वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 511–520

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 511–520

पृष्ठ 511

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 511 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२८ शुक्लयजुर्वेदसंहिता

उत्ति॑िष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे ।

उप॒ प्र य॑न्तु म॒रुतः॑ स॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भुवा सच ॥ ५६ ॥

[ अ ० ३४ मन्त्रार्थ - हे वेद के रक्षक अन्तर्यामी ब्रह्मणस्पति देव! हमारे इस यज्ञ कार्य प्रवृत्ति के लिये आप उठ खड़े होइये । अन्य देवताओं को चाहते हुए भी हम आपसे ही विशेष रूप से याचना करते हैं । सबको धन - धान्य देकर समृद्ध कर देने वाले मरुद्गण आपके समीप उपस्थित हों । हे यजमान! तुम भी इनके साथ निकल पड़ो, तीव्र गति से चलो, जिससे कि इनका साथ न छूटने पावे ॥ ५६ ॥

तिस्रो ब्राह्मणस्पत्यः द्वे बृहत्यौ तृतीया त्रिष्टुप् । हे ब्रह्मणस्पते, ब्रह्मणो वेदस्य पते! उत्तिष्ठ ऊर्ध्वो भव, आरब्धकार्यो भव । यस्माद् देवयन्तो देवान् कामयन्तो वयं यजमानास्त्वां भवन्तम् ईमहे आगच्छेति याच्यामहे । भवन्तमागच्छन्तं शोभनं ददति ते सुदानवः कल्याणदानाः शोभनदानशीला मरुतो देवा उप समीपे प्रयन्तु उपागच्छन्तु । हे इन्द्र! त्वमपि सचा सहागमनाय प्राशुः प्रकर्षेण त्वरावान् भव । ईमहे याचति कर्मसु पठितः ( निघ ० ३।१२।१ ), ' ई गतौ ' दिवादित्वादागतस्य श्यनश्छान्दसो लोपः । सुदानवः ' दामाभ्यां नुः ' ( उ ० ३।३२ ) । प्राशुः, आशुशब्दे दीर्घश्छान्दसः । संहितायां ' द्वचोऽतस्तिङः ' ( ६।३।१३५ ) इति दीर्घः । अध्यात्मपक्षे — ब्रह्मणस्पतिः परमेश्वर एव तस्यैव वेदजनकत्वात्, सर्वस्वामित्वाच्च । यद्यपि परमेश्वरस्य व्यापकत्वादागमनप्रार्थना नोपयुज्यते, तथाप्युपाधिमाश्रित्य तदागमनमपि सम्भवत्येव । व्याख्यानं पूर्ववत् । दयानन्दस्तु - ' हे ब्रह्मणस्पते इन्द्र, देवयन्तो वयं त्वेमहे यं त्वा सुदानवो मरुत उपप्रयन्तु स त्वमुत्तिष्ठ । सचा प्राशुर्भव ' इति, तदपि न यः प्राश्नाति सः प्राशुरिति रीत्या सर्वस्यैव प्राशुत्वसम्भवात् । मरुतो मनुष्या इत्यपि निर्मूलम्, मुख्यार्थत्यागे मानाभावात् । सचा सत्यसमवायेनेत्यपि निर्मूलमेव निष्प्रमाणत्वात् ॥ ५६ ॥

प्र नूनं ब्रह्म॑ण॒स्पति॒र्मन्त्रं वदत्यु॒क्थ्य॒म् ।

यस्मिन्निन्द्रो वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओर्कासि चक्रिरे ॥ ५७ ॥

मन्त्रार्थ - हे ब्रह्मणस्पति देव! आप निश्चय ही हम से शस्त्र योग्य मन्त्रों का उच्चारण कराते हैं । जिस मन्त्र में इन्द्र, वरुण, मित्र, अर्यमा आदि देवता निवास करते हैं, उस मन्त्र का आप उच्चारण कराते हैं ॥ ५७ ॥

ब्रह्मणस्पतिर्देवो नूनं निश्चितमुक्थ्यं शंसनयोग्यं मन्त्रं प्रवदति प्रकर्षेणोच्चारयति । उक्थं शस्त्रमुच्यते, तत्र सन्नमन् मन्त्र उक्थ्यः । कथम्भूतोऽसौ मन्त्रः? यस्मिन् मन्त्रे इन्द्रश्च वरुणश्च, अर्यमा च, अन्ये देवाश्च ओकांसि निवासान् निवासस्थानानि कृतवन्तः । ' ओक इति निवासनाम ' ( निरु ० ३।३ ) | सर्वदेवानामाधारभूतं शस्त्रसमवेतं मन्त्रं पठति ब्रह्मणस्पतिरिति तादृशं देवं स्तुम इति शेषः । अध्यात्मपक्षे - ब्रह्मणस्पतिः परमेश्वर एव । ब्रह्मणस्पतिरूपादविशेषो वा भूत्वा तादृशमुक्थ्यं प्रवदति, यस्मिन् इन्द्रादयः सर्वे देवा वसन्ति । दयानन्दस्तु - ' हे मनुष्याः, यस्मिन्निन्द्रो वरुणो मित्रोऽर्यमा देवा ओकांसि चक्रिरे, स ब्रह्मणस्पतिः परमात्मोक्थ्यं मन्त्रं वेदाख्यं नूनं प्रवदतीति विजानीत ' इति, तदपि न, कण्ठतालवाद्यन्तरा परमेश्वरकर्तृक-वेदोच्चारणासम्भवात्, विद्युदादीनां जडत्वेनोकः कर्तृत्वासम्भवाच्च । न चाकाशवत् परमेश्वरस्य सावकाशत्वम् येन तत्रान्यानि तत्त्वानि वसेयुः, तस्य निरवयवत्वेन निरवकाशत्वात् ॥ ५७ ॥,

पृष्ठ 512

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 512 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५८ ] वेदार्थ पारिजातभाष्यसहिता

ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सूक्तस्य॑ बोधि॒ तन॑यं च जिन्व ।

विश्वं॒ तद्व॒द्रं यदव॑न्ति दे॒वा बृहद्वंदेम वि॒दथे॑ सु॒वीराः ॥

य इ॒मा विश्वा॑ वि॒श्वक॑र्मा॒ यो नः॑ पि॒ता अन्न॑य॒तेऽन्न॑स्य नो देहि ॥ ५८ ॥

॥ इति चतुस्त्रिशोऽध्यायः ॥ १२ ९ मन्त्रार्थ - हे ब्रह्मणस्पति देव! आप ही इस सूक्त के नियन्ता हैं, अतः सावधान होकर इसे सुनें और धन - धान्य से हमारी सन्तति को तृप्त करें । देवता जिससकल कल्याण की रक्षा करते हैं, वह कल्याण आप हमें दें दें । हम पुत्र - पौत्र आदि से सम्पन्न होकर इस यज्ञ में बार - बार आपकी स्तुति करते हैं ॥ ५८ । हे ब्रह्मणस्पते, त्वमस्य जगतो यन्ता नियन्ता, अतो विज्ञापयामि – सूक्तस्यास्मदुक्तस्य साधुवचनस्य, अवगतार्थो भव, कर्मणि षष्ठी, अस्मदुक्तं सूक्तं बोधि बुद्ध्यस्व । तनयं चास्मदपत्यानि जिन्व प्रीणीहि । तद्विश्वं भद्रमस्माकमस्तु, देवा यद् भद्रं कल्याणमवन्ति पालयन्ति । किश्च सुवीराः शोभनपुत्राः सन्तो वयं विदथे यज्ञे बृहद् महद् वदेम, दीयतां भुज्यतामिति महाभाग्यपूर्ण वाक्यमुच्चारयेम । अथ चतस्रः कण्डिकाः प्रतीकोक्ताः - ' य इमा विश्वा भुवनानि जुह्वत् ' ( १७/१७ ), ' विश्वकर्मा विमनाः ' ( १७/२६ ), ' यो नः पिता ' ( १७।२७ ), ' अन्नपतेऽन्नस्य नो देहि ' ( ११।८३ ) । ता ब्रह्मयज्ञेऽध्येतव्याः । अध्यात्मपक्षे - हे ब्रह्मणस्पते वेदपालक परमेश्वर! त्वमस्य सर्वस्य प्रपञ्चस्य यन्ता नियामकोऽसि । सूक्तस्य, सूक्तमस्मदुक्तसाधुवचनं बुद्धयस्वावगच्छस्व । तनयं च पुत्रान् तत्तुल्यान् शिष्यान् वा जिन्व प्रीणीहि । धर्मं ब्रह्मज्ञानादिप्रदानेन विश्वं सवं तद् भद्रं नोऽस्तु यद् भद्रं देवा अवन्ति पालयन्ति । सुवीराः कल्याणपुत्राः सन्तो वयं विदथे यज्ञे बृहद्वदेम दीयतां भुज्यतामिति कल्याणवचनमुच्चारयेम । दयानन्दस्तु – ' हे ब्रह्मणस्पते! देवा विदथे यदवन्ति यत् सुवीरा वयं बृहद्वदेम, तस्यास्य सूक्तस्य त्वं यन्ता भव, तनयं च बोधि । तद् भद्रं विश्वं जिन्व ' इति, तदपि न, ' ब्रह्मणस्पते ब्रह्माण्डस्य पते ' इति विवरणस्य निर्मूलत्वात्, ब्रह्मपदेन ब्रह्माण्डस्य ग्रहणे मानाभावात् । सूक्तस्य सुष्ठु वक्तुमर्हस्येत्यपि तथाविधमेव । अवन्ति उपदिशन्तीत्यपि निर्मूलमेव । तनयं विद्यापुत्रमित्यपि गौणार्थग्रहणमेव । ' विदथे विज्ञापनीये व्यवहारे ' इत्यपि निर्मूलमेव, तादृशेऽर्थे शिष्टैर प्रयुक्तत्वात् ॥ ५८ ॥

इति श्रीशुक्लयजुर्वेदमाध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां चतुस्त्रिशोऽध्यायः ॥ १७

पृष्ठ 513

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 513 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

पञ्चत्रिंशोऽध्यायः अपे॒तो य॑न्तु प॒णयोऽसु॒म्ना देवपी॒यव॑ः । अ॒स्य लो॒कः सु॒ताव॑तः । द्युभि॒रभर॒क्तुभि॒र्व्यक्तं य॒मो द॑दात्वव॒सात॑मस्मै ॥ १ ॥

मन्त्रार्थ --- देवताओं से द्वेष करने वाले दुःखदाता असुर इस स्थान से हट जाँय । यह सोमाभिषव के कर्ता यजमान का स्थान है । यमराज ऋतु, दिवस और रात्रि द्वारा स्पष्टीकृत इस स्थान को यजमान के लिये छोड़ दे ॥ १ ॥

पित्र्योऽध्यायः । आदित्यस्यार्षम् । स च पितृमेधो मृतस्य वर्षास्मरणे भवति, वर्षस्मृतौ तु विषमवर्षेषु भवति । ' पितृमेधः संवत्सरास्मृतौ, अयुग्मेषु वा ' ( का ० श्री ० २१।३।१-२ ) । संवत्सरस्मृत्य भावेऽयुग्मेषु संवत्सरेषु, स्मृतौ तु युग्मेष्विति व्यवस्थितो विकल्पः । एकनक्षत्रे, यदैकैव तारकाकाशे दृश्यते तदेकनक्षत्रम्, तस्मिन् हस्तस्वातिपुष्यादो, दर्शे ग्रीष्मे शरदि माघे वा पितृमेधं कुर्यात्, ' एकनक्षत्रे, अमावास्यायाम्, निदाघशरन्माघेषु ' ( का ० श्र ० २१।३।३-५ ) इति कात्यायनवचनेभ्यः । ' यावन्तो धुविष्यन्तः स्युस्तावतः कुम्भानादाय छत्राणि चापरिमितानि ' ( का श्र ० २१ | ३ | ६ ) | पुत्रपौत्रादिभिरुत्तरीय वस्त्रव्यंजन व अस्थिकुम्भस्योपवीजनं धवनम् । अतो यावन्तो धुविष्यन्तः स्युस्तावतः कुम्भान् कुम्भसंख्यातोऽधिकसंख्यानि छत्राणि चादाय सशरीरा दक्षिणा गच्छन्तीति सम्बन्धः । तेन पितृमेधं करिष्यता ' श्मशानं चिकीर्षतः कुम्भे सञ्चयनम् ' ( का ० श्रौ ० २५ | ८ | ७ ) इति रीत्या कुम्भ एवास्थ्नां चयनं कृत्वाऽरण्ये भूमिमध्ये तानि स्थापनीयानि । ततः कुम्भस्थानि तानि शारीराण्यस्थीनि ग्रामसमीपमाहृत्य कुम्भस्थान्येतानि तल्पे खट्वायां निधायाहत -वस्त्रस्यैकदेशेनास्थिकुम्भं सर्वतो वेष्टयित्वा लोहमयेषु वादित्रेषु पटहादिषु वाद्यमानेषु उद्धतायां वीणायां च वाद्यमानायाममात्या मृतस्य पुत्रपौत्राद्या उत्तरीयैर्वस्त्रैरुपवाजनैर्वा व्यजनैर्वा तमस्थिकुम्भरुपवाजयन्तस्त्रि-स्त्रिरप्रदक्षिणं परीयुः स्त्रियो वा परीयुः ( का ० श्र ० २१।३।७-८ ) । ' पूर्व रात्रमध्यापररात्रेषु च ' ( का ० श्र ० २१।३।९ ) । रात्रः पूर्वभागे मध्यभागे पाश्चात्यभागे च परिक्रमणं कुर्युः । ' विफल्फान्नमहतत् ' ( का ० श्री ० २१ | ३ | १० ) ' फल्फ वृद्धौ ' विफल्यं बहु अन्नं यत्र तदेतस्मिन्न् पितृमेधारम्भदिने बह्वन्नावदानं कर्तव्यमित्यर्थः । ‘ नृत्यगीतवादित्रवच्च ' ( का ० श्र ० २१ | ३ | ११ ) अस्मिन्नहनि नृत्यादिकमनवरतं कारयेत् । ' अन्नमस्मा उपसंहरन्त्येके ' ( का ० श्र ० २११३११२ ), ' उपव्युषस सशरीरा दक्षिणा यन्ति ' ( का ० श्र ० २१।३।१३ ) । उषसि विगच्छन्त्यां सह शरीरेणास्थिकुम्भेन सहिता यजमानाध्वर्ध्वमात्या दक्षिणस्यां गच्छेयुः । श्मशानान्तं कर्म कुर्वतो यथा रविरुदियात् तथा रात्रावारब्धव्यम् । तत्र वने गत्वा ग्रामान्मार्गान्न्यग्रोधाश्वत्थतिल्वक हरिद्रुस्फूर्जकविभीतक श्लेष्मान्तककोविदारादिभ्यश्च दूरेऽन्यवृक्षगुल्मादिवृते ऊषरे वोदकप्रवणे दक्षिणप्रवणे समे वा सुखकारिणि रम्ये वनादुदकाद्वा पूर्वभागे उत्तर-भागे वा वर्तमाने गर्तवति वीरणतृणवति प्रदेशे श्मशानार्थं दिक्कोणं पुरुषप्रमाणं क्षेत्रं मिमीते । पैत्रिक्यां द्विपुरुषं समचतुरस्रं कृत्वा करणीमध्येषु शङ्कवः स समाधिरिति यजुः परिशिष्ट ( ७२ ) शुल्बोक्तविधिना । तच्चतुरस्र-मुत्तरतः पश्चाच्च पृथु भवति, तत्पुरुषमात्रं क्षेत्रमुत्तरपार्श्वे पश्चाच्च पृथु कार्यम् । तद्यथा पुरुषस्य प्रमाणे विंशति-शताङ्गुलानि । तानि त्रयोदशधा विभज्यन्ते । नव नवैकस्मिन् भागेऽङ्गुलानि । एवं सप्तदशाधिकं शतमङ्गुलानि विभक्तानि भवन्ति । त्रीण्यङ्गुलान्यवशिष्यन्ते । तान्यपि त्रयोदशधा विभज्यन्ते । एकैकस्मिन् भागेऽङ्गुलस्य

पृष्ठ 514

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 514 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १ ] वेदार्थ पारिजातभाष्यसहिता १३१ चतुर्थो भागस्त्रयोदशांशोनो भवति । एवं त्रयोदशधा विभक्तेऽर्धसहिताः षड्भागा भवन्ति । अर्धभागे नवाङ्गुलानि स्वत्रयोदशांशोनाङ्गुलचतुर्थभागसहितानि भवन्ति । अतः पुरुषस्य चतुरस्रस्य दिक्स्थले प्राणभृदुपधानवत् पूर्वदक्षिणोत्तर पारयोर्न वाङ्गुलानि दशांशेनाङ्गुलचतुर्थभागसहितानि पुरुषप्रमाणमध्ये न्यूनानि कार्याणि । पश्चिमोत्तर पार्श्वयोस्तावन्ति पुरुषप्रमाणादधिकानि कार्याणीति सरलावृत्ती टिप्पणी । महीधराचार्यरीत्या पुरुषमात्रक्षेत्रस्याक्ष्णया प्राचीं कृत्वा तत्प्रान्तयोः शङ्कं निखाय सार्धाष्टादशाङ्गुलहीनां पुरुषद्वयप्रमाणामुभयतःपाशां रज्जुं मध्यमदेशे सलक्षणां कृत्वा पूर्वापरयोः शङ्कोस्तस्याः पाशौ प्रतिमुच्य मध्यलक्षणेन दक्षिणत आयम्य दक्षिणः कोणः साधनीयः । ततः सार्धाष्टाङ्गुलाधिकां पुरुषद्वयप्रमाणां रज्जुमुभयतः-पाशां मध्यलक्षणयुतां कृत्वा शङ्कोः पाशौ प्रतिमुच्य मध्यलक्षणेनोत्तरत आयम्योत्तरकोणः साध्यः । ततः पूर्वादिकोणेषु पालाशशमीवारणाश्ममयाश्चत्वारः शङ्कवो निखेयाः । एतत्कुर्वतां निकटे कश्चन यजमानपुरुष-स्तृणपूलकमुच्छ्रित्य धारयेत् । कर्मसमाप्तौ गृहमागत्य तं गृहेषूच्छ्रयेत प्रजावृद्धये । अत्र कात्यायनः-' अपसलविसृष्टया रज्ज्वा परितत्याऽपेतो यन्त्विति पलाशशाखया व्युहति ' ( का ० श्र ० २१।३।३२ ) इति । अपसलवि अप्रादक्षिण्येन निष्पादितया रज्ज्वा तत्क्षेत्रं समन्तादप्रदक्षिणं संवेष्ट्य ' अपेतो यन्तु ' ( ३५ | १ ) इति मन्त्रेण क्षेत्रमध्यपतिकं तृणपर्णादिकं पलाशशाखया क्षेत्राद् बहिर्निष्कासयेत् । अत्र कात्यायनेन शतपथब्राह्मणा-नुसारेणैव पितृमेधकर्म सूत्रितमिति ज्ञेयम् । तथा हि-' अथास्मै श्मशानं कुर्वन्ति । गृहान् वा प्रज्ञानं यो वै कश्च म्रियते स शवस्तस्मा एतदन्नं करोति तस्माच्छ-वान्न ँ , शवान्नः ७ ह वै तच्छ्मशानमित्याचक्षते परोक्षम् ' ( श ० १३ | ८ | ११२ ) ' यो वै कश्च म्रियते स शवः ' इत्यविशेषवचनादनग्निचितोऽपि श्मशानदर्शनात् । किमात्मकं तत्कुर्वन्ति? इत्यत आह- प्रेतस्य ग्रहान् वै तत्कुर्वन्ति । यथैवेह तेनास्थीनि रक्ष्यन्ते, एवममुत्र तदपूर्वेण प्रेतो रक्ष्यते गृहैरिवेत्यभिप्रायः । अमुष्य देवदत्ता -रास्थीनि गुप्तानीत्येतत्प्रज्ञायते येन तत्प्रज्ञानं च कीर्तिवर्धनं करणीयमित्यभिप्रायः । वर्णलोपगमादिना शवान्नं च श्मशानमित्याचक्षते परोक्षम् । पितॄणां दण्डपाशिस्वरूपा अत्तारः, तेऽकृत श्मशानस्यामुष्मिन् लोके पुण्यकृत्यामुपहिंसन्ति । तद्वै न क्षिप्रं कुर्यात् । यत्र समा नानु चन स्मरेयुरश्रुतिमेव तदघं गमयति यद्यनु-स्मरेयुः ' ( श ० १३३८ | १ | २ ) । ' अयुङ्गेषु संवत्सरेषु कुर्यात् । अयुङ्ग हि पितॄणामेकनक्षत्रं एकनक्षत्र, हि पितॄणाममावस्यायाममावास्या वा ' ' ' ' ' ( श ० १३ | ८ | १ | ३ ) । ' शरदि कुर्यात् ' ( श ० १३ | ८ | १ | ४ ) । चतुःस्रक्तिः । देवाश्चासुराश्वोभये प्राजापत्या दिवस्पर्धन्त ते देवा असुरान् सपत्नान् भ्रातृव्यान् दिग्भ्योऽनुदन्त तेऽदिक्काः पराभवन् तस्माद्या दैव्यः प्रजाश्चतुःस्रक्तीनि ताः श्मशानानि कुर्वतेऽथ या आसुर्यः प्राच्यास्त्वद्ये त्वत्परि-मण्डलानि ' ( श ० १३ | ८ | १ | ५ ) । ' उदीचीनप्रवणे करोति ' ( श ० १३२८१११८ ) ' कम्बति ( करीषवति ) कुर्यात् " " " शवति ( सुखवति ) वा ' ( श ० १३३८ | १ | १० ) । ' गुहा सदवतापि स्यात् ' ( श ० १३३८ | १ | ११ ) | गुहाग्रवृक्ष-गुल्मादिसंवृतम् । अवतापि अधौतापि । ' यस्येत्यादनुकाश: ' ( श ० १३ । ८ । १ । १२ ) । ' चित्रं पश्चात् स्यात् ' ( श ० १३ | ८ | १ | १३ ) | चित्रं दर्शनीयं वनगिरिदेवगृहादि स्यात् । ' ऊषरे करोति ' ( श ० १३३८ | १ | १४ ) समूले समूलं हि पितॄणां वीरिणमिश्र ' ( श ० १३ | ८ | १ | १५ ) । ' न भूमिपाशमभिविदध्यात् । न शरन्नाश्मगन्धान्ना-ध्याण्डान्न पृश्निपर्णीन्नाश्वत्थस्यान्तिकं कुर्यान्न विभीतकस्य न तिल्वकस्य न स्फूर्जकस्य न हरिद्रोर्न न्यग्रोधस्य ये चान्ये पापनामानो मङ्गलोपेप्सया नाम्नामेव परिहाराय ' ( श ० १३ | ८ | १ | १६ ) । ' तद्वै न महत् कुर्यात् ' ( श ० १३ | ८ | १ | १८ ) ( पुरुषमात्रं त्वेव कुर्यात् ' ( श ० १३३८।१।१ ९ ) । आद्या गायत्री । पणयोऽसुराः पणन्ति परद्रव्यैर्व्यवहरन्ति ये ते पणयः, असुम्ना नास्ति सुम्नं येषां सुखकराः, देवपीयवो देवानां हिंसितारो देवद्विषो देवान् पीडयन्ति हिंसन्ति ये ते तादृशास्ते इतोऽयन्तु

पृष्ठ 515

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 515 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३२ शुक्लयजुर्वेदसंहिता [ अ ० ३५ अपगच्छन्तु । ' व्यवहिताश्च ' ( पा ० सू ० ११४।८२ ) इत्युपसर्गस्य यन्त्विति क्रियापदेन व्यवधानम् । किमित्य-सुराणामपगमोऽभ्यर्थ्यते? तत्राह - अस्य यजमानस्यास्थिभूतस्यायं लोक: स्थानम् । कीदृशस्य यजमानस्य? सुतवतः सोमाभिषवं कृतवतः सुषावेति सुतवान् तस्य ' षूञ् अभिषवे ', क्तवतुप्रत्ययान्तः । ' अश्वरश्मिमति सुमति ' ( ३।६।२ ) इत्यादिना प्रातिशाख्यसूत्रेण संहितायां सुतशब्दस्याकारदीर्घः । इतो यजुः । द्युभिः क्रतुभिः, अहोभिर्दिवसैः अक्तुभी रात्रिभिश्च व्यक्तं प्रचारितमवसानं स्थानं यमो देवोऽस्मै यजमानाय ददातु । अवस्यन्त्यस्मिन्नित्यवसानं स्थानम् । द्युशब्देन श्रुतौ ऋतव उक्ताः, ' तदेनमृतुभिश्चाहोरात्रैश्च सलोकं करोति ' ( श ० १३/८/२/३ ) इति श्रुतेः । क्रत्वाद्यधिष्ठातृदेवताभिः प्रकटितं सलोकमस्मै यमो ददात्वित्यर्थः । ' अथैनत्पलाशशाखया व्युहति । यदेवादो व्युहन् तदेतदपेतो यन्तु पणयोऽसुम्ना देवपीयव इति पणीनेवैतदसुम्नान् देवपीयूनसुररक्षसान्यस्माल्लोकादपहन्त्यस्य लोकः सुतावत इति सुतवान् हि य ईजानो द्युभिरहोभिरक्तुभिर्व्यक्तमिति तदेनमृतुभिश्चाहोरात्रैश्च सलोकं करोति ' ( श ० ३२८/२/३ ) । देवादो यत्प्रयोजनं वाग्नि व्यहन् तत्प्रयोजनमेवैतत् पणयो व्यवहारप्रधाना देवपीयवः, पीयतिहिंसतिकर्मा । ' यमो ददात्ववसानमस्मा इति । यमो ह वा अस्यामवसानस्येष्टे तमेवास्मा अस्यामवसानं याचति । तान् दक्षिणोदस्य-त्युदगितरान् दैवं चैव तत् पित्र्यं च व्याकरोति ' ( श ० ३।८।२।४ ) । अध्यात्मपक्षे -- यमः, यच्छति नियमयति सर्वानिति यमः परमेश्वरः । अन्यत् पूर्ववत् । दयानन्दस्तु -- ' ये देवपीयवः पणयो सुम्नान्यन्येभ्यो ददति त इतोऽपयन्तु । लोको यमो द्युभिरहोभि-रक्तुभिरस्य सुतावतो जनस्य सम्बन्धिनेऽस्मै व्यक्तमवसानं ददातु ' इति, तदपि यत्किञ्चित् सुषावेति सुतवानित सरलार्थोपपत्तौ प्रशस्तानि सुतानि वेदवित्प्रेरितानि कर्माणि यस्येति व्युत्पत्तेगौरवावहत्वात्, सुतानि कर्माणीत्यस्य प्रमाणसापेक्षत्वात् । यमोऽपि प्रसिद्ध एव ग्राह्यः, न तु यन्तेति । अन्यत्तु महीधराद्यनुसरणमेव ॥ १ ॥

स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्या॑लो॒कम॑च्छतु । तस्मै॑ यु॒ज्यन्तामुखियः ॥ २ ॥

मन्त्रार्थ हे यजमान! सूर्यदेव तुम्हारे अस्थिरूप शरीर के लिये पृथ्वी से स्थान को चाहें, अर्थात् तुम्हारे लिये प्रतिष्ठाप्रद स्थान का संकल्प करें । तुम्हारा वह सूर्यदत्त स्थान बैल आदि से सुसंस्कृत हो, सुसज्जित हो ॥ २ ॥

' औदुम्बरसीर उत्तरतो वा षड्गवे युज्यमाने युङ्क्तेति सम्प्रेष्य सविता त इति जपति ' ( का ० श्री ० २१।३।३४ ) इति । ततोऽध्वर्युस्तां पलाशशाखां दक्षिणस्यां निरस्य परिश्रिद्भिर्वेष्टयित्वा तत्क्षेत्रस्य दक्षिणत उत्तरतो वा षड्भिरनडुद्भिः सीरं हलं युनक्ति । तस्मिन् युज्यमाने युङ्क्तेति सम्प्रेष्य सवितेति मन्त्रं जपति, ' अथैनत् परिश्रिद्भिः परिश्रयति । या एवाभूः परिश्रितस्ता एता यजुषा ताः परिश्रयति तूष्णीमिमा दैवं चैव तत्पित्र्यं च व्याकरोत्यपरिमिताभिरपरिमितो ह्यसौ लोक: ' ( श ० १३८ २ २ ) इति श्रुतेः । गायत्री । हे यजमान! सविता सूर्यस्ते तव शरीरेभ्यः, विभक्तिव्यत्ययः शरीराणाम्, पृथिव्यां लोकं स्थानमिच्छतु । नहि सविताऽननुज्ञातेन केनापि स्थातुं शक्यते । द्वितीयं वाक्यम् । सविता दत्ताय तस्मै क्षेत्राय शरीराय संस्कारार्थम् उस्त्रिया अनड्वाहो युज्यन्तां युक्ता भवन्तु । अध्यात्मपक्षे - सविता जगदुत्पादको जगदुत्पत्तिस्थितिलयलीलः परमेश्वरः । शेषं पूर्ववत् । दयानन्दस्तु – ' हे जीव! सविता यस्य ते शरीरेभ्यः पृथिव्यां लोकमिच्छतु तस्मै तुभ्यमुस्त्रिया युज्यन्ताम् ' इति, तदपि यत्किञ्चित्, ' हे जीव ' इति सम्बोधनस्य निर्मूलत्वात् । सिद्धान्ते तु सूत्रानुसारि यजमान -

पृष्ठ 516

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 516 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २-३ ] वेदार्थपारिजात भाष्यसहिता १३३ सम्बोधनम् । ' उस्त्रियाः किरणा: ' इत्यपि निर्मूलम् । सिद्धान्ते तु सूत्रानुसारेणानड्वाहो युज्यन्ते । सूत्रं च मन्त्र-व्याख्यानेऽत्रैव निर्दिष्टम् ॥ २ ॥

वायुः प॑नातु सवि॒ता पु॑नात्व॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा । वि मच्यन्तामुत्रियः ॥ ३ ॥

मन्त्रार्थ - हे सूर्य द्वारा यजमान को प्रदत्त पृथिवि! वायु तुम्हें पवित्र करें, सूर्य तुम्हें पवित्र करें, अग्नि की दीप्ति

और सूर्य के तेज से तुम शुद्ध हो । बैलों को हल से अलग कर दिया जाय ॥ ३ ॥

' अनुरज्जु चतस्रः सीताः कृषति वायुः पुनात्विति प्रतिमन्त्रमुत्तरतः प्रतीचीं प्रथमामिति ' ( का ० श्र ० २१।४।१-२ ) । अध्वर्युः परितो वेष्टितां रज्जुमनुलक्ष्यीकृत्य वायुः पुनात्विति प्रतिमन्त्रं पादेन पादेन चतस्रः सीता अप्रदक्षिणं कृषति । तत्र प्रथमां सीतामुत्तरपार्श्वे प्रतीचीं कृषति । दक्षिणतः सीरयोजनपक्षेऽपि तत्सीर -प्रदक्षिणमुत्तरत आनीय प्रथममुत्तरत एव कृषति । अत्र ब्राह्मणम् -- ' अथ दक्षिणतः सीरं युनक्ति । उत्तरत इत्यु हैक आहुः स यथा कामयेत तथा कुर्याद् युङ्क्तेति सम्प्रेष्याभिमन्त्रयते सविता ते शरीरेभ्यः पृथिव्यां लोकमिच्छत्विति सवितैवास्यैतच्छरीरेभ्यः पृथिव्यां लोकमिच्छति तस्मै युज्यन्तामुत्रिया इत्येतस्मा उ हि कर्मण उस्त्रिया युज्यन्ते ॥ षड्गवं भवति । षड् ऋतवः संवत्सर ऋतुष्वेवैनमेतत् संवत्सरे प्रतिष्ठायां प्रतिष्ठापयन्ति तदपसलवि पर्याहृत्योत्तरतः प्रतीचीं प्रथमा सीतां कृषति वायुः पुनात्विति सविता पुनात्विति जघनार्धेन दक्षिणामग्नेर्भाजसेति दक्षिणार्धेन प्राची, सूर्यस्य द्वै वर्चसेत्यग्रेगोदीचीम् ॥ चतस्रः सीता यजुषा कृषति । तद्यच्चतसृषु दिक्ष्वन्नं तस्मिन्नेवैनमेतत्प्रतिष्ठापयति यजुषाऽद्धा वै तद्यद्यजुरद्धो तद्यदिमा दिणः ॥ अथात्मानं विकृषति । तद् यदेव संवत्सरेऽन्नं तस्मिन्नेवैनमेतत्प्रतिष्ठा-पयति तूष्णीमपरिमिताभिरपरिमितो ह्यसौ लोक ॥ अथैनद्विमुञ्चति । कृत्वा तत्कर्म यस्मै कर्मण एनद्युङ्क्ते - ९ ) । विमुच्यन्तामु स्त्रिया ' युज्यन्ते तद्दक्षिणोदस्यत्युदगितरद् दैवं चैव तत् पित्र्यं च व्याकरोति ' ( १३३८ २२५ चत्वारि यजूंषि लिङ्गोक्तदेवत्यानि । ' हे पृथिवि! वायुस्त्वां पुनातु विदारयतु । सविता सूर्यस्त्वां पुनातु विदारयतु । अग्नेर्वर्चसा भ्राजसा दीप्त्या विदारयतु, सूर्यस्य वर्चसा तेजसा भ्राजिष्णुतया च त्वां विदारयतु । ' अहो विमुच्य विमुच्यन्तामिति ' ( का ० श्र ० २१।४।४ ) । एवं पूर्वोक्तचतुर्मन्त्रैः पार्श्वचतुष्के कर्षणं कृत्वा मध्येऽपि, सर्वं क्षेत्रं यथा कृष्टं स्यात् तथा परिमिताः सीताः कृत्वा वृषभान् सीराद्विमुञ्चति । वृषदैवतं यजुः । उस्त्रियाः उस्रा धेनुस्तदपत्यान्युस्रिया अनड्वाहो विमुच्यन्तां सीराद्वियुज्यन्ताम् । अध्यात्मपक्षे - हे साधक! वायुर्गतिगन्धनविशिष्टः परमेश्वरः, त्वां पुनातु पवित्रयतु । सविता सर्वकारणत्वविशिष्टः परमेश्वरस्त्वां पुनातु । स एव परमेश्वरोऽग्नेर्भ्राजसा दीप्त्या सूर्यस्य वर्चसा विमुच्यन्तां तेजसा त्वां पुनातु । हे उस्त्रियाः, अनड्वाह इव संसारशकटधुरिनियुक्ता जीवाः, वाय्वादीनामनुग्रहेण मुक्ता भवन्तु । दयानन्दस्तु - ' हे मनुष्याः! वायुरग्नेर्भ्राजसा सूर्यस्य वर्चसा यानस्मान् पुनातु, सविता पुनातु पावनीय , उस्त्रिया इति विमुच्यन्ताम् ' इति, तदपि न, सम्बोधनस्य निर्मूलत्वात् त्वद्रीत्या वायोर्जडस्य केन कः विवेकाभावात्पावकत्वानुपपत्तेः । उस्त्रियाः किरणाः क्व विमोक्तव्याः? कश्चास्य कर्तेत्यनुक्तेः । यच्च ‘ जीवा न, यदा शरीराणि त्यक्त्वा गर्भं प्रविशन्ति तदा किरणास्तान् त्यजन्तीति भावार्थ: ' इत्युक्तम्, तदपि निर्मूलत्वात् ॥ ३ ॥

पृष्ठ 517

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 517 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३४ शुक्ल यजुर्वेदसंहिता [ अ ० ३५ अश्वत्थे व नि॒षद॑नं प॒र्णे व वसतिष्कता । गोभाज इत्किलसथ॒ यत्स॒नव॑थ॒ पूरु॑षम् || ४ || मन्त्रार्थ - पीपल की लकड़ी से निर्मित उपभृत् और स्रुक् पात्र तुम्हारा स्थान है, पलाश - पत्र से निर्मित जुहू में तुम्हारा स्थान है । इस पात्र में हम हवि रखते हैं, होम के निमित्त जुहू में रखते हैं । हे हविभूत औषधियों, निश्चय ही तुम सब आदित्य की उपासना करने वाली हो, क्योंकि अग्नि में दी हुई आहुति आदित्य को प्राप्त होती है । अतः तुम सब अन्न आदि से यजमान को पुष्ट करो ॥ ४ ॥

' दक्षिणा सीरं निरस्याश्वत्थे व इति सर्वोषधं वपतीति ' ( का ० श्र ० २१ | ४ | ४ ) | हलं दक्षिणदिशि तूष्णीं प्रक्षिप्य कृष्टक्षेत्रमध्ये सर्वौषधं वपति । ' अथ सर्वोषधं वपति । यदेवादः सर्वोषधं तदेतद् बह्वीभिस्तद्वपत्येकयेदं दैवं चैव तत्पित्र्यं च व्याकरोत्यश्वत्थे वो निषदनं पर्णे वो वसतिष्कृतेति ज्योग् जीवातुमेवैभ्य एतदाशास्ते तथो raised जरसानुप्रति ॥ अथैतन्निवपति । इयं वै पृथिवी प्रतिष्ठाऽस्यामेवैतत्प्रतिष्ठायां प्रतिष्ठापयति पुरा -दित्यस्योदयात्तिर इव वै पितरस्तिर इव रात्रिस्तिर एव तत्करोति यथा कुर्वतोऽभ्युदियात् तदेनभुभयोरहोरात्रयोः प्रतिष्ठापयति ॥ ' ( श ० १३८ ३१ - २ ) । यद्वपति तदेकया ' अश्वत्थे ' इत्यनया वपति । ज्योक् चिरम्, जीवातु-जीवनम् एभ्यो जीवेभ्यस्तदाशास्ते यदद ओषधी रेवाह -- चन्द्रमसि युष्माकं धामानि । एषामेकैकं जरसा जीर्णः क्रमेणानुप्रैति । न च बहवो युगपत्, न वा अस्थविरा:, न वा अक्रमेण । एनं प्रेतं निर्वपति नीचैर्वपति । अनुष्टुप् । वो युष्माकमश्वत्थे आश्वय्यामुपभृति निषदनं स्यात्, हविषां तत्र स्थापनात् । वो युष्माकं पर्णे पर्णमय्यां जुह्वां वसतिः स्थितिः कृता, अध्वर्युणा होमार्थं जुह्वां स्थापनात् । हे हविर्भूताः सर्वोषधयः । यूय-मग्नौ हुताः सत्यो गोभाजोऽसथ भवथ । गामादित्यं भजन्तीति गोभाजः । किलेति विद्याप्रकर्षे । इत् एवार्थः । यद्वा अश्वत्थे फलिते सर्वोषधीनां फलवत्त्वेनाश्वत्थे निषदनम् । पलाशे च फलिते व्रीह्यादीनां फलितत्वेन पर्णे वसतिः । यद् यस्मात् कारणात् पुरुषं यजमानं यूयं सनवथ सेवध्वमन्नदानेन पोषयथ । देवाधिष्ठानादश्वत्थो लोके नतिप्रदक्षिणादिभिः पूज्यते, पलाशच्चेध्मादिरूपेण । एवं यूयं गोभाज एव भूभाज एव स्थ । १२ | ७ ९ इत्यत्र व्याख्यातपूर्वोऽयं मन्त्रः । अध्यात्मपक्षे --- हे जीवात्मानः साधकाः, न श्वोऽपि स्थातेत्यश्वत्थः, अश्वत्थे संसारवृक्षे, ' अश्वत्थं ' प्राहुरव्ययम् ' ( भ ० गी ० १५।१ ) इत्युक्तेः । ते निषदनम्, पर्णे पत्रे, अवश्यायकण इव ते वसतिः स्थितिः । ननु नित्यनिरतिशयब्रह्मरूपस्य मम कथमेवं स्थितिरिति तत्राह - किल प्रसिद्धम्, यूयं गोभाज एव गाव इन्द्रियाणि तानि भजन्तीति गोभाजः, यद्वा गौरिति पृथिव्यादिभूतपञ्चकस्योपलक्षणम्, इन्द्रियभाक्त्वात् पाञ्चभौतिकदेह-भाक्त्वाच्च तत्रैवं स्थितिरित्यर्थः । तस्मात् सर्वोपद्रवशान्तये यूयं पुरुषं परमात्मानं सनवथ सेवध्वम् । दयानन्दस्तु - ' हे जीवाः! ईश्वरेणाश्वत्थे वो निषदनं कृतं पर्णे वो वसतिः कृता । यत्पुरुषं किल सनवथ तेन सह गोभाज इह यूयं प्रयत्ने धर्मेऽसथ ' इति, तदपि न, रूढेर्योगापहारेण प्रसिद्धाश्वत्थपर्णाद्यर्थमपहाय लाक्षणिकार्थग्रहणस्य निर्मूलत्वात्, गौण मुख्यग्रहणसंशये मुख्यग्रहणस्यौत्सर्गिकत्वात् । बलवद्वाधकोपनिपाता-देवाकाशप्राणशब्दौ मुख्यार्थात् प्रच्याव्यान्यत्र प्रतिष्ठापितौ । न च बलवद् बाधकं किञ्चिद् दृश्यते । तस्मान्मुख्यार्थत्यागे प्रमाद एव ॥ ४ ॥

सवि॒ता ते॒ शरी॑राणि मा॒तुरु॒पस्य॒ आ व॑पतु । तस्मै॑ पृथिवि॒ शं भ॑व ॥ ५ ॥

मन्त्रार्थ हे यजमान, सूर्य तुम्हारे शरीर को पृथ्वी की गोदी में स्थापित करें । हे पृथिवि, तुम उस यजमान के अस्थिरूप शरीर को सुख प्रदान करो ॥ ५ ॥

पृष्ठ 518

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 518 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५-७ ] वेदार्थ पारिजात भाष्यसहिता १३५ ' सविता त इति शरीराणि निवपति मध्ये ' ( का ० श्र ० २१।४।५ ) । तस्य पुरुषमात्रस्य क्षेत्रस्य मध्ये मृतस्यास्थीनि राशीकरोति । एतच्च सूर्योदयकाले कर्तव्यम्, ' यथा कुर्वतोऽभ्युदियात् ' ( श ० १३ | ८ | ३ | २ ) इति श्रुतेः, ' सविता ते शरीराणि । मातुरुपस्थ आवपत्विति सवितैवास्यैतच्छरीराण्यस्यै पृथिव्यै मातुरुपस्थ आवपति तस्यै पृथिवि शम्भवेति यथैवास्मा इय ११ श स्यादेवमेतदाह प्रजापतौ त्वा देवतायामुपोदके लोके निदधाम्यसाविति नाम गृह्णात्ययं वै लोक उपोदकस्तदेनं प्रजापतौ देवतायामुपोदके लोके निदधाति ' ( श ० १३ | ८ | ३ | ३ ) इति च । गायत्री सवितृदेवत्या । हे यजमान! सविता सूर्यस्ते तव शारीराणि अस्थीनि मातुः पृथिव्या उपस्थे उत्सङ्गे आवपतु स्थापयतु । हे पृथिवि भूमे, तस्मै सवित्रोप्तायास्थिरूपाय यजमानाय शं सुखरूपा भव । अध्यात्मपक्षे - हे जीवात्मन्, सविता परमेश्वरः । अन्यत् पूर्ववत् । दयानन्दस्तु - ' हे पृथिवि कन्ये, त्वं यस्यास्ते शरीराणि मातुरुपस्थे स पिता आवपतु सा त्वं तस्मै पित्रे शं भव ' इति, तदपि यत्किचित् पृथिवीशब्दस्य मुख्यार्थत्यागे मानाभावात् । सवितृपदेनापि प्रसिद्धं सवितार-महायोत्पादकस्य पितुर्ग्रहणमपि निर्मूलमेव ॥ ५ ॥

प्र॒जाव॑तौ त्वा वे॒वता॑या॒मुपा॒दके लो॒के नि द॑धाम्यसौ । अप॑ न॒ शोशु॑चद॒घम् ॥ ६ ॥

मन्त्रार्थ हे पृथिवि, मैं जल के समीपवर्ती स्थान में, प्रजापति देवता की स्मृति में, तुम्हें स्थापित करता हूँ । वह प्रजापति हमारे पापों को दूर करें ॥ ६ ॥

प्रजापतिदेवत्या उष्णिक्, अस्थिनिवापे विनियुक्ता । असाविति नामग्रहणम्, अनुदात्तत्वादामन्त्रितम् - । तद्यथा - हे देवदत्त! उपोदके उदकसमीपवर्तिनि लोके स्थाने प्रजापतौ देवतायां त्वां निदधामि । स प्रजापतिर्नोई स्माकमघं पापमपशोशुचत् । ' शुच शोके ' यङ्लुगन्तम्, अत्यर्थं दहतु । अध्यात्मपक्षे - हे जीवात्मन्! उपादके, उदकमिति कर्मनाम, उदकसमवायित्वात् कर्मफलदातृत्वेन कर्मसमीपवर्तिनि लोके कर्मोपासनसमुच्चयानुष्ठानफलभूते प्रजापतौ हिरण्यगर्भे त्वां निदधामि । असौ प्रजापतिः । नोऽस्माकमघमपशोशुचत् । दयानन्दस्तु - ' हे जीव, योऽसौ नोऽघमपशोशुचत्, तस्यां प्रजापतिदेवतायामुपोदके लोके च त्वां निदधामि ' इति, तदपि न विकल्पानुपपत्तेः । तथाहि - कोऽसौ वक्ता? जीव ईश्वरो वा? नाद्यः, तस्य जीवान्तरधारणे सामर्थ्याभावात् । न च जीवो जीवान्तरं परमात्मन्युपोदके वा धारयितुं शक्नोति, अमूर्तस्य तस्य ज्ञाने धारणे वा सामर्थ्याभावात् । नान्त्यः, तस्याघाभावेन यो नोऽघमपशोशुचदित्युक्तेरयोगात्, परमेश्वर-धारणेनैवाभीष्टसिद्धावुपोदकधारणस्य निरर्थकत्वाच्च ॥ ६ ॥

पर मृत्यो अनु॒ परे॑हि॒ पन्था॑ यस्ते॑ अ॒न्य इत॑रो देव॒याना॑त् ।

चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑ः प्र॒जा रो॑रिषि॒ मोत वीरान् ॥ ७ ॥

-मन्त्रार्थ - हे मृत्यो, तुम यहाँ से पराङ्मुख होकर दूसरे मार्ग से जाओ । तुम्हारा मागं देवयान मार्ग से तुच्छ है । ज्ञानियों से सुनकर कहता हूँ कि तुम पितृयान मार्ग के अधिकारी हो । हमारी सन्तान, वंश - परम्परा का तुम नाश मत करो, हमारे वीर पुत्रों की भी रक्षा करो ॥ ७ ॥

पृष्ठ 519

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 519 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३६ शुक्लयजुर्वेदसंहिता [ अ ० ३५ ' प्रत्यागते परं मृत्यविति जपतीति ' ( का ० श्री ० २१ । ४ । ७ ) | दक्षिणां दिशं गत्वाऽनुच्छ्वशन् कुम्भं प्रक्षिप्यैहीति कश्चिद्विप्रः प्रेषितोऽस्ति तस्मिन् कुम्भं क्षिप्त्वा प्रत्यागते सति यजमानोऽध्वर्युर्वा जपति । ' अथ कश्चिदाह । एतां दिशमनवानन् सृत्वा कुम्भं प्रक्षीयानपेक्षमाण एहीति तत्र जपति परं मृत्यो अनु परेहि पन्थां यस्ते अन्य इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजा, रीरिषो मोत वीरानिति ज्योग्जीवातुमेवैभ्य एतदाशास्ते तथो हैषामेकैकोऽपरो जरसाऽनुप्रेति ' ( १३ | ८ | ३ | ४ ) । एतां दक्षिणां दिशम् । कश्चित् प्रकृतं पुरुषमाह - अनवानन् अनुच्छ्वसन् सृत्वा अस्थिकुम्भं प्रक्षिप्य ' क्षि हिंसायाम् ', प्रपूर्वः प्रक्षेपे वर्तते, प्रक्षिप्यानवेक्षमाण एहीति स वै यथा प्रेषितं करोति, तत्र च प्रत्यागते जपति परं मृत्यो इति । मृत्युदेवत्या त्रिष्टुप् संकसुदृष्टा । हे मृत्यो परा पराङ्मुखो भूत्वा परमन्यं पन्थां पन्थानं मार्गमन्विहि अनुगच्छ । यस्ते त्वदीयः पन्था देवयानात् पथ इतरः, देवयानानि यस्मिन् स देवयानः, तस्मादितरस्तुच्छोऽन्यः पितृयानाख्यस्त-मन्विहीति सम्बन्धः । किञ्च चक्षुष्मते ज्ञानिने शृण्वते च ते तुभ्यं मृत्योः! किञ्चिद् ब्रमीमि । आदरार्थं वचनम् । नहि मृत्योः किञ्चिदप्यदृष्टमश्रुतं वा अस्ति । षष्ठ्यर्थे चतुर्थी । चक्षुष्मतः शृण्वतस्तव वदामि । किमिति चेत्तत्राह - हे मृत्यो, नोऽस्माकं प्रजां सन्तति वंशपरम्परां मा रीरिषः, उतापि च वीरान् पुत्रान् मा हिंसीः । अध्यात्मपक्षे — देवयानात् पथोऽन्यः पितृयानाख्यः पन्था एव मृत्योर्विषयः, तत्रैव बाहुल्येन मृत्युप्रवृत्तेः । देवयानाख्ये पथि तु क्वचिदेव सकामे पुरुष एव प्रवृत्तिः अन्येषां परान्तकाल एव मृत्योः प्रवृत्तिः, ततः सर्वेषां मुक्तः, ' ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ' ( कैव ० उ ० ४ ) इति श्रुतेः । स्वतस्तु मृत्योर्न कस्मिन्नपि मार्गे प्रवृत्तिः, ब्रह्मविद्वरिष्ठत्वेन देवयानपितृयानमार्गातीतत्वात्, ' न तस्य प्राणा उत्क्रामन्ति इहैव समवलीयन्ते ' ( बृ ० उ ० ४ । ४ । ६ ) इति श्रुतेः । दयानन्दस्तु - ' हे मनुष्य! यस्ते देवयानादितरो मार्गोऽस्ति, तं पन्थानं मृत्यो परेहि मृत्युः परंतु । यतस्त्वं परं देवयानमन्विहि । अत एव चक्षुष्मते शृण्वतेऽहं ते ब्रवीमि यथा मृत्युनः प्रजां न हिस्यात् । उतापि वीरान्न हन्यात्, तथा त्वं नः प्रजां मा रीरिषः ' इति, तन्न, विरुद्धत्वाद्विशृङ्खलत्वाच्च व्यत्ययेन मृत्युः पत्वित्यङ्गीकारेऽपि विसङ्गतेः । हिन्दीभाष्ये दूरं गच्छत्वित्युक्तम्, तादृशेऽर्थे मृत्युपदं व्यर्थं स्यात् । को मृत्युं नियच्छेत? न जीवः, तस्य सामर्थ्यायोगात् । नेश्वरः, तस्य मृत्युर्नः प्रजां न हन्यादिति प्रार्थनासम्भवात् । विचित्रमिदम्, यमुपदिशति तमेव प्रार्थयते प्रजाया अहिंसनायेति केन किं श्लिष्यते ॥ ७ ॥

शं वातः श हि ते घृणि॒ि शं ते॒ भव॒न्त्विष्ट॑काः ।

श॑ ते॒ ववन्त्व॒ग्नय॒ पार्थि॑वास॒ मा त्वाऽभि श॑ शुचन् ॥ ८ ॥

मन्त्रार्थ - हे यजमान! वायु और सूर्यदेव तुम्हें सुख प्रदान करें । मध्य में और दिशाओं में स्थापित इष्टकाएँ तुम्हारे लिये सुखरूप हों । पृथ्वी की अग्नि तुम्हें सुख प्रदान करे, तुम्हें तापित न करे ॥ ८ ॥

' शं वात इति यथाङ्गं कल्पयित्वेष्टकां निदधाति मध्ये तूष्णीमिति ' ( का ० श्रौ ० २१।४।८ ) । शं वात इति मन्त्रद्वयेन तानि मध्ये न्युप्तान्यस्थीनि यथाङ्गं कल्पयित्वा यदस्थि यस्याङ्गस्य तेनास्थ्ता तदङ्गकल्पनया प्राक्शिरसं पुरुषाकृति कृत्वा तन्मध्ये पादमात्रामिष्टकां तूष्णीं निदधाति । ' अथैनं यथाङ्गं कल्पयति । शं वातः ते दिशः सर्वा इत्येतदेवास्मै सर्वं कल्पयत्येतदस्मै शिवं करोति ' ( श ० १३ | ८ | ३ | ५ ) । एवमस्थ्यात्मकं प्रेतं यथाङ्गं येष्वङ्गेषु यथा अङ्गं बभूव, तेषु तथैवेत्यस्मिन्नर्थेऽव्ययीभावः समासः । एतदस्मै प्रेताय सर्वं कल्पयति शिवं करोति ।

पृष्ठ 520

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 520 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ८-१० ] वेदार्थ पारिजातभाष्यसहिता १३७ ऋचावष्टुब्बृहत् विश्वदेवदेवते । हे यजमान! वातो वायुस्ते तव शं सुखरूपोऽस्तु । शं हि ते घृणिः सूर्यकिरणस्ते तव सुखरूपोऽस्तु । इष्टका मध्ये प्रतिदिशं च तिस्रस्तिस्रः प्रक्षिप्तास्ते तव शं सुखरूपा भवन्तु । अग्नयश्च ते तव शं सुखरूपा भवन्तु । पार्थिवासः पृथिव्यां भवाः पार्थिवावाग्नयस्त्वा त्वां माऽभिशुशुचन् मा शोचयन्तु माऽभितापयन्तु । ' अथ त्रयोदश पादमात्र्य इष्टका अलक्षणाः कृता भवन्ति ॥ त्रयोदश भवन्ति त्रयोदश मासाः ॥ पादमात्र्यो भवन्ति प्रतिष्ठा वै पादः ॥ तासामेकां मध्ये प्राचीमुपदधाति । स आत्मा तिस्रः पुरस्तान्मूर्धस ू हितास्तच्छिर स्तिस्रो दक्षिणतः स दक्षिणः पक्षस्तिस्र उत्तरतः स उत्तरः पक्षस्तिस्रः पश्चात् तत्पुच्छ सोऽस्यैष पक्षपुच्छ्वानात्मा यथैवाग्नेस्तथा ॥ अथ प्रदरात् पुरीषमाहर्तवा आह । एतद्धास्याः पित्र्यमनतिरिक्तमथो अघमेव तद्वद्धृ करोत्यस्मिन्नु हैकेऽवान्तरदेशे कर्षू खात्वा ततोऽभ्याहारं कुर्वन्ति स यथा कामयेत तथा कुर्यात् ॥ ' ( श ० १३।८।३।६ - १० ) इति च शतपथब्राह्मणवचनान्यत्र स्मर्तव्यानि । अध्यात्मपक्षे – हे साधक! वातस्ते शं सुखकरोऽस्तु । घृणिः सूर्यो हि निश्चयं सुखरूपोऽस्तु । इष्टका ब्रह्मदृष्ट्या दृष्टा इष्टकाचितिगता इष्टकास्ते शं भवन्तु, पार्थिवा अग्नयश्च ते शं भवन्तु, सर्वस्यैव ब्रह्मजत्वेन ब्रह्मरूपत्वात् । दयानन्दस्तु – ' हे जीव, ते वातः शं भवतु, घृणिः शं हि भवतु, इष्टकास्ते शं भवन्तु, पार्थिवासोऽग्नयस्ते शं भवन्तु, एते त्वां माभिशूशुचन् ' इति, तदपि न त्वद्रीत्या तादृशोक्तेरप्रासङ्गिकत्वात् । न च धर्मयुक्तव्यवहारो-पदेशेन तत्प्रसक्तिः, मन्त्रे व्यवहारोपदेशस्यादर्शनात् । अक्षरार्थस्तु महीधरानुसार्येव ॥ ८ ॥

कल्प॑न्ता॑ ते॒ विश्व॒स्तुभ्य॒माप॑ शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः ।

अ॒न्तरि॑क्ष शिवं तुभ्यं कल्प॑न्ता॑ ते॒ दिशः सर्वाः ॥ ९ ॥

मन्त्रार्थ -- हे यजमान! पूर्व आदि दिशाएँ तुम्हारे लिये शुभ संकल्प वाली हों, जल देवता तुम्हारे लिये कल्याण-कारी हो, समुद्र और अन्तरिक्ष तुम्हारे लिये कल्याणकारी हो, सारी विदिशाएँ तुम्हारे लिये शुभ संकल्प करें ॥। ९ ॥ ते तुभ्यं त्वदर्थं दिशः कल्पन्तां क्लृप्ताः समर्था भवन्तु । आपो जलानि तुभ्यं शिवतमा अत्यन्तं कल्याण-रूपाः सन्तु । सिन्धवः समुद्राश्च शिवतमास्तुभ्यं भवन्तु । अन्तरिक्षं शिवं कल्याणकारि, सर्वाः दिशस्ते तुभ्यं कल्पन्ताम् । आदरार्थं कात्स्न्यर्थं वा सर्वा इति पुनर्वचनम् । अध्यात्मपक्षे –'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ' ( छा ० उ ० ३ | १४ | १ ) । ब्रह्मदृष्ट्या सर्वाणि वस्तूनि सुखरूपाणि भवन्तु । व्याख्यानं पूर्ववत् । दयानन्दस्तु -- ' हे जीव, ते दिशः शिवतमाः कल्पन्ताम् । तुभ्यमापः शिवतमा भवन्तु । तुभ्यं सिन्धवः शिवतमा भवन्तु । तुभ्यं शिवमन्तरिक्षं भवतु । ते सर्वा दिशः शिवतमाः कल्पन्ताम् ' इति, तन्न, विकल्पा-नुपपत्तेः । तथाहि – जीवः परमेश्वरो वा वक्ता? न जीवः, दिगादीनां तद्वशवर्तित्वाभावात् । नान्त्यः, तस्य तथाज्ञायां सत्यां जीवानां कृते दिगादीनां प्रातिकूल्यानापत्तेः । धार्मिकाणां कृते तदाज्ञेति चेन्न मन्त्रे तथाऽनिर्देशात् ॥ ९ ॥

१८

अश्म॑न्वती रो॑यते॒ सभध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः ।

अत्र जोमोऽशिवा ये असंञ्छ॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥ १० ॥