वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 431–440

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 431–440

पृष्ठ 431

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 431 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४८ शुक्लयजुर्वेदसंहिता [ अ ० ३३

इन्द्रो॑ वृ॒त्रम॑वृणी॒च्छर्ध॑नोति॒ प्र मा॒यिना॑ममिना॒द्वषि॑णीतिः ।

अन् व्य॒ सम॒शध॒ग्वने॑ष्वाविद्धेन अकृणोद् राम्याणा॑म् ॥ २६ ॥

मन्त्रार्थ - बलवान् नानारूपधारी चोरों के दाहक इन्द्र ने मायावी असुरों को युद्ध के लिये ललकारा और उन्हें मार डाला । वन में खोज खोज कर उसने दुष्टों का नाश किया और ऋत्विजों की पवित्र वाणियों को प्रकट किया ॥ २६ ॥

विश्वामित्रदृष्टा त्रिष्टुप् । प्रथममरुत्वतीयपुरोरुक् । ' इन्द्र मरुत्व ' ( वा ० सं ० ७/३५ ) इत्यस्याः स्थाने ' इन्द्रो वृत्रम् ' इति ऋक् । य इन्द्रो वृत्रं दैत्यमवृणोद् युद्धाय वृणोति स्म, यश्च मायिनां मायिनो दैत्यान्, विभक्ति-व्यत्ययः, प्रामिणाद् हिनस्ति, ' मीञ् हिंसायाम् ' क्रयादिः, प्वादित्वात् ' ध्वादीनां ह्रस्वः ' ( पा ० सू ० ७/३/८० ) इति ह्रस्वत्वम् । मायिनामिति सम्बन्धसामान्यविवक्षायां कर्मणि षष्ठी । यश्च व्यंसम् ' अंस समाघाते ' चुरादिरदन्तः, विशेषेणासयति समाहत्य गृह्णाति सर्वस्वमिति व्यंसः साहसिको धूर्तो वा, तम् । अहन हन्ति । क्व? वनेषु । वनस्थानपि दुष्टान् हन्तीत्यर्थः । यश्च इन्द्रः शर्धनीतिः शर्धे चतुरङ्गे बले नीतिर्यस्य सः, शर्ध इति बलनामसु ( निघ ० २२ ९ / ७ ), चतुरङ्गबलनीतियुक्तः, यश्च वर्पणीतिः वर्षं नानारूपं नयति प्राप्नोतीति वर्षंणीतिः, वर्ष इति रूपनामसु ( निघ ० ३।७१३ ), स्वेच्छया नानारूपविजृम्भकः, यश्च उशधम् उशन्ति कामयन्ते परस्वमित्युशाः, पचाद्यच्, आषं सम्प्रसारणम्, चौरास्तान् दहतीत्युशधक्, वनेष्वपि विद्यमानान् उशान् शत्रुत्वं कामयमानान् दहतीत्युशधक् स इन्द्रः, राम्याणाम्, रमयन्ति देवान् क्रताविति राम्यास्तेषां यायजूकानां धेनाः स्तुतिरूपा वाचः, धेना इति वाङ्नामसु ( निघ ० १ | ११ | ३ ९ ), आविरकृणोत् प्रकटयति, यजमानाः स्तुवन्तीति प्रादुष्करोतीत्यर्थः । यद्वा अवश्यं रमयितव्यानां राम्याणां यजमानानां घेनाः स्तुतिरूपा वाच इत्थं शत्रून् हन्ति, इत्थमपरिमितं धनं ददातीत्येवंरूपाः, प्रकटयतीत्यर्थः । अध्यात्मपक्षे - य इन्द्रः परमेश्वरः, वृत्रं प्रावारकमज्ञानम्, अवृणोत् युद्धाय वृणोति यश्च शर्धनीति-रज्ञानादिभिः शत्रुभिः सार्धं सामादिनीतिमपहाय बलनीति दण्डनीतिमङ्गीकरोति यश्च मायिनां मायितः प्रामिणाद् हिनस्ति, यश्च वर्पणीतिः पुरुरूप ईयते, यश्च व्यंसं धीसम्बन्धिनं मायिनम्, अन् हन्ति, यश्च भक्तानां वनेषु उशधग् उशान् शत्रुत्वं कामयमानान् वनेष्वपि वर्तमानान् दहति स इन्द्र राम्याणामवश्यं रमयितव्यानां धेनाः स्तुतीरावरकृणोत् प्रकटयति । दयानन्दस्तु – ‘ शर्धनीतिर्वर्पणीतिरुशधग् इन्द्रो वृत्रमवृणोत् । मायिनां प्रामिणाद् वनेषु व्यंसमहन् राम्याणां घेना आविरकृणोत् स एव राजा भवितुमर्हति ' इति, तदपि यत्किञ्चित् इन्द्रपदस्य गौणार्थग्रहणे मानाभावात् । अन्यत्तु सायणमहीधरार्थमोषणमेव ॥ २६ ॥

कुत॒स्त्वमि॑न्द्र॒ मा हि॑न॒ः सन्तेको यासि सत्यते॒ कि त॑ इ॒त्था । सम्पृच्छसे समराणः शुभान-र्वोचेस्तन्नों हरिवो॒ यत्ते अ॒स्मे । महाँ २ ॥ इन्द्रो य ओज॑सा क॒दा च॒न स्त॒रीर॑सि क॒दा च॒न प्रयच्छसि ॥ २७ ॥

मन्त्रार्थ - हे सत्पुरुषों के पालक इन्द्रदेव! आप बिना सहायक के कहाँ जाते है? आपके जाने का क्या कारण है? आपकी इस शुभ यात्रा के विषय में हम विनम्र भाव से पूछते हैं कि हे हरित वर्ण के अश्वों वाले इन्द्रदेव! हमें आप इस एकाकी गमन का कारण बतावें, क्योंकि हम आपके ही हैं । ' महान् इन्द्रो य ओजसा ' ( ७।४० 2 ), ' कदा चन स्तरोरसि ' ( ८12 ), ' कदा चन प्रयुच्छसि ' ( ८/३ ) ये तीन मन्त्रों के प्रतीक हैं । इन मन्त्रों से भी इन्द्र की स्तुति की जाती है || २७ ||

पृष्ठ 432

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 432 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

61 म ० २७ ] वेदार्थ पारिजात भाष्यसहिता II अगस्त्यदृष्टा त्रिष्टुप् । सशस्त्रमरुत्वतीयपुरोरुक् ' मरुत्वन्तम् ' ( वा ० सं ० ७।३६ ) इत्यस्याः स्थाने ' कुतस्त्वम् ' इति ऋक् । इन्द्रमरुत्संवादे मरुतां वाक्यमेतदिन्द्रं प्रति । हे इन्द्र! हे सत्पते, सतां श्रुतिस्मृत्युक्ता -चारनिष्ठानां पतिः पालकः सत्पतिः, तत्सम्बुद्धौ त्वमेकः सन् असहायः सन् कुतो यासि क्व गच्छसि । ते तव इत्था इत्थमनेन प्रकारेणेति विग्रहे इदमः ' इदमस्थमु: ' ( पा ० सू ० ५।३।२४ ) इति स्थमुप्रत्यये, मान्तत्वात् ‘ कृन्मेजन्तः ' ( पा ० सू ० १ | १ | ३ ९ ) इत्यव्ययत्वात्, ' अव्ययादाप्सुप: ' ( पा ० सू ० २।४।८२ ) इति विभक्तेर्लुकि प्राप्ते, ' सुपां सुलुक् ' ( पा ० सू ० ७ १ ३ ९ ) इति विभक्तेर्डादेशः । कीदृशस्त्वम्? माहिनो महितः पूज्यः, निष्ठातस्य नत्वं धातोर्वृद्धिश्च छान्दसी । यद्वा मह उत्सवोऽस्यास्तीति मही, स एव माहिनः, ' प्रज्ञादिभ्यश्च ' ( पा ० सू ० ५।०।३८ ) इति प्रज्ञादेराकृतिगणत्वात् स्वार्थेऽणु, ' इनण्यनपत्ये ' ( पा ० सू ० ६ | ४ | १६४ ) इति टिलोपाभावः । किञ्च, समराणः सम्यग् गच्छन् सन् शुभानैः शोभनैर्वचनैस्त्वं सम्पृच्छ से कतमः पन्था इति लोकान् पृच्छसि एकाकित्वात् । शोभन्त इति शुभानानि शानचि शपि लुप्ते रूपम् । सम्पूर्वस्यर्तेः शानचि शपि लुप्ते समराण इति । हे हरिवः, हरयोऽश्वा अस्य सन्तीति हरिवान्, छन्दसीर: ' ( पा ० सू ० ८ | २ | १५ ) इति मतुपो मस्य वः, तत्सम्बुद्धौ ' मतुवसो रु सम्बुद्धौ छन्दसि ' ( पा ० सू ० ८ | ३ | १ ) इत्यलोऽन्त्यपरिभाषया नकारस्य रुः, हरितवर्णाश्वयुक्त हे इन्द्र, नोऽस्माकं तद् एकाकिगमनकारणं वोचेब्रूहि । यद् यतो हेतोरस्मे वयं ते तव त्वदीया इति हेतोर्वक्तव्यमित्यर्थः । यद्वा हे सत्पते, त्वं कुतः कस्माद्धेतोर्माहिनो महनीयः सर्वस्य पूज्यः सन् असहायः सन् शत्रूनु यासि । किं ते तव इत्थंभूतं प्रयोजनमस्ति येन एकाकी यासि । समराणः सङ्गच्छमानः शुभाः शोभनैर्वचनैः कतमः पन्था इति सम्पृच्छसे लोकान्, हे हरिहो हरिवन्, तत्कारणं नोऽस्माकं वोचेब्रूहि । अथवा यत्ते व्यावृत्तिकारणं तत् तदस्मेऽस्मासु वोचेरिति सम्बन्धः । ' अस्मदः ' इति सप्तमीबहुवचने ' सुपां सुलुक् पूर्वसवर्णाच्छेयाडाड्यायाजाल: ' ( पा ० सू ० ७ | १ | ३ ९ ) इति विभक्तेः शे आदेशे, ' लशक्वतद्धिते ' ( पा ० सू ० १ ३८ ) इति शकारस्य इत्संज्ञायाम्, ' शेषे लोप: ' ( पा ० सू ० ७ २ ९ ० ) इति मपर्यन्तात् परस्य लोपे ' अस्मे ' इति रूपम् । तिस्रः प्रतीकोक्ताः । तत्र ( १ ) ' महाँ इन्द्रो य ओजसा ' ( वा ० सं ० ७ ४० ) इत्यस्या माहेन्द्रग्रहणे विनियोगः । ' महाँ इन्द्रो नृवत् ' ( वा ० सं ० ७ ३ ९ ) इत्यस्याः स्थाने ' कदाचन स्तरीरसि ' ( वा ० सं ० ८ २ ), ' कदाचन प्रयुच्छसि ' ( वा ० ८1३ ) इति द्वयोरादित्यग्रहणे विनियोगः । -अध्यात्मपक्षे – इन्द्र ऐश्वर्यवान् भक्तानां रक्षार्थं भक्तविरोधिनां शत्रूणां निराकरणार्थं त्वरया गरुडादीनपि परित्यज्य गच्छति । यथा गजेन्द्रोद्धारे -पर्यङ्कं विसृजन् गणानगणयन् भूषामणि विस्मरन् उत्तानोति गजा गजेति निगदन् पद्भ्यामनालोकयन् । निर्गच्छन्नपरिच्छदः खगपति चारोढुमीक्षन् द्रुतं ग्राहग्रस्तगजेन्द्रपुङ्गवसमुद्धाराय नारायणः ॥ ततोऽपि त्वरायाम् -'छन्दोमयेन गरुडेन समुह्यमानश्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ' ( भा ० पु ० ८॥ ३१ ) । गरुडो महता वेगेन धावन्नपि - ' चक्रेण नक्रवदनं विनिपाट्य तस्माद्धस्ते प्रगृह्य भगवान् कृपयोज्जहार ' ( भा ० पु ० २२७ १६ ) इति गजेन्द्रोद्धरणानन्तरं विश्रमणकाले तत्राजगाम । तदुक्तमभियुक्तैः - ' या त्वरा द्रौपदी -त्राणे या त्वरा गजमोक्षणे । मय्यार्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥ ' इति । व्याख्यानं तु पूर्ववदेव ज्ञेयम् । दयानन्दस्तु – ' हे सत्पते इन्द्र, माहिनस्त्वमेकः सन् कुतो यासि किं त इत्था? हे हरिवो यदस्मे ते तस्मात् समराणस्त्वं नः सम्पृच्छसे शुभानैस्तद्वोचेश्च ' इति, तदपि यत्किञ्चित् इन्द्रं राजानं परिकल्प्य राजपुरुषैस्तथा प्रश्नकल्पनस्य निर्मूलत्वात् तादृशलक्षणायां बीजाभावाच्च । न च ' हरिवः ' इति सम्बोधनं

पृष्ठ 433

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 433 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्ल यजुर्वेदसंहिता [ अं ० ३३ राजसु प्रयुज्यते, तथा शिष्टाप्रयोगात् । न च सर्वेऽश्वा हरिशब्देन विवक्ष्यन्ते, हरयो हरिद्वर्णा इन्द्रस्य देवराज-स्यैवाश्वाः, तथा भगवतो भास्करस्यापि । तथा चामरसिंह: ' भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ' ( अ ० को ० १।३।२ ९ ) । रामायणेऽरण्यकाण्डे पञ्चमे सर्गे महर्षिशरभङ्गसमीपे भगवता रामभद्रेण कृतमिन्द्र-दर्शनं वर्णितम् -समीपे शरभङ्गस्य ददर्श महदद्भुतम् ॥ ४ ॥

विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् । रथप्रवरमारूढमाकाशे विबुधानुगम् ॥ ५ ॥

असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् । सम्प्रभाभरणं देवं विरजोऽम्बरधारिणम् ॥ ६ ॥

तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः । हरितैर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥ ७ ॥ इति ।

श्रीरामचाद्भुतं तद् दृष्ट्वा लक्ष्मणमब्रवीत् । यद्यथा-रामोऽथ रथमुद्दिश्य भ्रातुर्दर्शयताद्भुतम् ॥ १२ ॥

अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण । प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम् ॥ १३ ॥

ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः । अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥ १४ ॥ इति ।

नवा राजा एकाकी युद्धार्थं गच्छति, सहायानपेक्षस्य इन्द्रस्यैव तथात्वोपपत्तेः । न च सम्पृच्छस इति वर्तमान प्रयोगस्य पृच्छेति कल्पनं युक्तम्, यथाश्रुतार्थत्यागे कारणाभावात् ॥ २७ ॥

आ तत॑ इन्द्रा॒यवः॑ पनन्ता॒भि य ऊर्वं गोम॑न्तं॒ तितृ॑त्सान् । स॒कृत्स्वं ये पु॑रुपु॒त्रां म॒ही ँ स॒हस्र॑धारा॑ बृह॒तीं दुदु॑क्षन् ॥ २८ ॥

~ मन्त्रार्थ - - हे इन्द्रदेव! जो मनुष्य जल से युक्त सोमरूप अन्न को अभिषुत करना चाहते हैं, जो एक ही बार धन देने वाली, अनेक पुत्रों वाली, अनन्त धारा वाली इस विशाल भूमि को दुहना चाहते हैं, वे इस शुभ कर्म के लिये आपको पूजते हैं ॥ २८ ॥

गौरवीतिदृष्टा त्रिष्टुप् । आदित्यग्रहस्य दधिश्रपणे विनियुक्ता । ' यज्ञो देवानाम् ' ( वा ० सं ० ८२४ ) इत्यस्याः स्थाने ' आ तत्त ' इति ऋक् । आपसर्गः पनन्तेत्याख्यातेन संसृज्यते । हे इन्द्र, ते तव कर्म वृत्रवधादिकम्, आयवो मनुष्या यजमाना, आयव इति मनुष्यनामसु ( निघ ० २।३।१७ ), आपनन्त पूजयन्ति पनतिः पूजा-कर्मा ( निघ ० ३ | १४ | ३१ ), लङ अडभाव आर्षः । कथम्भूता आयवः? ये आयव ऊर्वमन्नं सोमरूपं अभि तितृत्सान् अभितितृत्सन्ति तर्दितुं हिंसितुमिच्छन्ति, ' उतृदिर हिसानादरयोः ' सन्नन्तः । ' इतश्च लोपः परस्मैपदेषु ' ( पा ० ३ | ४ | ९ ७ ) इत्यन्ते रिकारलोपः संयोगान्तलोपश्च ये सोमं सोतुमिच्छन्तीत्यर्थः । गोमन्तं गौरुदकमस्ति यस्मिन् स गोमान् निग्राभ्यालक्षणोदकयुतः, तम् । ताभिरेव सोमः सूयते । पुनः कीदृशा आयवः? ये मनुष्या महीं भूमि दुदुक्षन् दुधुक्षन्ति दोग्धुमिच्छन्ति, दुहेः सन्नन्ताल्लट् पूर्ववदिकारलोपः, तेऽपि तव कर्म पनन्ति स्तुवन्ति । कीदृशीं महीम्? सकृत्स्वं सकृदेकवारमेव प्रभूतं सूते बहु हिरण्यधान्यादि ददातीति सकृत्सुः, ताम् । पुरुपुत्रां बहुपुत्राम्, सर्वेषां पृथिवीत एवोत्पत्तेः । सहस्रधारां सहस्रं धारा अविच्छिन्न वेगेन पतनं हिरण्यादीनां यस्यां सा, बहुभोगदेति यावत्, ताम् । यद्वा सहस्रमसंख्यं प्राणिजातं धरतीति सहस्रधारा ताम्, बृहती महती ये विप्राः सोममभिषुण्वन्ति ये च क्षत्रिया भूमि दुहन्ति पालयन्ति ददते वा ते इन्द्रस्य वृत्रवधादि कर्म स्तुवन्ति, नान्ये दुर्मेधस इत्यर्थः ।

पृष्ठ 434

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 434 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २८-३० ] वेदार्थ पारिजातभाष्यसहिता ५१ अध्यात्मपक्षे - हे इन्द्र परमेश्वर, आयवो मनुष्यास्तव कर्म दुष्टनिग्रह - शिष्टपरिपालन- प्रपञ्चसृष्टिस्थिति- अभि-पालनादि आपनन्त पूजयन्ति । के मनुष्याः? ये गोमन्तम् ऊर्वम् अभि तितृत्सान् निग्राभ्यायुक्तं सोमम् षण्वन्ति ये च विविधविशेषां भूमिं पालयन्ति ददते च, ते मनुष्यास्तव कर्म पूजयन्ति न सामान्यजनाः । -दयानन्दस्तु – ' हे इन्द्र, य आयवो मनुष्याः सकृत्स्वं या सकृद् एकवारं सूते सा सकृत्सः तां तमूर्वं पुरुपुत्रां हिसक सहस्रधारां बृहतीं महीं महतीं भूमिं दुदुक्षन् दोग्धुमिच्छेयुः, ये गोमन्तं दुष्टा गाव इन्द्रियाणि यत्किञ्चित् यस्य, अत्रापीन्द्र-तितृत्सान् तर्दितुमिच्छेयुः, ये च ते तदा पनन्तः प्रशंसेयुः तान् त्वं सततमुन्नय ' इति, तदपि पदेन राज्ञो ग्रहणस्य निर्मूलत्वात् । गोमन्तमित्यनेन दुष्टा गावो यस्येति ग्रहीतुं न शक्यते, मन्त्रे ` दुष्टपदाभावात् । ऊर्वपदस्य न हिंसकोऽप्यर्थः, अत्रोर्वपदेन सोमलक्षणस्यान्नस्यैव जिघृक्षितत्वात् । अन्यत्तु महीधराद्यनु-करणमेव ॥ २८ ॥

इ॒मा॑ ते॒ धियं॒ प्रभ॑रे म॒हो म॒हीम॒स्य स्तोत्रे धि॒षणा यत्त॑ आन॒जे ।

तम॑त्स॒वे च॑ स॒वे च॑ सासहिमिन्द्र॑ दे॒वास॒ शव॑सा मदन्ननं ॥ २ ९ ॥

मन्त्रार्थ - हे इन्द्रदेव! आप हमारे पूज्य हैं, इस महान् स्तुति को हम आपको समर्पित करते हैं । इस यजमान की बुद्धि आपके स्तोत्रगान से स्थिर हुई है । देवगण सब प्रकार के अभ्युदय में पुत्रोत्सव आदि के अवसर पर बलवान् शत्रुओं के जेता इन्द्र का अनुमोदन करते हैं ॥ २ ९ ॥ ' इति ऋक् । कुत्सदृष्टा जगती । सावित्रपुरोरुक् । ' वाममद्य ' ( वा ० सं ० ८/६ ) इत्यस्याः स्थाने । ' कीदृशस्य इमां ते ते? महो हे इन्द्र, इमां मामकीं धियं बुद्धि स्तुति वा कर्म वा ते तुभ्यं प्रभरे प्रहरामि समर्पयामि धिषणा बुद्धिर्वाग् वा स्तोत्रे महतः पूज्यस्य वा धियम् । कीदृशीम्? महीं महतीम् । यद् यस्मात्, अस्य यजमानस्य । यद्वा अस्य क्रियमाणे ते तव, कर्मणि षष्ठी, त्वाम् आनजे अभिव्यनक्ति, अञ्जलिटि नकारलोपश्छान्दसः , ऐन्द्रमेव यज्ञं प्रकाशयति । यज्ञस्य स्तोत्रे धिषणा वाग् यद् यस्मात् तव स्वभूतान् गुणान्, आनजे अभिव्यनक्ति ' ( पा ० सू ० १।४।८१ ) किञ्च, तमेवेन्द्रं देवासो देवा अपि, अन्वमदन् अनुमदन्ति, अभिष्टुवन्ति, ' छन्दसि परेऽपि इत्यनोः परः प्रयोगः । क्व स्तुवन्ति? उत्सवे अभ्युदये प्रसवे गुर्वनुज्ञायां सत्याम् । यद्वा प्रसवे पुत्राद्युत्पत्तिरूपे । उत्सवे इन्द्रं स्तुवन्ति । कीदृशमिन्द्रम्? शवसा बलेन, सासहिं सहत इति सासहिस्तम्, शत्रूणामभिभवितारम् चकारौ समुच्चयार्थी । अध्यात्मपक्षे- ' हे इन्द्र परमेश्वर, इमां महीं महतीं मामकीं धियं स्तुति बुद्धि वा ते तुभ्यं प्रभरे प्रहरे समर्पयामि । कीदृशस्य ते? महः, महतो ब्रह्मरूपस्य । शेषं पूर्ववद् व्याख्येयम् । व्यनक्ति तं दयानन्दस्तु ' हे इन्द्र, अहं महीमिमां ते धियं प्रभरे धरे स्तोत्रेऽस्य धिषणा यत्ते आनजे शवसा बलेन सासहिं भृशं सोढारमिन्द्रमहमुत्सवे प्रसवे च देवासोऽन्वमदन् ' इति, तदपि यत्किञ्चित्, सामान्यराज-परत्वे लौकिकार्थबोधकत्वेनानुवादकत्वात् अनधिगतगन्तृत्वाभावेन वेदानामप्रामाण्यापत्तेः । बहुभिरंशैर्मही-धरार्थानुकरणमेव ॥ २ ९ ॥

वि॒भ्राड् बृहत्पबतु सो॒म्य॑ मध्वायु॒र्दध॑द्य॒ज्ञप॑त॒ववि॑हु॒तम् ।

वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः प॑पोष पुरु॒धा वि राजति ॥ ३० ॥

पृष्ठ 435

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 435 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२ शुक्लयजुर्वेदसंहिता [ अ ० ३३ का मन्त्रार्थ - हे सूर्यदेव! यजमान में अखण्डित आयु को स्थापित करते हुए आप इस अत्यन्त स्वादु सोमरूप हवि करते हैं, अनेक रूपों में शोभित पान कीजिये । सूर्यदेव वायु से प्रेरित आत्मा द्वारा प्रजा का पालन और पोषण होते हैं ॥ ३० ॥

सर्वेषां देवानामाप्त्यै सौर्या अथ तृतीयमहः सूर्यस्तुत्, ' सूर्यस्तदुक्थ्यस्तृतीयमहर्भवति । सूर्यो वै इति सर्वे श्रुतेः देवाः । चतुर्दश सौर्यः पुरोरुचः, ग्रहा भवन्ति सौर्यः पुरोरुचः सर्व १७ सौर्यमसदिति ' ( श ० १३ | ७ | ११५ ) । ऐन्द्रवायवादि-तिस्रः प्रतीकोक्ताः । एवं सम्भूय सप्तदश ऋचः सूर्यस्तुत्संज्ञे उक्थ्यसंस्थे सर्वमेधस्य तृतीयेऽहनि ऐन्द्रवायवपुरोरुक् । विभ्राट् सावित्रान्तानां ग्रहाणां पूर्वोक्तक्रमेण ग्रहणमन्त्रा बोध्याः । विभ्राहृष्टा जगती ॥ कीदृशं सोम्यम्? वृहन्महद् विविधं भ्राजत इति विभ्राट् सूर्यः, सोम्यं सोमसम्बन्धि सोमरूपं वा हविः प्रेरितं पिबतु रविमण्डलं भ्रमतीति ज्योतिः-मधु मधुरस्वादोपेतम् । यः सूर्यो वातजूतो वातेन प्रेरितः सन् वातेन यो गगनप्रतिष्ठां ज्योतींषि चारयति शास्त्रे प्रसिद्धिः । तथा चाह कालिदासोऽभिज्ञानशाकुन्तले -- ' त्रिस्रोतसं वहति मार्गम् ॥ ' इति । त्मना आत्मना च प्रविभक्तरश्मिः । तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति पालयति, पुपोष पुष्णाति ' मन्त्रेष्वाङयादेरात्मनः ' ( पा ० सू ० ६ । ४ । १४१ ) इत्याकारलोपः । प्रजा अभिरक्षति वा । किं कुर्वन्? च शीतोष्णवातवर्षैः । पुरुधा बहुरूपेण विराजति शोभते च अग्निविद्युन्नक्षत्ररूपैर्दीप्यते धातोर्निष्ठायां ह्र - आदेशः । यज्ञपती यजमानेऽविहृतमखण्डितम्, ' ह्रह्वरेश्छन्दसि ' ( पा ० सू ० ७/२/३१ ) इति आयुर्दधत् स्थापयन् । प्रजा अभिरक्षति पुपोष दयानन्दस्तु - ' यो वातजूतः सूर्य इव विभ्राड् अविहृतमायुर्यज्ञपतौ यत्किञ्चित् दधत्, त्मना अनुपपत्तेः । किञ्च, गौणार्थ-पुरुधा विराजति च स भवान् बृहत् सोम्यं मधु पिबतु ' इति, तदपि , सूर्यतुल्य प्रकाशो वा भवति । न च भोजनादि-स्वीकरणमेव सर्वत्र । नहि मनुष्यो राजा वा वायुजतो वा भवति । तस्यौषधिरसपानविधानमपि व्यवहारे यज्ञः, न वा तत्पालको यज्ञपतिर्भवति । न राजा पुरुधा विराजति व्यर्थमेव, रागप्राप्तत्वेन विधातुमर्हत्वात् ॥ ३० ॥

उद॒ त्यं जा॒तवे॑दसं दे॒वं व॑ह॒न्ति कृ॒तवः॑ । दशे विश्वा॑य सूर्ये स्वाहा ॥ ३१ ॥

८ विश्व को प्रकाशित मन्त्रार्थ- -- सब पदार्थों को जानने वाले, प्रकाशात्मक सूर्यदेव की किरणें उनको इस । समस्त इन्हीं के निमित्त प्रदत्त यह करने के निमित्त वितर्क के साथ प्रतिदिन ऊर्ध्व वहन करती हैं, अर्थात् स्वर्ग में पहुँचाती हैं हवि भली प्रकार गृहीत हो ॥ ३१ ॥

केतवो रश्मयः, त्यं तं तिस्रः प्रस्कण्वकुत्सागस्त्यदृष्टाः, सौरी गायत्री । ऐन्द्रवायवस्य द्वितीया वा पुरोरुक् यस्मात् । तम् । किमर्थमुद्वहन्ति? प्रसिद्धं सूर्य देवमुद्वहन्ति । कीदृशं देवम्? जातवेदसम् जातं वेदो ज्ञानं धनं सुहुतमस्तु । अन्यत् सप्तमेऽध्याये विश्वाय विश्वस्य दृशे दर्शनाय, जगद् द्रष्टुमित्यर्थः । तस्मै सूर्याय स्वाहा एकचत्वारिश्याः कण्डिकाया व्याख्याने उक्तम् ॥ ३१ ॥

येना॑ पावक चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ २॥ अनु॑ । त्वं वरु॑ण॒ पश्य॑सि ॥ ३२ ॥

चक्षु से आप मन्त्रार्थं - - हे शोधक वरुणदेव! आप जिस अनुग्रह दृष्टि से उस सुवर्ण स्वरूप को देखते हैं, उसी हम ऋत्विजों को भो देखिये ॥ ३२ ॥

पृष्ठ 436

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 436 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३२-३३ ] वेदार्थं पारिजातभाष्यसहिता ५३ सौरी गायत्री | मैत्रावरुणपुरोरुक् । सर्वमेघे पक्ष्याकारेणाग्निश्चीयते । तद्रूपमात्मानं सम्पाद्य मुक्ति -माप्नोति । तदत्र प्रतिपाद्यते - हे पावक पावयितः शुद्धिकारक, येन चक्षसा दर्शनेन त्वं भुरण्यन्तमनुपश्यसि, क्षिप्रपाती पक्षी भुरण्युः, भुरण्युमात्मानं करोतीति भुरण्यति भुरण्यतीति भुरण्यन् तम् शतृप्रत्ययान्तः । सर्वमेधयाजिनं भुरण्युपक्षिरूपमात्मानं कृत्वा स्वर्गच्छन्तं येन चक्षसा ज्ञानेनानुपश्यसि तेन चक्षसा जनानस्मानपि भुरण्यतो हे वरुण, अत्र वरणीयत्वात् सूर्य एव वरुण उच्यते, हे सूर्य! त्वं पश्य । तदोऽध्याहारेण वाक्यपूर्तिः । अध्यात्मपक्षे - हे पावक, पावयतीति पावकः, तत्सम्बुद्धौ हे परमेश्वर! तस्यैव पावनहेतुनामगुणकर्म-स्वरूपत्वात् । येन दर्शनेन त्वद्विषयकज्ञानेन भरण्यपक्षिवदात्मानं त्वल्लोकं गच्छन्तमनुपश्यसि, तेनैव चक्षसा ज्ञानेन जनानस्मानपि भुरण्यतः पश्य । अत्र सगुणब्रह्मप्राप्तिदृष्ट्या शीघ्रगामिपक्षिवदात्मानं कृत्वा भगवल्लोकं साधको गच्छति । निर्गुणब्रह्मदृष्टया तु शीघ्रतया देहाद्युपाधिबाधेन नित्यप्राप्तब्रह्माभिव्यक्तिरेव विवक्षिता । ' न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ' ( वृ ० उ ० ४।४।६ ) इति श्रुतेः । दयानन्दस्तु – ' हे पावक वरुण विद्वन् त्वं येन चक्षसा भुरण्यन्तमनुपश्यसि तेन जनान् पश्य । तवानुकूलाच वयं वर्तेमहि ' इत्यादिकं व्याख्याति, तदपि यत्किञ्चित्, मनुष्यस्य विदुषो राज्ञो वा दर्शनमात्र-कर्मणि वैशेष्यानुपपत्तेः । देवाः सत्यसङ्कल्पाः सङ्कल्पमात्रेणानुग्रहवत्या बुद्ध्या वा दर्शनगोचरस्य कल्याणं कर्तुं शक्नुवन्ति, दिव्यशक्तित्वात् । न मनुष्यास्तथा कर्तुं पारयन्ति, अल्पशक्तित्वात् । पावकवरुणादिपदानां देवता -विशेषपरत्वमेव, न श्रेष्ठमनुष्यपरत्वम् । नहि धात्वर्थानुरोधमात्रेण प्रयोगा भवन्ति । नहि लोके चेष्टावति गवादी घटशब्दः प्रयुज्यते, अतिप्रसङ्गात् । भुरण्यपदमपि शकुनिविशेषे प्रसिद्धमिति तां प्रसिद्धिमतिक्रम्य पालकमात्र-परत्वे यदि प्रयुज्येत, तर्हि शाब्दन्याये महान् दुर्नयः समुदियात् ॥ ३२ ॥

दैव्या॑व॒ध्वय॒ आग॑त॒थ॒ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञतं॒ सम॑ञ्जाथे । तं प्र॒त्नथा॒यं वे॒नश्चि॒त्रं दे॒वानाम् ॥ ३३ ॥

मन्त्रार्थ - - हे दिव्य अश्विनीकुमारों! आप लोग सूर्य के समान कान्तिमान् रथ से हमारे यहाँ आइये । पुरोडाश, दधि आदि से यज्ञ को सींच कर बहुत हवि वाला बनाइये || ३३ || -गायत्री आश्विनपुरोरुक् । हे दैव्यौ देवानामिमौ दैव्यौ, ' देवाद्यत्रत्रौ ' ( पा ० सू ० ४।१।८५, वा ० ३ ) इति यत्र रूपम्, तत्सम्बोधने । अध्वर्यू अध्वरमिच्छतोऽध्वरीयतः, अध्वरीयत इत्यध्वर्यू, अध्वरशब्दात् ' सुप आत्मनः क्यच् ' ( पा ० सू ० ३।११८ ) इति क्यचि धातुसंज्ञायाम्, ' क्याच्छन्दसि ' ( पा ० सू ० ३।२।१७० ) इत्यु -प्रत्यये, ' न छन्दस्यपुत्रस्य ' ( पा ० सू ० ७७४।३५ ) इति निषेधादीत्वनिवृत्तौ, ' कव्यध्वरपृतनयचि लोपः ' ( पा ० सू ० ७ | ४ | ३ ९ ) इत्यन्त्यलोपे रूपम् । अथवा अध्वरं याति यौति वेत्यध्वर्युः, ' मितद्र्वादिभ्य उपसंख्यानम् ' ( पा ० सू ० ३।२।१८०, वा ० १ ) इति डु: । हे अश्विनी, युवां रथेन आगतमागच्छतम् आगमनं कुरुतम्, शपो लुक् । कीदृशेन रथेन? सूर्यत्वचा सूर्यस्येव त्वक् कान्तिर्यस्य स सूर्यत्वक्, तेन । एत्य च मध्वा मधुरस्वादुना हविषा युवां यज्ञं समञ्जाथे चरुपुरोडाशदध्यादिना च यज्ञं संम्रक्षयतम्, प्रभूतानि हवींषि कुरुतमित्यर्थः । समाप्तमिति साधुरूपं समञ्जयतमित्यर्थः । ' तं प्रत्नथा ' ( ७/१२ ), ' अयं वेनः ( ७ | १६ ), ' चित्रं देवानाम् ' ( ७१४२ ) इति तिस्रः प्रतीकोक्ताः । आद्ये द्वे शुक्रमन्थिपुरोरुचौ, तृतीयाऽऽग्रयणस्य पुरोरुक् । दयानन्दस्तु -- ‘ हे दैव्यावध्वर्यू, सूर्यत्वचा रथेनागतं मध्वा यज्ञं च समञ्जाथे ' इति, यत्किञ्चित्, अतन्त्रत्वात्, देवेषु दिव्येषु विद्वत्सु च कुशलौ अध्वरम हिंसायज्ञं गच्छन्ताविति द्विवचनस्य निर्मूलत्वात्, तथात्वसम्भवात् । सूर्यवद्दीप्तरथोऽपि लोके क्वोपलभ्यते? ॥ ३३ ॥

द्विवचनस्य अन्येषामपि

पृष्ठ 437

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 437 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४ शुक्लयजुर्वेद संहिता [ अ ० ३३

आ न इडभि॑र्वि॒दथे॑ सु॒श॒स्ति वि॒श्वत॑रः सवि॒ता दे॒व ए॑तु ।

अपि॒ यथा॑ यु॒वानो मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥ ३४ ॥

मन्त्रार्थ - सब जीवों का हितकारी अन्तर्यामी ईश्वर हमारी सुन्दर आहुतियों के कारण प्रशंसायोग्य यज्ञशाला में प्रकट हो । हे जरारहित देवताओं! आगमन काल पर जिस प्रकार आप सब तृप्त होते हैं, उसी प्रकार इस सारे जगत् को भी हमारी प्रज्ञा से तृप्त करें ॥ ३४ ॥

अगस्त्यदृष्टा त्रिष्टुप् । ध्रुवपुरोरुक् । द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छ्ब्दयोगादित्युव्त्रटाचार्यः ।, हे देवाः, युवानः सर्वकर्मक्षमा जरारहिताः, षड्विधभावविकाररहिता अविपरिणामिनो वा अपि निश्चितम् अभिपित्वेऽभिपतने आगमनकाले विश्वं जगदुद्धराम इति कृत्वा यथा येन प्रकारेण यूयं मत्सथ तृप्यथ, ' मद तृप्तौ ’ तथा तेन प्रकारेण विश्वानरो विश्वनरहितंकारी सविता देवो नोऽस्माकं यज्ञगृहे आ एतु आगच्छतु क्रियायां । कथ-मागच्छतु? इत्यत आह - इडाभिः सुशस्ति यथा स्यात् तथा इडाभक्षणेन शोभना शस्तिः प्रशंसा यस्यां तथा, यथा सर्वे इडां भक्षयन्ति तथा एत्वित्यर्थः । यद्वा · इडाभिः करणभूतैः सुशस्तिभिश्च शोभनैः शंसनैः शस्त्ररूपैः करणैः सहिते विदथे आगच्छत्वित्यर्थः । यद्वा पूर्वार्धन विश्वानरं सूर्यमुत्तरार्धेन च देवानाह - विश्वानरः सर्वहितकारी सविता देवो नोऽस्माकमिडाभिः सुशस्तिभिर्युक्ते विदथे यज्ञगृहे आगच्छतु । अथ देवानाह - हे देवाः, युवानो जरादिविकाररहिता अपि निश्चित-मभिपित्वेऽभिपतने आगमनकाले यथा येन प्रकारेण यूयं मत्सथ तृप्यथ तथा नोऽस्माकं विश्वं जगद् गन्तृपुत्र-गवादिकं मनीषया मनस इच्छ्या मत्सथ तर्पयत, अन्तर्भावितण्यर्थः । विज्ञापनीये दयानन्दस्तु - ' हे युवानः, यथा विश्वानरो देवः सविता इडाभिः शिक्षिताभिर्वाग्भिविदथे व्यवहारे सुशस्ति नो विश्वं जगत्, तथाभिपित्वे यूयं मत्सथ, या नो मनीषा तामपि शोधयत ' इति, तदपि यत्किञ्चित्, युवानी ब्रह्मचर्येणाधीतविद्या इत्यस्यार्थस्य निर्मूलत्वात् । विश्वानरसवित्रादिपदान्यपि न विश्वनायक-सूर्य तुल्य मनुष्यादिपराणि, तथार्थत्वे मानाभावात्, असम्भवाच्च । तादृशोऽपि न विश्वं जङ्गमं च प्राप्तुं शक्नोति ॥ ३४ ॥

यद॒द्य कच्च॒ वृत्रहन्नु॒दगा॑ अ॒भि सूर्य । सबै तवि॑िन्द्र ते॒ वशे॑ ॥ ३५ ॥

मन्त्रार्थ - हे अन्धकार के नाशक ऐश्वर्ययुक्त सूर्यदेव! जहाँ कहीं भी आप उदित होते हैं, वह सब स्थान आपके ही वश में हो जाता ॥ ३५ ॥

श्रुतकक्ष - सुतकक्षदृष्टा गायत्री । ऐन्द्राग्नग्रहपुरोरुक् । हे वृत्रहन् वृत्रमन्धकारं शार्वरं तमो च हन्तीति दानवे ' वृत्रहा, ' ध्वान्तारिदानवा वृत्रा: ' ( अ ० को ० ३ | ३ | १६४ ), तथा ' वृत्रो रिपौ घने ध्वान्ते शैलभेदे ( मेदिनी १३८।८५ ) इत्यादिकोशेभ्यः । तत्सम्बुद्धौ हे वृत्रहन् सूर्य, हे इन्द्र परमैश्वर्ययुक्त, अद्य यत् कच्च यत्र कुत्रचित् त्वमभि उदगा अभ्युदेषि, तत्सर्वं ते तव वशेऽस्तीति शेषः । यद्वा उदगा इत्यत्र पुरुषव्यत्ययः, यत्किञ्चित् प्राणिजातमुदेति, तत्सर्वं तव वशे । त्वमेव सर्वस्येशिता इत्यर्थः । अध्यात्मपक्षे हे वृत्रहन्, वृत्रमज्ञानान्धकारं हन्तीति वृत्रहा, तत्सम्बुद्धौ हे परमेश्वर, शार्वरतमोहन्तृसूर्यो-पाधिकः परमेश्वरो वृत्रहा । हे इन्द्र परमैश्वर्योपेत, त्वमद्यास्मिन् दिनेऽस्मानभि उदगाः अस्मान् प्रति प्रादुर्भव । यत् कच्च यत्किञ्चिदस्ति तत्सर्वं ते तव वशे ।

पृष्ठ 438

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 438 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३५-३७ ] वेदार्थ पारिजातं भाष्यसहिता ५५ , दयानन्दस्तु – ' हे वृत्रहन् सूर्येन्द्र, ते यदद्य सर्वं वशेऽस्ति तत् कच्चाभ्युदगा: ' इति, तदपि ग्रहणमसङ्ग- यत्किञ्चित् नहि कस्यचिन्मनुष्यस्य सर्वं जगद्वशे भवति । तस्मात् सूर्येन्द्रादिपदेन कस्यचित् तेजस्विनोऽपि तमेव ॥ ३५ ॥

त॒रणि॑वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒माशा॑स रोच॒नम् ॥ ३६ ॥

मन्त्रार्थ - हे सूर्यदेव! आप संसार - सागर में नौका के समान हैं, सबके दर्शन - योग्य हैं, सबको तेज प्रदान करने हैं ॥ ३६ ॥

वाले हैं । यह सारा संसार आपके प्रकाश से प्रकाशित है, आप ही सारे संसार को प्रकाशित करते तरणिः, प्रस्कण्वदृष्टा गायत्री, वैश्वदेवपुरोरुक् । हे सूर्य, यस्त्वं तरणिः, तरत्यतिक्रामति नभोवति सर्वस्य दर्शनीयः ' अतिसृधृधम्यश्य वितृभ्योऽनिः ' ( उ ० २।१०४ ) इति तरतेरनिः प्रत्ययः । विश्वदर्शतः कर्तासि, स त्वं ' भृमृदृशि ( उ ० ३।११० ) इत्यादिना दृशेरतच्प्रत्ययः । ज्योतिष्कृद् ज्योतिषस्तेजसः विश्वं सर्वं संसारमाभासि समन्तात् प्रकाशयसि । कीदृशं विश्वम्? रोचनं दीप्यमानम् । अग्निविद्युन्नक्षत्रचन्द्र-ग्रहतारकादिषु त्वदीयमेव ज्योतिर्ज्वलतीत्यर्थः । अध्यात्मपक्षे - हे सूर्योपाधिक अन्तर्यामिन्, त्वं ज्योतिष्कृद् ज्योतिषां सूर्यचन्द्रादीनां कर्तासि, ' येन सूर्य-स्तपति तेजसेद्धः ' ( तै ० ब्रा ० ३ | १२ | ९ १७ ) इति श्रुतेः, ' यदादित्यगतं तेजो जगद् भासयतेऽखिलम् । जलतरणो- यच्चन्द्र-मसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ ' ( भ ० गी ० १५।१२ ) इति गीतोक्तेश्च । त्वं तरणिरसि पायरूपा तरणिनौका, ' स्त्रियां नौस्तरणिस्तरिः ' ( अ ० को ० १।१०।१० ), तथा ' तरणिद्युमणौ पुंसि कुमारीनौकयोः इति स्त्रियाम् ' ( मे ० ४८ | ५० ), तथा - ' तरणिस्तरणेऽर्केऽश कुमार्योषधिनौकयोः । यष्टावब्धौ ' ( हैं ३ २१५ ) कोषकदम्बकेभ्यः । विश्वदर्शतः, विश्वं दर्शतं दर्शनीयं यस्मात् सः त्वत्सत्तास्फूर्तिभ्यामेव जगत् सत्तास्फूर्तिमद् भूत्वा दर्शनयोग्यो भवति । त्वमेव विश्वमाभासि प्रकाशयसि । कीदृशं विश्वम्? रोचनम्, सूर्यचन्द्रादिभि-र्दीप्यमानम्, ' न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ' ( मु ० २।२1१० ) इति श्रुतेः । दयानन्दस्तु — - ' हे सूर्य, त्वं यथा तरणिविश्वदर्शतो ज्योतिष्कृत् सविता रोचनं विश्वं प्रकाशयति, तथा त्वमपि, यतो न्यायविनयेन राज्यमाभासि, तस्मात् सत्कर्तव्योऽसि ' इति, तदपि यत्किञ्चित्, सूर्यशब्दस्य मनुष्य-परत्वे शब्दान्तराणामसङ्गत्यापत्तेः । नहि सूर्यवन्मनुष्यो ज्योतिष्कृद् भवति, सूर्यशब्दस्य गौणार्थस्वीकारे

मानाभावाच्च ॥। ३६ ॥

तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तोवित॑त॒र्ध॒ सच॑भार ।

य॒देदय॒क्त ह॒रत॑ स॒धस्था॒दाद्रात्र॒ वास॑स्तनुते सि॒मस्मै ॥ ३७ ॥

मन्त्रार्थ - सूर्य का जो यह देवत्व है, यह जो ऐश्वर्य है, वह विराट्रूप देह के मध्य में सब ओर से विस्तारित मण्डल में ग्रहमण्डल को अपनी आकर्षण शक्ति से नियमित रखता है । जब यह अपनी हरित वर्ण की किरणों को आकाश वस्त्र से अपनी आत्मा से युक्त करता है, तदनन्तर ही रात्रि सबके लिये वस्त्राच्छादन करती है, अर्थात् अपने अन्धकार रूपी सबको ढक देती है ॥ ३७ ॥

पृष्ठ 439

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 439 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्लयजुर्वेदसंहितो [ अ ० ३३ कुत्सदृष्ठे त्रिष्टुभौ । मरुत्वतीययोर्ग्रहयोः पुरोरुचौ । सूर्यस्य भगवतस्तदेव देवत्वममानुषत्वं दिव्यत्वं महित्वं महाभाग्यमैश्वर्यम्, तत्किमित्यत आह - यत् कर्ताः कार्यश्रेष्ठस्य जगद्रूपस्य ' ईश्वरे तोसुन्कसुनो ' ( पा ० सू ० ३।४।१३ ) इति तोसुन्प्रत्ययान्तस्य रूपम्, मध्या मध्ये विततं विस्तारितमंशुजालं संजभार संजहार संहरते । नह्यन्यो विश्वविततमंशुजालं प्रसारयितुं संहर्तुं वा शक्नोति । किञ्च यदा इद् यदैव हरितो हरिद्वर्णान् रश्मीन् अयुक्त युङ्क्ते, आत्मन्यारोपयति । सधस्थात् सह तिष्ठन्त्यंशवो यत्र तत् सधस्थं व्योममण्डलम्, तस्मात् सन्ध्याकाले यदैव सूर्यः पीतवर्णान् रश्मीन् स्वात्मन् स्वात्मनि योजयति, आद् अनन्तरमेव रात्री रात्रिनिशा सिमस्मै सर्वस्मै वासस्तनुते, सर्वं वस्तु तमसाच्छादयतीत्यर्थः, व्योममण्डलाद् रश्मिजालस्य सूर्यात्मन्यु-पसंहारे रात्रिसद्भावदर्शनात् । सिमशब्दः सर्वपर्यायः । अध्यात्मपक्षे - सूर्यस्य परमात्मनस्तदेव देवत्वम्, अलौकिकं महित्वं महाभाग्यम्, तत्किमित्याह -- यत् कर्तोः कार्यश्रेष्ठस्य जगतो मध्ये विततं ज्ञानजालं संजभार निद्राकाले प्रत्ययकाले च संहरते । नहि परमात्मान-मन्तरा कश्चिदन्यो जगति ज्ञानजालं प्रसारयितुं संहतुं वा शक्नोति । यदैव हरितो ज्ञानरश्मीन् सधस्थात् सिमस्मै सह तिष्ठन्ति ज्ञानानि यत्र तस्मात् संसाराद् अयुक्त स्वात्मन्युपसंहरति, तदैव रात्रिरविद्या अज्ञानं वा सर्वस्मै वासः प्रावरणं तनुते, अज्ञानेनाच्छादयति । दयानन्दस्तु – ' हे मनुष्याः, जगदीश्वरोऽन्तरिक्षस्य मध्या मध्ये हरितो दिशो यदा विततं विस्तृतं कार्यं जगत् संजभार हरति, सिमस्मै सर्वस्मै रात्री रात्रिवद् वास आच्छादनं तनुते, आद् अनन्तरं सधस्थात् समानस्थानादितः साक्षित्वादनिवृत्तः सन्नेकाग्र एव अयुक्त समाहितो भवति, तत्कर्तोः कर्तुं समर्थस्य समाधि- सूर्यस्य देवस्य देवत्वं तन्महित्वं यूयं जानीत ' इति, तदपि यत्किञ्चित् नित्यं समाहितस्य परमेश्वरस्य केचन निरपेक्षत्वात् । दिशां पदार्थहारित्वमप्यसिद्धमेव । न चात्र जगत्संहारो विवक्षितः, न च प्रलयदशायां प्रावरणीया भवन्ति, येषामन्धकारेण प्रावरणं स्यादिति ॥ ३७ ॥

तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे सूर्यो रूपं कृ॑णुते द्य॑ रु॒पस्थे॑ ।

अ॒न॒न्तम॒न्यद्रुश॑वस्य॒ पाज॑ः क॒ष्णम॒न्यद्धरितः सम्भ॑रन्ति ॥ ३८ ॥

मन्त्रार्थ — सूर्यदेव स्वर्गलोक के उत्संग में पुण्यात्माओं के अनुग्राहक मित्र और पापियों के निग्राहक वरुण के रूप को धारण करते हैं । उसको सर्वात्मरूप देव देखता है, इस सूर्य का अन्य स्वरूप अनन्त, अर्थात् देश - काल के परिच्छेद से रहित, पाधिका नाशक ब्रह्म ही है । इसके साकार रूप को इन्द्रियों की वृत्तियाँ अथवा किरणें धारण करती हैं, अर्थात् सूर्य ही सगुण और निर्गुण ब्रह्म है ॥ ३८ ॥

सूर्योद्योर्द्युलोकस्य उपस्थे उत्सङ्गे मित्रस्य वरुणस्य च रूपं कृणुते कुरुते । येन रूपेण जनान् सुकृतिनो दुष्कृतिनो वा अभिचक्षे अभिचष्टे पश्यति । मित्ररूपेण सुकृतिनो दृष्ट्वाऽनुगृह्णाति वरुणरूपेण दुष्कृतिनो दृष्ट्वा निगृह्णाति चेत्यर्थः । अस्य सूर्यस्यान्यद् एवं पाजो रूपम्, पाज इति बलनामसु ( निघ ०: १ ९ / २ ), इह रूपे वृत्तिः, अनन्तं देशकालवस्तु परिच्छेदशून्यं प्रागभावप्रध्वंसाभावात्यन्ताभावान्योन्याभाव चतुष्टयाप्रतियोगि रुशत् शुक्लं दीप्यमानम् । रोचत इति रुशत्, रोचेरौणादिकेऽतिप्रत्यये चकारस्य शकारो गुणाभावश्च निपात्यते । स्वप्रकाशं सच्चिदानन्दं ब्रह्मैव । ' रु‍ हिंसायाम् ' तौदादिक:, अत्र रुच्यर्थे वृत्तिः, अतो लटि शतरि रूपं रुशदिति । अन्यत् कृष्णं द्वैतलक्षणं रूपं हरितो दिश इन्द्रियवृत्तयः सम्भरन्ति धारयन्ति । इन्द्रियग्राह्यं द्वैतरूपमेकम्, अन्यत् शुद्धचैतन्यमद्वैतम् इति द्वे रूपे सूर्यस्य । तेन सूर्य एव सगुणं निर्गुणं च ब्रह्म ।

पृष्ठ 440

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 440 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३८-३९ ] तद्यथा-- ' I वेदार्थपारिजात भाष्यसहिता ५७ अ॑सि ॥ ३ ९ ॥ अध्यात्मपक्षे - सूर्यो देवो द्योर्द्युलोकस्य उपस्थे उत्सङ्गे मित्रस्य वरुणस्यानुग्राहकं निग्राहकं च रूपं कुरुते, सुकृतिदुष्कृतिनोरनुग्रहनिग्रहार्थम् । सूर्यस्यान्यदेकं पाजी रूपमनन्तं देशकालादिपरिच्छेदशून्यं रुशद् दीप्यमानं शुक्लं विज्ञानानन्दं ब्रह्मैव । अन्यत् कृष्णं हरितो दिश इन्द्रियवृत्तयो वा सम्भरन्ति । समष्टिब्रह्मरूप एव सूर्यः । सगुण निर्गुणं च तस्यैव रूपम् | आदित्ये दक्षिणेऽक्षिणि च विद्यमानो हिरण्यमयः पुरुषस्तस्य सगुणं रूपम् । पुराणेषु च पठ्यते - ' ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः | केयूरवान् मकर-कुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ इति भविष्यपुराणीये आदित्यहृदये । ' योऽसावादित्ये पुरुषः सोऽसावहम् ' ( वा ० सं ० ४० १७ ) इति मन्त्रवर्णे प्रत्यक्चैतन्याभिन्नब्रह्मरूपतापि तस्य विज्ञायते । ' एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो पांपतिः ॥ पितरो वसवः साध्या अश्विनौ मरुतो मनुः । ' इत्यादिबाल्मीकीय रामायणवचनैः सर्वात्मत्वमपि प्रपचितमेव । दयानन्दस्तु - ' हे मनुष्याः, द्योरुपस्थे वर्तमानः सूर्यो मित्रस्य वरुणस्य च तद्रूपं कृणुते येन जनोऽभिचक्षे । अस्य रुशत् शुक्लं पाजः शुद्धस्वरूपमनन्तमन्यदस्ति, अन्यत्कृष्णं हरितः सम्भरन्तीति विजानीत ' इति, तदपि यत्किञ्चित् त्वद्रीत्या सूर्यस्य जडत्वेन चराचरात्मत्वायोगात् । क्वचित् सूर्यपदेन राजा, क्वचिद् विद्वान्, क्वचिदीश्वरो ग्राह्यश्चेत् प्रसिद्धः सूर्यः कथङ्कारं न गृह्येत । नहीश्वरस्य शुद्धं रूपमन्यदशुद्धं च रूपं भवति, तस्य सर्वतः शुद्धरूपत्वात् । सिद्धान्ते तु सुकृतिनामनुग्रहार्थं निग्रहार्थं च सूर्यस्य रूपद्वयं नानुपपन्नम् ॥ ३८ ॥

बण्म॒हाँ २॥ अ॑सि सूर्य बर्डादित्य म॒हाँ २ ॥ अ॑सि ।

म॒हस्ते॑ स॒तो म॑हि॒मा व॑नस्यते॒ऽद्धा दे॑व म॒हाँ २ ॥

मन्त्रार्थ – हे जगत् के प्रेरक सत्यस्वरूप सूर्यदेव, आप ही सर्वश्रेष्ठ हैं । हे परा शक्ति के पुत्र, आप ही महान् हैं । आपकी महान और अविनश्वर महिमा का गान वेद भी करते हैं । हे दीप्यमान सत्यस्वरूप, आप महान् हैं ॥ ३ ९ ॥ अथ द्वाभ्यां प्रगाथः । यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते स प्रग्रथनात् प्रकर्षगानाद्वा प्रगाथ इत्युच्यते । चतुर्थषष्ठौ पादौ प्रगाथे पुनरभ्यस्योत्तरयोरवस्येदित्येवमादिना प्रकारेण प्रगाथः क्रियते । एवं च यदा प्रगाथ-शब्दोऽयं प्रग्रथ्यतेऽसौ प्रगाथ इति विगृह्य ' अकर्तरि च कारके संज्ञायाम् ' ( पा ० सू ० ३।३।१ ९ ) इति कर्मणि घञन्तो व्युत्पाद्यते, पृषोदरादित्वाद् रेफानुनासिकयोर्लोपश्च भवति, तदा प्रग्रन्थनक्रियानिमित्तकः, यदा ' कै शब्दे ' इत्यस्माद् औणादिकेन थनप्रत्ययेन व्युत्पाद्यते, तदा गायन क्रियानिमित्तो भवति । इति द्विधा व्युत्पत्तिः प्रदर्शिता । माध्यन्दिनसवने सोमातिरेके एक शस्त्रमुपजायते । तत्र ' बण्महाँ असि ' इति प्रगाथः स्तोत्रियः । सूत्रितं च- ' बमहाँ असि सूर्योदु त्यद्दर्शतं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ ' ( आश्व ० श्री ० ६।७।६ ) इति । - ' बमहाँ असि सूर्य अद्धा देव महाँ असोमद्धा देव महाँ असि बट् सूर्य श्रवसा ' इति । त योऽयमुच्चारणप्रकारस्तद् ग्रथनम् । अन्यद् गुरुचरणेषु भृशं परिश्रम्य कणेहत्योहनीयमिति । जमदग्निष्टे द्वे बृहतीसतोबृहत्यो । आद्या माहेन्द्रग्रहपुरोरुक् । हे सूर्य, त्वं बट् सत्यं निश्चप्रचं वा महान् परब्रह्मासि । सुवति प्रेरयति कार्येषु जगदिति सूर्य:, ' षू प्रेरणे ' तौदादिकः अस्मात् क्यपि ' राजसूय सूर्य-मृषोद्यरुच्य कुप्य कृष्टपच्याव्यथ्याः ' इति निपातनात् क्यपो रुट् । अथवा सरत्याकाश इति सूर्यः, निपातनात् कर्तरि क्यप् निपातनादुत्वम्, ' उरण् रपरः ' ( पा ० सू ० १।१।५१ ) इति तस्य रपरत्वम्, ' हलि च ' ( पा ० सू ० ८२७७ ) इत्युपधादीर्घः, तत्सम्बुद्धौ हे आदित्य, आदतेंऽशुजालमित्यादित्यः । बट् सत्यं निश्वप्रचं वा त्वं