वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 481–490
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 481–490
पृष्ठ 481
पाठ पढ़ें पाठ छिपाएँ
९ ८ शुक्लयजुर्वेदसंहिता [ अ ० ३४
यस्मि॒न्नृच॒ः साम॒ यज॑षि॒ यस्मा॒नु॒ प्रति॑ष्ठता रथनाभावि॑वा॒राः ।
यस्मि॑श्चि॒त्तं सर्व॒मति॑ प्र॒जाना॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ५ ॥
मन्त्रार्थ - जिस मन में ऋग्वेद, सामवेद और यजुर्वेद के मन्त्र उसी प्रकार प्रतिष्ठित हैं, जैसे कि रथचक्र की नाभि में अरा ( तीलियाँ ) जुड़ी हुई रहती हैं; प्रजाओं का सारा ज्ञान जिस मन में ओतप्रोत है, वह मेरा मन कल्याणकारी, धर्मविषयक शिव संकल्प वाला हो ॥ ५ ॥
यस्मिन् मनसि ऋचो नियताक्षरावसानाः पादबद्धा मन्त्राः प्रतिष्ठिताः, सांम गीतिविशिष्टानि सामानि च प्रतिष्ठितानि यस्मिन् यजूंष्यनियताक्षरावसाना गद्यरूपा मन्त्राः प्रतिष्ठिताः, मनसः स्वास्थ्ये वेदत्रयीस्फूर्तेः, शब्दमात्रस्य मनसि प्रतिष्ठितत्वम्, ' अन्नमयं हि सोम्य मनः ' ( ६ | ५ | ४ ) इति छान्दोग्ये मनसोऽन्नेन शक्तिशालित्वे वेदत्रयी स्फूर्तेः प्रतिपादनात् ' तस्य यजुरेव शिर ऋग्दक्षिणः पक्षः साम उत्तरः पक्ष आदेश आत्मा अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ' ( तै ० उ ० २।३ ) इति तैत्तिरीयोपनिषदि मनोमयस्य कोशस्य ऋगादीनामेव यज्ञपुच्छशिरस्त्वाद्यभि-धानाच्च । तत्र दृष्टान्तः - रथनाभौ अरा इव, यथा अरा रथचक्रनाभौ प्रतिष्ठितास्तद्वल्लौकिकवैदिकसर्वशब्दजालं मनसि प्रतिष्ठितम् । किञ्च यस्मिन् मनसि प्रजानां सर्वं चित्तं संज्ञानं सर्ववस्तुविषयिप्रज्ञानम्, ओतं च प्रोतं च निक्षिप्तम्, तन्तुसन्ततिः पट इव सर्वं ज्ञानं मनसि निहितम्, मनःस्वास्थ्ये ज्ञानोत्पत्तेर्वैयग्रये च तदनुत्पत्तेः समष्टि-मनोऽभिप्रायेणैतद् द्रष्टव्यम्, रजस्तमोऽननुविद्धत्वेन चित्तसत्त्वस्य सर्वार्थभासनशालित्वस्य योगिभिरङ्गीकाराच्च । तत्तादृशं मे मनः शिवसंकल्पमस्तु । अध्यात्मपक्षे – पूर्वोक्तमेव व्याख्यानम् । दयानन्दस्तु– रथनाभाविवारा यस्मिन् मनसि ऋचः साम यजूंषि प्रतिष्ठिताः, यस्मिन्नथर्वाणः प्रतिष्ठिता भवन्ति यस्मिन् प्रजानां सर्वं चित्तमोतमस्ति, तन्मे मनः शिवसंकल्पमस्तु ' इति, तदपि न, चित्तमनसोरैक्ये -कस्मिन् मनसि सर्वप्राणिचित्तानामोतत्वासंभवात् । तेन समष्टिमन एवात्र ग्राह्यम्, तत्रैव व्यष्टिमनसा मोतत्व-संभवात् । ऋगादीनामपि तत्रैव प्रतिष्ठितत्वं संभवति ॥ ५ ॥
सु॒षार॒थिरश्वा॑नव॒ यन्म॑नु॒ष्या॒न्नेन॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव ।
हृत्प्रति॑ष्ठ॒ यद॑ज॒रं जवि॑ष्ठं तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु ॥ ६ ॥
मन्त्रार्थ - जो मन जीवों को अपनी इच्छा के अनुसार उसी प्रकार घुमाता रहता है, जैसे कि कोई अच्छा सारथि बागडोर के सहारे वेगवान् घोड़ों को अपनी इच्छा के अनुसार नियन्त्रित करता है । जो मन बाल्य, यौवन, वार्धक्य आदि से रहित हो अतिवेगवान् हृदय में स्थित है, वह मेरा मन धर्मविषयक शुभ संकल्प वाला हो ॥ ६ ॥
यच्च मनो मनुष्यान् प्राणिनश्च नीयतेऽतिशयेनेतस्ततो नीयते मनःप्रेरितानामेव प्राणिनां प्रवृत्तेः । अत एव मनुष्यग्रहणं प्राणिमात्रोपलक्षकम् । कथमिव? सुषारथि: शोभनः कल्याणकारी सारथिर्यन्ता यथा कशया -ऽश्वान् नेनीयते तद्वत् । अभीशुभिः प्रग्रहैर्वाजिन इव शोभनः सारथिर्यथा अभीशुभिर्वल्गाभिर्वाजिनोऽश्वान् नेनीयत इत्यपरो दृष्टान्तः । प्रथमे नयनम् द्वितीये नियमनम्, तथैव मनो मनुष्यान् प्रवर्तयति नियच्छति च । यच्च मनो हृत्प्रतिष्ठम् हृदि पुण्डरीकाकारे मांसपिण्डे प्रतिष्ठा स्थितिर्यस्य तत्, तत्रैव तदुपलब्धेः । तत्स्थानं तु नाभेर्दशाङ्गुलोर्धोपरि ज्ञातव्यम्, ' अत्यतिष्ठद् दशाङ्गुलम् ' ( वा ० सं ० ३१ । १ ) इति श्रुतेः । केचित्तु मस्तके
पृष्ठ 482
पाठ पढ़ें पाठ छिपाएँ
म ० ६-७ ] वेदार्थं पारिजात भाष्यसहिता ९९ मस्तिष्कस्थानमेव मनःस्थानं कल्पयन्ति, तत्रैव विचारानुभवात् । तत्तु न, मस्तके श्रोत्रचक्षुर्माणजिह्वा बाहुल्येन ज्ञानकार्यदर्शनात् तथात्वानुभवस्यान्यथोपपत्तेः, यथा विद्युतः प्रकाशस्थानापेक्षया नियन्त्रणस्थानं पृथग्भवति तथैवात्रोपपत्तेः । यच्च मनः, अजिरं जरारहितम्, बाल्ययौवनस्थविरेषु मनस्तावदवस्थ्यदर्शनात् । यच्च मनो जविष्ठमतिशयेन जववद् वेगवद् जविष्ठम्, ' न वै वातात्किनाशीयोऽस्ति न मनसः किञ्चनाशीयोऽस्ति ' इति श्रुतेः । तत्तादृशं मे मनः शिवसंकल्पं धर्मब्रह्मसंबन्धिसंकल्पयुक्तमस्तु तथा सत्येव पुरुषार्थसिद्धेः । अध्यात्मपक्षे - अयमेवार्थः । दयानन्दस्तु - ' यत्सुषारथिरश्वानिव मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव नियच्छति च, बलात् सारथि -रश्वानिव प्राणिनो नयति, यत्प्रतिष्ठमजिरं जविष्ठमस्ति, तन्मे मनः शिवसंकल्पमस्तु ' इति, तदपि न मनसः करणत्वेन कर्तुर्नियामकत्वानुपपत्तेः । नहि कुठारेण छेत्ता नियम्यते, किन्तु छेत्त्रैव कुठारस्य नियमनदर्शनात् । तस्मात् प्रतीत्यभिप्रायेणैतद् द्रष्टव्यम्, गमनजन्य वेगेन गन्तुः पारतन्त्र्यदर्शनात् ॥ ६ ॥
पि॒तुं नु स्तषं म॒हो ध॒र्माण॒ तवि॑षीम् ।
यस्य त्रितो व्योज॑सा व॒त्रं विप॑र्व॑म॒र्दय॑त् ॥ ७ ॥
मन्त्रार्थ --- मैं महान् बलशाली, सबमें बल का आधान करने वाले अन्न की स्तुति करता हूँ । इस अन्न के बल से ही तीनों स्थानों के स्वामी इन्द्र ने विविध रूपों वाले पाप पुरुष को सदा अवश्य ही प्रताड़ित किया है ॥ ७ ॥
अन्नस्तुतिरूपा उष्णिक् । यस्य पितोरन्नस्य ओजसा बलेन त्रितस्त्रिस्थान इन्द्रो वृत्रं दैत्यं विप विगतसन्धिबन्धनं कृत्वा वि अर्दयद् विविधर्मादितवान्, अन्नबलेनैवेन्द्रो वृत्रं हतवानित्यर्थः तं पितुमन्नं स्तोषमहं स्तौमि । कीदृशं पितुम्? महो महतस्तविषीं तविष्या बलस्य धर्माणं धारयितारम्, तविषीति बलनाम ( निघ ० २।९ ।१० ), तवतेर्बलकर्मणो विभक्तिव्यत्ययः । स्तोषं स्तौमिपि ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३ | ४ | ९ ७ ) इतीकारलोपे, ‘ लेटोऽडाटौ ’ ( पा ० सू ० ३ | ४ ९ ४ ) इत्याडागमे, ' सिब्बहुलं लेटि ' ( पा ० सू ० ३।१।३४ ) इति सिप्प्रत्यये गुणे च रूपम् । महः, महच्छब्दस्य ङसि छान्दसष्टिलोपः । धर्माणम्, धरतेर्मन् । विपवं विगतानि पर्वाणि यस्य तम्, उप्रत्यये टिलोपः । अर्दयत् ' बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा ० सू ० ६।४।७५ ) इत्यडभावः, ' व्यवहिताश्च ' ( पा ० सू ० १ । ४ । ८२ ) इति वेरुपसर्गस्याख्यातव्यवधानमिति महीधराचार्याः । अध्यात्मपक्षे -- यस्य पितोरन्नस्य ओजसा त्रितस्त्रिस्थान इन्द्रो वृत्रं व्यमर्दयत्, महतो तविष्याबलस्य धारयितारं तं पितुमन्नं ब्रह्मरूपमहं स्तौमि, ' अहमन्नमहमन्नम् ' ( तै ० उ ० ३।१०।६ ) इत्यादौ ब्रह्मणोऽन्नरूपत्वोक्तेः, ' यद्यद्विभूतिमत् सत्त्वं श्रीमदूर्जिमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ॥ ' ( भ ० गी ० १०।४१ ) इति भगवदुक्तेश्च । दयानन्दस्तु — ' अहं यस्य पितुं महो धर्माणं तविषीं न स्तोषं स राजपुरुषस्त्रितः सूर्य ओजसा सह वर्तमानं विपवं वृत्रं व्यर्दयदिव शत्रून् जेतुं शक्नोति ' इति, तदपि न, असंबद्धत्वात् । न च राजसामान्यस्य स्तुतिरिह विवक्षिता, अकिञ्चित्करत्वात् । त्रित इति तु त्रिस्थानस्येन्द्रस्य बोधकम् । पितुं नु स्तोषमिति मूलेन स्पष्टं पितोरन्नस्यैव स्तुतिः प्रतीयते । पितोर्विशेषणत्वेन तु महआदीनां वर्णनम् । यथा चैतत्तथोपरि वर्णितमेव ॥ ७ ॥
पृष्ठ 483
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेद संहिता
अन्विद॑नुमते॒ त्वं मन्या॑सि॒ शं च॑ न॒स्कृधि ।
क्रत्वे॒ दधा॑य नो हि॑नु॒ प्र ण॒ आयु॑षि तारिषः ॥ ८ ॥
2 [ अ ० ३४ मन्त्रार्थ - हे शुक्ल चतुर्दशी युक्त पूर्णिमा तिथि की अभिमानिनी अनुमति देवी, आप हमारे अभिप्राय को समझें, हमारा कल्याण करें, हमारे शुभ संकल्प की सिद्धि में आप सहायक हों, हमारी आयु को बढ़ावें ॥ ८ ॥
चतस्रोऽनुष्टुभः । तत्र द्वयोरनुमतिर्देवता । हे अनुमते, त्वमनुमन्यासै अनुमन्यस्वास्मदुक्तमवधारयस्व । किं तदित्याह - नोऽस्माकं शं च शमेव, कृधि कुरु, च पुनः, नोऽस्माकं क्रतवे संकल्पाय दक्षाय तत्समृद्धये नोऽस्मान् हिनु गमय, नोऽस्माकमायूंषि प्रतारिषः प्रवर्धय च । इदिति निपातः पादपूरणः । मन्यासै, ' वैतोऽन्यत्र ' ( पा ० सू ० ३।४।९ ६ ) इत्यैकारः । क्रत्वे, गुणाभावे यणादेशः । तारिषः, ' सिब्बहुलं छन्दसि द्विक्तव्यः ' ( पा ० सू ० ३।४१३४, वा ० १ ) इति वृद्धि: । प्रपूर्वस्तर तिर्वृद्वयर्थः । अध्यात्मपक्षे – मनआदीनि बाह्यान्यान्तराणि च करणानि प्रवर्तमानान्यनुमन्यत इव या सानुमतिः, अखण्डचिद्रूपा परा संविदेव, ' उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वर: ' ( भ ० गी ० १३।२२ ) इति गीतोक्तेः । अनुमते त्वमिदमनुमन्यासै अवबुद्धय । शेषं पूर्ववत् । दयानन्दस्तु - ' हे अनुमते सभापते विद्वन्, त्वं यच्छ्मनुमन्यासे तेन युक्तान् नस्कृधि । क्रत्वे दक्षाय नो हिनु न आयूंषि च प्रतारिषः ' इति, तदपि यत्किञ्चित् राज्ञो बुद्धयनुसारेण विदुषामप्रवृत्तेः, ' तदेतत् क्षत्रस्य क्षेत्रं यद्धर्मः ' इत्युक्तिविरोधात् । न चायुषः पूरकत्वं तस्य संभवति । प्रकृतेऽनुमतिशब्देन देवताविशेषस्यैव सम्बोधनीयत्वात् ॥ ८ ॥
अन॑ न॒ऽद्यान॒मतिय॒ज्ञं दे॒वेषु॑
मन्यताम् ।
अ॒ग्निश्च॒ हव्य॒वाह॑नो॒ भव॑तं दाशुषे॒ मम॑ः ॥ ९ ॥
मन्त्रार्थ - यह अनुमति देवी और हवि को देवताओं तक पहुँचाने वाले अग्निदेव! अब हमारे यज्ञ को देवताओं में प्रतिष्ठित होने की अनुमति दें, हविदाता यजमान के लिये सुखरूप हों ॥। ९ ॥ अद्यास्मिन् दिवसे, अनुमतिर्नोऽस्माकं यज्ञं देवेषु यज्ञियेष्वनुमन्यताम्, अग्निश्च यज्ञं देवेषु । भवतम् कीदृशोऽग्निः भवता-? हव्यवाहनः हविषां वोढा । किञ्च दाशुषे हवींषि दत्तवते यजमानाय मयः सुखरूपौ अनुमत्यग्नी ३।२।६६ ) इति वहेयुट् । मिति पुरुषव्यत्ययः । हव्यं वहतीति हव्यवाहनः, ' हव्येऽनन्तः पादम् ' ( पा ० सू ० दाशुषे, ' दाश्वान्साह्वान् ' ( पा ० सू ० ६ । १ । १२ ) इति साधुः । अध्यात्मपक्षे -- अनुमतिः पूर्वोक्तोऽग्निर्हव्यवाहनो दाशुषे मये मयो सुखकरौ भवताम्, उपाधिभेदेन परमात्मनोऽपि भेदवत्त्वात् । दयानन्दस्तु - ' योऽनुमतिरद्य देवेषु नो यज्ञमनुमन्यताम्, सहव्यवाहनोऽग्निश्व युवां दाशुषे मयः सुखानां, कारिणौ भवतम् ' इति, तदपि न, सर्वत्र मुख्यार्थत्यागगौणार्थस्वीकरणाभ्याम् । यज्ञः सुखानुगुणो व्यवहारः अग्निः पावकस्तेजस्वी तज्ज्ञो वेति स्पष्टमेव गौणार्थाङ्गीकारः ॥ ९ ॥
पृष्ठ 484
पाठ पढ़ें पाठ छिपाएँ
म ० १०-११ ] वेदार्थ पारिजातभाष्यसहिता
सिनवाल पृथ॑ष्टुके या दे॒वाना॒मसि॒ स्वसा॑ ।
ज॒षस्य॑ ह॒व्यमाहु॑तं प्र॒जां देवि विदिति नः ॥ १० ॥
१०१ मन्त्रार्थ - हे सारी कामनाओं को पूरा करने वाली चतुर्दशीयुक्त अमावास्या की अभिमानिनी सिनीवाली देवी, आप देवताओं की भगिनी हो । हमारी दी हुई आहुति को प्रीतिपूर्वक ग्रहण करो । हे देवी 1, आप हमें संतान प्राप्ति का सुख प्रदान करें ॥ १० ॥
सिनीवाली देवता । हे सिनीवालि, हे पृथुष्टके, स्तुकं केशभारः स्तुतिः कामो वा । हे पृथुसंयमितकेशभारे महास्तु पृथुकामे, त्वं देवानां स्वसा भगिनी असि सा त्वमाहुतं हव्यं जुषस्व प्रीत्या सेवस्व । हे देवि, नोऽस्मभ्यं प्रजां च दिदिदि दिश अतिसृज देहि । अध्यात्मपक्षे - हे सिनीवालि देवि 1 त्वं देवानां स्वसा भवसि सर्वदेवात्मकस्य कृष्णस्य विन्ध्यवासिनी भगिनीरूपेणाविर्भूता, ' नन्दगोपगृहे जाता यशोदागर्भसंभवा । ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥ ' ( दु ० स ० ११४२ ) इत्युक्तेः । दयानन्दस्तु - हे सिनीवालि पृथुष्टके देवि विदुषि कुमारि जुषस्व नः प्रजां दिदिड्ढि दिश देहि ' इति, तदपि यत्किञ्चित्, भगिनीत्यनुक्तेः, सा च कथं प्रेमबद्धा, कथं च बलकरी? निर्मूलमेव ॥ १० ॥
पञ्च॑ न॒द्यः सर॑स्वती॒मदि॑ W सर॑स्वती॒ तु प॑ञ्चधा सो या त्वं देवानां स्वसासि सा हव्यमाहुतं पत के कति च देवाः कुत्रत्यास्तेषां च का कीदृशी आहुतं पतिमित्यादि सर्वमपि कल्पनाजालं
यन्ति॒ सनी॑तसः ।
देशेऽभ॑वत्स॒रत् ॥ ११ ॥
मन्त्रार्थ -- समान प्रवाह वाली पांच नदियाँ सरस्वती को ही प्राप्त होती हैं । वह सरस्वती ब्रह्मर्षि देश में पाँच प्रवाहों में प्रकट हुई है ॥ ११ ॥
सरस्वतीनदीदेवत्या । या दृषद्वतीशतद्रुचन्द्रभागाविपाशेरावत्याख्याः पञ्च नद्यः सरस्वतीमपियन्ति सरस्वतीं लयं गच्छन्ति । कीदृश्यस्ताः? सस्रोतसः समानो स्रोतो यासां ताः, तुरवधारणे । सा उ सैव सरस्वत्येव पञ्चधा देशे सरितः सस्रोतसः पञ्चापि स्वनामानि त्यक्त्वा सरस्वत्येवाभवत् । तस्यां सारस्वतानि सत्राणि भवन्ति । इदानीं तु शतद्रवादयः स्वेन स्वेन रूपेणोपलभ्यन्ते । अध्यात्मपक्षे - सरस्वती जिल्ह्वानुगता नाडी सरस्वती । सरस्वत्याश्चालनेन स्वयं चलति कुण्डली, अन्याश्च सस्रोतस इडापिङ्गलाद्यास्तत्रैवापियन्ति । सैव तु पञ्चधाऽभवत् । दयानन्दस्तु - ' मनुष्यैः सस्रोतसः पञ्च नद्यो यां सरस्वतीमपियन्ति सा उ सरित् सरस्वती इत्यादिव्याख्यानस्य देशे पञ्चधा त्वभवदिति विज्ञेयम् ' इति, तदपि न, स्रोतः शब्दस्य मनोऽर्थत्वे पञ्च पञ्च ज्ञानेन्द्रियवृत्तय तु षड्-निर्मूलत्वात् । न च सरस्वती वाग्रूपा स्वस्थाने पञ्चधा भवति । शब्दादिपञ्चविषयप्रतिपादकत्वेन तत्त्वे विशतित्वप्रतिपादकत्वेषविशतिधा भवेत् ॥ ११ ॥
पृष्ठ 485
पाठ पढ़ें पाठ छिपाएँ
१०२ शुक्लयजुर्वेदसंहिता [ अ ० ३४
त्वम॑ग्ने प्रथ॒मो मङ्गरा ऋषि॑र्दे॒वो दे॒वाना॑मभवः शिवः सखा॑ ।
तव॑ व्र॒ते क॒वयो॑ विद्य॒नाय॒सोऽयन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥ १२ ॥
मन्त्रार्थ - हे अग्निदेव, आप यजमानों के सुखदाता द्योतमान कल्याणरूप देवताओं के मुख्य सखा हैं । आपको सर्वप्रथम अंगिरा ऋषि ने देखा है । आपकी ही कृपा से कर्म के प्रवृत्त होने पर क्रान्तदर्शी विदितकर्मा मरुद्गण आयुधों से शोभायमान हुए हैं ॥ १२ ॥
चतस्र आग्नेय्यः, द्वे जगत्यौ, अन्ये त्रिष्टुबनुष्टुभौ । हे अग्ने, त्वं प्रथम आद्योऽङ्गिरा ऋषिरभवः, त्वं प्रथमो देवो देवानामभवः । शिवः कल्याणः सखा मित्रभूतोऽसि । यद्वा - हे अग्ने, त्वं देवानां प्रथमः सखा अभवः, भूतोऽसि । किंभूतोऽसि? अङ्गिराः, अङ्गिरा ऋषिमन्त्रद्रष्टा, अङ्गानां रसो वा अङ्गिराः, अथवा अङ्गिभ्य आत्मभ्यो यजमानेभ्यो राति सुखमित्यङ्गिराः । देवो द्योतमानः शिवः कल्याणरूपः । किञ्च, तव व्रते कर्मणि वर्तमाने मरुतो अजायन्त । कीदृशा मरुतः? कवयः क्रान्तदर्शनाः, विद्मनापसः, अप इति कर्मनाम ( निघ ० २।१।१ ), विद्मना विदितानि अपांसि कर्माणि यैस्ते विद्मनापसः, विदितकर्माण इत्यर्थः । पुनः कीदृशाः? भ्राजदृष्टयः, भ्राजन्त्यः शोभमाना ऋष्ट्य आयुधानि येषां ते तथोक्ताः, शत्रुघातकत्वात् । वेत्तेः कर्मणि मनिन् - प्रत्यये ततो विभक्तेराकारः, तस्य चालुक्, विद्मनापसः । अध्यात्मपक्षे - हे अग्ने परमेश्वर, त्वं देवानां प्रथमो मुख्यः सखा अभवः, देवानां शत्रुघातकत्वाद् हितकारित्वाच्च । त्वं कीदृश:? अङ्गिरा अङ्गिभ्यो देहधारिभ्यो राता सुखानाम् ऋषिः, अतीन्द्रियागां द्रष्टा, देवो द्योतमानः स्वप्रकाशः शिवः कल्याणरूपः, तव व्रते कर्मणि सृष्टौ कवयः क्रान्तदर्शिनः, विद्मनापसो विदितकर्माणः, भ्राजदृष्टयः शोभनायुधाः, मरुतोऽजायन्त संजाताः । कार्यमाहात्म्येनापि कारणमाहात्म्यं व्यज्यते । दयानन्दस्तु – ' हे अग्ने, यतस्त्वं प्रथमोऽङ्गिराः, देवानां देवः शिवः सखा ऋषिरभवस्तस्मात्तव व्रते विद्मासनानि विदितानि रपांसि कर्माणि येषां ते भ्राजदृष्टयः कवयो मरुतो अजायन्त ' इति, तदपि न, अवयवानां भौतिकत्वेन परमेश्वरस्य तत्साररूपत्वापत्तेः । न च तत्सम्भवति, परमेश्वरस्याभौतिकत्वात् ॥ १२ ॥
त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑म॒घान रक्ष त॒न्व॒श्च वन्द्य ।
ऋ॒ता तोकस्य॒ तन॑यो॒ गवा॑म॒स्यनि॑िमे॒षं रक्ष॑माण॒स्तव॑ व्रते ॥ १३ ॥
मन्त्रार्थ - हे द्योतमान स्तुतियोग्य अग्निदेव, आपके लिये यज्ञ कर्म में प्रवर्तमान धनवान् यजमानों के और हम ऋत्विजों के शरीरों को अपनी रक्षाशक्ति से रक्षित कीजिये । सावधानी से रक्षा कार्य में संलग्न आप अपने पुत्र यजमान के पुत्रों की इन्द्रियों की रक्षा कीजिये ॥ १३ ॥
रक्षणार्थे मन्त्रः । हे अग्ने, हे देव द्योतमान, हे वन्द्य स्तुत्य, तव व्रते ते कर्मणि वर्तमानान् मघोनो धनवतो यजमानान् तव पायुभि: पालनसाधनै रक्ष । नोऽस्माकं तन्वः शरीराणि च रक्ष । यतस्त्वमनिमेषं सावधानं रक्षमाणः पालयन् तोकस्य पुत्रस्य तनये तनयस्य पौत्रस्य विभक्तिव्यत्ययः, गवां च त्राता रक्षकोऽसि भवसि - इति महीधराचार्यव्याख्याप्रकारः । उब्बटाचार्यस्तु - विषमोऽयं मन्त्र इति साध्याहारो व्याख्यायते । हे अग्ने, त्वं नोऽस्माकम् आश्रय इति शेषः । अथैवं सति हे देव पायुभिः पालनैधैर्यावलम्बिभिः पालिताः सन्त आस्महे । किव मघोनो धनानि रक्ष तन्वः शरीराणि रक्ष, हे वन्द्य वन्दनीय | कस्मात्
पृष्ठ 486
पाठ पढ़ें पाठ छिपाएँ
म ० १३-१४ ] वेदार्थ पारिजातभाष्यसहिता १०३ पुनस्त्वमेवमुच्यसे? यतः स्वभावत एव तोकस्य पुत्रस्य तनये तनयस्य पौत्रस्य गवां च त्रातासि । कथम्? अनिमेषं प्रमादमकुर्वन् रक्षमाणः । एवं चेद् मृदुहृदयतमोऽसि । तव व्रते तव कर्मणि वयं स्याम, अन्या देवताः परित्यज्य त्वामेव परिचराम इत्यभिप्रायः । अध्यात्मपक्षे - हे अग्ने परमेश्वर, हे देव स्वप्रकाशपरमेश्वर हे वन्द्य सुरासुरसर्वप्राणिवन्दनीय तव व्रते त्वदाराधनलक्षणे कर्मणि वर्तमानान् मघोनो ज्ञानवैराग्यादिधनयुक्तान् भक्तान् रक्ष पालय । नोऽस्माकं तन्वः शरीराणि त्वदुपासनसाधनत्वाद्रक्ष । हे भगवन्, त्वमनिमेषं निमेषोन्मेषावपि परित्यज्य निर्निमेषं सावधानः सन् पायुभिः पालनसाधने रक्षमाणः सन् तोकस्य पुत्रस्य तनये तत्तनयस्य पौत्रस्य गवां च त्राता रक्षकोऽसि । स्वभावतस्तस्मात् त्वामेव भजाम इत्यर्थः । दयानन्दस्तु - ' हे अग्ने देव, तव व्रते वर्तमानान् मघोनोऽस्मान् तव पायुभिस्त्वं रक्ष नस्तन्वश्च रक्ष । हे वन्द्य, यतस्त्वमनिमेषं रक्षमाणः स्तोकस्य तनये गवां च त्रातासि, तस्मात् सत्कर्तव्योऽसि ' इति, तदपि यत्किञ्चित्, राजपक्षेऽसंगतेः, राज्ञो रक्षकत्वेऽस्य निःसीमत्वायोगात् । अन्यत्तु महीधराद्यनुकरणमेव ॥ १३ ॥
उ॒त्ता॒नाय॒मव॑ भरा चिकित्वान्त्स॒द्यः प्रवो॑ता॒ वृष॑णं जजान ।
अ॒रुषस्त॑यो॒ रुश॑दस्य॒ पाज॒ इर्डायास्पुत्रो व॒युने॑ऽजनिष्ट ॥ १४ ॥
मन्त्रार्थ -- पृथ्वी का पुत्र, हिसारहित, ऊँची ज्वालाओं वाला अग्निदेव प्रज्ञान के निमित्त प्रकट हुआ है । इसके चेतनावान् प्रदीस बल को उत्तान अरणि में भरना चाहिये । यह अरणि कामनाओं को पूरा करने में समर्थ अग्नि को शीघ्र प्रकट करती है ॥ १४ ॥
योऽयमग्निः, अरुषस्तूपः, रोषतीति रुषो हिंसकस्तद्भिन्नोऽरुषोऽहिंसकः स्तूपो ज्वालोच्छ्रायो ज्वालामूर्तिर्वा वयुने प्रज्ञाने कर्तव्ये, अजनिष्ट यस्य स अरुषस्तूपः ' ष्टु उच्छ्राये ', यश्चाग्निः, इडायाः पृथिव्याः पुत्रः, यश्च जातः । यस्याग्नेः रुशत् पाजो दीप्तबलं तमग्निमुत्तानायामरण्यां जातमवभरा, यद्वा अस्याग्ने रुशद् दीप्तं पाजो बलमरण्यामवाचीनं हर । चिकित्वात् अरण्या वीर्यं जानानः । किं तद्वीर्यमिति चेत्, तत्राह -- सद्यः प्रवीता वृषणं जजान सद्य एव प्रवीता कामिता सती वृषणं कर्मफलवर्षितारं युवानं सर्वकर्मक्षमर्माग्नि जजान जनयति, ' छन्दसि लुलिङ्गिलट: ' ( पा ० सू ० ३ | ४ | ६ ) | ' अवभरा ' इत्यत्र ' द्वयचोऽतस्तिङः ' ( पा ० सू ० ६ । ३ । १३५ ) इति दीर्घः । अध्यात्मपक्षे -- योऽयमग्निरग्नेरग्निः श्रीरामः, ' सूर्यस्यापि भवेत् सूर्य अग्नेरग्निः ' इति वचनात् । अरुष-स्नूपोऽहिंसकचिन्मय प्रदीप्तिसंघातमूर्तिः यस्यास्य रुशत् पाजो दीप्तं बलम्, यश्च इडाया ईड्यायाः, पृषोदरादित्वाद् ह्रस्वादिकम्, कौशल्यायाः पुत्रः, यश्च वयुने भक्तानां प्रज्ञाननिमित्तमजनिष्ट, ' सत्त्वं न चेद्धातरिदं वपुर्भवे -द्विज्ञानमज्ञानभिदापमार्जनम् ' ( १०।२।३५ ) इति भागवतोक्तेः । यदि विशुद्धसत्त्वमयं भगवत्स्वरूपं नाविर्भवेत्तदा अज्ञानभिद्विज्ञानं संसारान्मार्जनं नाशमेव आप आप्नुयात् भगवद्विग्रहध्यानेनैव तादृशविज्ञानस्य सम्भवात् । तर्माग्नि परमात्मानम्, उत्तानायाम् उदुत्कृष्टं ब्रह्मव्याप्तायां स्निग्धायां ब्रह्माकारवृत्ती आभर समन्ताद्धारय । चिकित्वान् जानन् तदुत्तानाया ब्रह्माकाराया वृत्तेर्वीयं प्रभावं जानन् । किं तद्वीर्यमिति चेत्तत्राह - सद्यः प्रवीता वृषणं जजान । या च प्रवीता कामिता सेविता सती सद्यस्तक्षणमेव वृषणं स्वर्गापवर्गवर्षिणमग्नि भगवन्तं जजान जनयति प्रादुर्भावयति, ' त्वं भावयोग परिभावितहृत्सरोजे आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ' ( ३ | ९ | १० ) इति भागवतोक्तेः ।
पृष्ठ 487
पाठ पढ़ें पाठ छिपाएँ
१०४ शुक्लयजुर्वेदसंहिता [ अ ० ३४ दयानन्दस्तु – हे विद्वन्, यथा चिकित्वान् प्रवीता विद्वानुत्तानायां वृषणं जजान अरुषस्तूप इडायाः पुत्रो वयुनेऽजनिष्टास्य रुशत्पाजश्वाजनिष्ट तथा सद्योऽवभर ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात्, वृषणस्य यज्ञार्थताऽपि निर्मूलैव, अभीष्टफलवर्षित्वस्येश्वरादावपि सम्भवात् । त्वद्रीत्या तु यज्ञस्य न फलदातृत्वम्, किन्तु केवलवायुशोधकत्वमेव । न चेडापदस्य प्रशंसितायां स्त्रियां शक्तिः, प्रमाणाभावात् ॥ १४ ॥
इडायास्त्वा पदे वयं नाभा पृथि॒व्या अधि ।
जातवेदो निधमाग्ने हव्याय॒ वोढवे ॥। १५ ॥
मन्त्रार्थ -- - हे सर्वज्ञ अग्निदेव, पृथ्वी की देवयजन नामक नाभि में, पृथ्वी के उत्तरवेदी स्थित स्थान में हम आपको हव्य धारण के करने लिये स्थापित करते हैं ॥ १५ ॥
हे जातवेदः! जातप्रज्ञान अग्ने, इडायाः पृथिव्याः, पदे स्थाने देवयजनाख्ये, पृथिव्या नाभौ अधि उपरि उत्तरवेद्या मध्ये उपरि वयं त्वा त्वां निधीमहि स्थापयामः, उत्तरवेद्यां नाभिका भवतीति श्रवणात् । किमर्थम्? व्याय वोढवे हविषो वहनाय प्रापणाय विभक्तिव्यत्ययः । ' तुमर्थे सेसेनसे ' ( पा ० सू ० ३।४।९ ) इति तवैप्रत्ययः ' सहिवहो: ' ( पा ० सू ० ६ । ३।११२ ) इत्यकारः । अध्यात्मपक्षे – हे अग्ने परमेश्वर जातमात्रस्य वेदिन्, इडायाः पृथिव्याः पदे स्थाने देवयजनाख्ये पृथिव्या नाभौ उत्तरवेद्यां मध्ये त्वामाहवनीये रूपे स्थापयामः । किमर्थम्? हव्याय हव्यस्य प्रापणाय । परमेश्वरस्यैव हि यज्ञियाग्निरूपेणापि प्रादुर्भावः । स एव हविषां वोढा भवति, सर्वशक्तिमत्त्वात् । दयानन्दस्तु - हे ' जातवेदोऽग्ने, वयमिडायाः पदे पृथिव्या अधि नाभौ त्वां हव्याय वोढवे निधीमहि ' इति, तदपि न, अत्रापि मुख्यार्थत्यागे गौणार्थग्रहणे च बीजाभावात् । इडायाः प्रशंसितवाण्याः पदे प्रतिष्ठायामित्यप्यप-व्याख्यानं पूर्वापरविरुद्धं च क्वचित् प्रशंसिता स्त्री, क्वचित्तादृशी वाणीति स्वातन्त्र्यमूलकमेव सर्वम् ॥ १५ ॥
प्रम॑न्महे॒ शव॑सा॒नाय॑ शुषमा॑ ग॒षं गिर्वणसे अङ्गिर॒स्वत् । स॒व॒क्तिभि॑ः स्तुव॒त ऋग्मि॒यायाचा॑म॒र्कं न २५ विभू॑ताय ॥ १६ ॥
मन्त्रार्थ - हम ऋत्विकगण इन्द्र के बल को बढ़ाने के लिये त्रिवृत् आदि स्तोमों का पाठ करते हैं । बल की अभिलाषा वाले वेदवचन से स्तुति के इच्छुक, शोभन स्तुतियों का गान करने वाले, ऋचाओं का व्यवहार करने वाले, भक्ति - ज्ञान के अनुष्ठान से अथवा शूरता आदि से विख्यात यजमान के निमित्त हम अंगिरा वंश के ऋषियों के समान वेद-मन्त्रों का पाठ करते हैं ॥ १६ ॥
चतस्र ऐन्द्रयस्त्रिष्टुभः । इन्द्राय शवसानाय शवो बलमात्मन इच्छति शवस्यति यः स शवसानस्तस्मै बलमभिलषमाणाय गिर्वणसे गिरा स्तुत्या वनयति संभजयत्यात्मानमभिलषितदानात् स्तोतृभ्यः । सुवृक्तिभिः स्तुवते शोभनाभिः स्तुतिभिर्यजमानान् स्तौति यस्तस्मै । यथा - ' त्वमङ्ग प्रश ७ सिषो देवः शविष्ठ मर्त्यम् ' ( वा ० सं ० ६।३७ ) । ऋङ् मियाय ऋग्मयाय वेदमयाय, ' ऋच् स्तुतौ ' ऋग्मः स्तुतिस्तमर्हति यस्तस्मै स्तुतियोग्याय नरे नररूपाय विश्रुताय शौर्यवीर्यदानादिभिर्लब्धख्यातये वयं शुषं बलं बलहेतुम् आङ्गुषं स्तोम आघोषं स्तोमं त्रिवृदादिकं प्रमन्महे प्रजानीमः । अकं मन्त्रं च अर्चाम उच्चारयाम, धातूनामनेकार्थत्वेनार्चतिरत्रोच्चारणार्थः ।
पृष्ठ 488
पाठ पढ़ें पाठ छिपाएँ
म ० १६-१७ ] वेदार्थ पारिजात भाष्यसहिता १०५ अङ्गिरस्वद् अङ्गिरस इव, अङ्गिरोभिर्यथा स्तोमो ज्ञातो मन्त्रश्च पठितस्तद्वत् । शवसानः ' सुप आत्मनः क्यच् ' ( पा ० सू ० ३ ११८ ) इति क्यच् तदन्ताच्छानच् शन्, ' बहुलं छन्दसि ' ( पा ० सू ० २२४१३ ९ ) इति तस्य लुक, ' छन्दस्युभयथा ' ( ३ | ४ | ११७ ) इति शानचोऽप्यार्द्धधातुकत्वात् ' क्यस्य विभाषा ' ( पा ० सू ० ६ | ४ | ५० ) इति क्यचो लोपः । गिर्वणसे गीः शब्दोपपदाद् वनतेर्ण्यन्तादसुनि वनेर्घटादित्वेन मित्संज्ञत्वाद् हस्वत्वं णिचो लोपः, दीर्घाभाव छान्दसः । यद्वा स्वार्थे णिच् । गीभिरेनं देवा भजन्तीति गिर्वणास्तस्मै । ऋग्मियाय, मयडर्थे छान्दसो मियट् प्रत्यय:, यद्वा ' ऋच् स्तुतौ ' इत्यस्माद् भावे औणादिके मकि कुत्वे जश्त्वे च ऋग्मस्तमर्हतीति ऋग्मियः, अर्हार्थे घच् । नरे नृशब्दस्य के परे छान्दसो गुण इति महीधराचार्याः । अध्यात्मपक्षे – इन्द्राय परमेश्वराय श्रीरामाय शूषं बलहेतुम् आङ्गुषं त्रिवृदादिस्तोमं प्रमन्महे प्रजानीमः, अर्कं मन्त्रं च अर्चाम उच्चारयामः । कथमिव? अङ्गिरस्वद् अङ्गिरस इव । कीदृशाय? शवसानाय रावणा-दीनां समक्षं बलं लोकोत्तरमाविष्कुर्वते, गिर्वणसे देवगिरा स्तुत्या वनयति संभाजयति स्वात्मानमभिलषितदानात् स्तोतृभ्यो यस्तस्मै गीर्भियं देवं वनन्ति तस्मै वा अङ्गिरस्वते सुवृक्तिभिः शोभनाभिः स्तुतिभिः स्तौति यः स स्तुवन् तस्मै । श्रीरामो यज्ञे देवान् ब्राह्मणान् स्तौति, भक्तांच शोभनाभिः स्तुतिभिः स्तौत्येव । ऋग्मियाय ऋगादिवेदमयाय, वेदवेदार्थस्वरूपत्वात् । स्तुतिमयाय अर्चनीयाय वा नरे नृरूपाय दशरथापत्यरूपेण जाताय विश्रुताय शौर्यवीर्यदानयज्ञसेतुबन्धरामेश्वरस्थापनाभिः समुपलब्धख्यातये ते आङ्गषं स्तोमं प्रमन्महे, अकं मन्त्रमर्चा | दयानन्दस्तु - हे मनुष्याः, यथा वयं सुवृक्तिभिः शवसानाय गिर्वणस ऋग्मियाय विश्रुताय स्तुवते नरेऽङ्गिरस्वदाङ्गुषं शूषं प्रमन्महे, एतमर्कमर्चाम, तथैव तं प्रति यूयं वर्तध्वम् ' इति, तदपि न, संबोधनस्य निर्मूल-त्वात् । आङ्गुषपदमपि न विद्याशास्त्रबोधकम्, निर्मूलत्वात् । न च निघण्टुवचनं मूलम् तस्य पदनामत्वेऽपि विद्याशास्त्रपरत्वानुपपत्तेः ॥ १६ ॥
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गुष्यं शवसानाय॒ साम॑ ।
येना॑ नः॒ पूर्वे॑ पि॒तर॑ः पद॒ज्ञा अर्व॑न्तो अङ्गिरसो गा अवि॑न्दन् ॥ १७ ॥
मन्त्रार्थं – हे ऋत्विजों, आप लोग अपने महान् देवता इन्द्र के निमित्त उस महान् हवि को और स्तोम के हितकारी साम को समर्पित करें, जिस अन्न या साम के द्वारा हमारे पूर्व पितृगणों ने, ब्रह्मज्ञानियों ने स्तुति करते हुए वृष्टि, पृथ्वी, ज्योति, गौ और सूर्य की किरणों को पाया था ॥ १७ ॥
ये हविर्लक्षणेन साम्ना चार्चन्तः स्तुवन्तः सन्तः, नोऽस्माकं पूर्वे पितरः, पदज्ञाः पद्यते गम्यते तत्त्वदर्शिभिस्तत्पदं ये जानन्ति ते पदज्ञा आत्मयाथात्म्यवेदिनः गाः सूर्यकिरणान्, अविन्दन् लब्धवन्तः । सहि साम्नां लोकः, तत्साम प्रभरध्वम्, वो यूयं हे पुत्रपौत्रप्रपौत्राः, महे महते शवसानाय बलमभिलषमाणाय इन्द्राय महि महद् नमोऽन्नम् आङ्गष्यं आङ्गषाय हितं साम प्रभरध्वमुच्चारयत, प्रभरध्वं प्रहरतम्, समर्पयताम् । यूयमित्यर्थे व इत्यव्ययम् । अध्यात्मपक्षे -- - ये महे महते शवसानाय बलमाविष्कुर्वते इन्द्राय श्रीरामाय महि महद् नमोऽन्नं वो यूयं हे पुत्रादयः प्रभरध्वम्, आङ्गुष्यं साम चोच्चारयतम् । किं तत्? महद् अन्नं आगुष्यं नोऽस्माकं पूर्वे पितरः पदज्ञा आत्मयाथात्म्यज्ञा आङ्गिरसो येनान्नेन साम्ना चार्चन्तो गा आदित्यरश्मीन् अविन्दन् लेभिरे, स हि साम्नां लोकः, तत् साम प्रहरध्वमित्यर्थः । १४
पृष्ठ 489
पाठ पढ़ें पाठ छिपाएँ
१०६ शुक्लयजुर्वेदसंहिता [ अ ० ३४ पितरो येन महे शवसानाय दयानन्दस्तु - हे मनुष्याः, यथा पदज्ञा नोऽस्मानर्चतोऽङ्गिरसः, पूर्वे तदपि नः यत्किञ्चित् संबोधनस्य निर्मूल-वश्चाङ्गुष्यं साम गाश्चाविन्दन् तेन तेभ्यो यूयं महि नमः प्रभरध्वम् इत्यस्य ' इति व्याख्यानस्य निर्मूलत्वाच्च ॥ १७ ॥
त्वात् पितरः पालका ज्ञानिनोऽङ्गिरसः सर्वस्याः सृष्टेविद्याङ्गविद । हुच्छन्ति त्वा सो॒म्यासः सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयो॑सि तिति॑क्षन्ते अ॒भिश॑स्त॒ जना॑ना॒मिन्द्र त्वदा कश्च॒न हि प्र॑के॒तः ॥ १८ ॥
। सोम के सम्पादक ऋत्विक्-मन्त्रार्थ - हे इन्द्रदेव! कोई भी श्रेष्ठ और विशिष्ट ज्ञान आप से ही प्राप्त को देहाभिमान होता है से पृथक् करते हैं, विविध गण आपको ही चाहते हैं, सोम को अभिषुत करते हैं अथवा आत्मप्रतिबिम्ब ॥ अन्नों को धारण करते हैं और मनुष्यों के दुर्वचनों को सहते हैं ॥ १८ मित्रभूता ब्राह्मणाः । हे इन्द्र, सोम्यासः सोमसंपादिनः त्वा त्वामिच्छन्ति । के ते? सखायः ये समानख्याता ब्राह्मणाः शुश्रुवा सोनूचानास्ते देवानां विप्राणां च सखित्वं श्रुतिषु प्रसिद्धम्, ' द्वया वै देवा अहैव देवा अभिषुण्वन्ति अथ सोमलताम्, दधति च प्रयांसि, मनुष्यदेवा ' इत्युक्तेः । केन प्रकारेण इच्छन्ति? सुन्वन्ति सोमम् अभिशस्ति दुर्जनानां दुर्वचनानि सहन्ते प्रयांसि अन्नानि हविर्लक्षणानि धारयन्ति । किच, तितिक्षन्ते हे इन्द्र त्वत् त्वत्तः सकाशात्, कश्चन मनोवाक्कायसंयताः क्षान्तिपरायणा भवन्तीत्यर्थः । अथैवमिच्छतां आसमन्ताद्भावेनात्यर्थं भवति, तस्मात् कोऽपि लोकोत्तरः, चनशब्दोऽप्यर्थः " प्रकेतः प्रज्ञानविशेषः, हि यतः । मखायो विप्राः सोम्यासः सोमं सुन्वन्तः प्रयांसि समर्पयन्तस्त्वामिच्छन्तीत्यर्थः , अध्यात्मपक्षे – हे इन्द्र श्रीराम! त्वत् त्वत्तः सकाशात् कश्चन कोऽपि विप्रास्त्वामिच्छन्ति प्रकेतो ब्रह्मात्मसाक्षात्काररूपः , सोमं सुन्वन्ति हियत आ अत्यर्थं भवति, तस्मात् सोम्यासः सोमसम्पादिनः सखायो कुर्वन्तः मनोवाक्कायैः संयता भवन्ति । प्रयांसि दधति, अभिशस्त तितिक्षन्ते त्वत्साक्षात्कारप्रेप्सया सोमादियागं दधति जनानामभिशस्तिमातितिक्षन्ते दयानन्दस्तु – ' हे इन्द्र, ये सोम्यासः सखायः सोमं सुन्वन्ति । तस्मात् प्रयांसि त्वामिच्छन्ति ' इति, तदपि न, इन्द्रपदस्य च, नस्त्वं सततं सत्कुरु । हि यतः प्रकेतः कश्चन नास्ति । ' प्रयांसि कमनीयानि विज्ञानादीनि ' सभाध्यक्षार्थत्वे मानाभावात् । अभिषवार्थस्य सुनोतेर्निष्पादनार्थत्वायोगात् इत्यपि च निर्मूलम्, धात्वर्थाननुरोधात् ॥ १८ ॥
न ते॑ दू॒रे प॑र॒मा चि॒द्रजास्या तु प्र याहि हरिवो॒ हरि॑भ्याम् ।
स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा युक्ता ग्रावा॑णः समिधा॒ने अ॒ग्नौ ॥ १ ९ ॥
सेक्ता के निमित्त हमने यह प्रातःसवन मन्त्रार्थ - हे अश्ववान् इन्द्र, अग्नि के प्रज्वलित होने पर आपके जैसे अचल पर करने में लगे हैं । इस कारण अश्व
आदि कृत्य सविधि पूरे किये हैं । हम आपके लिये प्रस्तर पर सोम का अभिषव ९ ॥
भी आपके लिये दूर नहीं है ॥ १
आरूढ़ हो शीघ्र यहाँ आइये । इन अश्वों के कारण बहुत दूर का स्थान स्वर्गात् कथमतिदूरे हे हरिवः! हरी हरितवर्णावश्वौ यस्य तत्सम्बुद्धौ आ प्रयाहि विप्रकृष्टान्यपि तु तूर्णम् । ननु रजांसि स्थानानि दूरे न मयाऽऽगन्तव्यमिति चेत्तत्राह - नहि ते दूरे परमा ते तव परमा परमाणि प्रयाहीत्यर्थः । ननु किमर्थमागन्तव्यमिति चेत्, चित् सन्ति, चिच्छब्दोऽप्यर्थः, अतिदूरमपि ते निकटमेवात आ
पृष्ठ 490
पाठ पढ़ें पाठ छिपाएँ
म ० १ ९ -२० ] वेदार्थपारिजातभाष्यसहिता १०७ स्थिराय दृढसौहृदाय वृष्णे सेक्त्रे फलवर्षित्रे तुभ्यम् इमा इमानि सवना प्रातः सवनादीनि कृता कृतानि, ग्रावाणः पाषाणविशेषाः, युक्ता योजिता अभिषवकर्मणि, समिधाने समिध्यमानेऽग्नौ आहवनीयाख्ये आहुतयो होष्यन्ते । तु-शब्दो हेत्वर्थः । तस्माद् हरिभ्यामश्वाभ्यामागन्तव्यम् । अध्यात्मपक्षे - हे हरिवः, विविधैर्हरिभिर्वानरभटैर्युक्त! हरिभ्यां हनुमदङ्गदाभ्यां सहेहागन्तव्यम् । नहि विप्रकृष्टान्यपि रजांसि स्थानानि तव दूरे चिद् भवन्ति, दूरस्थमपि स्थानं तव निकटमेवेत्यर्थः । स्थिराय दृढसौहृदाय वृष्णे फलवर्षित्रे इमानि सवना प्रातः सवनादीनि कृता कृतानि । अन्यत् सर्वं पूर्ववत् । दृढसौहार्द -मभिलषिताधिक दातृत्वं रामायणादौ श्रीरामस्य स्पष्टमेव वर्णितम् । दयानन्दस्तु - ' हे हरिवो राजन्! यथा समिधानेऽग्नौ इमा सवना कृतास्तु ग्रावाणो युक्ता भूत्वा गच्छन्ति, तथा स्थिराय वृष्णे हरिभ्यामाप्रयाहि । एवं कृते परमाचिद्रजांसि दूरे न भवन्ति ' इति, तदपि न, हरिद्वर्णाश्वेषु हरिपदप्रयोगेण हरिव इत्यस्य राजार्थकत्वायोगात् । ग्रावाणी गर्जनाकर्तार इत्यप्युपहासास्पदम्, सवनप्रसङ्गेऽभि-षवसाधनभूतानां ग्राव्णां स्थाने मेघग्रहणासङ्गतेः ॥ १ ९ ॥ अषढं युत्सु पृत॑नास॒ परि॑ स्व॒षा॑म॒प्स ं
व॒जन॑स्य गो॒पाम् ।
भ॒रे॒ष॒जां स॑क्षि॒तिं सु॒श्रव॑सं॒ जय॑न्त॒ त्वामनु॑ मदेम सोम ॥ २० ॥
----मन्त्रार्थ - हे सोम, युद्धों में अनभिभूत, अत्यन्त उत्कृष्ट सेनाओं के पालक, द्युलोक से भी जल की वर्षा करने वाले, बलों के रक्षक, संग्रामों में जयशील, श्रेष्ठ निवास वाले, श्रेष्ठ कीर्तिमान् आपका हम अनुमोदन करते हैं || २० || E चतस्रः सोमदेवत्या स्त्रिष्टुभः । हे सोम! जयन्तं परसैन्यानि जयन्तं त्वां दृष्ट्वा उत्साद्यन्त इति दृष्ट्वा त्वा त्वामनु वयं मदेम हृष्टाः स्याम । कीदृशं त्वाम्? युत्सु युद्धेषु, अषाढमषोढमसहनमनभिभूतम्, सहतेऽसौ साढः, न साढोऽषाढस्तं वा । पृतनासु सेनासु पप्रितारं पालयितारम् । ' पू पालनपूरणयोः ' इत्यस्यैवैतद्रूपम्, न तु ' प्रा पूरणे ' इत्यस्येत्युव्वाचार्याः । स्वर्षाम्, स्वदिवं सनोति संभजते वा स स्वर्षास्तम्, अप्साम् अपो जलानि सनोतीति सम्भजते वा स अप्सास्तं वृजनस्य बलस्य गोपां रक्षकम् । भरेषुजां संग्रामेषु जेतारम्, जयतेरेतद्रूपं न जानातेः । सुक्षितिं सुनिवासम् । सुश्रवसं कल्याणकर्मकर्तृत्वेन प्रसिद्धम्, शोभनं श्रवः कीर्तिर्यस्य स सुश्रुवास्तम् । अषाढमित्यत्र सहेः क्तः, ढत्वम् ( पा ० सू ० ६ | ३ | १११ ), धत्वम् ( पा ० सू ० ९ २ | ४० ), ष्टुत्वम् ( पा ० सू ० ८ | ४ | ४१ ), ' ढो ढे लोप: ' ( पा ० सू ० ८ | ३ | १३ ), ' ठूलोपे पूर्वस्य दीर्घोऽण: ' ( पा ० सू ० ६।३।१११ ), बाहुलकात् ' सहिवहोरोदवर्णस्य ' ( ६ | ३ | ११२ ) इत्यस्याप्रवृत्तिः । षत्वं छान्दसम् । पत्रिमित्यत्र ' प्रीङ् पालनपूरणयोः ', ' आहगमहन ' ( पा ० सू ० ३। २ । १७१ ) इति किः, द्वित्वादिः । स्वर्षामित्यत्र स्वः पूर्वात् सनो विट्, ' विड्वनोरनुनासिकस्यात् ' ( पा ० सू ६ ४ ४१ ), एवमप्सामित्यत्र । गोपायतीति गोपाः क्विप्, अतो लोपः, यलोपः । भरेषुजामित्यत्र भरेषु संग्रामेषु जयति शत्रू निति ' हलदन्तात् सप्तम्या ' इत्यलुक्, जयते रौणादिको डाप्रत्ययः । मदेमेत्यत्र ' मदी हर्षे ' लिङ, व्यत्ययेन शप् -- इति महीधराचार्याः । अध्यात्मपक्षे - हे सोम! उमया सहितो देवः सोमः साम्बसदाशिवः । जयन्तं त्रिपुरादिकं जयन्तं त्वां दृष्ट्वा वयं मदेम हृष्टाः स्म । कीदृशं त्वाम्? युत्सु अषाढमनभिभूतम् । साम्बशिवस्य परमेश्वरत्वादष्टमूर्तित्वात् स्वर्षात्वमप्सात्वं चोपपद्यते - ' त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहस्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ' ( महिम्नस्तवे, २६ ) इत्युक्तेः । शेषं पूर्ववत् ।