वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 441–450

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 441–450

पृष्ठ 441

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 441 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५८ शुक्लयजुर्वेदसंहिता [ अ ० ३३ महान् सर्वश्रेष्ठोऽसि । किञ्च महो महतस्ते तव सतोऽत्यन्ताबोध्यस्य नित्यस्य महिमा महाभाग्यं सर्वेषु देवेष्व-वस्थितं पनस्यते पूज्यते सर्वैः प्राणिभिः । अद्धा सत्यं हे देव दानादिगुणोपेत, त्वं महानसि निरतिशयबृहद्ब्रह्म-रूपोऽसि । अभ्यासोऽतिशयादरसूचनार्थः । अध्यात्मपक्षे - हे सूर्य, सुवतीति सूर्यः सर्वान्तर्यामी, तत्सम्बुद्धौ । बट् सत्यं त्वं महान् निरतिशयबृहद्-ब्रह्मरूपोऽसि । हे तेजसां दात आदित्य, बड् महानसि स्वरूपेण गुणेन च महानसि । सतोऽत्यन्ताबाध्यस्य महो महतस्ते तव महिमा महाभाग्यं सर्वत्र पनस्यते पूज्यते, स्तूयते च । अद्धा सत्यं सर्वतोभावेन त्वं महानसीति । दयानन्दस्तु – ' हे सूर्य, यतस्त्वं बट् सत्यं महानसि । हे आदित्य, यतस्त्वं बण्महानसि, सतो महो यतस्ते महिमा पनस्यते । हे देव, यतस्त्वमद्धा महानसि, तस्मादस्माभिरुपास्योऽसि ' इति, तदपि यत्किञ्चित्, बड् अनन्त-ज्ञानमित्यस्य निर्मूलत्वात्, सूर्यादित्यादिशब्दानामविशेषेण परमेश्वरपरत्वे पर्यायत्वापत्तेः ॥ ३ ९ ॥

बट्स॑य॒ श्रव॑सा म॒हाँ २ ॥ अ॑सि स॒त्रा देव म॒हाँ २ ॥ अ॑सि ।

म॒ह्ना दे॒वाना॑मसु॒र्यः पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्य॒म् ॥ ४० ॥

मन्त्रार्थ हे सत्यस्वरूप सूर्यदेव! आप धन और यश से सम्पन्न हैं | हे नाना रूपों में क्रीड़नशील, सभी प्राणियों और देवताओं के हितकारी, व्यापक, अनुपर्हिस्य ज्योतिस्वरूप सूर्यदेव! आप अमृत शक्तिरूप लक्ष्मी के दाता हैं । आप महान् से भी महान् हैं ॥ ४० ॥

अनया पुरोरुचा आदित्यग्रहस्य प्रथमग्रहणम् । हे सूर्य, बट् सत्यं श्रवसा श्रवणीयेन धनेन यशसा वा त्वं महानसि । हे देव, सत्रा सत्यं देवानां मध्ये मह्ना स्वकीयेन महत्त्वेन त्वं महान् उत्कृष्टोऽसि । कीदृशस्त्वम्? असूर्य:, असवः प्राणाः सन्ति येषां तेऽसुराः प्राणिनः तेभ्यो हितोऽसुर्यः प्राणिहितः, पुरोहितः सर्वकार्येषु पुरोऽग्रे स्थापितः, सूर्यार्घ्यदानानन्तरमेव सर्वदेवानां पूजाधिकारात् । किञ्च विभु व्यापि, ज्योतिरखण्डबोधब्रह्मरूपम्, अदाभ्यमप्रधृष्य मनुर्पाहंसनीयमनुपहसितं नित्यनिरुपप्लवं ज्योतिर्विज्ञानरूपमित्यर्थः । अध्यात्मपक्षे - हे सूर्य अन्तर्यामिन् सत्यं श्रवसा यशसा धनेन च महानसि । अन्यत् पूर्ववदेव व्याख्येयम् । ---दयानन्दस्तु —— हे बट् सूर्य, यतस्त्वं श्रवसा महानसि, हे देवसत्रा, महानसि यतस्त्वं देवानां पुरोहितो मह्ना असुर्यः सन् अदाभ्यं विभु ज्योतिः स्वरूपोऽसि, तस्मात् सत्कर्तव्योऽसि ' इति, तदपि यत्किञ्चित्, सूर्यपदस्य सूर्यतुल्यार्थत्वे मानाभावात् । न च पृथिव्यादीनां विद्वत्त्वं सम्भवति, त्वद्रीत्या तेषां जडत्वात् ॥ ४० ॥

श्राय॑न्त इव॒ सूर्यो॒ विश्वेदिन्द्रस्य भक्षत ।

वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दधिम ॥ ४१ ॥

मन्त्रार्थ - सूर्य की उपासना करने वाले इन्द्र आदि की उपासना से प्राप्त होने वाले धन - धान्य, ऐश्वर्य आदि भोगों को स्वतः प्राप्त कर लेते हैं, अतः हमको चाहिये कि प्रकाश की किरणों के साथ जब सूर्य भगवान् उदित होते हैं, तब हम उनके निमित्त यज्ञ में देवभाग अर्पित करें ॥ ४१ ॥

मेधा दृष्टा बृहती | आदित्यग्रहस्य पुनर्ग्रहणे पुरोरुक् । यथा श्रायन्त आश्रिता इव । सूर्यमादित्यं रश्मयः, इन्द्रस्य सूर्यस्य विश्वा विश्वानि सर्वाणि इद् एव वसूनि धनानि वृष्टिधान्यनिष्पत्यादीनि भक्ष

पृष्ठ 442

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 442 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४१-४२ ] वेदार्थ पारिजातभाष्यसहिता ५ ९ अभक्षत, भजन्ते विभजन्ते प्राणिभ्यो विभज्य ददतीत्यर्थः । सूर्यरश्मयः सूर्यप्रत्तानि वसूनि विभजन्ते तथा वयं तान्येव वसूनि जाते पुत्रे जनमाने उत्पद्यमाने च ओजसा तेजसा सह प्रति दीधिम धारयाम, स्थापयामेत्यर्थः । कथमिव? भागं न भागमिव । यथा स्वभागं पुत्रादिषु धारयाम तथेत्यर्थः । श्रायन्त इति शतरि शपि व्यत्ययेन वृद्धिः । भक्षत ' भज सेवायाम् ' इति लुङि तङ प्रथमबहुवचने ' आत्मनेपदेष्वनतः ' ( पा ० सू ० ७ ११५ ) इति झस्य अदादेशे रूपम् | अडभाव आर्ष: । ' धि धारणे ' तौदादिकस्यास्य व्यत्ययेन शपः श्ली लङि द्वित्वे, ' तुजादीनां दीर्घोऽभ्यासस्य ' ( पा ० सू ० ६ | ११७ ) इति दीर्घः । दधातेर्वा एतद्रूपम्, न तु ध्यायते, अर्थपौष्कल्यात् । अध्यात्मपक्षे - सूर्यमन्तर्यामिणं परमात्मानमाश्रयन्त इव एव जीवात्मान इन्द्रस्य परमैश्वर्यवतस्तस्य विश्वा इत् सर्वाण्येव वसूनि धनानि भोग्यजातान्यभक्षत परस्परं व्यभजन्त यथा पितुर्धनानि पुत्रा विभजन्ति तद्वत् । जाते जनमाने जनिष्यमाणे च पुत्रे यथा भागं न भागमिव वयमपि ओजसा कर्मोपासनसमुच्चयबलेन तान्येव वसूनि निधीमहि स्थापयाम । यथा जन्मना स्वत्ववादे पुत्रादीनां दाये जन्मना स्वत्वं भवति, पित्रादयः स्वेच्छया पितृपितामहादिधनस्य दानविक्रयादिकं न कर्तुं शक्नुवन्ति, मातृगर्भस्थपुत्रादिनाम्नापि तत्राधिकार-सत्त्वशालिन्यायालयेन दानविक्रयादिपत्रादीनां निरसनं कर्तुं शक्यत्वात् । अत ओजसा बलेनापि पैतृकधनमधिगन्तुं शक्यते । यथैवैतत्, तथैव कर्मोपासनसमुच्चयानुष्ठानेन ओजसापि परमेश्वरधनयोः प्राप्तुं शक्यत्वात् । यथाह

पूजां गुरूणां सततं करोमि परस्य मर्मापि न भिन्नपूर्वम् ।

वेदाः स्वधीता यम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् ॥

गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम् ।

तं चादिदेवं शरणं प्रपन्न एकान्तभावेन वृणोम्यजस्रम् ॥

एभिर्विशेषैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमीशम् । ( म ० भा ० शा ० ३३५। ३-५ ) नारद: ----तथा च पुत्रस्य भाग इव पारमेश्वरधने साधकानामधिकारः । दयानन्दस्तु - ' हे मनुष्याः, यथा वयमोजसा जाते जायमाने च जगति सूर्यं श्रायन्त इव विश्वानि वस्तूनि प्रतिदीधिम भागं न सेवेमहि, तथेन्द्रस्येमं यूयं भक्षत सेवध्वम् ' इति, तदपि न, गौणार्थस्वीकारात्, सूर्यपदस्य प्रसिद्धार्थत्यागे मानाभावात् । न च सर्वाणि वसूनि वस्तूनि वा जीवाः प्रकाशयितुं शक्नुवन्ति ॥ ४१ ॥

अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरहंसः पि॑पि॒ता निर॑व॒द्यात् ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ सिन्धु॑ पृथि॒वी उ॒त द्यौः ॥ ४२ ॥

--मन्त्रार्थ - हे सूर्यरश्मिरूप देवताओं! अब आज सूर्य का उदय होने पर आप लोग हमें पाप और दुर्यंश से मुक्त करें । मित्र, वरुण, अदिति, समुद्र, पृथ्वी और स्वर्ग - ये सब हमारे वचन को अंगीकार करें ॥ ४२ ॥

कुत्सदृष्टा त्रिष्टुप् दध्नादित्यग्रहश्रपणे विनियुक्ता । देवाः, दीव्यन्ति दीप्यन्त इति देवा रश्मयः, तत्सम्बोधने हे देवाः, अद्या अद्य अस्मिन् दिवसे सूर्यस्य उदिता उदये अद्य सूर्योदये, अस्मानंहसः पापा-न्निः पिता निः पिपृत निर्मुञ्चत, शुद्धान् कुरुत । ' अद्या ' इत्यत्र ' निपातस्य च ' ( पा ० सू ० ६ | ३ | १३६ ) इति दीर्घः । ' पिपृता ' इत्यत्र ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६।३।१३७ ) इति दीर्घः । अवद्याद् दुर्यशसोऽपि नः पित पृथक्कुरुत । अस्माकं पातकानि दुर्यशांसि च नाशयतेत्यर्थः । तन्नोऽस्माकं वचनं मित्रो वरुणोऽदितिः सिन्धुः पृथिवी उत अपि द्यौः -- इत्येता देवता मामहन्तां पूजयन्तु, अङ्गीकुर्वन्त्वित्यर्थः ।

पृष्ठ 443

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 443 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६० शुक्लयजुर्वेद संहिता [ अ ० ३३ अध्यात्मपक्षे - हे देवाः सूर्यस्य परमात्मनः सम्बन्धिन उदिताः संसारादूध्वं गता मुक्ता देवा देवस्य परमानोंऽशत्वाद् देवा अद्य अस्मिन्नेव जन्मनि नोऽस्मानंहसः पापात् संसारान्निः पिवृत । अवद्याद् दुर्यशसोऽपि निः पिपृत निस्तारयत | मित्रादयः सर्वेऽपि देवा नस्तद्वचो मामहन्तां पूजयन्तु स्वीकुर्वन्त्वित्यर्थः । दयानन्दस्तु -- ' हे देवा विद्वांसः, यूयं यतः सूर्यस्य उदिता उदिते अद्याहंसो नो निष्पिवृता अवद्याच्च निष्पित, तन्मित्रो वरुणोऽदितिः सिन्धुः पृथिवी उत द्यौरस्मान् मामहन्ताम् ' इति, तदपि यत्किञ्चित् मनुष्यान् विदुषः प्रति तादृशाभ्यर्थनाया निरर्थकत्वात् । न च तेऽपराधान्निन्दिताद् दुःखाच्च पातुं शक्नुवन्ति । तथै सिन्धुपृथिवीप्रकाशादयोऽपि जडा एव, न तेऽपि सत्कर्तुमसत्कर्तुं वा प्रभवन्ति ॥ ४२ ॥

आ कृ॒ष्णेन॒ रज॑सा॒ वर्तमानो निवे॒शय॑न्न॒मृतं॒ मत्यै॑ च ।

हिरण्यये॑न॒ सवि॒ता रथेना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥ ४३ ॥

मन्त्रार्थ - सूर्य देवता अपने ज्योतिर्मय मण्डलरूप रथ के द्वारा सुमेरु पर्वत की परिक्रमा करते रहते हैं । अन्धकार और प्रकाश के देवताओं को तथा मनुष्य आदि प्राणियों को अपने अपने व्यापार में स्थापित करते रहते हैं । सारे भुवनों को देखते हुए, अर्थात् प्राणियों के भले - बुरे कर्मों पर विचार करते हुए विचरण करते हैं || ४३ ॥ हिरण्यस्तूपदृष्टा त्रिष्टुप् । सावित्रग्रहपुरोरुक | कृष्णेन रजसा रात्रिलक्षणेन सह आवर्तमानः पुनः पुन-भ्रमणं कुर्वन्, अमृतं देवादिकं मत्यं मनुष्यादिकं च निवेशयन् स्वस्वप्रदेशेषु व्यवस्थापयन् भुवनानि भूतजातानि साधु कुर्वन्ति कान्यसाध्विति पश्यन्, सविता देवो हिरण्ययेन हिरण्यमयेन रथेन आयाति आगच्छति । अध्यात्मपक्षे - सविता सर्वोत्पादकः परमेश्वरः कृष्णेन तमसा रजसा रजोगुणेन ताभ्यामुपलक्षितेन सत्त्वेन च वर्तमानोऽमृतं मोक्षप्राप्त्यहं मत्यं संसारजीवसमूहं निवेशयन् यथायोग्यं व्यवस्थापयन् हिरण्ययेन हिरण्यमयेन ज्ञानमयेन रथेनेव भुवनानि भुवनजातानि पश्यन् याति सर्वत्र प्राप्नोति । तृतीयं सूर्यस्तदुक्थमहः सम्पूर्णम् । दयानन्दस्तु – ' हे मनुष्याः, यो हिरण्ययेन रथेन कृष्णेन रजसा वर्तमानो भुवनानि पश्यन् देवः सविता अमृतं तं मत्यं च निवेशयन्नायाति स ईश्वरनिर्मितः सूर्यो लोकोऽस्ति इति, तदपि यत्किञ्चित्, अनुपपत्तेः । यतो हि त्वद्रीत्या सविता अचेतन एव । स दर्शयितुं न शक्नोत्येव, दर्शनस्य चेतनधर्मत्वात् । कर्षणेन परस्पर-सम्बद्धेन लोकसमूहेनेत्यपि निरर्थकम् भूमिकायां निरस्तत्वात् । सूर्यगमनागमनादिकमपि त्वन्मतेऽसिद्धमेव, पृथिव्या एव गतिमत्त्वाभ्युपगमात् ॥ ४३ ॥

प्रवा॑वृजे सुप्र॒या ब॒हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते ।

वि॒शाम॒क्तोरु॒षस॑ः पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥ ४४ ॥

मन्त्रार्थ - यजमानों के कल्याण के लिये अश्ववान् वायु और पूषा देवता दिन - रात के पूर्व आह्वान काल पर, अर्थात् अग्निहोत्र के समय अन्तरिक्ष से राजाओं के समान यहाँ आवें, उनके लिये विधिपूर्वक यहाँ कुशाओं को फैला कर आसन बिछाया गया है ॥ ४४ ॥

चतुर्थमहो वैश्वदेवस्तुत्, ' वैश्वदेवश्चतुर्थमहर्भवति । विश्वे वै सर्वे देवाः सर्वेषां देवानामाप्त्यै वैश्वदेवा ग्रहा भवन्ति वैश्वदेव्यः पुरोरुचः सर्वं वैश्वदेवमसदिति ' ( श ० १३ ७ १२६ ) इति श्रुतेः । वैश्वदेवस्तुच्चतुर्थेऽह-

पृष्ठ 444

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 444 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४४-४५ ] वेदार्थपारिजात भाष्यसहिता ६१ न्येकादश पुरोरुचः, षट् प्रतीकोक्ता इति सप्तदश ऐन्द्रवायवादिसावित्रान्तग्रहाणां पुरोरुचो ग्रहणमन्त्राः । वसिष्ठ-दृष्टा त्रिष्टुप, ऐन्द्रवायवपुरोरुक् । एषां यजमानानां स्वस्तये कल्याणाय बीरिटेऽन्तरिक्षे, ' बीरिटं तैटीकिरन्त-रिक्षमेवाह ' ( नि ० ५।२७ ), वर्तमानौ वायुः पूषा च आ इयाते आगच्छतः । ' वी गतिव्याप्तिप्रजनकान्त्यसन-खादनेषु ' इत्यादादिकः । अत्र प्रश्लिष्टनिर्देशात् ' ई ' इत्यपि धातुमाहुः । अस्य परस्मैपदित्वाद् व्यत्ययेन तङ् । कथम्भूतो वायुः? नियुत्वान्, नियुतो नियुत्संज्ञका अश्वाः सन्त्यस्येति नियुत्वान्, ' नियुतो वायो: ' ( निघ ० १।१५ १० ) इत्युक्तेः । कदायाति वायुरिति चेत्तत्राह - अक्तोः रात्रेरपगमे सति अक्तुरिति रात्रिनामसु ( निघ ० १।७।४ ), उषसो दिनस्य आगमनकाले, पूर्वहूतौ पूर्वा चासौ हूतिश्च पूर्वहूतिः प्रथमाह्वान कालः, अग्निहोत्रहोम-काल इत्यर्थः । उषसः पूर्वाह्वाने पूषा रविरायाति । अक्तोः पूर्वाह्नाने वायुः । अत्र वायुना वायुसखत्वादग्नि- विशां र्लक्ष्यते, रात्रिहोमस्य अग्निदेवत्यत्वात् । तत्र दृष्टान्तः - विश्पतीवेति । यथा विशां पती द्वौ राजानौ वीरिटे मनुष्याणां गणे आगच्छतः तद्वत् । तावपि तेषां स्वस्तये आ इयाते । केषाम्? येषां बर्हिः प्रवावृजे प्रवृज्यते प्रस्तीर्यंते, तुजादित्वादभ्यासदीर्घः । कीदृशं बहिः? सुप्रयाः शोभनं प्रयः प्रगमनं प्रस्तरणं यस्य चाह तत् सुप्रयः, छान्दसो दीर्घः, सुप्रयाः सम्यग्विधिना प्रस्तीर्णमित्यर्थः । बीरिटशब्दो गणवाचकः भियो । तथा वा भासो यास्क: - ' प्रवृज्यते सुप्रायणं बहिरेषामेयाते सर्वस्य पातारौ वा पालयितारौ वा, बीरिटमन्तरिक्षं वाततिरपि वोपमार्थे स्यात्, सर्वपती इव राजानौ बीरिटे गणे मनुष्याणाम् ' ( नि ० ५।२८ ) इति । भीरस्मिन् तन्यत इति भीतननमन्तरिक्षम् । निरालम्बनत्वात् सर्व एव बिभ्यति । तदेव भीतननं सद् बीरिटमित्युच्यते । अथवा भासोऽत्र नक्षत्रादीनां तन्यन्ते । तदेतद् भास्तननं सद् बीरिटमुच्यते । अन्तरिक्षेणैव देवता आगच्छन्तीति इति बीरिटन्तरिक्षमुपपद्यते । गणार्थकेऽपि बीरिटशब्दे विश्पती राजानौ सर्वदा गणमध्यगतावेव आगच्छत रिटः । गणोऽप्यर्थ उपपद्यत एव । तस्माद् धातुद्वयेन बीरिटशब्दनिष्पत्तिः । भियो बी आदेशः, तनोतेश्च यद्वा - ' एषामिति व्यत्ययेन येषां यजमानानां सुप्रयाः सुप्रयाणं सुगमनं बहिः प्रवावृजे प्रच्छिद्यते, तेषां स्वस्तये कल्याणायाविनाशाय तं बहिः प्रच्छेदप्रदेशमश्विनौ आ इयाते । काविव? बीरिटे मनुष्याणां गणे विपती व विशां प्रजानां राजानाविव । यथा मनुष्याणां गणे तेषां स्वस्तये विशां मनुष्याणां पती राजाना-ववस्थितौ तद्वदश्विनौ तथा यजमानानां स्वस्तये बहिः प्रस्तरणस्थानेऽश्विनावागच्छतः । कस्मिन् काले? अक्तोः रात्रेरवसाने उपस आगमनकाले पूर्वहूतौ पूर्वस्मिन् आह्वानकाले । किञ्च वायुर्नियुत्वान् अश्ववान् पूषा च यजमानानां स्वस्तये आ इयाते ' इत्युव्वाचार्यरीत्या व्याख्यानम् । अध्यात्मपक्षे - येषां बहिर्दर्भसमूहः प्रवावृजे प्रस्तीर्यते देवानामासादनाय, एषां याज्ञिकानां स्वस्तयेऽवि-नाशाय नियुत्वान् अश्वनाविव वायुर्वायुपुत्रो हनुमान् पूषा सूर्यः सूर्यवंशभूषणः श्रीरामश्च आ इयाते । काविव? बीरिटे मनुष्याणां गणे विश्पती इव । कदा आ इयाते? अक्तो रात्र्या अविद्याया अवसाने उषसो दिवसस्य प्रभातस्य ज्ञानसूर्योदयस्य आगमनकाले । वायुश्चैषां स्वस्तये प्रवावृजे व्रजति, विशां दयानन्दस्तु - ' हे मनुष्याः, यथा पूर्वहूतौ सुप्रया नियुत्वान् विश्पती इव बीरिटे बहिरा इयाते, तथाक्तोरुषसच बहिः प्राप्नुत ' इति, तदपि यत्किञ्चित् त्वद्रीत्याऽचेतनयो -र्वायुसूर्ययोः कल्याणानुसन्धानासम्भवेन तदर्थं गमनानुपपत्तेः ॥ ४४ ॥

इ॒न्द्रवायू बृह॒स्पति॑ मि॒त्राग्नि पू॒षण॒ भग॑म् । आ॒दि॒त्यान्मारु॑तं ग॒णम् ॥ ४५ ॥

मन्त्रार्थ - मैं इस यज्ञ में इन्द्र, वायु, बृहस्पति, मित्र, अग्नि, पूषा, भग, बारह आदित्य और मरुद्गणों का आह्वान करता हूँ ॥ ४५ ॥

पृष्ठ 445

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 445 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६२ शुक्लयजुर्वेदसंहिता [ अ ० ३३ मेधातिथिदृष्टे द्वे गायत्र्यौ । आद्या ऐन्द्रवायवस्य पुनर्ग्रहणे पुरोरुक् । द्वितीया मैत्रावरुणग्रहग्रहणे पुरोरुक् । इन्द्रवायू बृहस्पति मित्रा मित्रम्, विभक्तेराकारः, अग्नि पूषणं भगमादित्यान् मारुतं मरुत्सम्बन्धिनं गणम्, एतानाह्वयामीति शेषः । अध्यात्मपक्षे - सर्वदेवात्मको भगवानेवेन्द्रादिरूपेण व्यज्यते । तस्मात् तत्तद्देवताभावापन्नं भगवन्तमेव तत्त्वविदाह्वयति । व्याख्यानं पूर्ववदेव । दयानन्दस्तु – ' हे मनुष्याः, यथा वयमिन्द्रवायू बृहस्पति मित्राग्नि पूषणं भगमादित्यान् मारुतं गणं विज्ञायोपयुञ्जीमहि, तथा यूयमप्युपयुङ्ध्वम् ' इति, तदपि यत्किञ्चित् इन्द्रवाय्वादीनामुपयोगस्थ लोकसिद्धत्वेनो-पदेशानपेक्षत्वात् ॥ ४५ ॥

वरु॑णः प्रावि॒ताभ॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑ः । करतां नः स॒राध॑सः ॥ ४६ ॥

1 मन्त्रार्थ - वरुण और मित्र सभी रक्षा साधनों से हमारी भली - भाँति रक्षा करें । हमें शुभ धन से सम्पन्न करें ॥ ४६ ॥

वरुणो देवो मित्रश्च विश्वाभिः सर्वाभिरूतिभिरवनैः पालने रक्षणप्रकारैर्वा प्राविता प्रकर्षेण पालकः, भुवद् भवतु भवतेर्लेट व्यत्ययेन तुदादित्वात् शे ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३ | ४ ९ ७ ) इति तङ इकारलोपे उवङ ' भुवत् ' इति रूपम् । किञ्च मित्रावरुणौ नोऽस्मान् सुराधसः सु शोभनं राधो धनं येषां तान् शोभनधनान् करतां कुरुताम् I अध्यात्मपक्षे - वरुणो वरणीयो भगवान् श्रीरामः, मित्रस्तत्स्नेहवान् सौमित्रिश्च विश्वाभिरूतिभिर्लीलाभिः प्राविता पालको भुवद् भवतु । नोऽस्मान् सुराधसो ज्ञानवैराग्यादिशोभनधनोपेतान् करतां कुरुताम् । ----दयानन्दस्तु - ' हे अध्यापकोपदेशको विद्वांसौ, यथा वरुणो मित्रश्च विश्वाभिरूतिभिः प्राविता भुवत्, तथा भगवन्तौ नः सुराधसः करतां कुर्याताम् ' इति, तदपि यत्किञ्चित् सम्बोधनस्यैव निर्मूलत्वात् । वरुणमित्रादि-शब्दानां प्रसिद्धार्थगुल्लङ्घ्यार्थान्तरकल्पनमपि निर्मूलमेव ॥ ४६ ॥

अधिं न इन्द्रे॑षा॒ विष्णोः॒ सजा॒त्या॑नाम् । इ॒ता मरु॑तो॒ अश्विना । तं प्र॒त्नथा॒यं दे॒नो ये देवास आ न इ । भविश्वे॑भिः सोम्यं मध्वोमा॑सश्चर्षणीधृतः ॥ ४७ ॥

मन्त्रार्थ हे इन्द्र, हे विष्णुदेव, हे मरुद्गण और हे अश्विनीकुमारों! आप सब हमारे इन समान जाति वालों के बीच में आइये । मन्त्र में स्थित ' तं प्रनथा ' ( ७/१२ ) प्रतीक से शुक्रग्रह का, ' अयं वेन: ' ( ७।१६ ) से मन्थिग्रह का, ' ये देवास: ' ( ७ / १ ९ ) से आग्रयण ग्रह का, ' आ न इडाभि: ' ( ३३ | ३४ ) से ध्रुवग्रह का, ' विश्वेभिः सोम्यं मधु ' ( ३३ | १० ) से ऐन्द्राग्न ग्रह का और ' ओमासश्चर्षणीधृत: ' ( ७।३३ ) से वैश्वदेव ग्रह का ग्रहण किया जाता है || ४७ ॥ कुसीदिकाण्वदृष्टा गायत्री आश्विनग्रहपुरोरुक् । हे इन्द्र, हे विष्णो, हे मरुतः, हे अश्विनौ! नोऽस्माकमेषां च सजात्यानामृत्विजां समानजातीयानां वा अधि साजात्यमध्ये यूयमित आगच्छत । अत्र कण्डिकायां प्रतीकोक्ता - ( १ ) ' तं प्रत्नथा ' ( वा ० सं ० ७ १२ ) शुक्रग्रहे, ( २ ) ' अयं वेन: ' ( वा ० सं ० ७ १६ ) मन्थिग्रहे, ( ३ ) ' ये देवासः ' ( वा ० सं ० ७ १ ९ ) आग्रयणस्य, ( ४ ) ' आ न इडाभि: ' ( वा ० सं ० ३३ | ३४ ) ध्रुवस्य, ( ५ ) विश्वेभिः यथा -1

पृष्ठ 446

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 446 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ४७-४९ ] वेदार्थ पारिजातभाष्यसहिता ६३ सोम्यं मधु ' ( वा ० सं ० ३३ | १० ) ऐन्द्राग्नस्य, ( ६ ) ' ओमासश्चर्षणीधृत: ' ( वा ० सं ० ७ १३३ ) वैश्वदेवस्य ग्रहणे विनियुक्ताः पुरोरुच इति यावत् । अध्यात्मपक्षे – अत्रापि सर्वात्मभावापन्नस्य इन्द्रादिरूपेण सम्बोधनम् । तेषां च तत्तद्रूपेण आत्मनः सजातीयानां च मध्ये आगमनं प्रार्थ्यते । दयानन्दस्तु -- ' हे इन्द्र, हे विष्णो, हे मरुतः, हे अश्विनौ! एषां नो मध्येऽधिस्वामित्वमित प्राप्नुत ' इति, तदपि यत्किञ्चित् सर्वत्र प्रसिद्धार्थत्यागेनार्थान्तरकल्पनस्य प्रमाणशून्यत्वात्, मनुष्ये परमैश्वर्यदातृत्वासिद्धेश्च । ' अश्विनौ अध्यापकोपदेशकौ ' इत्यपि निर्मूलम् अर्थान्तरादिना विनिगमनाविरहात् ॥ ४७ ॥

अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवा॒ शर्धः प्रय॑न्त॒ मारु॑तो॒त वि॑ष्णो ।

उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भगः सर॑स्वती जुषन्त ॥ ४८ ॥

G मन्त्रार्थ - हे अग्नि, इन्द्र, वरुण और मित्र देवताओं, हे मरुद्गणों, हे विष्णुदेव! आप सब मुझे बल प्रदान कीजिये । दोनों अश्विनीकुमार, रुद्रदेव, देवपत्नियाँ, पूषा, भग और सरस्वती - ये सब हवियों का सेवन करें ॥ ४८ ॥

प्रतिक्षत्रदृष्टा त्रिष्टुप् । मरुत्वतीयपुरोरुक् । हे अग्ने, हे इन्द्र, हे मित्र, हे देवा, हे मारुत! मरुतां समूहो मारुतः, तत्सम्बुद्धौ मरुद्गण! उतापि है विष्णो! यूयं शर्धो बलम्, शर्ध इति बलनामसु ( नासत्यौ निघ ० २२ ९ / ७ ), प्रयन्त प्रयच्छत, यमेः शपो लुक् । एवं प्रत्यक्षमुक्त्वा परोक्षमाह - उभा उभौ नासत्या ना अश्विनौ, ' नभ्रानपात् ' ( पा ० सू ० ६।३।७५ ) इति निपातितः । रुद्रः, अध अथ ग्ना देवपत्न्यः, ' गमनादापो देवपत्न्यो वा ' ( निरु ० १०।४७ ) इति यास्कः । पूषा भगः सरस्वती जुषन्त जुषन्तां सेवन्ताम्, हवींषीत्यर्थः । अध्यात्मपक्षे — आधिदैविकजगदनुग्रहेणैवाध्यात्मिकं जगत् संचाल्यते । इन्द्रादयो देवाः प्रसिद्धा इति तेभ्यो बलं याच्यते । मनुष्येभ्यो हविर्भिः सन्तुष्टा एव देवा अभीष्टं प्रयच्छन्तीति हविभिस्तेषामर्चनमुक्तम् । व्याख्यानं पूर्ववदेव । दयानन्दस्तु – ' हे अग्ने विद्याप्रकाशक इन्द्र वरुण मित्र मारुतदेवाः! यूयमस्मभ्यं शर्धः प्रयन्त प्रयच्छत । उभौ नासत्यौ रुद्रो ग्नाः पूषा भगः, अध सरस्वती चास्मान् जुषन्त ' इति, तदपि यत्किञ्चित्, अग्न्यादिशब्दानां मुख्यार्थत्यागे गौणार्थग्रहणे च कारणाभावात् । न च त्वद्रीत्या आत्मानो व्यापकाः सन्ति, त्वया अणुपरिमाणा-ङ्गीकारात् । तथा च विष्णोर्व्यापनशीलेति सम्बोधनं निरालम्बनमेव स्यात् । ' नासत्यौ अविद्यमानासत्यस्वरूपौ ' इत्यपि निर्मूलम्, अन्येषामपि तथात्वेन तेष्वपि तथा प्रयोगापत्तेः ॥ ४८ ॥

इ॒न्द्राग्नी मि॒त्रावरु॒णादि॑ति॒ स्वः पृथि॒वीं द्यां म॒रुतः पर्वत २ ॥ अ॒पः ।

हुवे विष्णुं पू॒षण॒ ब्रह्म॑ण॒स्पा॑त॒ भग॑ न॒शस॑ सवि॒तार॑मू॒तये॑ ॥ ४ ९ ॥

मन्त्रार्थ - -- इन्द्र और अग्नि, मित्र और वरुण, अदिति, स्वर्ग, आदित्य, पृथ्वी, द्युलोक, मरुद्गण, पर्वत, जल, विष्णु, पूषा, ब्रह्मणस्पति, भग, स्तुति योग्य सविता – इन सब देवताओं का मैं अपनी रक्षा के लिये आह्वान करता हूँ ॥ ४ ९ ॥

पृष्ठ 447

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 447 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६४ शुक्लयजुर्वेदसंहिता [ अ ० ३३ काश्यपावत्सारदृष्टा जगती । सशस्त्रमरुत्वतीयपुरोरुक् । इन्द्राग्नी मित्रावरुणी अदिति स्वर् आदित्यं पृथिवीं द्यां द्युलोकं मरुतः पर्वतान् अपो विष्णुं पूषणं ब्रह्मणस्पति भगं च नु क्षिप्रं शंसं शंसितव्यं स्तुत्यं सवितार-मूतये अवनाय हुवे आह्वयामि । अध्यात्मपक्षे - भगवद्रूपान् एतान् देवान् अहं हुवे आह्वयामि । दयानन्दस्तु - ' हे मनुष्याः यथाऽहमूतये इन्द्राग्नी मित्रावरुणौ अदिति पृथिवीं द्यां मरुतः पर्वतान् अपो विष्णुं पूषणं ब्रह्मणस्पति भगं शंसं सवितारं स्वर्नु हुवे, तथैतान् यूयमपि प्रशंसत ' इति, तदपि तुच्छम् त्वया जडपूजायास्तत्र तत्र निन्दितत्वात् । इन्द्राग्न्यादयोऽपि जडा एव । स्तुतिरपि पूजैव । न च मेघाः पर्वता वा पूज्याः ॥ ४ ९ ॥

अ॒स्मे रु॒द्रा म॒हना॒ पर्व॑तासो वृत्र॒हत्य॒ भर॑हूतौ स॒जोषा॑ः ।

यः स॒ते स्तुव॒ते धाय॑ प॒ इन्द्र॑ ज्येष्ठा अ॒स्माँ २ ॥ अवन्तु दे॒वाः ॥ ५० ॥

मन्त्रार्थ - जो यजमान शस्त्र और स्तोत्र का जप करता है, अर्थात् पारायण करता है, भली प्रकार धन से यज्ञ में देवताओं के निमित्त आहुतियां देता है, उसकी हम रक्षा करते हैं । हमे धन आदि प्रदान करने सम्पादित प्रकार से संतुष्ट करने वाले, शत्रुओं को रुलाने वाले, हमारे घर में उत्सव लाने वाले, पापियों के वध के लिये वाले संग्राम , सब में सदा तत्पर रहने वाले, इन्द्र को अपना नेता मानने वाले, एक मति वाले देवता हमारी रक्षा करें ॥ ५० ॥

पञ्चत्रिष्टुभः । आद्या प्रगाथदृष्टा माहेन्द्रग्रहपुरोरुक् । य अधिकृतो मनुष्यः शंसते स्तुवते स्तोत्राणि स्तौति पत्रः प्रार्जितधनः, प्रार्जितधनस्थाने पृषोदरादित्वात् पत्रादेशः, सन् शस्त्राणि धायि शंसति हवींषि, दधाति, तान् अस्मांश्च यजमानान् देवा अवन्तु पान्तु । कीदृशा देवाः? अस्मे अस्मासु, विभक्तेः ' शे ' आदेशः मेहना मेहन्ति सिचन्ति धनादिकमिति मेहनाः । रुद्रा रोदयन्ति शत्रूनिति रुद्राः । पर्वतासः, विद्यन्ते येषां ते पर्वतासः । ' तप् पर्व मरुद्भयाम् ' ( पा ० सू ० ५।२।१२१, वा ० ९ ) इति पर्वाणि उत्सवा वृत्रो हन्यते यत्र तद् वृत्रहत्यम्, तस्मिन् । भरहूतौ भरे संग्रामे हूतिराह्वानं भरहूतिः, तत्र तपुप्रत्ययः । सजोषाः । वृत्रहत्ये समानो षः प्रीतिर्येषां ते तथोक्ताः समानप्रीतिमन्त एकाभिप्राया एकमतय इन्द्रज्येष्ठाः इन्द्रो ज्येष्ठो येषां तादृशा देवा नोऽवन्तु । ते तथोक्ताः, अध्यात्मपक्षे भगवतः सर्वात्मनः स्वरूपभूता इन्द्रादयो देवा अवन्त्विति प्रार्थ्यते । दयानन्दस्तु - ' हे मनुष्याः, यः पत्रो यान् शंसते स्तुवते, येन च धनं धायि तमस्मांश्च ये अस्मे मेहना श्द्राः पर्वतासो वृत्रहत्ये भरहूतौ सजोषा इन्द्रज्येष्ठा देवा अवन्तु, ते युष्मानप्यवन्तु ' इति, तदपि मुख्यार्थत्यागस्य निर्मूलत्वात् । इन्द्रज्येष्ठा देवा इत्यस्य सभापतिज्येष्ठा विद्वांस इत्यर्थोऽपि निर्मूल एव । यत्किचित् रुद्रपदमपि,

तथार्थबोधकम्, देवविशेषेषु प्रसिद्धत्वात् । अन्यत्तु महीधराद्यनुकरणमेव ॥ ५० ॥

अ॒र्वाञ्चा॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हाद॒ भय॑मानो व्ययेयम् ।

त्रध्वं नो देवा नजुरो वृक॑स्य॒ त्राध्वं॑ क॒र्त्ताद॑व॒पदो॒ यजत्राः ॥ ५१ ॥

आप लोग हमारे सन्मुख आइये । संसार से भयभीत मेरा वाले बुरे विचारों से आप सब हमारी रक्षा करें । प्रतिपद मन्त्रार्थ - हे यजन करने वालों के रक्षक देवताओं! न आपकी सन्निधि प्राप्त करे । हे देवताओं! मन में आने सांसारिक विघ्नों से अथवा लोकापवाद से हमारी रक्षा करें ॥ ५१ ॥

पृष्ठ 448

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 448 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५१-५३ ] दार्थ पारिजातभाष्यसहिता ६५ कूर्मगार्त्समददृष्टा, आदित्यग्रहस्य प्रथमा पुरोरुक् । हे यजत्राः, यजन्तं त्रायन्त इति यजत्राः, तत्सम्बो-धने, यष्टृपालका यष्टव्या वा देवाः, अद्य यूयम् अर्वाचोऽस्मदभिमुखा भवत । अद्या, भवता, इत्यत्र संहितायां ' निपातस्य च ' ( पा ० सू ० ६ | ३ | १३६ ), ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति च दीर्घः - भयमानो बिभ्यद् अहं वो युष्माकं हार्दि हृदिभवं मन आव्ययेयम् आगमयेयम्, अभिमुखं सम्पादयेयमित्यर्थः । बिभेवि-करणव्यत्ययेन शपि शानचि च रूपम् । यत एवमतो ब्रवीमि हे यजत्राः! नोऽस्मान् वृकस्य वृकात्, विभक्ति-व्यत्ययः, त्राध्वं पालयत । कीदृशाद् वृकात्? निजुरः, नितरां जूर्यते हिनस्तीति निजू:, ' जूरी हिसाव योहान्योः ’ इति क्विप्, तस्मान्निजुरो हिसकात् । यद्वा भक्षितं नितरां जीयंतीति निजः, ' जूष वयोहानी ' तस्माद् निजुरः, अतिबुभुक्षितात् कर्तात् कृपात् । कर्त इति कृपनामसु ( निघ ० ३।२३।३ ) । कथंभूतात् कर्तात्? अवपदः, अव अवाचीनाः पादाः पादन्यासा यत्र स अवपात्, सोपानैर्यत्रोत्तरीतुं न शक्यत इत्यर्थः तस्माद् अवपदः । पादः पत् ' ( पा ० सू ० ६।४।१३० ) इति पदादेशः । अध्यात्मपक्षे- संसारादुद्विग्नः साधको भगवद्रूपान् देवान् प्रार्थयते - हे यजत्रा देवाः, अद्य यूयमर्वाचोऽ-स्मदभिमुखा भवत । यतो भयमानो संसारभयादुद्विग्नोऽहं वो युष्माकं हार्दि हृदयपुण्डरीकस्थं मनो व्ययेयं स्वाभिमुखं सम्पादयेयम् । हे यजत्रा देवाः, नोऽस्मान् निजुरो वृकस्य हिंसकाद् बुभुक्षिताद्वा मृत्युरूपाद् वृकाद् आरण्यकश्वविशेषात् त्राध्वम् । अवपदो यत्रोत्तरणमशक्यं तस्मादवपदः कर्तात् कृपाद् भवकूपाच्च त्राध्वम् । दयानन्दस्तु - ' हे यजत्रा देवाः, यूयमवो भवत । भयमानोऽहं वो युष्माकं हार्दि आव्ययेयम्, निजुरो वृकस्य सकाशात् त्राध्वम् । हे यजत्राः! यमवपदः कर्तादस्मान् त्राध्वम् ' इति, तदपि यत्किञ्चित्, सङ्गति-कारकाणां विदुषां मनुष्याणां युगपदाभिमुख्यप्रार्थनानुपपत्तेः, यजनीयानां योनिविशेषाणां देवानां भूमिकाया साधितत्वाच्च तेषामल्पशक्तित्वेन हिंसकस्य मृत्योः सकाशात् त्रातृत्वासम्भवात् ॥ ५१ ॥

विश्वे॑ अ॒द्य म॒रुतो॒ विश्वं॑ ऊती विश्वे॑ भवन्त्व॒ग्नयः समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒साग॑मन्तु॒ विश्व॑मस्त॒ द्रवि॑ण॒ वाजा॑ अ॒स्मे ॥ ५२ ॥

मन्त्रार्थ - रुद्र, आदित्य आदि समस्त गणदेवता इस निमित्त हमारे यहाँ आवें, समस्त देवता हमारी दी हुई हवि को ग्रहण करने के लिये यहाँ आवें । गार्हपत्य आदि सारी अग्नियाँ प्रदीप्त हों । गो, भूमि, सुवर्ण आदि सर्वविध धन - ऐश्वर्य और अन्न हमें प्राप्त हों ॥ ५२ ॥

शधानादृष्टा आदित्यपुनर्ग्रहणे पुरोरुक् । अद्य विश्वे सर्वे मरुत एकोनपञ्चाशत्संख्याका आगमन्तु आगच्छतु । विश्वे अन्ये च सर्वे गणदेवता वसवो रुद्रा आदित्याश्च ऊती ऊत्या, पूर्वसवर्णः, अनेन तर्पणेन निमित्तेन तृप्त्यर्थमागच्छन्त्वित्यर्थः । विश्वे देवाश्च गणदेवाश्चागच्छन्तु । सर्वे गार्हपत्यादयोऽग्नयश्च समिद्धाः सम्यग् दीप्ता भवन्तु । तेषां देवानां तुष्ट्यर्थं विश्वं सवं द्रविणं गोभूहिरण्यादिकं वाजोऽन्नम् अस्मे अस्मास्वस्तु । इयं पूर्वमष्टादशे एकत्रिंशी कण्डिका, तत्रैव व्याख्याताऽपि ॥ ५२ ॥

विश्वे देवाः शृणुतेम हवं॑ मे॒ ये अ॒न्तरि॑क्षि॒ य उप॒ द्यवि॒ ष्ठ ।

ये अ॑ग्नजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्य॒स्मिन् ब॒र्हिषि॑ मादयध्वम् ॥ ५३ ॥

अन्तरिक्ष में हों, स्वर्ग में और अग्निरूप मुख वाले यजन योग्य मन्त्रार्थ - हे विश्वेदेव देवताओं! आप सब हों, वे सब मेरे इस आह्वान को सुनें! इस कुशा के आसन पर बैठ कर हमारी दी हुई हवि का ग्रहण कर तृप्त हों ॥ ५३ ॥

पृष्ठ 449

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 449 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

६६ शुक्लयजुर्वेदसंहिता [ अ ० ३३ सुहोत्रदृष्टा आदित्यग्रहस्य दध्ना श्रपणे निनियुक्ता । हे विश्वे देवाः, ये यूयमन्तरिक्षे भवथ, ये च द्यवि उप द्युलोकसमीपे स्थ, ये चाग्निजिह्वा वह्निमुखाः, उत वा अपि च, यजत्रा यजनीयाः, ते सर्वे यूयमिमं मत्कृतं शृणु । श्रुत्वा चास्माकं बर्हिषि यज्ञे आसद्य उपविश्य च मादयध्वं तृप्यध्वम् । अध्यात्मपक्षे -- हे विश्वे देवा ब्रह्मात्मकाः मम इमं हवमाह्वानं शृणुतेत्यादि पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे राजादयो मनुष्याः, अद्य यथा विश्वे भवन्तो विश्वे मरुतो विश्वे समिद्धा अग्नय ऊती नो रक्षका भवन्तु, विश्वे देवा अवसा सह नोऽस्मानागमन्तु तथा विश्वं द्रविणं वाजश्च मनुष्यायास्तु ' इति, तदपि न मनुष्येभ्यो याच्ञापूर्त्यसम्भवेन निरर्थकत्वात् मनुष्ये याच्ञाप्रवृत्त्या पुरुषार्थ प्रवृत्तिनिरोधाच्च । देवा ईश्वरश्व विशिष्टशक्तिमन्त एव वैदिकैरभ्यर्थनीया इति ॥ ५३ ॥

दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वधि॑ सु॒वसं भा॒गम॑त्त॒मम् । आदिद्दामा सवित॒व्य र्णषेऽनूचीना जीविता मानुषेभ्यः ॥ ५४ ॥

मन्त्रार्थ -- है सबके प्रेरक सविता देव! आप ही सर्वप्रथम यज्ञयोग्य देवताओं के लिये उनके उत्तम भाग, अमृत-अग्नि में दी हुई आहुति को देते हैं, तदनन्तर ही प्रकाशरूप किरणों का विस्तार करते हैं और मनुष्यों के निमित्त अपनी किरणों की सहायता से प्राणियों के जीवन का विस्तार करते हैं ॥ ५४ ॥

वामदेवदृष्टा जगती सावित्रग्रहस्य पुरोरुक् । हे सवितः हि यस्मात् प्रथममुदयकाले यज्ञियेभ्यो यज्ञार्हेभ्यो देवेभ्यो यज्ञानुष्ठानयोग्येभ्यो द्विजातिभ्यो देवेभ्यो दानादिशीलेभ्यस्त्वमुत्तमं भागमग्निहोत्र होमममृतत्वममृतत्व प्रापकं सुवसि अभ्यनुजानासि प्रेरयसि वा । ' षू प्रेरणे ' तौदादिकः । अग्निहोत्र होमस्यामृतत्वप्रदातृत्वेन कार्यकारणयो-रभेदोपचारेण कर्मण्यप्यमृतशब्दप्रयोगः । आद् इद् अनन्तरमेव उदयानन्तरमेव दामानं ददाति प्रकाशमिति दामा रश्मिसमूहस्तम्, व्यूर्णुषे विवृणोषि विस्तारयसि । यद्वा ददात्युत्पत्तिस्थितिलयानिति दामा, तं रश्मिजालसमूहं व्यूषे विस्तारयसि । रश्मीनामुद्गमे हि विप्रोऽकम्पितमनसाऽग्निहोत्रादीनि कर्माणि करोति । ततो मानुषेभ्यो तावित जीवनहेतुभूतानि कर्माणि व्यूर्णुषे । कीदृशानि कर्माणि? अनूचीना अनूचीनानि अन्वचन्ति यानि तानि तानि रश्मिसमूहानुगतानि, रश्मीनामभावे तमसि तदभावात् । एतेन सवितुर्देवस्यैव लौकिकवैदिकसर्वविध-व्यवहारप्रवर्तकत्वं सिद्ध्यतीत्यर्थः । आधुनिकानां विद्युदादीनामपि पदार्थानां सूर्यांशत्वेन तन्मूलके व्यवहारेऽपि तत्प्रवर्तकत्वानपायात् । तस्मात् त्वामेव स्तुम इति वाक्यशेषः । वैश्वदेवस्तुच्चतुर्थमहः सर्वमेधश्व सम्पूर्णः । अध्यात्मपक्षे - हे सवितः " सूर्यावच्छिन्नान्तर्यामिन्! प्रथममभ्युदयकाल एव यज्ञियेभ्यो यज्ञानुष्ठानार्हेभ्यो देवेभ्यो दानादिशीलेभ्यो द्विजातिभ्योऽमृतत्वप्रापकं भागं भजनीयं सेवनीयमग्निहोत्रहोमादि वैदिकं कर्म कर्तुं सुवसि प्रेरयसि । आद् इत् सूर्योदयानन्तरमेव दामानं सृष्टिस्थितिलयानां प्रकाशानां वा दातारं रश्मिसमूहं व्यूर्गुषे विस्तारयसि । ततो मानुषेभ्योऽनुचीनानि रश्मिसमूहानुगतानि जीवितानि जीविकोपार्जनसाधनानि कर्माणि विस्तारयसि, परमेश्वरस्यैव सर्व प्रवर्तकत्वात् । ' यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ॥ ' ( भ ० गी ० १८।४६ ) इति गीतोक्तेः । दयानन्दस्तु - ' हे सवितर्जगदीश्वर, हि यज्ञियेभ्यो देवेभ्य उत्तमं प्रथमममृतत्वं भागं सुवसि । मानुषेभ्य आदिद्दामानमनूचीना जीविता च व्यूर्गुषे, तस्मादुपासनीयोऽसि ' इति, तदपि यत्किञ्चित्, मोक्षप्राप्तौ तत्त्वज्ञानस्य हेतुत्वेन कर्मणां हेतुत्वायोगात् ' तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' ( वा ० सं ० ३१।१८ ) इति मन्त्रवर्णात् ॥ ५४ ॥

पृष्ठ 450

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 450 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५५-५६ ] वेदार्थ पारिजात भाष्यसहिता

प्र वा॒युमच्छ बृह॒ती म॑नी॒षा ब॒हद्र॑य वि॒श्ववा॑रथ॒ रथ॒प्राम् ।

द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥ ५५ ॥

६७ मन्त्रार्थ हे ईश्वर के कार्य में नियुक्त अध्वर्यु! नियुत नामक अश्वों के साथ विचरण करने वाले, ज्ञानी, प्रकाशमान, शरीरपात पर्यन्त क्रियाशील, सर्वव्यापक, धन से रथ को भर देने वाले, क्रान्तदर्शी वायु का अब तुम यजन करो ॥ ५५ ॥

इदानीं पञ्चदश - पञ्चदश - त्रयोदशर्चा अनारभ्याधीतास्त्रयोऽनुवाकः पुरोरुचः श्रौतकर्मण्यविनियुक्ता ब्रह्मयज्ञार्हा आदित्य याज्ञवल्क्यदृष्टाः पितृमेधपर्यन्तं व्याख्येया अवशिष्यन्ते । प्र वायुमिति पञ्चदशर्चः पुरोरुग्गणो द्वे च प्रती-कोक्ते । तत्राद्या ऋजिश्वदृष्टा त्रिष्टुप् वायुदेवत्या । हे प्रयज्यो प्रकर्षेण यजतीति प्रयज्युः, ' यजिमनिशुन्धिदसि-जनिभ्यो युच् ' ( उ ० ३।२० ) इति साधुः, बाहुलकादनादेशाभावः, तत्सम्बुद्धौ प्रकर्षेण यजनशील, अध्वर्यो! बृहती बृहत्या पूर्वसवर्णदीर्घः । मनीषा मनीषया, विभक्तेराकारः । महत्या बुद्ध्या । अच्छ आभिमुख्येन त्वं वायुं प्र इयक्षसि प्रकर्षेण यष्टुमिच्छसि । यजते रूपम् । कीदृशस्त्वम्? कविः क्रान्तदर्शनो ज्ञानी । कीदृशं वायुम्? बृहद्रय बृहदतिशयं रयि धनं यस्यासौ बृहद्रयिर्महाधनस्तम् । पुनः कथम्भूतम्? विश्ववारम्, विश्वेन सर्वेण क्रियत इति विश्ववारः सर्वस्य वरणीयः । अथवा विश्वं वृणोतीति वा विश्ववारः सर्वव्यापकस्तम् । रथप्रां रथं प्राति यजमानाय दातुं धनै रथं पूरयतीति रथप्राः, ' प्रा प्रपूरणे ' आदादिकः, अस्मात् ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३ । २१७५ ) इति विचि सर्वापहारिलोपे रूपम् तम् । द्युतद्यामा द्युतद् द्योतमानं याम यमनं नियमनं यस्य स द्युतद्यामा, तं द्युतद्यामा विभक्तिव्यत्ययः । नियुतः पत्यमानो नियुद्भिः स्वकीयैर्नियुन्नामकैरश्वैर्गच्छन्तम् । उभयत्र विभक्तिव्यत्ययः । कवि क्रान्तदर्शनम् । एतादृशं वायुं यजेत्यर्थः । अध्यात्मपक्षे - हे प्रयज्यो प्रकर्षेण पूजक, बृहत्या मनीषया अच्छाभिमुख्येन त्वं वायुं परमात्मानम्, ' एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहु: ' ( ऋ ० सं ० १११६४।४६ ) इति मन्त्रवर्णात् । कविस्त्वं इयक्षसि प्रकर्षेण यष्टुमिच्छसि । कीदृशम्? बृहद्रय परमैश्वर्यरूपधनयुक्तम्, विश्ववारं साक्षात्कृतेनाधिष्ठान-स्वरूपेण सर्वाच्छादकं सर्वबाधकम् अधिष्ठानसत्तातिरिक्तायाः कल्पितसत्ताया अनङ्गीकारात् । विश्ववरणीयं वा, सर्व प्रेमास्पदत्वात् । रथप्रां भक्तेभ्यो दानाय धनै रथं प्रतिपूरयतीति तम् । द्युतद्यामा द्युतद्यामानं दीप्यमान-शासनम्, विभक्तिव्यत्ययः । नियुतो नियुद्भिरश्वैरिव शीघ्रतया पत्यमानः । भक्तकार्यसिद्ध्यर्थं गच्छन्तमेतादृशं भगवन्तं यजेत्यर्थः । दयानन्दस्तु - ' हे प्रयज्यो हे विद्वन्, नियुतः प्रत्यमानः कविः संस्त्वं या ते बृहती मनीषा तथा बृहद्रय विश्ववारं रथप्रां द्युतद्यामा वायुं कवि चाच्छ प्रेयक्षसि, तस्मात् सत्कर्तव्योऽसि ' इति, तदपि न, लोकंसिद्धत्वे श्रुतिविषयत्वायोगात् । निघण्टौ नियुच्छब्दो वायोरश्वेषु प्रसिद्धः । तस्य निश्चयात्मपुरुषपरत्वं च निर्मूलमेव ॥ ५५ ॥

इन्द्र॑वाय॒ इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् । इन्द॑सो वामु॒शन्ति॒ हि । उपयामगृ॑होतोऽसि वा॒यव॑ इन्द्र वा॒युभ्यां॑ त्वे॒ष ते योनि॑ः स॒जोषा॒भ्यां त्वा ॥ ५६ ॥

मन्त्रार्थ - हे इन्द्र और वायु देवता! आपके लिये यह सोम प्रस्तुत किया गया है । इस सोमरस रूप अन्न के पान के लिये आप लोग हमारे यहाँ आइये । यह सोमरस आपका प्रिय बनने की इच्छा रखता है । हे तृतीय ग्रह के सोम-