वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 491–500

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 491–500

पृष्ठ 491

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 491 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०८ शुक्लयजुर्वेद संहिता [ अ ० ३४ दयानन्दस्तु – ' हे सोम राजन् सेनापते वा, वयं यं युत्स्वषाढं पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपां भरेषु सुक्षित सुश्रवसं जयन्तं त्वामनुमदेम ' इति, तदपि न शाब्दन्यायातिक्रमणात् । बीजमन्तरा गौणार्थाश्रयणेन शाब्दक्षेत्रेऽराजकतैवोत्पाद्यते । पदार्थनिरूपणेऽपाढं सोडुमर्हमित्युक्तम्, भाषाव्याख्यानेऽसह्यमित्युक्तम् । सुक्षितिः शोभना क्षितिर्यस्येति समासे राज्यं कुतो गृहीतमित्यनुक्तेः ॥ २० ॥

सोमो॑ धे॒नुं सोम॒ अव॑न्तमाशु सोमो वीरं कर्म॑ण्यं ददाति ।

सादन्यं विश्यं स॒भेये॑ पितश्रव॑णं यो ददा॑शदस्मे ॥ २१ ॥

मन्त्रार्थ -- जो यजमान सोम के लिये हवि देता है, उसको सोम रूप जैसा है । सोम कर्म में कुशल, गृह कार्य में कुशल, यज्ञ में कुशल, सभा के देता है ॥ २१ ॥

ईश्वर धन देते हैं । सोम शीघ्रगामी घोड़ों के योग्य और पिता के आज्ञाकारी वीर पुत्र को सोमो देवस्तस्मै शीघ्रं धेनुं ददाति, सोम एवाशु शीघ्रमर्वन्तमश्वम्, सोमश्च तस्मै वीरं पुत्रं ददाति । कीदृशं वीरम्? कर्मण्यं कर्मणि साधुं लौकिकश्रौतस्मार्त कर्मदक्षम्, सादन्यं सदने गृहे च साधुम, विदथ्यं विदथे यज्ञे साधुम, सभेयं सभामर्हतीति सभेयस्तम्, पितृश्रवणं पितरं शृणोति यः स तम् पितुरनुशासने स्थितम्, विनीत-मित्यर्थः । कस्मै सर्वमेतद्ददाति? यो यजमानः, अस्मै सोमाय हविर्ददाशद् ददाति । कर्मण्यण्, ' तत्र साधुः ' ( पा ० सू ० ४ | ४ | ९ ८ ) इति यत् । सभेयम्, ' ढरछन्दसि ' ( पा ० सू ० ४ | ४ | १०६ ) इति सभायाः साध्वर्थे ढप्रत्ययः, तस्येयादेशः ( पा ० सू ० ७ | १ | २ ) । ददाशत्, दाशृ दाने, ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७६ ) इति शपः श्लुर्द्वित्वम् । ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३ | ४ | ९ ७ ) इति यलोपः ' लेटो s डाटा ' ( पा ० सू ० ३ | ४ | ९ ४ ) इत्यडागम इति महीधराचार्यः । अध्यात्मपक्षे उमया सहितः सोमः साम्ब सदाशिवः । शेषं पूर्ववत् । दयानन्दस्तु - ' यो मनुष्योऽस्मै सोमायोचितं ददाशत्तस्मै सोमो धेनं ददाति । सोमोऽर्वन्तमाशु ददाति । सोमः कर्मण्यं सादन्यं विदथ्यं पितृश्रवणं सभेयं वीरं च ददाति ' इति, तदपि यत्किञ्चित् राजादियाच्ञादिवर्णनस्य निष्फलत्वेन वेदार्थत्वाभावात् । न च राजा सर्वेभ्यो याजकेभ्यो धेनुमर्वन्तं च दातुं शक्नोति, पितृश्रवण-वीरादिदाने तु राज्ञोऽल्पशक्तेर्जीवस्य सामर्थ्यमेव न भवति ॥ २१ ॥

त्वमिमा ओष॑धीः सोम विश्वास्त्वमपो अजनय॒स्त्वं गाः ।

त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तम ववर्थ ॥ २२ ॥

मन्त्रार्थ - हे सोम! तुमने इन सब औषधियों को उत्पन्न किया, तुमने जल को उत्पन्न किया, तुमने गायों को उत्पन्न किया, तुमने विस्तीर्ण अन्तरिक्ष का चारों तरफ विस्तार किया । तुम ही अपने तेज से अन्धकार को दूर करते हो || २२ || हे सोम, त्वमिमा विश्वाः सर्वा ओषधीरपो जलानि, गा धेनूः, अजनय उत्पादितवानसि । त्वमुरु विस्तीर्णमन्तरिक्षमाततन्थ आततवानसि । त्वं च ज्योतिस्तेजसा तमोऽन्धकारं विववर्थ विवृणोषि आदित्यरूपेण तमोऽपनयसि । सर्वात्मत्वेन स्तुतिः ।

पृष्ठ 492

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 492 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २२-२४ ] वेदार्थपारिजातभाष्यसहिता १० ९ अध्यात्मपक्षे - हे सोम साम्बशिव! परमेश्वरस्यैव सर्वजनकत्वात् तत्रैव निरुपचरितानि सर्वाणि विशेष -णानि । व्याख्यानं तु पूर्ववदेव । ----दयानन्दस्तु – ' हे सोम राजन्, यस्त्वमिमा ओषधीस्त्वं सूर्य इवापस्त्वं गाश्चाजनयः, त्वं सूर्य इवोर्वन्त-रिक्षमाततन्य, सविता ज्योतिषा तम इव न्यायेनान्यायं विववर्थ, स त्वमस्माभिर्माननीयोऽसि ' इति, तदपि न, मनुष्ये राजनि सोमवद्रोगनाशकत्वाभावात् । न च स सर्वा ओषधीर्व्याप्नोति । न च पृथिवीमपश्च जनयति । न च सूर्यवत्तमोऽपसारयति ॥ २२ ॥

दे॒वेन॑ नो॒ मन॑सा देव सोम रायो भाग मा त्वा नदी शषे वीर्यस्योभये॑भ्य॒ः

स॑हसावन्त॒भि यु॑ध्य ।

प्रचि॑िकित्सा गविष्टौ ॥ २३ ॥

मन्त्रार्थ — हे बलवान्, दीप्तिमान् सोम देवता! उदार मन के साथ हमें धन का भागी बनाओ । तुम्हारे सामने कोई भी प्रतिबन्ध खड़ा न करें । तुम बल के स्वामी हो । स्वर्ग की कामना वाले व्यक्तियों के लिये दोनों लोकों की चिकित्सा करो, अर्थात् दोनों लोकों की प्रतिबन्धक पाप रूप व्याधियों को दूर करो ॥ २३ ॥

हे सोम हे सहसावन् हे सहस्वन् बलवन्! सहः शब्दो बलवचनः सान्तः, तत्र अकारागमश्छान्दसः । यद्वा सहसावन् प्रथमार्थे तृतीया, सहसा सहो बलमस्यास्तीति सहसावन्, अलुक् । देवेन दैवेन देवसम्बन्धिना मनसा सह रायो धनस्य भागं नोऽस्मभ्यमभियुध्य अभिगमय, देहीत्यर्थः । दैवेनेति प्राप्ते तद्धितलोपश्छान्दसः । युध्यतिर्गत्यर्थोऽन्तर्भावितण्यर्थश्च गृह्यते । एवं दानप्रवृत्तं त्वां कश्चन मा आतनत् आतनोतु, मा प्रतिबध्नीयात् । तनोतिः प्रतिबन्धार्थः । कुत इति चेत्तत्राह -- यतस्त्वं वीर्यस्य ईशिषे स्वकीयस्य वीरकर्मण ईश्वरो भवसि । ' अधीगर्थदयेशाम् ' ( पा ० सू ० २।३।५२ ) इति कर्मणि षष्ठी । उभयेभ्यः प्रचिकित्सा उभयलोकप्राप्त्यर्थम्, गविष्टौ, गोशब्देनात्र द्युलोकोऽभिप्रेतः स्वर्गेषणायां विषयभूतायां सत्यां चिकित्सां कुरु व्याध्यपगमं कुरु । उभयलोकप्रतिबन्धकं विघ्नं निवर्तय । दैवं मनः प्राप्य लब्धधना अरोगाश्च यथा स्वर्गं यास्यामस्तथा कुरु । ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ । ३ । १३७ ) इति दीर्घः । अध्यात्मपक्षे - हे सोम साम्बशिव! देवेन दैवेन देवसम्बन्धिना मनसा सह रायो धनस्य भागं नोस्मभ्यम् अभियुध्य प्रदेहि | देवसम्बन्धि दिव्यम् इष्टदेवोपासनापरायणं मनः, तदुपासनोपयोगि धनस्य भागं च देहि । शेषं पूर्ववत् । दयानन्दस्तु – ' हे सहसावन् सोम राजन्, यस्त्वं देवेन मनसा रायो भागं नोऽभियुध्य, यतस्त्वं वीर्यस्येशिषे, ' कविमा आनत् स त्वं गविष्टावुभयेभ्यः प्रचिकित्सा ' इति, तदपि न, जीवेऽखि लैश्वर्यप्रापकत्वासम्भवात् । न च राजा सर्वेभ्यस्तत्सम्पादयितुं शक्नोति ॥ २३ ॥

अ॒ष्टौ व्य॑ख्यत् क॒कुभा॑ः पृथि॒व्यास्त्रो धन्व॒ योज॑ना स॒प्त सिन्धु॑न् हिर॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द् दध॒द्रत्ना॑ दा॒शुषे॒ वार्याणि ॥ २४ ॥

मन्त्रार्थ - ज्योतिःस्वरूप नेत्र वाला, सबका प्रेरक सविता देवता हवियों के दाता यजमान के लिये वरणीय रत्नों को देता हुआ प्रकट होवे । इस सविता देव ने भूमि की आठ दिशाओं के और तीनों लोकों के योजन आदि परिमाणों को और समुद्रों को भी प्रकाशित किया है ॥ २४ ॥

पृष्ठ 493

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 493 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११० शुक्लयजुर्वेदसंहिता [ अ ० ३४ , चतस्रः सावित्र्यः, द्वितीया जगती, त्रिष्टुभोऽन्याः । हिरण्यस्तूपस्यार्षम् । यः सविता पृथिव्याः सम्बन्धिनीः, अष्टौ अष्टसंख्याकाः ककुभो दिशः, चतस्रो दिशश्चतस्रश्वावान्तरदिशः सर्वाः दिशः, व्यख्यत् प्रकाशितवान्, यश्च त्रीणि धन्व धन्वानि लोकान् पृथिव्यन्तरिक्षद्युलोकान् व्यख्यत् प्रकाशितवान् योजनानि , धन्वेत्यन्तरिक्षनाम योजनगव्यूति -तेनैव तदुपलक्षितौ इतरावपि लोकौ लक्ष्येते, छत्रिणो यान्तीतिवत् । यश्च योजना । क्रोशादीन् अध्वपरिमाणविशेषान् व्यख्यत्, यश्च सप्त सिन्धून् क्षीरोदाद्यान् व्यख्यत् उपलक्षणमेतत् सर्वलोकस्य सर्वजगत्प्रकाशकः सोऽयं सविता हिरण्याक्षः, हिरण्यमिव कान्तियुक्ते अक्षिणी यस्य स हिरण्याक्षः हवींषि , हिरण्य- दत्तवते सदृशाक्षः, अमृतदृष्टिर्वा सविता देवः, वार्याणि वरणीयानि रत्ना रत्नानि रत्नमयानि धनानि ' ( दाशुषे पा ० सू ० ३।११५२ ) यजमानाय दधद् धारयन् आगाद् आगच्छति । अख्यत्, ' ख्या प्रकथने ', ' अस्यतिवक्ति ' ( पा ० सू ० इति चलेर आलोपश्च । धातूनामनेकार्थत्वादत्र प्रकाशनार्थो ग्राह्यः । त्री योजना, ' सुपां सुलुक् । दाशुषे ७। १ । ३ ९ ) । इत्यादिना पूर्वसवर्णदीर्घो विभक्तेः । धन्व, सुपो लुक् ' ऋहलोर्ण्यत् । रत्ना, ' सुप ( पा ० आकारः सू ० ३।१११-४ ) ' दाश्वानुसाङ्खान् ' ( पा ० सू ० ६ । १ । १२ ) इति निपातः । वार्याणि इति वृणोतेर्ण्यत् । अध्यात्मपक्षे- -- स वेदान्तेषु प्रसिद्धः सविता सर्वोत्पादकः । ' षूङ् प्राणिप्रसवे ? दाशुषे ' उत्पत्तिरुपलक्षणं हवींषि दत्तवते स्थितिप्रलययोः, जगदुत्पत्तिस्थितिलयशीलः सर्वेश्वरः आगाद् आगच्छतु । किं कुर्वन् सविता? हिरण्याक्ष ः अमृत-यजमानाय वार्याणि वरणीयानि रत्ना रत्नानि दधद् ददत् स्थापयन् वा । कीदृशः दृष्टिः । स कः? यः पृथिव्याः सम्बन्धिनीरष्टौ ककुभो व्यख्यत् प्रकाशितवान् । हिरण्यश्मश्रुर्हिरण्यकेशादिरूपेण वर्णितः परमेश्वर एवादित्यरूपेण सर्वा दिशो विदिशश्व प्रकाशयति । शेषं पूर्ववत् । दधत् त्री धन्व योजना दयानन्दस्तु - हे मनुष्याः! यथा हिरण्याक्षो देवः सविता दाशुषे इति वार्याणि , तदपि रत्ना न, सम्बोधनस्य निर्मूल-सप्त सिन्धून् पृथिव्या अष्टौ ककुभो व्यख्यद् आगाच्च तथैव यूयं भवत ' । रत्नधारकत्वमपि त्वात् । सूर्यस्येव मनुष्याणां सर्वासां दिशां पृथिव्याः सिन्धूनां च प्रकाशकत्वासम्भवात् चिन्त्यमेव ॥ २४ ॥

हिर॑ण्यपाणिः सविता विच॑र्षणिरुभे द्यावापृथिवी अन्तरीयते ।

अपामौवां बार्धते वेति सूर्यमभि कष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥ २५ ॥

द्यावाभूमियों के बीच में मन्त्रार्थ -- ज्योतिःस्वरूप हाथ वाला, कृत और अकृत का साक्षी यह सविता देवता दोनों रूप रज से आकाश को सूर्य के रूप में विचरण करता है, रोगों को दूर करता है और जब छिप जाता है, तब अन्धकार ढक देता है ॥ २५ ॥

हिरण्यपाणिः सुवर्णपाणिः, विचर्षणि विविधं द्रष्टा कृताकृतप्रत्यवेक्षकः, सूयं सूर्यः , ईङ् , विभक्तिव्यत्ययः गतौ यदा तदा, उभे उभयोः, द्यावापृथिवी द्यावापृथिव्योः, षष्ठ्यर्थे द्वितीया, अन्तर्मध्ये, ईयते अस्तमयसमये आगच्छति गच्छति, तदा कृष्णेन अमीवां व्याधिमपबाधते, अन्धकारमयं रोगमपसारयति । अथ यथा वेति । यद्वा वेति सूर्य सूर्यरूप-रजसा अन्धकारलक्षणेन द्यां द्युलोकमभि ऋणोति अभिव्याप्नोति । वेतिर्विगतिकर्मा मवस्थाय गच्छति । उभयो-आध्यात्मिकोऽर्थः - सविता विश्वस्य प्रसविता, सूर्य सूर्यः, विचर्षणिविश्वस्य कृताकृतावेक्षकः भवति,, तस्यैव र्द्यावापृथिव्योर्मध्ये, ईयते आगच्छति, परमेश्वर एव सूर्यरूपेण सर्वस्य प्रकाशकः कृताकृतावेक्षको गृहीतलीलाविग्रहस्य हिरण्यपाणित्वादिकमपि सङ्गच्छते । शेषं पूर्ववत् ।

पृष्ठ 494

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 494 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० २५-२७ ] वेदार्थपारिजातभाष्यसहिता १११ दयानन्दस्तु – ' हे मनुष्याः! यो हिरण्यपाणिर्विचर्षणिः सविता सूर्यो यदोभे द्यावापृथिवी अन्तरीयते तदाऽमीवामपबाधते ' इति, तन्न, हिरण्यपाणिपदस्य गौणार्थग्रहणे हेत्वभावात् सिद्धान्ते तु सूर्याधिष्ठातुविग्रहवतो देवस्य हिरण्यपाणित्वाभ्युपगमात् । यो हिरण्यश्मश्रुर्हिरण्यकेशः, स हिरण्यपाणिरपि स्यादेव ॥ २५ ॥

हिर॑ण्यहस्त॒ असु॑रः सुनीथः स॑मृडीकः स्वव यात्व॒र्वाङ् ।

अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्या॑द् दे॒वः प्र॑तियो॒षं गृ॑णा॒नः ॥ २६ ॥

मन्त्रार्थ - ज्योतिःस्वरूप हाथ वाला, प्राणदाता, कल्याणरूप स्तुति वाला, सुखदाता, धनवान्, छः ऐश्वर्यों से सम्पन्न अन्तर्यामी सविता देव भले आदमियों की बुद्धि को सुशिक्षित करता हुआ और राक्षस रूप दुःखदाताओं को दण्ड देता हुआ लौट कर हमारे सामने आवे ॥ २६ ॥

यो रक्षसो राक्षसान् यातुधानांश्व असुखकरान् अपसेधन् अपगमयन् अस्थाद् उदस्थात्, स देवः, अर्वाग् अर्वागञ्चनः, अस्मदभिमुखो यातु आयातु । कथंभूतो देवः? हिरण्यहस्तः, हिरण्यं स्वर्ण दानार्थं हस्ते यस्य सः, हिरण्मयौ हस्तौ वा यस्य स तथोक्तः । असुर, असून् प्राणान् राति ददाति यः सः । सुनीथः, शोभना नीथा स्तुतिर्यस्य । सुमृडीकः सुखयिता स्वबान्धवानाम् देवः प्रतिदोषं गृणानः श्रुतिस्मृतिविहितधर्मपराङ्मुखानां यावन्तो दोषास्तावन्तो गृणानः स्तुवन् उच्चारयन् गणयन् उपभोगार्थम् । यद्वा प्रतिजनं यो दोषः प्रतिदोषस्तं ' दीर्घादटि गृणानः । स्ववान् आत्मीयज्ञातिधनयुक्तः । स तादृशः सविता आयात्विति सम्बन्धः । स्ववानित्यत्र समानपादे ' ( पा ० सू ० ८ ३ ९ ) इति नस्य रुत्वे, ' भोभगोअघोअपूर्वस्य योऽशि ' ( पा ० सू ० ८ | ३ | १७ ) इति रोर्यादेशे, ' हलि सर्वेषाम् ' ( पा ० सू ० ८ | ३ | २२ ) इति तस्य लोपः । रक्षसो व्यत्ययेनाक्लीबत्वम् । अध्यात्मपक्षे — धतलीलाविग्रहो देवः सविता हिरण्यहस्तो राक्षसान् यातुधानान् अपसेधन् अपगमयन् । शेषं पूर्ववदेव | दयानन्दस्तु - ' हे मनुष्याः! यो हिरण्यहस्तः सुनीथो सूरः सुमृडीकः स्ववान् देवो रक्षसो यातुधानान् अपसेधन् प्रतिदोषं गृणानोऽस्थात्, सोऽर्वाङस्येत् सुखाय यातु तद्वद्ययं भवत ' इत्यन्वयः । भावार्थस्तु – ' हिरण्यहस्तो हिरण्यं दत्त्वा याज्यमानेभ्यो दुष्टाचारान् I तिरस्कृत्य धार्मिकेभ्यः सुखं प्रदाय हे मनुष्याः सूर्यवत् प्रशंसिताः भवत ' इति, तदपि न मन्त्रबाह्यत्वात् । न च हस्ततुल्यः सवितुर्हस्तो भवति । न च मनुष्याणां

दोषान् सविता प्रकटयति । प्रतीत्यस्य किं स्वारस्यमित्यनुक्तेश्च ॥ २६ ॥

ये ते॒ पन्था॑ः सवितः पू॒र्व्याऽने॒णव॒ः सुकृ॑ता अ॒न्तरि॑क्षे ।

तेभिर्नो अद्य पथिभिः सभी रक्षां च नो अधि च ब्रूहि देव ॥ २७ ॥

मन्त्रार्थ है सबके प्रेरक सविता देव! ज्योतिःस्वरूप अन्तरिक्ष में जो पूर्वकाल जनित धूल - धक्कड़ से रहित मार्ग कर्म - फल के उपभोक्ता के लिये है, वह आपका ही रचा हुआ है । उस सुगम मार्ग में आप हमारी रक्षा करें, आप सदा हमें अनुशासन का उपदेश देते रहें ॥ २७ ॥

पूर्वेष्वपि कालेषु भवाः, अरेणवः हे देव, ये ते तव पन्थाः पन्थानः, वचनव्यत्ययः, हे सवितः पूर्व्यासः अपांसुला निर्दुष्टाः, अन्तरिक्षे सुकृताः साधुकृता धात्रा तेभिस्तैः पथिभिर्मार्गेनऽस्मान् अद्य, नयेति शेषः । कीदृशैः

पृष्ठ 495

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 495 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२ शुक्लयजुर्वेदसंहिता [ अ ० ३४ पथिभिः? सुगेभिः साधुगमनैः, अन्नपानादिप्रभूतैः सुगेभिः पथिभिर्गच्छतो नोऽस्मान् रक्षा रक्ष । अधि च ब्रूहि । अधि अङ्गीकृत्य एते मदीया इति ब्रूहि । यद्वा यदस्माकं हितं पथ्यं तद् अधि ब्रूहि उपदिश । यद्वा एते महायाज्ञिका दातार इति अधि अधिकान् वद । अध्यात्मपक्षे: - यः सविता देवः परमेश्वरो राक्षसान् यातुधानान् असुखकरांश्च अपगमयन् अस्थात्, स देवो s र्वाङ् अस्मदभिमुखः, यातु आयातु । सर्वाणि विशेषणानि भगवत्येव सङ्गच्छन्ते । व्याख्यानं पूर्ववत् । ये ते पन्थाः पन्थानः, हे सवितः पूर्व्यासः पूर्वकाले भवाः पूर्व्याः, अरेणवो निर्दुष्टाः, अन्तरिक्षे धात्रा सुकृताः, तेभिः पथिभिः, नोऽस्मानद्य नयेत्यादि पूर्ववत् । दयानन्दस्तु - ' हे सवितर्देव आप्त विद्वन्! यस्य ते सूर्यस्यान्तरिक्षे इव ये पूर्व्यासोऽरेणवः सुकृताः पन्थाः सन्ति, तेभिः सुगेभिः पथिभिरद्य नो नय, तत्र गच्छतो नो रक्ष च, नोऽस्मांश्चाधिब्रूहि सर्वान् प्रतिबोधय ' इति, तदपि न विदुषो राज्ञो वा सूर्यतुल्यत्वाभावेन सवितरिति सम्बोधनानर्हत्वात् । न च भूमिगताः पन्थानो धूलिरहिता भवन्ति न चान्तरिक्षस्थेषु मार्गेषु विदुषो नयने स्वातन्त्र्यम् ॥ २७ ॥

उभा पिबतमश्विनोभा नः शर्मं यच्छतम् । अविद्रियाभिरूतिभिः ॥ २८ ॥

मन्त्रार्थ -- हे अश्विनीकुमारों! आप दोनों यहाँ आकर सोम का पान करो, आप दोनों चारों तरफ से हमारा पालन करते हुए हमें कल्याण का मार्ग दिखाओ ॥ २८ ॥

आश्विन्यस्तिस्त्रः, एका गायत्री द्वे अनुष्टुभौ । हे अश्विना अश्विनौ, उभा उभावपि द्वावपि युवां पिबतम्, सोममिति शेषः । उभौ द्वावपि नोऽस्मभ्यं शर्म सुखं शरणं वा यच्छतं दत्तम् | अविद्रियाभिः, ' दृ विदारणे ', अनवखण्डिताभिः, ऊतिभिः पालनैः, रक्षतमिति शेषः । उभा अश्विना इत्यत्र विभक्तेराकारः । विदीर्यन्तीति विद्रिया इत्यत्र औणादिक इयक्प्रत्ययः । अध्यात्मपक्षे - अश्विना अश्विनाविव सुन्दरौ रामलक्ष्मणौ बलकृष्णौ वा, युवां सोमं पिबतम् । युवां नोऽस्मभ्यं शर्म शरणं प्रयच्छतम् । अविदीर्णाभिरूतिभिः पालनैः सुखं दत्तम् । दयानन्दस्तु– ' हे अश्विनौ अध्यापकोपदेशको, युवां यथोत्तमं रसं पिबतम्, तच्छ्र्म आयुर्वाऽद्द्वियाभिरूतिभी रक्षितं गृहं नो यच्छतम् ' इति, तदपि न, अध्यापकोपदेशकयोः प्रार्थयितृभ्योऽभीष्ट गृहदाने सामर्थ्याभावात् । न च

तावश्विपदार्थों, तत्राशक्तत्वात् । बीजाभावाच्च नापि लक्षणया तथात्वम् ॥ २८ ॥

अ॒प्त॑स्वतीमश्विना॒ वाच॑म॒स्मे क॒तं नो॑ दस्रा वृषणा मनीषाम् । ८ अ॒द्य॒त्येऽव॑से॒ नि ह्वये बा॑ वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥ २ ९ ॥ मन्त्रार्थ - हे दर्शनीय सेक्ता अश्विनीकुमारों! आप लोग हमारी वाणी को और हमारे मन की इच्छा को सदा क्रियाशील रखें । मैं सन्मार्ग से प्राप्त होने वाले अन्न के निमित्त आप दोनों का आह्वान करता हूँ । इस यज्ञ में हमारी समृद्धि के लिये आप लोग सदा तत्पर रहें ॥ २ ९ ॥ अश्विन व्यापनशील, हे दस्रौ दर्शनीयौ, हे वृषणौ वर्षितारौ सेक्तारौ युवानो अप्नस्वतीम्, अप्नइति कर्मनाम ( निघ ० २।१।२ ) कर्मवतीं वाचं युवां कृतं कुरुतम् । तथा नोऽस्माकं मनीषां मनसः सम्बन्धिनी -

पृष्ठ 496

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 496 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २ ९ -३० ] वेदार्थपारिजातभाष्यसहिता ११३ मिच्छामप्नस्वतीमेव कुरुतम् । यथा मनसा वाचा च यज्ञं कुर्मस्तथा कुरुतमित्यर्थः । अद्यूत्ये अवसे । द्यूतादागत-मन्नं कर्मण्यं न भवतीत्यत एवमुच्यते - अद्यत्ये सन्मार्गागते न्याय्ये, अवसे अन्ननिमित्तभूते तद्दानार्थं निह्वये आह्वयामि । युवामागत्य नोऽस्माकं च वृधे वर्धनाय भवतम् । वाजसातौ वाजसंभजननिमित्तभूते संग्रामे, वाजानां सातिः संभजनं यस्मिन् तस्मिन् यज्ञे वां वृधे वर्धनाय भवतम् । अस्मे, विभक्तेः शे आदेशः । कृतम्, करोतेः ' बहुलं छन्दसि ' ( पा ० सू ० २ | ४ | ७३ ) इति शपि लुप्ते लोग्मध्यमद्विवचने रूपम् । वृषणा वृषणो, ' वा षपूर्वस्य निगमे ' ( पा ० सू ० ६।४।९ ) इत्युपधादीर्घाभावः । वृधे, सम्पदादित्वात् क्विप् । अध्यात्मपक्षे - हे अश्विनौ, हे दस्रौ दर्शनीयौ पूर्वोक्तौ श्रीरामलक्ष्मणौ, वृषणौ अभीष्टानां वर्षितारौ! अस्मे अस्माकं वाचं मनीषां मनसः सम्बन्धिनीमिच्छामप्नस्वती कर्मवतीं कृतं कुरुतम् । अद्यूत्ये, द्यूताद्य-सत्कार्येणागतं द्यूत्यम्, तद्भिन्नसन्मार्गागतं न्याय्यमन्नमद्यूत्यम्, तस्मिन् तादृशान्ने निमित्तभूते तद्दानार्थं युवां ये आह्वयामि । वाजसाती यज्ञे संग्रामे नो वृधे वर्धनाय भवतम् । - → दयानन्दस्तु - ' हे दस्रौ वृषणौ अश्विनौ, युवामस्मे अस्माकं वाचं मनीषां प्रशस्तान्यप्नांसि कर्माणि विद्यन्ते यस्यास्तां वाचं कृतं कुरुतम् । नोऽद्यूत्येऽवसे स्थापयतम् । वाजसातौ नो वृधे च भवतम् । यो वामहं निह्वये तौ मामुन्नयतम् ' इति, तदपि न, अध्यापकोपदेशकयोस्तादृशकार्यसाधने सामर्थ्याभावात् । न च तयोः स्तुति-पेक्षिता, स्तुत्यपेक्षया धनदानस्य महत्त्वपूर्णत्वात् ॥ २ ९ ॥

द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।

तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ सिन्धुः पृथि॒वी उ॒त द्यौः ॥ ३० ॥

मन्त्रार्थ - हे अश्विनीकुमारों! आप लोग दिन में और रात्रि में अखण्डित सुन्दर धन द्वारा हमारी सब ओर से रक्षा करें । मित्र, वरुण, देवमाता अदिति, समुद्र, पृथ्वी तथा स्वर्ग - ये सब हमारे रक्षक उन अश्विनीकुमारों की प्रशंसा करें ॥ ३० ॥

हे अश्विनौ! द्युभिर्दिनैः, अक्तुभी रात्रिभिः कारणभूताभिः 1 सप्तम्यर्थे तृतीया वा, दिनेषु रात्रिषु च अहोरात्रमस्मात् सर्वतः परिपातं परिपालयतम् । युवामस्मान् न केवलं द्युभिरक्तुभिः परिपातम् किं तर्हि? अरिष्टेभिरनुपहिंसितैः, सौभगेभिरखण्डितैः शोभनैर्धनैश्च योजयतमिति शेषः । किश्च मित्रो वरुणोऽदितिः सिन्धुः समुद्रः पृथिवी उतापि च द्यौः, एते नोऽस्माकं तद् भवत्कृतं परिपालनं मामहन्तां पूजयन्ताम्, ' मह पूजायाम् ' ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७६ ) इति शपः श्लुः, ' श्लौ ' ( पा ० सू ० ६ | १ | १० ) इति द्वित्वम् । ' तुजादीनां दीर्घोऽभ्यासस्य ' ( पा ० सू ० ६ । १1७ ) इत्यभ्यासदीर्घः । अध्यात्मपक्षे - हे अश्विनौ तद्वत् सुन्दरावभिन्नहृदयौ रामलक्ष्मणौ बलकृष्णौ वा! द्युभिरक्तुभिः कारणैरहोरात्रं वा अस्मान् परिपातम् । अरिष्टेभिः सौभगेभिरखण्डितैः शोभनैर्धनैः परिपातं परिपालयतम् । मित्रादयो देवा नोऽस्माकं तत्परिपालनं मामहन्तां पूजयन्ताम् । दयानन्दस्तु – ' हे अश्विनौ यथादितिः सिन्धुः पृथिवी उत द्यौः, तन्नो मामहन्ताम् । तथा मित्रो वरुणश्च युवां द्युभिरक्तुभिररिष्टेभिरस्मान् परिपातम् ' इति, तदपि न, सभासेनेशयोर्मनुष्ययोः प्रार्थनेऽपि पृथिव्याकाशादि-कर्तृकसत्कारप्राप्त्यसम्भवात् । जडानां तेषां सत्कर्तृत्वमपि कुतस्त्यम्, चेतनधर्मत्वात् ॥ ३० ॥

१५

पृष्ठ 497

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 497 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११४ शुक्लयजुर्वेदसंहिता [ अ ० ३४

आ कृ॒ष्णेन॒ रज॑सा॒ वर्तमानो नि॑वे॒शय॑न्न॒मृतं॒ सत्य॑ च ।

हिर॒ण्यये॑न॒ सवि॒ता रये॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥ ३१ ॥

मन्त्रार्थ -- सूर्य देवता अपने ज्योतिर्मय मण्डल रूप रथ के द्वारा सुमेरु पर्वत की परिक्रमा हैं करते । सारे रहते भुवनों हैं । अन्धकार और प्रकाश के देवताओं को और मनुष्य आदि प्राणियों को अपने अपने व्यापारों में प्रवृत्त करते को देखते हुए, अर्थात् प्राणियों के भले - बुरे कर्मों पर विचार करते हुए विचरण करते हैं ॥ ३१ ॥

सविता देवो हिरण्ययेन हिरण्मयेन रथेन आयाति । रजसा रात्रिलक्षणेन सह आवर्तमानः पुनः पुनर्भ्रमणं कुर्वन्, अमृतं देवादिकं मत्यं मनुष्यादिकं च निवेशयन् स्वस्वप्रदेशेषु स्थापयन् । भुवनानि पश्यन् कानि साधु

कर्म कुर्वन्ति, कान्यसाध्विति विचारयन् । ( ३३।४३ ) इत्यत्र व्याख्याता ॥ ३१ ॥

आरा॑त्र॒ पार्थि॑व॒ रज॑ः पि॒तुर॑प्राय॒ धाम॑भिः ॥

दि॒वः सर्वास बृह॒ती व ति॑ष्ठ॒स॒ आ त्वे॒षं व॑र्तते॒ तम॑ः ॥ ३२ ॥

मन्त्रार्थ - हे रात्रि देवता! तुमसे अन्तरिक्ष सम्बन्धी लोक और पितृ सम्बन्धी स्थान सब ओर से पूरित हैं । तरफ महान् महिमाशालिनी तुम स्वर्गं लोक के स्थानों को भी व्याप्त करती हो, तुम्हारा दीप्त अन्धकार चारों वर्तमान है ॥ ३२ ॥

रात्रिदेवत्या पथ्याबृहती । हे रात्रि! या त्वं पार्थिवं रजः पृथिवीसम्बन्धि लोकं पितुर्मध्यमस्य लोकस्य बृहती धामभिः स्थानैः सह आ अप्रायि आ अपूपुर आपूरयसि, या च त्वं दिवो द्युलोकस्य सदांसि तमः स्थानानि ? त्वेषं प्रदीप्तं महती ती वितिष्ठसे आक्रमसे व्याप्नोसि, तस्यास्तव तम आवर्तते तथापि प्रवर्तते । कीदृशं इत्यर्थः । रजः-महाप्राग्भारमित्यर्थः, सर्वान् लोकान् व्याप्यापि दीप्तं महाप्राग्भारं वा, तमः पुनः पुनरावर्तत शब्दो लोकवचनः ( निरु ० ४।१ ९ ) । अप्रायि, ' प्रा पूरणे ' लुङि चिणि रूपम् । अध्यात्मपक्षे - हे रात्र रात्र्यधिष्ठातृमहामाये, यया त्वया पार्थिवं रजः पृथिवीसम्बन्धिलोकः पितुर्मध्य-लोकस्यान्तरिक्षस्य धामभिः स्थानः स आ अप्राथि समन्तात् पूर्यते, या च त्वं दिवो द्युलोकस्य सदांसि स्थानानि तमः वितिष्ठसे आक्रामसि, तस्यास्तव तमस्त्वेषं वर्तते दीप्तं वर्तते । महाप्राग्भारं वा तम आवर्तते, महाभयं सर्वं व्याप्य महामोहप्राग्भारं पुरतो भरणीयं प्रवर्तते ॥ ३२ ॥

उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति । येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥ ३३ ॥

मन्त्रार्थ — हे अन्न की स्वामिनी देवी! आप हमारे लिये अद्भुत घन दीजिये, जिससे कि हम अपने पुत्र - पौत्र तथा अन्य सम्बन्धी जनों का भरण - पोषण कर सकें ॥ ३३ ॥

उषोदेवत्या परोष्णिक् । हे उषः, तत्प्रसिद्धं चित्रं चायनीयमाश्चर्यकारि महनीयं धनमस्मभ्यमाभर आहर देहि । हे वाजिनीवति अन्नवति! येन धनेन लोकं पुत्रं तनयं पुत्रस्य पुत्रं पौत्रं च सर्वं सन्तानवगं धामहे दध्महे पुष्णीमः । धामहे, दधातेः शपो लुकि रूपम् ।

पृष्ठ 498

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 498 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३३ - ३५ ] वेदार्थ पारिजात भाष्यसहिता ११५ अध्यात्मपक्षे - हे उषः, अभ्युदयोन्मुखवेले! हे वाजिनीवति! वाजमन्नं नयतीति वाजिनी लक्ष्मीस्तद्वति, तच्चित्रमाश्चर्यकारि शमदमादिरूपं महनीयं धर्मार्थानुबन्धि भौतिकं वा धनम् आभर आहर, येन ज्ञानरूपं पुत्रम् अपरोक्षानुभवात्मकं विज्ञानरूपं पौत्रं धार्मिकपुत्रपौत्रादिकं वा धामहे पुष्णीमः । दयानन्दस्तु - ' हे वाजिनीवत उषः, उषोवद्वर्तमाने स्त्रि! यथा वाजिनीवती उषा यादृशं चित्रं स्वरूपं चरति, तत् तादृशमस्मभ्यं त्वमाभर, येन वयं लोकं च तनयं धामहे धरेम ' इति, तदपि यत्किञ्चित्, स्त्रीप्रार्थना-मात्रे लोकतनयोत्पत्त्यसम्भवात् उषःपदस्य तद्वद् वर्तमाने स्त्रीत्यर्थग्रहणस्य निर्मूलत्वाच्च । तस्मादुषोदेवत्यस्य

मन्त्रस्य उषा एवार्थः, न तु स्त्री । तथात्वे स्त्रीदैवतत्वप्रसङ्गात् ॥ ३३ ॥

प्रातर॒ग्नि प्रातरिन्द्र॑थ॒ हवामहे प्राता॑मि॒त्रावरु॑णा प्रातर॒श्विना॑ ।

प्रातर्भेगं पू॒षण॒ ब्रह्म॑ण॒स्पति॑ प्रा॒तः सोम॑मु॒त रु॒द्र हु॑वेम ॥ ३४ ॥

मन्त्रार्थ- -- हम प्रातःकाल में ही अग्नि का आह्वान करते हैं । इन्द्र का मित्रावरुण का अश्विनीकुमारों का, भग, पूषा और ब्रह्मणस्पति का, सोम एवं रुद्र का भी इसी समय आह्वान करते हैं ॥ ३४ ॥

जगती बहुदेवत्या । प्रातरिति पदं वीप्सापरम् । प्रातः प्रातः पुनः पुनः एतान् देवान् आह्वयामः । कान् देवानिति तानाह प्रातः पुनः पुनरिन्द्रम्, प्रातः पुनः पुन मित्रावरुणी अश्विनी च हवामहे । प्रातः भगं पूषणं च ब्रह्मणस्पतिं च । प्रातः सोमम् उत अपि रुद्रं हुवेम आह्वयामः । ह्वयतेः सम्प्रसारणे रूपम् । अध्यात्मपक्षे - प्रातः पुनः पुनरग्नि पापदाहकुशलम्, प्रातरिन्द्रमैश्वर्यदानकुशलम्, प्रातमित्रावरुणौ स्नेहवन्तौ वरणीयौ च रामलक्ष्मणौ, बलकृष्णौ च भगं भजनीयं पूषणं पोषकं च ब्रह्मणस्पति वेदादिशास्त्रस्य रक्षकम्, सोमं साम्बसदाशिवम्, रुद्रं विघ्नानां रोदयितारं तत्तच्छक्त्यवच्छिन्नं परमात्मानं हवामहे, तत्तद्रूपेण परमात्मन एव हूयमानत्वात् । -दयानन्दस्तु – ' हे मनुष्याः, यथा वयं प्रातरग्नि प्रातरिन्द्रं प्रातमित्रावरुणौ प्रातरश्विनौ हवामहे, प्रातर्भगं पूषणं ब्रह्मणस्पतिं सोममुत रुद्रं हुवेम, तथा यूयमप्याचरत ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात्, अग्न्यादिपदानां मुख्यार्थत्यागे बीजाभावात् । ' मित्रावरुणी प्राणोदानौ अश्विनौ अध्यापकोपदेशकौ भगं भजनीयं पूषणं पुष्टिकरं भोगम् ' इत्यादिव्याख्यानस्य गौणार्थमूलकत्वेनाग्राह त्वात् । तथैवान्यदप्युपेक्ष्यम् ॥ ३४ ॥

प्रात॒र्जितं॒ भग॑मु॒ग्र ँ

हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।

आ॒ध्रश्र्वद्यं मन्य॑मान॒स्तरश्चिद्राज चिद्यं भर्गो भक्षीत्याह ॥ ३५ ॥

मन्त्रार्थ - हम इस प्रातःकाल में जयशील उत्कृष्ट अदितिपुत्र सूर्य का आह्वान करते हैं, जो कि सारे जगत् को धारण करने वाले हैं, जिसको दरिद्र भी, राजा भी और रोगी भी चाहते हैं, जिस सूर्य के लिये सभी प्राणी कहते है कि अब भगवान् सूर्य देव का उदय होना चाहिये ॥ ३५ ॥

भगदेवत्याः पञ्च त्रिष्टुभः । यो भगः सर्वभजनीय आदित्यः, यश्च विधर्ता सर्वस्य जगतो विधारयिता, यश्व आध्रश्चित्, चिच्छन्दोऽप्यर्थः, ' ' तृप्तौ ', न ध्रायति न तृप्यति यः स अभ्रः, नत्रो दैघ्यं छान्दसम् । यद्वा ध्रियते रूपम् । आसमन्ताद् ध्रियते यः स आध्रो दरिद्रः, अध्र एव आध्रः, स्वार्थे तद्धितम् । आध्रोतृप्तो बुभुक्षितो

पृष्ठ 499

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 499 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११६ शुक्लयजुर्वेदसंहिता [ अ ० ३४ दरिद्रो वापि जनो यं भगं सूर्यं मन्यमानः मन्यत इत्यचंतिकर्मा ( निघ ० ३ | १४ | ३८ ), पूजयन् स्वार्थसिद्धये । भक्षि उदयं भजस्वेत्याह । तुरश्चित् अत्राङोऽध्याहारः, आतुरोऽपि यं भगं मन्यमानः पूजयन् भक्षीत्याह । यद्वा तुरशब्देन यमोऽभिधीयते । स हि तुणं प्राणिनो हन्ति । यमोऽपि यं भगं मन्यमानो भक्षीत्याह । अतृप्तो बुभुक्षितो दरिद्रः सूर्योदये भिक्षादिना किञ्चिदर्जयति भोजनायेति सूर्योदयं वाञ्छति । आतुरोऽपि सूर्योदयं वाञ्छति, दिवसे सुखोदयात्, रात्रः कनातियापनात् । यमोऽपि प्राणिनां प्राणहरणाय दिनानि गणयति । राजा चिद् राजापि यं भगं सूर्य मन्यमानः पूजयन् उदरं भजस्वेत्याह, तदुदये हि व्यवहारदर्शनादिना तेषां सर्वेष्टसिद्धेः । तं भगमादित्यं हवे वयमाह्वयामः । कीदृशं तम्? प्रातर्जयन्तम्, प्रातर्जयतीति प्रातर्जित् तं प्रातर्जयनशीलम्, उग्रमुत्कृष्टम् उद्गुर्णदानं वा, अदितेर्देवमातुः पुत्रं तनयं तादृशं भगं सूर्यं मन्यमानः पूजयन् । आध्रादयः सर्वेऽपि हे भगवन् त्वमुदयं भवेति कथयन्तस्त्वदुदयं वाञ्छन्ति । तमाह्वयाम इत्यर्थः । अध्यात्मपक्षे —- वयं तं भगं सर्वभजनीयं परमात्मानमादित्यरूपमाह्वयामः । शेषं पूर्ववत् । दयानन्दस्तु - हे मनुष्याः! यथा वयं प्रातर्यो विधर्ता आश्विद्यं मन्यमानस्तु रश्चिद्राजास्ति, यं भगं चिद् भक्षीत्याह, तमदितेः पुत्रं जितमुग्रं भगं हुवेम । तथा यूयमपि स्वीकुरुत ' इति, तदपि न, असम्बद्धत्वात्, सम्बोधनस्य निर्मूलत्वाच्च, ' अपुत्रस्य पुत्रः ' इत्यस्य निरर्थकत्वाच्च ॥ ३५ ॥

भग॒ प्रणेत॒र्भग॒ सत्य॑राध॒ भग॒मां धिय॒मुद॑वा॒ भग॒ प्र नो॑ ज॒नय॒ गोभि॒रश्व॒ग॒ प्र नृभि॑र्दे॒वन्त॑ः

दद॑न्नः ।

स्याम ॥ ३६ ॥

मन्त्रार्थ - हे ऐश्वर्य को देने वाले ऐश्वर्यरूप सत्य घन वाले सूर्यदेव! आप हमें घन देकर हमारी प्रज्ञा को बढ़ाइये । हे सूर्यदेव! हमें गायों और अश्वों के द्वारा भी बढ़ाइये । हे सूर्य, हम पुत्र मादि प्रजा से भी सम्पन्न हों ॥ ३६ ॥

हे भग हे प्रणेतः, प्रकर्षेण नयप्रापक हे भग, हे सत्यराधः! सत्यमनश्वरं राधो धनं यस्य स सत्यराधाः, तत्सम्बुद्धौ । त्वं ददन् धनं प्रयच्छन् सन्, इमां धियं प्रज्ञां कर्म वा उद् अव उद्गमय । यया येन वा सूक्ष्मानर्थान् पश्याम:, तथा कुर्वित्यभिप्रायः । किञ्च हे भग! नोऽस्मान् गोभिरश्वैः प्रजनय प्रवर्धय, गा अश्वांश्च बहून् देहीत्यर्थः । हे भग! वयं नृभिः पुत्रादिभिर्नृवन्तो मनुष्यवन्तः स्याम । अध्यात्मपक्षे - हे भग भजनीय, प्रणेतः प्रकर्षण नयनकर्तः! सर्वान्तरात्मत्वेन तस्यैव सर्वप्रेरकत्वात् । तस्यैवाविनश्वरं मोक्षाख्यं धनं भवति । सूर्यरूपेणान्न रत्नादिकमप्यक्षयरूपेण तस्मिन्नेव भवति । शेषं पूर्ववत् । दयानन्दस्तु - ' हे भग प्रणेतभंग सत्यराधो भग! त्वं नोऽस्माकमिमां धियं ददन् समुदय । हे भग त्वं गोभिरश्वैर्नृभिः सह नोऽस्मान् प्रजनय । हे भग, येन वयं नृवन्तः प्र स्याम तथा विधेहि ' इति, तदपि न, भग ऐश्वर्ययुक्त, भग ऐश्वर्यदातः भग सेवितुं योग्येत्यादिव्युत्पत्तिभिर्मनुष्यसम्बोधनस्य निरर्थकत्वात्, धर्मब्रह्मपरे वेदे मनुष्यप्रार्थनासम्भवात्, मुख्यार्थत्यागस्य च निर्मूलत्वात् ॥ ३६ ॥

उतेदानीं भगवन्तः स्यामोत प्र॑पि॒त्व उ॒त मध्ये अह्नम् ।

उ॒तोबिता मघव॒न्त्सूर्यस्य व॒यं दे॒वाना॑ सुम॒तौ स्याम ॥ ३७ ॥

पृष्ठ 500

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 500 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३७-३८ ] वेदार्थ पारिजातभाष्यसहिता ११७ मन्त्रार्थ - हे धन को देने वाले भगनामक सूर्यदेव! अब भी हम प्रातः काल उपासना कर भग, अर्थात् छः प्रकार के ऐश्वर्य से सम्पन्न हों । हम देवताओं की विद्यमान रहें ॥ ३७ ॥

सायंकाल और मध्याह्न में आपक कल्याणमयी अनुग्रह बुद्धि में सदा हे मघवन् धनवन् आदित्य, उतापि च इदानीमादित्य प्रसादाद् वयं भगवन्त ऐश्वर्यादिषड्भगोपेताः स्याम भवेम । ‘ ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ' ( वि ० पु ० ६।५।७४ ) इति षड्विधा भगाः । यद्वा - ' स्तम्भनं मोहनं रूपं बलं वैदग्ध्यमेव च । अभिलाषोपपन्नत्वं षण्णां भग इतीङ्गना ॥ इति । निरतिशयाः सर्वे भगाः परमेश्वरे तिष्ठन्ति । सातिशयास्तु तत्प्रसादादन्यत्रापि । उत अपि च, प्रपित्वे प्राप्तॆ सूर्यस्य प्रपतनेऽस्तमये भगवन्तः स्याम । उतापि च, अह्नां मध्ये मध्यंदिने भगवन्तः स्याम । उताप च, उदिता उदयकाले सूर्यस्य हे मघवन् धनवन् वयं देवानां सुमतौ कल्याण्यामनुग्रहवत्यां बुद्धौ स्याम, देवा अस्मासु अनुग्रहवती बुद्धि कुर्वन्तु । अध्यात्मपक्षे - हे मघवन् ज्ञानवैराग्याद्यैश्वर्यवन् आदित्यरूप परमेश्वर! भवदनुग्रहाद् वयं भगवन्तौ ज्ञान-वैराग्यादिभगोपेता भवेम । शेषं पूर्ववत् । -दयानन्दस्तु – ' हे मघवन् वयमिदानीमुत प्रपित्वे उत भविष्यति उताह्नां मध्ये भगवन्तः स्याम, उत सूर्यस्योदिता देवानां सुमतौ भगवन्तः स्याम ' इति, तदपि यत्किञ्चित् धनवतः प्रार्थनयापि जन्मकोटिभिरपि भगवत्त्वासम्भवात्, देवानां देवदेवस्य भगवत एव प्रार्थनया भगवत्त्वोपपत्तेः ॥ ३७ ॥

भर्गएव भगवाँ २ ॥ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम । तं त्वा॑ ग॒ सर्व॒ इज्जवोति॒ स नो॑ भग पुर ए॒ताभ॑वे॒ह ॥ ३८ ॥

मन्त्रार्थ - सारे देवताओं में भगवान् भग ही सभी ऐश्वर्यों से सम्पन्न हैं । उनकी कृपा से हमें धन प्राप्त हो । हे भगदेवता, ऐश्वर्यं चाहने वाले सभी मनुष्य आपका आह्वान करते हैं | आप हमारे इस यज्ञ में सबसे पहले आइये || ३८ ॥ हे देवाः, भगः सूर्य एव भगवान् धनवान् अस्तु, किमन्यैर्देवताविशेषैर्धनवद्भिरदातृभिः । तेन भगप्रदत्तेन धनेन वयं धनवन्तः स्याम । एवं देवानुक्त्वा भगमेवाह - सर्व इत् सर्व एव जनस्तं प्रसिद्धं त्वां जोहवीत स्वाभीष्टसिद्धयेऽत्यन्तमाह्वयति । हे भग, स त्वं नोऽस्माकमिह कर्मणि पुर एता सर्वकार्येष्वग्रयायी भव, सर्वाणि कार्याणि साधयेत्यर्थः । अध्यात्मपक्षे – हे देवाः, भगः सर्वभजनीयो भगः, सूर्यावच्छिन्न श्चेतन एव भगवान् सर्वैश्वर्योपतोऽस्तु । तेन वयं भगवन्तः स्याम । तं प्रसिद्धं लोकवेदप्रसिद्धं त्वां सर्व इत् सर्व एव जोहवीति अत्यन्तमाह्वयति । स त्वं हे भग! नोऽस्माकम् इह ऐहिके आमुष्मिके परमनिःश्रेयसे च पुर एता अग्रेसरो भव, सर्वाभीष्टान् सम्पादयेत्यर्थः । दयानन्दस्तु - ' हे देवाः, यो भग एव भगवानस्तु तेन वयं इज्जोहवीति । हे भग! स त्वमिह नः पुर एता भव ' इति, तदपि न त्करत्वात् ॥ ३८ ॥

भगवन्तः स्याम । हे भग, तं त्वा सर्व विदुषां मनुष्याणां सम्बोधनस्याकिश्चि-