वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 521–530

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 521–530

पृष्ठ 521

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 521 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

III शुक्लयजुर्वेदसंहिता [ ० ३५ पार पहुँचो । इस मन्त्रार्थ - हे मित्रों! बालू से भरी हुई नदी बहती है, इसमें उतरने का प्रयत्न करो, इसके अन्न हमें प्राप्त हो ॥ १० ॥

प्रदेश में जो अशान्त दुष्ट राक्षस आदि हों, उनका हम परित्याग करें । कल्याणप्रद ‘ अध्यधिगच्छन्त्यश्मन्वतीरिति ' ( का ० श्र ० २१ । ४ । २३ ) । गर्तान्मृदमानीय स्त्रिया भगमितं पूर्ववर्जदिग्भ्यः शूद्रस्य जानुमितं कृष्ट्वा वा मृदमानीय तत् श्मशानं विप्रस्य मुखमितं क्षत्रस्योरोमितं वैश्यस्योरुमितं तद्दक्षिणतो गर्तौ खात्वा क्षीरोदकाभ्यां सम्पूर्य सर्वेषां वा जानुमितं मृदा कृत्वा शैवलैः कुशैश्च प्रच्छाद्य पाषाणान् प्रक्षिप्या-श्मशानोत्तरे सप्त गर्तान् खात्वा दक्षिणोत्तरान् जलेन सम्पूर्योत्तरगर्तेऽध्वर्युयजमानामात्यांस्त्रीन् श्मन्वतीरिति मन्त्रेण तद्गर्तोपरि गच्छन्ति । क्षत्रियस्य अत्र ब्राह्मणम् - " तद्वै न महत् कुर्यात् । नेन्महृदघं करवाणीति यावानुद्वाहुः शूद्रस्यैवं पुरुषस्तावत् वीर्या ह्येत इति ॥ कुर्यान्मुखदघ्नं ब्राह्मणस्योपस्त्यदघ्न स्त्रिया ऊरुदघ्नं तस्य वैश्यस्याष्ठीवद्दघ्नः क्रियमाणस्य तेजनीमुत्तरतो धारयन्ति प्रजा ह अधोजानु त्वेव कुर्यात् । तथापरस्मा अवकाशं न करोति वा गृहेषु च्छ्येत् प्रजामेव तद् गृहेषुच्छ्रयति ॥ ' सा प्रजामेव तदुत्तरतो धारयन्ति तान् न न्यस्येद् धृत्वा वैनामूवा - ' सर्वेषां वाऽधोजानु ' ( २१ | ४ | १८ ) ( श ० १३।८।३।११-१२ ) । तेजनीं वीरणमूलम् । अत्रत्यं ' पक्षान्तरम् ( श ० १३ ८ । ४ । १ ) इत्यादिनाप्ययमर्थो वितानितः । इति कात्यायनेनापि प्रदर्श्यते । ' अथैनं शङ्कुभिः परिणिहन्ति नदी रीयते गच्छति, ' री गतौ ' विश्वेदेवदेवत्या त्रिष्टुप सुचीकदृष्टा । एषा अश्मन्वती प्रयतध्वम् पाषाणवती । संरम्भश्चोत्तरणाय प्रयत्नकरणमेव । दिवादिरात्मनेपदी । अतो हे सखायः, यूयमुत्तरणाय संरभध्वं । किमिति? यतोऽत्र प्रदेशे ये अशिवा अकल्याणरूपा उत्तिष्ठत अभिमुखा भवत । प्रतरत प्रकर्षेण तां नदीं तरत त्यक्तेषु शिवान् सुखकरान् वाजान् अन्नविशेषान् दुष्टा राक्षसादयः, असन् स्युः, तान् वयं जहीमः परित्यजामः । तेषु वयमुत्तरेम प्राप्नुयाम । पाषाणवती विषमा रागद्वेषादि -अध्यात्मपक्षे - हे सखायो मित्राणि साधकाः, एषा संसारनदी अश्मन्वती प्रयतध्वम्, उत्तिष्ठत निद्रां विहाय जाग्रत, मती रीयते, अतो यूयं संरभध्वमुत्तरणाय तत्त्वज्ञानेन तदतिक्रमणाय कर्तव्यम्? यतो यत्र प्रदेशेऽशिवा अशान्ताः काम-प्रबुद्धा भवत, प्रकर्षेण तां नदीं तरत | किमर्थं तदतिक्रमणं जहीमः परित्यजामः । ततो वयं शिवान् सुखमयान् क्रोधादिराक्षसाः, असन् सन्ति, तस्मात् तस्यास्तरणेन तान् संसारनदीतरणान्मोक्षसुखभोगान् वाजान् मोक्षरूपान् भोगान् उत्तरेम प्राप्नुयाम, ज्ञानवैराग्यभक्तिबलेन प्राप्नुयाम । असंस्तान् जहीम, शिवान् दयानन्दस्तु – ' हे सखायः, याऽश्मन्वती रीयते इति ,, तया तदपि वयं न, येऽत्राऽशिवा पूर्वोक्तदोषानतिक्रमणात् ॥ १० ॥

वाजानभ्युत्तरेम, तथा यूयं संभरध्वमुत्तिष्ठत प्रतरत च ' अपा॒घमय॒ किल्बिष॒मप॑ कृ॒त्यम॑यो॒ अपा॑माग॒ त्वम॒स्मदप॑ दु॒ष्वप्न्य॑ मन्त्रार्थ - हे अपामार्ग! तुम हमारे मानस पाप को दूर करो,

दूसरों के द्वारा हमारे विरुद्ध प्रयुक्त किये गये अभिचार कर्मों को दूर करो ।

स्वप्नों से पैदा होने वाले दुःखरूप फल को भी दूर करो ॥ ११ ॥

रप॑ः ॥

सुव ॥ ११ ॥

कीर्ति के नाशक शारीरिक पाप को दूर करो । हमारी वाणी के पापों को दूर करो और बुरे ' अपाघमित्यपामार्गैरपमृजत इति ' ( का ० श्रौ २१।४।२४ ) । तेऽमात्या यज्ञोपवीतिनो भूत्वाऽप उपस्पृश्य हस्तगृहीतैरपामार्गैः स्वशरीरं शोधयन्ते, अपामार्गबीजैरुद्वर्तयन्तीति केचित् । लिङ्गोक्ता देवता, अनुष्टुप् शुनः-

पृष्ठ 522

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 522 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ११-१२ ] वेदार्थं पारिजातभाष्यसहिता १३ ९ शेपदृष्टा दुःस्वप्ननाशिनी । अत्र ब्राह्मणम् - ' पालाशं पुरस्तात् शमीमयमुत्तरतः वारणं पश्चात् ते ' ' है ' ' वृत्रशङ्कं नममुष्मि-दक्षिणतः ' ( श ० १३ | ८ | ४ | १ ) | ' अथ दक्षिणतः परिवक्रे खनन्ति । ते क्षीरेण चोदकेन च पूरयन्ति प्रकिरन्ति । ल्लोके कुल्ये उपधावतः सप्तोत्तरतस्ता उदकेन पूरयन्ति ' ( श ० १३ | ८ | ४ | २ ) । ' अश्मनस्त्रींस्त्रीन् अघमेव तदपमृजतेऽपाघमप ता अभ्युत्तरन्त्यश्मन्वती रीयते ' ( श ० १३ । ८ । ४ । ३ ) । ' अपामार्गेरपमृजते । किल्बिष ( श ० १३ | ८ | ४ | ४ ) इति । अपगमय च हे अपामार्ग, त्वमस्मद् अस्मत्तः सकाशादघं मानसं पापमपसुव अपगमय, ' सू प्रेरणे ', । अप किल्विषं कीर्तिभेदकं कीर्तिनाशकमकीर्तिकरं कायिकं च पापमपगमय । कृत्यां परकृतमभिचारमपसुव अपसुव । उ उरपः, ' रपो रिप्रमिति पापनामनी भवत: ' ( निरु ० ४।२१ ) इति यास्करीत्या रपः पापं वाचिकं च । चार्थः । दुःस्वप्त्यम्, दुष्टः स्वप्नो दुःस्वप्नः, तत्र भवं दुस्वप्न्यम्, दुःस्वप्नोत्थमसुखरूपं फलं चास्मत्तोऽपसुव अध्यात्मपक्षे - मानसकायिकवाचनिकपापापनोदने परकृत्यादुःस्वप्नादिजनितोपद्रवादिकापगमे । तदेवात्रोच्यते सति स्वस्थे । चेतसि ब्रह्मात्मसाक्षात्कारादिकं सम्पद्यते । तत्र च बाहयैर्द्रव्यैर्मन्त्रश्च मार्जनसेचनादिकमुपयुज्यते व्याख्यानं पूर्ववदेव । , दयानन्दस्तु — ' हे अपामार्ग सज्जनपुरुष, त्वमस्मदघमपसुव, किल्बिषमपसुव, कृत्यामपसुव । न च जडस्यापामार्गस्य , रपोऽपसुव दुःस्वप्न्यमपसुव प्रेरय ' इति, तदपि न, अपामार्गशब्दस्य प्रसिद्धार्थत्यागस्य निर्मूलत्वात् किल्बिषदुःस्वप्न्यादिकापनयनेऽ-तादृशप्रार्थनानुपपत्त्या गौणार्थाश्रयणमिति वाच्यम्, सज्जनपुरुषस्यापि परकीय युक्तत्वात् ॥ ११ ॥

सामर्थ्यस्य तुल्यत्वात् । सिद्धान्ते त्वपामार्गाधिष्ठातृदेवताया ऐश्वर्यवत्त्वेन तादृशप्रार्थनाया समि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुमि॑त्र॒यास्तस्मै॑ सन्तु॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्विष्मः ॥ १२ ॥

मन्त्रार्थ --- जलदेवता और ओषधियाँ हमारे लिये कल्याणकारी हों और उस हमारे शत्रु के लिये वे अमंगलमय हों, जो हमारे प्रति द्वेषभाव रखते हैं अथवा हम जिनके प्रति द्वेषबुद्धि रखते हैं, इस आशंका से कि यह हमारा अनिष्ट करेगा ॥ १२ ॥

' सुमित्रिया न इति स्नात्वाऽहतवाससोऽनडुत्पुच्छ्मन्वारभ्यानड्वाहमित्युद्वयमित्यागच्छन्तीति ' ( का ० श्री ० २१।४।२५ ) । ' सुमित्रिया ' इति मन्त्रेण स्नात्वा नूतनवस्त्राणि परिहितवन्तोऽनङ्वाहमिति मन्त्रेण वृषपुच्छमन्वारभ्य उद्वयमिति मन्त्रेण यजमानामात्या ग्रामानागच्छन्ति । यद्यप्यत्र ' सुमित्रिया ' इति मन्त्रेण स्नानमुक्तम्, तथापि ' सुमित्रियान इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं परिषिचतीति ' ( का ० श्री १ ९ ।५।१५ ) इति कात्यायन-वचनानुरोधाद् द्वयं विधेयम् । सुमित्रिया आप ओषधयश्व नोऽस्माकं साधुमित्रत्वेनोपस्थिताः सन्तु । यः शत्रुरस्मान् द्वेष्टि यं च वयं द्विष्मः तस्मै उभयात्मकाय शत्रवे आप ओषधयश्च दुर्मित्रिया अमित्रत्वेनावस्थिताः सन्तु । ८५२ इत्यत्र व्याख्यातोऽयं मन्त्रः । आध्यात्मिकोऽर्थस्तत्रैव द्रष्टव्यः । अत्र ब्राह्मणम् – ' यत्रोदकं भवति तत् स्नान्ति । सुमित्रिया न आप ओषधयः सन्त्वित्यञ्जलिनाऽप उपाचति वो वा आपो वज्रेणैवैतममित्रधेयं कुरुते दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्म इति यामस्य दिशं द्वेष्यः स्यात्तां दिशं परिषिचेत् तेनैव तत्पराभावयति ' ( १३ | ८ | ४ | ५ ) । ' स यदि स्थावरा आपो भवन्ति । स्थापयन्त्येषां पाप्मानमथ यदि वहन्ति वहन्त्येवैषां पाप्मान स्नात्वाऽहतानि वासासि परिधायानडुहः पुच्छ्मन्वारभ्यायन्त्याग्नेयो वाऽनड्वानग्निमुखा एव तत्पितृलोकाज्जीवलोकमभ्यायन्त्यथो अग्निर्वे पथोऽतिवोढा

पृष्ठ 523

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 523 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४० शुक्लयजुर्वेदसंहिता [ ० ३५ स एनानतिवहति ' ( श ० १३ | ८ | ४ | ६ ) । ' उद्वयं तमसस्परीति । एतामृचं जपन्तो यन्ति तत्तमसः पितृ-लोकादादित्यं ज्योतिरभ्यायन्ति तेभ्य आगतेभ्य आञ्जनाभ्यञ्जने प्रयच्छन्त्येष ह मानुषोऽलङ्कारस्तेनैव तं मृत्युमन्तर्दधते ' ( श ० १३ | ८ | ४ | ७ ) दयानन्दस्तु - ' हे मनुष्याः! या आप ओषधयो नोऽस्मभ्यं सुमित्रियाः सन्तु, ता युष्मभ्यमपि तादृश्यो भवन्तु । योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्मा एता दुर्मित्रियाः सन्तु ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात् त्वद्रीत्याऽनीश्वराणामपां तादृशप्रार्थनाया निरर्थकत्वात् । सिद्धान्ते त्वापो देवता ऐश्वर्योपेताः सन्तीति श्रद्धया विधिना विशिष्टशक्तिमता मन्त्रेण प्रार्थिताः पूरयन्त्येवाभिलषितम् ॥ १२ ॥

अ॒न॒ड्वाह॑म॒न्वार॑भामहे॒ सौरभेयः॑ स्व॒स्तये॑ ।

स न इन्द्र इव देवेभ्यो वह्निः सन्तारंणो भव ॥

१३ ॥

मन्त्रार्थ- - गाय के पुत्र वृषभ का हम अपने कल्याण के लिये स्पर्श करते हैं । हे वृषभ! तुम हमारे तारक बनो, क्योंकि तुम ज्ञानियों की उसी तरह से रक्षा करते हो, जैसे इन्द्र देवताओं की रक्षा करते हैं ॥ १३ ॥

अनुष्टुप्, अनडुद्देवत्या । उत्तरोऽर्धर्चः प्रत्यक्षकृतः, अतो यच्छब्दाध्याहारेण व्याख्येयः । वयं यमनड्वा-हमन्वारभामहे आलभामहे स्पृशामः । कीदृशम्? सौरभेयम्, सुरभ्या अपत्यम्, ' स्त्रीभ्यो ढक् ' ( पा ० सू ० ४ | १ | १२० ) इति ढक् । किमर्थम्? स्वस्तये अविनाशाय । हे अनड्वान्, स त्वं नोऽस्माकं देवेभ्य इन्द्र इव संतारणस्तारको दुःखनाशश्च भव । किच, त्वं वह्निर्देवानां वोढा । तत्रैव दृष्टान्तः - देवेभ्य इन्द्र इव । इन्द्रो यथा देवार्थं तारकस्तथाऽस्माकं तारको भवेति । अध्यात्मपक्षे – वयं स्वस्तये कल्याणाय सौरभेयं सुरभेरपत्यमनड्वाहमिव धर्ममन्वारभामहे स्पृशामः । अनड्वन् धर्मप्रतीक! स त्वं नोऽस्माकं वह्निर्वोढा निर्वोढा, संतारणो दुःखेभ्यस्तारकश्च भव । दयानन्दस्तु – ' हे विद्वन्, यो वह्निर्नो देवेभ्यः संतारणो भवति, तं सौरभेयमनड्वाहमिव वर्तमानमग्नि वयं स्वस्तयेऽन्वारभामहे । स तुभ्यमिन्द्र इव मम भवतु ' इति, तदपि न मन्त्रे याननिर्माणस्याचचितत्वात् । न च तादृशे वह्नौ सौरभेयो दृष्टान्तमर्हति तुलनाऽदर्शनात् । न च जनौ सादृश्यम्, वैषम्यात् ॥ १३ ॥

उद्व॒यं तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ उत्त॑रम् । W दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्त॒ ज्योति॑रुत्त॒मम् ॥ १४ ॥

मन्त्रार्थ- -अन्धकारमय लोक से परम श्रेष्ठ स्वर्गं लोक को देखते हुए हम देवलोक में सूर्य देवता को देखते हुए श्रेष्ठ ब्रह्म ज्योति को प्राप्त करते हैं ॥ १४ ॥

उद्वयं तमस इति ग्राममागच्छति । वयं तमसस्परि तमसः सकाशात् तमोबहुलादस्माल्लोकाद् उदगन्म उद्गताः । कीदृशा वयम्? उत्तरमुत्कृष्टतरं स्वः स्वर्गं पश्यन्त ईक्षमाणाः । किञ्च देवत्रा देवलोके सूर्यं देवं पश्यन्तः सन्त उत्तमं ब्रह्मस्वरूपं ज्योतिरगन्म प्राप्ताः । २०/२१ इत्यत्र व्याख्याता ॥ १४ ॥

इ॒मं ज॒वेभ्यः॑ परि॒धि द॑धाम मैषां न गादप॑रो॒ अथो॑मे॒तम् । नु श॒तं जवन्तु श॒रवः॑ पु॒रू॒वीर॒न्तमृ॒त्यं॒ द॑धता॒ पर्व॑तेन ॥ १५ ॥

पृष्ठ 524

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 524 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १५-१६ ] वेदार्थ पारिजातभाष्यसहिता १४१ कोई भी शीघ्र, मन्त्रार्थ - मैं विद्यमान जीवों के लिये मर्यादा की स्थापना करता हूँ कि इन जीवों के बीच में के अनुकूल पूर्ण आयु अर्थात् प्रारब्ध कर्म की समाप्ति के पहले पितृलोक जाने का संकल्प न करे के । द्वारा दान, मृत्यु अध्ययन को अपने , याग से दूर रखे ॥ १५ ॥

पर्यन्त जीये और ब्रह्माण्डस्तम्भ रूप मर्यादा, अर्थात् कर्म, उपासना और ज्ञान ) । स्वनिवास -' ग्रामश्मशानान्तरे मर्यादालोष्टं निदधातीमं जीवेभ्य इति मन्त्रेण ' ( का ० श्र । ० अत्र २१।४।२६ ब्राह्मणम् - ' मर्यादाया ग्रामस्य श्मशानस्य च मध्ये मर्यादालोष्टं महत्तरं मृत्खण्डमध्वर्युरेव निदधाति अर्थमेतम् । शतं जीवन्तु एव लोष्टमाहृत्य । अन्तरेण निदधातीमं जीवेभ्यः परिधि दधामि मैषान्तु करोत्यसम्भेदाय गादपरो तस्मादु हैतज्जीवाश्च शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेनेति जीवेभ्यश्चैवैतां पितृभ्यश्च मर्यादां पितरश्च न सन्दृश्यन्ते ' ( श ० १३ । ८ । ४ । १२ ) । परिधि मर्यादाम्, परिधीयत मनुष्यदेवत्या त्रिष्टुप् संकसुकदृष्टा । जीवेभ्यो जीवितप्राणिभ्योऽर्थाय इमं मध्येऽपरः कश्चित् नु क्षिप्रम्, इति परिधिस्तम् दधामि स्थापयामि । किमर्थमिति चेत्, एषां जीवानां गच्छतु । एते जीवाः शतं शरदो वेदोक्तादायुषोऽर्वाक्, एतं पितृलोकगमनलक्षणमर्थं कार्यमुद्दिश्य मा गाद् मा पुरूच्यो दानाध्ययनयागानुकूलाः । जीवन्तु, शतवर्षायुषो भवन्तु । कथम्भूताः शरदः? पुरूची पुरु बहु अनन्तीति एते जीवाः । किन, पर्वतेन लोष्टरूपेण, पर्वतेनेव लोष्टेन वा मृत्युमन्तर्दधतां मृत्युमन्तर्हितं कुर्वन्तु, परमेश्वरः । अध्यात्मपक्षे – जीवेभ्यः प्राणधारिभ्यो वेदमिमं परिधि मर्यादां दधामि स्थापयाम्यहं एषां जीवानां मध्येऽपरः कश्चिदपि एतमर्थम् नु वितर्के, मा गाद् मा अतिक्रामतु, धातूनामनेकार्थत्वाद् जीवन्तु, गमेरतिक्रमणमर्थः । तथा मर्यादां पालयन्त एते पुरूची यागदानादिकर्मानुकूलाः शतं शरदो पर्वतेनेव ते मृत्युमन्तर्दधतां मृत्युमन्तर्हितं कुर्वन्तु वचनव्यत्ययः । जीवेभ्यः परिधि दयानन्दस्तु– ' अहं परमेश्वरः, एषां जीवानामपि प्रेतार्थमपरो मा नु गादितीमं ' इति, तदपि न, पर्वतपदेन दधामि, एवमाचरन्तो भवन्तः पुरूचीः शतं शरदो जीवन्तु, पर्वतेन मृत्युमन्तर्दधताम् मन्त्रे ' अन्यस्य ' इति ब्रह्मचर्यग्रहणस्य निर्मूलत्वात्, ' अन्यस्यार्थमन्यो न गृह्णातु ' इत्यर्थस्य च निर्मूलत्वात् पदाभावाच्च ॥ १५ ॥

अग्न॒ आयु॑षि पवस॒ आ सु॒वोर्ज॒मिषं च नः । आरे बधस्व दु॒च्छुना॑म् ॥ १६ ॥

दही - दूध आदि मन्त्रार्थ - हे अग्निदेव! आप ही आयु प्राप्त कराने वाले कर्मों के कर्ता हैं, हमें धन - कि धान्य हम और उनके आक्रमण से र दीजिये, दूर स्थित दुष्ट श्वानों के समान दुर्जनों की बाधा से हमारी रक्षा कीजिये, जिससे बच सकें ॥ १६ ॥

जुहोत्यग्न ' अञ्जनाभ्यञ्जने ' कृत्वौपासनं परिस्तीर्य वारणान् परिधीन् परिधाय नेत्राञ्जनमञ्जनम् वारणेन स्रुवेणैकामाहुति , तैलेन पादाद्यञ्जन -आयूष्यायुष्मानग्न इति ' ( का ० श्री ० २१ | ४ | २७ ) । कज्जलादिना वारणवृक्षावयवांश्चतुरः परिधींश्चतुर्दिक्षु मभ्यञ्जनम्, तद् द्वयं कृत्वा औपासनं कर्तुरावसथ्याग्नि दर्भेः परिस्तीर्यं प्रेतस्यैव तस्यैवाद्वारेण निरसनीय-तूष्णीमेव परिधाय वारणेन स्रुवेणैकामाहुति जुहुयाद् ऋद्वयेन । औपासनाग्निः कर्कादयः । त्वादिति हरिस्वामिनः । कर्तुरेवोपासने होमस्तस्यैकदेशनिरसनमिति -स्रुवेणाग्नय आयुष्मत अत्र ब्राह्मणम् – ' अथ गृहेष्वग्नि समाधाय । वारणान् परिधीन् परिधाय वारणेन इति पुरोऽनुवाक्याभाजनम् ॥ आहुति जुहोत्यग्निर्वा आयुष्मानायुषा ईष्टे तमेवैभ्य आयुर्याचत्यग्न आयुषि पवस

पृष्ठ 525

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 525 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४२ शुक्लयजुर्वेदसंहिता 1 अ ० ३५ अथ जुहोति | आयुष्मानग्ने हविषा वृधानो " यथैवैनानभिरक्षेद्यथाभिगोपायेदेवमेतदाह || तस्य पुराणोऽनड्वान् दक्षिणा| पुराणा यवाः पुराण्यासन्दी सोपबर्हणैषा न्वादिष्टा दक्षिणा कामं यथाश्रद्धं भूयसीर्दद्यात् ' ( श ० १३ | ८ | ४ | ८ - १० ) । हे अग्ने! त्वमायूंषि पवसे, स्वत एव आयुः प्रापकाणि पावयसे चेष्टय से | अन्तर्भूतण्यर्थो द्रष्टव्यः । अत एव नोऽस्मदर्थमिष्टं व्रीह्यादिकमन्नमूर्जं दध्यादिरसं च आसुव ज्ञापय, देहीत्यर्थः, जीवनहेतुत्वात् । किश्च, आरे दूरेऽपि स्थितानां दुच्छ्रनाम्, दुष्टाश्च ते श्वानश्च तेषाम् कर्मणि षष्ठी । दुष्टान् शुनः सारमेयप्रायान् दुर्जनान्

बाधकान् बाधस्व नाशयसि । १ ९ ।३८ इत्यत्र व्याख्याता ॥ १६ ॥

आयु॑ष्माग्ने ह॒विषा॑ वृधा॒नो घृतप्र॑तीको घृ॒तयो॑निरेधि ।

घृ॒तं पि॒त्वा मधु चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मान्त्स्वाहा॑ ॥ १७ ॥

मन्त्रार्थ - हे अग्निदेव! आप चिरायु हों । आप हवि से बढ़ते हैं, घृतयुक्त मुख वाले हैं । घृतरूप उत्पत्तिस्थान आप वृद्धि को प्राप्त हों । गाय के मधुर सुगन्धित घृत का पान कर आप इन जीवों की रक्षा करें, जैसे कि पिता पुत्र की रक्षा करता है । आपके लिये यह श्रेष्ठ आहुति समर्पित है ॥ १७ ॥

अग्निदेवत्या त्रिष्टुप् वैखानसदृष्टा । हे अग्ने, त्वमेवंभूतो निम्नोक्तविशेषणविशिष्टः, एधि भव । कीदृश:? आयुष्मान् चिरञ्जीवी । तथा हविषा वृधानः वर्धसेऽसौ वृधान:, ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७३ ) इति शानचि शपो लुक् । तथा घृतप्रतीको घृतं प्रतीकं मुखं यस्य सः । घृतयोनिः घृतं योनिरुत्पत्तिस्थानं यस्य सः । उत्तरवेद्यां धारणाभिप्रायमेतत् । स त्वं गव्यं घृतं च पीत्वा इमान् जीवान् अभिरक्षतात् । ' तुह्योस्तातङ्-ङाशिष्यन्यतरस्याम् ' ( पा ० सू ० ७ ११ । ३५ ) इति हस्तातङादेशः । तत्र दृष्टान्तः - पिता पुत्रमिव यथा पिता पुत्रं रक्षति, तद्वत् । कीदृशं घृतम्? मधु मधुरं चारु सुगन्धि । स्वाहा सुहुतमस्तु । अध्यात्मपक्षे -- हे अग्ने, पापदाहरु अग्न्यवच्छिन्न परमेश्वर! त्वमायुष्मान् चिरञ्जीवी एधि भव, तथा हविषा वृधानो वर्धमानः घृतप्रतीको घृतमुखो घृतयोनिः । हे अग्ने, स त्वं गव्यं मधु मधुरं घृतं पीत्वा पितेव पुत्रं यष्टारं मामभिरक्षतात् । तुभ्यमिदं सुहुतमस्तु । दयानन्दस्तु – ' हे अग्ने, यथा हविषा वृधानो घृतप्रतीको घृतयोनिरग्निर्वर्धते, तथाऽऽयुष्मांस्त्वमेधि, मधुचारु गव्यं घृतं पीत्वा त्वं पुत्रं पितेव स्वाहेमानभिरक्षतात् ' इति, तदपि यत्किचित्, अग्निपदस्य मुख्यार्थत्यागेन राजार्थग्रहणस्य निर्मूलत्वात् । घृतप्रतीकत्वघृतयोनित्वादिकमपि मनुष्यस्य निर्मूलमेव ॥ १७ ॥

परीमे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत । दे॒वेष्व॑क्रत॒ श्रव॒ क इ॒माँ २ ॥ आ धर्षति ॥ १८ ॥

मन्त्रार्थ- - इन जीवों ने वृषभ का स्पर्श किया है, अग्नि को तृप्त किया है, ऋत्विजों में घन और दक्षिणा का वितरण किया है । इस प्रकार के जीवों को कौन दबा सकता है? अर्थात् कोई भी नहीं ॥ १८ ॥

' अथैषां परिदां वदति परीमे गामनेषतेति ' ( का ० श्र ० २१।४।२८ ) । अध्वर्युयजमानामात्यानां परिदाम्, परिदा रक्षणम्, तत्संज्ञं मन्त्रं वदति । ' दाङ् पालने ' परिदीयते समन्ताद् रक्ष्यतेऽनेनेति परिदा रक्षणम्, तम् । इन्द्रदेवत्याऽनुष्टुप् । भरद्वाजात्मजशिरिम्बिष्ठदृष्टा । परितः सर्वतः, गामनड्वाहं पर्यनेषत परिणीतवन्तः, इमे जीवाः । अनडुपुच्छालभनाभिप्रायमेतत् । नयतेर्लुङि तङ सिचि प्रथमपुरुषबहुवचने रूपम् । ' व्यवहिताश्च '

पृष्ठ 526

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 526 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० १८-१९ ] वेदार्थपारिजातभाष्यसहिता १४३ ( पा ० सू ० १।४।८२ ) इति परेर्व्यवधानमाख्यातेन । इमे जीवा पर्यग्निमहषत, अग्नि पर्यंहृष्यत, अग्नि परिहृतवन्तः, यस्मिन्नग्नावेतत्कर्म क्रियते, तर्माग्न परिजहुः । अद्वारेणोपासनं निरस्यति – इमे देवाः, दीव्यन्ति दीप्यन्ते ये ते देवा ऋत्विजः तेषु श्रवो धनं दक्षिणालक्षणमक्रत कृतवन्तो दत्तवन्तः । अकृषतेति प्राप्ते सिचो लोपेऽक्रतेति रूपम् । अथेदानीं कृतकृत्यान् इमान् कः को नाम आदधर्षति आधर्षयितुं पराभवितुं शक्नुयात्, अशक्यप्रतिक्रिया ह्येते वर्तन्त इति भावः । अध्यात्मपक्षे - इमे साधका गामिन्द्रियाणि पर्यनेषत परिणीतवन्तः, स्वाधीनानि कृतवन्तः । अग्नि पर्यहृषत संन्यासं कृतवन्तः । देवेषु ऋत्विक्षु श्रवो धनं दत्तवन्तः । एवं कृतकृत्यान् वीतरागानेनान् क आदधर्षति आधर्षयितुं शक्नोति । दयानन्दस्तु – हे राजजनाः! य इमे यूयं गां पर्यनेषताग्नि पर्यहृषत, एषु देवेषु श्रवोऽक्रत, एवंभूतानिमान् भवतः क आदधर्षति ' इति, तन्न, सम्बोधनस्य निर्मूलत्वात् । ' पर्यनेषत ' इत्यस्य परिणीतवन्त इत्यर्थः, न स्वीकृतवन्त इति, धात्वर्थानुरोधात् । तथैव पर्यंहृषतेत्यस्य परिहृतवन्त इत्येवार्थः, न तु कार्येषु नियोजनमर्थः, धात्वर्थविरोधात् ॥ १८ ॥

क्र॒व्याद॑म॒ग्नि प्रहि॑णोमि व॒रं य॑म॒राज्य॑ गच्छतु रिप्रवाहः ।

इ॒हैवाय॒मित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑ह॒तु प्रजानन् ॥ १ ९ ॥

मन्त्रार्थ - मैं क्रव्याद ( शवदाहक ) अग्नि को पुनः न आने देने के लिये दूर भेज रहा हूँ, वह पापनाशक अग्नि यम के राज्य में जाय । यह दूसरा कल्याणकारक सर्वज्ञ अग्नि अपने अधिकार को जानता हुआ इसी गृह में रह कर देवताओं के लिये हवि का वहन करे ॥ १ ९ ॥ ' अद्वारेणौपासनं निरस्यति क्रव्यादमिति ' ( का ० श्र ० २१२४ २ ९ ) । आहुतिहोमानन्तरं यत्र हुतं तस्योपासनस्यैकशेषं निरस्यति । प्रेतस्यैवोपासने होम इति हरिस्वामिपक्षे सर्वमपि निरस्यति । अग्निदेवत्या त्रिष्टुप, दमनस्यार्षम् । मृतो येन दह्यते स क्रव्यात्, तं क्रव्यादमग्निमहं दूरं प्रहिणोमि प्रेषयाम्यपुनरागमनाय । स दूरं प्रेषितः क्रव्यादग्निर्यमराज्यं प्रति गच्छतु । कीदृश:? रिप्रवाहः, रिप्रं पापं वहति नाशयतीति पापनाशकः, ' रिप्रमिति पापनाम ' ( निरु ० ४।२१ ) । ' इहैवायमिति जपति ' ( का ० श्र ० २१४ | ३० ) । यजमानो जपति । इह गृह एवायं इतरः क्रव्यादग्नेरितरोऽन्यो जातवेदा जातप्रज्ञान: संस्कृतोऽग्निर्देवेभ्योऽर्थाय हव्यं हविर्वहतु प्रजानन् स्वाधिकारम् । पुराणवृषभादिदक्षिणा पूर्वोक्तरीत्या दातव्या । अध्यात्मपक्षे— क्रव्यादमवैधमांसादिभक्षयितारं जीवमहं परमेश्वरो दूरं प्रहिणोमि । स च यमराज्यं गच्छतु । किमर्थं यमराज्यं गच्छतु? रिप्रवाहः पापनाशकः, पापनाशाय तत्र गच्छतु, फलभोगपापक्षयात् । इतरस्तन्नो जातवेदा वेदादिशास्त्राभ्यसनशीलो जीव इहैव धार्मिकाणां व्यवहारभूमौ देवेभ्यो हव्यं वहतु । प्रजानन् स्वकर्तव्यं जानन् । दयानन्दस्तु --- प्रजानन्नहं क्रव्यादमग्निमिव वर्तमानं यं दूरं प्रहिणोमि याश्च रिप्रवाहश्च दूरं प्रहिणोमि -, स यमराज्यं गच्छतु । इहेतरोऽयं जातवेदा देवेभ्यो हव्यमेव वहतु ' इति, तन्न, क्रव्यादमग्निमिवेति गौणार्थ ग्रहणस्य निर्मूलत्वात् । यमराज्यपदेन यमस्य न्यायाधीशस्य स्थानमित्यपि निर्मूलम्, यमराज्येत्युक्तेरपि तथार्थत्वे मानाभावात् ॥ १ ९ ॥ ॥ पितृमेषः समाप्तः ॥

पृष्ठ 527

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 527 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

( II शुक्लयजुर्वेद संहिता [ अ ० ३५

वह॑ व॒षां जा॑तवेदः पि॒तृभ्यो यत्रान् वेत्थ निहि॑ितान् परा॒के ।

मेदसः कुल्या उप॒ तान् स्त्र॑वन्तु स॒त्या ए॑षामा॒शिषा॒ सं न॑मन्त॒ स्वाहा॑ ॥ २० ॥

मन्त्रार्थ - हे ज्ञानसम्पन्न अग्निदेव! आप पितरों के निमित्त सार भाग को पहुँचाइये । दूर देश में स्थित इन पितरों को आप भलीभांति जानते हैं । मेदा को बढ़ाने वाली घृत को नदियाँ सदा उनकी तरफ बहें, उनकी सारी शुभ कामनाएँ पूरी हों, उनके निमित्त दी गई यह आहुति भली प्रकार गृहीत हो ॥ २० ॥

जातवेदोदेवत्या त्रिष्टुप् । हे जातवेदः, जातं वेदो धनं यस्मात् स जातवेदाः, तत्सम्बोधने । पितृभ्योऽर्थाय वपां वह प्रापय । यत्र पराके पराक्रान्ते दूरेऽपि यस्मिन् प्रदेशे एनान् पितॄन् वेत्थ जानासि निहितान् स्थापि-तानेतान् पितॄन आ तत्र प्रापयेत्यर्थः । तस्या वपायाः सकाशान्मेदसः कुल्या नद्यो निःसृत्य उपस्रवन्तु तान् पितृन् प्रति । किञ्च, एषां दातृणामाशिषो मनोरथाः सत्या अवितथाः सफलाः सन्नमन्तां प्रह्वीभवन्तु । स्वाहा तेभ्यः सुहुतमस्तु । अध्यात्मपक्षे - हे जातवेदः परमेश्वर! पितृभ्यः फलादिगतां सारभूतां वपां वह प्रापय, यत्रैनान् वेत्थ निहितान् पराके, तत्र तान् पितृन् प्रति मेदसः कुल्याः फलरसनद्यो वहन्तु । एषामाशिषः सत्याः सन्नमन्तां स्वाहा । दयानन्दस्तु - ' हे जातवेदः, त्वं यत्रनान् पराके निहितान् वेत्थ तत्र पितृभ्यो वपां वह । यथा मेदसः कुल्यास्तानुपस्रवन्तु, तथा स्वाहैषामाशिषः सत्याः सन्नमन्ताम् ' इति, तन्न, जातवेदः शब्दस्याग्नौ प्रसिद्धस्य मनुष्यार्थत्वे मानाभावात् । पितृभ्यो विद्याशिक्षादातृभ्य इत्यपि निर्मूलम्, न च जीवितपितरः पुत्रेभ्यो दूरे वसन्ति, येन तदर्थंमन्यनियोगः स्यात् । न च तेषामर्थे पृथक् कृषियोग्यभूम्यादिकमपेक्षितं स्यात् ॥ २० ॥

स्यो॒ना पृथिवि नो भवानृक्ष॒रा नि॒वेश॑नी । यच्छो नः शर्म॑ स॒प्रयः । अप॑ न॒ः शोशु॑चद॒घम् ॥ २१ ॥

मन्त्रार्थ – हे पृथिवि! निष्कण्टक सुख में स्थित रहने वाली अतिविस्तार युक्त आप हमारे लिये सुखकारी बनें, हमें शरण दें । जल देवता हमारे पापों को दूर करें ॥ २१ ॥

पार्थिवी गायत्री, मेधातिथेरार्षम् । अस्याः श्रौतविनियोगाभावेऽपि स्योना पृथिवि नो भवेति दक्षिण-पार्श्वे प्राक्शिरसः संविशन्ति ' ( पा ० गृ ० ३ | ३ ) इति स्मार्ते स्रस्तरारोहणे शयने विनियोगः । हे पृथिवि! त्वं नोऽस्माकं स्योना सुखरूपा भव । कथम्भूता त्वम्? अनृक्षरा, ऋक्षरः कण्टकः, न सन्ति ऋक्षराः कण्टका दुःखदायिनो यस्यां सा अनृक्षरा, ' कण्टक ऋच्छतेः, कण्टकः कन्तपो वा, कन्ततेर्वा कुण्टतेर्वा स्याद् गतिकर्मणः ' ( निरु ० ९ ३२ ) इति यास्कोक्तेः । निविशन्ति जना यस्यां सा निवेशनी साधुप्रतिष्ठाना, ' करणाधिकरणयोश्च ' ( पा ० सू ० ३ | ३ | ११७ ) इति ल्युट् । तथा सप्रथा, प्रथनं प्रथो विस्तारः प्रथसा सह वर्तमाना सप्रथाः सर्वतः पृथुः । नोऽस्मभ्यं शर्मं शरणमाश्रयं सुखं यच्छ देहि । अतः परं यजुः । तद्विनियोगो गृह्यसूत्रे सम्बन्धिमरणनिमित्ते स्नाने जलापनोदने । तथाहि - ' सव्यस्यानामिकया अपनोद्याप नः शोशुचदधमिति ' ( पा ० गृ ० ३ | १० ) । इदं जलं नोऽस्माकमघं पापमपशोशुचद् अपशोचयतु दहतु । अध्यात्मपक्षे - हे पृथिवि धरित्रि प्रथनशीले बुद्धे, त्वं स्योना नोऽस्माकं सुखकरी भव । कीदृशी त्वम्? अक्षरा निष्कण्टकी संशयविपर्ययादिकण्टकरहिता । सप्रथाः सविस्तारा, विषयानुरूप्येण प्रथनशीलत्वात् । नः शर्मं सुखं यच्छ नोऽघमपशोशुचत् । भगवत्परायणा बुद्धिरघं दहत्येव ।

पृष्ठ 528

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 528 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २१-२२ ] --१ ९ वेदार्थ पारिजातभाष्यसहिता १४५ इति पञ्चत्रिंशोऽध्यायः ॥ पञ्चत्रिंशोऽध्यायः ॥ दयानन्दस्तु – ' हे पृथिवि, भूरिव वर्तमाने स्त्रि! त्वं यथाऽनृक्षरा निवेशिनी भूमिः स्योना भवति, तथा नो भव, सप्रथा सती नः शर्म यच्छ । यथा न्यायेशो नोऽघमपशोशुचत्, तथापराधं दूरं गमय ' इति, तन्न, गौणार्थ-ग्रहणस्य निर्मूलत्वात् ॥ २१ ॥

अ॒स्मात् त्वमषि॑ जा॒तोऽसि॒ त्वद॒यं जा॑यतां॒ पुन॑ः । अ॒सौ स्व॒र्गाय॑ लो॒काय॒ स्वाहा ॥ २२ ॥

मन्त्रार्थ - हे अग्निदेव! आपको इस यजमान ने आधान काल में प्रकट किया है । इस कारण यह यजमान फिर आप से उत्पन्न हो, अर्थात् आप इसे संस्कृत बनावें, जिससे कि यह यजमान स्वर्ग की योग्यता प्राप्त कर सके ॥ २२ ॥

' आहुति जुहोति पुत्रो भ्रातान्यो वा ब्राह्मणोऽस्मात् त्वमधिजातोऽसीति ' ( का ० श्र ० २५/७ ३८ ) । साग्निकस्य पात्रप्रतिपत्त्यन्ते दाहात् पूर्वमाज्याहुतिं पुत्रादिर्जुहोति । अग्निदेवत्या गायत्री, अनिरुक्ता । हे अग्ने! त्वमस्माद् यजमानादाधानकाले, अधिजातोऽसि उत्पन्नोऽसि, अतो ब्रवीमि । अयं यजमानः पुनस्त्वत् त्वत्तो जायतामुत्पद्यताम् । असाविति विशेषनामग्रहणम् - असौ देवदत्तः स्वर्गाय लोकाय स्वर्गलोकप्राप्त्यर्थं त्वत्तो जायताम् त्वद्वेश्य एव भवत्वित्यभिप्रायः । स्वाहा सुहुतमस्तु । अध्यात्मपक्षे -- हे अग्ने परमेश्वर! त्वमस्मात् साधकाद् भावनाबलात् तत्तद्रूपेण जातोऽसि, ' यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय ' इति श्रीमद्भागवतोक्तेः । अयं साधकस्त्वत्तः पुनर्जायताम् । असौ साधकः स्वर्गीय लोकाय स्वर्गं लोकं प्राप्तुं त्वत्तस्त्वदनुग्रहाद् दिव्यं त्वत्सालोक्य सामीप्य सारूप्यसायुज्यादियोग्यं देहादिमान् जायतामिति । दयानन्दस्तु - ' हे विद्वन् यतस्त्वमस्माल्लोकादधिजातोऽसि हि तस्मादयं त्वत् पुनरसी स्वाहा स्वर्गाय लोकाय जायताम् ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात्, तव सकाशात् पुत्रो जायतामित्यस्यार्थस्य निरर्थकत्वात् । न चेदं वरप्रदानम्, निष्प्रमाणत्वात् । न चाज्ञापनम्, मनुष्याज्ञापनस्य फलाश्रयत्वे मानाभावात् । तस्मात् सिद्धान्तानुसारी व्याख्यात एव मन्त्रार्थः ॥ २२ ॥

इति श्रीशुक्लयजुर्वेदमाध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां

पृष्ठ 529

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 529 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

2 षट्त्रिशोऽध्यायः ऋच॑ वाच॒ प्रय॑ये॒ मनो॒ यजुः प्रप॑ये॒ साम॑ प्रा॒णं प्रप॑ये॒ चक्षुः श्रत्र॒ प्रप॑ये॒ । वागोज॑ सहजो मयि प्राणापानौ ॥ १ ॥

मन्त्रार्थ - मैं ऋचारूप वाणी की शरण लेता हूँ, यजुःस्वरूप मन की शरण लेता हूँ, प्राणरूप साम की शरण लेता हूँ । चक्षु और श्रोत्र रूप इन्द्रिय की शरण लेता हूँ । वाग्बल, देहबल और प्राण अपान का बल मुझमें स्थिर हो ॥१ ॥

पञ्चाध्यायी आथर्वणेन दधीचा दृष्टा, ' दध्यङ् ह वा आथर्वण एत शुक्रमेतं यज्ञं विदाञ्चकार ' ( श ०१४ | १ | १ | २० ) इत्यादिश्रुतेः । ' उग्रश्र्व ' ( १७ ।८६, ३ ९ / ७ ) इत्याग्निको मन्त्रः । अग्नि हृदयेनेत्याद्यध्याय-समाप्तिपर्यन्तमाश्वमेधिकम् ( ३ ९ १८ - १३ ) । तद् द्वयं वर्जयित्वा कात्यायनस्यानुक्रमण्याम् । शान्तिकरणमाद्यन्तयोः । ऋचं वाचमित्यध्यायेन शान्तिकरणं कार्यम्, स्वाध्याये मन्त्रपाठे प्रवर्ग्यमन्त्रादावस्याध्यायस्य दर्शनात् । पश्च यजूंषि लिङ्गोक्तदेवत्यानि । ऋचमृग्रूपां वाचं प्रपद्ये प्रविशामि शरणं व्रजामीत्यर्थः । यजुः यजूरूपं मनः प्रविशामि । प्राणं प्राणरूपं साम प्रपद्ये शरणमाश्रये, रक्षितारं वा निश्चिनोमि । चक्षुरिन्द्रियं श्रोत्रमिन्द्रियं च प्रपद्ये । वागादिग्रहणं सप्तदशावयवोपलक्षणार्थम् । सप्तदशावयवं प्रजापतेर्लिङ्गं समष्टिसूक्ष्मशरीरं प्रपद्ये । नहि त्रयीविद्यां प्रपन्नस्यायुषो विनाशं प्रवर्ग्यः कुर्यात् । तथैव वाङ्मनः प्राणचक्षुः श्रोत्रोपलक्षितं प्रजापतेर्लिङ्गं प्रपद्ये प्रविशामि । तथा वागिन्द्रियमोजो मानसं बलं च प्राणापानौ वायू च एते सह एकीभूता मयि वर्तन्ते । अतोऽपि प्रवर्ग्योऽस्मान्न हन्तीति । पुनरोजोग्रहणमादरार्थम् । अध्यात्मपक्षे - ऋचं वाचं वाङ्मनः प्राणरूपां त्रयीम् ऋगादिरूपां महाशक्ति प्रपद्ये शरणं व्रजामि । चक्षुःश्रोत्रादिरूपां च तां प्रपद्ये । वागिन्द्रियम् ओजो मानसं बलं धाष्टयं पुनरोजोग्रहणाच्छारीरं च बलं श्वासोच्छ्वासरूपौ तद्रूपां च सर्वात्मरूपां तां प्रपद्ये । -दयानन्दस्तु – ' हे मनुष्याः, यथा मयि प्राणापानौ दृढौ भवेताम्, मम वागोजः प्राप्नुयात् तया ताभ्यां च सहाहमोजः प्राप्नुयामृचं वाचं प्रपद्ये मनो यजुः प्रपद्ये साम प्राणं प्रपद्ये चक्षुः श्रोत्रं प्रपद्ये, तथा यूयमेतानि प्राप्नुत ' इति, तदपि यत्किञ्चित् संबोधनस्य निर्मूलत्वात्, ऋचामिव यजुःसाम्नोरपि वाक्त्वाविशेषात्, यजुषो मनस्तुल्यतानिरूपणाच्च ॥ १ ॥

यन्मे॑ चि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तॄण्ण॒ बृहस्पतिम् तधातु । शं नौ भवतु भुव॑नस्य॒ य॒स्पति॑ः ॥ २ ॥

मन्त्रार्थ - मेरी चक्षु इन्द्रिय को न्यूनता को, हृदय और मन की न्यूनता को परमात्मा दूर करें । ये सब हमारे लिये सुखरूप हों, क्योंकि परमात्मा ही इन सारे भुवनों के स्वामी हैं ॥ २ ॥

बृहस्पतिदेवत्या पङ्क्तिः । मे मम चक्षुषश्चक्षुरिन्द्रियस्य यत् छिद्रं प्रवर्ग्याचरणेनावखण्डनं जातम्, हृदयस्य बुद्धेर्वा यत् छिद्रं जातम्, मनसो वा अतितृष्णमतिहिंसितं प्रवर्ग्यसम्भरणेन यच्चक्षुर्बुद्धिमनसां

पृष्ठ 530

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 530 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २-५ ] वेदार्थपारिजातभाष्यसहिता १४७ व्याकुलत्वं जातम्, बृहस्पतिर्देवानां गुरुः मे मम तच्छिद्रमतितृण्णं च दधातु सन्दधातु, भवतु त्रुटिं । निवर्तयतु बृहस्पतिना । भुवनस्य भूतजातस्य यः पतिः पालकः प्रवर्ग्यरूपो यज्ञः, स नोऽस्माकं शं सुखरूपो छिद्रापाकरणात् प्रवर्ग्यस्य कल्याणमयत्वमेव सम्पद्यते । अध्यात्मपक्षे - बृहतां पतिर्महदादीनां पालकः परमेश्वरश्चक्षुरादीनां छिद्रं सन्दधातु त्रुटि निवर्तयतु, भुवनस्य भूतजातस्य यः पतिः स परमेश्वरः शं सुखरूपोऽस्तु । दयानन्दस्तु — ' यन्मे चक्षुषो हृदयस्य छिद्रं मनसो वाऽतितृष्णमस्ति तद् बृहस्पतिर्मे दधातु । यो भुवनस्य पतिरस्ति स नः शं भवतु ' इति, तन्न, बृहस्पतिशब्दस्य देवगुरौ प्रसिद्धस्य स्वार्थत्यागे मानाभावात्,

भुवनस्य बृहस्पतिरित्यनेन पौनरुक्त्यापाताच्च । अन्यत्तु महीधरानुसरणमेव ॥ २ ॥

भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो दे॒वस्य॑ धीमहि धियो यो नः प्रचोदया॑त् ॥ ३ ॥

मन्त्रार्थ – भूः, भुवः स्वः - इन तीन व्याहृतियों से संयुक्त उस सर्वप्रकाशक, सबके प्रेरक सविता देवरूपी आदित्यमण्डल के अन्तर्गत विद्यमान पुरुषरूप ब्रह्म का, सभी के द्वारा प्रार्थनीय, सम्पूर्ण संसार के अन्धकार का नाशक जो तेज है, उसका हम ध्यान करते हैं । वह सविता देव हमारी बुद्धि को सदा सत्कर्म के अनुष्ठान में प्रेरित करे ॥ ३ ॥

भूर्भुवः स्वरिति त्रीणि यजूंषि । तदिति षष्ठ्यर्थे । तस्य देवस्य द्योतनात्मकस्य सवितुः प्रेरकस्य परमात्मनो वरेण्यं सर्वैः संभजनीयं भर्गः सर्वपापभर्जनसमर्थं तेजः सच्चिदानन्दलक्षणं तेजो धीमहि ध्यायामः । तस्य कस्य? यः सविता नोऽस्माकं धियो बुद्धीः कर्माणि वा प्रकर्षेण चोदयति प्रेरयति । ३ । ३५ इत्यत्र व्याख्याता ॥ ३ ॥

कर्या नश्चि॒त्र आ भ॑वद्द्ती स॒दावृ॑ध॒ः सखा॑ । कय॒ शचि॑ष्ठया वृता ॥ ४ ॥

मन्त्रार्थ- - सदा सबको समृद्ध करने वाला आश्चर्यरूप परमेश्वर किस तर्पण या प्रीति से किस वर्तमान याग क्रिया से हमारा सहायक होता है? ॥ ४ ॥

इन्द्रदेवत्या गायत्री वामदेवदृष्टा । इन्द्रः कया ऊती ऊत्या अवनेन प्रीणनेन तर्पणेन वा, नोऽस्माकं सखा सहाय आभुवद् आभिमुख्येन जातः, तया वृता वर्तत इति वृत् तया वर्तमानया शचिष्ठया अतिशयवत्या । यागादिक्रिययाऽस्माकं सखा भवति । चित्रो विचित्रः पूज्यो वा । सदावृधः सदा वर्धमानः २७ / ३ ९ इत्यत्र व्याख्याता ॥ ४ ॥

कस्त्वा॑ स॒त्यो मदा॑ना॒ मधु॑ ष्ठो मत्स॒दन्ध॑सः । दृढा चि॑दा॒रुजे॒ वसु॑ ॥ ५ ॥

मन्त्रार्थ - हे परमेश्वर! मदजनक हवियों में श्रेष्ठ सोमरूप अन्न का कौन सा अंश आपको पसन्द है? आपकी इस प्रसन्नता में दृढ़ता से रहने वाले हम भक्तजन अपने धन आदि के साथ उसे आपको समर्पित करते हैं ॥ ५ ॥

ऐन्द्री गायत्री । हे इन्द्र! अन्धसोऽन्नस्य सोमरूपस्य कोंऽशस्त्वा त्वां मत्सद् मादयति मत्तं करोति । मदयन्तीति मदाना मदजनकानि हवींषि तेषां मध्ये मंहिष्ठः श्रेष्ठोऽत्यन्तमदजनकः । येनांशेन मत्तः सन् दृढा चिद् दृढान्यपि वसु वसूनि कनकादीनि त्वमारुजे आरुजसि चूर्णयसि दातुं भनक्षि भङ्क्त्वा ददासीति । २७ | ४० इत्यत्र व्याख्याता ॥ ५ ॥