वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 51–60

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 51–60

पृष्ठ 51

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 51 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८ शुक्लयजुर्वेदसंहिता [ अ ० अ ० २१ दयानन्दस्तु – ' हे होतः, य इडेडित आजुह्वानः सत्कारेणाहूतो होता बलेन सरस्वतीं वाचमिन्द्रमृषभेण गन्तुं योग्येन गवा इन्द्रियमश्विना यवैरिन्द्राय भेषजं वर्धयन् कर्कन्धुभिर्मधुलजैर्न मासरं यक्षत् । तथा यानि परिस्रुता सह सोमः पयो घृतं मधु व्यन्तु तैः सह वर्तमानस्त्वमाज्यस्य यज ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात् । न च प्रसिद्धेषु श्रौतेषु यागेषु भक्तरसमध्वादिकं हूयते, न वा तथा विधीयते । भावार्थे तु रोगान् हत्वा आरोग्यप्राप्तिसम्पादनमुपदिश्यते, मूलेन तत्सम्बन्ध एव नास्ति । संस्कृतव्याख्यानवदेव हिन्दीव्याख्यानमप्यस्पष्टमेव । आजुह्वान इत्यस्य सत्कारेणाहूत इत्यर्थोऽप्यसङ्गत एव कर्तृप्रत्ययविरोधात् । होता प्रशंसनीयो मनुष्यो बलेन सरस्वतीं वाणीमिन्द्रमैश्वर्यम्, चलनार्हेण उत्तमेन गवा इन्द्रियं धनमश्विनौ द्यावापृथिव्यौ यवादिभिरन्तैरिन्द्रियैश्वर्याय भेषजं वर्धयन्नित्यपि निःसारमेव, यवादिभिर्द्यावापृथिव्योवर्धनादर्शनात् । कर्कन्धुक्रियापि त्वदभ्यूहरूपैव सर्वथापि दुःसाहसमेव ॥ ३२ ॥

होतो यक्षद्हरूणैस्रदा भि॒षङ्नास॑त्या भि॒षजा॒श्विनाश्वा॒ शिश॑मती भिषग्धेनुः सर॑स्वती भि॒षग् दुह इन्द्राय भेष॒जं पयः सोमं परि॒स्रुत घतं मध व्य॒न्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३३ ॥

मन्त्रार्थ - देवताओं के होता ने उनके समान कोमल प्रयाज देवताओं के सत्यस्वरूप देवताओं के, वंद्य अश्विनी-कुमार और सरस्वती के निमित्त यजन किया था । इससे बाल अवस्था वाली घोड़ी और बछड़े वाली गौ चिकित्सक का । हे होता! तुम भी काम करती है । इन्द्र के निमित अश्व आदि की दक्षिणा के रूप में ये देवता भेषज को पूर्ण करते हैं भेषज के द्वारा इनका यजन करो ॥ ३३ ॥

दैव्यो होता ऊर्णम्रदा ऊर्णमिव दीयो बहिः प्रयाजदेवं भिषजौ सुवैद्यौ नासत्या नासत्यो न सत्यो असत्यौ न असत्यौ नासत्यौ सर्वदा दृढसत्यरूपौ तौ भिषजा भिषजौ सुवैद्यौ अश्विना अश्विनौ सरस्वती सरस्वतीं च यक्षद् यजतु । तत्र शिशुमती स्वशावकोपेता अश्वा वडवा, भिषक् धेनुभिषक्, भिषग् च इन्द्राय भेषजमौषधं दुहे दुग्धे प्रपूरयति । अश्वादयोऽत्र दक्षिणारूपेणोपयुज्यन्ते । ' लोपस्त आत्मनेपदेषु ' ( पा ० सू ० ७ १।४१ ) इति तलोपः । ते सर्वे पयआदीनि पिबन्तु । हे होतः, त्वं च तेभ्य आज्यं देहि । यद्वा - होता यक्षद् यजतु, प्रकृता देवता इति शेषः । बर्हिश्च प्रयाजदेवताम् । सा च ऊर्णम्रदा ऊर्णेव मृदुभिषग् भवतु । छान्दसो लिङ्गव्यत्ययः । भिषग् वैद्यः । नासत्या भिषजाश्विना नासत्या नासाप्रभवौ । ' पृषोदरादीनि यथोपदिष्टम् ' ( पा ० सू ० ६।३।१० ९ ) इति साधीय: । अश्विनौ भिषजौ भवतामिन्द्रस्य । अश्वा वडवा शिशुमती धेनुश्व इन्द्रस्य भिषग् भवतु । इत्थम्भूता हि सा दक्षिणा पठ्यते । कस्मात्पुनरेवमाशास्यते? इत्यत आह - सरस्वतीति । यतः सरस्वती भिषक् स्वयमेव दुहे दोग्धि इन्द्राय भेषजम्, अतो यूयमपि भिषजो भवथेति । शेषं पूर्ववत् । अध्यात्मपक्षे — यथानुपहुतसोमपानाद् भ्रष्टस्य इन्द्रस्य वीर्यं नमुचिरसुरोऽपिवत् । तत्र देवैरिन्द्रस्य भैषज्यं कृतम् । तत्र अश्विनौ सरस्वती च भिषजः, सौत्रामणी त्वौषधम् । तथा च ब्राह्मणम् ' त्वष्टा हतपुत्रः । अभिचरणीयमुपेन्द्र सोममाहरत् तस्येन्द्रो यज्ञवेशसं कृत्वा सोममपिबत् स विष्वङ् व्यार्छत् तस्य मुखात् प्राणेभ्यः श्रीयशसान्यूर्ध्वान्युदक्रामंस्तानि पशून् प्राविशंस्तस्मात् पशवो यशो यशो ह भवति य एवं विद्वान् सौत्रामण्याभिषिच्यते । ततोऽस्मा एतमश्विनौ च सरस्वती च यज्ञ ७ समभरन् सौत्रामणी भैषज्याय तयैनमभ्यषिश्र्वंस्ततो वै स देवाना श्रेष्ठोऽभवच्छ्रेष्ठः स्वानां भवति य एनयाभिषिच्यते ' ( श ० १२।८।३।१-२ ) । तथैवेन्द्रस्य परमात्मन एवांशभूतो जीवोऽपीन्द्र एव सन् मायामोहितो भूत्वा अदत्ताद्दानाद् विशीर्यते । तस्य

पृष्ठ 52

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 52 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३३-३४ ] वेदार्थ पारिजात भाष्यसंहिता १ ९ दीनि ततो विनिःसृत्यान्यत्र गतानि भवन्ति । सर्वे देवास्तं भिषज्यन्ति । तत्राश्विनौ सरस्वती च भिषजः सर्वे महात्मानः कारुणिकाः सन्तश्चात्र देवाः । रामलक्ष्मणौ बलकृष्णावश्विनौ, महाशक्तिः श्रीसीता राधा वा सरस्वती । तत्र भगवदाराधनबुद्धया सौत्रामण्युपलक्षितविविधयागानुष्ठानेन संस्कृतोऽभिषिक्तो जीवोऽपि सर्वा आर्तीरीप्सामूला उन्मूल्य अविद्यां तत्परिवारांच attar तत्त्वज्ञानादिक्रमेण ब्रह्मात्मभावं स्वाराज्यमाप्नोति । दयानन्दस्तु – ' हे होतः, यथा होतोर्णम्रदा भिषक् शिशुमती अश्वा च दुहे बहिर्यक्षत् नासत्यावश्विनौ भिषजा यजेतां भिषग् धेनुः सरस्वती भिषगिन्द्राय यक्षत्, तथा यानि परिस्रुता भेषजं पयः सोमो घृतं व्यन्तु तै: सह वर्तमानस्त्वमाज्यं यज ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात् । प्रशंसितबाला वडवा कस्य पूर्णतायै अन्तरिक्षं सङ्गता स्यात्? उत्तमवैद्यौ किमर्थं सङ्गतौ स्याताम्? रोगनिवारको भिषग् धेनुरुत्तमविज्ञानवती वाणी भिषक् च जीवाय सङ्गच्छेरन्नित्यादिकमपि विशृङ्खलमेव, अल्पज्ञानां जडानां च तादृशाभिप्रायेण प्रवृत्त्यनुपपत्तेः ॥ ३३ ॥

होता॑ य॑क्ष॒द् दुरो॒ दिश॑ः कव॒ष्यो॒ न व्यव॑स्वतीर॒श्विभ्यो॒ न दुरो दिश॒ इन्द्रो॒ न रोद॑सी॒ दुधे हे धे॒न॒ः सर॑स्वत्य॒श्विनेन्द्राय भेष॒जं शुक्रं न ज्योति॑रिन्द्रि॒यं पयः॒ सोम॑ः परि॒स्रुत घृ॒तं ध॒ व्य॒न्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३४ ॥

मन्त्रार्थ - देवताओं के होता ने दिशाओं के समान अवकाश वाले झरोखों गमनागमन के योग्य द्वारों की देवियों के, इन्द्र सरस्वती तथा अश्विनीकुमारों के निमित्त यजन किया, जहाँ दिशाओं के समान द्वार, अश्विनीकुमारों के साथ परिपूर्णता को प्रदान करने वाले द्यावापृथिवी तथा इन्द्र के निमित औषध को पूर्ण किया था । सरस्वती ने धेनु बन कर इन्द्र के निमित्त शुद्ध तेज और वीर्य को पूर्ण किया था । हे होता! तुम भी इसी प्रकार देवताओं का यजन करो ॥ ३४ ॥

दैव्यो होता दुरो यज्ञद्वार: प्रयाजदेवी इन्द्र इन्द्रं सरस्वती सरस्वतीं अश्विना अश्विनौ च यक्षद् यजतु । नकाराचार्थाः । दुरं इति द्वारशब्दस्य सम्प्रसारणम् । कीदृशीर्द्वार:? दिशः दिश इव सावकाशाः । कवष्यः सच्छिद्राः । अत एव व्यचस्वतीः " व्यचो व्यवनं विविधं गमनं विद्यते यासु ताः, अधिकृतजनगमनवत्यः । दिशो दिक्तुल्या दुरो द्वारः । अश्विभ्यामधिष्ठिता यज्ञगृहद्वारो दिश इव बभूवुः । रोदसी द्यावापृथिव्यौ इन्द्राय भेषजं दुहे दुग्वे । कीदृश्यौ रोदसी? दुधे, दुग्ध इति दुधे, ' दुहः कब्वश्र्व ' ( पा ० सू ० ३।२।७० ) इति हकारस्य घकारः, अभीष्टपूरके । सरस्वती च धेनुर्भूत्वा इन्द्राय शुक्रं शुक्लं शुद्धं ज्योतिरिन्द्रियं वीयं च दुहे दुग्धे । यद्वा इन्द्रो रोदसी दुधे । इन्द्रव या द्वारोऽधिष्ठाय रोदसी द्यावापृथिव्यौ दुघे दुग्धवान् । हकारस्य घकारः । यावाधिष्ठाय सरस्वती धेनुर्भूत्वा अश्विनौ च दुहे । कस्मै च दुहे? किञ्च दुहे? इत्यत आह- इन्द्राय दुहे । भेषजं शुक्रं शुक्लं ज्योतिश्च इन्द्रयं दुहे तादृशीर्द्वारो यजत्विति सम्बन्धः । अश्विसरस्वतीन्द्राश्च पयःप्रभृतीनि व्यन्तु । हे मनुष्य होतः त्वमाज्यस्य यज । .. अध्यात्मपक्षे - तत्तधिष्ठातारो ब्रह्मात्मका देवा इन्द्राय शुक्लं ज्योतिर्दुहत इत्यभिप्रायः ॥ ३४ ॥

पृष्ठ 53

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 53 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२० शुक्लयजुर्वेद संहिता [ अ ० २१ होता॑ यक्षत्सु॒पेश॑स॒षे नक्त॒न्दिव॒श्विना॒ सम॑ञ्जते॒ सर॑स्वत्या॒ त्विषि॒मिन्द्रे न भे॑ष॒ज श्ये॒नो न रज॑सा हृदा प्रि॒या न मास॑रं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्य॒न्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३५ ॥

मन्त्रार्थ - देवताओं के होता ने सुन्दर रूप वाले दिन - रात, सरस्वती तथा अश्विनीकुमारों के निमित्त यजन किया था, इस यज्ञ में उन्होंने रात - दिन की ज्योति के द्वारा चित्त और लक्ष्मी के साथ औषध - यव आदि को, औषधिके जल, श्येनपत्र तथा कान्ति को इन्द्र में संश्लिष्ट किया था । हे होता! तुम भी इन्हीं द्रव्यों से उक्त देवताओं का यजन करो ॥ ३५ ॥

दैव्यो होता सुपेशसा सुरूपे उषे द्विवचनाद्रात्रिश्व नक्तोषे प्रयाजदेवौ सरस्वत्या सहितौ अश्विनौ च यक्षद् यजतु, तौ चाश्विनौ नक्तं दिवा दिने च रजसा ज्योतिषा, रजः शब्दो ज्योतिर्वचनः, हृदा चित्तेन, श्रिया च सह मासरं भेषजं मासररूपमौषधं श्येनः श्येनपत्रं त्विषि कान्ति च इन्द्रे समझाते संश्लेषयतः । ते आदीनि व्यन्तु । हे मनुष्यहोतः त्वमाज्यस्य यज । यद्वा नक्तं दिवा रात्रावहनि च सरस्वत्या सहितौ यावश्विनो इन्द्रे त्विषि दीप्ति भेषजं च संश्लेषयतः, या श्येनो रजसा ज्योतिषा हृदा हृदयेन श्रिया न श्रिया च मासरमुपादाय इन्द्रे समनक्ति, तं च होता यजतु । श्येनः सूर्यः । स हि श्येनपक्षिवत् स्वच्छन्दमन्तरिक्षे चरति । शेषं पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे—- दैव्यो होता सुपेशसा सुपेशसौ सुष्ठु शोभनं पेशो रूपं ययोस्ती, उषे नक्तोषे तदभिमानिनौ प्रयादेव तु । यो चाश्विनौ नासाधिष्ठातृदेवौ इन्द्रे देवराजे जीवे च विषि दीप्तिं भेषजमस्वास्थ्यनिवारकं समञ्जाते संश्लेषयतः, यश्च श्येनश्चिदाकाशे स्वच्छन्दविहरणशीलः सूर्यमण्डलाधिष्ठातृदेवो रजसा ज्योतिषा श्रिया च सह मासरमुपादाय इन्द्रे समनक्ति, तं च होता यजतु । शेषं पूर्ववत् । दयानन्दस्तु - ' हे होतः, यथा सुपेशसौ सुखरूपे स्त्रियौ उषे कामं दहन्त्यौ नक्तं दिवा अश्विनौ सूर्याचन्द्रमसौ सरस्वत्या विज्ञानवत्या वाचा इन्द्रे त्विषिम् ऐश्वर्यवति प्राणिनि भेषजं जलं समजाते, न च रजसा सह श्येनो न होता श्रिया न हृदा मासरं यक्षत्तथा यानि परिस्रुता पयः सोमो घृतं मधु व्यन्तु तैः सह वर्तमानस्त्वमाज्यस्य यज ' इति, तदपि यत्किञ्चित् असम्बद्धत्वादेव । के ते स्त्रियौ? कथं च ते कस्मिन्नश्वर्यवति प्राणिनि दीप्ति जलं च समझाते? सूर्याचन्द्रमसोस्तत्र कथमुपयोगः? कथं च श्येनपदवाच्यो विद्वान्? लोकैस्तस्य कथं सहभावः? सर्वथापि निरर्थकोऽयं व्यापारः ॥ ३५ ॥

होता॑ यक्षि॒द्दैव्या॒ होता॑रा भि॒षजाश्विनेन्द्रं॒ न जागृ॑वि दिवा॒नक्तं॒ न भेष॒जैः शूव॒ सर॑स्वती भि॒षक् सोमे॑न इ॒ह इन्द्रि॒यं पय॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्य॒न्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३६ ॥

मन्त्रार्थ -- देवताओं के होता ने देवसम्बन्धो हवि के वाहक अग्निदेव, मध्यम प्रयाजवेब, वंद्य अश्विनीकुमार और इन्द्र का यजन किया था । दिन - रात जागने वालो, अपने कार्य को सिद्ध करने में साबधान, वैद्य का काम करने वाली सरस्वती ने औषधियों के साथ बल और वीर्य को बढ़ाने वाले शीशे से रसायन का निर्माण किया था । इन्हीं यजन करती थी । है होता! तुम भी इन्हीं द्रव्यों से अग्नि आदि देवताओं का द्रव्यों से वह उषय देवताओं का वजन करो ॥ ३६ ॥

पृष्ठ 54

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 54 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३६-३७ ] वेदार्थ पारिजातभाष्यसहिता २१ दैव्यो देवानां सम्बन्धी होता ह्वाता दैव्या दैव्यौ होतारा होतारौ अयमग्निरसौ च मध्यमो वायुस्तावेतौ प्रयाजदेव भिषजो सुरवैद्यौ अश्विनौ इन्द्रं च यक्षद् यजतु । नकाराश्चार्थीयाः । भिषग्भूता सरस्वती दिवानक्तं जागृवि जागरणशीला सती स्वकार्यसाधने कदाचनाप्यप्रमत्ता, ' जनस्तृजागृभ्यः क्विन् ' ( उ ० ४।५५ ), प्रातिपदिकत्वात् सौ, ' सुपां सुलुक् ' ( पा ० सू ० ७ १ ३ ९ ) इति सोलुकि रूपम् । इन्द्रम् इन्द्रार्थं भेषजैः सह शूषं बलमिन्द्रियं वीर्यं च सीसेन कृत्वा दुहे दोग्धि । तां च दैव्यो होता यजतु । अश्व्यादयः पयआदीनि ' व्यन्तु 1 हे मनुष्य होतः त्वमाज्यस्य यज । अध्यात्मपक्षे - ब्रह्मविवर्तो ब्रह्मरूपो दैव्यो होता ब्रह्मात्मकावेव दैव्यो होतारौ यक्षद् यजति । भिषक् सर्वरोगनिवर्तिका सरस्वती ब्रह्मविधारूपा जागृवि स्वकार्यसाधने जागरूका दिवानक्तं भेषजैः शमदमादिभिः सह बलं निष्ठादार्यं सीसेन सीसवत् स्वच्छेन विचारेणेन्द्रियं वीर्यं च इन्द्रार्थं जीवाथं दुग्वे । दयानन्दस्तु - ' हे होतः, यथा होता दैव्यौ होतारौ भिषजौ अश्विनौ इन्द्रं न यक्षद् दिवानक्तं जागृवि सरस्वती भिषग् भेषजैः सीसेन शूवं न इन्द्रियं दुहे, तथा यानि परिस्रुता पयः सोमो घृतं मधु व्यन्तु तैः सह् वर्तमानस्त्वम् आज्यस्य यज ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात् । दैव्यौ होतारौ भिषजो कथं सङ्गतौ करणीय? तत्र विद्युत उपमानस्य कोऽभिप्रायः? वैद्यकशास्त्रविज्ञात्री स्त्री भिषक् च जलैर्धनुर्व्यवहारेण मूलवद् धनं पूरयतीति त्वदुक्तरीत्याऽर्थाङ्गीकारेऽपि तेन किं सिद्ध्यति? किं सरस्वतीभिषजो धनुर्व्यापारयिष्यतः? सीसपदस्य कथं धनुरर्थः? एवं प्रकारेणोल्लङ्घयापि शब्दमर्यादां सर्वमपि निःसारमेव ॥ ३६ ॥

होता॑ यक्षत्तत्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ोऽपस रूपमिन्द्रे॑ हिर॒ण्यय॑म॒श्विनेडा न भारती वाचा सरस्वती मह ह इन्द्रि॒यं पय॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्य॒न्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३७ ॥

मन्त्रार्थ - देवताओं के होता ने इड़ा, भारती और सरस्वती नामक तीन प्रयाज देवियों के तथा इन्द्र और afrati कुमारों के निमित्त यजन किया था । कर्मवान् त्रयीरूप वेदवाणी से औषधियों को प्रकाशित कर इन्द्रिय - बल को बढ़ाने के लिये इन्द्र के निमित्त सरस्वती ने इस अनुष्ठान को पूर्ण किया था । हे होता । तुम भी इसी प्रकार इड़ा आदि का यजन करो ॥ ३७ ॥

दैव्यो होता इडा भारती सरस्वती चेति तिस्रो देवी: प्रयाजदेवता या इन्द्रे भेषजं कुर्वन्ति ता इन्द्रे इन्द्रम् अश्विना अश्विनौ च यक्षद् यजतु । नद्वयं समुच्चयार्थीयम् । सरस्वती वाचा वेदत्रयीरूपया त्रयस्त्रिधा -तस्त्रिभिः पशुभि इन्द्रार्थमौषधं हिरण्ययं दीप्यमानं रूपं महस्तेज इन्द्रियं च दुहे दुग्धे । त्रयस्त्रिधातव इति तृतीयार्थे प्रथमा । त्रयो धातव इति प्रधानाङ्गोपाङ्गलक्षणा: प्रकारा येषां ते त्रिधातवः पशवः । ते च त्रय आश्विनो धूम्रः, सारस्वतो मेष: ऐन्द्र ऋषभः । कीदृशाः पशवः? अपस:, ' अप इति कर्मनामसु ' ( निघ ० २1१1१ ), तद्वन्तोऽपश्विनः कर्मवन्तः । छान्दसम् अपस् इति । तादृशैः क्रमोपयुक्तैस्त्रिभिः पशुभिः भेषज-रूपेन्द्रिय महांसि इन्द्राय दुग्धे प्रपूरयन्ति । अग्नयो वा त्रयस्त्रिधातवः, तैस्त्रिभिरग्निभि गर्हिपत्याहवनीय दक्षिणा-निभिस्तत्सवं दुग्धे । दयानन्दस्तु - हे ' होतः, यथा होता तिस्रो देवीनं भेषजं यक्षत्, यथापस स्त्रिधातवस्त्रयो हिरण्ययं रूपमिन्द्रे यजेरन्, अश्विनेडा भारती च । सरस्वती वाचेन्द्राय मह इन्द्रियं दुहे । यथा यानि परिस्रुता पयः सोमो घृतं मंधु व्यन्तु तैः सह वर्तमानस्त्वमाज्यस्य यज ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात्, होतृपदस्य

पृष्ठ 55

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 55 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२ शुक्लयजुर्वेदसंहिता [ अ ० २१ विद्यादानाद्यर्थताया निर्मूलत्वात् । देवीरित्यस्य दीप्त्यर्थतासत्त्वेऽपि नीत्यर्थताऽसम्प्रतिपत्तिः । त्रयस्त्रिधातव-स्त्रयस्तदस्मद्युष्मत्पदवाच्या दधति सर्वान् विषयानिति धातवः त्रयो धातवो येषां ते जीवा इत्यपि यत्किञ्चित्, अजीवानामपि त्रिगुणत्वेन त्रिधातुत्वोपपत्तेः । अन्यदपि नितान्तमसम्बद्धम् ॥ ३७ ॥

होता॑ यक्षत्सु॒रेत॑समृष॒भं नर्योपसं॒ त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ भि॒षजा॒ न सर॑स्वती॒मोजो॒ न जुतिरि॑न्द्रि॒यं वृकॊ न र॑भ॒सो भि॒षग्यश॒ः सुर॑या भेष॒जधि॑ प्रि॒या न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्य॒न्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३८ ॥

मधु मन्त्रार्थ - - दिव्य होता ने सुन्दर वर्षा के लक्षण वाले वीर्य से युक्त, वृष्टि के प्रवर्तक, मनुष्यों के हितकारी स्वष्टा नामक प्रयाज देवता का इन्द्र, अश्विनीकुमार और सरस्वती रूप चिकित्सकों के निमित्त यजब किया था । इन्होंने उद्यमयुक्त वैद्य, वृक और महौषधि के रस एवं ऐश्वर्य के साथ यजन किया था । इसमें मासर, पक्वान्न आदि औषधियों के रूप में प्रयुक्त हुए । इस यज्ञ के अनुष्ठान से इन्द्र अवश्य ही तेज वेग, बल और यश के भागी होते हैं । हे होता, तुम भी इन पदार्थों से स्वष्टा आदि देवताओं का यजन करो ॥ ३८ ॥

अत्रापि नकाराः समुच्चयार्थीयाः । होता त्वष्टारं प्रयाजदेवमिन्द्रमश्विना अश्विनौ सरस्वतीं भिषजं च यक्षद् यजतु । त्वष्टारं विशिनष्टि - सुरेतसमिति । सुष्ठु शोभनं रेतो वीयं वृष्टिलक्षणं यस्य स सुरेताः, यद्वा सुष्ठु रेतो यस्मात् स सुरेताः तम् । पुंसो रेतःकारणभूतम् । ऋषभं वर्षितारम् । नर्यापसं नरेभ्यो हितं नर्यम्, नर्यमपः कर्म यस्यासौ नर्यापाः तम् । तादृशं त्वष्टारं होता यजतु । केन यजत्वित्यपेक्षायामाह - रभसो भिषग् वृक इति । रभसः सोद्यमो दक्षो भिषग् वैद्यभूतो यो वृकस्तेन । तृतीयार्थे प्रथमा । सौत्रामण्यां सुरायां वृकलोमानि प्रक्षिप्यन्ते, अतो वृकेन सुरया च यजतु । तथा भेषजं यन्मासरं तेन च यजतु । एवं सति यागे ओजस्तेजः, जूतिर्वेगः, इन्द्रियं वीर्यम्, श्रिया सह यशश्च इन्द्रे, भवन्त्विति शेषः । शेषं पूर्ववत् । यद्वा ओजो जूतिर्जव इन्द्रियं च वीर्यरूपो यो रभसः सोद्यमो दक्षो भिषग्भूतो वृकः, तेन यजतु । सुरायां वृकलोम्नां प्रक्षेपेण वृकगता ओजआदयो गुणा उद्भवन्ति । तथा मासरमुपादाय सुरया च यजतु । यशो भेषजं श्रिया सह इन्द्रे यजमाने वा भवन्तु । अन्यत् पूर्ववत् । अध्यात्मपक्षे - पूर्ववत् । दयानन्दस्तु - ' हे होतः, त्वं यथा होता सुरेतसमृषभं बलीवदं नर्यापसं त्वष्टारं दुःखच्छेत्तारमिन्द्रं परमैश्वर्यवन्तमश्विनौ वायुविद्युतौ भिषजं न वैद्यमिव सरस्वती बहुविज्ञानयुक्तां वाचमोजो न बलमिव जुतिर्वेग इन्द्रियं मनो वृको वज्रं रभसो वेगं यशो धनं बलं वा सुरया भेषजं श्रिया न इव मासरं संस्कृतभोजनं यक्षत् प्राप्नुयात् तथा परिस्रुता सर्वतोऽभिगतेन पुरुषार्थेन पयः पातुं योग्यं सोममैश्वर्यं घृतं मधु च व्यन्तु । तैः सह वर्तमानस्त्वमाज्यस्य यज ' इति, तदपि यत्किचित् असम्बद्धत्वात् ॥ ३८ ॥

होता॑ यक्षद्वन॒स्पति॑ शमि॒तार॑ श॒तक्र॑तुं भीमं न म॒न्यु राजनं व्याघ्रं नम॑सा॒श्विना भाम॒ सर॑स्वती भि॒षगिन्द्रा॑य इ॒ह इन्द्रि॒यं पय॒ सोम॑ः परि॒स्रुता॑ घृ॒तं मधु॒ व्य॒न्स्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ३ ९ ॥

पृष्ठ 56

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 56 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३ ९ -४० ] वेदार्थ पारिजातभाष्यसहिता २३ मन्त्रार्थ - दिव्य होता ने क्रोधरूप भयदायक अनेक यज्ञों के सम्पादक, संस्कार करने वाले, वनस्पतिरूप प्रथाज dear के लिये विशेष कर सूंघने वाले व्याघ्र के समान राजा शतक्रतु इन्द्र के लिये, अश्विनीकुमार और सरस्वती के लिये और बल को दुहा था । हे होता! तुम भो अझ के द्वारा यजन किया था । वैद्यरूप सरस्वती ने इन्द्र के निमित क्रोध उक्त देवताओं के निमित्त इसी प्रकार यजन करो ॥ ३ ९ ॥ दैव्यो होता वनस्पति प्रयाजदेवं शमितारं पशूनां संस्कर्तारं भीमं यूपरूपेण भयङ्करं मन्युं क्रोधात्मानं व्याघ्रं विशेषेण आसमन्ताज्जिघ्रतीति व्याघ्रस्तम्, व्यात्रमिव राजानमारण्यानां शतक्रतुं बहुकर्माणम् इन्द्रमश्विनौ सरस्वतीं च नमसान्नेन यक्षद् यजतु । भिषग्वैद्यरूपा या सरस्वती इन्द्राय भीमं भयङ्करं मन्युं क्रोधमिन्द्रियं च दुहे दोग्धि तां च दैव्यो होता यजतु । इज्यमानास्ते वनस्पत्यादयः पयआदीनि पिबन्तु । हे मनुष्यहोतः, त्वमप्याज्यस्य यज । अध्यात्मपक्षे - भौमरथादिरूपेण भूमिरिव तत्तत्क्रियाकारकद्रव्यदेवतादिरूपेण परमात्मैव क्रीडति । दयानन्दस्तु – ' हे होतः, यथा भिषग् होता इन्द्राय वनस्पतिमिव शमितारं शतक्रतुं भीमं न मन्युं नमसा व्याघ्रं न राजानं यक्षत् । सरस्वती अश्विनौ भीमं दुहे तथा परिस्रुता इन्द्रियं पयः सोमो घृतं मधु व्यन्तु, तैः सह त्वमाज्यस्य यज ' इति, तदपि यत्किञ्चित्, अनुपपत्तेः, असङ्गतेः असम्बद्धत्वाच्च । वनस्पतिपदस्य किरणपालकत्वार्थानुपपत्तिः, भीमं न मन्युं नमसेत्यसङ्गतिश्च ॥ ३ ९ ॥ होता॑ यक्षद॒ग्निः स्वाहा॒ज्य॑स्य स्तो॒कानाएं स्वाहा॒ मेद॑सा॒ पृथक् स्वाहा छाग॑म॒श्विभ्या॑ स्वाहा॑ मे॒षधि॒ सर॑स्वत्यै॒ स्वाहा॑ ऋषभमिन्द्रय सहाय सहस इन्द्रिय स्वाहाग्निं न मे॑ष॒जधि॒ स्वाहा॑हा॒ सोम॑मिन्द्रि॒य स्वाहेन्द्र॑ सु॒त्रामा॑णं सवि॒तानां॒ वरु॑णं स्वाहा वन॒स्पति॑ प्रि॒यं पाथो॒ न भे॑षज स्वाहा॑ दे॒वा आ॑ज्य॒पा अ॑षा॒णो सोम॑ः परि॒स्रुता॑ घृ॒तं मधु॒ व्य॒न्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ ४० ॥

भि॒षजा॒ पति॒ Û अ॒ग्निर्भेष॒जं पय॒ मन्त्रार्थ - विध्य होता ने घृत के उत्तम बिन्दुओं से अग्नि का यजन किया, मेशवर्धक पदार्थ से अग्नि का यजन किया । अश्विनीकुमारों के निमित्त छाग को, सरस्वती के निमित्त मेद की, सिंह के समान पराक्रमी बलरूप इन्द्र के निमित्त उपयोगी बलसम्पन्न वृषभ की आहुति दी और हितकारी अग्नि की स्तुति की । बलकारी सोम की भी आहुति दी । सुरक्षक इन्द्र, सविता देवता और बंधों के पति वरुण के निमित्त आहुति दी । प्रिय अन्नभूत भेषज की वनस्पति के निमित्त आहुति दी । आज्यपा नामक घृत पीने वाले देवता, औषधि सेवन करने वाले अश्विनीकुमार, सरस्वती, इद्र आदि देवता सोम का पान करें । हे मनुष्य होता! तुम भी उनको प्रीति के निमित्त घृत आदि की आहुति वो ॥ ४० ॥

दैव्यो होता अग्नि प्रयाजदेवमाहवनीयं वा यक्षद् यजतु । किञ्च, आज्यस्य घृतस्य स्तोकानां विप्रुषां स्वाहा सुष्ठु शोभनमाह वदतीति स्वाहा । ' द्वयचोऽतस्तिङ: ' ( पा ० सू ० ६ | ३ | १३५ ) इति दीर्घः, यजमान इति शेषः । यजमानो घृतबिन्दून् शोभनान् वदतीत्यर्थः । स्तोकानामिति कर्मणि षष्ठी । तथैव यजमानो मेदसां पृथक् स्वाहा, वपासम्बद्धानां मेदसां वपासम्बन्धीनि मेदांसि समीचीनानि पृथग् वदति । वपाः श्रयमा आज्येनाभिघार्यन्ते, तदभिप्रायमेतत् । तथा अश्विभ्यामश्विनोरर्थाय छागं स्वाहा छागं पशु शोभनमाह । सरस्वत्यै मेषं पशुं स्वाहा । इन्द्राय इन्द्रियं वीर्यप्रदमृषभं स्वाहा शोभनमाह । कीदृशायेन्द्राय? सिंहाय, हिनस्तीति सिंहः, तद्वच्छत्रूणामभिभविता, तस्मै । सहसे बलात्मकाय भेषजं न भेषजवद्धितकारिणमग्नि च स्वाहा शोभनमाह ।

पृष्ठ 57

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 57 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४ शुक्लयजुर्वेद संहिता [ अ ० २१ इन्द्रियं वीर्यप्रदं सोमं सु आह । एतावग्नीषोमावाज्यभागी च सु आह । सुत्रामाणं सुष्ठु त्रायते सुत्रामा तमिन्द्रं सवितारं भिषजां वैद्यानां पतिं वरुणं स्वाहा शोभनं वदति । पशुपुरोडाशदेवतां सु आह, प्रियमिष्टं पाथोऽन्नमन्नभूतं भेषजं च पशुदेवतानां वनस्पति प्रयाजदेवं सु आह । आज्यपा देवा आज्यपान् देवान् सु आह, ' प्रयाजानुयाजा वै देवा आज्यपाः ' ( श ० १ ५ ३ २३ ) इति श्रुतेः । स्वाहेति क्रियाया यजमानः कर्ता । ' देवा ह वा ऊचुर्हन्त विजितमेवानु सर्वं यज्ञ, स स्थापयामः ' ( श ० १।५।३।२१ ) इत्युपक्रम्य त उत्तमे प्रयाजे स्वाहाकारेणैव सर्वं यज्ञ समस्थापयन् स्वाहाग्निम् ' ( ११५ ३३२२ ) इति श्रुतेः समाप्तिवचनाः स्वाहाकाराः । जुषाणः प्रीत्या सेवमानोऽग्निरिन्द्राय यजमानाय वा भेषजमौषधं करोतु । भेषजमोषधभूतं जुषाणः सेवमानोऽग्निरव्यादयश्च दैव्येन होत्रेज्यमानाः पयःप्रभृतीनि व्यन्तु । हे मनुष्य होतस्त्वमाज्यं यज । अध्यात्मपक्षे – ब्रह्म ब्रह्मविकारभूतो देव्यो होता ब्रह्मात्मकमग्नि यक्षद् यजति, ब्रह्मभूतश्च यजमानो ब्रह्मभूतान् आज्यस्य बिन्दून् सु आह शोभनं ब्रह्मात्मकमाह । एवमेवोत्तरत्रापि ज्ञेयम् । दयानन्दस्तु - ' हे होतः, यथा होताज्यस्य स्वाहा स्तोकानां मेदसां स्वाहाग्नि पृथक् स्वाहाश्विभ्यां छागं सरस्वत्यै स्वाहा भेषजमिन्द्राय स्वाहर्षभं सहसे सिंहाय स्वाहेन्द्रियं स्वाहाग्नि न भेषजं सोममिन्द्रियं स्वाहा सुत्रामा मिन्द्रं भिषजाम्पतिं सवितारं वरुणं स्वाहा वनस्पति स्वाहा प्रियं पाथो न भेषजं यक्षद्यथाज्यपा देवा भेषजं जुषाणोऽग्निश्च यक्षद्यथा यानि परिस्रुता पयः सोमो घृतं मधु व्यन्तु तैः सहाज्यस्य यज ' इति, तदपि यत्किञ्चित्, आज्यस्य प्राप्तुं योग्यस्य स्तोकानामुत्तमक्रियारूप स्वाहा निरूपणात्, स्निग्धपदार्थाः स्तोकानामिति कस्य विशेषणमित्यनिरूपणाच्च, मेदसां स्निग्धानां स्वाहा सुष्ठुरक्षणक्रियानिरूपणाच्च । किञ्च घृतस्योत्तम -क्रियया स्निग्धानां रक्षणक्रियया च अग्निः स्वाहा भिन्न - भिन्न- रीत्या अश्विभ्यां राज्यस्वामिपशुपालकाभ्या छागं दुःखं छेत्तुं सरस्वत्यै विज्ञानयुक्तवाण्यै उत्तमक्रियया मेषं सेक्तारं परमैश्वर्य परमोत्तमक्रियया ऋषभं यक्षत् सङ्गमदिति योजनेऽपि प्रयोजनानिष्पत्तेः । किञ्च, वनस्पति स्वाहोत्तमविद्यया सङ्गमयेदित्यस्य कोऽभिप्रायः? सर्वानेव कुतो नत्तमविद्यया योजयेत्? तत्तत्पदानां ते तेऽर्था अपि चिन्त्या एव | अश्विपदस्य राज्यस्वामि-पशुपालार्थता कथमिति तु नोक्तम् ॥ ४० ॥

होता॑ यक्षद॒श्विनो॒ छाग॑स्य व॒पाया॒ मेद॑सो जुषेता॑ मे॒षस्य॑ व॒पाया॒ मेद॑सो जु॒षता॑ ह॒विर्होत॒र्यज॑ । होता॑ जता॑ ह॒विर्होत॒र्यज॑ ॥ ४१ ॥

ह॒विर्होत॒र्यज॑ । होता॑ यक्ष॒त्सर॑स्वत यक्ष॒दिन्द्र॑मृष॒भस्य॑ व॒पाया॒ मेद॑सो मन्त्रार्थ - दिव्य होता ने अश्विनीकुमार का यजन किया । छाग की वया की आहुति बी, अर्थात् यजमानों के छागों के पूर्ण पुष्ट होने पर जाना गया कि हवि स्वीकृत हुई । हे होता! तुम भी इसी प्रकार यजन करो । दिव्य होता ने सरस्वती का यजन किया, मेष की वपा को मेदा के रूप में स्वीकार कर हवि को स्वीकार किया, अर्थात् यजमान के मेवों के पूर्ण पुष्ट होने पर जाना गया कि हवि पूर्ण पुष्ट हुई । हे होता! तुम भी इसी प्रकार यजन करो । दिव्य होता ने इन्द्र का यजन किया, वृषभ की वपा की मेदा बनाकर हवि प्रदान की, अर्थात् यजमानों के वृषभों के पूर्ण हृष्ट-पुष्ट होने पर जाना गया कि इन्द्र ने हवि को स्वीकार कर लिया है । हे मनुष्य होता! तुम भी इसी प्रकार यजन करो ॥ ४१ ॥

I ' होता यक्षदश्विनाविति त्रयो वपानां प्रैषा यथालिङ्गम् ' ( का ० श्र ० १ ९ ।६।२२ ) एकस्यामस्यां ' होता यक्षदश्विनौ ' इति कण्डिकायाम् ( १ ) होता यक्षदश्विनौ छागस्य, ( २ ) होता यक्षत्सरस्वतीम्....

पृष्ठ 58

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 58 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४१-४२ ] वेदार्थ पारिजात भाष्यसहिता २५ ( ३ ) होता यक्ष दिन्द्रमृषभस्य इति त्रयो वपात्रयस्य क्रमात् प्रेषा इति सूत्रार्थः । सप्त लिङ्गोक्तदेवताः । तत्राद्यास्त्रयो वपानां प्रैषाः । त्रयाणां प्राजापत्यापक्तिश्छन्दः । द्वितीयस्य द्वयधिका प्रथमतृतीययोरेकाधिका । दैव्यो होता अश्विनौ यक्षद् यजतु । इज्यमानौ तौ छागस्य वपाया मेदसो हविर्जुषेताम्, वपाया मेदः स्निग्धभागरूपं हविः प्रीत्या सेवेतामित्यर्थः । हे होतर्यज । होता सरस्वतीं यक्षत् । सा चेज्यमाना मेषस्य वपाया मेदसो हविर्जुषताम् । हे होतस्त्वं यज । होता इन्द्रं यक्षत् । स इन्द्र इज्यमान ऋषभस्य वपाया मेसो हविर्जुषताम् । हे मनुष्य होतस्त्वमपि यज । अध्यात्मपक्षे- ब्रह्मणः सार्वात्म्यवर्णनप्रसङ्गेन ब्रह्मभूतो दैव्यो होता अश्विनौ ब्रह्मभूतावेव यक्षद् यजतु । एवमुत्तरत्रापि व्याख्येयम् । दयानन्दस्तु - हे ' होतः " त्वं यथा होताऽनेकव्यवहारान् यक्षत् सङ्गमयेत्, अश्विनौ पशुपालकृषीबलौ छागस्य वपाया बीजतन्तुसन्तानिकायाः क्रियाया मेदसो हविर्जुषेताम्, तथा यज । हे होतः त्वं यथा होता मेषस्य पाया बीजवधिकायाः क्रियाया मेदसो हविः सरस्वतीं च जुषताम् यक्षत्तथा यज । हे होतः, त्वं यथा होतर्षभस्य पाया बीजवर्धिकाया रीत्या मेदसो हविरिदं च जुषतां यक्षत्तथा यज ' इति, तदपि यत्किचित्, अश्विन पशुपालकृषीबलार्थबोधने मानाभावात् । तथैव वपापदस्यानेकेऽर्थाः कल्पनामात्रसारा निर्मूला एव । अपि च, लोके यैर्येषां सङ्गतिर्हितकारिणी, तल्लोकत एव सिद्धेति कृतं तदुपदेशपरेण वेदेति ॥ ४१ ॥

होता॑ यक्षद॒श्विनो॒ सर॑स्वती॒मिन्द्र॑ स॒त्रामा॑णमि॒मे सोमा॑ स॒रामा॑ण॒श्छायै॒नं॑ मे॒षेॠषभः सताः शष्यै॒र्न तोक्म॑भिल॒र्जर्मह॑स्वन्तो॒ मद॒ मात॑रेण॒ परि॑ष्कृताः शुक्राः पय॑स्वन्त॒ऽसृताः प्रस्थि॑ता वो मधुश्चुत॒स्तान॒श्विना॒ सर॑स्व॒तीन्द्र॑ः सत्रामा॑ वृत्र॒हा जु॒षन्ता॑धि॒ सोम्यं मधु॒ पिबन्तु मद॑न्तु व्यन्त होत॒र्यज॑ ॥ ४२ ॥

मन्त्रार्थ - दिव्य होता ने अश्विनीकुमार, सरस्वती और सुरक्षक इन्द्र का यजन किया । यह छाग, मेष और aari के द्वारा मनोहर तथा तृण, अन्न, यवांकुर तथा खोलों के तेज से युक्त प्रसन्न करनेवाला, पक्व तण्डुल आदि से शोभित कान्तिमान्, दुग्धयुक्त अमृत रूप हवि की ओर आता हुआ मधु जैसा मिठास टपकाने वाला यह सोम रस आप लोगों के निमित्त प्रस्तुत है । अश्विनीकुमार, सरस्वती और सुरक्षक वृत्रनाशक इन्द्र इनका सेवन करें । मधु के जैसे मधुर सोम का पान करें, तृप्त होकर इस यज्ञ में विराजमान हों । हे होता! तुम भी इन देवताओं की स्तुति करते हुए इनका यजन करो ॥ ४२ ॥

' ग्रहाणां चतुर्थ: ' ( का ० श्र ० १ ९ ६ २३ ) । होता यक्षदश्विनौ सरस्वतीमिन्द्रमिति चतुर्थो ग्रहाणां प्रैष इति सूत्रार्थः । होता अश्विनौ सरस्वतीं सुत्रामाणं सुरक्षितारमिन्द्रं च यक्षद् यजतु । एवं होतारमुक्त्वा अथाध्वर्यूनाह — हे अध्वर्यवः, इमे सोमाः सुरामाणः सुरमणीयाः सुरावन्तो सुरामया वा छागैरजैः, मेषैरविभिव ऋषभैश्च सुता अभिषुताः समर्थीकृताः, तथा शष्पैस्तोक्मभिर्यवाङ्कुरैर्लाजैश्च महस्वन्तस्तेजस्विनः । मदा मदयन्ति तर्पयन्तीति मदास्तृप्तिकारिणः । मासरेण पूर्वोक्तेन परिष्कृता अलङ्कृताः शुक्राः शोचिष्मन्तः पयस्वन्तो पयसा संयुक्ता अमृता अमृततुल्यास्तद्वद्गुणकरा इति यावत् । प्रस्थिता होमाभिमुखं प्रचलिता इव वो युष्मत्सम्बन्धेन, अध्वर्युविषयमेतत् । मधुश्चोतन्तीति मधुश्चुतो मधुस्राविणो विद्यन्ते । तानेतान् सोमान् अश्विनौ सरस्वती सुत्रामा सत्राण इन्द्रो वृत्रहा वृत्रघातको जुषन्ताम्, जुषित्वा च सोम्यं सोममयं मधु पिबन्तु च मदन्तु व्यन्तु राजन्तां '

पृष्ठ 59

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 59 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६ शुक्लयजुर्वेदसंहिता [ अ ० २१ हविर्भक्षयन्तु वा । त्वमपि हे मनुष्यहोतयज । यद्वा हे अध्वर्यवः, इमे सोमा वो युष्माकं युष्माभिः सुता अभिषुताश्छागैर्मेषैर्ऋषभैश्च सुरामाणः सुष्ठु रमयन्ति ये ते सुरमणीया वा सुरावन्तः सुरामया वा । शेषं पूर्ववत् । ----अध्यात्मपक्षे - ब्रह्मभूतो होता तादृशानेव अश्व्यादीन् यजतु । दयानन्दस्तु - ' हे होतः, यथा दाताश्विनौ अध्यापकोपदेशको सरस्वतीं विज्ञानवतीं वाचं सुत्रामाणमिन्द्रं यक्षद् यजेत् । य इमे सुरामाणः सुदातारः सोमाः सुता ऐश्वर्यवन्त सभासदः, अभिषेक इव क्रियाजाताः । छागैर्न ऋषभैः शपसकैर्न तोक्मभिर्लाजैर्महस्वन्तो मदा मासरेण परिष्कृताः शुक्राः पयस्वन्तोऽमृता मधुश्च्युताः प्रस्थिता वो निर्मितास्तान् यक्षत् । यथाश्विना सरस्वती सुत्रामा वृत्रहेन्द्रश्च सोम्यं मधु जुषन्तां पिबन्तु सकलविद्या व्यन्तु तथा यज ' इति, तदपि यत्किञ्चित्, अश्विपदस्य तादृशार्थत्वे मानाभावात् । सोमपदस्य ऐश्वर्यवन्तः सभासदोऽर्थ इत्यपि निर्मूलमेव । न च तेषामभिषेकविधानं श्रूयते । ते च छागैरिव मेषैर्ऋषभैहिसकैरिव तोक्मभिलजैिश्च पयस्वन्तः सत्कारवन्त इत्यप्यर्थासिद्धिः । तस्माद्यत्किञ्चित् । सर्वस्य चैतस्यार्थस्य लौकिकत्वाद् वेदैकसमधिगम्यत्वाभावेन वेदविषयत्वायोगात् ॥ ४२ ॥

होता॑ यक्षद॒श्विनो॒ छाग॑स्य ह॒विषि॒ आत॑म॒द्य म॑ध्य॒तो मे उभृ॑त पुरा द्वेषोभ्यः पुरा पौरुषेय्या भो घस्तां नूनं धा॒से अ॑ज्राणा॒ यव॑सप्रथमानाएं सु॒मत्क्ष॑राणाएं शतरुद्रियाणामग्नि-ध्वात्तानां पोपवसनानां पार्श्वतः श्रणितः शिताम॒त उत्सादतोऽङ्गानां करत एवाश्विन जुषेत ह॒विर्होत॒र्यज॑ ॥ ४३ ॥

मन्त्रार्थ होता ने अश्विनीकुमारों का यजन किया, उन्हें छाग की पोषक हवि प्रदान की, मध्य भाग में मेदा से पूर्ण हवि निश्चित रूप से रखी गई । यज्ञ के द्वेषी असुरों के आने से पहले ही, पुरुषार्थं वाली इड़ा के आने से पहले हो वह हवि अश्विनीकुमारों द्वारा स्वीकार कर ली गई । ग्रास में नवीन रुचि करने वाले अन्नों में मुख्य, अपने आप सुरक्षित, अनेकों मन्त्रों से प्रशंसित, पाक के समय प्रथम अग्नि द्वारा आस्वादित, स्थूल अंग के निकट रहने वाले पार्श्व भाग से, कटि भाग से, पाव स्थान से और उत्सावन स्थान से, प्रत्येक अंगों से धर्मानुसार ग्रहण की गई हवि को अश्विनीकुमार तृप्तिपर्यन्त स्वीकार करें । हे मनुष्य होता! तुम भी घृत से हवन करो । इसका अभिप्राय यह है कि रात - दिन रूप अश्विनीकुमार छाग आदि को हवि को क्षणिक परिणाम से लय करते रहते हैं, उनका कुछ भी शेष नहीं रहता । यह दि t य हवन निरन्तर चलता रहता है । मनुष्यों को चाहिये कि वे प्रतिदिन देवताओं को घृत की आहुति से तृप्त करें ॥ ४३ ॥

' हविषामुत्तरे यथालिङ्गम् ' ( का ० श्र ० १ ९ ६ २४ ) । चतुर्थात् प्रेषादग्रे पठ्यमाना ' होता यक्षदश्विनौ छागस्य हविषः ' इत्याद्यास्त्रयो यथालिङ्गमाश्विनादिहविर्यागानां प्रेषा इति सूत्रार्थः । दैव्यो होता अश्विनौयक्षद् यजतु । ताविज्यमानावश्विनौ देवौ छागस्य छागाङ्गस्य हविषश्छागसम्बन्धि हविरात्ताम् अभक्षयताम् । ‘ अद भक्षणे ' इत्यस्य रूपम् । हविष इति कर्मणि षष्ठी । अद्य अस्मिन्नहनि मध्यत उदरमध्याद् उद्धृतमुद्धृतं द वपारूपमात्ताम् । उद्भुतमित्यत्र ' ग्रहोर्भश्छन्दसि ' ( पा ० सू ०८ / २ / ३२, वा ० १ ) इति हकारस्य भकारः । द्वेषोभ्यो द्विषन्तीति द्वेषांसि ' सर्वधातुभ्योऽसुन् ' ( उ ० ४। १ ९ ० ) इत्यसुन् प्रत्ययः, तेभ्यो यज्ञद्वेष्टृभ्योऽसुररक्षोभ्यः पुरा पूर्वमेवोद्धृतम् । यावदसुररक्षांसि पराभवाय आगच्छन्ति, ततः पूर्वमेवोद्धृतमित्यर्थः । तथा पुरा गृभो गृह्यते भक्ष्यार्थमृत्विग्भिरिति गृप्, तस्या इडायाः पुरा प्रथममुद्धृतम् । वपायागे इडाग्रहणभक्षणाभावात् । कीदृश्या

पृष्ठ 60

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 60 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४३ ] वेदार्थपारिजात भाष्यसहिता २७ गृभः? पौरुषेय्याः, पुरुषार्थमियं पौरुषेयी, ऋत्विगर्या हि सा तस्याः । तावश्विनौ नूनं निश्चयेन अज्ञान सम्बन्धि स्वांशभागं घस्तां भक्षयताम्, अङ्गानि वा भक्षयताम् । कर्मणि षष्ठी । प्रयुक्तैर्विशेषणविशेष्याणामध्याहारः । कीदृशानामङ्गानाम्? घासे ग्रासे अत्राणां भक्षणे अजराणां नवानां नवनवायमानत्वेन रुचिजनकानाम् | अन्यानि घासेषूत्तरोत्तरं रुचि जनयन्ति, नेमानि तथेत्यर्थः । तथा यवसप्रथमानां यवसानामन्नानां मध्ये प्रथमानां मुख्यानाम्, मांसत्वात्, ' एतद्वै परममन्नाद्यं यन्मांसम् ' इति श्रुतेः । सुमत्क्षराणां सुमत् स्वयं क्षरन्ति यानि तानि सुमत्क्षराणि तेषाम् । ' सुमत् ' इति स्वयंपर्यायः । शतरुद्रियाणाम्, ' रुद्र इति स्तोतृनामसु ' ( निघ ० ३ | १६ | १२ ), रुद्रस्य स्तोतुरिमा रुद्रियाः स्तुतयः शतमसंख्या रुद्रिया येषां ते शतरुद्रियाणाम्, अर्थाद्बहुभिर्मन्त्रः स्तुतानाम् । अग्निष्वात्तानाम् अग्निना साधुपाकार्थमासादितानां साधुष्कृतानाम्, अग्निना वा स्वात्तानाम् आस्वादितानाम् । पाककाले पूर्वमग्निना सुटतानामित्यर्थः । पीवोपवसनानाम्, पीवस्शब्दोऽसुन्नन्तः स्थूलवाची, पीवसां स्थूलानामङ्गानामुपसमोपे वसनं स्थितिर्येषां तानि पीवोपवसनानि तेषां स्थूला ङ्गसमीपस्थितानाम्, सूक्ष्माणा-मङ्गानामित्यर्थः । ' उपवसने पीवः ' ( वा ० प्रा ० ३ | ४ ) इति सूत्रेणोपवसने परे पीवसो विसर्गलोपः । किञ्च, पार्श्वतः पार्श्व प्रदेशात् ओणितः कटिप्रदेशात् शितामतो बाहुप्रदेशात् । शितामशब्देन बाहुकृद्योनिमेदांस्युच्यन्ते ( निरु ० ४ | ३ ) | प्रकृते बाहुरेव गृह्यते । उत्सादत, उत्पादनमुत्साद रछेदन प्रदेशः, तस्मात् । एवमङ्गादङ्गात् । अङ्गादिति एकपदम् ' नित्यवीप्सयो: ' ( पा ० सू ० ८1१1४ ) इति द्वित्वम् । प्रसङ्गादवत्तानाम् अवदानधर्मेण गृहीतानामश्विनौ घस्तां तान् भक्षयतामिति सम्बन्धः । सर्वत्र कर्मणि षष्ठी । अथवा अङ्गादङ्गादवत्तानां पार्श्वतोऽवत्तानां पार्श्व परशुमयमङ्गं भवति । श्रोणितोऽवत्तानाम् । एवमश्विनौ हविर्जुषेतां सेवेताम् | भक्षितावदानी तौकरतः कुरुतः, तृप्तिमिति शेषः । विकरणव्यत्ययः । आदरायाभ्यासः । हे मनुष्यहोतस्त्वमपि यज । अध्यात्मपक्षे -- होता अश्विनौ तद्वत् सुन्दरौ रामलक्ष्मणौ यक्षद् यजतु । टौ चेज्यमानौ छागस्य तनुतां गतस्य स्वात्मानमेव भगवद्भोग्यत्वेनोपस्थापयतः सम्बन्धि हविः प्रेमरसात्मकम् अत्तां भक्षयताम् । अद्य अस्मिन्नवसरे मध्यतो हृदयाद् मेदः स्नेहात्मकं तत्त्वं द्वेषोभ्यो द्वेष्टृभ्योऽसुरराक्षसेभ्यो विघ्नार्थं प्रवृत्तेभ्यः प्रागेवोद्भृतम् उच्चैर्धारितं पुरा च पौरुषेय्या गृभो गृह्णातीति गृप् कर्तरि क्विप्, तस्या ग्रहातिग्रहलक्षणायाः पुरुषसम्बन्धिया बाधायाः प्रवृत्तेः पुरैव प्रागेव उद्भुतम् । यावेवं उद्भुतं मेदः प्रेमात्मकं हविरात्ताम्, तावेव अद्य घस्ताम् अ ( स्वादयताम् अङ्गानां प्रेमरसाङ्गानां श्रवणादीनां स्वांशभूतमिति शेषः । अत्र विशेषणे विशेष्यस्य अध्याहारः । कीदृशानामङ्गानाम्? नूनं निश्चयेन घासे ग्रासे, अत्राणाम् अजराणामित्थं नूत्नानां नवनवायमानानां यवसप्रथमानां यवसानामन्नानां भोग्यानां मध्ये प्रथमानां मुख्यानाम् । सर्वभोग्यापेक्षया प्रेमरसाङ्गानां लोकोत्तरत्वं प्रसिद्धमेव । सुमत्क्षराणां सुमत्स्वयं क्षरन्तीति सुमत्क्षराणि तेषाम् । रसमयानां श्रवणकीर्तनस्मरणध्यानार्चनादीनां रसक्षरणशीलानाम् । शतरुद्रियाणां रुद्रस्य स्तोतुरिमा रुद्रियाः स्तुतयः शतं रुद्रिया येषां तेषाम् । वेदपुराणादिषु श्रवणादीनामगणिताः स्तुतयः प्रसिद्धा एव । अग्निष्वात्तानाम् अग्निना विप्रलम्भरूपेण सुश्रुतानां परिपक्वानां पीवोपवसनानां पीवसां स्थूलानामङ्गानामुप समीपे वसनं स्थितिर्येषां तेषाम् । सूक्ष्माणामङ्गानां स्मरणसख्यात्मनिवेदनादीनां पार्श्वतः प्रेमरसाङ्गिनः पार्श्वप्रदेशात् श्रोणितः कटिप्रदेशात् शितामतो बाहुप्रदेशाद् उत्सादत उद् ऊर्ध्वं सादनं परमात्मने स्वात्मार्पणम्, तस्मात् । एवमङ्गादङ्गादवत्तानाम् अवदानधर्मेण गृहीतानाम् अङ्गानां स्वांशभूतम् अङ्गान्येव वा अश्विनौ आस्वादयताम् । एवं तौ हविजुषेताम् । एवं जुषमाणो तो करतः कुरुतः, तृप्तिमिति शेषः । तृप्तौ तौ भक्तानां तृप्तिं कुरुतः । दयानन्दस्तु - ' हे होतः, यथा होता अश्विनौ यक्षत् तौ चाद्य छागस्य मध्यतो हविषो मेद उद्भुतमात्ताम्, या वा पुरा द्वेषोभ्यो गृभो ग्रहीतुं योग्यायाः पौरुषेय्याः पुरुषाणां समूहे साध्व्याः पुरा नूनं घस्ताम् । यथा वा