वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 501–510
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 501–510
पृष्ठ 501
पाठ पढ़ें पाठ छिपाएँ
११८ समध्वरायोषसौ नमन्त शुक्लयजुर्वेद संहिता [ अ ० ३४
दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अर्वाचीनं व॑स॒वद॒ भग॑ नो॒ रथा॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥ ३ ९ ॥
मन्त्रार्थ उषाकाल के अधिष्ठाता भगदेवता यज्ञ के लिये यहाँ आकर स्थिर भाव से बैठे हैं, जैसे कि सामुद्रिक अश्व अपने पवित्र पदक्षेप के द्वारा उपस्थित होता है । भगदेवता घन के दाता हैं । वे हमें सभी प्रकार का ऐश्वर्य प्रदान करें, जैसे कि वेगवान् अश्व रथ को प्राप्त कराते ॥ ३ ९ ॥ या उषसः सुप्रभाताधिष्ठातारो देवाः, अध्वराय अग्निहोत्रादिलक्षणाय यज्ञाय संनमन्त संनमन्ते प्रभवन्ति । कथमिव? दधिक्रावेव । दधाति धारयति नरमिति दधिः, दधिः सन् क्रामतीति दधिक्रावा, स दधिक्रावा अश्वो यथा शुचये पदाय, शुचि पदमग्न्याधानाथं कर्तव्यमिति संनमते, एवं ता उषसो भगमादित्यं नोऽस्माकमर्वाचीनमस्मदभिमुखमावहन्तु आगमयन्तु । कीदृशं भगम्? वसुविदम् । वसु धनं विन्दतीति वसुवित् तं वसुविदम् ' इगुपध ' ( पा ० सू ० ३ | १ | १३५ ) इति कः । कथमिवोषसो भगमस्मान् प्रति आवहन्तु? रथ-मिवाश्वा वाजिनः, यथा वाजिनोऽन्नवन्तो वेगवन्तो वा अश्वा रथमावहन्ति तद्वत् । तथा उपसोऽस्मान् प्रति भगमावहन्तु । अध्यात्मपक्षे -- उषसः सुप्रभाता भगं भगवन्तमर्वाचीनमस्मदभिमुखमावहन्तु आगमयन्तु । शेषं पूर्ववत् । दयानन्दस्तु - ' हे मनुष्याः, उषसो दधिक्रावेव शुचये पदाय अध्वराय संनमन्त वाजिनोऽश्वा रथमिव नोऽर्वाचीनं वसुविदं भगं प्रापयन्ति तथैतौ भवन्त आवहन्तु ' इति, तदपि न, अहिंसामयव्यवहारस्याध्वरपद-वाच्यत्वे क्रयविक्रयादिव्यवहाराणामप्यध्वरत्वापत्तेः । वस्तुतोऽध्वरो वैदिको यज्ञः । पशुवधेऽपि यत्र ध्वरो हिंसा न भवति, तस्य ज्योतिष्टोमादेरेवाध्वरत्वम्, ' अहिंसामेव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ' ( म ० स्मृ ० ५।४४ ) इति मनूक्तेः । उषस इति कर्तृपदम् । तेन सुप्रभाताधिष्ठातॄणां देवानामेवात्र संनमनमुक्तम्, तत्कर्तृकमेव वसुविद्भगप्रापणम् । नात्रैश्वर्ययुक्तमनुष्यप्राप्तिरभीष्टा, तादृशमनुष्यस्य सुलभत्वात् न च प्रातः समय एवं तत्प्रापयति ॥ ३ ९ ॥
अश्वोवती गोम॑तीर्न उ॒षासो॑ वी॒रव॑ति॒ सद॑मु॒च्छन्तु भ॒द्राः ।
घृतं दु॒ना वि॒श्वत॒ः प्रपता यूयं पा॑त स्व॒स्तिभिः॒ः सदा॑ नः ॥ ४० ॥
मन्त्रार्थ - अश्व वाली, गायों वाली, वीर सन्तान वाली कल्याण रूप, नीहार ( ओसकण ) की वर्षा करती करें हुई ।, सब ओर से धर्म, अर्थ और काम से तृप्त प्रातः सन्ध्या की अभिमानिनी देवियाँ हमारे अज्ञानरूपी पाश को सदा दूर हे देवियों! आप सब सभी प्रकार के कल्याणों से सदा हमारी रक्षा करें ॥ ४० ॥
उषोदेवत्या त्रिष्टुप् । उषास उषसः प्रभातकालाधिष्ठतारो देवाः सदं सदाकालं नोऽस्मानुच्छन्तु विवासयन्तु, अज्ञानलक्षणं पाशं मोचयन्तु । ' उच्छी विवासे ' । कीदृश्य उषसः? अश्वावतीः, अश्ववत्यः । गोमतीः, गोमत्यः ॥ वीरवतीः, वीरवत्यः पुत्रवत्यः । भद्रा भद्रवत्यो भन्दनीयाः कल्याणरूपाः । घृतमवश्यायजलं दुहानाः क्षरन्त्यः विश्वतः सर्वतः प्रपीता धर्मार्थकामैराप्यायिताः । प्यायः ' पी ' आदेशः । एवं परोक्षं प्रार्थ्यं प्रत्यक्षमाह - हे उषसः, यूयं स्वस्तिभिरविनाशैः सदा नोऽस्मान् पात पालयत ।
पृष्ठ 502
पाठ पढ़ें पाठ छिपाएँ
मै ० ४०-४२ ] वेदार्थ पारिजातभाष्यसहिता ११ ९ अध्यात्मपक्षे - उषासः सुप्रभाताधिष्ठात्र्यो भक्तिरूपा देवताः, अश्वावत्यो दिव्यादिव्याश्ववत्यो गोमत्यः, अश्वगवादिरथेनेव शीघ्रमागच्छत्यः । वीरवत्यः प्रबोधलक्षणपुत्रवत्यः । सदं सदा उच्छन्तु अज्ञानं प्रतीता तमो विवासयन्तु अपसारयन्तु । कीदृश्यस्ताः? घृतं दुहानाः घृतं स्नेहमयमनुरागं क्षरन्त्यः, विश्वतः सर्वतः आप्यायिताः । हे उषासः, यूयं नोऽस्मान् सदा स्वस्तिभिर्मोक्षादिरूपैः कल्याणैः पात पालयत । प्रपीता उषासोऽ-दयानन्दस्तु – ' हे विदुष्यः! यथा अश्वावतीर्गोमतीर्वीरवतीभंद्रा घृतं दुहाना सदा विश्वतः पात ' इति, तदपि न, स्माकं सदं प्राप्नुवन्ति तथाऽस्माकं सदं भवत्य उच्छन्तु । नो यूयं स्वस्तिभिः न सभासमापनमित्यर्थः, सम्बोधनस्य निर्मूलत्वात्, मूले यथापदाभावाच्च । उच्छन्तु - ' उच्छी विवासे ' इत्यस्य पान्ति, न तु स्त्रियः, किन्त्वज्ञानपाशमोचनमेवार्थः । अज्ञानस्य विवासनमपसारणमेव । उषास एव स्वस्तिभिः तासामल्पसामर्थ्यात् ॥ ४० ॥
पूषन्तव॑ व्र॒तेव॒यं न रि॑ष्येम॒ कदा॑ च॒न । स्तो॒तार॑स्त इ॒ह मा॑सि ॥ ४१ ॥
मन्त्रार्थ - हे पूषादेव! आपकी उपासना में हुए हम कभी विनाश को न पावें । इस यज्ञ में हम आपकी स्तुति करते हैं ॥ ४१ ॥
द्वे ' पौष्ण्यौ गायत्रीत्रिष्टुभौ । हे पूषन्! तव व्रते कर्मणि वर्तमाना वयं कदाचन कदाचिदपि न ७ | १ रिष्येम | ४६ ) न विनश्येम । किव, इह कर्मणि ते तव स्तोतारः स्मसि भवाम । ' इदन्तो मसि ' ( पा ० सू ० इतीकार उपजनः । ) अध्यात्मपक्षे - हे पूषन्! पुष्णाति सर्वमिति पूषा परमेश्वरः, ' येन जातानि जीवन्ति ' ( तै ० उ ० ३।१ इति श्रुतेः । ते तव व्रते त्वदाराधनलक्षणे कर्मणि वर्तमाना वयं कदाचिदपि न रिष्येम न विनश्येम इह कर्मणि , त्वदाराधनस्य स्तोतारः त्वत्प्राप्तिफलकत्वात्, अमृतत्वलक्षणस्य मोक्षस्यापि निरावरणब्रह्मरूपत्वाच्च । ते तव स्मसि भवामः ॥ दयानन्दस्तु – ' हे पूषन् परमेश्वर आप्तविद्वन् वा वयं तव व्रते तस्माद् वर्तेमहि यतो न कदाचिद्रिष्येम इह ते स्तोतारः सन्तो वयं सुखिनः स्मसि स्मः ' इति, तदपि न मनुष्यस्य विदुषस्तादृशाभिप्रायपूरकत्वे माना-भावात् । न च मनुष्यस्तोतारः सुखिनो भवन्ति ॥ ४१ ॥
प॒थस्प॑थ॒ः परिपत वच॒स्या कामे॑न स नो॑ रासच्छुरुष॑श्च॒न्द्राग्रा॒ धियं॑ धिय
क॒तो अ॒भ्यानडर्कम् ।
सीषधाति॒ प्र दु॒पा ॥ ४२ ॥
मन्त्रार्थ - वांछित वेदवाणी से अभिमुख किये गये पूषा देवता देवयान और पितृयान मार्ग के स्वामी सूर्य को करने वाले साधनों को व्याप्त कर लेते हैं । वे सूर्यदेव हमें आह्लाददायक उपायों में अग्रणी, सभी प्रकार के दुःखों का नाश दें और अधिदैव एवं अध्यात्म सम्बन्धी साधनों से हमारी वृद्धि को भली प्रकार निर्मल करें ॥ ४२ ॥
यः पूषा कामेन, काम्यत इति कामम् तेन वाञ्छितेन इच्छया, वचस्या वचसा । वेदोक्तेन कीदृशमर्कम् , कृतः? अभिमुखीकृतः, अकं देवम् अभ्यानट्, आनशिर्व्याप्तिकर्मा ( निघ ० २।१८ ४ ), अभिव्याप्नोति शुरुधः शुचं पथस्पथः, मार्गस्य मार्गस्य सर्वेषां मार्गाणां परिपतिमधिपति स्वामिनम् । सः पूषा नोऽस्मभ्यं सन्तापं साधनाभावकृतम्, यानि साधनानि रुन्धन्ति तानि शुरुधानि लिङ्गव्यत्ययः । यद्वा शुचं शोकं रुन्धन्ति
पृष्ठ 503
पाठ पढ़ें पाठ छिपाएँ
१२० शुक्लयजुर्वेदसंहिता 1 अ ० ३४ । कीदृशः शुरुधः शोकनाशकराणि साधनानि रासद् ददातु । वर्णनाशात् पृषोदरादित्वात् शुरुध दर्शनात् इति । रूपम् पुनश्च स पूषा शुरुधः? चन्द्राग्राः, चन्द्रमाह्लादकमग्रं यासां ताः साधनानुष्ठानसम्पत्तावाह्लादस्य , धियं धियमिति ' नित्यवीप्सयोः ( पा ० सू ० धियं धियं सर्वाणि कर्माणि प्रसाधनानि प्रकर्षेण साधयतु । पथस्पथः ' शपः श्लुश्छान्दसः, द्वित्वम् । ८१४ ) इति द्वित्वम् । वचस्या विभक्तेर्यादेशः । सीषधाति, ' साध संसिद्धौ ६।१।७ ), उपधाह्रस्व छान्दसः । ' लेटोऽडाटा ' ( पा ० सू ० ३ | ४ | ९ ४ ), ' तुजादीनां दीर्घोऽभ्यासस्य ' ( पा ० सू ० । आदित्यमण्डलस्थ-अध्यात्मपक्षे - पूषा सर्वपोषकः परमेश्वरः, अकं देवमभ्यानट् भवति अभिव्याप्नोति , तदभावे सर्वमार्गाविरोधात् । स हिरण्मय पुरुषरूपेण तस्यैवोपलभ्यमानत्वादर्कः सर्वेषां मार्गाणां स्वामी आह्लादाग्राणि सर्वाणि - शोकनाशकानि एव पूषा कामेनेच्छया वचस्या वेदोक्तेन वचसा वा अभिमुखीकृत । व्याख्यानं पूर्ववत् । साधनानि ददाति, सर्वाणि पुरुषार्थसाधकानि कर्माणि च प्रकर्षेण साधयति वा शुरुधश्चन्द्राग्राः दयानन्दस्तु -- ' हे मनुष्याः! यो वचस्या कामेन कृतः पूषा जगदीश्वर । तमकं आप्तो पथस्पथः परिपतिं वयं साधनानि नो रासद् धियं धियं प्रसीषधाति, स शुभगुणकर्मस्वभावावभ्यानट् इत्यपि स्याम ' इति, तदपि न, सम्बोधनस्य ' स्तुयाम ' इति क्रियापदस्य च मन्त्रबाह्यत्वात् । कृतः सिद्ध निर्मूलम् । अन्यत्तु पूर्वानुकरणमेव ॥ ४२ ॥
त्रीणि पदा वि च॑क्रमे विष्णु॑गो॒पा अदा॑भ्यः । अतो॒ धर्म॑णि धा॒रय॑न् ॥ ४३ ॥
को व्याप्त कर लिया था । इन मन्त्रार्थ — जगत् के रक्षक अविनाशी विष्णु ने अपने तीन डगों से सारे संसार तीन चरणों की सहायता से ही धर्म सुरक्षित है ॥ ४३ ॥
विक्रान्तवान्, वैष्णव्यौ गायत्र्यौ । द्वयोर्ऋचोरेकवाक्यता । यो विष्णुर्यज्ञस्त्रीणि पदा पदानि समस्तस्य विचक्रमे जगतः पालयिता, अग्निवाय्वादित्याख्यानि पदानि व्याप्तवान् । कीदृशो विष्णुः? गोपाः, गोपायिता , धर्माणि पुण्यानि कर्माणि धारयन् । अदाभ्योऽनुपर्हिस्यः, अप्रधृष्यत्वात् । किं कुर्वन्? अतोऽस्मादेव पदत्रयात् ' धर्ममस्त्रियाम् ' ( अ ० को ० १ ४ २४ ) इति धर्मशब्द उभयलिङ्गः । पदा अध्यात्मपक्षे - यो विष्णुः, वेवेष्टीति विष्णुर्व्यापनशीलः परमात्मा नारायणः, बलि प्रत्तवान् छलयन् त्रीणि । कीदृशो पदानि विचक्रमे क्रान्तवान्, त्रिभिः पद्भिः सर्वं लोकत्रयं विक्रम्य स्वायत्तीकृत्येन्द्राय विष्णोः ' ( मे ० दू ० १११५ ) इति विष्णुः? गोपाः, जगतो रक्षकः, विशेषेण गवां पालकः ' गोपरूपस्य । किं कुर्वन्? अतोऽस्मादेव महाकविनोपश्लोकितत्वात् । अदाभ्योऽसुरराक्षसादिभिरनुपहस्य, सर्वैरप्रधृष्यत्वात् धर्मकर्मलोपसम्भवात् । विक्रमणाद् धर्माणि धर्मान् कर्माणि वा धारयन् । तदभावे लोकत्रयस्यासुरायत्तत्वेन -पदा विचक्रमे, स एव दयानन्दस्तु – ' हे मनुष्याः! योऽदाभ्यो गोपा विष्णुर्धर्माणि धारयन्नतस्त्रीणि । अदाभ्योऽनुपहस्य एव, नाहिंसकत्वम्, पूजनीयः ' इति, तदपि यत्किञ्चित्, विक्रमणस्य व्यापकमात्रेऽनुपपत्तेः हेतुत्वाभावात्, दुष्टानां नाशकत्वात् । धर्माणीत पुण्यान्येव न पृथिव्यादीनि तद्धारणस्य विक्रमणे शतुर्हेत्वर्थकत्वात् ॥ ४३ ॥
तद्विप्रा॑सो विप॒न्यवो॑ जाग॒वाभि॑स॒ः समि॑न्धते । विष्ण॒र्य॑त्य॑र॒मं प॒दम् ॥ ४४ ॥
5 जागरणशील विद्वान् पुरुष सदा उस मन्त्रार्थ- - साकार ब्रह्मस्वरूप विष्णु का जो ब्रह्मरूप परम पद है, निष्काम परम पद की उपासना करते हैं ॥ ४४ ॥
पृष्ठ 504
पाठ पढ़ें पाठ छिपाएँ
म ० ४४-४५ ] वेदार्थपारिजातभाष्यसहिता १२१ तत् तस्य विष्णोर्यज्ञस्य यत्परमं पदं ब्रह्मलोकलक्षणम्, तद्विप्रासो मेधाविनो ब्राह्मणाः समिन्धते समिन्धयन्ति दीपयन्ति अभिव्यञ्जयन्ति तपः समाधिभिः । कीदृशा विप्राः? विपन्यवः, विगतः पन्युः संसार-व्यवहारो येभ्यस्ते निष्कामा विगतव्यवहाराः, जागृवांसोऽसुप्ता अप्रमत्ताः, ज्ञानकर्मसमुच्चयानुष्ठानेन यज्ञरूपस्य विष्णोः परमं पदं प्राप्यं फलं ब्रह्मलोकं संदीपयन्ति प्रकाशयन्ति प्राप्नुवन्तीत्यर्थः । ' समिन्धते ' इत्यत्र णिचो लोपो द्रष्टव्यः । अध्यात्मपक्षे - तस्य विष्णोः परमेश्वरस्य यत्परमं सर्वोत्कृष्टं पदम् पद्यते गम्यते प्राप्यते मुक्तैर्यत्तन्मुक्तो-पसृप्यं स्वरूपं विप्रासो मेधाविनो विपन्यवो विगतप्रपञ्च व्यवहारा जागृवांसो मोहनिद्रातः प्रबुद्धाः, प्रकाशयन्ति साक्षात्कारयन्त्यधिकारिजनान् । दयानन्दस्तु ' हे मनुष्याः, ये जागृवांसो विपन्यवो विप्रासो विष्णोर्यत् परमं पदमस्ति तत्समिन्धते । तत्संगमेन यूयमपि तादृशा भवत ' इति, तदपि न, स्वप्रकाशस्य प्रकाशनासम्भवात् । विपन्यवः स्तोतार इत्यप्यसाम्प्रतम्, स्तुतिकाले समाधानाभावेन निर्वृत्तिकत्वाभावेन तदेकलभ्यस्योपलम्भासम्भवात् । तस्माद्विगत-व्यवहारा इत्येवार्थः ॥ ४४ ॥
घृ॒तव॑तो॒ भुव॑नानामभि॒श्रियो॒र्वी पृथ्वी म॑धुदुषे॑ स॒पेश॑सा ।
द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥ ४५ ॥
मन्त्रार्थ - घृतरूपी जल से परिपूर्ण, सारे भुवनों की आश्रयस्वरूप, विस्तीर्ण, मधुदोहन में समर्थ, सुरूप जरा - रहित, सब प्राणियों में वीर्य का संचालन करने वाली पृथ्वी और अन्तरिक्ष वरुण की धारणा शक्ति से स्तंभित हैं ॥ ४५ ॥
द्यावापृथिवीदेवत्या जगती । द्यावापृथिवी द्यावाभूमी, घृतवत्यौ घृतमुदकं तद्वत्यौ, भुवनानामभिश्रिया भुवनानां भूतजातानामभिश्रिया अभिश्रियो आश्रयणीये । कर्मणि क्विप्, विभक्तेराकारः । उर्वी उयौं विस्तीर्णे, पृथिवी पृथिव्यौ पृथुले, उर्वी पृथ्वीतिविशेषणद्वयेनायामविस्ताराभ्यां महत्त्वमुक्तम् 1 । मधुदुधे, मधु उदकं तस्य दोग्यौ प्रपूरयित्र्यौ, सुपेशसा सुरूपे, अजरे जरारहिते, भूरिरेतसा भूरि बहु रेतो वीर्यं ययोस्ते बहुरेतस्के, सर्वभूतरेतसां तत एवोत्पत्तेः । तादृश्यौ द्यावापृथिव्यौ वरुणस्यादित्यस्य धर्मणा धारणेन धारणशक्त्या विष्कभि स्तम्भिते, स्कभ्नोतिरत्र दृढीकरणार्थः । वरुणेन स्वशक्त्या दृढीकृते इत्यर्थः । अध्यात्मपक्षे - द्यावापृथिवी, द्यौः प्रकाशः पुरुषः, पृथ्वी प्रकृतिः । ते प्रकृतिपुरुषरूपे वरुणस्य सर्ववरणी -यस्य परमात्मनो धर्मणा धारणेन धारणशक्त्या विष्कभिते विधृते तिष्ठतः । कीदृश्यौ ते? घृतवत्यौ । घृतपदेन लक्षितलक्षणया असमवेतानि कर्माणि प्रोच्यन्ते । भुवनानां भूतानामभिश्रियो अभिश्रयणीयौ उर्वी विस्तीर्णे पृथ्वी पृथुले मधुदुघे अभीष्टसुखस्य प्रपूरयित्र्यौ सुपेशसा सुरूपे अजरे जरारहिते जीवस्य स्वरूपेण निर्विकार-त्वात्, प्रकृतेश्च प्रवाहरूपेण नित्यत्वात् । भूरिरेतसा, सर्वभूतानां कारणत्वात् । ' प्रकृति पुरुषं चैव विद्धयनादी उभावपि ' ( भ ० गी ० १३ । १ ९ ) इति भगवदुक्तेः । दयानन्दस्तु – ' हे मनुष्याः! यस्य वरुणस्य परमेश्वरस्य अजरे भूरितेजसा भुवनानामधिश्रिया द्यावापृथिवी विष्कम्भते
सम्बोधनस्य निर्मूलत्वात् । अन्यत्तु महीधराद्यनुकरणमेव ॥ ४५ ॥
१६ धर्मणा मधुदुधे सुपेशसा पृथिवी उर्वी घृतवती तमेवोपास्यं विजानीत ' इति, तदपि न,
पृष्ठ 505
पाठ पढ़ें पाठ छिपाएँ
१२२ शुक्लयजुर्वेद संहिता [ अ ० ३४
येन॑ स॒पत्ना॒ अव॒ ते भ॑वन्त्विन्द्राग्निभ्या॒मव॑ बाधामहे तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उपरि॒स्पृशं मोग्रं चेता॑र॒मधि॑राजम॑क्रन् ॥ ४६ ॥
मन्त्रार्थ - हमारे सभी शत्रु निर्वीर्यं निरुद्यम हो जायें । उन शत्रुओं को हम इन्द्र और अग्निदेव की सहायता से नष्ट कर दें । वसु, रुद्र और आदित्य देवता मुझे उच्च स्थान के उत्कृष्ट ज्ञाता के रूप में प्रतिष्ठित करें || ४६ || लिङ्गोक्तदेवत्या जगती । ये नोऽस्माकं सपत्नाः शत्रवस्तेऽपभवन्तु, अपगतवीर्या निरुद्यमा भवन्तु, पराभूता भवन्त्वित्यर्थः । यतो वयं तान् सपत्नान् इन्द्राग्निभ्यां इन्द्राग्निबलेन अवबाधामहे अवनाशयामस्तान् । किञ्च, easy, रुद्रा एकादश, आदित्याश्च द्वादश, एते मामेतादृशमक्रन् कुर्वन्तु । कीदृशम्? उपरिस्पृशम्, उपरि स्पृशतीत्युपरिस्पृक्, तमुपरिस्पृशम् उच्चस्थानस्थितम् । उपरि स्थितः स्पृशतीत्युपरिस्पृक्, आधिपत्येऽवस्थितः पादेन स्पृशतीति वा । तादृशं मां कुरु । उग्रमुत्कृष्टं चेत्तारं ज्ञातारम्, ' चिती संज्ञाने ' सर्वस्य ज्ञातव्यस्य अधिराजम्, अधिकचासौ राजा च अधिराजस्तमधिपतिमीश्वरं कुर्वन्तु । अध्यात्मपक्षे – ये नः सपत्ना: कामक्रोधादयस्तेऽपभवन्तु, अपगतवीर्या निरुद्यमा निष्फला भवन्तु । इन्द्राग्निभ्यां परमेश्वरस्यैश्वर्यतेजोभ्यां तदनुसन्धानबलेन तान् सपत्नान् बाधामहे । वस्वादयो देवा माम् उपरि-स्पृशं कामादीनामाधिपत्ये स्थितम् ईश्वरम् उग्रं चेत्तारं ज्ञेयस्य ज्ञातारम्, अक्रन् कुर्वन्तु । -दयानन्दस्तु – ' हे मनुष्याः, ये नः सपत्नाः स्युस्तेऽपभवन्तु । यथा तान् वयमिन्द्राग्निभ्यामवबाधामहे च, यथा च वसवो रुद्रा आदित्या उपरिस्पृशमुग्रं चेत्तारं मा मामधिराजमक्रन्, तथा तान् यूयमपि निवारयत, मां सत्कुरुत ' इति, तदपि न, सम्बोधनस्य निर्मूलत्वादेव । इन्द्राग्निभ्यां विद्युदस्त्राभ्यामप्रत्यक्षसपत्नानां बाधा-सम्भवात् । इन्द्राग्न्योर्देवयोस्त्वचिन्त्यशक्तित्वेन तत्सम्भवात् । न च त्वद्रीत्या जडा वस्वादयः कश्चिदुपरिस्पृशं चेत्तारं कर्तुं प्रभवन्ति, जडत्वादेव ॥ ४६ ॥
आ नसत्या त्रिभिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं
मधुपेय॑मश्विना ।
प्रायुस्तारिष्टं नी रर्पासि मृ॒क्षत॒ सेध॑तं॒ द्वेषि॒ भव॑त सचा॒भुवा॑ ॥ ४७ ॥
मन्त्रार्थ - हे अविनाशी अश्विनीकुमारों! त्रिगुणित किये गये ग्यारह अर्थात् तैंतीस संख्या वाले देवताओं के साथ आप इस यज्ञ में सोमपान के लिये आवें, हमारी आयु को बढ़ावें, हमारे पापों को दूर करें, हमारे दुर्भाग्य को नष्ट करें और हमें भले कामों में लगावें ॥। ४७ ॥ अश्विदेवत्या जगती । आयातमागच्छतम्, हे नासत्यौ हे अश्विनौ, त्रिभिरेकादशैस्त्रिगुणैरेकादशभि-स्त्रयस्त्रिशत्संख्याकैर्देवेभिर्देवैरिह स्थाने मधुपेयं मधुः सोमस्तस्य पेयं पानं सोमपानं प्रति, आयातमिति सम्बन्धः । किन, आयुर्जीवनं प्रतारिष्टम्, तरतिवृद्ध्यर्थः, प्रवर्धयतम् रपांसि पापानि, निर्मृक्षतं निःशेषेण शोधयतम्, नाशयतमित्यर्थः । द्वेषो दौर्भाग्यं सेधतम्, ' षिधु गत्याम् ', गमयतं नाशयतम् । सचाभुवा भवतम् । ' सचा ' इति सहार्थेऽव्ययम् । सचा सह भवतस्तौ सचाभुवा, कार्येषु संयुक्तौ भवतम् । हे अश्विनौ! तारिष्टम्, तरतेलुङि ' ' लेटोऽडाटौ मध्यम- ’ द्विवचनम् । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा ० सू ० ६।४।७५ ) इत्यडभावः । मृक्षतम्, ' मृजू शुद्धौ ० ( पा ० सू ० ३ | ४ | ९ ४ ), ' सिब्बहुलं लेटि ' ( पा ० सू ० ३।१।३४ ) इति सिप् । ' तस्थस्थमिपाम् ' ( पा ० सू ३ । ४ । १०१ ) इति व्यत्ययेन थसस्तमादेश इति महीधरः ।
पृष्ठ 506
पाठ पढ़ें पाठ छिपाएँ
म • ४७–४९ ] वेदार्थ पारिजातभाष्यसहिता अध्यात्मपक्षे — हे नासत्याविव रामलक्ष्मणौ बलकृष्णौ वा । अन्यत् पूर्ववत् । -१२३ दयानन्दस्तु —– ' हे नासत्यौ अश्विनौ राजप्रजाजनो, यथा युवामिह त्रिभिरेकादशैर्देवेभिः सह मधुपेयमायातम्, रपांसि मृक्षतं द्वेषो निषेधतम् सचाभुवा भवतमायुः प्रतारिष्टम्, तथा वयमपि भवेम ' इति, तदपि न, प्रार्थयितु-रपि राजप्रजाजनान्तर्गतत्वेन यथा तथेत्यनुपपत्तेः, नासत्यावित्यस्य राजप्रजाजनयोर्बोधे मानाभावात् । न च तौ त्रिभिरेकादशैर्देवैः सह पेयमागन्तुं शक्नुतः तेषां जडत्वेनागमनासम्भवात् । न च रपांसि शुद्धानि भवन्ति, पाप्मनां नाशेन पापिनामेव शुद्धिसम्भवात् ॥ ४७ ॥
ए॒ष वः स्तोमो॑ मरुत इ॒यं गोमा॑न्दा॒ार्यस्य॑ मा॒न्यस्य॑ क॒रोः । एषा या॑तीष्ट त॒न्व॑ व॒यां वि॒द्यामे॒षं व॒जने॑ ज॒रदा॑न॒म् ॥ ४८ ॥॥
मन्त्रार्थ - हे मरुद्गणों! वीतराग, मानाहं यजमान का यह स्तोम, यह सत्य वाणी आपके निमित्त है, अर्थात् यजमान इनसे आपकी स्तुति करता है । आप इसके परिवार में बाल्य आदि अवस्था से सम्बन्ध रखने वाले शरीर की रक्षा के लिये, इसे धन - धान्य से परिपूर्ण करने के लिये यहाँ आवें । जीवन को देने वाले बल के साधक धन - धान्य से हम परिपूर्ण हों ॥ ४८ ॥
मारुती त्रिष्टुप् । हे मरुतः, एष स्तोमः, इयं च गीः सत्या प्रिया च वाक्, वो युष्माकमस्तु, युष्मदर्थं वर्तत इत्यभिप्रायः । कारोः कर्तुर्यजमानस्य मम तं स्तोमं तां च गिरमुपश्रुत्य एषाऽयासीष्ट इषा अन्नेन निमित्तेन आ अयासीष्ट, अयासीरन्निति वचनव्यत्ययः । अन्नेन निमित्तेनाहूयमाना आगच्छत । कीदृशस्य कारोः? मान्दार्यस्य मामिति लक्षणया स्वस्वामिसम्बन्धं लक्षयति, स्वस्वामिसम्बन्धं दारयतीति मान्दार्यस्तस्य वीतरागस्य । यद्वा मां द्यति मां दारयतीति शत्रूणां यः प्रत्ययमादधाति स तथोक्तस्तस्य । यद्वा मन्दारः कल्पवृक्षः, तत्तुल्यो मान्दार्यः, तस्य कामपूरकस्य मान्यस्य मानार्हस्य | किमर्थमागन्तव्यमिति चेत्तत्राह - तन्वे वयां वयसां शरीरस्थित्यर्थं वयो दृढं कर्तुम् । वयसामित्यत्रामि टिलोप आर्षः । यद्वा वयसां बाल्ययौवनस्थविराणाम्, वयसां सम्बन्धिन्यै तन्वे शरीराय, अस्मच्छरीरं दृढीकर्तुमित्यभिप्रायः । किञ्च इषमन्नं बलं च वयं विद्याम लभेमहि । कीदृशमिषं वृजनं च? जीरदानुं जीवयतीति जीरदानुस्तम् । जीवेरौणादिको रदानुप्रत्ययः । ' लोपो व्योर्वलि ' ( पा ० सू ० ६ १ ६६ ) इति वलोपः । जीवितदातृ बलमन्नं च वयं प्राप्नुयामेति । अध्यात्मपक्षे - - हे मरुतः! मरुद् वायुः । वायुरपि परमेश्वर एव ' एकं सद् विप्रा बहुधा वदन्ति अग्नि यमं मातरिश्वानमाहुः ' ( ऋ ० १११६४।४६ ) इति मन्त्रवर्णात् । पूजायां बहुवचनम् । शेषं पूर्ववत् । -दयानन्दस्तु – ' हे मरुतो मनुष्याः मान्दार्यस्य मान्यस्य कारोरेष स्तोम इयं च गीर्वोऽस्तु । यूयमिषा वयां तन्वे । आजीरदानं मित्रं वृजनं च विद्यां लभेमहि ' इति, तदपि न, स्तोमशब्दस्य त्रिवृत्स्तोमादिप्रसिद्ध-मर्थमपहाय प्रशंसार्थग्रहणे मानाभावात् । मरुतो मनुष्या इत्यप्ययुक्तम् त्वयापि मन्त्रस्यास्य मरुतां देवतात्वाङ्गी -कारात् । न च मनुष्याणां प्रशंसा गीर्वोपयोगिन्यौ, न च मनुष्याणामागमनेन प्राणिनां विज्ञानबलादिप्राप्तिः सम्भवति तेषां तद्दाने सामर्थ्याभावात् ॥ ४८ ॥
स॒हस्ता॑माः स॒हच्छेन्दस आ॒वृत॑ः स॒हस्र॑मा॒ ऋष॑यः स॒प्त दैव्या॑ः ।
पूर्वषि॒ पन्था॑मन॒दृश्य॒ धीरा॑ अ॒न्वार्लेभिरे र॒थ्यो न र॒श्मीन् ॥ ४ ९ ॥
w
पृष्ठ 507
पाठ पढ़ें पाठ छिपाएँ
१२४ शुक्लयजुर्वेद संहिता [ अ ० ३४ मन्त्रार्थ के साथ, श्रुति प्रमाणों के साथ बुद्धिमान् प्रजापति सम्बन्धी - स्तोमों के साथ, छन्दों के साथ, भले कर्मों सात ऋषियों ने वेदप्रदर्शित मार्ग का अवलोकन कर सृष्टियज्ञ को उसी प्रकार सम्पन्न किया था, जैसे कि बागड़ोर की सहायता से रथी अश्व को अपने अभीष्ट स्थान की ओर ले जाता है ॥ ४ ९ ॥ ऋषिसृष्टिप्रतिपादिका त्रिष्टुप् । दैव्या सप्त ऋषयः, देवस्य प्रजापतेरिमे दैव्याः प्रजापतिप्राणाभिमानिनः सप्त ऋषयो भरद्वाजकश्यप गोतमात्रिवशिष्ठविश्वामित्रजमदग्निसंज्ञाः । सप्त ऋषय इति प्राप्ते व्यत्ययेन ऋषयः सप्त इति । एते पूर्वेषामधस्तन कल्पोत्पन्नानामवसिताधिकाराणां पन्थां पन्थानमनुदृश्य अवलोक्य अन्वालेभिरे अन्वालब्धवन्तः सृष्टवन्तः सृष्टियज्ञम् । पूर्वकल्पीया ऋषयो यथा सृष्टि कृतवन्तस्तथैव सृष्टवन्त इत्यर्थः, ' सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ' ( ऋ ० १०।१ ९ ०३ ) इति श्रुतेः । कथम्भूता ऋषयः सृष्टवन्तः? सहस्तोमाः, त्रिवृदादिस्तोमसहिताः " सहच्छन्दस श्छन्दोभिर्गायत्र्यादिभिः सहिताः, आवृतः, आवृच्छब्देन कर्मोच्यते, सहेत्यध्याहारः, सहावृतः कर्मसहिताः श्रद्धासत्यप्रधानानां कर्मणामनुष्ठातारः । सहप्रमाः प्रमा प्रमाणं तत्सहिताः सहप्रमाः शब्दप्रमाणपरीक्षणतत्पराः, सहप्रमास्तत्तद्विषयकयथार्थज्ञानवन्तो वा ' इमावेव गौतमभरद्वाजी ' sarda विश्वामित्र जमदग्नी इमावेव वसिष्ठकश्यपौ वागेवात्रि: ' ( बृ ० उ ० ३।२।४ ) इति दिशा । धीरा धीमतः । कथमिव सृष्टवन्तः? रथ्यो न रश्मीन् । नकार. उपमापर्याय: । रथे साधू रथ्यः, रथी यथा इष्टदेश-प्राप्त्यर्थं प्रथमं रश्मीन् प्रग्रहान् आलभते स्पृशति सृजति वा, तथा तेऽपि सृष्टियज्ञं कृतवन्तः । अध्यात्मपक्षे - ऋषयः सप्त दैव्याः प्रजापतेः प्राणाभिमानिनो ब्रह्मपरिणामभूता ब्रह्मात्मका एवावान्तर-सृष्टिकारणभूताः सृष्टियज्ञं कृतवन्तः । व्याख्यानं पूर्ववदेव । दयानन्दस्तु – ' हे मनुष्याः, यथा सहस्तोमाः सहच्छन्दस आवृतः सहप्रमाः सप्त दैव्या धीरा ऋषयो रथ्यो रश्मीनिव पूर्वेषां पन्थामनुदृश्यान्वालेभिरे तथा भूत्वा यूयमप्याप्तमार्गमन्वालभध्वम् ' इति, तदपि न, सम्बोधनादेर्निर्मूलत्वात् । न च पञ्चज्ञानेन्द्रियाणामन्तःकरणस्य च सहस्तोमत्वादिकं सम्भवति । न च वेदाध्ययनं ब्रह्मचर्यं गुरुकुलान्निवृत्तिर्गृहागमनं सहप्रज्ञानत्वं वेदार्थशास्त्रवित्त्वं च सम्भवति तेषां करणत्वेन कर्तृत्वासम्भवात् ॥ ४ ९ ॥ आ॒य॒ष्यं॒ वर्च॑स्य॒
रायस्पोष॒मौद्रि॒दम् ।
इ॒ हर॑ण्य॒ वर्च॑स्व॒ज्जेत्रायाविंशताद माम् ॥ ५० ॥
मन्त्रार्थ - यह पूर्ण आयु का और तेज का दाता, पुष्टि को बढ़ाने वाला, स्वर्ग का प्रकाशक, धन - धान्य से परिपूर्ण सुवर्ण हमारी सब प्रकार की विजय के लिये हमारी पवित्र आत्मा में प्रवेश करे ॥ ५० ॥
तिस्र उष्णिशक्वरीत्रिष्टुभो दक्षदृष्टाः । हिरण्यस्तुतिः । यदिदं हिरण्यं सुवर्णम्, आयुष्यम् आयुषे हितम्, वर्चस्यं वर्चसे तेजसे हितम्, रायो धनस्य पोषं पोषणकर्तृ वर्धकम् औद्भिदमुद्भिनत्तीत्युद्भित्, तदेवौद्भिदम्, स्वार्थे तद्धितम्, उद्भूतृ, धनस्य स्वर्गस्य वा प्रकाशकम्, वर्चस्वद् अनिसंयुक्तम्, तद् जैत्राय विजयाय आविशताद् आविशतु । उः पादपूरणः । मय्यवस्थानं करोत्वित्यर्थः । अध्यात्मपक्षे - यदिदं हिरण्यं ज्योतिर्मयं तद्विज्ञानं च तदायुष्यम्, तच्चिन्तनस्यामृतत्वहेतुत्वात् । वर्चस्यम्, तत्प्रतिपादकवेदाध्ययनस्य तदुपयोगिनो ब्रह्मचर्यस्य ब्रह्मवर्चोहेतुत्वात् । रायस्पोषम्, लौकिकस्य हिरण्यादे -राध्यात्मिकस्य ज्ञानवैराग्यादेश्व पोषकं वर्धयितृ । औद्भिदं सर्वपुरुषार्थप्रकाशकम् । वर्चस्वद् अन्नोपलक्षितसर्व-
पृष्ठ 508
पाठ पढ़ें पाठ छिपाएँ
म ० ५०-५२ ] वेदार्थ पारिजातभाष्यसहिता १२५ भोग्यप्रापकम्, सर्वस्य तत्रैवाध्यस्तत्वात् । तद् जैत्राय कामादिसपत्नविजयाय मामु मामेव विशतात्, मयि प्रत्यग-भिन्नब्रह्मरूपेणावस्थानं करोतु । दयानन्दस्तु - हे मनुष्याः, यदौद्भिदमायुष्यं वर्चस्यं रायस्पोषं वर्चस्वद्धिरण्यं जैत्राय मामाविशतात्, तदु युष्मानप्याविशतात् ' इति, तदपि न, वर्चसेऽध्ययनाय हितं वर्चस्यमित्यसङ्गतेः, अध्ययन प्रतिबन्धकत्वस्यैव प्रायेण तत्र दर्शनात्, वर्चः शब्दस्य तेजसि प्रसिद्धत्वाच्च ॥ ५० ॥
न तद्रक्ष॑सि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोज॑ः प्रथम॒ज ह्येतत् । यो बिभर्ति दाक्षाय॒ हिर॑ण्य॒ स दे॒वेषु॑ कृणुते दीर्घमायुः स म॑नु॒ष्येषु कृणुते दीर्घमायु॑ः ॥ ५१ ॥
मन्त्रार्थ -उस सुवर्ण को न तो राक्षस नष्ट कर सकते हैं और न पिशाच ही, क्योंकि यह सुवर्ण देवताओं का सबसे पहले उत्पन्न हुआ तेज है । जो पुरुष अलंकार के रूप में सुवर्ण को धारण करता है, वह देवलोकों में लम्बे समय तक निवास करता है, वह मनुष्य लोक में भी दीर्घायु होता है ॥ ५१ ॥
तद् हिरण्यं न रक्षांसि राक्षसा स्तरन्ति न च पिशाचास्तरन्ति । हि यस्मात् । एतद् हिरण्यं देवानां प्रथमजम् ओजः प्रथमोत्पन्नं देवानां तेज एवैतत् । अत एव यो हिरण्यं दाक्षायणमलङ्कारत्वेन बिर्भात, दाक्षायण-शब्दोऽलङ्कारवचन इत्युव्वटमहीधरी, स देवेषु देवलोकेषु दीर्घमायुः स्वस्य कुरुते, देवलोके चिरं वसतीत्यर्थः । मनुष्येषु कृणुते दीर्घमायुः, मानुष्यमायुरतिक्रम्य बहुकालं जीवतीत्यर्थः । अध्यात्मपक्षे - तद् हिरण्यं ब्रह्म तज्ज्ञानं वा । न च रक्षांसि न वा पिशाचास्तरन्ति हिंसन्ति, ब्रह्मण-स्तज्ज्ञानस्य च सर्वोपद्रवनाशकत्वात् । तच्च देवानां प्रथमजं प्रथमभावि, ओजो वर्चः, सर्वकारणकारणत्वात् । यो हिरण्यं तादृग् ब्रह्म तज्ज्ञानं वा दाक्षायणमलङ्कारवदादरेण बिर्भात हृदये धारयति, स देवेषु दीर्घमायुः कृणुते, मनुष्येषु च दीर्घमायुः कृणुते | देवेषु मनुष्येषु यस्तद्भक्तो भवति, तस्मै दीर्घमायुः प्रयच्छतीत्यर्थः । ' तस्मादात्मज्ञं ये भूतिकामः ( मुण्डको ० ३ । १ । १० ) इति श्रुतेः । दयानन्दस्तु – ' हे मनुष्याः, यद्देवानां प्रथमजमोजोऽस्त्रि, न तद्रक्षांसि न च पिशाचास्तरन्ति । यो ह्येतद् दाक्षायणं हिरण्यं बिभर्त, स देवेषु दीर्घमायुः कृणुते, स मनुष्येषु दीर्घमायुः कृणुते ' इति, तदपि यत्किञ्चित्, तद् अध्ययनं विद्याप्रापणं रक्षांसि पिशाचाश्च न तरन्तीत्यनुपपत्तेः, हिरण्यस्यैव तत्पदेन ग्रहीतुं योग्यत्वात् हिरण्यं तेजोदेवतेति त्वयाऽप्यङ्गीकारात् ॥ ५१ ॥
यदाध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः । तन्म॒ आ ब॑ध्नामि श॒तशा॑रदा॒याय॑ष्माञ्च॒रव॑ष्टा॒र्यथास॑म् ॥ ५२ ॥
मन्त्रार्थ - ईश्वर का मन में ध्यान करते - करते प्रजापति के पुत्रों ने जिस सुवर्ण को अनन्त सेना वाले नृपतिस्वरूप ब्रह्म में बाँधा, उस सुवर्ण को पूर्णायु की प्राप्ति के लिये मैं शरीर पर धारण करता हूँ, जिससे कि मैं दीर्घजीवन के निमित्त जीर्ण - शीर्ण शरीर में भी बना रहूँ ॥ ५२ ॥
दक्षस्यापत्यानि पुमांसो दक्षवंशोत्पन्ना ब्राह्मणाः सुमनस्यमानाः, शोभनं मनः कुर्वते सुमनस्यन्ते, सुमन-स्यन्त इति सुमनस्यमानाः, नडादित्वात् फक् । यद् हिरण्यं शतानीकाय राज्ञे, अबध्नन् बबन्धुः शतं बहून्यनीकानि
पृष्ठ 509
पाठ पढ़ें पाठ छिपाएँ
१२६ शुक्लयजुर्वेद संहिता [ अ ० ३४ यस्य तस्मै, तद् हिरण्यं शतशारदाय शतं शरदो जीवनायाहमपि बध्नामि । यथा येन प्रकारेण हिरण्यबन्धनाख्येन । कर्मणा अहमायुष्मान् दीर्घजीवी जरदष्टिश्च जरां प्राप्तो जरच्छरीरो वा, आसं भूयासम्, तथा आबध्नामि रामश्नुते व्याप्नोतीति जरदष्टिः । यद्वा जरन्ती जरां प्राप्ता अष्टिः शरीरं यस्य स जरदष्टिः । अध्यात्मपक्षे – सुमनस्यमाना दाक्षायणा ब्राह्मणा यथा शतानीकाय राज्ञे तद् ब्रह्मरूपं ब्रह्मज्ञानरूपं वा हिरण्यं, अबध्नन्, ब्रह्मगा ज्ञानेन वा संयोजितवन्तः, तथा तद् हिरण्यं मयि बध्नामि ब्रह्मणाऽऽत्मतादात्म्यमध्यवस्यामि जीवनाय यथा प्रत्यगभिन्नब्रह्मात्मसाक्षात्कारेण वाऽऽत्मानं योजयामि । किमर्थम्? शतशारदाय शतमनन्तशरदो । ब्रह्मचिन्तनशीलः येन प्रकारेणायुष्मान् दीर्घजीवी जरदष्टिश्च भूयासम् । ब्रह्मात्मतादात्म्यापत्तिरेवानन्तं जीवनम् शोकमोहातीतस्तपःसमाधिसम्पन्नः शरीरेणापि बहुकालं जीवतीत्याशयः । शतशारदाया-दयानन्दस्तु — ये दाक्षायणाः सुमनस्यमानाः शतानीकाय मे यद्धिरण्यमाबध्नन् ', इति तदहं , तदपि यत्किञ्चित्, बध्नामि । हे विद्वांसः 1 यथाहं युष्मान् प्राप्य जरदष्टिरासम्, तथा यूयं मां प्रत्युपदिशत संगतोऽर्थः, अपत्यार्थप्रत्यय-हे विद्वांस इति सम्बोधनस्य निर्मूलत्वात् । दाक्षायणा इत्यस्य चातुर्यविज्ञानयुक्ता इत्य, तदपि न, मन्त्र-विरोधात् । ' यथाऽहं युष्मान् प्राप्य जरदष्टिरासम्, तथा यूयं मामुपदिशत ' इति यदुक्तम् बाह्यत्वात् । न च युष्मानिति पदं मूलेऽस्ति, आयुष्मानिति पदच्छेदाज्ञानात् ॥ ५२ ॥
उ॒त नोऽहि॑ब॑ध्य॒ः शृणोत्व॒ज एक॑पात् पृथि॒वी स॑मु॒द्रः ।
विश्वे॑ दे॒वा ऋता॒वृधो॑ हुव॒नाः स्तु॒ता मन्त्रः कविश॒स्ता अ॑वन्तु ॥ ५३ ॥
मन्त्रार्थ - हे अहिर्बुध्न्य और अज एकपाद नामक रुद्रों, पृथ्वी देवी और समुद्रों! आप सब देवता हमारी पूजित यह देवता बात सुनें कि आप सब यज्ञ की समृद्धि को देने वाले इस यज्ञ में आहूत हैं । मन्त्रों के द्वारा स्तुत मेधावियों के द्वारा हमारी सब ओर से रक्षा करें ॥ ५३ ॥
, नोऽस्माकं शृणोतु, वचांसीति बहुदेवत्या त्रिष्टुप् । उत अपि च, अहिर्बुध्न्य एकादशरुद्रेषु रुद्रविशेषः शृण्वन्तु । शेषः । अज एकपाद् रुद्रः प्राणो वा शृगोतु, पृथिवी च शृणोतु समुद्रश्च शृणोतु, विश्वे देवाश्च श्रुत्वा च ते सर्वेऽवन्तु पालयन्त्वस्मान् । कीदृशास्ते? ऋतावृधः सत्यवृधः, हुवाना आहूयमाना मन्त्राः, व्यत्ययेन मन्त्रैः स्तुताः कविशस्ताः कविभिः क्रान्तदर्शनैः शस्ताः प्रशस्ताः । आध्यात्मिकोऽर्थः - अहिर्बुध्न्यादयो ब्रह्मकार्यत्वाद् ब्रह्मात्मका देवाः सत्यवृध आहूयमाना मन्त्रैः स्तुता अविशस्ताः शृण्वन्तु श्रुत्वा च नोऽवन्तु । दयानन्दस्तु -- ' हे मनुष्याः, बुध्न्योऽहिरिव पृथिवी संमुद्रश्चैवैकपादजो नः शृणोतु ऋतावृधो हुवाना । विश्वे देवा उतापि च कविशस्ताः स्तुता नोऽस्मानवन्तु ' इति, तदपि न, मुख्यार्थत्यागगौणार्थग्रहणयोरेव दोषत्वात् ऋतावृधो अहिर्मेघो भवतु, अहिरिवेत्यर्थस्तु कुतस्त्यः? तथैव पृथिवीतुल्यः समुद्रतुल्य इत्यप्यनर्थं एव । न च विद्वांसः स्पर्धन्ते । स्तुताः स्तुतिप्रकाशका मन्त्रार्थविचारसाधका इत्यादिकमप्यसङ्गतम्, निर्मूलत्वात् ॥ ५३ ॥
इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्तू॑ स॒नाद्राज॑भ्यो जुह्वा जुहोमि ।
श॒णोतु॑ मि॒त्रो अ॑र्य॒मा भर्गो नस्तुविजा॒तो वरु॑णो॒ दक्षि॒ अधि॒श॑ः ॥ ५४ ॥
पृष्ठ 510
पाठ पढ़ें पाठ छिपाएँ
म ० ५४-५५ ] वैदार्थ पारिजातभाष्यसहिता मन्त्रार्थ - हे घृत छोड़ने वाले वेदवचन! बुद्धिरूप जुहू के द्वारा सदैव दीप्यमान आदित्यों के ॥ लिये ५४ ॥ समर्पित करता हूँ । मित्र, अर्यमा, भग, त्वष्टा, वायु, वरुण, दक्ष और अंशु देवता हमारी वाणी को सुनें १२७ यह हवि आदित्यदेवत्या त्रिष्टुप् । इमा गिरः स्तुतिवाचो जुह्वा स्रुचा आदित्येभ्यो जुहोमि, बुद्धिरूपया स्रुचा स्तुतिलक्षणा वाच आदित्येभ्यः समर्पयामि । कथम्भूता गिरः? घृतस्तूः घृतं स्तुवन्ति आदित्येभ्यः स्रवन्ति ता? घृतस्नवः सनात्, ता घृतप्रस्रविणीर्धृतप्रसारिणीर्वा घृतहोमसहचरिता वा, तुगभाव आर्षः । कीदृशेभ्य तुविजातो चिरकालं राजभ्यो दीप्यमानेभ्यस्ता बुद्धिरूपया स्रुचा हूयमाना नोऽस्माकं गिरो मित्रोऽर्यमा भगश्च । बहुजातस्त्वष्टा वातो वा, स हि बहुशः प्रजायते । वरुणो दक्षोंऽशश्च शृणोतु । सर्वे चँते सूर्यविशेषाः आध्यात्मिकोऽर्थः - ब्रह्मणः सार्वात्म्यद्योतनाय चिराद् राजमानानेकादित्यरूपेण ब्रह्मणः प्रार्थनम् । व्याख्यानं पूर्ववत् । दयानन्दस्तु – ' अहमादित्येभ्यो राजभ्यो या इमा गिरो जुह्वा सनाज्जुहोमि, स घृतस्नुर्नो गिरोऽमित्रोऽर्यमा न, आदित्यशब्दस्य स्वार्थत्यागे मानाभावात् । भगस्तुविजातो दक्षोंऽशो वरुणश्च शृणोतु ' इति, तदपि घृत-घृतमुदकमिव प्रदीप्तं व्यवहारं स्नान्ति शोधयन्ति ता घृतस्नुरित्यप्यसाम्प्रतम् । घृतमुदकमिति स्वीकारे
मिवेत्यस्य निर्मूलत्वात् । अन्यदपि तादृशमेव ॥ ५४ ॥
स॒प्त ऋष॑य॒ प्रति॑हिताः शरी॑रे स॒प्त र॑क्षन्ति॒ सद॒मप्र॑मादम् ।
स॒प्ताः स्वप॑तो लो॒कमी॑य॒स्त जागृत अस्व॑प्नजौ सत्रसदौ च देवौ ॥ ५५ ॥
2 हैं । ये मन्त्रार्थ- त्वचा, चक्षु, श्रवण, रसन, घ्राण और मन ये सात ऋषि हमारे शरीर में व्यवस्थित - प्राण, में सातों सदा सावधानी से हमारे शरीर की रक्षा करते हैं । सोते समय ये सातों ऋषि सारे देह में व्याप्त होकर हृदयाकाश - स्रोत के प्रवर्तक प्राण और स्थित विज्ञानात्मक ब्रह्म में प्रविष्ट हो जाते हैं । उस अवस्था में भी जागरणशील सबके जीवन अपान सदा जागते रहते हैं ॥ ५५ ॥
अध्यात्मवादिनी जगती । सप्त ऋषयः प्राणास्त्वक्चक्षुःश्रवणरसनघ्राणमनोबुद्धिलक्षणाः सप्त शरीरे स्वपतो प्रतिहिता नरस्य व्यवस्थिताः । ते सप्त सदं सदाकालमप्रमादं सावधानं यथा तथा शरीरं रक्षन्ति । ते । लोकमात्मानमीयुः । हृदयाकाशप्रतिष्ठितो विज्ञानात्माऽत्र लोकशब्दार्थः । कीदृशाः सप्त? आपः, देहव्यापनाः, आप्नुवन्ति व्याप्नुवन्ति देहमित्यापः । तत्र च संवित्स्थाने, तस्यामवस्थायाम्, तस्यामृषीणां लोकगमनावस्थायाम् स्वप्नो निद्रा जायते देव दीप्यमानौ प्राणापानौ जागृतो जागरणं कुर्वाते । कीदृशौ देवौ? अस्वप्नजौ, न शरीरं ययोस्तौ । ' प्राणेन रक्षन्नवरं कुलायम् ' ( बृ ० उ ० ४ | ३ | १२ ) इति श्रुतेः सुप्तिदशायां प्राण एव त्राणं कुलायं रक्षणं सत्रम्, रक्षति । तदभावे मृतानामिव शरीरं श्वापदगृध्रादयो भक्षयेरन् । सत्रसदौ, सतां जीवानां तदर्थं सीदत इति सत्रसदौ प्राणिनां जीवनरक्षितारौ । अध्यात्मपक्षे - पूर्ववदर्थः । , ते स्वपतः दयानन्दस्तु - ' ये सप्त ऋषयः शरीरे प्रतिहितास्त एव सप्ताप्रमादं यथा स्यात्तथा सदं रक्षन्ति पूर्वं सप्तमो जीवो सप्तापो लोकमीयुस्तत्रास्वप्नजौ सत्रसदौ च देवौ जागृत: ' इति, तदपि न, पूर्वापरविरोधात् इति । वचनविरोधात् । गृहीतः अत्र तु बुद्धिरिति । ऋषयो विषयप्रापका इत्यप्यसङ्गतम्, ' ऋषयो मन्त्रद्रष्टारः ' देहं व्याप्नुवन्ति, प्रतिहिताः प्रतीत्या धृता इत्यप्यसङ्गतम्, प्रतिशब्दस्य तथार्थत्वे मानाभावात् । न चेन्द्रियाणि
त्वगव्यतिरिक्तानां शरीरैकदेशस्थत्वात् । अन्यत्तु महीधराद्यनुकरणमेव ॥ ५५ ॥