वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 451–460
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 451–460
पृष्ठ 451
पाठ पढ़ें पाठ छिपाएँ
II [ अ ० ३३ रस, तुम वायु देवता के उद्देश्य से उपयाम पात्र में गृहीत हो । एक साथ चलने वाले इन्द्र और वायु देवता के सन्तोष के निमित्त तुम्हारा ग्रहण करता हूँ । इन्द्रवायुग्रह तुम्हारा स्थान है । युगचर इन्द्रवायु देवताद्वय की प्रीति के निमित्त तुमको यहाँ स्थापित करता हूँ ॥ ५६ ॥
ऐन्द्रवायवी गायत्री मधुच्छन्दोदृष्टा । हे इन्द्रवायू, युष्मदर्थमिमे सोमाः सुताः, युष्मदर्थमिमे सोमा अभिषुताः । प्रयोभिरेतैः सोमरसरूपैरन्ननिमित्तैरुप समीपे युवामागतम् आगच्छतम् प्रयोभिः प्रयद्भिरश्वैर्वा आगच्छतम् । हि यस्मात् इन्दवः सोमाः, वां युवाम्, उशन्ति कामयन्ते । सोममाह - हे सोम, त्वमुपयामेन पात्रेण गृहीतोऽसि । वायवे इन्द्रवायुभ्यां च त्वा गृह्णामि । दशापवित्रेण गृहीतं ग्रहं पात्राद्वहिर्गतं सोमं मार्जयित्वा एष ते योनिरिति मन्त्रेण ग्रहस्य सादनं कार्यम् । एष खरस्य एकदेशे ते तव योनिः स्थानम् । अतोऽत्र सजोषोभ्यां समानप्रीतिभ्यामिन्द्रवायुभ्यां त्वां सादयामि । सेयं कण्डिका सप्तमेऽध्यायेऽष्टमीकण्डिकास्थाने पठिता, तत्रैव व्याख्याता च ॥ ५६ ॥ -मि॒त्र ं
हु॑वे पू॒तद॑क्षं वरु॑णं च रि॒शाद॑सम् । धियं॑ घृ॒ताच॒ साध॑न्ता ॥ ५७ ॥
मन्त्रार्थ - पवित्र विचारों वाले, सदाचार की वृद्धि करने वाले मित्र देवता और हिंसक काम आदि के नाशक वरुण देवता का मैं आह्वान करता हूँ ये देवता प्रसन्न होकर घृत द्वारा देवताओं का यजन करने की बुद्धि मुझे प्रदान करें ॥ ५७ ॥
मधुच्छन्दोदृष्टे गायत्र्यौ । आद्या लिङ्गोक्तदेवत्या । मित्रं वरुणं चाहं हुवे आह्वयामि । कीदृशम्? पूतदक्षं पूतं पवित्रं सदाचारं दक्षयति धनपुत्रादिभिर्वर्धयतीति पूतदशः, ' दक्ष वृद्धौ शीघ्रार्थे च ' इति धातोर्ण्यन्तात् कर्मण्यण्, तम् । कथंभूतम्? रिशादसम् । रिशन्ति हिंसन्तीति रिशा दुष्टाः, ' रिश हिंसायाम् ' अस्मात् पचाद्यच्, तान् आ समन्ताद् दस्यत्युपक्षपयतीति रिशादसः, ' दसु उपक्षये ' दैवादिकः तम् । रिशादस -मुभयोः प्रत्येकं विशेषणम् । कीदृशावुभौ? धियं कर्म यज्ञरूपं साधन्ता साधयन्तौ । नहि देवतामन्तेरण कर्मसिद्धिः । धीरिति कर्मनामसु ( निघ ० २।१।२१ ) । कीदृशीं धियम्? घृताचीम्, घृतमच्यते हूयते यत्र सा घृताची, ताम् । अध्यात्मपक्षे - मित्रं सर्वप्राणिपरप्रेमास्पदं परमात्मानं वरुणं सर्ववरणीयं च प्रत्यञ्च मात्मानं हुवे आह्वयामि । कीदृशम्? पूतं पवित्रं साधकं ज्ञानवैराग्यादिभिर्दक्षयति वर्धयतीति पूतदक्षस्तम् । रिशादसं दुष्टानां नाशकम् । तावुभौ घृताचीं घृतस्निग्धां भक्तिमतीं धियं बुद्धि साधन्ता साधयन्तौ । दयानन्दस्तु – ' हे मनुष्याः, यथाहं धियं घृताची च साधन्ता साधन्तौ पूतदक्षं मित्रं रिशादसं वरुणं च हुवे, तथैव यूयमपि स्वीकुरुत ' इति, तदपि यत्किञ्चित् सम्बोधनस्यैव निर्मूलत्वात् । ' हुवे ' इति क्रियापदस्य स्वीकारार्थतापि धात्वर्थविरुद्धेव ॥ ५७ ॥
दना॑ यु॒वार्कवः सुता नास॑त्या वृ॒क्तब॑र्हिषः ।
आ यातं रुद्रवर्तनी । तं प्रत्नाऽयं वे॒नः ॥ ५८ ॥
मन्त्रार्थ - हे परमसुन्दर, रुद्र के समान गमनशील, सत्यस्वभाव अश्विनीकुमारों! आप लोग यहाँ आइये । अग्नि में आहुति दी जा रही हैं, जहाँ कुशा बिछी हुई है, वहाँ आपके निमित्त यह सोम अभिषुत हो रहा है ॥ ५८ ॥.
पृष्ठ 452
पाठ पढ़ें पाठ छिपाएँ
म ० ५८-५९ ] वेदार्थ पारिजातभाष्यसहिता ६ ९ आश्विनी । द्वावश्विनौ - तत्रैकस्य दस्र इति नाम, अपरस्य नासत्य इति । तथा च श्रीमद्भागवतम् -' नासत्यदत्रौ परमस्य नासे ' ( २।१।२ ९ ) इति । दस्रा दस्रौ दर्शनीयौ, नासत्या नासत्यौ न असत्यौ, सत्यवादिनौ इत्यर्थः । उभयमपि सम्बोधनम् । युवामायातमागच्छतम् । यतः सुता अभिषुताः सोमाः, युष्मदर्थमिति शेषः । कीदृशाः सोमाः? युवाकवः, युवां कामयन्ते ते युवाकवः, मां पिबतमितीच्छन्तः । यद्वा -युवन्ति अग्नी मिश्रीभवन्तीति युवाकवः, बाहुलकात् काकुः प्रत्ययः । वृक्तबर्हिषः, वृक्तं छिन्नं बहिर्दर्भो यत्र तादृशाः सोमाः । कीदृशौ युवाम्? रुद्रवर्तनी वर्तते यस्मिन् स वर्तनिर्मार्गः, ' वृतेश्व ' ( उ ० २।१०८ ) इति वृतेरनि: प्रत्ययः, रुद्रस्येव वर्तनिर्ययोस्तौ रुद्रवद् गमनशीलौ । ' तं प्रत्नथा ' ( वा ० सं ० ७/१२ ), ' अयं वेन: ' ( वा ० सं ७/१६ ) इति ऋ प्रतीकोक्ते । अध्यात्मपक्षे — हे दस्राविव दर्शनीयो नासत्याविव सत्यवादिनौ श्रीरामलक्ष्मणौ, युवां पातम् । यतो युष्मदर्थं सोमा विविधा भोज्यभक्ष्यपेयपदार्थाः सुता अभिषुताः परिष्कृताः । कीदृशाः? युवाकवः, युवां कामयन्त इति तथोक्ताः । लोके भोक्तारो भोग्यपदार्थान् कामयन्ते, इह तु भोक्त्रोर्वैशिष्ट्याद् भोग्यपदार्था एव भोक्तारौ युवां कामयन्ते, नात्र भोग्यपदार्थाः प्राकृता इव जडा, किन्तु महारसिका एव परमानन्दमय-रससारसर्वस्वा भोग्यपदार्था भूत्वा युवां कामयन्ते । मां पिबतं पिबतं येन वयं धन्या भवेमेत्यहमहमिकया कामयते । अत एव युवन्ति प्रेमाग्नौ मिश्रीभवन्ति तेनापि युवाकवः । पुनः कीदृशाः? वृक्तबर्हिषः, वृक्तानि बर्हीींषि दर्भा येभ्यस्ते परिस्तीर्णबर्हिषः पावकत्वात् पवित्रतार्थं रक्षोहणत्वाद् विघ्नापसारणार्थम् । कीदृशौ युवाम्? रुद्रवर्तनी रुद्रवज्जटामुकुटधारिणौ । दयानन्दस्तु – ' हे नासत्यौ, रुद्रवर्तनी ये वृक्तबर्हिषो युवाकवः सुताः सन्ति तान् युवामायातम् ' इति, तदपि यत्किञ्चित् तादृकसाधारणमानवकथाया वेदेऽनवकाशात् । सुता इत्यस्य वेदेषु वैदिकप्रक्रियासु वा सोमाभिषवसम्बन्धेनैवाभिषुता इत्यर्थे प्रसिद्धेः । न च पदार्था जडा भोक्तारं कामयन्ते, कामनायाश्चेतनधर्मत्वात् । पुरोडाशसोमादयोऽपि देवा एव तेषां मन्त्रैः स्तुतत्वात् सम्बोध्यत्वाच्च । साधका एव स्वात्मानं भोग्यत्व-मापादयन्ति, ' अहमन्नम् ' ( तै ० उ ०३ | १० | ६ ) इति श्रुतेः ॥ ५८ ॥
वि॒दद्यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्म॑हि॒ पार्थः पूर्व्य अग्रे नयत्स॒पद्यक्ष॑राणा॒मच्छा रवे॑ प्रथ॒मा
स॒भ्रच॒क्कः ।
जा॑न॒ती गा॑त् ॥ ५ ९ ॥
मन्त्रार्थ - सुन्दर पदों वाली, अक्षरों की ध्वनि को समझने वाली, आद्या त्रयीलक्षणा वाणी हमारे सम्मुख आई है । यदि उसे अध्वर्यु न पहचाने तो प्रस्तर से अभिषेत एक साथ हवन के निमित्त गृहीत महान् सोमलक्षण अन्न को कौन प्राप्त करता ॥ ५ ९ ॥ कुशिका ऐन्द्री त्रिष्टुप् । सरमा सह रमन्ते विद्वांसो विप्रा देवा वा यस्यां सा सरमा वाक् । सा हि अभिषवे समानं रमते । प्रथमा आद्या त्रयीलक्षणा अच्छ यज्ञाभिमुखं गाद् आगच्छति, यज्ञं प्रतिपादयतीत्यर्थः । कीदृशी सरमा? सुपदी, शोभनानि पदानि यस्यां सा । अक्षराणामकारादीनां रवं शब्दं जानती ज्ञापयन्ती, अन्तर्भूतणिजर्थः । तां सरमां यदि चेद्, विनद् जानीयादध्वर्युः, तर्हि पाथः सोमलक्षणमन्नं कः कुर्यात्, पाथ इति पदेषु ( निघ ० ४ | ३ | ३० ), पाधातोः ' उदके थुट् च ' ( उ ० ४।२०५ ) तथा ' अन्ने च ' ( उ ० ४।२०६ ) इति सूत्राभ्यामुदकेऽन्ने चार्थे पाथःशब्दनिष्पत्तिः, वेदानभिज्ञस्य सोमकण्डनानधिकारात् । कीदृशं पाथः? अद्रेः, अद्रिणा, विभक्तिव्यत्ययः । सोमाभिषवणग्राव्णा रुग्णं चूर्णितमभिषुतम्, महि महत्, पूर्व्यम् उपांश्वन्तर्यामैन्द्र-
पृष्ठ 453
पाठ पढ़ें पाठ छिपाएँ
७० शुक्लयजुर्वेदसंहिता [ अ ० ३३ वायवादिपात्रेषु पूर्वं गृहीतम् । सध्यक सह अञ्चतीति सध्यक्, ' सहस्य सधि: ' ( पा ० सू ० ६ | ३ | ९ ५ ) इति सहशब्दस्य सध्यादेशः । सहैव हवनाय गच्छति । अग्रं नयद् यजमानस्य मुख्यत्वं प्रापयत् । यज्ञेन हि यजमानो मुख्यो भवति । यद्वा - त्रयीलक्षणा सरमा वाक् प्रकटीभवति, सोच्यते । सा ह्यभिषवे समानं रमते, तस्मात् सरमेत्युच्यते । अद्रेः रुग्णमित्यद्रिभिः सोमोऽभिषूयत इत्युच्यते । महि महत् पाथः सोमलक्षणमन्नं पूर्व्यमित्युपांश्वन्तर्यामैन्द्रवाय-वादिषु पूर्वं गृहीतमित्युच्यते । एवमधियज्ञं व्याख्यानम् । बहुचानां तु पृष्ठ्याभिप्लव - षडयोः प्रथमेऽहनि माध्यन्दिनसवनेऽच्छावाकशस्त्रेऽहीनसूक्तस्थाने त्रीणि सम्पातसूक्तानि । तत्रेदं तृतीयं सम्पातसूक्तम् । तत्र पणिभिरसुरैर्देवगोधनेऽपहृते इन्द्रेण देवशुनी तद्भीत्यै प्रेरिता गा अलभत । तथा च बृहद्देवतायाम् – ' असुराः पणयो नाम रसापारनिवासिनः । गास्तेऽपजहुरिन्द्रस्य न्यगुहश्च प्रयत्नतः ॥ बृहस्पतिस्तथापश्यद् दृष्ट्वेन्द्राय शशंस च । प्राहिणोत्तत्र दूत्येऽय सरमां पाकशासनः ॥ ' ( ८।२४-२५ ) इति । एतदभिप्रायेण व्याख्यायते --सरमा देवशुनी इन्द्रेण गवामन्वेषणाय प्रहिता सती यदाद्रेगिरे रुग्णं भग्नं द्वारं विदद् अलभत, तदानीमिन्द्रः पाथोऽन्नं हविरन्नं कः अकार्षीत्, तस्यै दत्तवान् । कथम्भूतं पाथः? महि महत् । पूर्व्यं पूर्वं प्रेषणकालेऽन्नादिनीं ते प्रजां करिष्यामीति प्रतिज्ञातम् सध्या इतरैरपि भोज्यैः सध्रीचीनम् । ततः सुपदी शोभनपादयुक्ता सा सरमा अक्षराणां क्षरणेण नाशेन रहितानामनुपद्रतानां गवामग्रं प्रान्तम्, नयद् अनयत् प्राप्नोत् । प्रथमा प्रथमं रवं गवां हम्भारवं जानती सती, अच्छ गवामभिमुखं गाद् अगात् जगामेत्यर्थः । यद्वा सरमा देवशुनी यदि रुग्णं गवां सम्बन्धिभिः खुरैर्भग्नमद्रेः पर्वतस्य द्वारं विदद् अलभत, अथ अनन्तरं गोलक्षणं पाथः पूव्यं पूर्वकालेष्वपहृतं देवान् प्रति कः करिष्यति, अग्रं गवामवस्थापनाय नयद् नेष्यति, सुपदी शोभनपादयुक्ता या नष्टं गोधनमन्वे-पयामास सैवोच्यते । कीदृशी सा? अक्षराणामस्मदीयवाक्य सम्बन्धिनाम्, अच्छमभिमुखमुच्चारणं जानती, अगाद् आगमिष्यति । अध्यात्मपक्षे -- सरमा भक्तैः सह रामे रमत इति सरमा सीता भक्तिर्वा, यदि अद्वेरिवाभेद्यस्य कूटस्थस्य भक्तस्य जीवस्य रुग्णं भग्नं मनो विदद् अलभत तदा महि महत्त्वपूर्ण पाथः स्वानुग्रहलक्षणमन्नं संबलं पूव्यं पूर्वैः सेवितं सध्य सहाञ्चनं कः करिष्यति । कीदृशी सरमा? सुपदी शोभनौ ध्येयौ पादौ यस्याः सा, प्रथमा मुख्या, साचाक्षराणां प्रार्थनाक्षराणां रवं शब्दं ध्वनिं जानती, अच्छा साधकानामभिमुखं गाद् आगच्छति, वात्सल्याद् अग्रं फलोत्कर्षं च नयत् प्रापयति । दयानन्दस्तु – ' यदि सरमा प्रथमा सुपदी अक्षराणां रवं जानती रुग्णं विददग्रं नयत्, सम्यक् पूव्यं महि अद्रेरुत्पन्नं पाथः कः कुर्यात्, पतिमच्छा गातहि सा सर्व सुखमाप्नुयात् ' इति, तदपि निरर्थकम् विशृङ्खलत्वाद-सम्बद्धत्वाच्च । भावार्थस्तु सर्वथा मन्त्रबाहा एव ॥ ५ ९ ॥ III
न॒हि स्पश॒मवि॑दन्त॒न्यम॒स्माद् वैश्वान॒रात् पुर ए॒तार॑म॒ग्नेः ।
एमे॑नमवृधन्न॒मृता॒ अम॑र्त्यं वैश्वान॒रं क्षैत्र॑जित्याय देवाः ॥ ६० ॥
मन्त्रार्थ - देवताओं ने इस विश्व के हितकारी, अग्नि से भिन्न, सब कार्यों में अग्रगामी दूत को नहीं पाया । इसीलिये देवताओं ने इस अमरणधर्मा अग्नि को यजमान की रक्षा के लिये आगे बढ़ाया है ॥ ६० ॥
विश्वामित्रदृष्टात्रिष्टुप, वैश्वानरी । अमृता अमरणधर्माणो देवा अस्माद् वैश्वानरात्, विश्वेभ्यो नरेभ्यो हितो वैश्वानरोऽग्निस्तस्मादग्नेरन्यं स्पशं प्रणिधि दूतं पुर एतारं देवानां सर्वकार्येषु पुरःसरं नहा विदन् नालभन्त । पुर
पृष्ठ 454
पाठ पढ़ें पाठ छिपाएँ
म ० ६०-६२ ] वेदार्थपारिजात भाष्यसहिता ७१ एति गच्छतीति पुरता, तम् । नहिशब्दो निषेधवचनः । आ ई निपातौ अथार्थी । अनन्तरमेनममर्त्यममरणधर्माणं वैश्वानरं देवम्, अवृधन् अवर्धयन् । किमर्थमिति चेत्, क्षेत्र जित्याय । क्षेत्रमेव क्षेत्रं तस्य जित्यं जयस्तस्मै देवयजन-क्षेत्रजयाथं यजमानाभीष्टलोक प्राप्त्यर्थं च तमवर्धयन्निति सम्बन्धः । अध्यात्मपक्षे— वैश्वानरादग्नेः परमेश्वरादन्यं स्पशं गुप्तचरं कार्यकरमन्यं देवं न विदन् । एम् अथ अनन्तर-अमृता देवा एनं वैश्वानरं सर्वहितकारिणममर्त्यममरणधर्माणं नित्यं परमात्मानमवृधन् स्तुतिभिराहुतिभि-श्चावर्धयन् । दयानन्दस्तु – ' ये अमृता देवा अमत्यं वैश्वानरं क्षैत्रजित्यायै नामावृधन् ईम् अस्माद्वैश्वानरादग्नेः पुर-एतारमन्यं स्पर्श नह्यविदन् ' इति, तदपि यत्किञ्चित्, विशृङ्खलत्वात् । नहि जडमात्रस्याग्नेश्चालनकर्तृत्वं सम्भवति, न चाग्नेहिताहितज्ञानं सम्भवति त्वद्रीत्या जडत्वात् । सिद्धान्ते तु तस्य दिव्यशक्तिसम्पन्नत्वेन माहात्म्यात् सर्वमुपपद्यते ॥ ६० ॥
उ॒ग्रा वि॑िघ॒निना मृध॑ इन्द्राग्नी हवामहे । ता नौ मृडात ईदृशे ॥ ६१ ॥
मन्त्रार्थ -- तीक्ष्ण बल वाले, असुरों के विशेष रूप से हन्ता, इन्द्र और अग्नि देव का हम आह्वान करते हैं । वे दोनों भयानक युद्धों में भी हमारी सहायता करें ॥ ६१ ॥
भरद्वाजदृष्टा ऐन्द्राग्नी गायत्री । वयमिन्द्राग्नी इन्द्रश्च अग्निश्च इन्द्राग्नी, तौ देवौ हवामहे आह्वयामः । कीदृशाविन्द्राग्नी? उम्रौ उद्गुर्णबलौ । मृधो हिंसकान् शत्रून् विघनिनौ विशेषेण हतो नाशयत इति विघनिनौ तौ । यद्वा मृधः संग्रामस्य कारिणां विहन्तारौ ता तो आहूतौ सन्तौ इन्द्राग्नी नोऽस्मान् ईदृशे भयानके संग्रामे मृडातो मृडयतः सुखयतः । अध्यात्मपक्षे – इन्द्रः परमात्मा रामः, अग्निर्लक्ष्मणः सङ्कर्षणाग्न्यवतारत्वात् । तौ हवामहे । कीदृशौ? उग्रौ उदग्रबलौ, मृधः संग्रामस्य विघनिनौ विहन्तारौ 7 शत्रूणामुन्मूलनेनेति शेषः । ता तौ इन्द्राग्नी ईदृशे दुःखोपद्रवोपप्लुते संसारे नोऽस्मान् मृडातो मृडयतः । दयानन्दस्तु – ' हे मनुष्य, वयं यावुग्रमृधो विघनिनेन्द्राग्नी हवामहे, ता ईदृशे नोऽस्मान् मृडातः ' इति, तदपि न, ' इन्द्राग्नी ' इत्यनेन सभापतिसेनापत्योर्ग्रहणे मानाभावात्, प्रसिद्धार्थत्यागस्य निर्मूलत्वाच्च, लोकसिद्धार्थ -बोधने मन्त्रतात्पर्यानुपपत्तेश्च ॥ ६१ ॥
उपस्मै गायता नरः पव॑मानायेन्द॑वे । अभि देवाँ २ ॥ इयक्षते ॥ ६२ ॥
मन्त्रार्थ हे यज्ञ के नेता ऋत्विजों! इस गतिमान् देवता को परम सत्कार के साथ पूजना चाहिये, सोम के लिये स्तोत्रों का गान करना चाहिये ॥ ६२ ॥
देवलदृष्टा सोमदेवत्या गायत्री । हे नर ऋत्विजः, यज्ञस्य नेतृत्वात् । ' णीञ् प्रापणे ' भौवादिकः । अस्मात् ' नयतेर्डिच्च ' ( उ ० २।१०२ ) इति । नयन्ति पूर्वपुरुषान् उत्तमां गतिमिति विग्रहे ऋप्रत्यये तस्य डित्वाद् धातो-ष्टिलोपे बहुत्वविवक्षायां जसि नर इति रूपम् । अत्र सम्बोधनम् । अस्मै इन्दवे सोमाय उपगायत औद्गात्र-धर्मानुसारमुपशब्दयत, स्तोत्रशस्त्रादिभिः स्तुतिं कुरुत । कीदृशायेन्दवे? पवमानाय दशापवित्राद् द्रोणकलशं गच्छते, ' पूङ् पवने ' भौवादिकः । अत्र गतौ वृत्तिः । पवत इति पवमानः, पूङ्घातोः ' पूङ्यजो: शानन् ' ( पा ० सू ०
पृष्ठ 455
पाठ पढ़ें पाठ छिपाएँ
७२ शुक्लयजुर्वेदसंहिता [ अ ० ३३ ३।२।१२८ ) इति शाननि, ' आने मुक् ' ( पा ० सू ० ७७२८२ ) इति मुगागमे रूपम्, तस्मै । पुनः कथम्भूताय? देवान् अभि इयक्षते देवान् यजनीयान् अभि आभिमुख्येन इयक्षते यष्टुमिच्छते । यजेः सनि छान्दसोऽभ्यास-यकारलोपः । अध्यात्मपक्षे – हे नरः, देहादिनेतारो जीवाः! अस्मै इन्दवे इन्दुभूषणाय उपगायत नानाविधैर्वेदिकै-स्तान्त्रिकैः स्तवैः स्तुतिं कुरुत । कीदृशाय? पवमानाय, भक्तान् पावयितुं गच्छते । देवान् अभि आभिमुख्येन इयक्षते यियक्षते सर्वदेवमयं विष्णुं पूजयितुमिच्छते, पुराणेष्वेकात्मनोरपि हरिहरयोः परस्परं पूजकत्वदर्शनात् । दयानन्दस्तु - ' हे नरः, यूयं देवानभीयक्षते पवमानायेन्दवे उपगायत ' इति, तदपि यत्किञ्चित्, उपगान-शब्दस्याध्यापनार्थत्वे मानाभावात् न च सत्कारकर्तॄणां स्तवनरूपमुपगानं सम्भवति, क्षुद्रयाचकादीनां तादृश-व्यवहारदर्शनात् ॥ ६२ ॥
ये त्वा॑ ये
मघव॒नव॑र्च॒न् ये शम्बरे हरिवो॒ ये गवि॑ष्टौ ।
नू॒नम॑नु॒मद॑न्ति॒ विप्रा॒ाः पिब॑न्द्र॒ सोम॒ सग॑णो म॒रुद्भिः ॥ ६३ ॥
मन्त्रार्थ - हे इन्द्रदेव! जिन मेधावी मरुद्गणों ने वृत्रासुर के वध के समय आपकी सहायता की, हे हरि नामक अश्वों वाले इन्द्रदेव! जिन मरुद्गणों ने शम्बर के साथ हुए युद्ध में आपकी सहायता की, जिन्होंने यज्ञ में असुरों से छीन कर गायों को लाने की आपकी इच्छा की पूर्ति में आपकी सहायता की, जो आपको सन्तुष्ट करने में सदा लगे रहते हैं, हे इन्द्र! उन मरुद्गणों के साथ आप सोम रस का पान करें ॥ ६३ ॥
विश्वामित्रदृष्टा त्रिष्टुप् इन्द्रदेवत्या । हे मघवन् धनयुक्त! ये मरुतो गणदेवाः, त्वा त्वाम् अहिहत्ये अहिर्दैत्यो वृत्ररूपस्तस्य हत्ये हनने, अवर्धन् स्तुत्यादिभिर्वधितवन्तः प्रोत्साहितवन्तः, हे हरिवो हरिवन् हरित-वर्णाश्वयुक्त, शाम्बरे शम्बरदैत्य संबन्धिनि च युद्धे ये त्वामवर्धन्, ये च मरुतो गविष्टौ पण्यसुरहृतानां गवामिष्टो प्रत्याहरणेच्छायां गवामपायेषणयोपस्थितं सन्तं वा त्वामवर्धन्, ये च विप्रा मेधाविनो मरुतो नूनं निश्चितं त्वामनुवदन्ति त्वामुत्कर्षयन्ति तर्पयन्ति वा, हे इन्द्र! तैर्मरुद्भिः सगणो गणसहितः सन् सोमं पिब, मरुत्वतीयादि-ग्रहस्थं सोमं पिब । अहिहत्ये, हन्तेर्भावे ' हनस्त च ' ( पा ० सू ० ३ | १ | १०८ ) इति क्यप्, कृदुत्तरपदसमासः । अवर्धन्, झेः सार्वधातुकत्वेऽपि ' छन्दस्युभयथा ' ( पा ० सू ० ३ | ४ | ११७ ) इत्यार्धधातुकत्वे णिलोपः । यद्वृत्तयोगान्निपाताभावः ( पा ० सू ० ८ १६६ ) | गवामिष्टिरन्वेषणं यस्मिन् रणे ' बहुव्रीहौ प्रकृत्या पूर्वपदम् ' ( पा ० सू ० ६ | २ | १ ) इतिपूर्वपदस्वरः, अनुमदन्ति स्मेत्यसार्वधातुकानुदात्तत्वे धातुस्वर:, ' तिङि चोदात्तवति ' ( पा ० सू ० ८ । १ । ७१ ) इति गतेर्निघातः । अध्यात्मपक्षे -- ' हे मघवन्, षडैश्वर्यसम्पन्न परमेश्वर, ये मरुता मरुतो मरुत्पुत्रादयो वा त्वाम् अहिहत्ये दैत्यराक्षसादिननेऽवर्धन् वर्धितवन्तः, हे हरिवो वानरभटैरङ्गदादिभिर्युक्त! ये च शाम्बरे युद्धे मायाविमेघ-नादादियुद्धे त्वामवर्धन्, ये गविष्ठौ गवां वेदवाचामिष्टौ रक्षणेषणयोपस्थितं त्वामवर्धन्, ये च त्वां नूनमनुमदन्ति प्रहर्षयन्ति तैः सह हे इन्द्र, सोमं पिब प्रेम्णा समर्पितं भक्ष्यपेयादिकं पिब खाद च । इन्द्रोऽपि भगवद्बलेनोपबृंहित एव युद्धयति । दयानन्दस्तु - ' हे मघवन्, ये विप्रा अहिहत्ये गविष्टौ सूर्यमिव त्वाऽवर्धन् वर्धयेयुः, हे हरिवाँ! ये शाम्बरे विद्युतमिव त्वाऽवर्धन्, ते नूनं त्वामनुमदन्ति 1 । ये च त्वां रक्षन्ति, हे इन्द्र! तैर्मरुद्भिः सगणः सूर्यो रसमिव मनुष्यैः
पृष्ठ 456
पाठ पढ़ें पाठ छिपाएँ
म ० ६३-६५ ] वेदार्थ पारिजात भाष्यंसहिता II सह सोमं पिब ' इति, तदपि न, लोकसिद्धेऽर्थे वेदतात्पर्याभावात्, मघवन् - हरिव इत्यादिसम्बोधनानां देवराज इन्द्रे प्रसिद्धानां वराके मनुष्यसेनापतावसङ्गतेः यथातथादिपदानां मन्त्रेऽभावात् दृष्टान्तरूपेण सूर्याद्वियोजनमप्य-सङ्गतमेव । न च तानि तानि पदान्याञ्जस्येन सेनापतौ संगच्छन्ते ॥ ६३ ॥
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजिष्ठो बहुलाभि॑िमानः । अव॑ध॒न्निन्द्रो॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वीरं द॒धन॒द्धवि॑ष्ठा ॥ ६४ ॥
मन्त्रार्थ - हे इन्द्रदेव! आप उत्कृष्ट शक्तिसम्पन्न, स्तुतियोग्य और अत्यन्त तेजस्वी हैं । यह सारा जगत् आपकी विभूति है स्वाभिमान की रक्षा के लिये अतितीव्र गति से आप अपने बल को प्रकट करते हैं । मरुद्गणों ने भी स्तुतियों के द्वारा आपके उत्साह को बढ़ाया है । अतिशय धनवती माता अदिति ने इन्द्र को गर्भ में धारण किया है ॥ ६४ ॥
गौरवीति त्रिष्टुप, इन्द्रदेवत्या । हे इन्द्र! त्वं सहसे बलाय जनिष्ठा अजनिष्ठा जातोऽसि अडभाव आर्षः । कथम्भूताय सहसे? तुराय त्वरायुक्ताय वेगवते, यद्वा सहसे बलाय तुराय त्वरणाय, जातोऽसि । कीदृशस्त्वम्? उग्र उदग्रबलो मन्द्रः स्तुत्य ओजिष्ठोऽत्यन्तमोजस्वी, ' विन्मतोर्लुक् ' ( पा ० सू ० ५।३।६५ ) इति विनो लुक, बहुलाभिमानः समष्टिविराडभिमानः । अत्र वृत्रवधे ईदृशमिन्द्रं मरुतश्चिद् मरुतोऽपि, अवर्धन् स्तुति-सहायाभ्यां वर्धितवन्तः । सर्वमिदमिन्द्रसौभाग्यमौत्पत्तिकं गर्भकालिकमेवेत्याह - माता अदितिः, धनिष्ठा अतिशयेन धन्या, यद् यस्माद् वीरमिन्द्रं दधनद् गर्भे धारितवती नकार छान्दसः । अध्यात्मपक्षे -- हे इन्द्र परमेश्वर श्रीराम, त्वं सहसे बलकार्यकरणाय त्वरणाय च जनिष्ठा जातः, कीदृशस्त्वम्? उग्र उदग्रबल:, मन्द्रः स्तुत्यः, ओजिष्ठोऽत्यन्तमोजस्वी, बहुलाभिमानः समष्टिव्यष्टिस्थूलसूक्ष्म-कारणसर्वप्रपञ्चाभिमानः, सर्वात्मत्वात् । अत्र रावणादिवधरूपे कार्ये मरुतश्चिद् हनुमानादयोऽपि स्तुतिबल-बुद्धयादिभिस्त्वामवर्धन् प्रोत्साहितवन्तः । माता कौशल्या धनिष्ठा अतिशयेन धन्या, यद् यस्माद् वीरं दधनद् गर्भे धारितवती, तस्मात् तथाविधस्त्वमजनिष्ठाः । दयानन्दस्तु हे राजन्! धनिष्ठा माता यद्वीरं दधनदिन्द्रं मरुतश्चिदिव सभ्या यं त्वामवर्धयन् स त्वमत्र सहसे तुराय उग्रो मन्द्र ओजिष्ठो बहुलाभिमानः सन् सुखं जनिष्ठा: ' इति, तदप्ययुक्तम्, सम्बोधनस्य निर्मूलत्वात्, मूलमन्त्रे यथा तथा इवादिशब्दानामभावात्, लुप्तोपमानच्छलेन त्वद्विरुद्धानामनेकार्थानां कल्पनासंभवाच्च । तदुपेक्ष्यमेव । अन्यत्तु महीधराद्यनुकरणमेव ॥ ६४ ॥
आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि । म॒हान् म॒हीभि॑रू॒तिभिः ॥ ६५ ॥
मन्त्रार्थ - हे पापनाशक इन्द्रदेव! हमारी सुरक्षा की पूरी तैयारी के साथ आप हमारे पास शीघ्र आइये, आप हमारे अतिसमीप आ जाइये ॥ ६५ ॥
वामदेवदृष्टा गायत्री, इन्द्रदेवत्या । तुनिपातः क्षिप्रवचनः, ऋचि तुनुघ ' ( पा ० सू ० ६।३।१३३ ) इत्यादिना तस्य संहितायां दीर्घः । हे वृत्रह्न, वृत्राणां सद्बुद्धिप्रावरकाणां पाप्मनां हन्तः! हे इन्द्र, त्वं नोऽस्मान् प्रति तु क्षिप्रम् आ आगहि आभिमुख्येनागच्छ, एत्य चास्माकमर्धमस्मन्निवासदेशमायाहि, देवयजनदेशं प्राप्नु-हीत्यर्थः । यद्वा अस्माकमर्धमस्मदीयं देवयजनमागहि एत्य चास्मान् महीभिर्महतीभिः ऊतिभी रक्षाभिः, पालयेति शेषः । कीदृशस्त्वम्? महान् योऽन्यान् पालयति स महानेव भवति । १०
पृष्ठ 457
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेद संहिती ७४ त्वमे॑न्द्र॒ प्रति॑तिष्व॒भि विश्वा॑ [ २०३३ सि॒स्पृधः॑ः ॥ अ॒शस्ति॒हा ज॑रि॒ता विश्व॒तुर॑सि॒ त्वं त॑र्य तरुष्य॒तः । ६६ ॥ मन्त्रार्थ - हे इन्द्रदेव! आप संग्रामों में सभी प्रकार के शत्रुओं पर विजय प्राप्त करते हैं, आप सब शत्रुओं का नाश कर देते हैं । इस कारण हे दुष्टों के हन्ता! अपने पक्ष की प्रशंसा करने वाले सभी शत्रुओं का आप पूरी तरह से नाश कर दीजिये ॥ ६६ ॥
नृमेध ऐन्द्रयौ पथ्याबृहतीसतो बृहत्या । हे इन्द्र, प्रमूर्तिषु संग्रामेषु प्रकृष्टा तूर्तिहिंसा यत्र येषु तेषु, त्वं विश्वाः सर्वाः स्पृधः स्पर्धमानाः शत्रुसेना, अभि असि भवसि अभिभवसि । किञ्च यतस्त्वं विश्वतूः, विश्वान् सर्वान् रिपून् तुर्यते हिनस्ति यः स विश्वतूरसि भवसि विश्वशत्रुनिहन्तासि ततस्तरुष्यतो हनिष्यतः शत्रून् तूर्य जहि मारय । कीदृशस्त्वम्? अशस्तिहा, नास्ति शस्तिः प्रशस्तिर्येषां तेऽशस्तयस्ते दुष्टास्तान् हन्तीति तथोक्तः । जनिता जनयिता स्वीयानां प्रशंसोत्पादकः । यद्वा हे इन्द्र, प्रतूतिषु प्रतरणीयेषु शत्रुषु निमित्तभूतेषु विश्वाः सर्वाः स्पृधः संग्रामान् अभि असि अभिभवसि । किञ्च, अशस्तिहा अभेरादिशेषे, अभिशस्तिनिन्दा कलङ्की वा, तं हन्तीत्यशस्तिहा, जनयिता च सुखानाम् । विश्वतूः सर्वशत्रुतुरणस्त्वमसि, तस्माद् ब्रवीमि त्वमेव तरुष्यतो हनिष्यतः शत्रून तूर्य मारय । अध्यात्मपक्षे – हे इन्द्र परमेश्वर, प्रतूर्तिषु कामक्रोधादिसंग्रामेषु तैः संघर्षेषु, स्पृधः स्पर्धमानाः कामादि-शत्रुसेनाः अभ्यसि अभिभवसि तवानुकूल्येन तासां पराभवानुभवात् । त्वमेव अभिशस्तिहा आत्मज्ञानदानेन आत्महननरूपाया अभिशस्तेर्हन्तासि, जनिता च जीवन्मुक्तिसुखस्य त्वमेव विश्वतूरणोऽसि, अतो तरुष्यतो हनिष्यतः कामादिशत्रून तूर्य नाशय । दयानन्दस्तु – ‘ हे इन्द्र, यतस्त्वं प्रतूर्तिषु विश्वा स्पृधोऽभ्यसि, अशस्तिहा जनिता विश्वतुः संस्त्वं विजय-वानसि, तस्मात् तरुष्यतस्तूर्य ' इति, तदपि पूर्ववदेवोपेक्षणीयम्, इन्द्रपदस्य सामान्यराजार्थेऽप्रसिद्धेः । अक्षरार्थस्तु महीधराद्यनुकरणमात्रम् ॥ ६६ ॥
अन॑ ते॒ शुष्मं तु॒रय॑न्तमीयतुः क्षोणी शिशुं न मा॒तरा॑ ।
विश्वा॑स्ते॒ स्पृध॑ः श्नथयन्त म॒न्यवे॑ वृ॒त्रं यवि॑न्द्र॒ तूसि ॥ ६७ ॥
मन्त्रार्थ - हे इन्द्रदेव! पृथ्वी और स्वर्ग में स्थित सभी जीव शत्रुओं पर तीव्र गति से आक्रमण करने वाले आपके बल की उसी प्रकार प्रशंसा करते हैं, जैसे कि माता - पिता अपने बालक की । सारी शत्रुसेना आपके क्रोध से घबरा जाती है, सभी देवताओं के द्वारा मिल करके भी जो असुर मारे नहीं जा सकते, उन सबको आप अकेले मार डालते हैं ॥ ६७ ॥
अध्यात्मपक्षे – वृत्रं प्रावरकं ब्रह्मात्मतत्त्वस्याज्ञानम्, तस्य हन्ता परमेश्वरो वृत्रहा । हे वृत्रहन्! त्वमस्माक-म हृदयस्थानप्रदेशमागहि आभिमुख्येनागहि आगच्छ आगत्य च महीभिर्महतीभिरूतिभी रक्षाभिर्ज्ञान-दानेनाज्ञाननिवर्तनेन चास्मान् पालय, त्वं महानसि स्वरूपेण गुणैश्च महनीयोऽसि । दयानन्दस्तु – ' हे वृत्रहन् इन्द्र! त्वमस्माकमधं वर्धनमा गहि महानसन् महीभिरूतिभिर्नोऽस्मान् त्वादधनत् ' इति, तदपि यत्किञ्चित्, राजस्तोतॄणां संवादस्यापौरुषेये वेदेऽनवसरग्रस्तत्वात् । न च वृत्रहन्निन्द्रादि-पदानामाञ्जस्येन प्रकृते मनुष्ये राजनि संगतिः ॥ ६५ ॥
पृष्ठ 458
पाठ पढ़ें पाठ छिपाएँ
म ० ६७-६९ ] वेदार्थ पारिजातभाष्यसहिता ७५ इन्द्र, क्षोणी क्षोण्या द्यावापृथिव्यौ, ते तव शुष्मं बलं तुरयन्तं शत्रुषु त्वरामाविष्कुर्वन्तं तूर्णं गच्छन्तं वा अन्वीयतुरनुजग्मतुः त्वामेवानुगतवत्यौ । अनुगमने दृष्टान्तः - मातरौ मातापितरौ शिशुं न शिशुमिव यथा मातापितरौ शिशुमनुगच्छतस्तद्वदित्यर्थः । विश्वाः सर्वाः स्पृधः स्पर्धमानाः शत्रुसेनाः संग्रामा वा ते तव मन्यवे मन्योः, पचम्यर्थे चतुर्थी, तव क्रोधात् श्नथयन्त अश्रथयन्त श्रथिताः खिन्ना भवन्ति, उद्विग्ना भवन्तीत्यर्थः । यद्यस्माद् इन्द्र त्वं युद्धे वृत्रं देवासुरावध्यं तुर्वसि हंसि, ' यस्य बलाद् द्यावापृथिव्यावप्यबिभीताम् ' ( निरु. १०।१० ) इति यास्कोक्तेर्द्यावापृथिव्यौ तत्स्था लोकाश्च यद्वलं बड़ मन्यन्ते, येन च युद्धे वृत्रो निपातितस्तस्य क्रोधदर्शनात् स्पर्धमानाः शत्रुसेनाः संग्रामा वा उद्विजेरन्निति युक्तमेव, तुर्वतिहिंसार्थः । अध्यात्मपक्षे - हे इन्द्र परमेश्वर! ते तुरयन्तं शत्रुषु त्वरामाविष्कुर्वन्तं शुष्मं बलं द्यावापृथिव्यौ मातरौ मातापितरौ शिशुमिवान्वीयतुरनुजग्मतुः पारमेश्वरेण तेजसा तयोर्विधृतत्वात् । हे इन्द्र, त्वं वृत्रं दैत्यमज्ञानं वा तुर्वसि नाशयसि, तस्माद्विश्वा सर्वाः स्पृधः शत्रुसेनास्ते तव मन्योः श्नथयन्त खिन्नाः सन्त उद्विजन्ते । दयानन्दस्तु - हे इन्द्र, यस्य ते तुरयन्तं शुष्मं शिशुं मातरा मातापितरौ इव क्षोणी अन्वीयतुस्तस्य ते मन्यवे विश्वा स्पृधः श्नययन्त । यद्यं वृत्रं शत्रुं त्वं तूर्वसि स पराजितो भवति ' इति, तदप्यसङ्गतम्, अन्वीयतुरिति द्विवचनक्रियानुगुणकर्तृपदायोगात् । न च क्षोणीति स्वपरभूमीति व्याख्यातमेवेति, तदपि निर्मूलम्, निघण्टु-वचनेन क्षोणीपदस्य भूम्यर्थत्वेऽपि स्वपरेति विशेषणस्य निर्मूलत्वात् । तस्मात् क्षोणी क्षोण्यौ द्यावापृथिव्यावित्येवार्थो युक्तः । न च तत्र मातरौ मातापितरा इति दृष्टान्तो घटते ॥ ६७ ॥
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति स॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्त॑ः ।
आ वोऽर्वाची सुमतिवैवृत्याद॒द्ध् होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥ ६८ ॥
मन्त्रार्थ- --यज्ञ आदित्य आदि देवताओं के सुख के निमित्त आगमन करता है । इस कारण हे आदित्यगणों! आप सब हमारे लिये अवश्य ही सुखकारी हों । आप लोगों की जो स्वभाव - सिद्ध अनुग्रह बुद्धि है, वह हमारे प्रति प्रवृत्त हो । पापकारी की भी जो बुद्धि सुमतिरूप धन का उपार्जन करनेवाली है, यह हमारे सन्मुख हो । हे सोम, आदित्य ग्रह की प्रीति निमित्त मैं तुम्हारा ग्रहण करता हूँ ॥ ६८ ॥
यज्ञो देवानामादित्यानां सुम्नं सुखं कर्तुं प्रत्येति । अतो हे आदित्यासः, मृडयन्तो यूयमस्माकं सुखकर्तारो भवत । वो युस्माकं सुमतिर्भक्तानुग्रहतत्परा बुद्धिः, अर्वाची अस्मदभिमुखी आवृत्याद् आवर्तताम् । अहोश्चिद् हननशीलस्य पापिनोऽपि वरिवोवित्तरा अत्यन्तं धनलब्ध्री असद् भवेत् सा सुमतिरस्मदभिमुखी आवर्ततामिति सम्बन्धः । हे सोम, आदित्येभ्यो देवेभ्यस्त्वो दध्ना, मिश्रयामीति शेषः । ( ८1४ ) इत्यत्र व्याख्याता । कुत्सदृष्टा त्रिष्टुप् समाप्ता ॥ ६८ ॥
अद॑ग्धेभिः सवितः पा॒युभि॒ष्ट्व ँ
शि॒वेभि॑र॒द्य परि॑ि पाहि नो॒ गय॑म् ।
हिरण्यजिह्नः सुविताय नव्य॑से॒ रक्षा मार्किनो॑ अधस ईशत ॥ ६ ९ ॥
मन्त्रार्थ - हे सबके प्रेरक ज्योतिरूप जिल्ह्वा वाले सवितादेव! आप अब कभी नष्ट न होने वाली आनन्दस्वरूप अपनी रक्षा के घेरे में हमें ले लें, हमारी अनन्य भक्ति को देख कर आप हमारे देहरूप गृह की रक्षा करें, हमें नित्य नूतन सुख प्रदान करें, कोई पापेच्छु हमारे ऐश्वर्यं को न प्राप्त कर सके ॥ ६ ९ ॥
पृष्ठ 459
पाठ पढ़ें पाठ छिपाएँ
७६ शुक्लयजुर्वेद संहिता [ अ ० ३३ भरद्वाजदृष्टा जगती, सवितृदेवत्या । हे सवितः " सर्वस्योत्पादयितः प्रेरयितो वा त्वं गयं नोऽस्माकं गयं गृहं धनं वा अदब्देभिरनुपहिंसितैः शिवेभिः शान्तैः पायुभिः पालनैः परिपाहि परिरक्ष । कीदृशस्त्वम्? हिरण्य-जिह्वः, हिरण्यवदविचला तेजस्विनी च जिह्वा ज्वाला यस्य सः, सत्यवाग् भूत्वा यद्वा हिरण्या हिता रमणीया जिह्वा ज्वाला यस्य सः, ' हिरण्यं कस्मात्? हितं रमणं भवतीति वा ' ( निरु ० २।१० ) इति यास्कोक्तेः । नव्यसे नवीयसे नवतराय सुहवाय सुखाय नोऽस्मान् रक्ष । यद्वा सुविताय सुप्रसूताय नव्यसे नवतराय कर्मणे, भवेति शेषः, रक्ष च सर्वथा । माकिः मा कश्चन नोऽस्माकमघशंसः, अघं पापं यः शंसति स ईशत ईशितः समर्थो भवत्वघकरणाय । ' रक्षा ' इत्यत्र संहितायां दीर्घः । ' ईशत ' इत्यत्र लङ्, ' बहुलं छन्दसि ' ( पा ० सू ० २ । ४ । ७३ ) इति शपो लुगभावः । अध्यात्मपक्षे — हे सवितः " प्रपञ्चोत्पादक परमेश्वर! अदब्धेभिहिंसारहितैः शिवेभिः सुखकरैः पायुभिः पालनैस्त्वं नोऽस्माकं गयं गृहं धनं वा, गृहधनयोर्नामसु पाठात् परिपाहि परिपालय । कीदृशस्त्वम्? हिरण्य-जिह्वः, हिरण्यं ज्योतिर्मयी जिह्वा वेदलक्षणा वाग् यस्य सः, नव्यसे नवतराय सुविताय सुप्रसूताय सुखाय भव रक्ष च । माकि: मा कश्चन अघशंसमघमाशंसमानो नोऽस्माकमीशत कश्चिदघशंसोऽस्माकमीशिता भवतु । दयानन्दस्तु - हे सवितः " त्वमदब्धेभिः शिवेभिः पायुभिरद्य नो गयं परिपाहि, हिरण्यजिह्वः सन् नव्यसे सुविताय नो रक्ष, यतोऽघशंसो नो माविरीशत ' इति, तदपि यत्किञ्चित्, राजप्रजाव्यवहारस्य लोकसिद्धत्वात् । सवितृपदस्य कतिचिद्वस्तुत्पादकत्वे राजन्यप्रवृत्तेः, जनानां गृहधनापत्यादिरक्षणं राज्ञां स्वाभाविकं कृत्यमिति तदर्थमज्ञातज्ञापकस्य वेदस्य न प्रवृत्तिः ॥ ६ ९ ॥ प्र वो॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तः वह॑ वायो नि॒युतो॑ या॒ह्यच्छ॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥ ७० ॥
--मन्त्रार्थ - - हे पत्नी और यजमान! तुम दोनों के प्रकृष्टवीर निर्मल ऋत्विजों के द्वारा अभिषुत निग्राभ्य नामक जल और सोम एकरस कर दिये गये हैं । हे वायुदेव, आप अपने नियुत नामक अश्वों के साथ देवयजन स्थान में आवें, सोम के सन्मुख उपस्थित हो तृप्ति के लिये अभिषुत सोम का पान करें ॥ ७० ॥
वशिष्ठदृष्टा त्रिष्टुप् वायुदेवत्या । पञ्चदश ऋचः द्वे प्रतीकोक्ते । एवं सप्तदशकः पुरोरुचां समूहः । हे पत्नीयजमानौ जायापती । वां युवयोः स्वभूताः सोमाः, दद्रिरे विदीर्णावर्णीभूताः, ' दृ विदारणे ' कर्मकर्तरि लिट् । कीदृशाः सोमाः? प्रवीरया ' सुपां सुलुक् ' ( पा ० सू ० ७ ११३ ९ ) इति जसोर्याजादेश:, प्रकृष्टा वीरा ज्ञानवन्त ऋत्विजो येषां ते शुचयः शुद्धाः, अध्वर्युभिरध्वरनेतृभिर्ऋत्विग्विशेषैर्वा सुतासोऽभिषवधर्मेणा-भिषुता ग्रावभिद्रवीभावमापादिताः, ' अभिषुण्वन्ति चत्वारः पर्युपवेशनसामर्थ्यात् ' ( का ० श्र ० ९ १५३१ ) इति कात्यायनवचनादध्वर्युभिरिति बहुवचनम् । मधुमन्तौ मधु निग्राभ्यारूपमुदकमस्ति येषां ते तद्वन्तः । एवमर्धर्चेन पत्नीयजमानौ संबोध्याथेदानीं वायुमाह - वाति सर्वत्र गच्छतीति वायुः, तत्संबोधने हे वायो! नियुतो नियुन्नामकानश्वान् त्वं वह अस्मद्देवयजनप्रदेशं प्रापय, अच्छ याहि सोमाभिमुखं सोमं प्राप्तुं वा याहि, अच्छाभेरर्थे आप्तुमिति वा, यात्वा च मदाय तृप्तये मदनाय वा सुतस्याभिषुतस्यान्धसः सोमस्य स्वमंशं पिब । अध्यात्मपक्षे – सार्वात्म्यभावेन पत्नीयजमानी वायुश्च परमात्मरूपा एव । तानेव सम्बोध्य पूर्ववदेव व्याख्येयम् ।
पृष्ठ 460
पाठ पढ़ें पाठ छिपाएँ
म ० ७०-७२ ] वेदार्थ पारिजातभाष्यसहिता ७७ दयानन्दस्तु - ' हे राजप्रजाजनौ ये वां मधुमन्तः सुतासः शुचयो जना अध्वर्युभिर्वीरया सेनया शत्रून् प्रदद्रिरे, तैः सह हे वायो, त्वं नियुतो वह अच्छ याहि मदाय सुतस्यान्धसो रसं पिब ' इति, तदपि न, सम्बोधनस्य निर्मूलत्वात्, वायुपदेन राजग्रहणे हेत्वभावात् नियुतो वायोरश्वा इति प्रसिद्धार्थत्यागे नितरां मिश्रितामिश्रित गुणग्रहणस्याप्रयुक्तत्वात् ॥ ७० ॥
गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णी हिर॒ण्ययो ॥ ७१ ॥
मन्त्रार्थ- हे गोमाताओं अथवा वृष्टिधाराओं! ये महान् द्यावापृथिवी नामक युगल देवता सब कुछ जानते हैं, तदनुरूप ही यज्ञ- फल को देते हैं । इन दोनों को सुवर्णमय कर्णाभूषण प्रदान कर चत्वालरूप कूप के प्रति आप सब गमन करें ॥ ७१ ॥
गाव उपावतावतमिति मन्त्रः ( ३३।१ ९ ) इत्यत्र ब्याख्यातः ॥ ७१ ॥
काव्ययोरा॒जने॑षु॒ क्रत्वा॒ दक्ष॑स्य दुरो॒णे । रि॒शाद॑सा स॒धस्थ॒ आ ॥ ७२ ॥
मन्त्रार्थ - हे शत्रुपक्ष के विनाशक मित्रावरुण देवताओं! उत्साही यजमान के यजनीय देवताओं और यजन में सहायक मनुष्यों को एक साथ सोमपान कराने के लिये कवियों के हितकारी आप दोनों देवयजन भूमियों में यज्ञकर्म की समृद्धि के लिये यहाँ आवें ॥ ७२ ॥
दक्षदृष्टा गायत्री मैत्रावरुणी । रिशादसा रिशन्ति हिंसन्ति ते रिशा हिंसकास्तानासमन्ताद्दस्यतो नाशयतस्तौ रिशादसौ, द्विवचनम्, मित्रावरुणविषयं पदम्, हे रिशादसौ शत्रुपक्षक्षपयितारौ मित्रावरुणौ यजमानस्य सधस्थे देवमनुष्याणां सहसोमपानस्थाने युवाम् आ आगच्छतम् । कीदृशस्य यजमानस्य? काव्ययोः कवीनां क्रान्तदर्शनां कर्मोपासनसमुच्चयानुष्ठायिनां हितयोर्युवयोः, आजानेषु आसमन्ताज्जन्मसु सोमपानार्थमाविर्भूतभूमिषु देवयजनादिषु दुरोणे यज्ञगृहे च, क्रत्वा यज्ञकर्मणा दक्षस्य उत्साहवतो यज्ञं समर्धयत । दक्षस्येति विशेषणबलेन यजमानस्येति विशेष्यपदमध्याहर्तव्यम् । आ इत्युपसर्गेण गच्छतमिति क्रियापदाध्याहारोऽपि । संक्षेपेण काव्ययोः कवीनां हितयोर्युवयोराजानेषु आजन्मभूमिषु उत्पत्तिस्थानेषु क्रत्वा कर्मणाऽग्निष्टोमादिकया क्रियया दक्षस्योत्साहवतो यजमानस्य दुरोणे यज्ञगृहे हे रिशादसा रेशितव्यस्य हिंसनीयस्योपक्षयितारौ मित्रावरुणौ सहस्थे सहस्थाने आगच्छतम् । अध्यात्मपक्षे - हे रिशादसौ हिंसकासुरराक्षसादिक्षपयितारौ श्रीरामलक्ष्मणौ! काव्ययोः कवीनां तत्त्वदर्शिनां हितयोर्युवयोराजानेषूत्पत्तिस्थानेषु क्रत्वा अग्निष्टोमादिरूपाराधन कर्मणा दक्षस्योत्साहवतो भक्तस्य दुरोणे यज्ञगृहे सधस्थे सहस्थाने आ आगच्छतम् । ---दयानन्दस्तु - ' हे मनुष्याः, यावध्यापकोपदेशको राजप्रजाजनान् प्राज्ञान् बलयुक्तानरोगान् परस्पर-प्रीतिमनोधर्मात्मना संपश्येताम्, तौ पितृवत् सत्कर्तव्यौ ' इति, तन्न, मूलास्पर्शित्वात् । यच्च ' हे रिशादसौ काव्ययो-राजानेषु क्रत्वा दक्षस्य सधस्थे दुरोणे युवामागच्छतम् ' इति, तदपि न, अध्यापकोपदेशकातिरिक्तानामपि रिशा-दशत्वोपपत्तेः ॥ ७२ ॥