वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 461–470

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 461–470

पृष्ठ 461

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 461 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

७८ शुक्लयजुर्वेदसंहिता [ अ ० ३३

व्यववर्य आ ग॑त॒ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञ सम॑ञ्जाथे ॥

तं प्र॒त्नथा॒ऽयं वे॒नः ॥ ७३ ॥

मन्त्रार्थ - हे दिव्य अश्विनीकुमारों! आप लोग सूर्य के समान कान्तिमान् रथ से हमारे यहाँ आइये । पुरोडाश, दधि आदि से यज्ञ को सींच कर बहुत हवि वाला बनाइये । इस मन्त्र में ' तं प्रत्नथा ' ( ७/१२ ) और ' अयं वेन: ' ( ७।१६ ) इन दो मन्त्रों के प्रतीक भी इसी प्रसंग के दिये गये हैं ॥ ७३ ॥

' दैव्यावध्वर्यू ' इति व्याख्याता ( ३३ | ३३ ) । ' तं प्रत्नथा ' ( ७ | १२ ), ' अयं वेनः ' ( ७ | १६ ) इति द्वे प्रतीकोक्ते ॥ ७३ ॥

तिरश्वीनो विततो रश्मिरैषामधः स्विदासी २॥दपरि स्विदासी२॥त् ।

रे॒ति॒धा आ॑सन् महि॒मान॑ आ॒सन्त्स्व॒धा अ॒वस्ता॒ात् प्रय॑तिः प॒रस्ता॑त् ॥ ७४ ॥

मन्त्रार्थ --- सूर्यदेव की व्यष्टि और समष्टि रश्मियाँ तिरछी होकर द्युलोक से नीचे फैल रही हैं । स्वर्ग में विद्यमान सूर्य की ये दोनों प्रकार की किरणें वर्षा के लिये जल को धारण करती हैं । इसीलिये इनकी महिमा गाई जाती है । अन्न के निष्पादक ये सूर्यदेव जब भूमि के सन्मुख आते हैं, तब प्रयत्न से ऊर्ध्वमुख होती हुई इसकी किरणें दर्शन मात्र से देवताओं को अत्यन्त तृप्त करती हैं ॥ ७४ ॥

प्रजापतिदृष्टा त्रिष्टुप्, भाववृत्तदेवत्या, भावेषु पदार्थेषु वृत्तः स्थितो भाववृत्तः परमात्मा, सोऽस्यास्त्रिष्टुभो देवता, आग्रयणग्रहग्रहणे विनियोगः क्रमपाठाल्लभ्यते । तस्मादादावधियज्ञं व्याख्यायते - ' आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति ताः पवित्रे यजमानस्ततो ग्रहग्रहणमाध्रुवादिति ' ( का ० श्र ० ९।५।१६-१७ ) इति कात्यायने-नोक्तम् । अध्वर्युरुत्तरस्य हविर्धानस्य नीडे एकमम्भ्रणं स्थापयति, स आधवनीय उच्यते । तस्यै प्रउगे द्वितीय-मन्त्रणं स्थापयति, स पूतभृत्पदवाच्यः, बृहन्मुखा मार्तिकघटा अम्भ्रणपदवाच्याः शकटे उपवेशनस्थानं नीडपद -, बहिर्भाग प्रउगपदवाच्यः, अनवच्छिन्नसाग्रप्रादेशमात्रमन्त्रे संस्कारयुक्तं समपरिणाहं वाच्यम् प्रोक्षणाद्यर्थं दर्भद्वयं पवित्रम् । तद्रीत्या एषां पूयमानसोमानां रश्मिः, यमनाद् ऋजीषादिकल्क नियामको दशा-पवित्रलक्षणस्तिरश्चीनस्तिर्यग्विततो विस्तारित उद्गातृभिः, तस्मिन् दशापवित्रे सोमः प्रक्षिप्तः सन् दशापवित्रा -दधच आसीत्, स्विच्छन्दौ चकारार्थी उपरिस्विदासीदितीकारः प्लुतः । किञ्च तत्रैके पदार्थ ग्रहचमसाधवनीय-द्रोणकलशाद रेतोधा रेतो जगदुत्पत्तिबीजभूतं सोमं दधति धारयन्तीति रेतोधाः सोमाधारभूता आसन्, ' यज्ञाद्वै प्रजा प्रजायन्ते ' इति श्रुतेर्जगद्वीजत्वं यज्ञस्य । तत्र च सोमस्यैव प्राधान्येन जगद्वीजत्वम् । तथान्ये पदार्थाः सोमरसरूपास्तत्राधेयाः सन्तो महिमानो महान्त उत्कृष्टा आसन् । आधाराधेयभावेन सर्वोऽयं यज्ञात्मैव स्थितः, ' ब्रह्मार्पणं ब्रह्महविः ' ( भ ० गी ० ४।२४ ) इति गीतोक्तेः । किञ्च, स्वधाऽन्नं तद्रूपः, अवस्ताद् अवरो होमात् प्राग् नीच आसीत्, प्रयतिः प्रयतते यः स प्रयतिः प्रयत्नवान् होमानन्तरं लब्धफलकः सन् परस्तात् पर उत्कृष्ट आसीदिति महीधराचार्यः । ' एषां सोमानामन्तरा दशापवित्रलक्षणाद् रश्मिस्तिरश्चीनो विततः प्रसारितः, उद्गातृभिस्तस्मिन् दशापवित्रे सोमः प्रक्षिप्तो दशापवित्रादधः स्विद् अधश्च आसीत् उपरि च आसीत् । आसीदित्युभयत्र विचारे प्लुतिः । किञ्च, रेतोधा रेतः सोमः स हि जगदुत्पत्तिबीजम् तस्य धारयितार आसन्, ग्रहचमसाधवनीयद्रोण-कलशादयो महिमानश्च आसन्, सोमैकादशाः सोमस्य महिमानः । स्वधाऽन्नम् अवस्तात् शुक्रो द्रोणकलश इत्येतदुक्तं भवति । प्रयतिः प्रयतनं परस्तादुपरिष्टाद् आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति ताः पवित्रे यजमानोऽवनयतीत्येतदुक्तं भवति ' इत्युव्वाचार्याः ।

पृष्ठ 462

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 462 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मे ० ७४–७५ ] वेदार्थ पारिजात भाष्यसहिता ७ ९ अथाधिदैवतम् - एषां प्रसिद्धानां सूर्यरश्मीनां मध्ये एक सुषुम्णाख्यो रश्मिस्तिरचीनो विततो विस्तृतः सन् किं द्युलोकादधः स्विद् आसीत्, उतोपरिस्विदासीत् । स्विदिति वितर्के, ' विचार्यमाणानाम् ' ( पा ० सू ० । ८२२ ९ ७ ) इति प्लुतः । किश्च स रश्मी रेतोधा रेतसो विश्वबीजस्योदकस्य धारयिता, व्यत्ययेनैकवचनम् ' सूर्यस्य ह वा एको रश्मिवृष्टिवनिर्नाम येनेमाः सर्वाः प्रजा बिर्भात ' इति । अन्ये रश्मयो महिमानो माहात्म्याधायका आसन्, विश्वप्रकाशकत्वेन । किञ्च, स्वधान्ननिष्पादकः प्रयतिः प्रयत्नात् स ऊर्ध्वमुखः सन् परस्तात् पर उत्कृष्टो दर्शनमात्रेण देवानां तृप्तिदः । यथोक्तं छान्दोग्ये - ' असौ वा आदित्यो देवमधु ' इत्युपक्रम्य ' न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ' ( छा ० ५।१।६ ) इति । अध्यात्मपक्षे- नासदासीदिति सप्तर्चेऽध्यात्मप्रतिपादके सूक्ते ( ऋ ० १० । १२ ९ ) बह्वृच इमामृचं पठन्ति । तत्र नासदासीदिति निरस्तसमस्तप्रपञ्चां प्रलयावस्थामनुद्य विश्वबीजमविद्योक्ता, कामस्तदग्रे समवर्ततेति पादेन च काम उक्तः, मनसो रेतः प्रथमं यदासीदिति पादेन पुण्यापुण्यात्मकं कर्मोक्तम् । एवमविद्याकामकर्माणि सृष्टि- कार्य-हेतु न्युक्त्वा तेषां स्वकार्यजनने शैघ्यमाह - तिरश्चीन इति । एषामविद्याकामकर्मणां रश्मिरिव रश्मिः वर्गो वियदादिर्विततो विस्तृतः सन् तिरश्चीनस्तिर्यगवस्थितो मध्ये स्थितः, अधश्चासीदुपरि चासीत्, सूर्यरश्मि-वद्युगपत् सर्वं व्याप्येत्यर्थः । तदेव विभजते - रेतोधा इति । सृष्टे कार्यवर्गे केचन रेतोधा रेतसो बीजभूतस्य कर्मणो विधातारः कर्तारो भोक्तारश्च जीवा आसन्, अन्ये महिमानो महान्तो विपुला वियदादयो भोग्या आसन्, महिमान इति स्वार्थे इमनिच् । एवं मायया परमेश्वरः सर्वं जगत्सृष्ट्वा स्वयं चानुप्रविश्य भोक्तृभोग्यरूपेण विभागं कृतवानित्यर्थः । तयोर्भोक्तृभोग्ययोर्मध्ये स्वधाऽन्नं भोग्य प्रपञ्चोऽवस्तादवरो निकृष्ट आसीत् प्रयतिः प्रयतिता भोक्ता परस्तात् पर उत्कृष्टो भोक्तृप्रपञ्चाधीनं भोग्यप्रपञ्चं कृतवानित्यर्थः, ' विभाषा परावराभ्याम् ' ( पा ० सू ० ५।३।२ ९ ) इति प्रथमार्थेऽस्तातिप्रत्ययः, ' अस्ताति च ' ( पा ० सू ० ५।३।४० ) इत्यवरशब्दस्य वादेशः, ' एतद्वा इदं सर्वमन्नं चैवान्नादश्र्च ' इति श्रुतेरिति महीधराचार्याः । एषां प्रकृतिपुरुषपरमेश्वराणां रश्मिरिव तिरचीनो विततः सूर्य आकाशो वा । स अधः स्विदासीद् उपरिश्वासीत् । तत्र रेतोधाः कर्मरूपस्य बीजस्य धातारः कर्तार आसन् । महिमानो महान्तो विराड्ढरण्यगर्भेश्वराव आसन् । स्वधा अन्नरूपो भोक्तृभोग्यादिप्रपञ्चः, अवस्ताद् , अविद्या-अवरोऽस्ति, प्रयतिर्जीवकर्मानुसारं प्रतिसगं सृष्टये प्रयतमानः परमेश्वरः परस्तात् पर उत्कृष्टः कामकर्मानभिभूतत्वात् । दयानन्दस्तु – ' हे मनुष्याः, एषां तिरचीनो विततो रश्मिरधः स्विदासीदुपरिस्विदासीद् अवस्तात् परस्ताच्च प्रयतिरस्ति, तद्विज्ञानेन रेतोधा आसन् महिमानः स्वधा सन्तो भवन्त उपकारकाद्यासन् ' इति, तदपि यत्किञ्चित् प्रयत्नस्य चेतनधर्मत्वेनाचेतनेषु रश्मिषु तदयोगात्, तद्विज्ञानेनेति व्याख्यानस्य मन्त्रबाह्यत्वात् । रश्मिशब्दस्य किरणोऽर्थश्चेदेकत्वानुपपत्तिः, नह्येकस्यैव विरुद्धदिग्गमनमुपपन्नम् दीप्त्यर्थताऽपि चिन्त्या, निर्मूलत्वात् ॥ ७४ ॥

आ रोद॑सी अपृ॒ण॒दा स्व॑म॒हज्जातं यदे॑नम॒पसो॒ अर्धारयन् ।

सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्य॒ न वाज॑सातये चनहितः ॥ ७५ ॥

मन्त्रार्थ - जब क्रियाशील ऋत्विजों ने इस प्रादुर्भूत अग्नि को धारण किया, तब उस अग्नि से द्यावापृथिवी और गगनमण्डल को सब ओर से भर दिया । वह सर्वज्ञ और हमारा हितकारी अग्निदेव यज्ञ के लिये प्राप्त किया जाता है, जैसे कि सूर्य अन्न - लाभ के लिये ॥ ७५ ॥

पृष्ठ 463

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 463 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८० शुक्लयजुर्वेदसंहिता [ अ ० ३३ परमात्मानं वैश्वानररूपेण भोक्तारं स्तौति । वैश्वानरदेवत्या विश्वामित्रदृष्टा जगती । यद् जातमरणिमन्थनेनोत्पन्नमात्रमेनं वैश्वानरमग्निम्, अपसो अपस्विनः, आपः कर्माण्यग्निहोत्रादीनि, अप्समवेतत्वात् यदा, ताभिस्ताः सन्ति येषु तेऽपस्विनः कर्मवन्तो यजमाना लक्ष्यन्ते । ते च अधारयन् अग्निहोत्रादिकर्मसु स्थापितवन्तः, कर्मणामग्निसाध्यत्वात्, तदा स वैश्वानरो रोदसी द्यावाभूमी आ सर्वतः, अपृणत् पूरयति स्म, स्थावरादिष्वपि तदुपलब्धेः । न केवलं रोदसी पूरितवान् किन्तु महत् प्रभूतं स्वर् अन्तरिक्षं चापृणत् सूर्य्यरूपेण पूरितवान्, त्रैलोक्यं च जाठराग्निरूपेण पूरितवान् । गार्हपत्यादीनां च लोकत्वमुक्तं श्रुत्या- ' अयं वै लोको गार्हपत्यो द्यौराह-वनीयः ' इति । तदेवात्र विव्रियते - सोऽग्निरध्वराय यागाय परिणीयते सर्वतोऽतिप्रणीताग्नीध्रीयादिधिष्ण्यादिषु प्रकर्षेण प्राप्यते । नयने दृष्टान्त उच्यते - अत्यो न । उपमार्थीयो नकारः । यथाऽश्वो वाजसातये अन्नलाभाय सर्वतो नीयते तद्वत् । यथा अश्ववान् राजा तत्र तत्र भोगजातं लभते तद्वद् विप्रोऽग्नि सेवमानो ब्रह्मलोकान्तान् भोगान् लभते । कीदृशोऽग्निः? कविः क्रान्तदर्शनः सर्वज्ञः, चनोहितः चनसेऽन्नाय भोग्याय हितः सर्वभोगसंपादकः, ' चन इत्यन्ननाम ' ( निरु ० ६ । १६ ) इति यास्कोक्तेः । यद्वा स वैश्वानरो रोदसी आ अपृणद् आ स्वर् आदित्यं महद् महान्तमपृणत् पूरयति । कदा अपूगत्? यद् यदा जातं जातमात्रमेनं वैश्वानरमपसोऽपस्विनः, अधारयन् कर्मणि स्थापितवन्तः । सोऽध्वराय स एवाग्निर्यज्ञाय परिणीयते आहवनीयादिरूपेण । स च कविः क्रान्तदर्शनः सर्वज्ञः, न भूताग्निमात्रः । कथमिव सोऽध्वराय नीयते? तत्राह - अत्यो न अश्व इव वाजसातये अन्नसंभजनाय चनोहितश्चनसि अन्ने स्थापितः । अश्वो हि घृतादिभिरभिघारितेनान्नेन पोष्यते, तथैवाग्निरपि घृतादिभिः पूज्यते पोष्यते चेति तेनोपमीयते । अध्यात्मपक्षे — वैश्वानरः परमेश्वरः, आसमन्ताद् रोदसी द्यावापृथिव्यौ स्वीयेन ज्ञानमयेन महसाऽऽग्नेयेन च अपृणत् पूरितवान् महत् स्वरन्तरिक्षं महान्तमादित्यं वा अपृणत् । कदाऽपृणत्? यद् यदा जातबुद्धौ मायायां च चिद्रूपेण जीवेश्वरादिरूपेणाविर्भूतमरणीभ्यां चोत्पन्नमेनमपसः स्वधर्मनिष्ठाकर्मणि, अधारयन् प्रतिष्ठापितवन्तः । सः कविः क्रान्तदर्शनः सर्वज्ञः, अध्वराय यज्ञाय हविरग्न्यध्वर्थ्यादिरूपेण परिणीयते, ' ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ' ( ४।२४ ) इति गीतोक्तेः । कथमिव परिणीयते? अत्यो न अश्व इव । यथाऽश्वो वाजसातये अन्नसं-विभागाय चनोहितः, चनसेऽन्नाय हितोऽश्ववान् राजा नीयते, तथाग्निरपि विविधफलप्राप्तये तत्र तत्र यज्ञेषु नीयते । दयानन्दस्तु – ' हे मनुष्याः, यद् यो विद्युद्रूपोऽनी रोदसी महज्जातं स्वश्चापृणत्, एनमपसोऽधारयन्, यं च कविरध्वराय वाजसातये चात्यो न विद्वद्भिः परिणीयते, स चनोहितोऽस्तीति यूयं विजानीत ' इति, तदपि न, सम्बोधनस्य निर्मूलत्वात्, विद्युद्रूपस्याग्नेश्च प्रकृतिभूतस्याग्नेरेव व्यापकत्वप्रसिद्धेः । वस्तुतस्तु ब्रह्मरूपेण देवता-रूपेणाग्नेरेव वर्णने वेदस्य तात्पर्यम् ॥ ७५ ॥

उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना वि॒दा गिरा । आ॒ङ्गष॑रा॒विवा॑सतः ॥ ७६ ॥

मन्त्रार्थ -- अत्यन्त पापनाशक और सबको प्रसन्नता से भर देने वाले जो इन्द्र और अग्नि देवता हैं, वे मन्त्रों के घोष और वेदवचन से ब्रह्माग्नि का सेवन करते हैं ॥ ७६ ॥

इन्द्राग्निदेवत्या गायत्री, वसिष्ठस्यार्षम् । या यो इन्द्राग्नी आङ्गुषैर् आघोषैश्चिद् लौकिकवा क्स्तोमैरपि स्तुती आ आगच्छतः, ' आगुषः स्तोम आघोषः ' ( निरु ० ५। ११ ) इति यास्कोक्तेः । तौ उक्थेभिर् उक्थैः, गिरा स्तोत्रात्मकया स्तुत्या आ विवासत आविवस्येते याज्ञिकैः परिचायेंते, व्यत्ययेन कर्तरि लट् । ' विवासतिः परिचर्यायाम् ' ( निरु ० १११२३ ) । कीदृशौ तौ? वृत्रहन्तमा वृत्राणामावरकाणां पाप्मनां हन्तृतमो, ' नाद्धस्य ' ( पा ० सू ० ८ | २ | १७ ) इति नुम् । मन्दाना मन्दानौ मोदमानौ स्वभावतः, विभक्तेर्डादिशः सर्वत्र । यद्वा – यौ

पृष्ठ 464

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 464 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७६-७८ ] वेदार्थ पारिजातभाष्यसहिता ८१ उक्थेभिर् उक्थैः स्तुतौ सन्तौ वृत्रहन्तमा अतिशयेन वृत्रस्य पापस्य हन्तारौ स्तो भवतः, या चिद् यौ च गिरा वाचा लौकिक्यां स्तुतो आमन्दाना मोदमानौ स्तः, यो च आङ्गुषैः स्तोमः स्तुती, आविवसतः स्तोतॄन् परिचरतः, ' तं सा परिचरेद्देवी पति प्रियमिवाङ्गना ' ( रहस्यत्रये ) इतिवद् भक्तपारवश्येन, तौ उक्थैगिरा आङ्गुषैश्च सर्वकामाप्त्यर्थं स्तुमः । अध्यात्मपक्षे -- यौ इन्द्राग्नी श्रीरामलक्ष्मणौ । अन्यत् पूर्ववदेव । दयानन्दस्तु — ' या मन्दाना वृत्रहन्तमा सभासेनाध्यक्षो चिदिव गिरा आङ गुषैरुक्थेभिश्व शिल्पविज्ञान-माविवासतस्तावध्यापकोपदेशको मनुष्यैरासेवनीयौ ' इति, तदपि यत्किञ्चित् इन्द्राग्निपदयोर्देवताविशेषे

रूढत्वादध्यापकोपदेशकयोर्ग्रहणे मानाभावात् । अन्यत्तु महीधराद्यनुकरणमेव ॥ ७६ ॥

उप॑ नः सू॒नवो॒ गिरः॑ श॒ण्वन्त्व॒मृत॑स्य॒ ये । सुम॒डका भ॑वन्तु नः ॥ ७७ ॥

मन्त्रार्थ - प्रजापति के पुत्र विश्वेदेव देवता हम यजमानों की वाणी को सुनें, वे हमारे लिये सुखकारी हों ॥ ७७ ॥

सुहोत्रदृष्ट्रा वैश्वदेवी गायत्री । नोऽस्माकं गिरो वाच उपशृण्वन्तु समीपमागत्यावधारयन्तु श्रुत्वा च नोऽस्माकं सुमृडीकाः सुखकरा भवन्तु, शोभनं मृडीकं सुखं येषां ते सुमृडीकाः । के शृण्वन्तु? ये अमृतस्य अमरणधर्मकस्य प्रजापतेः सूनवः पुत्रा विश्वेदेवाः, ते उपशृण्वन्तु । अध्यात्मपक्षे - ये अमृतस्य मरणादिरहितस्य परमात्मनः सूनवः पुत्राः, ते विश्वे सर्वे देवा दीव्यमाना देवाः, देवं भजन्तो देवभावमुपगताः, नो गिरः स्तुतिरूपा उपशृण्वन्तु श्रुत्वा च सुमृडीका भवन्तु सुखयितारो भवन्तु । दयानन्दस्तु – ' ये नः सूनवोऽमृतस्य गिर उपशृण्वन्तु, ते नः सुमृडीका भवन्तु ' इति, तदपि न, वेदे व्यष्ट्यर्थापेक्षया समष्ट्यर्थस्यैव प्राधान्यात् । किञ्च विश्वे देवा देवता अस्य मन्त्रस्येति तस्मादमृतस्य परमात्मनः सूनवो विश्वे देवा ये ते नोऽस्माकं सुमृडीका गिरः शृण्वन्त्वित्यर्थ इति त्वया विश्वे देवा देवतेत्यङ्गीक्रियते ॥ ७७ ॥

ब्रह्मणि मे म॒तय॒ शधु॑ सु॒तास॒ः शुष्म॑ इया॑त॒ प्रभृ॑तो म॒ अद्रिः ।

आ शा॑सत॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वह॒त॒स्ता नो॒ अच्छे ॥ ७८ ॥

मन्त्रार्थ --- मेरे मन्त्र - वाक्यरूप स्तुति वचन, बुद्धि की वृत्तियाँ और ऋत्विकगण परमानन्द के उत्पादक हैं । मेरे द्वारा धारण किया हुआ बलरूप वज्र लक्ष्य को अवश्य ही प्राप्त करता है । मेरे द्वारा गाये गये उक्थ आदि स्तोत्र प्रार्थना में प्रयुक्त हैं । वे स्तोत्र और शस्त्र मुझे चाहते हैं । हमारे ये अश्व यज्ञ के अभिमुख आते हुए हमें प्राप्त होते हैं ॥ ७८ ॥

तिस्रस्त्रिष्टुभः द्वे इन्द्रमरुत्संवादे इन्द्रमरुद्देवत्ये, आद्ये अगस्त्यदृष्टे । इन्द्रो मरुतः सहचरानाह - हे मरुतः, ब्रह्माणि मन्त्रवाक्यात्मकानि स्तुतिवचांसि सोमाज्यादीनि हवींषि वा मे मम स्वभूतानि । विधिवाक्येऽ-ग्न्यादिदेवतान्तरसम्बन्धेन प्रतीयमानान्यपि सर्वदेवताप्राणात्मनो ममेन्द्रस्यैव तान्यपि । मतयो मननयुक्ताः स्तुतयोऽपि शं मम सुखोत्पादिकाः, अतो यज्ञे गन्तव्यमिति भावः । किञ्च मे मया प्रभृतः प्रकर्षेण धृतोऽद्रिर्वज्रः, इयर्ति गच्छत्येव लक्ष्यं प्रति न प्रतिहन्यते न मोघो भवति । कीदृशोऽद्रिः? शुष्मः शोषयति शत्रुप्राणान् ११

पृष्ठ 465

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 465 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८२ शुक्लयजुर्वेदसंहिता [ अ ० ३३ शत्रूनेव वा यः, अतो यज्ञे गमने असुराद्युपद्रवाशङ्कापि नास्ति? न केवलं हविरादीनां मदीयत्वेनैव गन्तव्यम्, अपि त्वाशासते प्रार्थयन्ते यजमाना यानि उक्था उक्थानि ता तानि स्तोत्रशस्त्राणि मां प्रतिहर्यन्ति कामयन्ते । ' हर्यतिः प्रेप्साकर्मा ' ( निरु ० ७ १८ ) इति यास्कः । किञ्च, नोऽस्माकं इमा इमौ हरी अश्वो अच्छ यज्ञाभिमुखं वहतो मां प्रापयतः, अत एवास्माभिर्यज्ञं प्रति गन्तव्यमेवेति भावः । यद्वा ब्रह्माणि मन्त्रवाक्यात्मकानि स्तुतिवचांसि मतयो मननयुक्ताः स्तुतयः सुता अभिषुताः सोमाः + प्रभृतः प्रहृतः, अद्रिः सोमाभिषवग्रावा शुष्मः सुखरूपः । एतत्सर्वं मम शं सुखमियति अर्पयति उद्गमयति, णिजन्तर्भावः । अन्यत् पूर्ववत् । ' अविसिविसि-शुषिभ्यः कित् ' ( उ ० १।१४२ ) इति मन्प्रत्यये शुष्म इति । अत्ति भक्षयति शत्रूनित्यद्रिः, ' अदिशदिभूशुभिभ्यः क्रिन् ' ( उ ० ३ । १६६ ) इति क्रिनुप्रत्यय आद्युदात्तः । यद्वा ब्रह्माणि स्तुतिरूपाणि वैदिकवाक्यानि मन्त्रसंस्कृतानि हवींषि वा मे मम मतयः सानुग्रहा मतीः, इयति उद्गमयति, सुतासोऽभिषुताः सोमा मम शं सुखमुद्गमयन्ति, लोपश्छान्दसः, ' हृग्रहोर्भश्छन्दसि ' ( पा ० सू ० ३।१८४, वा ० ) इति हस्य भकारः । प्रहृतश्च सोमाभिषवनिमित्तं मे मम अद्रिग्रीवा शुष्मो बलमिति अर्पयति, विभक्तिव्यत्ययः । यत्र च यजमाना आशासते मदागमनमिच्छन्ति, यत्र च उक्थानि प्रतिहर्यन्ति इमानि शृणोत्विति कामयन्ते, इमा इमौ हरी अश्वौ ता तानि स्थानानि अच्छ आभिमुख्येन नोऽस्मान् वहतः प्रापयतः । अध्यात्मपक्षे - इन्द्रस्य रामस्य मरुद्भिर्हनुमदादिभिः संवादः । ब्रह्माणि वैदिकलौकिकस्तुतिवचांसि मे मतयो मतीः सानुग्रहा बुद्धी:, इर्यात उद्गमयन्ति वचनव्यत्ययः । सुतासः सोमाः सोमादयो भोग्या मदर्थमुप-कल्पिताः शं सुखं समर्पयन्ति । अद्रिः सोमाभिषवनिमित्तं सोमाभिषवग्रावा शुष्मः शुष्मं बलमर्पयति, यत्र च भक्ता आशासते मदीयमागमनमिच्छन्ति यत्र चोक्था उक्थानि स्तोत्रशस्त्राणि प्रतिहर्यन्ति, इमानि शृणोत्विन्द्र इति कामयन्ते, इमौ हरी अङ्गदहनुमन्ती, ता तानि स्थानानि अच्छ आभिमुख्येनास्मान् वहतः, तत्रैव गन्तव्यं मयेति । दयानन्दस्तु - ' सुतासो मतयो मे यानि ब्रह्माणि प्रतिहर्यन्ति, इमोक्थाऽऽशासते शुष्मः प्रभृतोऽद्विर्मे यतः शमियत वा, तानि नोऽस्मभ्यं हर्यच्छ वहतः ' इति, तदपि यत्किञ्चित्, हरीत्यस्याध्यापकाध्येताराविति विवरणस्य निर्मूलत्वात् । सुतासो विद्यासुशिक्षाभ्यां निष्पन्ना इत्यपि निर्मूलम् उक्था प्रशंसनीयानीत्यपि बालभाषितम्, उक्थस्तोत्रापरिज्ञानमूलकत्वात् । वस्तुतस्तु पूर्वोक्तव्याख्यानानुसारेण सुतासोऽभिषुतास इत्यादय एवार्थाः ॥ ७८ ॥

अन॑त्त॒मा ते॑ मघव॒न्महि॒र्नु न त्वावँ २॥ अस्ति दे॒वता॒वदा॑नः ।

न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒ह प्रवृद्ध ॥ ७ ९ ॥

मन्त्रार्थ - हे धनवान् इन्द्र! आपसे बढकर श्रेष्ठ कोई भी नहीं है, इस बात को हम सदा याद रखते हैं । निश्चित ही आपके समान विद्वान् दूसरा कोई देवता नहीं है । हे पुराणपुरुष! जिन कर्मों को आप करते हैं, उनको पूर्व काल में और वर्तमान काल में देव -मनुष्यों में से किसी ने भी नहीं किया और न आगे कोई करेगा ॥ ७ ९ ॥ एवमिन्द्रेणोक्ता मरुतः प्रत्याहु: - हे मघवन् धनवन् इन्द्र, आ इति स्मरणे, स्मृतवन्तो वयं ते तव अनुत्तं न केनापि नृत्तं नाशितम्, माहाभाग्यमिति शेषः, ' नुद प्रेरणे ' इत्यस्य धातोर्निष्ठायां ' नसत्तनिषत्ता ' ( पा ० सू ० ८।२।६१ ) इत्यादिना अनुत्तमिति निपातः । नु निश्चयेन, नकिर्न कोऽपि त्वन्महाभाग्यनाशक इति शेषः । न केवलं तवैश्वर्यमात्रं कश्चिन्न हन्ति, किन्तु ते सर्वज्ञत्वमपि न कश्चिद् हन्ति । त्वावान् त्वत्सदृशः, वतुरत्र

पृष्ठ 466

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 466 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७ ९ -८० ] वेदार्थ पारिजातभाष्यसहिता ८३ सादृश्ये, विदानो विद्वान् सर्वज्ञः, देवता देवो नास्ति । ' देवता ' इत्यत्र स्वार्थे तप्रत्ययः, विदान इति विदे: शानन् नित्वादाद्युदात्तः । किञ्च, हे प्रवृद्ध प्रकर्षेण पुराणपुरुष, यानि कर्माणि वृत्रवधादीनि त्वं कृणुहि करोषि, ' व्यत्ययेन लोट् ', तानि कर्माणि जायमानो वर्तमानो जातो भूतपूर्वश्च देवमनुष्येषु कश्चिन्न नशते न व्याप्नोति, न करोति, नशतिर्व्याप्तिकर्मा । न करिष्या न च करिष्यति, उत्पत्स्यमान इति शेषः, तिलोपो दीर्घश्च छान्दसः । कालत्रयेऽपि त्वत्सदृशः कश्चिन्नास्ति, तस्मात्त्वमेव यज्ञेश इत्यर्थः । अध्यात्मपक्षे- हनुमदादयो वदन्ति - हे मघवन् ऐश्वर्यवन् परमेश्वर! आ स्मृतवन्तो वयमनुत्त-मप्रच्युतस्वभावं ते तव महाभाग्यम्, आ आस्ते वा, नकिर्नु न वा कश्चित् प्रच्यावको महाभाग्यस्य, नित्यत्वात् । किञ्च न त्वावान् त्वत्सदृशः अस्ति देवता देवः विदानो विद्वान्, सर्वज्ञ इत्यर्थः । किञ्च न जायमानो वर्तमानस्तानि कर्माणि नशते व्याप्नोति न च जातः करिण्याः करिष्यति । तानि कर्माणि जगत्सृष्ट्यादीनि रावणवधादीनि च तानि यानि यानि त्वं कृणुहि करोषि, लकारव्यत्ययः । दयानन्दस्तु – ' हे वृद्ध मघवन्नीश्वर, यस्य तेऽनुत्तं स्वरूपमस्ति, न कोऽपि त्वावान् देवता विदानो न्वस्ति, भवान् न जायमानोऽस्ति न वा जातोऽस्ति । यानि करिप्या कृणुहि च तानि कश्चिन्न किरानशते, स त्वं सर्वोपास्योऽसि ' इति, तदपि यत्किञ्चित् जातत्व जायमानत्वनिषेधस्य जीवसाधारण्येन परमेश्वरस्तुतिप्रसङ्गे तदवचनीयत्वात् त्वदीयकर्मादीनि ज्ञातुं समर्थो न कश्चिज्जातो न वा जायमानोऽस्तीत्येव श्लिष्यते ॥ ७ ९ ॥

तददा॑स॒ भुव॑नेषु ज्येष्ठं यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनु॑णः ।

स॒द्यो ज॑ज्ञानो नि रि॑णाति॒ शत्रूननु यं विश्वे॒ मद॒न्त्यूर्माः ॥ ८० ॥

मन्त्रार्थ – भुवनों में वही ब्रह्म श्रेष्ठ था, जिससे तपोधन उत्कृष्ट इन्द्र प्रकट हुआ, जो प्रकट होने के साथ ही शीघ्र यजमान के शत्रुओं को नष्ट करता है और जिसको सब देवता तृप्त करते हैं ॥ ८० ॥

बृहद्दिव माहेन्द्री त्रिष्टुप् । भुवनेषु भूतजातेषु तदित् तदेव ज्येष्ठं श्रेष्ठमास बभूव, न सर्वोत्कृष्टं ब्रह्मैवासीत्, प्राशस्त्याभिप्रायेण, ' छन्दस्युभयथा ' ( पा ० सू ० ३ | ४ | ११७ ) इति लिटः सार्वधातुकत्वादस्तेर्भूभावः, यतो ज्येष्ठाद् उग्र उदग्रबलः, इन्द्रो जज्ञे जातः । कीदृशः इन्द्रः? त्वेषनृम्णः, त्वेषः कान्तिर्नृम्णं धनं यस्य स तेजोधनः कार्यमहत्त्वदर्शनेन कारणमहत्त्वसिद्धेः । किञ्च य इन्द्रो जज्ञानो जायमान एव सद्यस्तत्क्षणं शत्रून् निरिणाति नितरां हन्ति, ' री वधे ' क्रयादिः, प्वादित्वाद् ह्रस्वः । किञ्च, विश्वे सर्वे देवा यमिन्द्रमनुमदन्ति अनुतृप्यन्ति, ' अनुर्लक्षणे ' ( पा ० सू ० ११४ | ८४ ) इति द्वितीया, ' यद्वृतान्नित्यम् ' ( पा ० सू ० ८ | १ | ६६ ) इति मदन्तीत्यत्र निघाताभावः । कीदृशा विश्वे? ऊमाः, अवन्ति रक्षन्तीत्यूमाः, अवतेर्मन्प्रत्ययः, ' छ्वोः सूड् ’ ( पा ० सू ० ६ | ४ | १ ९ ) इत्यूठ् । अध्यात्मपक्षे - भगवतः श्रीरामचन्द्रस्य कृष्णस्य वा माहात्म्यं वर्णयन् तस्य महत्त्वेन तत्पितुरपि माहात्म्यमाह तदित् तदेव भुवनेषु भूतजातेषु ज्येष्ठम्, यतो ज्येष्ठाद् उग्र उत्कृष्ट इन्द्रो रामः कृष्णो वा जज्ञे । कीदृश इन्द्रः? त्वेषनृम्णः, तेजोधनः, कार्यमाहात्म्येन कारणमाहात्म्य प्रसिद्धेः । य इन्द्रो जज्ञानो जायमानः सद्यः शीघ्रमेव शत्रून् मारीचसुबाहुपूतनातृणावर्तादीन् निरिणाति निहन्ति, विश्वे देवा यमिन्द्रमनुमदन्ति अतृप्यन्ति । कीदृशा विश्वा:? ऊमा रक्षकाः प्रजापतयो देवगणाश्च भगवत्तृप्तिमन्वेव तृप्यन्ति । दयानन्दस्तु - ' हे मनुष्या, यत उग्रस्त्वेषनृम्णो यज्ञे यो जज्ञानः शत्रून् सद्यो निरिणाति, विश्वा ऊमा यमनुमदन्ति तदिदेव ब्रह्म भुवनेषु ज्येष्ठमासेति विजानीत ' इति, तदपि न तादृशस्य पुरुषस्यानिरूपणात्, तदसिद्ध्या तत्कारणासिद्धेश्व ॥ ८० ॥

पृष्ठ 467

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 467 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८४ शुक्लयजुर्वेदसंहिता इ॒मा उ॑ त्वा पुरूषसो॒ गिरो॑ वर्धन्तु या मम॑ । II पा॒व॒कव॑र्णाः शुच॑यो विप॒श्चितोऽभि स्तोमैरनूषत ॥ ८१ ॥

[ अ ० ३३ मन्त्रार्थ - हे महाधनवान् आदित्यदेव! जो मेरे शस्त्ररूप वचन हैं, वे आपकी स्तुति करें । आपके वर्चस्व को बढ़ावें, अग्नितुल्य तेजस्वी ब्रह्मवर्चस्वी शुद्ध विद्वानों ने स्तोत्रों के द्वारा आपका ही गुणगान किया है ॥ ८१ ॥

मेधातिथिदृष्टे आदित्यदेवत्ये हे बृहत्या । हे पुरूवसो पुरु बहु वसु धनं यस्य तत्सम्बुद्धौ हे पुरूवसो बहुधादित्य! संहितायां छान्दसो दीर्घः, या मम गिरः स्तोत्रशस्त्ररूपा वाच इमाः, त्वा त्वां वर्धन्तु वर्धयन्तु । किच, विपश्चितस्त्वत्स्वरूपाभिज्ञा उद्गातारश्व स्तोमैः स्तोत्रैः, बहिष्पवमानादिभिस्त्वाऽभ्यनूषत अस्तुवत, ' नु स्तुतौ ' लुङ्, कुटादित्वाद् गुणाभावः । कीदृशा विपश्चितः? पावकवर्णाः, अग्नितुल्यतेजसो ब्रह्मवर्चस्विनः, अत एव शुचयः शुद्धागमाः । अध्यात्मपक्षे - हे पुरूवसो अनन्तैश्वर्य भगवन्नादित्य परमेश्वर! यं त्वां पावकवर्णा अग्निवर्णा ऋषयः शुचयो यमनियमादिपरा विपश्चितस्त्रिकालदर्शिनः स्तोमैः स्तोत्रैरभ्यनुषत अभिष्टुवन्तः तं त्वामिमाया मम गिरः स्तोत्रशस्त्रलक्षणा वाचः, ता वर्धन्तु वर्धयन्तु । दयानन्दस्तु – ' हे पुरूवसो परमात्मन, या इमा मम गिरस्त्वा उ वर्धन्तु ताः प्राप्य पावकवर्णाः शुचयो विपश्चितः स्तोमैरभ्यनुषत ' इति, तदपि न, पुरुवसुत्वोक्त्या क्वचित्तदभावसिद्धयापत्तेः । न च निरतिशयं ब्रह्म स्तुतिभिर्वर्धनार्हम्, न च पदार्थविद्याप्रशंसनैः परमेश्वरप्रशंसनं सम्भवति, तथा सति विषयादिप्रशंसकानामपि परमात्मोपासकत्वापत्तेः ॥ ८१ ॥

यस्यायं विश्व आर्यो दार्स: शेवधिपा अरिः ।

ति॒रवे॑द॒ये॑ रु॒शमे॒ पवी॑रवि तुभ्येत् सो अ॑ज्यते रयिः ॥ ८२ ॥

मन्त्रार्थ -- यह सब वर्णाश्रमविहित कर्मों के अनुष्ठाताओं का समूह जिस परमात्मा का सेवक है, निधियों का रक्षक कृपण पुरुष उनका शत्रु है । आयुधधारी घन के निमित्त दूसरों की हिंसा करने वाले घनस्वामी या वैश्य आदि के पास भूमि खोद कर छिपाया गया जो धन है, वह धनसमूह भी आपकी ही कृपा से प्रकट होता है, अर्थात् दूसरा पुरुष उस धन को लेकर अच्छे कार्यों में लगा देता है ॥ ८२ ॥

हे आदित्य, यस्य तवायं विश्वः सर्वः, आर्यो वर्णाश्रमविहितकर्मानुष्ठायी दासो दासवत् सर्वदा रक्षणीयः, शेवधिपा निधिरक्षकः कृपणो यस्य तवारिः शत्रुः, ' निधिः शेवधि: ' ( निरु ० २1४ ) इति यास्क: । किन एवंविधे कृपणेऽर्ये धनस्वामिनि वैश्ये वा तिरश्चित्, तिरोऽन्तधौं, चिदप्यर्थे, अन्तर्निहितोऽपि तिरश्चित् भूमिगर्तादौ निक्षिप्तोऽपि तस्य रयिर्धननिचयस्तुभ्येत् तुभ्यमेव त्वदर्थमेवाज्यते व्यक्तो भवति ' तुभ्यम् इत् ' इति स्थितौ मकारलोपेन छान्दसेन तुभ्येदिति रूपम्, कर्मकर्तरि यक्, कृपणस्य धनं त्वदर्थमेव पक्षहरणादिना न कृपणभोगाय भवति । कीदृशेऽर्ये? रुशमे, हिंसाकर्मणो रुशतेरौणादिके भप्रत्यये रूपम् । रुशति हिनस्तीति रुशमः, तस्मिन् धनापहतॄणां हिंसके, आतिथ्यादितिरस्कारेणात्मनोऽपि हन्तरि । पवीरवि पविः शल्यमस्यास्तीति पवीरमायुधम्, रो मत्वर्थीयः, पवीरं वाति गच्छतीति पवीरवास्तस्मिन् पवीरवि धनरक्षार्थमायुधधारके, ' पविः शल्यो भवति, यद्विपुनाति कायम्, तद्वत् पवीरमायुधम्, तद्वान् पवीरवान् ' ( निरु ० १२।३० ) इति यास्कोक्तेः । धनिनातियत्नेन गुप्तमपि धनं तत आच्छिद्य धर्मिष्ठाय ददातीति भाव इति महीधराचार्याः ।

पृष्ठ 468

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 468 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ८२-८४ ] वेदार्थ पारिजातभाष्यसहिता ८५ अध्यात्मपक्षे - हे आदित्य परमेश्वर! यस्य तव सर्व आर्योऽभिगन्तव्यः इव पोष्यः, यस्य च तव शेवधिपाः कृपणोऽरिः शत्रुवद्धन्तव्यः, शेवधि श्रेष्ठो वेदप्रमाणकधर्मनिष्ठ दास यः पाति स निधिपाः कृपणः, स आदित्यः परमेश्वरो यज्ञादिना निधि प्राणपणेन यज्ञदानभोगादिबाधेनापि तिरोभूतेऽपि, नानाविधैरुपायैः सुगुप्तेऽपि अर्ये धनस्वामिनि रुशमे समर्हणीयः हिंस्रे । अन्यत् पूर्ववत् । यद्वा तिरश्चित् य आदित्यः, अरिः घातकः, हे यजमान तुभ्यमेव स रयिः रयिम्, विभक्तिव्यत्ययः पवीरवि आयुधवति युद्धादिकर्मसंलग्ने धातूनामनेकार्थत्वादञ्जिर्दानार्थः, विकरणव्यत्ययश्च ।, अज्यते अनक्ति ददाति, दयानन्दस्तु - ' हे राजन्, यस्य तवायं विश्व आर्यो दासः शेवधिपा अरिः पवीरवि स त्वं रयिरज्यते ' इति, तदपि यत्किञ्चित्, राजन्निति सम्बोधनस्य रुशमेऽर्ये तिरश्चित्तुभ्येत्, राजराजे राज्ञामेव दासत्वोपपत्तेः । किञ्च, राजपक्षे परमेश्वरपराणां निर्मूलत्वात् नहि राज्ञो विश्वो दासः सम्भवति, कथञ्चित् परमेश्वरपदस्यापि क्षुद्रराजादिमनुष्यपरत्वयोजनं वैदिकमर्यादातिक्रमणमेव देवपराणां

॥ मनुष्यपरत्वानुपपत्तेः ।

८२ ॥

अ॒यः॑ स॒हस्रमृषि॑भिः॒ सह॑स्कृतः समुद्र इव पप्रथे ।

स॒त्यः सो अ॑स्य महिमा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विर॒राज्ये ॥ ८३ ॥

मन्त्रार्थ -- वेद के मन्त्रों से बलयुक्त किया गया सत्यधर्मा सूर्यदेव समुद्र के समान और ज्योति दाता महानारायण स्वरूप की यज्ञों में और समाधि में मैं वेदवाणी द्वारा स्तुति व्यापक है । इसके बल, महिमा करता हूँ ॥ ८३ ॥

मेधातिथिष्टाऽऽदित्यदेवत्या सतोबृहती । अयमादित्यः सूर्यः समुद्र इव अर्णव arrests भूत् । कीदृशोऽयम्? सहस्रम् ऋषिभिर्मन्त्रादि सूक्ष्मवस्तुद्वष्टभिः इव पप्रथे प्रथितो विस्तीर्णो युक्तः कृतः, मन्त्रद्रष्टृणां मन्त्रबलेन देवताबलं वर्धते । अस्यादित्यस्य महिमा सहस्रकृत्वः, सहस्कृतः सहसा बलेन शवो बलं चास्य सत्यम् । यज्ञेषु विप्रराज्ये विप्राणां राज्ये स्तोत्रशस्त्रसन्दोहैः, सत्यः गृणे, तं महत्त्वं महिमानं माहात्म्यमवितथमेव, ब्राह्मणाः स्वतन्त्रा राजान इव, राज्ञामपि तदानीं तद्वशवर्तित्वात् । उव्वटाचार्येणात्रादित्य एवेन्द्रत्वेन स्तौमि व्याख्यायते । यज्ञे हि अध्यात्मपक्षे आदित्योऽत्रान्तर्यामी परमेश्वरः, ' अन्तस्तद्धर्मोपदेशात् । व्याख्यानं पूर्ववदेव । ' ( ब्र ० सू ० १११।२० ) इति न्यायात् । दयानन्दस्तु - ' हे मनुष्याः, यद्ययं सभेशो राजा राजर्षिभिः सह सत्योऽस्त्यस्य महिमा समुद्र इव पप्रथे, तर्हि स प्रजाजनोऽहमस्य यज्ञेषु सहस्रमसंख्यं ज्ञानं प्राप्तः सहस्कृतः यत्किचित् सम्बोधनस्य निर्मूलत्वात् अयमिति पदेन सभेशस्य विप्रराज्ये च शवो गृणे ' इति, तदपि ऋषिभिर्मन्त्रदृग्भिर्मन्त्रैर्वा सहस्कृतो भवति, न च तस्य महिमा समुद्रवदन्तरिक्षवद्वा राज्ञो ग्रहणे मानाभावात् । न च प्राकृतो न वा यज्ञेषु तस्य संस्तवः संभवति, न च यज्ञपदस्य संभाव्यमर्थमपहाय संगतेऽर्थे भवति प्रयोगः, प्रसिद्ध्यति परिच्छिन्नत्वात् । , अक्रमे मानाभावात् ॥ ८३ ॥

अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्व शिवेभि॑िर॒द्य परि पाहि नो॒ गय॑म् ।

हिरण्यजिह्नः सुवि॒ताय॒ नव्य॑से॒ रक्षा माहि॑नो॑ अ॒घश॑स ईशत ॥ ८४ ॥

मन्त्रार्थं --हे सबके प्रेरक ज्योतीरूप जिह्वा वाले सवितादेव! आप अपने अनुपर्हिसित आनन्दस्वरूप हमारी अनन्य भक्ति से प्रेरित होकर हमारे देहरूप गृह की रक्षा करें, नवीन नवीन सुख के लिये हमारा पालन रक्षा करें, कर्म कोई से पापो पुरुष हमारे ऐश्वर्य को न छीन सके ॥ ८८ ॥

पृष्ठ 469

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 469 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

८६ शुक्ल यजुर्वेदसंहिता [ अ ० ३३

अयं मन्त्रः ( ३३।६ ९ ) इत्यत्र व्याख्यातः । षष्ठः पुरोरुग्गणः सम्पूर्णः ॥ ८४ ॥

आ नो॑ य॒ज्ञं दिवि॒स्पृश॒ वायो॑ या॒ह सु॒मन्मभिः ।

अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नोऽयं शुक्रो अयामि ते ॥ ८५ ॥

मन्त्रार्थ - हे वायुदेव! हमारे स्वर्गलोकव्यापी यज्ञ को आप प्राप्त करें, पात्र के मध्य में स्थापित दशापवित्र के ऊपर सींचा हुआ यह सोम स्तोत्रों के साथ आपको समर्पित है ॥ ८५ ॥

इतोऽध्यायसमत्यन्तं त्रयोदश ऋचः, प्रतीकोक्ताश्चतस्त्रश्चेति ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां ग्रहण-मन्त्राः शोभनसङ्कल्पाः पूर्ववत् । जमदग्निदृष्टा वायुदेवत्या बृहत्य आद्या नव द्वादशी च । दशम्येकादशीत्रयो-दश्यः सतोबृहत्य: । हे वायो, नोऽस्माकं यज्ञं सुमन्मभिरायाहि आगच्छ । कीदृशं यज्ञम्? दिविस्पृशं द्युलोकयायिनम्, ऋत्विग्यजमानैर्विद्वद्भिरारब्धो दक्षिणादिभिः सम्पन्नो यज्ञो दिवं स्पृशत्येव, तादृशस्य यज्ञस्य स्वर्गप्रापकत्वश्रवणात्, स्वर्गेऽपि श्रूयमाणत्वाद्वा । नन्वागमनेन किं फलमित्याह - अन्तः पात्रमध्यस्थः पवित्रे दशापवित्रे, उपरि तस्योपरि श्रीणानः श्रयमाणः । होतृचमसेन निषिच्यमानोऽयं शुक्रः शुद्ध ऋजीषकल्कादिरहितः सोमो रसात्मा ते तुभ्यं त्वदर्थमयामि नियतस्त्वदीयभागत्वेन मया संस्कृत इति तदर्थंमागन्तव्यमित्यर्थः । ' यमु उपरमे ' कर्मणि चिण् । अध्यात्मपक्षे - हे वायो दिविस्पृशं द्युलोकगामिनम्, आयाहि सुमन्मभिः शोभनैः सङ्कल्पैः । शेषं पूर्ववत् । दयानन्दस्तु -- ' हे वायो राजन् यथाहमन्तः पवित्र उपरि श्रीणानोऽयं शुक्रः सन् सुमन्मभिस्ते दिविस्पृशं यज्ञमयामि तथा त्वं नो दिविस्पृशं यज्ञमायाहि ' इति, तदपि न, वायुपदस्य भौतिकः पृथग् वस्त्वात्मा मातरिश्वा तदभिमानिदेवो वा मुख्योऽर्थः परमात्मा वा । तानपहाय गौण्या वृत्त्या राजग्रहणस्य निर्मूलत्वात् । दिविस्पृग् यज्ञोऽपि यज्ञ एव । न च विद्याप्रकाशयुक्तो व्यवहारः, तस्य निर्मूलत्वात्, शिष्टैस्तादृशेऽर्थे तादृशशब्दस्य प्रयोगादर्शनात् ॥ ८५ ॥

इ॒न्द्रवायू सन्दृश स॒हवे॒ह इ॑वामहे ।

यथा॑ नः॒ सर्व॒ इज्जनो॑ऽनमो॒वः स॒ङ्गमे॑ सु॒मना॒ अस॑त् ॥ ८६ ॥

मन्त्रार्थ - इस यज्ञ में सम्यक् द्रष्टा शोभन आह्वान वाले इन्द्र और वायु देवताओं का हम आह्वान करते हैं । उनकी कृपा से हमारे यजमान के सभी पुत्र - पौत्र आदि व्याधिरहित हों और धन प्राप्ति में उदार हों ॥ ८६ ॥

तापसदृष्टैन्द्रवायवी । सुसंदृशा सुतरां सम्यग्दर्शनीयौ, सुतरां सम्यक् पश्यतस्तो, सुहवा सुहवौ शोभना-art इन्द्रवायू इह यज्ञे वयं हवामहे आह्वयामः । तथा चाह्वयामो यथा येन प्रकारेण नोऽस्माकं सर्व इत् सर्व एव जनः, अनमीवः, अमीवा व्याधिस्तद्रहितः सङ्गमे धनप्राप्तौ बहूनां सङ्गमे वा, सुमनाः शोभनचित्तः, उदारो वक्ता चेत्यर्थः, पुत्रपौत्रादिरीदृशः, असद् भवेत् । अध्यात्मपक्षे -- इन्द्रवायू श्रीराम हनुमन्तो हवामहे । शेषं पूर्ववत् । दयानन्दस्तु ' वयं यौ सुसन्दृशौ सुहवा इन्द्रवायू इह हवामहे । यथा सङ्गमे नोऽनमीवः सुमना सर्वो जनोऽसद् भवेत्, तथा तौ कुर्याताम् ' इति, तदपि यत्किञ्चित् इन्द्रवायुपदाभ्यां राजप्रजाजनग्रहणस्य निर्मूलत्वात्, सुसन्दृशौ सुहवाविति विशेषणयोः स्वारस्यानिरूपणात् ॥ ८६ ॥

पृष्ठ 470

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 470 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ८७-८८ ] वेदार्थपारिजातभाष्यसहिता

ऋषंगत्या स मत्यैः शश॒मे दे॒वता॑तये ।

यो ननं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥ ८७ ॥

८७ मन्त्रार्थ - जो मनुष्य अभिमत लाभ के निमित्त मित्रावरुण देवताओं को हवि प्रदान कर उनकी सेवा करता है, वह निश्चय ही यज्ञ के लिये समृद्धमान होकर इस सेवा के प्रसाद से शान्तिलाभ करता है ॥ ८७ ॥

जमदग्निदृष्टा मैत्रावरुणी । यो मर्त्यः, नूनं निश्चयेन मित्रावरुणौ अभिष्टये स्वाभीष्टप्राप्तये, हव्यदातये हविषो दानाय च देवतातये देवानां कर्म देवतातिस्तस्मै यज्ञाय, आचक्रे आकुरुते सेवते, सनर ऋधक् समृद्धियुक्तः, ऋध्नोतीति ऋधक्, इत्था अनेन हेतुना सेवनरूपेण शशमे शाम्यति यमनियमशमदमादियुक्तो भवतीत्यर्थः । ' गन्धनावक्षेपणसेवन ' ( पा ० सू ० १।३।३२ ) इत्यादिना करोतेः सेवनार्थे आत्मनेपदम् । वट् श्रत् सत्रा अद्धा इत्थेति निपाताः सत्यवचनाः । इत्था शशमे सत्यं शाम्यतीत्यर्थः । अध्यात्मपक्षे यो मर्त्यः, मित्रावरुणौ मित्रः परमेश्वरः कृष्णः सर्वमित्रत्वात्, ' सयुजा सखाया ' इति मन्त्रावर्तनात्, वरुणो वृणोति भगवन्तमसावर्जुनः, नरनारायणौ बलकृष्णौ रामलक्ष्मणौ दा नूनं निश्चयेन आचक्रे सेवते, स मर्त्यं इत्था सत्यं देवतातये यज्ञाय, अभिष्टये स्वाभीष्टसिद्धये, हव्यदातये हविर्दानाय ऋधक् समृद्धिमान् भवति । अन्ते शशमे शान्तो दान्तो मुमुक्षुर्भूत्वा मुच्यत इति शेषः । दयानन्दस्तु - ' यो देवतातये ऋग् मर्त्योऽभिष्टये हव्यदातये च मित्रावरुणौ नूनमाचक्रे सेवते स नर इत्था शश ' इति, तदपि न, राजाप्रजाजनव्यतिरिक्तस्य वक्तुरसिद्धेः । न च राजप्रजाजनाभ्यामभीष्टसिद्धि-भवति । हविरर्थे प्रसिद्धस्य हव्यशब्दस्याप्यादातव्यमात्रार्थत्वं निर्मूलमेव ॥ ८७ ॥

आ या॑त॒मुप॑ भूषतं॒ मध्वः पिबतमश्विना ।

दुग्धं पर्यो वृषणा जेन्यावसू॒ मा नो॑ मधष्ट॒मा ग॑तम् ॥ ८८ ॥

मन्त्रार्थ — हे अश्विनीकुमारों, आप लोग हमारे इस यज्ञ में आवें, यज्ञ को अलंकृत करें, सोम का पान करें । हे यज्ञफल के दाता अश्विनीकुमारों! आप लोग गगनमण्डल से जल की वर्षा करावें, आपकी शरण में आये हुए हमारी

रक्षा करें ॥। ८८ ॥

वसिष्ठ दृष्टाऽश्विदेवत्या । हे अश्विना अश्विनौ युवामायातं यज्ञं प्रत्यागच्छतम् आगत्य च उपभूषतम् अलङ्कुरुतं यज्ञम् । मध्वो मधुरं सोमं पिबतम्, मध्व इत्यत्र कर्मणि षष्ठी, नुमभावश्छान्दसः । किञ्च, हे वृषणा वृषणौ सेक्तारौ यज्ञफलवर्षको वा, हे जेन्यावसू जेन्यं जेतव्यं जितं वा स्वीकृतं वा वसु धनं याभ्यां तौ युवाम्, पयो वृष्टयुदकं दुग्धमन्तरिक्षात् प्रसारयतम्, दुहेर्लो मध्यमद्विवचने दुग्धमिति । मा नो मधिष्टं मा प्रहारं कुरुतम्, आगतम् अवश्यं च आगच्छतम् । अध्यात्मपक्षे - हे अश्विनाविव रामलक्ष्मणौ, युवामायातम् । अन्यत् पूर्ववत् । I दयानन्दस्तु हे वृषणौ जेन्यावसू अश्विना! युवां सुखमायातम्, प्रजा उपभूषतम्, मध्वः पिबतं पयो दुग्धम्, नोऽस्मान् मा मधिष्टं धर्मेण विजयमागतम् ' इति, तदपि न, असम्बद्धत्वात्, अश्विपदेन राजप्रजाजनग्रहणस्य निर्मूलत्वात्, कर्मकर्तृविरोधाच्च । राजप्रजाजनौ प्रजा उपभूषतमिति कर्मकर्तृविरोध एव । राजप्रजाजनो उपभूतमिति किन्न स्यात् । किञ्च, कोऽयं प्रार्थयिता, य आत्महननाभावं प्रार्थयते? यौ प्रजा उपभूषयतं ताभ्यां हननसंभावनानुपपत्तेः ॥ ८८ ॥