
१० शुक्लयजुर्वेदसंहिता उ॒षे य॒ह्वो सु॒पेश॑सा॒ विश्वे॑दे॒वा अम॑र्त्याः । [ अ ० २१ त्रि॒ष्टुप् छन्द॑ इ॒हेन्द्रि॒यं पृ॑ष्ठ॒वाड् गौर्वयो॑ दधुः ॥ १७ ॥
मन्त्रार्थ - विशाल सुन्दर रूप वाले दिन - रात, मरणधर्मरहित सम्पूर्ण देवता, त्रिष्टुप् छन्द और पीठ पर भार उठाने वाला बैल - ये सब मिलकर यजमान के बल और आयु की वृद्धि करें ॥ १७ ॥
उषे रात्र्यहनी, द्विवचननिर्देशात् तयोः सहचरितत्वाच्च यह्वी ययौ महत्यौ सुपेशसा सुष्ठु शोभनं पेशो रूपं ययोस्ते सुपेशसौ, विभक्तेराकारः, अमर्त्या अमरणधर्माणो विश्वेदेवा, त्रिष्टुप् छन्दः, पष्ठवाड् गौः पष्ठं भारं । वहतीति तथोक्तो गौरेते पञ्च इह इन्द्रे इन्द्रियं वयश्च दधुर्दधतु । ' यह्वा इति महन्नामसु ' ( निघ ० १।१२।४२ ) यातं प्राप्तं च पिपासितैः, हुतं च यज्ञे देवतात्वादिति द्विधातुजं रूपम् । अस्य द्विप्रकृतिजन्यत्वान्महत्त्वम् । यद्वा -- ' य इति महन्नामसु ' ( निघ ० ३।३।१३ ) । तथा च भगवान् यास्क: - ' इति महतो नामधेयम्, यातच हूत भवति ' ( निरु ० ८८ ) | दशपाद्याम् अष्टमे पादे यता इति स्त्रीलिङ्गनिपातनम् । भट्टोजिदीक्षितास्तु ' यः ' इति पुंलिङ्गमेव पाठमाहुः । अध्यात्मपक्षे - अहोरात्राद्यधिष्ठातारो ब्रह्मरूपास्ते ते देवा इन्द्रियं वयश्च इन्द्रे दधुर्दधतु । तत एव तांस्तानुपकारान् मनस्यनुसन्धाय सौत्रामणी प्रसङ्गे तांस्तान् देवान् यजेदिति । -दयानन्दस्तु – ' हे मनुष्याः, यथेह सुपेशसौ अध्यापिकोपदेशिके उषे दहनकर्त्याविव यह्वी प्रजननमिन्द्रियं महत्यो विश्वे सर्वे देवा देदीप्यमानाः पृथिव्यादयोऽमर्त्याः स्वरूपेण नित्याः, त्रिष्टुप् छन्दः, पष्ठवाड् गौर्वृषभो । अध्यापिकोपदेशिकयोः वयः धनं दधुस्तथा यूयमाचरत ' इति, तदपि यत्किञ्चित् तेष्विन्द्रियधनधारकत्वासिद्धेः तत्सम्भवति, सुरूपत्वबृहत्त्वयोस्तात्पर्याप्रकाशनात् । सिद्धान्ते तु स्वभावकीर्तनम्, न च त्वद्रीत्या तयोर्वैपरीत्यस्यापि सम्भवात् ॥ १७ ॥
देव्या होता॑रा भि॒षजेन्द्रेण स॒युजो युजा ।
जग॑ती च्छन्द॑ इन्द्रि॒यम॑न॒ड्वान् गौर्वयो॑ दधुः ॥ १८ ॥
मन्त्रार्थ - देवी आहुति देने वाले इन्द्र और मध्यम वायु, इन्द्र सहित दोनों वंद्य, अर्थात् अन्तरिक्ष में स्थित अग्नि और वायु, जगती छन्द, छह वर्ष का युवा वृषभ - ये सब मिलकर यजमान में बल और आयु की स्थापना करें ॥ १८ ॥
दैव्या दैव्यौ देवसम्बन्धिनौ होतारा होतारौ प्रयाजदेवी, अयं चाग्निः, असौ मध्यमोऽन्तरिक्षस्थो वायुः, भिषजौ सुरवैद्यौ, इन्द्रेण सयुजा सयुजौ सह युज्येते इति सयुजा संयुक्तौ, समानकार्यों वा, युजा युजौ परस्परेण युक्तौ, जगतीच्छन्दः, अनड्वान् अनः शकटं वहतीति अनड्वान् गौः, एते चत्वार इन्द्रे इन्द्रियं वीर्यं वयः सत्त्वमन्नमधुना दधुः । अध्यात्मपक्षे - ब्रह्मात्मका देवा होत्रादय इन्द्रे इन्द्रियं वयश्च दधुरिति पूर्ववदेव व्याख्यानम् । दयानन्दस्तु – ' हे मनुष्याः, यथा इन्द्रेण सयुजौ युजौ दैव्य होतारौ भिषजौ अनड्वान् गौर्जगतीच्छन्दश्च वय इन्द्रियं दधुस्तथैतद् भवन्तो दधीरन् ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात् । नहि जगतीच्छन्दसि धनधारकत्वम्, न वा अनड्वान् तद्धतुं पारयति । भिवग्गतद्वित्वस्य प्रयोजनं वक्तव्यम् । देवेषु भवौ दैव्यौ नात्र नैपुण्यार्थे प्रत्ययः ॥ १८ ॥
पृष्ठ 44
पाठ पढ़ें पाठ छिपाएँ
म ० १ ९ -२१ ] वेदार्थ पारिजातभाष्यसहिता
ति॒स्र इडा सर॑स्वती॒ भर॑तो म॒रुतो॒ विश॑ः ।
वि॒राट् छन्द॑ इ॒हेन्द्रि॒यं धे॒नुर्गौर्न वयो॑ दधुः ॥ १ ९ ॥
११ मन्त्रार्थ - इडा, भूमि और सरस्वती नामक तीनों देवियां, धारणावती बुद्धि, इन्द्र की प्रजा, विराट् छन्द और दूध देने वाली गाय – ये सब मिलकर यजमान में बल और आयु की वृद्धि करें ॥ १ ९ ॥ . तिस्रो देव्य इडा सरस्वती भारती प्रयाजदेव्यः मरुतो विश इन्द्रप्रजा विराट् छन्दो धेनुर्न दोग्ध्री गौश्च नशब्दश्चार्थे । एते षड् इहेन्द्रे इन्द्रियं वयश्च दधुः । अध्यात्मपक्षे - परमात्मरूपा इडादयोऽधिकारिणि मनुष्ये इन्द्रे इन्द्रियं वीर्यं वयोऽन्नं सत्त्वमायुश्च दधुः । दयानन्दस्तु – ' यथेहेडा सरस्वती भारती च तिस्रो मरुतो विशो विराट् छन्द इन्द्रियं धेनुगौर्न वयश्च दधुः, तथा सर्वे मनुष्या एतद् धृत्वा वर्तेरन् ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात् पृथिव्यादीनां जडाना -मिन्द्रियजडादिधारणे प्रवृत्त्यसम्भवात्, गौः कथं किं पिबतीत्यनुक्तेश्च ॥ १ ९ ॥
त्वष्टा॑ तु॒रोपो॒ अद्भूत इन्द्रा॒ग्नो पुष्टिवर्ध॑ना ।
द्विप॑दा च्छन्द इन्द्रि॒यमक्षा गौर्न वयो॑ दधुः ॥ २० ॥
मन्त्रार्थ - पूर्णता को प्राप्त सर्वव्यापी अद्भुत कर्म वाला महान् त्वष्टा देवता, पुष्टिवर्धक इन्द्र और अग्नि, द्विपाव छन्द और सेचन में समर्थ वृषभ - ये पाँवों देवता यजमान में बल और आयु की स्थापना करें ॥ २० ॥
त्वष्टा, प्रयाजदेवः, इन्द्राग्नी, द्विपदा च्छन्दः, उक्षा सेक्ता गौश्च पञ्चेन्द्रे इन्द्रियं वयश्च दधुः । कीदृश-स्त्वष्टा तुरीपस्तूर्णमाप्नोति व्याप्नोतीति तुरीपोऽद्भुतः, अद् कदाचिदेव भवतीति अद्भुतः । अथवा अद् कदाचिदपि न भवतीति अद्भुतो महान् । कीदृशाविन्द्राग्नी? पुष्टिवर्धना पुष्टिवर्धन पुष्टि धनादिपोषं वर्धयेते इति तथोक्तौ । नश्चार्थः । अध्यात्मपक्षे -- त्वष्ट्रादयो भगवद्भूता इन्द्रे देवराजे जीवे वा इन्द्रियं वयश्च दधुः । दयानन्दस्तु – हे मनुष्याः, येऽद्भुतस्तुरीपस्त्वष्टा पुष्टिवर्धनेन्द्राग्नी द्विपदाच्छन्द इन्द्रियमुक्षा गौर्न वयो दधुस्तान् विजानीत ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात् सम्बोधनस्य निर्मूलत्वाच्च । अनड्वान् गौरेव यथाऽष्टादश्यां कण्डिकायां क्रियान्वयी, तथैव गौर्न इत्यत्रापि गौरित्यस्यान्वयोपपत्त्या इवार्थकल्पनानुपपत्तेः,
नकारस्य चार्थत्वेऽपि बाधाभावात् । कश्च सेचनसमर्थ इत्यस्यानुक्तेश्व ॥ २० ॥
शमिता नो वनस्पतिः सवि॒ता प्र॑स॒वन् भग॑म् ।
ककुप् छन्द॑ इ॒हेन्द्रि॒यं व॒शा वे॒हद् वयो॑ दधुः ॥ २१ ॥
मन्त्रार्थ - सुखदायक वनस्पति और धन को देने वाले सविता, ककुप् छन्द, बन्ध्या और गर्भघातिनी गाय- - ये सभी यजमान में बल और आयु का आधान करें ॥ २१ ॥
वनस्पतिः प्रयाजदेवः, सविता सूर्यः, ककुप् छन्दः, वशा वष्टीति वशा, वन्ध्या गौः ' वशिरण्योरुपसंख्यानम् ' ( ० पा ० सू ० ३ | ३ | ५८, वा ० १ ) इत्यप् । वेहच्च विहन्ति गर्भमिति वेहद गर्भघ्नो गौः, एते पञ्च इह इन्द्रे इन्द्रियं वयश्च दधुः । ' संश्व तृपद्वेहत् ' ( उ ० २२८६ ) इति साधुः । कीदृशो वनस्पतिः? नोऽस्माकं शमिता श सुखयतीति शमिता ' शमिता यज्ञे ' ( पा ० सू ० ६ । ४ । ५४ ) इति णिचो लोपः । कीदृशः सविता? भगं प्रसुवन् •• धनं प्रेरयन् दददिति यावत् ।
पृष्ठ 45
पाठ पढ़ें पाठ छिपाएँ
१२ शुक्लयजुर्वेदसंहिता [ अ ० २१ अध्यात्मपक्षे— वनस्पत्यादयो भगवद्रूपा इन्द्रे इन्द्रियं वयश्च दधुः । दयानन्दस्तु -- ' हे मनुष्याः यः शमिता वनस्पतिः सविता भगं प्रसुवन् ककुप् छन्द इन्द्रियं वशा वेहच्च नो वयो दधुस्तान् यूयं विज्ञाय उपकुरुत ' इति, तदपि तुच्छम् असम्बद्धत्वात् । वशा वेहच्च कथं जगति वयः-प्राप्तियोग्यं वसु धास्यत इत्यस्यानिरूपणात् ॥ २१ ॥
स्वाहा॑ य॒ज्ञं वरु॑णः सुक्ष॒त्रो भेष॒जं क॑रत् ।
अति॑च्छन्दा इन्द्रि॒यं बृ॒हद॑ष॒भो गौर्वयो॑ दधुः ॥ २२ ॥
मन्त्रार्थ - हमारी रक्षा करने वाले वरुण देवता, स्वाहाकृत प्रयाज देवताओं के साथ इन्द्र के लिये हम औषध रूप यज्ञ को समर्पित करते हैं । अतिच्छन्द और श्रेष्ठ वृषभ इन्द्र में बल और आयु की स्थापना करें ॥ २२ ॥
सुक्षत्रः त्राणं त्रः, क्षतात् नाशात् त्रः क्षत्रः । सुष्ठु शोभनः क्षत्रो यस्यासौ सुक्षत्रः शोभनक्षतत्राता वरुणः, स्वाहा स्वाहाकृतिभिः प्रयाजदेवैः सह नामैकदेशे नामग्रहणम्, यज्ञं शेषजं यज्ञलक्षणमौषधमिन्द्राय करत् करोतु । किश्च, अतिच्छन्दाश्छन्दो बृहद् महान् ऋषभः समर्थो गौर्वरुणच स्वाहाकृतय एते चत्वार इन्द्रे इन्द्रियं वयव दधुर्दधतु । अध्यात्मपक्षे - क्रियाकारकद्रव्याणि सर्वाण्यपि ब्रह्मभूतान्येव ' ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ' ( भ ० गी ० ४।२४ ) इति गीतोक्तः । दयानन्दस्तु हे मनुष्याः, यूयं यथा वरुणः सुक्षत्रः स्वाहा यज्ञं भेषजं च करतु, योऽतिच्छन्दा ऋषभो गौर्बृहदिन्द्रियं वय धत्तस्तथैव सर्वे दधुः, एतज्जानीत ' इति तदपि यत्किञ्चित् असम्बद्धत्वादेव, यज्ञौषधस्य चानिरूपणात् । सङ्गमः क्रियारूपः, तस्य च द्रव्यात्मकेन औषधेन सामानाधिकरण्यायोगात्, अतिच्छन्दश्छन्दसो गोश्च धनादिधारणोपयोगानिरूपणाच्च ॥ २२ ॥
वसन्तेन॑ ऋ॒तुना॑ दे॒वा वस॑वस्त्रि॒वृता॑ स्तु॒ताः ।
रथन्त॒रेण॒ तेज॑सा हविरिन्द्रे वयो॑ दधुः ॥ २३ ॥
मन्त्रार्थ - त्रिवृत् स्तोम और रथन्तर पृष्ठ द्वारा स्तुति किये गये वसन्त ऋतु सहित आठों वसु तेज के साथ हवि और आयु की स्थापना करें ॥ २३ ॥
देवता इन्द्र में ' याज्यानुवाक्याश्च वपापुरोडाशपशूनां वसन्तेन ऋतुनेति ' ( का ० श्र ० १ ९ ७ १ ४ ) । चकाराद्वायोधसे पशावेव षडृचो यथाक्रमं वपापुरोडाशपशूनां याज्याः पुरोनुवाक्याश्च भवन्तीति सूत्रार्थः । तद्यथा वसन्तेनेति ( २३ ) पुरोनुवाक्या, ग्रीष्मेणेति ( २४ ) याज्या वपायागे, वर्षाभिरिति ( २५ ) पुरोऽनुवाक्या, शारदेनेति ( २६ ) याज्या पशुपुरोडाशयागे, हेमन्तेनेति ( २७ ) पुरोऽनुवाक्या, शैशिरेणेति ( २८ ) याज्या हृदयादियागे चेति विभावनीयम् । अनुष्टुभः षड् लिङ्गोक्तदेवताः । वयोधा इन्द्रो देवतेत्यर्थः । वसन्तेन ऋतुना तदधिष्ठात्रा देवेन त्रिवृता स्तोमेन रथन्तरेण पृष्ठेन साम्ना च स्तुताः वसवो देवा इन्द्रे तेजसा सह हविर्वपाख्यं वयः शक्ति च दधुर्दधतु, स्थापयन्तु । अध्यात्मपक्षे - ब्रह्मस्वरूपा वस्वादय इन्द्रे हविर्वयश्च दधुः ।
पृष्ठ 46
पाठ पढ़ें पाठ छिपाएँ
म ० २३-२६ ] वेदार्थ पारिजात भाष्यसहिता १३ दयानन्दस्तु -- ' हे मनुष्याः, ये वसवो देवाः स्तुताः, त्रिवृता वसन्तेन वसन्तर्तुना सह वर्तमानाः, रथन्तरेण तेजसा इन्द्रे हविर्वयो दधुस्तान् स्वरूपतो विज्ञाय सङ्गच्छध्वम् ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात्, निर्मूलाध्याहारमूलकत्वाच्च, वैदिकवृत्तान्तानभिज्ञानाच्च । त्रिवृत्पञ्चदशादयः स्तोमा भवन्ति, रथन्तरादीनि सामानि भवन्तीति वैदिकप्रसिद्धिः । त्रिवृता त्रिषु कालेषु यो भवति, स कथं कादाचित्कत्वेनानुभूयते? किमिदं तेजो यद्रथेन तरणीयम्? न च तत्सौरमेव, तस्य रथेनापि तरणासम्भवात् ॥ २३ ॥
ग्रीष्मेण॑ ऋ॒तुना॑ दे॒वा रु॒द्राः प॑ञ्चद॒शे स्तु॒ताः । बृ॒हता यश॑सा॒ बल॑ ह॒विरिन्द्र वयो॑ दधुः ॥ २४ ॥
मन्त्रार्थ - पंचदश स्तोम और बृहत्पृष्ठ साम द्वारा स्तुति किये गये ग्रीष्म ऋतु सहित रुद्र देवता इन्द्र में यश सहित बल, हवि और आयु की स्थापना करते हैं ॥ २४ ॥
ग्रीष्मेण ऋतुना सह पञ्चदशे पञ्चदशेन स्तोमेन, विभक्तिव्यत्ययः, बृहता पृष्ठेन च स्तुता रुद्रा देवा इन्द्रे यशसा सह हविर्बलं वयश्च दधुः । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु - ' हे मनुष्याः, ये स्तुता रुद्राः पञ्चदशे ग्रीष्मेणर्तुना बृहता यशसेन्द्र हविर्बलं वयव दधुः, तान् यूयं जानीत ' इति, तदपि यत्किञ्चित् प्राणानां मध्यमविदुषां वाऽचेतनत्वादल्पज्ञत्वाच्च तेषां जीवे बलाद्याधानेऽसामर्थ्यात् ॥ २४ ॥
व॒र्षाभि॑र्बा॒तुना॑दि॒त्याः स्तोमे॑ सप्तद॒शे स्तु॒ताः ।
वरू॑पेण॑ वि॒शोज॑सा ह॒विरिन्द्र वयो दधुः ॥ २५ ॥
मन्त्रार्थ- - सप्तदश स्तोम और विरूपपृष्ठ साम द्वारा स्तुत वर्षा ऋतु सहित आदित्य देवता इन्द्र में प्रजा के द्वारा ओज सहित हवि और आयु की स्थापना करते हैं ॥ २५ ॥
वर्षाभिऋतुना सह सप्तदशे स्तोमे सप्तदशेन स्तोमेन, * तृतीयार्थे सप्तम्यौ, विभक्तिव्यत्ययः, वैरूपेण पृष्ठेन साम्ना च स्तुता आदित्या देवा इन्द्रे विशा प्रजया ओजसा च सह हविर्वयश्च दधुः । अध्यात्मपक्षे – सार्वात्म्यमत्र द्योत्यते । दयानन्दस्तु – हे ' मनुष्याः, ये वर्षाभिॠतुना वैरूपेणौजसा विशा सह वर्तमाना आदित्याः सप्तदशे स्तोमे स्तुता इन्द्रे हविर्वयो दधुस्तान् यूयं विज्ञायोपकुरुत ' इति, तदपि यत्किञ्चित् पञ्चदश सप्तदश- स्तोमादिपदेन तावन्तो व्यवहारा उच्यन्त इत्यस्य निर्मूलत्वात् । वैरूपादिपदार्थोऽपि निर्मूल एव ॥ २५ ॥
शा॒र॒देन॑ ऋ॒तुना॑ दे॒वा ए॑कवि॒शॠभवः॑ स्तु॒ताः ।
वराजेन श्रिया श्रियं ह॒विरिन्द्र वयो दधुः ॥ २६ ॥
मन्त्रार्थ -- एकविंश स्तोम और वैराजपृष्ठ साम के द्वारा स्तुति को प्राप्त हुए लक्ष्मी और शरद् ऋतु सहित ऋभु नामक देवता इन्द्र में लक्ष्मी, हवि और आयु की स्थापना करते हैं ॥ २६ ॥
पृष्ठ 47
पाठ पढ़ें पाठ छिपाएँ
१४ शुक्लयजुर्वेदसंहिता [ अ ० २१ शारदेन ऋतुना सह एकविंशे एकविंशेन, तृतीयार्थे सप्तमी, स्तोमेन वैराजेन पृष्ठेन विराट्छन्दः सम्बन्धिना साम्ना श्रिया लक्ष्म्या च स्तुताः, ऋभव ऋभुसंज्ञका देवा इन्द्रे श्रियं हविर्वयश्च दधुर्दधतु, ' खर्परे शरि वा विसर्ग लोपो वक्तव्य: ' ( पा ० सू ० ८ । ३ । ३६, वा ० १ ) इति विसर्ग लोपः । अध्यात्मपक्षे - भगवद्रूपा ऋभवस्तैस्तैर्भगवद्रूपैरेव शारदादिभिः स्तुता इन्द्रे देवराजे जीवे वा तत्तत्कर्मानुसारं श्रियं हविर्वयश्च दधुः । दयानन्दस्तु – ' हे मनुष्याः, य एकविंशे स्तुता ऋभवो देवाः शारदेनर्तुना वैराजेन श्रिया सह वर्तमाना इन्द्रे श्रियं हविर्वयश्च दधुस्तान् यूयं सेवध्वम् ' इति, तदपि यत्किञ्चित्, एकविंशव्यवहारस्यानिरूपणात् । पूर्वेऽपि देवा विद्वांस एवासन्, एषां तैः को भेद इत्यनुक्तेश्व ॥ २६ ॥
हेमन्तेन॑ ऋ॒तुना॑ दे॒वास्त्रण॒वे म॒रुत॑ः स्तु॒ताः ।
बलैन शक्व॑रीः सहो हविरिन्द्र ) वयो॑ दधुः ॥ २७ ॥
मन्त्रार्थ - त्रिणव स्तोम और शक्वरीपृष्ठ साम के द्वारा स्तुत हेमन्त ऋतु सहित मस्त देवता इन्द्र में बल सहित हवि और आयु की स्थापना करते हैं ॥ २७ ॥
हेमन्तेन ऋतुना सह त्रिवे त्रिणवेन तृतायार्थे सप्तमी, स्तोमेन, शक्वरीरिति शाक्वरस्य साम्नो योनि-निर्देशः, शक्वरीछन्दस्कायामृचि, गीतेन शाक्वरेणेति भावः । शाक्वरेण पृष्ठेन साम्ना च स्तुता मरुतो देवा बलेन सह इन्द्रे सह इन्द्रियसामर्थ्य हविर्वयश्च दधुः । अध्यात्मपक्षे -- ब्रह्मविवर्तरूपा मरुतो देवराज इन्द्रे जीवात्मनि वा तत्तत्कर्मानुसारेण बलादिकं दधुः । दयानन्दस्तु ' हे मनुष्याः ये त्रिणवे हेमन्तेनर्तुना सह वर्तमानाः स्तुता मरुतो बलेन शक्वरीः सहो हवि इन्द्रे स्तान् सेवध्वम् ' इति, तदपि यत्किञ्चित् सप्तविंशव्यवहारस्य निष्प्रमाणत्वात् मनुष्याणा-मल्पशक्तीनामन्यत्र जीवेषु बलाद्याधानासामर्थ्यात् । किञ्च यदि पूर्वोक्तजीवेषु बलसहआदिकं दधति, तदा कथम के जीवास्तद्रहिता भवन्ति? ॥ २८ ॥
श॒शि॒िरेण॑ ऋ॒तुना॑ दे॒वास्त्र॑यस्त्र॒िज्ञेऽमृता॑ः स्तु॒ताः ।
स॒त्येन॑ दे॒वतो॑ क्ष॒त्रधि॑ ह॒विरिन्द्र े वयो॑ दधुः ॥ २८ ॥
मन्त्रार्थ - त्रिश स्तोम और रक्तपृष्ठ साम के द्वारा स्तुत शिशिर ऋतु सहित अमृत नामक देवताओं ने इन्द्र में सत्यसहित क्षात्र तेज, हवि और आयु की स्थापना की थी ॥ २८ ॥
शैशिरेण ऋतुना सह त्रयस्त्रिशेन तृतीयार्थे सप्तमी, स्तोमेन रेवतीरिति रैवतस्य साम्नो योनिनिर्देशः । रैवतेन च पृष्ठेन साम्ना अमृता अमृतसंज्ञका देवाः सत्येन सह क्षत्रं क्षतत्राणं हविर्वच इन्द्रे दधुर्दधतु । अध्यात्मपक्षे - शैशिराद्यधिष्ठातृदेवताभिः सह अमृता ब्रह्मात्मका देवा इन्द्रे जीवे बलादिकं दधुः । दयानन्दस्तु - ' हे मनुष्याः येऽमृताः स्तुताः शैशिरेणर्तुना देवाः सत्येन सह त्रयस्त्रिशे विद्वांसो रेवतीरिन्द्रे हविः क्षत्रं वयव दधुस्तेभ्यो भूम्यादिविद्याः गृह्णीत ' इति, तदपि यत्किचित् तादृशाध्याहारस्य निर्मूलत्वात् । पूर्व पञ्चदशादिशब्दैर्व्यवहारा गृहीताः इह मन्त्रे तमर्थमपहाय वस्वादिदेवानां ग्रहणे बीजानुक्तेः । स्वरूपेण सर्वेऽमृता इति तादृशव्याख्यायास्तात्पर्यं वक्तव्यम् ॥ २८ ॥
पृष्ठ 48
पाठ पढ़ें पाठ छिपाएँ
म ० २ ९ -३० ] W वेदार्थपारिजातभाष्यसंहिता १५ होता॑ यक्षत्स॒मिधाग्निमिडस्प॒दे ऽश्विनेन्द्र सरस्वतीम॒जो धूम्रो न गोधूम॒ः कुव॑लेर्भेष॒जं मधु श ैर्न तेज॑ इन्द्रि॒यं पयः॒ सोम॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्य॒न्त्वा॒ज्य॑स्य॒ होत॒र्यज॑ ॥ २ ९ ॥ मन्त्रार्थ - यहाँ से बारह मन्त्र प्रेष कहलाते हैं । आहवनीय वेदि में स्थित दिव्य होता समिधा से अग्नि को, अश्विनीकुमार, इन्द्र और सरस्वती को आहूत करते हैं, अर्थात् इनके निमित्त आहवनीय स्थान में आहुति देते हैं । उसमें धूम्रवर्ण का अज, गेहूँ, बदरी फल और अंकुरित व्रीहि सहित मधुर औषधियां होती हैं, जो कि तेज और बल को देने वाली हैं । अश्विनीकुमार, सरस्वती और इन्द्र देवताओं से पूजित होकर जल का सारभूत, महौषधियों से निचोड़ा या सोम रस मधु और घृत का पान करता है । हे हवन करने वाले मनुष्य! तुम भी इसी प्रकार घृत हवन कर देवताओं को प्रसन्न करो ॥ २ ९ ॥ ' होता ' यक्षत्समिधाग्निमिति प्रयाजषास्त्रिपशो: ' ( का ० श्र ० १ ९ ६ । १४ ) । होता यक्षत्समिधाग्निमिडस्पद इत्यादयो सूत्रार्थः । द्वादशाप्रीणां प्रयाजयाज्यानां द्वादश sfusar स्त्रिपशोः प्रयाजप्रैषाः स्युरिति षा अश्विसरस्वतीन्द्रदेवत्याः । तत्र आद्या अष्टिः । अथ मन्त्रार्थः - दैव्यो देवसम्बन्धी होता समिधा प्रयाजदेवता सह अग्निमश्विना अश्विनौ इन्द्रं सरस्वतीं च इडः पदे गोपदे आहवनीये यक्षद् यजतु गोष्पदेऽवस्थित-माहवनीयमग्निमश्व्यादिदेवताश्च यजत्वित्यर्थः । तत्र यागेऽजो धूम्रो न, नकारौ समुच्चयार्थों, अजो धूम्रो मेषश्च गोधूमैः कुवलैर्बदरैः शष्पैरङ्कुरितव्रीहिभिव सहितो भेषजमौषधं भवति, इन्द्रायेति शेषः । कीदृशं भेषजम्? तत्राह - मधु मधुरं तेजस्तेजःप्रदम् इन्द्रियम् इन्द्रियसामर्थ्यप्रदम् । किञ्च तेऽश्विसरस्वतीन्द्रा देवा दैव्येन होत्रेज्यमानाः सन्तः पयः परिस्रुता सुरया सह सोमः सोमं घृतं मधु च व्यन्तु पिबन्तु । सोम इति विभक्तिव्यत्ययः । हे होतर्मनुष्य होतः त्वमप्याज्यस्य यज अश्व्यादिभ्य आज्यं देहि । कर्मणि षष्ठी, यजतिश्च दानार्थः । अध्यात्मपक्षे - दैव्यो होताग्निमिडस्पदे गोपदे आहवनीयरूपेणावस्थितमग्निमश्व्यादिदेवताश्च यक्षद् यजतु । देवता- द्रव्य - कर्म कर्त्रादिकं - सर्वमपि ब्रह्मात्मकमेव, तस्मादग्न्यादिरूपेण भगवानेवेज्यते । दयानन्दस्तु - ' हे होतः, यथा होता दाता इडस्पदे पृथिव्यन्नस्थाने समिधेन्धनैरग्निमश्विनौ इन्द्रं सरस्वती-मजो धूम्रो न कचिज्जीवो गोधूमैः कुवलैर्भेषजं यक्षत्, तथा शब्पैर्न यानि तेजो मध्विन्द्रियं पयः परिस्रुता सह सोमो घृतं मधु व्यन्तु तैः सह वर्तमानमाज्यस्य यज ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात् पृथिव्यन्न-स्थानेऽग्निसूर्यचन्द्रजीववागादीनां सङ्गतिकरणं किमर्थमित्यनुक्तेः । धूम्रवर्णेन मेषेण तुल्यो जीवः कथमत्र कर्ता? जीवस्य नीरूपत्वात् कथं धूम्रवर्णत्वमुपपद्यते? ॥ २ ९ ॥ होता॑ यक्ष॒त्तनूनपा॒ात् सर॑स्वती॒मव॑मे॒षो न भेष॒जं प॒था मधु॑मता॒ भर॑न॒श्विनेन्द्रा॑य वी॒र्यं॑ बद॑रैरुष॒वाका॑भिर्भेष॒जं स्तोक्म॑भि॒ पय॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु व्य॒न्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३० ॥
W मन्त्रार्थ - दिव्य होता ने प्रयाज देवता, सरस्वती और अश्विनीकुमारों का यजन किया है । इस यज्ञ में बेर, इन्द्रयव, अंकुरित व्रीहि, अजा और मेष का दुग्ध घृत, इन्द्र के निमित्त रस वाली यज्ञमार्ग से बल को पुष्ट करने वाली औषधियाँ आहुति के रूप में दी जाती हैं, परिस्रुत दुग्ध, सोम और मधुर घृत का अश्विनीकुमार और सरस्वती आदि देवता पान करते हैं । हे आहुति देने वाले मनुष्य! तुम भी इसी प्रकार घृत से यजन करो ॥ ३० ॥
पृष्ठ 49
पाठ पढ़ें पाठ छिपाएँ
१६ शुक्लयजुर्वेदसंहिता | अं ० २१ एकाधिक अत्यष्टि: । तनूनपादिति प्रथमा द्वितीयार्थे । इन्द्रायेति चतुर्थीद्वितीयार्थे । नकारश्चार्थकः । दैव्य होता तनूनपात् तनूनपातं प्रयाजदेवं सरस्वतीमश्विना अश्विनौ इन्द्राय न इन्द्रं च यक्षद् यजतु । तत्र यागे अविरजो मेषश्च । नश्चार्थे । मधुमता मधुररसवता पथा यज्ञमार्गेण भरन् आत्मानं हरन् सन् बदरैर्बदरीफलैः, उपवाकाभिरिन्द्रयवैः, तोक्मभिरङ्कुरितव्रीहिभिर्यवैर्वा सहितो वीर्यं वीर्यकरं भेषजं भवति । अश्विसरस्वतीन्द्रा दैव्येन होत्रा इज्यमाना पयआदीनि व्यन्तु । हे होत:, त्वमपि आज्यस्य यज आज्यं देहि | अध्यात्मपक्षे - ब्रह्मणः सार्वात्म्यविवक्षया सौत्रामणीयागे दैव्यो होता ब्रह्मात्मकैर्द्रव्यैर्ब्रह्मात्मकान् अश्वि-प्रभृतीन् देवान् यथा यजति तथैव लौकिकोऽपि होताऽऽज्येन तान् यजतीत्याह मन्त्रः । दयानन्दस्तु – ' हे होतः, यथा तनूनपाद् होता सरस्वतीमविर्मेषो न मधुमता पथा भेषजं भरन्निन्द्रायाश्विना वीयं बदरैरुपवाकाभिर्भेषजं यक्षत्, तथा यानि तोक्मभिः पयः परिस्रुता सह सोमो घृतं मधु च व्यन्तु । तैः सह वर्तमानस्त्वमाज्यस्य यज ' इति, तदपि यत्किञ्चित् असम्बद्धत्वादेव । तन्वा उनं पाति स तनूनपादिप्यत्यसङ्गतम्, निरर्थकत्वात् । हिन्दीभाष्ये पातीत्यस्य पूरयतीत्यर्थः कृतः सोऽपि निर्मूल एव । होता आदाता बहुज्ञानवतीं वाचं मधुमता मार्गेण भेषजं भरन्निति केन किं श्लिष्यते? मेषाजाभ्यां मार्गे कीदृक् साधर्म्यमभिप्रेतम्? किञ्च, तेन विवक्षितमित्यस्याप्य स्पष्टत्वात् । भावार्थस्तु मन्त्रार्थेभ्यो दूरतो निरस्तः ॥ ३० ॥
E होता॑ यक्ष॒न्नरा॒शध॑सं॒ न न॒ग्नहुं पति॒ सुर॑या भेष॒जं मे॒षः सर॑स्वती भि॒षग्रथो॒ न च॒न्द्रय-श्विनो॑र्व॒पा इन्द्र॑स्य वा॒यं बद॑रैरुय॒वाहा॑भिरे॑ष॒जं तोक्म॑भिः॒: पय॒ सोम॑ परि॒स्रुता॑ घृ॒तं मधु व्यन्त्वाज्य॑स्य॒ होता॑र्यज॑ ॥ ३१ ॥
मन्त्रार्थ- देवताओं के होता ने मनुष्यों के द्वारा स्तुत रक्षक औषधियों की आहुति दी, महौषधि का रस, बेर, इन्द्रयव और व्रीहियों सहित मेष का घृत, अश्विनीकुमार का सुवर्णमय रथ और घृतसार को सरस्वती ने इन्द्र के निमित्त बलकारक औषधि के रूप में कल्पित किया था, उसके रस के साथ दूध, सोम और मधुर औषधि रूप घी को पिलाया था । हे होता! तुम भी घृत के द्वारा इनका यजन करो ॥ ३१ ॥
दैव्यो होता नराशंसं प्रयाजदेवं सरस्वती सरस्वतीं भिषग् भिषजोरश्विनो रथो रथं च यक्षद् यजतु । कीदृशो रथः? चन्द्रं सुवर्णमस्मिन्नस्तीति चन्द्री सुवर्णमय: । ' स्वर्णेऽपि भूरिचन्द्रौ द्वौ ' ( अ ० को ० ३।३।१८२ ) इति कोषात् । कीदृशं नराशंसम्? पतिम् जगतोऽधिपतिम् । यज्ञो हि नराशंसः, स आहुतिपरिणामद्वारा जगद्विर्भात । अश्विनो रथस्य यजनं नासमञ्जसमनुसन्धेयम्, रथस्यापि तदात्मकत्वेनादोषात् । तथा चाह बृहद्देवतायाम् –‘आयुधं वाहनं वापि स्तुतौ यस्येह दृश्यते । तमेव तु स्तुतं विद्यात् तस्यात्मा बहुधा हि सः ॥ ' ( ४ । १४३ ) इति । तथा चाह भगवान् यास्कोऽपि - ' आत्मजन्मान आत्मैवैषां रथो भवत्यात्माश्वा आत्मायुध-मात्मेषवः ' ( निरु ० ७ | ४ ) इति । तत्र सुरया सह नग्नहुम्, नग्नहुः पूर्वोक्तः, किण्वो मेषः, वपा बहुत्वात् त्रिपशुसम्बन्धिन्यो वा बदरैरुपवा काभिर्यवै स्तोक्मभिश्च व्रीहिभिः सहिता इन्द्रस्य वीर्यकरमौषधं भवतु । अश्व्यादयः पयआदीनि पिवन्तु । हे मनुष्यहोतः त्वमपि आज्यस्य यज आज्यं देहि । भेषजशब्दाभ्यास आर्षः । उम्टाचार्यरीत्या तु- दैव्यो होता नराशंसं पतिं सुरया सहितं नग्नहुं च यक्षद् यजतु । भेषजं मेष इन्द्रस्य करोत्विति वाक्यशेषः । सरस्वती भिषग् इन्द्रस्य भवतु । रथो न चन्द्री अश्विनो, रथश्च भिषगिन्द्रस्य
पृष्ठ 50
पाठ पढ़ें पाठ छिपाएँ
म ० ३१-३२ ] वेदार्थपारिजातभाष्यसहिता १७ भवतु । कथंभूतो रथः? चन्द्री | अश्विनोः सम्बन्धी । वपा इन्द्रस्य वीर्यं कुर्वन्त्विति शेषः । बदरैरुपवाकाभिः स्तोमभिरिन्द्रस्य भेषजं भवत्विति शेषः । अध्यात्मपक्षे --- पूर्ववदेव यज्ञगतैस्तैस्तैः संस्कारैरिन्द्रस्य जीवस्य भेषजं भवति, ब्राह्मीयं क्रियते तनु: ' ( मनु ० २ २८ ) इति स्मृतेः । ' महायज्ञैश्च यज्ञैश्च दयानन्दस्तु --- ' हे होतः, यथा होता दाता नराशंसं न यो नरैराशस्यते प्रशस्यते तमिव नग्नहं यो नग्नान् दुष्टान् जुहोति कारागारे निक्षिपति, तं पति स्वामिनं सुरया उदकेन सह वर्तमानं मेषमिन्द्रस्य वीयं यक्षत् । मेष उपदेष्टा, सरस्वती विद्यासम्बन्धिनी वाक्, भिषग्. वैद्यः, रथो न रथ इव चन्द्र बहुविधं सुवणं विद्यते यस्य स चन्द्री । अश्विनोर्द्यावापृथिव्योर्वपा वपनीयाभिः क्रियाभिर्बदररूपवाकाभिः सह भेषजं यक्षत्, तथा यानि तोक्मभिः सह पयः स्तुताः स सोमो घृतं मधु च व्यन्तु । तैः सह वर्तमानस्त्वमाज्यस्य यज ' इति, तन्न, वैदिकप्रसिद्धिविरुद्धार्थाङ्गीकारेऽपि विशृङ्खलितार्थत्वात् ॥ ३१ ॥
होता॑ यक्षदि॒डेड॒त आ॒जुह्वा॑न॒ः सर॑स्वती॒मिन्द्रं बलेन व॒र्धय॑न्तृष॒भेण॒ गवे॑न्द्रि॒यम॒श्विनेन्द्रा॑य भेष॒जं यवैः कंन्धु॑भि॒र्मधु लाजैर्न मात॑रं॒ पय॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्य॒न्त्वा॒ज्य॑स्य॒ होत॒र्यज॑ ॥ ३२ ॥
6 मन्त्रार्थ - देवताओं के होता ने प्रशंसित वाणी से स्तुत होकर इडा आदि देवियों का आह्वान किया और बलवती गौ के घृत दुग्ध आदि से बल को बढ़ाते हुए सरस्वती, इन्द्र और अश्विनीकुमारों के निमित्त यज्ञ किया । उस यज्ञ में बेर, इन्द्रजौ आदि बलकारक औषधियों को इन्द्र के निमित्त उन देवताओं ने प्रदान किया है । हे होता! तुम भी इन द्रव्यों के द्वारा उक्त देवताओं का यजन करो ॥ ३२ ॥
दैव्य होता ऋषभेण गवा धेन्वा च बलेन वर्धयन् इडादीन् समर्धयन् ईडितः संस्तुत ऋत्विग्भिरिडादीन् आजुह्वान इडा इडां प्रयाजदेवतां सरस्वतीमिन्द्रमश्विनौ च यक्षद् यजतु । तत्र यवैर्लाजंश्च सहितं मधु मासरमोदनं निःस्रावं च इन्द्राय इन्द्रियं वीर्यकरं भेषजं भवति । अश्विसरस्वतीन्द्रा होत्रेज्यमानाः पयआदीनि पिबन्तु । हे होतः, त्वं च तेभ्य आज्यं देहि । उव्वाचार्यरीत्या तु होता यक्षद् यजतु । कीदृशः सः? इडेडित इडया प्रयाजदेवतया ईडितः स्तुतः । किं कुर्वन्? आजुह्वानः सरस्वतीम् इन्द्रमश्विना सरस्वतीमिन्द्रमश्विनौ च आह्वयन् ' यस्य येनार्थसम्बन्धो दूरस्थ -स्यापि तस्य तत् । अतो समानानामानन्तर्यमकारणम् ॥ ' इत्यभियुक्तोक्तेः । किञ्च, इन्द्रं बलेन वर्धयन् ऋषभेण गवा च इन्द्रस्य इन्द्रियं वर्धयन् मधु मासरं च, उपादायेति शेषः । यवैः कर्कन्धुभिर्लाजैश्च भेषजमिन्द्रस्य वर्धयन् अश्विसरस्वतीन्द्राश्च दैव्येन होज्यमानाः पयःप्रभृतीनि व्यन्तु । हे मनुष्य होतः, त्वमपि आज्यस्य यज, तेभ्य आज्यं देहीत्यर्थः । अध्यात्मपक्षे --- भगवदाराधनबुद्ध्याऽनुष्ठितेन सौत्रामणीयागेन दैव्यो होता ऋत्विगादिभिरीडितः सरस्वत्यादीन् पूर्वोक्तान् देवान् आजुह्वानो बलेन इन्द्रं देवराजं वर्धयन् ऋषभादिभिरिन्द्रस्य इन्द्रियं वर्धयन् यजतु । अश्व्यादय इज्यमानानि पयआदीनि पिबन्तु । हे मनुष्यहोतः त्वं च तेभ्य आज्यं देहि । अनया या जीवात्मरूप इन्द्रेऽपि बलं वर्धते । ३