वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 471–480
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 471–480
पृष्ठ 471
पाठ पढ़ें पाठ छिपाएँ
८८ शुक्लयजुर्वेदसंहिता प्रेत॒ ब्रह्म॑ण॒स्पति॒ प्र दे॒व्येतु सू॒नृता॑ । [ अं ० ३३ अच्छा वीरं न प॒क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥ ८ ९ ॥ मन्त्रार्थ — वेद के रक्षक हिरण्यगर्भ हमारे इस यज्ञ में आवें, सत्यस्वरूप परा शक्ति हमारी ज्ञानदृष्टि को तीव्र करे, देवता हमारे शत्रुओं का उन्मूलन करें और परमेश्वर के निमित्त दी गई हवियों से समृद्ध द्रव्ययज्ञ को परमेश्वर तक
पहुचावें ॥। ८ ९ ॥
कण्वदृष्टा वैश्वदेवी । ब्रह्मणस्पतिर्बृहस्पतिः, ब्रह्मणो वेदस्य पतिर्हिरण्यगर्भः, नोऽस्मान् । यज्ञम् तथा अच्छ देवी यज्ञाभिमुखं प्रैतु प्रकर्षेणागच्छतु, ' ब्रह्मणः पाता पालयिता वा ' ( निरु ० १०।१२ ) इति यास्कोक्तेः देवतात्मा सूनृता प्रियसत्यस्वरूपा तस्यैव वाक् त्रयीरूपा च यज्ञं प्रैतु शोभना सत्यवती । किञ्च यस्तं देवा यष्टव्या शत्रूणां नोऽस्मान् यज्ञं नयन्तु प्रापयन्तु यज्ञं कारयन्त्वित्यर्थः । कीदृशं यज्ञम्? वीरं विशेषेणेरयति विशेषेणोन्मूलयितारम्, ' वीरो वीरयत्यमित्रान् ' ( निरु ० १।७ ) इति यास्कवचनात् । पुनः कीदृशं यज्ञम्? नयं नृभ्यो हिततमम्, ‘ उगवादिभ्यो यत् ' ( पा ० सू ० ५।१।२ ) इति यत् । पक्तिराधसम् इन्द्रस्य पुरोडाश:, द्विनाराशंसं ह्यर्धानाः, पूष्णः करम्भः, सरस्वत्यै दधि, मित्रावरुणयोः पयस्या - एषा हविष्पङ्क्तिः । द्विनाराशंसं प्रातः सवनम् माध्यन्दिनं सवनम्, सकृन्नाराशंसं तृतीयं सवनम् एषा नाराशंसपङ्क्तिः । त्रीणि सवनानि, साध्यन्ते पशुरुपवसथ्यः यत्रेति, पशुरनुबन्ध्यः – एषा सवनपङ्क्तिः । एताभिः पङ्क्तिभिः, राधः समृद्धिर्यस्य, पङ्क्तयो राध्यन्ते पुत्रं महावीरं वा पङ्क्तिराधास्तम् । ब्रह्मणस्पत्यादय ईदृशं यज्ञं कारयन्त्वित्यर्थः । उव्वटाचार्यस्तु - वीरं वा अच्छाभिमुख्येन तु पङ्क्तिराधसं ब्रह्मपङ्क्तिसाधकम् पङ्क्तिपावनमित्यर्थः तादृशं यज्ञं देवा देवान् नयन्त्विति सम्बन्धः । अध्यात्मपक्षे – ब्रह्मणस्पतिः परमेश्वरः, तस्यैव वेदमहातात्पर्यविषयत्वेन ब्रह्मणस्पतित्वात् त्रयी-लक्षणः, दीव्यमाना देवी च तस्यैव वाक् । तत्सम्बन्धी यज्ञ एव विविधाभिः पङ्क्तिभिः साध्यते पङ्क्तिपावनश्च, देवानामनुग्रहेणैव च तादृशा यज्ञाः संपद्यते । व्याख्यानं पूर्ववदेव । दयानन्दस्तु - ' हे मनुष्याः, यूयं यथा नोऽस्मान् ब्रह्मणस्पतिः प्रेतु, सूनृता देवी प्रैतु, नयं मन्त्रेऽभावात् पङ्क्ति राधसं, यज्ञं वीरं देवा अच्छ नयन्तु तथाऽस्मान् प्राप्नुत ' इति, तदपि यत्किञ्चित्, यथातथादिपदानां प्रत्यक्षं यज्ञं कर्मोत्सृज्य कर्मान्तरकल्पनस्य निर्मूलत्वात् ॥ ८ ९ ॥ च॒न्द्रमा॑ अ॒प्स्वन्तरा स॑प॒र्णो धावते दिवि । WW र॒यिं पि॒शङ्खं बहुलं पु॑रु॒स्पृहुएं हरिरेति॒ कनिक्रदत् ॥ ९ ० ॥ मन्त्रार्थ - देवताओं के आह्लादक सोमरस को अभिषुत कर अग्नि में दी हुई उसकी आहुति गरुड के समान तीव्र गति से द्युलोक में दौड़ती है । हे हरितवर्ण सोम! यज्ञ करने वाला यजमान हरितवर्ण मोम की जब आहुति देता है, तब वह पर्जन्य रूप से ध्वनि करता हुआ पके हुए यव आदि धान्य के रूप में अन्न और धन की इच्छा रखने वाले यजमान को पर्याप्त रूप से प्राप्त होता है ॥ ९ ० ॥ त्रितदृष्टाऽऽहुतिपरिणामवादिन्यैन्द्री । बृहदारण्यक छान्दोग्योपनिषदाद्युक्तपञ्चाग्निविद्यानुसारेण पर्जन्य-पृथिवीपुरुषयोषात्मकपञ्चाग्निक्रमेण होमद्रव्यस्य परिपाकरूपाहुतिपरिणाममेषा ऋग् वदति । ' पञ्चम्यामाहुतावापः
पृष्ठ 472
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ० - ९ १ ] वेदार्थ पारिजातभाष्यसहिता ८ ९ पुरुषवचसो भवन्ति ' ( छा ० उ ० ५।९ ।१ ) इति श्रुतेः । अधियज्ञं व्याख्यानम् । योऽसौ चन्द्रमा चन्द्रं देवानामाह्लादं मिमीते यः सः तथा सोमलतारूपापन्नो वसतीवरीनिग्राभ्या दिजलेष्वन्तरभिषुतो मध्ये रस-रूपेण स्थितोऽग्नौ हुतः, स च सुपर्णः सुपतनः सन् दिवि धावति, ' तृतीयस्यामितो दिवि सोम आसीत् ' इति श्रुतेः । तस्मात् पर्जन्यरूपमास्थाय उदकदानरूपेण, ' हरिः सोमो हरितवर्ण इति ' ( निरु ० ४। १ ९ ) इति यास्कोक्तेः । रयिं धनं पिशङ्गं पीतवर्णं व्रीहियवादिकं पीतवर्णं भवति, बहुलमसंख्यातमेति व्रीहियवाद्यन्नरूपो भवति । कीदृशम्? पुरुस्पृहम्, बहवो यत्र स्पृहयन्ति तानेति । कीदृशो हरिः? कनिक्रदत् पर्जन्यरूपेणात्यर्थ-स्तनितं कुर्वन् । अध्यात्मपक्षे - अग्नीषोमात्मकं जगदिति रीत्या यथा शीतोष्णतन्त्र्यो मिलित्वैव प्रकाशं शक्ति वोत्पादयतः, तथैव शिवशक्ती सर्वं प्रपञ्चमुत्पादयतः, सूर्यचन्द्ररूपेण सोमाग्निरूपेण च तयोरेवाविर्भावः । चन्द्रमा देवानामाह्लादको दर्शनेन सोमलतारूपेणापि देवानामाह्लादहेतुर्भवति । स एव सोमोऽग्नौ हुतश्चान्द्रदेहपर्जन्य-वृष्ट्यन्नशुक्र पुरुषरूपेण निष्पद्यते । व्याख्यानं पूर्ववदेव । दयानन्दस्तु - ' हे मनुष्याः, यूयं यथा सुपर्णश्चन्द्रमा कनिक्रदद्धरिरिव दिवि अप्सु अन्तरा धावते, पुरुस्पृहं बहुलं पिशङ्गं रयि चैति तथा पुरुषार्थिनः सन्तो वेगेन श्रियं प्राप्नुत ' इति, तदपि यत्किञ्चित्, हे मनुष्य इति सम्बोधनस्य निर्मूलत्वात् हरिपदमपि न सामान्याश्वपरम्, इन्द्राश्वेषु प्रसिद्धत्वात्, प्रकृते कनिक्रददित्यस्य स्वारस्यानिरूपणाच्च । नहि चन्द्रमसि शब्दो भवति, येन दृष्टान्तस्य सार्थक्यं स्यात् । तस्मात् सिद्धान्तव्याख्यानमेव युक्तम् ॥ ९ ० ॥
दे॒वं दे॑वं वोऽव॑से दे॒वं दे॑वम॒भिष्ट॑ये ।
दे॒वं दे॑व हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ॥ ९९ ॥
मन्त्रार्थ --- हे देवताओं, देवताओं के वास्तविक स्वरूप के अनुसन्धान में करते हुए हम ऋत्विकगण अपनी रक्षा के लिये नाना प्रकार के अवतारों को आह्वान करते हैं, अपने अभीष्ट फल को प्राप्त करने की इच्छा से उन देवताओं के की प्राप्ति के लिये हम उसका आह्वान करते हैं ॥ ९ १ ॥ तत्पर बुद्धि के द्वारा आप लोगों की स्तुति ग्रहण कर क्रीड़ा करने वाले भगवान् का भी देवता का आह्वान करते हैं, धन - धान्य मनोरार्षी वैश्वदेवी । देवं देवमिति वीप्सार्थोऽभ्यासः । यावन्तो देवास्तान् वो युष्मानवसे रक्षणाय वयं हुवेम आह्वयामः । किमर्थम्? अभिष्टये, अभीष्टफलप्राप्तये । देवं देवं सर्वान् वाजसातये अन्नलाभाय देवानाह्वयामः, अभ्यास भूयस्त्वाय । कथं हुवेमेति चेत्, देव्या धिया गृणन्तो देवतायाथात्म्यचिन्तनपरया बुद्धया, स्वरादि-सौष्ठवेन दीप्यमानया धिया स्तुत्या गृणन्तः स्तुवन्तः । अध्यात्मपक्षे - सर्वेऽपि देवाः परमैश्वर्यवतः परमेश्वरस्यैवांशभूता इति तद्रूपेणैव तेषामाह्वानम् । परमेश्वर एव तेषां याथात्म्यम्, ‘ देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ' ( बृ ० उ ० २।४।६ ) इति श्रुतेः । व्याख्यानं पूर्ववदेव । दयानन्दस्तु – ' हे मनुष्याः, देव्या धिया गृणन्तो वयं यथा वोऽवसे देवं देवं हुवेम, वोऽभीष्टये देवं देवं हुवेम, वो वाजसातये च देवं देवं हुवेम, तथा यूयमप्यस्मभ्यं तथा कुरुत ' इति, तदपि न, मनुष्याणां विदुषामल्प-क्रियाज्ञानशक्तिमत्त्वेन तत्प्रार्थनयाऽभीष्टासिद्धेः । न वाह्वानेनोत्तमोत्तमाः पदार्थ आयान्ति, न वा केषाद्वेिग-सिद्धये विदुषामाह्वानस्योपयोगः । किञ्च योऽन्येषामभीष्टसिद्धये विदुषामाह्वानं करोति स स्वात्मसिद्धयेऽपि तथा कर्तुं शक्नोतीति कुतस्तदर्थं मनुष्यान् सम्बोधयतीति । तस्मादव्यापारेषु व्यापारयितमेवैतत् ॥ ९ १ ॥ १२
पृष्ठ 473
पाठ पढ़ें पाठ छिपाएँ
९ ० शुक्लयजुर्वेदसंहिता दि॒वि प॒ष्टो अ॑रोचता॒ऽग्निर्वैश्वान॒रो बृहन् । [ अ ० ३३ क्ष्या॑ वृधान ओज॑सा॒ चनो॑हितो ज्योति॑िषा बाधते॒ तम॑ः ॥ ९ २ ॥ प्रकाशित होता है । मन्त्रार्थ - सब मनुष्यों का हितकारी महान् अग्निदेव आदित्य रूप में स्थित होकर स्वर्ग में अग्नि अपने प्रकाश से अन्धकार को भूलोकवासी मनुष्यों की दी हुई हवि के द्वारा वर्धमान, तेजस्वी, हमारा हितकारी यह दूर करता है ॥ ९ २ ॥ मेधदृष्टा वैश्वानरी । योऽग्निर्वैश्वानरो दिवि पृष्टो द्युलोके स्थित आदित्यात्मना प्रकाशेन अरोचत तमः देदीप्यते शार्वरमन्धकारं , ' पृषु सेके ' निष्ठान्तः सेकः स्थितिरेव । कथम्भूतोऽग्निः? बृहन् महान् सोऽग्निः स्वीयेन, बाधते लोकानुग्रहाय निवर्तयति । कीदृश:? क्ष्मया पृथिव्या तत्स्थैर्मनुष्यैश्च च ओजसा वर्णाश्रमिभिर्नरैर्दतैर्हविभिर्वर्धमानः चनोहित ओषधिपाकक्षमेण मञ्चाः क्रोशन्तीतिवत् क्ष्मापदेन क्ष्मास्थाः पुरुषा उच्यन्ते । अत एव निरुक्तोक्तेः, अन्ननिष्पादकः । यद्वा क्ष्मया तेजसा चनसेऽन्नाय हितः, ' चन इत्यन्ननाम ' ( निरु ० ६ । १६ ) इति, चनसि अन्ने हविर्लक्षणे हितः कारणभूतया पृथिव्या अरोचत देदीप्यते, ओजसा बलेन वृधानो वर्धमानः स्थापित ज्योतिषा तमो बाधते । अध्यात्मपक्षे – योऽग्निः परमात्मा सर्वात्मत्वात् सूर्यरूपेण द्युलोके पृष्टः सिक्तः ओजसा सन् स्वीयेन स्थितो ब्राह्मण बृहन् महान् बलेन अरोचत देदीप्यते, सोऽय देवः क्ष्मया क्षमाया मायालक्षणाया अपि महान् ज्ञानेन अधिक तमोऽज्ञानान्धकारलक्षणं बाधते वृधानो वर्धमानः सर्वापेक्षयोत्कृष्टः, चनोहितः चनसेऽन्नाय हितो ज्योतिषा जगद्व्यवहाराय | बृहन् चनोहितोऽग्नि-दयानन्दस्तु - ' हे विद्वांसो मनुष्याः, यथा दिवि पृष्टो वैश्वानरो क्ष्मया प्रकाशित वृधान ओजसा कीर्तयो भवत ' इति, तदपि ज्योतिषा तमो बाधतेऽरोचत च, तथा श्रेष्ठगुणैरविद्यान्धकारं निवर्त्य यूयमपि मन्त्रबाह्यमेव । अन्यत्तु महीधराद्यनुकरणमेव ॥ ९ २ ॥
इन्द्रा॑ग्नी अ॒पावि॒यं पूर्वागा॑त् प॒द्वतो॑भ्यः ।
हित्व शिरो॑ जि॒ह्वया॒वाव॑द॒च्चर॑त् त्रिशत्प॒दा न्य॑क्रमीत् ॥ ९ ३ ॥
ही प्रति दिन मन्त्रार्थ - हे इन्द्र और अग्निदेव! यह उषा बिना पैरों की होते हुए भी पैरों वाली प्रजाओं से पहले हुई चारों तरफ फैल आ जाती है, उन प्रजाओं को निद्रा त्याग की प्रेरणा देती हुई यह उषा वाणी के द्वारा शब्द करती जाती है । यह एक ही दिन में तीस मुहूर्तों का अतिक्रमण करती है ॥ ९ ३ ॥ सुहोत्रदृष्टा इन्द्राग्निदेवत्या प्रवह्निकेयमृक् । प्रहेलिका यथाऽज्ञेया भवति, तथैवेयमपि मानुषी, अपात् वागनयो- पाद-च्यते । उक्तं च -- ‘ यन्मानुष्या वाचाह इतीदं कुरुतेतीदं कुरुतेति तदुह तया चीयते ' इति । हे इन्द्राग्नी पूर्वा आ अगाद् रहिता गद्यात्मिकेयं वाक् पद्वतीभ्यः पादवतीभ्यः पद्यरूपाभ्यः, विशिष्टसंस्कारानपेक्षणात्, सकाशात् कश्चित् पदनियमो ऽस्ति, आगता, शिरोहित्व हित्वा परित्यज्य प्रथमं पदमन्यत्करोति । नहि लौकिक्या वाचः - त्रिंशत्पदानि, त्रिंशत्-जिह्वया विदुषा वावदद् वदन्ती चरत् चरति कियन्ति पदानि चरतीत्यपेक्षायामाह । संख्याकानि पदानि, अक्रमीद् अतिक्रामति, नहि परतस्त्राणविषय इत्युव्वटाचार्यरीतिः
पृष्ठ 474
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ३ - ९ ४ ] वेदार्थ पारिजातभाष्यसहिता ९ १ तथैवाह महीधरोऽपि – इन्द्रः प्राणः, अग्निः पुरुषः, हे इन्द्राग्नी, युवयोरेवैतत्कर्म यद् अपात् पादरहिता गद्यात्मिका त्रयीलक्षणेयं वाक् पूर्वा प्रथमभाविनी सती पद्वतीभ्यः पादयुक्ताभ्यो रामायणमहाभारतादिश्लोका-त्मकवाल्मीकिव्यासादिवाणीभ्यः सकाशादगात् । वेदवाचः प्राथम्यं श्रुत्योक्तम् -- ततो ब्रह्मैव प्रथममसृज्यत ' इति । एवं प्रथमजाया वाचोऽविकृतत्वं निर्णीय मानुष्या वाचो विकृतत्वमाह - हितवी शिर इति । शिर आख्यातम्, पदवाक्येषु प्राधान्यात्, ' अभ्याज गां दण्डेन शुक्लां गां दण्डेनाभ्याज ' इत्येवं लौकिक्या वाचः पदप्रयोगनियमाभावात् शिरः स्थानमाख्यातं हित्वा त्यक्त्वा विदुषो जिह्वया वागिन्द्रियेण वावदद् अतिवदन्ती सती चरत् चरति प्रकाशीभवति । एवं चरन्ती सा त्रिंशत्पदान्यक्रमीत् क्रमति । पदशब्दोऽत्राङ्गुलवचनः । मूलाधारादारभ्य मुखपर्यन्तं त्रिशदङ्गुलानि क्रामति । यद्यपि त्रय्यामृक्षु पादनियमोऽस्ति तथाप्यध्वरेषु यजुषः प्राधान्येनापादित्युक्तिः । यद्वा हे इन्द्राग्नी, अपात् स्वयं पादरहितापि, इयमुषा, पद्वतीभ्यः पादयुक्ताभ्यः सुप्ताभ्यः प्रजाभ्यः पूर्वा प्रथमभाविनी सती आ अगात् आगच्छति । सा च तासां प्रजानां शिरो हित्वी निद्रात्याजनेन प्रेरयित्री, यद्वा शिरो हित्वी हित्वा त्यक्त्वा स्वयमशिरस्का सती जिल्ह्वया प्राणिनां वागिन्द्रियेण वावदत्, यङ्लुगन्तम्, भृशं शदं कुर्वती सती चरत् चरति प्रसरति, अडभावः । एवं चरन्ती उषा एकदिन त्रिंशत्-संख्याकानि पदा पदानि गमनसाधनभूतान् मुहूर्तान् नि अक्रमीत् नितरां क्रमते 1 अहोरात्रेण त्रिशन्मुहूर्तान् क्रामतीत्यर्थः । अध्यात्मपक्षे -- अखण्डा ब्रह्मसंविद् अत् पादरहिता, चतुष्पात्वस्य मायासापेक्षत्वात् स्वयं त्वपादेव । सा च पद्वतीभ्यः पादयुक्ताभ्यः प्रजाभ्यः पूर्वा पूर्वमगात्, ' सद्वावतोऽन्यानत्येति ' ( 3०1४ ) इति मन्त्रवर्गात्, मनसोऽपि जवीयस्त्वोक्तेः । स्वतो व्यापकस्यापि मनआद्युपाधिषु जववत्तरेषु गच्छत्स्वपि ततः पूर्वमेव तदुपाव्यधिष्ठानत्व-प्रकाशकत्वाभ्यां तत्र विद्यमानत्वात् शिरः प्राधान्यं हित्वी हित्वा परित्यज्य उपाधिप्राधान्यमनुसृत्य प्राणिनां जिह्वया वावदद् भृशं वदन्ती शब्द भावं प्राप्नुवती चरत् चरति व्यवहारयति णिजन्तर्भावः । स्वतस्तु त्रिंशत्पदानि त्रिंशन्मुहूर्तोपलक्षितान् खण्डकालान् सर्वानप्यक्रमीद् अतिक्रान्ता, कालापरिच्छिन्नत्वात् । -दयानन्दस्तु – ' हे इन्द्राग्नी अध्यापकोपदेशकौ, येयमपात् पद्वतीभ्यः पूर्वा अगात्, शिरो हित्वी हित्वा प्राणिनो जिह्वया वावदच्चरत् त्रिंशत्पदान्यक्रमीत्, सोषा युवाभ्यां विज्ञेया ' इति, तदपि न, इन्द्राग्नीति मुख्य- । पदार्थत्यागपूर्वकं गौणाध्यापकोपदेशकार्थग्रहणस्य निर्मूलत्वात् सोषा युवाभ्यां विज्ञेयेत्यपि वेदबाह्यमेव अन्यत्तु महीधराद्यनुकरणमेव ॥ ९ ३ ॥ दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒क Ü सरोतयः । ते नो॑ अ॒द्य ते अ॑प॒रंतु॒चे तु नो॒ भव॑न्तु॒ वरिवो॒विद॑ः ॥ ९ ४ ॥ मन्त्रार्थ - सबके मन को एक मति में स्थिर कर सबके अभीष्टदाता वे प्रसिद्ध विश्वेदेव कब हमारे साथ सभी प्राणियों को धन प्राप्त करावेंगे | अपनी उपासना करने वालों को जो अवश्य हो धन प्राप्त कराते हैं, वे विश्वेदेव भविष्य काल में भी हमारे पुत्र - पौत्र आदि को धन सम्पन्न करें ॥ ९ ४ ॥ मनुष्य वैश्वदेवी | हि स्म एतौ निपातौ प्रसिद्धयतिशयार्थी । छान्दसौ षत्वदीयौं । ते प्रसिद्धा विश्वे देवासः, अद्यास्मिन् काले नोऽस्माकं साकं सहैव वरिवोविदो भवन्तु, वरिवो धनं वेदयन्ति लम्भयन्ति ये ते, एकीभूय धनप्रापका भवन्तु । तु पुनः अपरं भविष्यति काले नोऽस्माकं तुचे अपत्याय पुत्रपौत्रादिकाय ते वरिवोविदो भवन्तु तुगित्यपत्यनाम । कीदृशास्ते विश्वेदेवास:? मनवे समन्यवो मनुनामकाय मुनये मन्त्र-
पृष्ठ 475
पाठ पढ़ें पाठ छिपाएँ
९ २ शुक्लयजुर्वेदसंहिता | अ ० ३३ दर्शने मह्यं समान मन्युर्दीप्तिर्येषां ते, ' मन्युर्मन तेर्दीप्तिकर्मण: ' ( निरु ० १०/२२ ) इति यास्कोक्तेः । मदर्थमैक-मत्यं प्राप्ताः, यद्वा मन्युना कोपेन सह वर्तमाना अस्मच्छत्रुहननाय क्रोधयुक्ताः, मनुना समानदीप्तयः समानक्रोधा वा, तथा सरातयः रातिदनं तत्सहिताः, दातार इत्यर्थः, समानदाना वा । अध्यात्मपक्षे - ते प्रसिद्धाः, विश्वे सर्वे देवासो देवा ब्रह्मात्मका देवभावमापन्ना अद्येदानीम्, वरिवो-विदः साकं सहैव वरिवो ज्ञानरूपं धनं वेदयन्ति ये ते वरिवोविदो भवन्तु । कीदृशाः? मनवे मनुना, व्यत्ययः, समानदीप्तयः समानज्ञानाः सरातयः समानाभयदानयुक्ताः, अपरम् आगामिनि काले तुचे अपत्याय वरिवोविदो भवन्तु । दयानन्दस्तु - ' हे मनुष्याः ये सरातयः समन्यवो विश्वे देवासः साकमद्य नो मनवे ष्मा वरिवोविदो भवन्तु, ते त्वपरं नस्तुचे अस्मभ्यं च वरिवोविदो भवन्तु, हि युष्मभ्यं वरिवोविदो भवन्तु ' इति, तदपि न, मनुष्याणां विदुषां सरातित्वाद्यसंभवात् । न च ते धनप्रदातारः संभवन्ति, न च तेषां स्थायित्वमस्ति । पुत्र-पौत्रादीनामपि कृते त एव धनदातारो भविष्यन्ति । सत्कारं त्वन्येऽपि जानन्त्येवेति न च तेषां तद्वैशेष्यम् ॥ ९ ४ ॥
अधमद॒भिश॑स्ती रशस्ति॒िहाथेन्द्र द्यु॒म्न्याऽभ॑वत् ।
दे॒वस्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मम॑द्गण ॥ ९ ५ ॥
मन्त्रार्थ - हे महादीतिसम्पन्न मरुद्गण! इन्द्र और अन्य देवताओं ने आपकी मित्रता पाने के लिये अपने को संयत किया था, असुरों के नाशक इन्द्र ने शत्रुकृत अपवादों को दूर किया था । इस प्रकार यशस्वी हुआ यजमान सब ओर से धन सम्पन्न होता है ॥ ९ ५ ॥ नृमेधदृष्टे द्वे मरुत्वद्गुणविशिष्टेन्द्रदेवत्ये । हे बृहद्भानो बृहन्तो महान्तो भानवो दीप्तयो यस्य तस्य सम्बोधने, मरुतां गणो यस्य तत्सम्बुद्धौ हे मरुद्गण हे इन्द्र! देवा वसुरुद्रादित्याः, ते तव सख्याय मैत्र्यै मिरे कथं नु नामेन्द्रोऽस्मान् सखिभावाय वृणीत इत्यभिप्राया आत्मानं संयतं कृतवन्तः । स भवान् अभिशस्तीरभि-शापान् शत्रुप्रयुक्तानपवादान् अपाधमद् अपगमयति, ' धमतिर्गतिकर्मा ' ( निरु ० ६ २ ) इति यास्कः | अथानन्तरम्, द्युम्नी, द्युम्नं यशोऽन्नमस्यास्तीति यशस्वी अन्नवान् वा आ अभवत् सर्वतो धनवान् यशोवान् वा भवति । कीदृशो भवान्? अशस्तिहा शंसनं शस्तिः प्रशंसा, सा नास्ति येषां तेऽशस्तयोऽसुरा निन्द्याः तान् हन्तीत्यशस्तिहा, अभेरादिशेषेण अभिशस्तिहा, मिथ्यापवादापहन्ता वा । इन्द्र ऐश्वर्यवान् दुष्टहन्ता अभिशापनाशको यशस्वी तेजस्वी बहुभृत्य सेव्यस्तस्य सख्यायान्ये यतन्त इति युक्तमिति यो उव्वाचार्यदृष्ट्या - यदा इन्द्रोऽभिशस्तीरभिशापान् अपाधमद् अपगमयति, अभिशस्तीश्च हन्ति भावः । मिन्द्र ऐश्वर्यवान् द्युम्नी अन्नवान् यशस्वी अभवत् भवति । एवं परोक्षेण स्तुतः प्रत्यक्षीभूतः , अथानन्तर-उत्तरोऽर्धर्चः प्रत्यक्ष कृतः । हे इन्द्र, हे बृहद्भानो महादीप्ते मरुद्गण, ते सख्याय सखिभावाय अन्ये । देवा इत येमिरे आत्मानं संयतं कृतवन्तः । अध्यात्मपक्षे - हे इन्द्र! परमैश्वर्यवत् परमेश्वर! हे बृहद्धानो महादीप्ते अनन्तानन्तसूर्यसमप्रभ मरुद्गण मरुदादिगणैः सेव्यमान भगवन्, ते तव सख्याय सखिभावाय देवा वसुरुद्रेन्द्रादयो येमिरे आत्मानं , हे संयतं कृतवन्तः । स भवान् अभिशस्तीः शत्रुकृतानपवादान् अपाधमद् अपगमयति अशस्तीनिन्द्यानसुरांच हन्ति । अथ पश्चाद् इन्द्रः परमैश्वर्यवान् द्युम्नी यशोवान् अभवद् आसमन्ताद् भवति ।
पृष्ठ 476
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ५ - ९ ७ ] वेदार्थपारिजात भाष्य सहिता ९ ३ दयानन्दस्तु – ' हे बृहद्भानो मरुद्गण इन्द्र! देवास्ते सख्याय येमिरे द्युम्नीन्द्रो भवानभिशस्तीरपाध-मदशस्तिहाऽभवद् भवतु ' इति, तदपि न इन्द्रपदस्य प्रसिद्धार्थत्यागे मानाभावात् । नहि मनुष्यदेवानां सख्याय यमापेक्षा भवति, न च वायुगणैर्मनुष्या विद्वांसः कार्याणि साधयन्ति, न वा ते प्रार्थनासापेक्षा ' भवन्ति ॥ ९ ५ ॥ प्र व॒ इन्द्रा॑य॒ बृह॒ते मरु॑तो॒ ब्रह्म॑र्चत । व॒त्र ं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वत्रे॑ण श॒तपर्वणा ॥ ९ ६ ॥ मन्त्रार्थ - हे मरुद्गणों! अपने स्वामी महान् इन्द्र के लिये आप सब सामरूप स्तोत्र का पाठ करें । पाप का नाशक अनन्त यज्ञों वाला यह इन्द्रदेव अनन्त तीक्ष्ण धार वाले वज्र पापों को नष्ट कर देता है ॥ ९ ६ ॥ हे मरुतः, वो युष्माकं स्वामिने इन्द्राय यूयं ब्रह्म वेदं सामरूपस्तोत्रं प्रार्चत प्रोच्चारयत । कीदृशायेन्द्राय? बृहते महते । ततो वृत्रहा वृत्रस्यासुरविशेषस्य पाप्मनो वा हन्ता, इन्द्रो वृत्रं हनति हन्तु, ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७३ ) इति शपो लुगभावः । केन हन्ति? वज्रेण स्वकीयेन प्रसिद्धेनायुवेन । कीदृशेन? शतपर्वणा, शतं शतसंख्यानि पर्वाणि धारा ग्रन्थयो वा यस्मिन् तेन । वृत्रहा कीदृश:? शतक्रतुः शतसंख्याका क्रतवो अश्वमेधा यस्य सः, बहुकर्मा बहुप्रज्ञो वा । उव्वटाचार्यरीत्या तु प्रथमाबहुवचनस्य व आदेशः, हे मरुतो वो यूयं ब्रह्म प्रार्चत त्रयीलक्षणाः स्तुतीः प्रोच्चारयत, इन्द्राय बृहते । अन्यत् पूर्ववत् । अध्यात्मपक्षे -- हे मरुतः, वो यूयं बृहते ब्रह्मण इन्द्राय परमेश्वराय ब्रह्म प्राचत त्रयीरूपाः स्तुती: प्रोच्चारयत । ततो वृत्रस्यावरकस्याज्ञानस्य हन्ता ब्रह्माकारवृत्तावभिव्यक्तः सन् निवारकं वृत्रमज्ञानं हन्ति । केन? ब्रह्मसाक्षात्कारलक्षणेन वज्रेण शतपर्वणा शतं पर्वाणि वृत्तयः सन्ति यस्मिन् तेन, मनननिदिध्यासनादि-साहाय्येनोत्पन्नत्वात् । दयानन्दस्तु - ' हे मरुतो मनुष्याः यः शतक्रतुः सेनापतिः शतपर्वणा वज्रेण वृत्रहा सूर्यो वृत्रमिव बृहते इन्द्राय शत्रून् हन्ति वो ब्रह्म प्रापयति, तं यूयं प्रार्चत ' इति, तदपि न शतक्रतुरिन्द्रः शताश्वमेध-याजित्वेन भवति, असंख्यबुद्धित्वेन तु बहूनां शतक्रतुत्वापत्तेः । तथैव वज्रस्य शतपर्वाणि भवन्ति । न च शस्त्रसामान्यस्य वज्रसंज्ञा भवति, वैशेष्यानुपपत्तेः ॥ ९ ६ ॥ अ॒स्येदन्द्रो॑ वावृधे॒ वृष्ण्य॒ शवो॒ मदे॑ सु॒तस्य॒ विष्णु॑वि । अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति इ॒मा उ॑ त्वा यस्या॒यम॒यधु॑ स॒हस्र॑मू॒र्ध्व ऊ॒ ॥ इति त्रयस्त्रशोऽध्यायः ॥ पूर्वथा॑ । S I षु णः ॥ ९ ७ ॥ मन्त्रार्थ- - इन्द्र यज्ञ में अभिषुत सोम के पान से मदमत्त हो उस यजमान के वीर्य और बल को बढ़ाता है । इसी -लिये आजकल के मनुष्य भी पूर्व ऋषियों के समान इस इन्द्र की महान् महिमा का गान करते हैं ॥ ९ ५ ॥ मेधातिथिदृष्ट्ा माहेन्द्री सतोबृहती । इन्द्रोऽस्य इद् अस्यैव यष्टुर्वृष्ण्यं वीयं शवो बलं च वावृधे वर्धयति, णिजन्तत्वं बोध्यम् । वर्षति सिञ्चतीति वृषा, तस्येदं वीर्यं वृष्ण्यम्, यप्रत्यये उपधालोपे च रूपम् । कदा
पृष्ठ 477
पाठ पढ़ें पाठ छिपाएँ
९ ४ शुक्लयजुर्वेदसंहिता [ अ ० ३३ सर्वशरीरव्यापके वीर्यं बलं वर्धयतीति चेत्तत्राह सुतस्याभिषुतस्य सोमस्य विष्णवि, वेवेष्टीति विष्णुस्तस्मिन् रूपम् । यद्वा विष्णवि मदे सति । विष्णवि, सप्तम्येकवचने ' घेङिति ' ( पा ० सू ० ७ । ३ । १११ ) इति गुणेऽवादेशे सोमपानेन मत्त इन्द्रो विष्णौ यज्ञेऽभिषुतस्य सोमस्य मदे जात इति, ' यज्ञो वै विष्णुः ' इति श्रुतेः यजमानवीर्यादिवर्धनरूपं , यज्ञे महिमान -यजमानस्य बलं माहात्म्यं च वर्धयतीत्यर्थः । किन्न, अस्येन्द्रस्य तमुक्तं --- यथा आनुपूर्व्येण स्तुवन्ति । तत्र दृष्टान्तः - - पूर्वथा पूर्वमिव मद्यास्मिन् काले s पि आवयो मनुष्या अनुष्टुवन्ति ' ( पा ० सू ० ५ | ३ | १११ ) इति पूर्वमृषयोऽस्तुवन्नेवमिदानीमपि नराः स्तुवन्ति, ' प्रत्नपूर्वविश्वेमात्थालु छन्दसि ' ( ३३।८१-८३ ), ' ऊर्ध्व ऊ षु णः ' पूर्वशब्दादिवार्थे थालप्रत्ययः । ' इमा उ त्वा, यस्यायम्, अय सहस्रम् । मदें सुतस्य विष्णवि, विष्णुर्यज्ञः, ( ११।४२ ) एताः प्रतीकोक्ताः । उव्वटरीत्या तु - इदिति निपातः पादपूरणः वृद्धश्च वृष्ण्यं सेक्तृत्वं शवो यज्ञे सुतस्याभिषुतस्य सोमस्य मदे संजाते य इन्द्रो वावृधे बलवीर्योपबृंहितो भवति अनुष्टुवन्ति , । पूर्वथा पूर्ववद् बलं चाविष्करोतीति तस्यास्येन्द्रस्य अद्य अद्यापि तं महिमानमावयो मनुष्या यथा पूर्वमृषिभिः स्तुतः । भक्तिभाव-अध्यात्मपक्षे - इन्द्रः परमेश्वरः सुतस्याभिषुतस्य सोमस्य तदुपलक्षितस्य वृष्ण्यं वीयं शवो विविधनैवेद्यस्य बलं च वावृधे वर्धयति, पुरस्कृतस्य समर्पणेन विष्णवि व्यापके मदे हर्षे जाते, अस्य भक्तस्य पूर्वथा पूर्वमिवेति । तं तादृशं तस्य महिमानमद्यापि आयवो मनुष्या अनुष्टुवन्ति आनुपूर्व्येण स्तुवन्ति वावृधेऽस्य परमात्मन दयानन्दस्तु ' हे मनुष्याः, य इन्द्रो जीवो विष्णवि सुतस्यास्य यत्किञ्चित् मदे वृष्ण्यं शवोऽद्य इन्द्रपदस्य लौकिकराजार्थत्वे इमहिमानं पूर्वथाऽऽयवोऽनुष्टुवन्ति तं यूयमपि स्तुवत ' इति, तदपि कोषकारैस्तदङ्गीकारात् । ' विष्णवि व्यापके मानाभावात् । न च देवा इन्द्रो वा अपलापमर्हन्ति, अमरादिभिः पदस्य कृत्याभावात् । नहि परमेश्वरे सुतस्योत्पन्नस्य संसारस्य मदे आनन्दमये ' इत्यपि निरर्थकम्, सुतस्येति युक्तमिति ॥ ९ ७ ॥ राजा संसारस्य मदाय बलं वा वर्धयितुं शक्नोति । तस्मात् पूर्वोक्तमेव व्याख्यानं इति श्रीशुक्लयजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां त्रयस्त्रशोऽध्यायः ॥
पृष्ठ 478
पाठ पढ़ें पाठ छिपाएँ
चतुस्त्रिशोऽध्यायः यज्जाग्रतो दुरमुद॑ति॒ दैवं तदु॑ स॒प्तस्य॒ तथैवैति॑ । दू॒र॒ग॒मं ज्योति॑षि॒ ज्योति॒रेकं॒ तन्मे॒ मन॑ः शि॒वस॑ङ्कल्पमस्तु ॥ १ ॥
-मन्त्रार्थ -- जो मन जागते समय चक्षु आदि की अपेक्षा बहुत दूर तक चला जाता है, वही द्युतिमान् मन सोते समय सुषुप्ति में बहुत नजदीक आकर लीन हो जाता है । तीनों कालों के पदार्थों को ग्रहण करने वाला और प्रकाशक, श्रोत्र आदि इन्द्रियों को ज्योति देने वाला वह मेरा मन सबके कल्याणकारी संकल्प से संयुक्त हो, धर्म के आचरण में सदा लगा रहे ॥ १ ॥
अनारभ्याधीतोऽध्याय आ पितृमेधात् । आदित्ययाज्ञवल्क्यदृष्टा मन्त्राः पाठे विनियुक्ताः । लैङ्गिको वा विनियोगः । लिङ्गं च सामर्थ्यम् अभिधानशक्ति:, ' सामथ्यं सर्वशब्दानां लिङ्गमित्यभिधीयते ' इत्युक्तेः । षडृचस्त्रिष्टुभो मनोदेवत्याः शिवसंकल्पदृष्टाः । मन्त्रद्रष्टा वदति - तन्मे मनः शिवसंकल्पमस्तु | शिवो मङ्गलमयो धर्मब्रह्मविषयः संकल्पो यस्य तत्, मन्मनसि सदा धर्मो ब्रह्म वा स्फुरतु, न पापमित्यर्थः । किं तन्मनः? इत्यत आह - यन्मनो जाग्रतः प्रबुद्धस्य तत्तदेवतानुगृहीतैर्बाह्येन्द्रियैर्विषयोपलब्धिमतो दूरमुदैति दूरमुद्गच्छति, चक्षुराद्यपेक्षया मनो दूरगामीत्यर्थः । यद्यपि मनसो बहिरस्वातन्त्र्याच्चक्षुरादि विना मनो बहिर्गमनेऽस्वतन्त्रमेवेति दूरगामित्वमसंगतमेव, तथापि तत्तत्प्रमाणैरतीतानागतवर्तमानसन्निकृष्टविप्रकृष्टव्यवहितपदार्थानां ग्राहकत्वाद्दूरं गच्छतीति तस्य दूरगामित्वमौपचारिकमेव, ' तद्भावतोऽन्यानत्येति ' ( ४०।४ ) इति मन्त्रवर्णात् । यच्च दैवं दीव्यति प्रकाशते देवो विज्ञानात्मा पुरुषः, तत्र भवं दैवम्, आत्मग्राहकमित्यर्थः । रूपादिरहितत्वेन चक्षुराद्यविषयस्यात्मनो मनसैव ग्रहणसम्भवात्, ' मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् ' इति श्रुतेः । शुद्धस्यापि प्रत्यगभिन्नब्रह्मरूपस्य महावाक्यवेदान्तमहावाक्याभ्यासजन्यसंस्कारसंस्कृतेन मनसा प्रमात्मकः साक्षात्कारो भवति । यथा श्रोत्र-ग्राह्यस्य शब्दसामान्यस्य षड्जत्वादिसाक्षात्कारोऽपि गान्धर्वशास्त्राभ्यासजन्यसंस्कारसंस्कृतमनः सव्यपेक्षश्रोत्रेण संपद्यते तद्वत् । केषाञ्चिद्रीत्या तु प्रत्यगभिन्नब्रह्मात्मसाक्षात्काररूपा प्रमा महावाक्य प्रमाणजन्या, एकाग्रं मनस्तु तत्र सहकारितां भजते । तद् उ, यदः स्थाने तच्छब्दः, उकारः समुच्चयार्थीयः । यच्च मनः सुप्तस्य पुरुषस्य तथैवैति यथा गतं तथैव पुनरागच्छति, सुषुप्तावस्थायां पुनरागच्छति । प्रतीत्यभिप्रायेण गमनागमनादिकमुक्तम् । सांख्यरीत्या सात्त्विकाहङ्कारान्मनो जायते । वेदान्तरीत्या त्वपश्वीकृतपञ्चमहाभूतस्य समष्टिसत्त्वांशात् सञ्जायते मनः, ' तन्मनोऽसृजत ' इति श्रुतेः । भूतेष्वन्नस्य प्राधान्यात्तेनोपबृंहणाच्च ' अन्नमयं हि सौम्य मनः ' ( छा ० उ ० ६।५।४ ) इति श्रुतिः संगच्छते । सत्त्वं च सर्वार्थावभासन शालि यथा यथा रजस्तमोभ्यामभिभूयते तथा तथा ज्ञानात्पत्वम्, यथा यथा तदनभिभवे तु ज्ञानभूयस्त्वम् । सर्वथा रजस्तमोऽननुविद्धत्वे तु तादृशः प्रकाशो जायते, येन ज्ञानापेक्षया ज्ञेयस्यैवाल्पत्वं भवति । यद्वा बाह्यगमनागमनाद्यभावेऽपि चक्षुरादिप्रदेशसम्बन्धेन विषयदेशगमनं जागरणम्, कण्ठदेशसम्बन्धेन स्वप्नदर्शनम्, पुरीतत्प्रदेशगमनेन प्रस्वाप:, ' नेत्रस्थं जाग्रतं विद्यात् कण्ठे स्वप्नं विनिर्दिशेत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥ ' ( ब्रह्मो ० २१ ) इति श्रुतेः । यच्च मनो ज्योतिषां प्रकाशकानां श्रोत्रादीन्द्रियाणा-
पृष्ठ 479
पाठ पढ़ें पाठ छिपाएँ
९ ६ शुक्लयजुर्वेद संहिता [ अ ० ३४ मेकमेव ज्योतिः प्रकाशकं प्रवर्तकम्, मनः संयुक्तानि मनसा प्रवर्तितान्येवेन्द्रियाणि स्वविषये प्रवर्तन्ते, ' आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेन ' ( न्या ० भा ० १1१1४ ) इति न्यायात् । अध्यात्मपक्षे - पूर्वोक्तमेव व्याख्यानम् । दयानन्दस्तु ' हे जगदीश्वर विद्वन वा भवदनुग्रहेण यद्दैवं दूरङ्गमं ज्योतिषां ज्योतिरेकं जाग्रतो दूरमुदैति, तदु सुतस्य तथैवान्तरेति, तन्मे मनः शिवसंकल्पमस्तु ' इति, तदपि न, संबोधनस्य निर्मूलत्वात्, मनसो बहिरस्वातन्त्र्यान्नेन्द्रियाण्यनाश्रित्य दूरङ्गमत्वं तत्र संभवति ॥ १ ॥
येन॒ कर्म॑ण्य॒पस मनीषिणौ य॒ज्ञे कृण्वन्ति विदर्थेषु धोरा॑ः । S यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जाना॒ तन्मै॒ मन॑ः शि॒वस॑ङ्कल्पमस्तु ॥ २ ॥
मन्त्रार्थ - कर्मनिष्ठ होने से कर्मरूप बुद्धिमान् मेधावी पुरुष यज्ञ में मन के जिस शुभ संकल्प से प्रवृत्त होता है, प्रजाओं के शरीर में और यज्ञीय पदार्थों के ज्ञान में जो मन अद्भुत पूज्य भाव से स्थित है, वह मेरा मन सबका कल्याणकारी और धर्मविषयक शान्त संकल्प वाला हो ॥ २ ॥
मनीषिणो विद्वांसः, येन मनसा सता विदथेषु विद्यन्ते ज्ञायन्ते तानि विदथानि वेदनानि, यज्ञविधिविधानेषु यज्ञसम्बन्धिनां हविरादिपदार्थानां ज्ञानेषु सत्सु यज्ञे कर्माणि कृण्वन्ति कुर्वन्ति, वेत्ते रौणादिकोऽथप्रत्ययः, प्रत्ययो -दात्तत्वेन मध्योदात्तं पदम् ' प्रत्ययः, परश्व, आद्युदात्तश्च ' ( पा ० सू ० ३।१।१ - ३ ) इति पाणिन्युक्तेः, मनः-स्वास्थ्ययोगाभ्यामन्तरा सम्यक्कर्मानुपपत्तेः । कीदृशा मनीषिणः अपस:, अप इति कर्मनाम ( निघ ० २1१1१ ), तदस्ति येषां तेऽपस्विनः कर्मवन्तः तद्धितलोपः । धीरा धीमन्तः धीरन्तर्धीर्येषां ते, मत्वर्थीयो रः । कीदृशं तन्मनः? अपूर्वम्, न विद्यते पूर्वमपरमिन्द्रियं यस्मात्तदपूर्वम्, इन्द्रियेभ्यः पूर्वं मनसः सृष्टेः । यद्वा ' अपूर्वमनपर-मबाह्यम्, ( बृ ० उ ० २।५।१ ९ ) इत्युक्तेरात्मरूपं चित्तं चिद्विजानीयात्तकाररहितम् । यद्वा तकारो विषयाध्यासः, ' तच्छ्रुन्यं ब्रह्म चोच्यते ' इत्युक्तेः । सर्वोपाधिशून्यं ब्रह्मैव मनाङ् मननीं शक्तिमाश्रित्य मनस्तामापन्नं मन उच्यते, ' स आत्मा सर्वगो राम नित्योदितवपुर्महान् । स मनाङ् मननी शक्ति धत्ते तन्मन उच्यते ॥ ” इति वाशिष्टोक्तेः । यक्षं पूज्यं यष्टुं शक्तं यज्ञम्, यजतेरैणादिकः सन्प्रत्ययः, नित्यादिनित्यम् ' ( पा ० सू ० ६ १११ ९ ७ ) इत्याद्युदात्तं पदम् । यच्च प्रजायन्त इति प्रजास्तासां मनः शरीरमध्ये आस्ते, तन्मे मनस्तादृशं मे मनः शिवसङ्कल्पमस्तु । अध्यात्मपक्षे - पूर्ववद् व्याख्यानम् । दयानन्दस्तु - ' हे परमेश्वर विद्वन् वा भवत्सङ्गेन येनापसो मनीषिणो धीरा यज्ञे विदथेषु च कृण्वन्ति, यदपूर्वं प्रजानामन्तर्यक्षं वर्तते, तन्मे मनः शिवसङ्कल्पमस्तु ' इति, तदपि न भवत्सङ्गेनेत्यस्य मन्त्रबाह्यत्वात् । नहि कस्यचिन्मत: सर्वोत्तमगुणकर्मस्वभावं भवति, न वा प्राणिमात्रस्य हृदये पूजनीयं भवति ॥ २ ॥
यत्प्र॒ज्ञान॑मु॒त चेतो धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृते॑ प्र॒जासु॑ ।
यस्मा॒न्न ऋते किंचन कर्म॑ क्रि॒यते॒ तन्म॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ३ ॥
मन्त्रार्थ - प्रजाओं में जो मन प्रकर्ष ज्ञानस्वरूप, चित्तस्वरूप और धैर्यरूप है, जो मन अविनाशी ज्योति है, जिसकी सहायता के बिना कोई कर्म नहीं किया जा सकता, वह मेरा मन कल्याणकारी, धर्मविषयक शिवसंकल्प वाला हो ॥ ३ ।
पृष्ठ 480
पाठ पढ़ें पाठ छिपाएँ
म ० ३-४ ] वेदार्थ पारिजातभाष्यसहिता ९ ७ यन्मनः प्रज्ञानं प्रकर्षेण ज्ञायते येन तत्प्रज्ञानं विशेषेण ज्ञानजनकम्, ' करणाधिकरणयोश्च ' ( पा ० सू ० ३।३।११७ ) इति करणे ल्युट्प्रत्ययः । उत अपि यन्मनश्चेतश्चेतयति सम्यग् ज्ञापयति तच्चेतः सामान्य-विशेषज्ञानजनकम्, ' चिती संज्ञाने ' इत्यस्मात् णिजन्तादसुन्प्रत्ययः । यच्च मनो धृतिश्च धैर्यरूपम्, धृतेरपि मनोधर्मत्वात्, कार्यकारणयोरभेदोपचारेण मनो धृतिरुच्यते । यच्च मनः प्रजासु प्राणिषु अन्तर्मध्ये वर्तमानं सद् ज्योतिः सर्वेन्द्रियाणां प्रकाशकं प्रवर्तकम् । पूर्वमुक्तमप्यादरार्थं पुनरुच्यते, ' अभ्यासे भूयांसमर्थं मन्यन्ते ' इति निरुक्तवचनात् । यथामृतममरणधर्मकम्, चिदात्मरूपत्वात् । यस्मान्मनस ऋते येन मनसा विना किञ्चन किमपि कर्म न क्रियते प्राणिभिः, मनोयोगं विना कर्मानुपपत्तेः । ' अन्यारादितरर्ते ' ( पा ० सू ० २।३।२ ९ ) इत्यादिना यस्मादित्यत्र ऋयोगे पञ्चमी । अध्यात्मपक्षे – पूर्ववद् व्याख्यानम् । दयानन्दस्तु– ' हे जगदीश्वर परमयोगिन् वा, भव्यज्ञापनेन यत्प्रज्ञानं च ते उत धृतिर्यच्च प्रजास्वन्तरमृतं ज्योतिस्मादृते किञ्चन कर्म न क्रियते, तन्मे मनः शिवसंकल्पमस्तु ' इति, तदपि न, संबोधनस्य निर्मूलत्वात् । मनश्च न स्वरूपेणामृतम्, ' तन्मनोऽसृजत ' इत्युत्पत्तिश्रवणात् न चोत्पन्नस्यामृतत्वं संभवति, कृतकत्वेनानित्यत्व-धौव्यात् । चिदात्मरूपत्वादमृतत्वं तस्य संभवति, नान्यथेति ॥ ३ ॥
येने॒दं भूतं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्वे॑म् ॥ येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मन॑ शि॒वस॑ङ्कल्पमस्तु ॥ ४ ॥
मन्त्रार्थ जिस मन के द्वारा भूत काल, वर्तमान काल और भविष्य काल की सारी वस्तुएँ सब ओर से ज्ञात होती हैं, जिस मन के द्वारा सात होता वाला यज्ञ विस्तारित किया जाता है, वह मेरा मन कल्याणकारी, धर्मविषयक शुभ संकल्प वाला हो ॥ ४ ॥
येन मनसा, इदं भूतं भूतकालसंबधि वस्तु, भुवनं भवतीति भुवनं वर्तमानकालम्, भवतेर्क्युप्रत्ययः, वर्तमानकालसंबन्धि वस्तु, भविष्यद् भविष्यत्कालसंबन्धि वस्तु, ' लृटः सद्वा ' ( पा ० सू ० ३ | ३ | १४ ) इति शतृप्रत्ययः परिगृहीतं परितः सर्वतः गृहीतम्, कालत्रयसंबन्धिवस्तुषु मनसः प्रवृत्तेः । चक्षुरादिकं तु वर्तमान-मात्रग्राहि, मनसा त्वतीतानागतयोरपि परोक्षज्ञानसंभवात् । कीदृशेन? येन मनसा अमृतेन शाश्वतेन, नैयायि-कादीनां रीत्या नित्येन, वेदान्तिनां रीत्या प्रत्ययपर्यन्तस्थायिना ' तन्मनोऽसृजत ' इत्युत्पत्तिश्रवणान्नित्यत्वासंभवात्, ' आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते ' इत्युक्तेः, चिदात्मरूपेण वाऽमृतत्वम्, येन च मनसा यज्ञोऽग्निष्टोमादि-स्तायते तन्यते विस्तार्यते, ' तनोतेर्यंकि ' ( पा ० सू ० ६ | ४ | ४४ ) इत्याकारः । कीदृशो यज्ञः? सप्त होता, सप्त हतारो देवानामाह्वतारो भवन्ति यत्र । तन्मे मनः शिवसंकल्पमस्तु । अध्यात्मपक्षे -- पूर्वोक्तमेव व्याख्यानम् । दयानन्दस्तु – हे ' मनुष्याः, येनामृतेन भूतं भुवनं भविष्यत् सर्वमिदं परिगृहीतं भवति, येन सप्तहोता यज्ञस्तायते, तन्मे मनः शिवसंकल्पमस्तु ' इति, तदपि न, संबोधनस्य निर्मूलत्वात्, अतीतानागतवस्तुग्रहणं तु पारोक्ष्येणैव संभवति, योगेनाप्यतीतानागतानामपारोक्ष्ये मानाभावात्, प्रमातृचैतन्यसंबन्धासंभवेन तदनुपपत्तेः ॥ ४ ॥
१३