वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 421–430

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 421–430

पृष्ठ 421

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 421 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८ शुक्लयजुर्वेद संहिता [ अ ० ३३ मेधातिथिदृष्टा गायत्री । वैश्वदेवग्रहपुरोरुक् । ' ओमासश्चर्षणी ' ( वा ० सं ० ७ ३३ ) इत्यस्या: स्थाने ' विश्वेभिः सोम्यम् ' इति ऋक् । हे अग्ने, विश्वेभिः सर्वैर्देवैरिन्द्रेण वायुना च सह सोम्यं सोममयं मधु मधुररसं पिबा पिब | ' शृणुत त्विषिजी ' ( शु ० य ० प्रा ० ३।११७ ) इत्यनेन मकारे परे दीर्घः । कीदृशस्त्वम्? मित्रस्य प्रियस्य धामभिर्नामभिः स्तुतः सन्, ' त्वमग्ने वरुणो जायसे यत् त्वं मित्रो भवसि यत् समिद्ध: ' ( ऋ ० सं ० ५।३।२ ) इति मन्त्रवर्णात् । अध्यात्मपक्षे - हे अग्ने परमेश्वर, त्वं विश्वेभिः सर्वैर्देवैः सह इन्द्रेण वायुना च सह सोम्यं सोमसम्बन्धि मधु मादकं मधुरं दधिदुग्धादिकं पिब गोपालरूपेण सर्वे गोपाला विश्वे देवाः, इन्द्रोऽर्जुनः, वायुर्भीमः । कीदृशस्त्वम्? मित्रस्य प्रियस्यार्जुनादेर्धामभिर्नामभिः स्तुतः । भक्तवत्सलो भगवान् भक्तनामगुणकथाभिरनु-रज्यते प्रसीदति च । दयानन्दस्तु - ' हे अग्ने विद्वन्, त्वं यथा सूर्यो विश्वेभिर्धामभिः सोम्यं मधु पिबति, तथा मित्रस्य विश्वेभिर्धामिभिः सोम्यं मधु रसं त्वं पिब ' इति, तन्न, अग्निपदस्य मुख्यार्थत्यागेन गौणार्थग्रहस्य निर्मूलत्वात् । न चत्वद्रीत्या जडस्याग्नेः सम्बोध्यत्वं पानकर्तृत्वं च सम्भवति, दृष्टान्तत्वेनोपन्यस्तस्य सूर्यस्य वायोश्वापि न पानकर्तृत्वं सम्भवति त्वद्रीत्या तयोर्जडत्वात् । धामभिरित्यस्योभयत्रापि स्वारस्यं नोक्तम्, स्थानानां पाने कारणत्वायोगात् ॥ १० ॥

आ यदिषे नपा॑त॒ तेज आन॒ट् शुचि॒ रेतो॒ निषिक्तं द्यौरभीके ।

अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑ स्व॒थ्यं॒ जनयत् सु॒दय॑च्च ॥ ११ ॥

मन्त्रार्थ- जब अन्न और जल के लिये देवताओं के निमित्त अग्नि में आहुति के रूप में दिया गया मन्त्रों से संस्कृत घृत यजमान के रक्षक अग्नि को तृप्त करता है, तब अग्नि बलवान् निर्दोष सबके अभिलषणीय जगत् के बीजरूप जल को स्वर्ग के समीप अन्तरिक्ष में प्रकट करता है और उसे वृष्टि के रूप में छोड़ता है ॥ ११ ॥

पराशरदृष्ट्रा त्रिष्टुप् । मरुत्वतीयग्रहपुरोरुक् । ' इन्द्र मरुत्वः ' ( वा ० सं ० ७ । ३५ ) इत्यस्याः स्थाने ' आ यदिषे ' इति ऋक् । ' आ ' इत्युपसर्गमानड् इति क्रियापदेन संयोज्य व्याख्येयेयमृक् । यद् यदा तेजस्तेजसो हेतुभूतं हविर्नृपति नुर्यजमानस्य पालकमग्निमानड् अश्नुते व्याप्नोति यदाग्नी हवियत इति यावत्, तदाऽग्नी रेतो जगद्वीजभूतं जलं द्यौर्दिवः, षष्ठ्यर्थे प्रथमा, अभीके समीपेऽन्तरिक्षे जनयज्जनयति, मेघरूपेण च पुरः सूदयत् सूदयति क्षरति वृष्टिद्वारेण, ' षूद क्षरणे ' चौरादिकः । कीदृशं तेजः? इषे वृष्टयै निषिक्तं देवतोद्देश्ये-नाग्नौ सिक्तं क्षिप्तम्, हुतमिति यावत् । शुचि मन्त्रसंस्कृतम् । शधं बलहेतुभूतम्, शर्धो बलनामसु ( निघ ० २१ ९ / ७ ) । अनवद्यं निर्दोषम् ' अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ' ( पा ० सू ० ३ | १ | १०१ ) इति गर्हार्थकोऽ-वद्यशब्दो निपातितः । न अवद्यं गर्ह्यम् अनवद्यं प्रशस्तम् । युवानं परिपक्वरसम्, दृढमित्यर्थः । स्वाध्यं सु सुष्ठु आसमन्ताद् ध्यायते चिन्त्यत इति स्वाध्यं चिन्तनीयम् । सर्वो वृष्टि कामयते । हविषा तर्पितोऽग्निरष्ट-मासैर्जलं निष्पाद्य वर्षासु वर्षतीति महीधराचार्यः । उव्वटाचार्यस्तु - यद् यदा इषे अन्नाय निषिक्तं नितरां सिक्तं देवतोद्देश्येन क्षिप्तं शुचि मन्त्रैः क्षिप्तं तेजो जगदुत्पत्तिबीजं हविर्नृपति सर्वेषां जीवानां पति पालकमग्निमानड् आसमन्ताद् व्याप्नोति ततोऽपि रेतो मध्यस्थानं व्याप्नोति विद्युल्लक्षणं तेजः, द्यौरपि तस्याहुतिपरिणामभूतस्य रसस्याभीके निकट एव वर्तते ।

पृष्ठ 422

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 422 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ११-१२ ] वेदार्थं पारिजातभाष्यसहिता ३ ९ अग्निस्तत् शधं बलं तस्य हेतुभूतमनवद्यं प्रशस्यं युवानं परिपक्वं रसं स्वाध्यं सुष्ठु ध्यानीयम्, वृष्टेः सर्वाभिलाषा-स्पदत्वात्, जनयद् अष्टाभिर्मासैर्जनयदुत्पादयति, सूदयच्च निष्पन्नमुदकं चतुर्भिर्मासैः क्षरति वृष्टिद्वारेणेत्यर्थः । अध्यात्मपक्षे - यद् यदा इषे इष्यमाणाय चतुर्वर्गीय धर्मार्थकाममोक्षाय, तत्प्राप्तय इति यावत् । पञ्चम-पुरुषार्थरूपायै भक्त्यै वा नृणां नराणां जीवानां पतिं सत्ता स्फूर्तिप्रदानेन पालकमग्नि परमात्मानं निषिक्तं नितरां सिक्तं समर्पितं शुचिमन्त्रैः संस्कृतं तेजः प्रकाशप्रायं मन आनड् आ समन्ताद् व्याप्नोति, तदा अग्निः परमात्मा रेतो जगद्वीजभूतमदृष्टरूपेण परिणतं कर्मसमवेतं जलं द्यौरभीके दिवः समीपे जनयद् जनयति, मेघरूपेण सूद क्षरति च । कीदृशं रेतः? शधं बलस्य हेतुभूतम्, अनवद्यं प्रशस्यम् । अन्यत् पूर्ववद् व्याख्येयम् । दयानन्दस्तु – ' हे मनुष्याः, यदिषे वृष्टयै निषिक्तं शुचि तेजो यज्ञोत्थं नृपतिं सूर्यं राजानमिव आनट्, तदाग्निः शर्धमनवद्यं युवानं युवत्वसम्पादकं स्वाध्यं रेतो द्यौरभीके जनयत् सूदयच्च ' इति, तदपि यत्किञ्चित् नृपति राजानमिवेत्यस्यासङ्गतैः, मुख्यार्थत्यागे मानाभावात् । युवानमित्यस्य युवत्वसम्पादकमित्यनर्थः, गौणार्था-श्रयणात् । एवमन्यदप्यूहनीयम् ॥ ११ ॥

अग्ने॒ शवे॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।

-सं जा॑स्य॒त्यधु॑ सु॒यम॒माकृ॑णुष्व शत्रूय॒ताम॒भिति॑ष्ठ॒ महसि ॥ १२ ॥

मन्त्रार्थ -- हे अग्निदेव! आप हमें सबसे बड़ा सौभाग्यशाली बनाने के लिये अपने बल को प्रकट कीजिये । आपके लिये हवि के रूप में दिया हुआ अन्न अथवा हमारा यश सब तरफ फैले । आप पत्नी सहित यजमान को जितेन्द्रिय एवं परस्पर प्रीतियुक्त बनावें । हमारे साथ शत्रुता करने वालों के तेज को आप नष्ट कर दें ॥ १२ ॥

अत्रिदुहित्रा विश्ववारया दृष्टा त्रिष्टुप् । द्वितीय मरुत्वतीयपुरोरुक् । ' मरुत्वन्तं वृषभम् ' ( वा ० सं ० ७।३६ ) इत्यस्याः स्थाने ‘ अग्ने शर्धं ' इति ऋक् । हे भगवन्नग्ने, त्वं महते सौभगाय महत्सौभाग्याय लोकस्थितये शर्ध उत्सहस्व बलमाविष्कुरु । एवमुद्यच्छतस्तव द्युम्नानि यशांस्यन्नानि हविर्लक्षणानि वा उत्तमान्युत्कृष्टानि सन्तु । ' द्युम्नं द्योततेर्यशो वा अन्नं वा ' ( नि ० ५१५ ) इति यास्कः । किञ्च, जास्पत्यं जाया च पतिश्च जायापती, तयोर्भावो जास्पत्यम्, जायापत्यमिति प्राप्ते आकारयकारयोर्लोपः सुगागमश्चेत्युव्वाचार्यः । ‘ पत्यन्तपुरोहितादिभ्यो यक् ' ( पा ० सू ० ५।१।१२८ ) इति यक् । पत्नीयजमानरूपं सुयमं सुनियमं जितेन्द्रियमन्योन्यमाबद्धरागं । समाकृणुष्व I । सुष्ठु यम्यत इति सुयमम्, ' ईषदुः सुषु कृच्छ्राकृच्छार्थेषु खल ' ( पा ० सू ० ३।३।१२६ ) इति खल् किञ्च, शत्रूयतां शत्रुत्वमिच्छतां जनानां महांसि तेजांसि महत्त्वान्यभितिष्ठ पद्भ्यामाक्रमस्व अभिभव । अध्यात्मपक्षे – हे अग्ने परमेश्वर, त्वं महते सौभगाय लोकस्थितये शर्ध उत्सहस्व बलमाविष्कुरु । परमेश्वराधीनैव लोकस्थितिरिति प्रसिद्धमेव । एवं कुर्वतस्तव द्युम्नानि यशांस्युत्तमानि लोकोत्तराणि सन्तु भवन्तु । किञ्च, लोके जास्पत्यं जायापत्यं पत्नीयजमानरूपं सुयमं सुनियममन्योन्याबद्धरागं समाकृणुष्व । शत्रूयतां रावणादीनां महांसि तेजांसि अभितिष्ठ पद्भ्यामभिभव । --दयानन्दस्तु – ' हे अग्ने विद्वन् राजन् वा, त्वं महते सौभगाय शर्ध कृणुष्व यतस्तव द्युम्नान्युत्तमानि सन्तु, त्वं जास्पत्यं सुयमं समाकृणुष्व शत्रूयतां महांस्यभितिष्ठ ' इति, तदपि यत्किञ्चित्, अग्निपदेन विदुषो । राज्ञो नहि वा ग्रहणे मानाभावात् । सिद्धान्ते त्वग्यधिष्ठातरि देवेऽग्निशब्दप्रयोगः, तत्रैव च सर्वाणि पदानि सङ्गतानि मनुष्यमात्रस्य तथोपदेशे परामर्शदानेऽपि विद्वान् राजा वा समर्थः ॥ १२ ॥

पृष्ठ 423

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 423 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४० शुक्लयजुर्वेद संहिता [ अ ० ३३

स्वार्थे हि म॒न्द्रत॑ममक॑श॒वे॑व॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने ।

इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं वृ॑णन्ति॒ राध॑सा॒ नृत॑माः ॥ १३ ॥

मन्त्रार्थ- हे अग्निदेव! हमने पूरी गम्भीरता के साथ सूर्य के समान प्रकाशमान आपको ही वैदिक मन्त्रों के द्वारा वरण किया है । हमारे स्तोत्रों को आप सुनते हैं । श्रेष्ठ मनुष्य उत्तम देवता से बल प्राप्त कर इन्द्र और वायु के समान हविरूप अन्न से आपको तृप्त करते हैं ॥ १३ ॥

भरद्वाजदृष्टा त्रिष्टुप् । माहेन्द्रग्रहपुरोरुक् । ' इन्द्रो नृवत् ' ( वा ० सं ७ ३ ९ ) इत्यस्याः स्थाने ' त्वां हि मन्द्रतमम् ' इति ऋक् । हे अग्ने, वयं मन्द्रतमं मन्दनीयतममतिगम्भीरं मृदुहृदयं वा त्वामर्कशोकैरर्कवत् शोचन्ते दीप्यन्त इत्यर्कशोकास्तैः यथोक्तस्थानकरणानुप्रदानवद्भिर्देवताद्यात्मवित्तसन्तानगभंगुरुशुश्रूषाधिगताविप्लावित-ब्रह्मचर्यैरधीता मन्त्रा अर्कवद्दीप्ता भवन्ति, अयातयामैरिति यावत् । ववृमहे वृतवन्तः । त्वं च वृतः सन् महि महन्नोऽस्माकं महत्त्वपूर्णं स्तोत्रं श्रषि शृणोषि विकरणव्यत्ययः । किञ्च, इत्थं नाम त्वं महती देवता येन नृतमाः श्रेष्ठमनुष्याः शवसा बलेन इन्द्रं न इन्द्रमिव त्वा पृणन्ति पूरयन्ति । वायुमिव च राधसा हविर्लक्षणेन धनेनान्नेन च पृणन्ति पूरयन्ति । अथवा ' देवता ' इति इन्द्रस्य वायोश्च विशेषणमेव । तथा सति देवताशब्दात् सुपो लुक् । अध्यात्मपक्षे — हे अग्ने परमेश्वर, मन्द्रतमं गम्भीरं मृदुलहृदयं त्वां वयमर्कशोकैः सूर्यवद्दीप्तैरयातयामै-रमोघैर्मन्त्रैर्ववृमहे वृतवन्तः । त्वं च नोऽस्माकं महि महत् स्तोत्रं श्रोषि शृणोषि सर्वज्ञत्वात् सर्वगतत्वाच्च । शवसा बलेन इन्द्रं न इन्द्रमिव वायुं न वायुमिव च स्थितं त्वां वयं राधसा भक्तिरसपरिप्लुतेन हविर्लक्षणेनान्नेन नृतमा मनुष्यश्रेष्ठाः पृणन्ति पूरयन्ति । दयानन्दस्तु — ' हे अग्ने, हि यतो नो महि श्रोषि तस्मान्मन्द्रतमं त्वामर्कशोकैर्वयं ववृमहे । नृतमाः शवसा इन्द्रं न वायुमिव च देवतास्त्वा राधसा पृणन्ति ' इति, तदप्यसङ्गतम्, मनुष्यमात्रस्याग्निपदार्थत्वे महत्त्वपूर्णवचन-श्रवणेन पुरुषार्थासिद्धेः । नहि मनुष्यमात्रस्यातिशयेन प्रशंसादिसत्कृतत्वमपि सम्भवति न वा सूर्यवत् प्रकाशवद् राजापि सम्भवति, कुतस्तदीयास्तादृशा भवेयुः । न च नृतमा मनुष्यमात्रमग्नि पृणन्ति ॥ १३ ॥

त्वे अ॑ग्ने स्वाहु॒त प्रि॒यासः सन्तु सू॒रय॑ः ।

य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान् दय॑न्त॒ गोना॑म् ॥ १४ ॥

मन्त्रार्थ हे अग्निदेव! हमने आपको विधिपूर्वक आहुतियाँ दी हैं, मनुष्यों के मध्य में इन्द्रियों का निग्रह कर जो धनवान् विद्वान् गो - दुग्ध और दधिसहित विशिष्ट अन्नों को आपको अर्पित करते हैं, वे आपकी प्रीति के पात्र हों ॥१४ ॥

बृहत् आदित्यग्रहपुरोरुचौ । आद्या वसिष्ठदृष्टा । ' कदाचन स्तरी रसि ' ( वा ० सं ० ८ २ ) इत्यस्या: स्थाने ' त्वे अग्ने ' इति ऋक् । अन्त्या प्रस्कण्वदृष्टा ' श्रुधि श्रुत्कर्ण ' इति ऋक् । सा च ' कदाचन प्रयुच्छसि ' ( वा ० सं ० ८1३ ) इति ऋचः स्थाने । हे स्वाहुत अग्ने सुष्ठु आहूयत इति स्वाहुतः, तत्सम्बुद्धौ । हे अग्ने, त्वे तव ते प्रियासः प्रियाः सन्तु । के ते? सूरयो विदितवेदितव्याः पण्डिताः, ये च यन्तारो निगृहीतेन्द्रिया मघवानो धनवन्तो हविष्मन्तः, ये च जनानां मध्ये गोनाम्, गवामिति प्राप्ते ' गोः पादान्ते ' ( पा ० सू ० ७ १।५७ ) इति ऋचि पादान्ते विद्यमानस्य गोशब्दस्य नुटि रूपम्, गवां सम्बन्धिभिरुपसेचनैर्दुग्धदध्यादिसहितान् ऊर्वान् अन्नविशेषान् पुरोडाशादीन् दयन्त ददति । ' दय दानगतिरक्षणहिंसादानेषु ' इत्यस्य लङि रूपम्, अडभाव आर्षः, ते प्रिया भवन्तीत्यर्थः ।

पृष्ठ 424

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 424 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० १४-१६ अध्यात्मपक्षे --- हे स्वाहुत! परमेश्वर! अन्यत् पूर्ववद् व्याख्येयम् । वेदार्थपारिजातभाष्यसहिता शोभनैः सच्चरित्रैरा समन्ताद् हूयत इति स्वाहुतः, तत्सम्बुद्धौ । हे अग्ने दयानन्दस्तु – ' हे स्वाहुताग्ने, ये जनानां मध्ये वीरा यन्तारो मघवानो गोनां पृथिवीधेन्वादीनां हिंसकान् ऊर्वान् दयन्त घ्नन्ति ते सूरयस्ते तव प्रियासः सन्तु ' इति, तदपि यत्किञ्चित्, मनुष्यमात्रस्य राज्ञोऽप्यग्निपदेन ग्रहणे मानाभावात्, लक्षणायाश्च निर्मूलत्वात् ॥ १४ ॥

ि कर्ण बह्निभिव॒वैरग्ने स॒याव॑भिः ॥ आसी॑वन्तु ब॒हिषि॑ मि॒त्रो अ॑र्य॒मा प्रतर्यावा॑णो अध्व॒रम् ॥ १५ ॥

मन्त्रार्थ - हे शोभन श्रवणशक्ति युक्त अग्निदेव! अपने साथ चलने वाले यजमान द्वारा दी हुई आहुतियों को ग्रहण करने वाले देवताओं के साथ इस यज्ञ को आप सुनिये, अर्थात् चारों तरफ से उसका निरीक्षण कीजिये । मित्र और अयंमा देवता प्रातः सवन में हवि को प्राप्त कर कुशा के आसन पर विराजमान हों ॥ १५ ॥

हे अग्ने, त्वमध्वरं यज्ञमाग्नेयं श्रधि शृणु । श्रशृणुप कृवृभ्यश्छन्दसि ' ( पा ० सू ६ । ४ । १०२ ) इति हेधिः । कर्ण शृणुत इति श्रुतौ श्रुधातोः क्विपि ' ह्रस्वस्य पिति कृति तुक् ' ( पा ० सू ० ६ । १ ७१ ) इति तुकि द्विवचने रूपम् । अर्थिवचसां श्रोतारौ कणौं यस्य स श्रुत्कर्णः, तत्सम्बुद्धौ हे श्रुत्कर्ण, त्वयि श्रुतवति वह्निभिः वहन्ति हवींषीति वह्नयः, ' वहिश्रियुग्ला हात्वरिभ्यो नित् ' ( उ ० ४।५२ ) इति वहेर्निप्रत्यये रूपम् । तैर्वोदृभिर्देवैः सावभि: सह यान्तीति सयावानः, यातेर्वनिप् तैः सहिता मित्रोऽर्यमा प्रातर्यावाणश्च प्रातर्यान्ति हविः प्राप्नु-वन्तीति तथोक्ताः । प्रात सवने येषां हविः प्राप्तिर्भवति, ते देवा बर्हिष्यासीदन्तु उपविशन्तु । अध्यात्मपक्षे - हे अग्ने परमेश्वर, हे श्रुत्कर्ण! त्वमध्वरं श्रुधि शृणु । त्वयि श्रुतवति वह्निभिर्वोदृभिर्देवैः सयावभिः सह गमनैः सह मित्रोऽर्यमा प्रातर्यावाणश्च देवा बर्हिषि आसीदन्तु उपविशन्तु, परमेश्वरस्यैव यज्ञाधिष्ठातृत्वात्, तच्छ्रवणेनैव कर्मणां याथातथ्येन सम्भवात् । दयानन्दस्तु -- ' हे श्रुत्कर्णाग्ने, सयावभिर्वह्निभिर्देवैः सह अध्वरं श्रुधि । प्रातर्यावाणो मित्रो अर्यमा च बर्हिष्यासीदन्तु ' इति, तदपि यत्किञ्चित्, धर्मब्रह्मपरे वेदेऽग्न्यादिपदेन मनुष्यविशेषराजादीनां ग्रहणे मानाभावात् । सयावभिरित्यनेनापि पदेन ये सह यान्ति ते वह्निभिः कार्यनिर्वाहकैरित्यादिव्युत्पत्तिभिः कार्यनिर्वाहकाः सहगामिन उक्ताः । योऽर्थान् वैश्यान् स्वामिनो मन्यते तम्, ये प्रातर्यान्ति ते प्रातर्यावाण उच्यन्ते, एवं रीत्या वेदार्थस्य लोकायतीकरणं कृतमिति स्वरूपनिरूपणमेव तन्निराकरणं वेदितव्यम् ॥ १५ ॥

विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् ।

अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः स॑मृडीको भ॑वतु जा॒तवे॑दाः ॥ १६ ॥

मन्त्रार्थ -- सर्वज्ञ, सभी यज्ञों में देवताओं के साथ उपस्थित रहने वाले, अदीन स्वभाव, सब मनुष्यों के अतिथि के समान पूज्य जो अग्निदेव देवताओं के निमित्त हविरूप अन्न को समर्पित करते हैं, वे हमारे लिये सब प्रकार से सुखदाता हों ॥ १६ ॥

वामदेवगोतमदृष्टा त्रिष्टुप् । आदित्यग्रहर्दाधिश्रपणे विनियुक्ता । ' यज्ञो देवानाम् ' ( वा ० सं ० ८४ ) इत्यस्या ऋचः स्थाने ' विश्वेषामदितिः ' इति ऋक् । योऽग्निविश्वेषां सर्वेषां यज्ञियानां यज्ञार्हाणां यज्ञसम्पादकानां ६

पृष्ठ 425

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 425 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४२ शुक्लयजुर्वेदसंहिता [ अ ० ३३ वामध्ये, अदितिर्नास्ति दितिः खण्डनं यस्य स तथोक्तः, ' दोऽवखण्डने ' इति धातो: ' क्तिक्क्तौ च संज्ञायाम् ' ( पा ० सू ३ | ३ | १७४ ) इति क्तिचि, ' द्यतिस्यतिमास्थामित्ति किति ' ( पा ० सू ० ७/४/४० ) इति धातोरिकारान्तादेशे दितिरिति रूपम्, अदीन इति यावत् । तथा विश्वेषां मानुषाणां नराणामग्निहोत्रणामतिथिः, अतिथिवत् पूज्यो जातवेदा जातप्रज्ञानः, देवानामवो हविर्लक्षणमन्नम्, अव इत्यन्ननाम ( निघ ० २२७१ ९ ), आवृणानः समर्पयन्, सुमृडीक: सुशोभनं मृडीकं सुखं यस्यात् स तथोक्तः, शोभनसुखकारीति यावत् भवतु । अध्यात्मपक्षे - योऽग्निः परमेश्वरो विश्वेषां यज्ञियानां देवानामदितिरखण्डनीयो विश्वेषां मानुषाणा-मतिथिरतिथिवत् सत्करणीयः, यश्च जातवेदा वेदानामाविर्भावकः, स देवानामवो हविर्लक्षणमन्नम्, आवृणानः समर्पयन्, सुमृडीकः शोभनसुखकारी भवतु । दयानन्दस्तु – ' हे सभापते, भवान् विश्वेषां यज्ञियानां देवानां मध्येऽदितिविश्वेषां मानुषाणामतिथिरिव आवृणानः सुमृडीको जातवेदा अग्निर्भवतु ' इति, तदपि यत्किञ्चित्, मन्त्राणां मनुष्यपरत्वेनैव योजनात् । अत्र देवपदेन विद्वांसो मनुष्याः, यज्ञिया इत्यनेन सत्कारार्हाः, अदितिपदेनाखण्डितबुद्धिर्मनुष्यो ग्राह्यः । जातवेदा अपि आविर्भूतविद्यायोगप्रज्ञो मनुष्यः । अग्निपदेनाप्यग्निवत्तेजस्वी पुरुष एव ग्राह्यः । तदेतत्सवं लोकसिद्धमेवेति प्रत्यक्षानुमानाभ्यामज्ञातार्थज्ञापकत्वेन वेदानां प्रामाण्यं व्याहन्यते । न चात्र मुख्यार्थे सम्भवति शब्दानां गौणार्थता ग्राह्या । तस्मादुपेक्ष्य एवैतादृशोऽर्थः ॥ १६ ॥

म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॑ण्यनगा मि॒ित्रे वरु॑णे स्व॒स्तये॑ ।

श्रेष्ठे स्याम सवि॒तुः सर्वोमनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृणीमहे ॥ १७ ॥

मन्त्रार्थ - सूर्य की श्रेष्ठ आज्ञा होने पर देवताओं के निमित्त समर्पित अन्नरूप हवि का अब हम संस्कार करते हैं । पूज्य दीप्यमान अग्नि के आश्रय में मित्र और वरुण की दृष्टि में निरपराध सिद्ध होकर हम सर्वविध कल्याण से सम्पन्न हों || १७ || शोधानादृष्टा त्रिष्टुप् । सावित्रग्रहस्य पुरोरुक् । ' वाममद्य सवितः ' ( वा ० सं ० ८/६ ) इत्यस्या: स्थाने ' महो अग्नेः ' इति ऋक् । देवानां सम्बन्धि तदवो हविर्लक्षणमन्नम्, अद्य वयं वृणीमहे संस्कुर्मः । कस्मिन् सति? सवितुः सूर्यस्य सवीमनि सत्यनुज्ञायां सत्याम्, ' सवीमा प्रसवोऽनुज्ञा ' इति कोशः । कीदृशे सवीमनि? श्रेष्ठे, अन्यदेवानुज्ञापेक्षया सूर्यानुज्ञायाः श्रेष्ठत्वात् । किमर्थम्? येनान्नेन वयं स्वस्तये स्वस्तिमन्तो भवेम । कीदृशा वयम्? अग्ने शर्माणि शरणे आश्रये विद्यमानाः, मित्रे वरुणे च अनागा अनागसो मित्रवरुणाद्यपराधरहिताः । कीदृशस्याग्नेः? महः, मह्यत इति मट् पूज्यः, ' मह पूजायाम् ', क्विप्, तस्य समिधानस्य दीप्यमानस्य तादृशस्याग्नेः शरणे सन्तः, मित्रवरुणादिषु चापराधरहिता वयमद्य देवानां हविर्लक्षणमवोऽन्नं वृणीमहे संस्कुर्मह इति सम्बन्धः । अध्यात्मपक्षे - सवितुर्जगदुत्पादयितुः कारणस्य परमेश्वरस्य श्रेष्ठे सर्वोकृष्टे सवीमन्याज्ञायां सत्यां येनान्नेन वयं स्वस्तये स्वस्तिमन्तः स्याम भवेम, देवानां सम्बन्धि तदवो हविर्लक्षणमन्तं वयमद्य वृणीमहे संस्कुर्मः । कीदृशा वयम्? महः पूज्यस्य समिधानस्य दीप्यमानस्य स्वप्रकाशस्याग्नेः परमेश्वरस्य शर्म॑णि शरणे सन्तः । मित्रे वरुणे च अनागा अनागसोऽपराध रहिताः । एतावता परमेश्वराश्रितैरपि कारणान्तर्यामि-प्रेरणा देवतान्तरापराधशून्यैर्देवानां कृते चरुपुरोडाशादिसंस्कारः कर्तव्य एव । ' स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ' ( भ ० गी ० १८।४६ ) इति गीतोक्तः ।

पृष्ठ 426

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 426 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १७-१९ ] वेदार्थ पारिजातभाष्यसहिता ४३ दयानन्दस्तु ' वयं राजपुरुषाः, महः समिधानस्याग्नेः शर्मणि श्रेष्ठे मित्रे वरुणे चानागाः स्याम | अद्य सवितुः सूर्यस्य सवीमनि सत्याज्ञायां सत्यां प्रसवे वृणीमहे ' इति, तदपि यत्किञ्चित्, ' वयं राजपुरुषाः ' इत्यंशस्य वेदबाहत्वात् । अग्नेः समिधानस्येत्यादिपदैरपि गौणार्थग्रहणं निर्मूलमेव । अग्निपदेन राजादिग्रहणं सर्वथा निर्मूलम् । मित्रवरुणादिपदानामपि गौणार्थस्वीकरणं सर्वथा निर्मूलमेव ॥ १७ ॥

आप॑श्चित्पिप्युस्त॒र्यो न गावो॒ नक्ष॑न् न॒तं ज॑रि॒तार॒स्त इन्द्र ।

याहि वायुर्न नियुतो॑ नो अच्छ॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥

१८ ॥

मन्त्रार्थ – हे इन्द्रदेव! वेदवाणियों के द्वारा आपकी स्तुति करने वाले ऋत्विकगण आपके निमित्त किये जा रहे यज्ञ को व्याप्त कर रहे हैं और निग्राभ्या रूप जल को भी संस्कृत कर रहे हैं । आप उसी प्रकार हमारे सामने आइये, जैसे वायु अपने नियत नामक अश्वों के सम्मुख आता है । आप ही सारी प्रजा को बुद्धि के साथ अन्न को देने वाले हैं ॥ १८ ॥

सर्वमेधे इन्द्रस्तु संज्ञमुक्थ्यसंस्थं द्वितीयमहर्भवति, ' इन्द्रस्तदुक्थ्यो द्वितीय महर्भवति । तस्यैन्द्रा ग्रहा भवन्त्यैन्द्रयः पुरोरुचः सर्वमैन्द्रमसदिति ' ( श ० १३ | ७ | १ | ४ ) इति श्रुतेः । तत्र आपश्चिदित्यादय इमां त इत्यन्ता द्वादशर्चः । तं प्रत्नथा ( १ ), अयं वेन: ( २ ), महाँ इन्द्र: ( ३ ), कदाचन स्तरीरसि ( ४ ), कदाचन प्रयुच्छसि ( ५ ) इति पञ्च प्रतीकोक्ताः सम्भूय सप्तदश इन्द्रदेवत्या ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां ग्रहणमन्त्रा वसिष्ठदृष्टाः । त्रिष्टुप् । ऐन्द्रवायवस्य पुरोरुक् ' आ वायो ' ( वा ० सं ० ७१७ ) इत्यस्याः स्थाने ' आपश्चित् ' इति ऋक् । हे इन्द्र, जरितारः स्तोतार ऋत्विजस्ते तव ऋतं यज्ञं नक्षन् नक्षन्ति व्याप्नुवन्ति, नक्षतिर्व्याप्तिकर्मा ( निघ ० २।१८।२ ), लङि अडभाव आर्षः । आपश्चिद् आपोऽपि निग्राभ्यारूपाः, पिप्यु -राप्याययन्ति सोमं वर्धयन्ति, ' ओप्यायी वृद्धी ' इत्यस्माल्लिटि ' लिड्यङोरच ' ( पा ० सू ० ६।१।२२ ) इति पीभावे रूपम् । तत्र दृष्टान्तः - स्तर्यो गावो न स्तृणन्ति सुन्वन्ति याभिस्ताः स्तर्यः, याभिः सोमः सूयते ता गावो वेदरूपा वाच इव । ता यथा सोममाप्याययन्ति तथा आपोऽपि । अत एव त्वं नोऽस्मानच्छ अभिमुख-मागच्छ । वायुर्न वायुरिव यथा वायुर्नियुतः स्वानश्वानभियाति तथा त्वमस्मानभिमुखमागच्छेत्यर्थः । हि यतस्त्वं धीभिर्बुद्धिभिः कर्मभिर्वा वाजान् अन्नानि विदयसे विविधं ददासि ' दय दान - गति - रक्षण- हिंसा - दानेषु ', अत एवागच्छ । अध्यात्मपक्षे - हे इन्द्र परमेश्वर, जरितारः स्तोतारस्ते तव ऋतं यज्ञं नक्षन् नक्षन्ति व्याप्नुवन्ति । दयानन्दस्तु – ' हे इन्द्र, ते तव जरितार आप इव पिप्युः, स्तर्यो गावो न ऋतं नक्षन्, तथा वाजान्नो नियुतश्च वायुर्न त्वमच्छ याहि, हि यतो धीभिर्विद्यसे दयसे तस्माच्चिदपि सत्कर्तव्योऽसि ' इति, तदपि यत्किञ्चित्, यत इन्द्रपदस्य विद्वान् वा राजा वा गौण एवार्थः । ईश्वरो देवराजो वा परमैश्वर्यवत्त्वात् तथा सम्बोधनार्हः । ते तव जरितारः स्तोतार आप इव पिप्युरित्यप्यसङ्गतम्, मूलमन्त्रे इवपदप्रयोगाभावात् । न च मनुष्यस्तोतॄणां तथा वृद्धिर्दृश्यते तथानुपलब्धेः । न वा नृस्तोतारः किरणा इव सत्यं व्याप्नुवन्तो दृश्यन्ते । वाजान् विज्ञानवत इत्यपि निर्मूलम् ॥ १८ ॥

गाव उपोवतावतं मही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णौ हिरण्ययो ॥ १ ९ ॥

मन्त्रार्थ - हे गोमाताओं, अथवा वृष्टिधाराओं! ये महान् द्यावापृथिवी नामक युगल देवता सर्वविध यज्ञफल को देने वाले हैं । इन दोनों को सुवर्ण - मय कर्ण के आभूषण प्रदान कर चत्वाल रूप कूप के प्रति आप गमन करें ॥ १ ९ ॥

पृष्ठ 427

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 427 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

II शुक्लयजुर्वेदसंहिता [ अ ० ३३ तिस्रो गायत्र्यः । इयं ' गाव: ' इति पुरुमीढाजमीढदृष्टा ऐन्द्रवायवस्य द्वितीया पुरोरुक् । ' इन्द्रवायू ' ( वा ० सं ० ७/८ ) इत्यस्याः स्थाने ' गाव उपा ' इति ऋक् । दक्षिणारूपा गाव उच्यन्ते । हे गावः, अवतं कृपं चात्वालरूपं प्रति, अवत इति कूपनाम ( निघ ० ३।२३।७ ), उपावत उपागच्छत । ननु को हेतुरुपागमने? इति तत्राह - मही महत्यौ द्यावापृथिव्यौ यज्ञस्य रप्सुदा रप्सुदे, ' सुपां सुलुक् " ( पा ० सू ० ७ | १ | ३ ९ ) इति विभक्तेराकारः । ' धर्मयज्ञस्य साधनभूते ' इति सायणः, आरिप्सोः फलप्रदे इति यावत् । यद्वा रपणं शब्दनं रप् मन्त्रः तेन सुष्ठु दातव्ये मन्त्रप्रयोगपूर्वकं दानमिति यावत् । अथवा ' षूद क्षरणे ', रपा मन्त्रेण क्षारणीयें । ' रप्सु ' इति रूपनामेति महीधराचार्यः । रप्सु रूपं दत्त इति रप्सुदे । द्यावाभूमी यज्ञस्य शोभां कुरुत इति यूयमुपगच्छत । किञ्च भवतीनाम् उभा उभौ कर्णा कर्णी हिरण्यया हिरण्ययौ हिरण्यमयौ । अत एव श्रुत्वा दानार्थमागच्छतेत्यर्थः । अध्यात्मपक्षे – हे गावो वेदवाच इन्द्रियाणि वा, अवतं कृपं संसाररूपं वा उपावत उपागच्छत । मही द्यावापृथिव्यौ यज्ञस्य रप्सुदे यज्ञस्य फलप्रदे शोभाधायिन्यौ वा तस्माद्यूयमुपागच्छत । किञ्च युष्माकं हिरण्यमय ज्योतिर्मय ज्ञानमय कर्णौ तस्माज्जीवानां कल्याणार्थमागच्छत । दयानन्दस्तु -- ' हे मनुष्याः, यथा गाव उभा रप्सुदा मही रक्षन्ति तथा यूयं हिरण्यया कर्णा यज्ञस्यावत-मुपावत ' इति, तदपि यत्किञ्चित् हे मनुष्या इति सम्बोधनस्य निर्मूलत्वात् । अत्र गाव इति सम्बोधनमपहाय मनुष्य इति सम्बोधन कल्पने श्रुतहान्यश्रुतकल्पने प्रसज्येयाताम् । न चात्र इवशब्दप्रयोगोऽस्ति । न चावतशब्दस्य वेद्यादिर्तोऽर्थः " " निर्मूलत्वात् । अवतंपदं कृपपरं तु युक्तम्, निघण्टुप्रामाण्यात् । तच्च चात्वालरूपमेव, न वेद्यादिपरम् । सर्वथापि सिद्धान्तानुसारी पूर्वोक्त एवार्थो न्याय्यः ॥ १ ९ ॥

यद॒द्य सूर॒ उद॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा । सवाति॑ सवि॒ता भग॑ः ॥ २० ॥

1 मन्त्रार्थ- - अब सूर्य का उदय होने वाला है । इस समय निरपराध व्यक्तियों को मित्र, अर्यमा, सविता और भग देवता शुभ कार्यों के निमित्त प्रेरित करते हैं, उनको भले कामों में लगाते हैं ॥ २० ॥

नामक वसिष्ठा मैत्रावरुणपुरोरुक् । ' अयं वाम् ' ( वा ० सं ० ७ / ९ ) इत्यस्याः स्थाने ' यदद्य सूर ' इति ऋक् । यत् कर्म अद्यास्मिन् द्यवि सूरे सूर्य उदिते उद्गते सत्यनागा अनपराधो मित्रोऽनागा अर्यमा तथाभूतः सविता भगश्च सुवाति प्रसौति प्रेरयति वा, तत्कर्म कुर्यादिति शेषः । अध्यात्मपक्षे - अद्य सूर्ये ज्ञानरूपे उदिते सत्यनपराधो मित्रः, तथाभूतोऽर्यमा सविता भगश्च यथा प्रेरयति तथा कुर्यात् स्वतः कर्तृत्वाभावात् । सर्वे च देवाः परमात्मभावापन्ना अनपराधा भवन्ति । तेषां प्रेरणयैव यावज्जीवनं व्यवहारो भवति । तेन ते यथा प्रेरयन्ति तथैव ज्ञानी व्यवहरति । ते च प्रारब्धा-नुसारमेव प्रेरयन्ति । दयानन्दस्तु – ' हे मनुष्याः यद्योऽद्य उदिते राज्यं कर्तुमर्हति ' इति, तदपि यत्किञ्चित् पूर्वदिनेषु परदिनेषु रात्रौ च पापकृत् स्यात्,

राज्यनियमेन प्रेरयतेत्यर्थोऽपि काल्पनिक एव ।

मन्त्रबाह्यमेव ॥ २० ॥

सूरेऽनागा मित्रः सविता भगोऽर्यमा स्वास्थ्यं सुवाति, स असामञ्जस्यात् । तथाहि — यद्यद्य सूर्योदयेऽनागा अपि कामं तहि किं स्यादित्यनुक्तेः । सवितृशब्दस्य मुख्यमर्थमुपेक्ष्य अर्यमादिपदानामपि तथोक्तोऽर्थो निर्मूल एव । स्वास्थ्यपदमपि

पृष्ठ 428

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 428 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २१-२२ ] वेदार्थपारिजातभाष्यसहिता

आ सुते सिञ्चत॒ श्रिय॒ रोद॑स्योरभि॒श्रिय॑म् ।

र॒सा द॑धीत वृष॒भम् । तं प्र॒त्नथाऽयं वे॒नः ॥ २१ ॥

४५ मन्त्रार्थ- और स्वर्ग के चारों तरफ शोभित धर्म को धारण करती है । सोम के अभिषुत --आत्मा रूप नदी पृथ्वी होने पर ऋत्विकगण उसको सीचें ॥ २१ ॥

सुनीता आश्विनग्रहपुरोरुक् । ' या वां कशा ' ( वा ० सं ० ७ ११ ) इत्यस्याः स्थाने ' आ सुते ' इति ऋक् । यं वृषभं वर्षितारं सोमम्, रसा नदी ' रसतेः शब्दकर्मण: ' ( नि ० ११।२५ ) इति यास्कः । दधीत धारयति पुष्णाति वा । रसति नदतीति रसा, नद्युपकण्ठे सोमस्य जायमानत्वात् । तादृशे सोमे सुतेऽभिषुते आसिञ्चत ग्रहपात्रेषु चमसेषु । कथंभूतं वृषभम्? सोमं रोदस्योर्द्यावापृथिव्योरभिश्रियमधिगतश्रियम्, सोमश्रियो ब्रह्माण्ड-व्यापिनीत्वात् । पुनः कथंभूतं श्रियम्? श्रीयत इति श्रीः तं रोदस्योरभिश्रियम्, तस्य सर्वजगदाधारत्वात् । अथवा श्रियं श्रियो हेतुभूतम् । अभि सर्वतः श्रीः शोभा यस्य स अभिश्रीः तम् । ' तं प्रत्नथा ' ( वा ० सं ० ७।१२ ), ' अयं वेनः ' ( वा ० सं ० ७ १६ ) इति द्वे प्रतीकोक्ते शुक्रमन्थिनोः प्राकृते सप्तमस्य द्वादशीषोडश्यौ कण्डिके । अध्यात्मपक्षे - रसा नदी गङ्गा यं वृषभमभीष्टानां वर्षितारं भगवन्तं सोममुमया सह वर्तमानं शिवं दधीत धारयति, सोमे सुतेऽभिषुते सति हे ऋत्विजः साधका वा तमासिञ्चत गङ्गाजलेनाभिषेकं कुरुत । कीदृशं वृषभम्? रोदस्योरभिश्रियं सर्वब्रह्माण्डाधारं श्रियं शोभारूपं वा । दयानन्दस्तु -- ' हे मनुष्याः, रसा यूयं सुते वृषभं रोदस्योरभिश्रियं श्रियं सभापतिमा सिञ्चत, स च युष्मान् दधीत ' इति, तदपि यत्किञ्चित्, मन्त्रे राज्ञः सभापतेर्वा अर्चचितत्वात् । रसा इत्यस्य आनन्ददातार इत्यप्यनर्थः, निर्मूलत्वात् । मनुष्या इति सम्बोधनमपि निर्मूलमेव । सुते जगतीत्यपि स्वारस्यहीनम् । न च मनुष्येण राज्ञा द्यावापृथिव्योः शोभावृद्धिर्दृश्यते, तस्य देवाद्यपेक्षया नगण्यत्वात् ॥ २१ ॥

आ॒तिष्ठ॑न्तं परि॒ विश्वे॑ अभूषन् श्रियो वस / नश्चरति॒ स्वरो॑चः ।

म॒हत्तद् वृष्णो॒ अस॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥ २२ ॥

सम्पूर्ण देवताओं ने चिरकाल से स्थित इन्द्र देवता को शोभित किया है । देवताओं की दीप्ति को आच्छादित करता हुआ वह अपने प्रकाश से विचरण करता है । विश्व का निरूपक वह इन्द्र वृष्टि के निमित्त मेघों को प्रेरित करता है । सावधान बुद्धि वाले फलवर्षी इन्द्र का यही नाम प्रसिद्ध है ॥ २२ ॥

विश्वामित्रदृष्टाग्रयणपुरोरुक् । त्रिष्टुप् । ' ये देवासः ' वा ० सं ० ७ १ ९ ) इत्यस्या: स्थाने ' आतिष्ठन्तम् ' इति ऋक् । इन्द्रस्यात्र वृष्टिकर्म वर्ण्यते । विश्वे देवाः सर्वे देवा मध्यमका देवगणा ग्रीष्मान्ते मध्यमस्थानेऽन्तरिक्ष आतिष्ठन्तं समन्तात् तिष्ठन्तमिन्द्रं पर्यभूषन् परिरक्षणेनालङ्कृतवन्तः । स इन्द्रश्चरति सर्वत्र गच्छति । कीदृश इन्द्रः? श्रियो वसानः, देवानां दीप्ती राच्छादयन्, स्वरोचिः स्वं रोचिः प्रकाशो यस्य स तथोक्तः, अनन्याधीन-प्रकाशत्वात् स्वयंप्रकाशः । विश्वरूपं विश्वं रूपयति शोभयति निरूपयतीति विश्वरूपः, स तादृश इन्द्रः, यतोऽ-मृतानि जलान्यातस्थौ वृष्टये आस्थितवान् अधिष्ठितवान्, वृष्णो वर्षणशीलस्येन्द्रस्य तन्महत् प्रसिद्धं नाम वासवो वृत्रहेत्यादि । कीदृशस्य वृष्ण:? असुरस्य असवः प्राणा बलानि विद्यन्ते यस्य स असुरः, मत्वर्थीयो र आर्षः । महाप्राणो वा तस्य, असुपदेन प्रज्ञादीनामपि संग्रहात् । यद्वा विश्वरूप इन्द्रः, महाबलः, सावधानः प्रज्ञावान्

पृष्ठ 429

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 429 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६ शुक्लयजुर्वेद संहिता [ अ ० ३३ यतोऽमृतान्युदकान्यातस्थौ, उदकेषु पातयितव्येषु वृष्णोर्वषितुरसुरस्य प्रज्ञावतस्तन्नाम नमनं प्रह्वीभावः, महा-महिम्नो महाबलस्य महाप्रज्ञावतो वृष्टिकार्ये प्रवृत्तिः प्रह्वीभाव एव । अध्यात्मपक्षे - आसमन्तात् तिष्ठन्तमिन्द्रं परमैश्वर्यवन्तं परमेश्वरं विश्वे सर्वे देवाः पर्यभूषन् परिवार्य अलङ्कृतवन्तः । स च स्वरोचिरनन्याधीनदीप्तित्वेन स्वप्रकाशः स्वदीप्त्या देवानां श्रिय आच्छादयन् स्वेच्छया चरति। स च विश्वरूपः सर्वात्मत्वात् सर्वरूपः अमृतानि मोक्षम्, पूजायां बहुवचनम्, यत आतस्थौ अधिष्ठितवान् तत् तस्य असुरस्य महाप्राणस्य महन्नाम नमनम् । दयानन्दस्तु - ' हे विद्वांसः, विश्वे भवन्तो यथा श्रियो वसानः स्वरोचिर्विश्वरूपोऽग्निश्चरति अमृतानि तस्थौ तथैवमातिष्ठन्तं पर्यभूषन् । यद् वृष्णोऽसुरस्यास्य महत्तन्नामास्ति, तेन सर्वाणि कार्याण्यलङ्कुरुत ' इति, तदपि यत्किञ्चित् विद्युतो महन्नामासिद्धेः । न च विद्युदग्निरभौतिकमात्मानं व्याप्नोति, तस्य भौतिकत्वात् । यत्तु भावार्थे ' असुर ' इति नामेति, तदपि निर्मूलम् । न चाग्नेरसुरेति नाम प्रसिद्धम्, तस्य विशेषणत्वात् । वृष्णोर्वर्षण -शीलस्य असुरस्य असवः प्राणा बलानि वा विद्यन्ते यस्य तस्येति सङ्गतेः । ' तेन सर्वाणि कार्याण्यलङ्कुरुत ' इत्यपि निर्मूलमेव, मूलासंस्पर्शित्वात् ॥ २२ ॥

प्र व महे मन्द॑माना॒यान्धसोऽव विश्वानराय विश्वाभुवै ।

इन्द्र॑स्य॒ यस्य॒ सुम॑व॒ सहो महि श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यत॑ः ॥ २३ ॥

मन्त्रार्थ - हे ऋण! आप लोगों के हविरूप अन्न से मोदमान सर्वव्यापी महनीय इन्द्र के सभी मनुष्य यजमान हैं, अतः सबको इन्द्र का पूजन करना चाहिये । पृथ्वी और स्वर्ग इस इन्द्ररूप यजमान के शोभन यज्ञ, बल, महान् यश और धन की समृद्धि की स्तुति करते हैं ॥ २३ ॥

सुचीकदृष्टा त्रिष्टुप् । ध्रुवग्रहपुरोरुक् । ' मूर्धानं दिव: ' ( वा ० सं ० ७१२४ ) इत्यस्या: स्थाने ' प्र वो ' इति ऋक् । प्रेत्युपसर्गस्य अर्चेति क्रियापदेन सम्बन्धः । हे ऋत्विजः यूयं विश्वानराय विश्वे सर्वे नरा यष्टारो यस्य स विश्वानरः, ' नरे संज्ञायाम् ' ( पा ० सू ० ६ ३ १२ ९ ) इति दीर्घः इन्द्रः, तस्मै प्राच प्रार्चत, तादृशमिन्द्रं पूजयतेत्यर्थः, वचनव्यत्ययः । अर्चेत्यत्र ' द्वचचोऽतस्तिङः ' ( पा ० सू ० ६ | ३ | १३५ ) इति संहितायां दीर्घः । Free विश्वानराय? हे महते, वो युष्माकमन्धसोऽन्धसा अन्नेन हवीरूपेण मोदमानाय, ' मदी हर्षे ' | विश्वाभुवे विश्वम् आसमन्ताद् व्याप्नोतीति विश्वाभूः सर्वव्यापी, तस्मै । विश्वाभूर्वा यस्य तस्मै । विश्वं भवति प्रभवति यस्मादिति वा विश्वाभूः, संहितायां छान्दसो दीर्घः । किव, रोदसी द्यावापृथिव्यौ यस्येन्द्रस्य सुमखं शोभनं यज्ञं सहो बलं महि महत्त्वं श्रवो यशो नृणं धनं च सपर्यंतः पूजयतः द्यावाभूमी यस्य सुमखादीन् पूजयतः, हे ऋत्विजो यूयमपि तं पूजयतेत्यर्थः । अध्यात्मपक्षे -- हे ऋत्विजः साधका वा, यूयं विश्वानराय विश्वानरं परमात्मानं प्रार्च प्रार्चत पूजयत । विश्वं सर्वमासमन्तान्तृणाति नयति पुरुषार्थं प्रापयति यस्तस्मै सर्वप्राणिपुरुषार्थं प्रापकाय तादृशेन्द्राय परमात्मने प्रात पूजयतेत्यर्थः, विभक्तिव्यत्ययः । शेषोंऽशः पूर्ववद् व्याख्येयः । दयानन्दस्तु - ' हे मनुष्य, त्वं रोदसी यस्येन्द्रस्य सुमखं नृम्णं सहो महि श्रवश्च सपर्यंतः, तस्मै विश्वानराय महे मन्दमानाय विश्वाभुवे प्रार्च । स वोऽन्धसः सुखं ददातु इति, तदपि यत्किञ्चित् रोदस्यो-थियोस्त्वद्रीत्या जडयोः सपर्याकर्तृत्वायोगात् । सुखं ददात्विति मन्त्रबाह्यमेव, तथानुल्लेखात् ॥ २३ ॥

पृष्ठ 430

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 430 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २४-२५ ] वेदार्थ पारिजातभाष्यसहिता ४७ बृ॒हन्त॑दि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृथुः स्वरु॑ः । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥ २४ ॥

मन्त्रार्थ - जिन ऋत्विजों का मित्र जराहीन इन्द्र है, उनका प्राण महान् होता है, उनका ज्ञानखड्ग विशाल और शरीर महान् बलशाली होता है ॥ २४ ॥

त्रिशोकदृष्टा गायत्री । ऐन्द्राग्नपुरोरुक् । ' इन्द्राग्नी ' ( वा ० सं ० ७ ३१ ) इत्यस्या: स्थाने ' बृहत् ' इति ऋक् । येषां यजमानानां युवा सपर्य इन्द्रः सर्वकर्मसु दक्षः कुशलः सखा सहायः, एषामिन्द्रो बृहन् इद् महानेव इध्मो भवति इन्धे येन स इध्मः, ' इषियुधीन्धिदसिश्याधूसूभ्यो मक् ' ( उ ० १।१४५ ) इति साधुः शस्त्रं । यद्वा तेषामेषां यजमानानां बृहन् इद् महानेव इध्मो भूरि बहु शस्तं शस्त्रं होतृषदनासीनेन उपयुज्यते होत्रा पठितं , सोऽपि बहु महत्त्वोपेतं स्वरुः खड्गः, यूपाय काष्ठछेदने प्रथमोत्पन्नः शकलो वा स्वरुः । यः स्वरुर्होम वा भूयोभूयः पृथुविशाल भवति । महत्त्वं च साधनानां साध्योत्कर्षं कुर्वतां भवति । एतत्कथनेन यज्ञानां करणमेवाभिप्रेतं स्यात् । कुशलः सखा सहायः, तेषामेषां अध्यात्मपक्षे -- युवा तरुणः समर्थ इन्द्रः परमात्मा येषां जनानां दक्षः भवति, सर्वाणि बृहन् इद् महानेव इध्मः शस्त्रमृकसमूहविशेषो बहु भूरि स्वरुः काष्ठशकलविशेषः पृथुविशालो यज्ञसाधनानि गुणसम्पन्नानि महाफलनिष्पादकानि भवन्ति । दयानन्दस्तु -- ' येषामिध्मः पृथुः स्वरुर्युवा बृहन्निन्द्रः सखास्ति, एषामिव एषामेव भूरि च शस्तं स स्तुतियोग्यं प्रदीप्तोऽपि कर्म भवति ' इति, तदपि यत्किञ्चित् सर्वावस्थातीते परमात्मनि युवत्वानुपपत्तेः । न नीरूपत्वात् । विस्तीर्णतापि तस्य न समञ्जसा, नित्यव्यापकस्य संकुचितत्वाभावेन विस्तीर्णताया अप्यसङ्गतेः ॥ २४ । शस्तं ॥ स्तुत्यं कर्म इत्यपि निर्मूलम्, मन्त्रे कर्मपदाभावात् । तदपेक्षया शस्त्रमेवाधिकं सङ्गतम्, धात्वर्थानुरोधात्

इन्द्रेह मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पव॑भिः । म॒हाँ २ ॥ अ॑भि॒ष्टिरोज॑सा ॥ २५ ॥

मन्त्रार्थ - हे इन्द्र! आप यहाँ आइये, तेज से श्रेष्ठ पूजनीय सोमरस से संयुक्त हमारे दिये हुए अन्न से आप तृप्त होइये ॥ २५ ॥

मधुच्छन्दोदृष्टा गायत्री वैश्वदेवपुरोरुक् । ' ओमासः ' ( वा ० सं ० ७ ३६ ) इत्यस्याः पररूपम् स्थाने । ' इन्द्रेहि आगत्य ' इति च ऋक् । हे इन्द्र आ इहि, इह आगच्छ, ' ओमाङोश्च ' ( पा ० सू ० ६।११ ९ ५ ) इति त्वं अन्धसोऽध्यानीयस्य सोमलक्षणस्यान्नस्य स्वांशेन अथवा अन्धसा, विभक्तिव्यत्ययः, हविर्लक्षणेनान्नेन सोमः मत्सि तृप्यस्व, ' मदी हर्षे ' श्यनो लुक् । ततोऽपि विश्वेभिः सर्वैः सोमपर्वभिः सोमयाग स्वकीयेन कालनिमित्तभूतैः बलेन महानसि सोमांशुभिर्वा त्वं मत्सि । कस्मात् त्वमेवमस्माभिः प्रार्थ्य से? इत्याह - यत ओजसा श्रेष्ठोऽसि, अभिष्टिरभ्येषणशीलश्च शत्रूणामभियष्टव्यो वासि । पृषोदरादित्वात् सिद्धिः । अध्यात्मपक्षे – हे इन्द्र, परमैश्वर्यवन् ईश्वर, त्वमेहि आभिमुख्येनागच्छ । अन्धसा सोमपर्वभिः सोमां-शुभिश्च त्वमोजसा बलेन महानसि । अभिष्टिश्च सर्वैरभियष्टव्यः पूजनीयश्च । सोमपर्वभिरन्धसो दयानन्दस्तु – ' हे इन्द्र विद्वन् यतस्त्वमोजसा सह महानभिष्टिरभियष्टव्यो विश्वेभिः सुरराजस्यापि मत्सि, तस्मादस्मानेहि ' इति, तदपि यत्किञ्चित्, अल्पशक्तिमतो जीवस्येन्द्रशब्दार्थत्वायोगात् । परमेश्वरांशत्वेनैवेन्द्रत्वम्, अन्यापेक्षया परमैश्वर्यवत्त्वात् । परमेश्वर एव चाभियष्टव्यः च, सामाजिका अभियजनफलस्य राजानं दातुं शक्तत्वात् । न च मनुष्याणां तृप्तौ सोमस्य सोमपर्वणो वा उपयोगो दृश्यते । न विद्वांसं वा मनुष्यं सोमपर्वभिर्यजन्ति ॥ २५ ॥