वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 531–540

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 531–540

पृष्ठ 531

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 531 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४८ शुक्लयजुर्वेदसंहिता [ अ ० ३६

अ॒भो षु ण॒ सनी॑नामवि॒ता ज॑रत॒णाम् । श॒तं भ॑वास्यूतिभिः ॥ ६ ॥

I मन्त्रार्थ- इन्द्रदेव! मित्रवत् आपकी स्तुति करने वाले हम भक्तों की रक्षा के लिये तत्पर होकर ही आप राम - कृष्ण आदि अनन्त रूपों को धारण करते हैं ॥ ६ ॥

ऐन्द्री गायत्री । हे इन्द्र! त्वमूतयेऽवनाय सु सुष्ठु आभिमुख्येन भवासि भवसि बहुरूपो भवसीत्यर्थः । कीदृश:? सखीनां मित्राणां जरितॄणां स्तोतॄणां नोऽस्माकमृत्विजामविता पालयिता । २७ | ४१ इत्यत्र व्याख्याता ॥ ६ ॥

कया॒ त्वं न॑ द॒त्याभिः॒ि प्रम॑न्दसे वृषन् । कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ७ ॥

मन्त्रार्थ हे परमेश्वर! आप धर्म, अर्थ, काम और मोक्ष का उपदेश कर किस तृप्ति के साथ आनन्द की ओर हमें बढ़ाते हैं? किस दिव्य रूप को धारण कर स्तुति करने वाले हम उपासकों की सारी अभिलाषाओं को पूरा करते हैं? || ७ || इन्द्रदेवत्या गायत्री, अनिरुक्तेन्द्रपदहीना । हे इन्द्र! कया ऊत्या केन तर्पणेन हविर्दानेन नोऽस्मानभिप्र-मन्दसे अभिमोदयसि, ' मदिस्तु स्वपने जाड्ये मदे मोदे स्तुतो गतौ ' इत्युक्तः । हे वृषन् सेक्तः! कया च ऊत्या तृप्त्या स्तोतृभ्य आभर आहर आहरसि, धनं दातुमिति शेषः । तद्द्द्वयेन तथा वयमपि त्वा त्वां प्रसादयामः । आभर, लडर्थे लोट् । अध्यात्मपक्षे - हे इन्द्र परमैश्वर्यवन् परमेश्वर! शेषं पूर्ववत् । दयानन्दस्तु - हे ' वृषन्नीश्वर! त्वं कयोत्या नोऽभिप्रमन्दसे, कया स्तोतृभ्यः सुखमाभर ' इति, तदपि न, वाक्यस्य प्रश्नार्थत्वे प्रतिवचनराहित्येन न्यूनत्वापातात् । यत्तु युक्तिमस्मानवबोधयेति भावार्थवचनम्, तदपि नातीव मनोज्ञम्, ऊतिशब्दस्य युक्त्यर्थत्वाभावात् ॥ ७ ॥

इन्द्रो॒ विश्व॑स्य राजति । शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ८ ॥

मन्त्रार्थ -- सबके स्वामी परमेश्वर चारों तरफ प्रकाशमान हैं । वे हमारे पुत्र आदि के लिये कल्याणरूप हों, हमारे चौपायों के लिये सुखदायक हों । अथवा कर्म, उपासना, ज्ञान और विज्ञान से प्राप्त होने वाले निर्वाण, अर्थात् मुक्ति के लिये कल्याणमय हों ॥ ८ ॥

इन्द्रदेवत्या द्विपदा विराट् । विंशत्यक्षरा द्विपदा विराट् कथ्यते । योऽयं महावीर इन्द्रः परमेश्वरो आदित्यो वास कस्याधिष्ठात्री देवता? विश्वस्य जगत: । राजति देदीप्यते ई वा । स नोऽस्माकं द्विपदे, द्विपदां पुत्रादीनाम्, विभक्तिव्यत्ययः, ' सुखरूपोऽस्तु, चतुष्पदे गवादीनां च शं सुखरूपोऽस्तु । अध्यात्मपक्षे - योऽयं भगवान्निन्द्रो विश्वस्य सर्वस्यैवानन्तकोटिब्रह्माण्डात्मकस्य राजति ईष्टे, स पुत्रपश्वादीनां सुखकरो भवतु । दयानन्दस्तु - हे जगदीश्वर! यो भवानिन्द्र इव विश्वस्य राजति, तस्य भवतः कृपया नो द्विपदे शमस्तु, नश्चतुष्पदे शमस्तु ' इति, तदपि न, परमेश्वरस्य त्वद्रीत्या निराकारस्यैव सत्त्वेन विद्युत्तुल्यत्वानुपपत्तेः, रूपवत्त्वारूपवत्त्वाभ्यां वैषम्यात् ॥ ८ ॥

पृष्ठ 532

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 532 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ९ -१० ] वेदार्थपारिजातभाष्यसहिता

शं नो मित्रः शं वरुणः शं नो भवत्वर्य॒मा ।

शं न इन्द्रो बृह॒स्पति॒ शं नो विष्णुरुरुक्रमः ॥ ९ ॥

१४ ९ मन्त्रार्थ - मित्र देवता हमारे लिये कल्याणमय हों । वरुण देवता, अर्यमा और इन्द्र देवता हमारे लिये कल्याणमय हों । बृहस्पति तथा विस्तीर्णं पदन्यास वाले विष्णु हमारे लिये कल्याणमय हों ॥ ९ ॥

द्वे अनुष्टुभौ मित्रावरुणादयो देवताः । मित्रो देवोऽस्माकं शं सुखरूपो भवतु, महावीरप्रसादात् । मेद्यति भक्तेषु स्निह्यतीति मित्रः । वरुणः सुखरूपोऽस्तु, वृणोत्यङ्गीकरोति भक्तानिति वरुणः । अर्यमा देवो नः शं सुखरूपो भवतु, इर्यातिं गच्छति भक्तं प्रतीत्यर्यमा । इन्द्रो देवराजो नः शं भवतु । बृहस्पतिर्देवगुरुः शं भवतु, बृहतां वेदानां पतिः पालकः । उरुक्रमः, उरुविस्तीर्णः क्रमः पादन्यासो यस्य स विष्णुः, नोऽस्माकं शं भवतु । वेवेष्टीत व्यापको विष्णुः परमेश्वरो यज्ञो वा । अध्यात्मपक्षे -- शं कल्याणरूपः परमात्मैव मित्रः, भक्तस्नेहवान् मित्रनामको देवः परमात्मरूप एव । वरुणो भक्तं यो वृणोति सोऽपि शं परमात्मा एव । अर्यमा भक्तान् प्रति य इयत परमैश्वर्यवान् देवराजः, बृहस्पतिर्वेदपालकः, उरुक्रमो विष्णुश्च सर्व एवैते शं सुखात्मकब्रह्मरूपा भूत्वा, मामवन्त्विति शेषः । -----दयानन्दस्तु -- ' हे मनुष्याः, यथा नो मित्रः शं भवतु, वरुणः शं भवतु, अर्यमा नः शं भवतु, इन्द्रो बृहस्पतिर्नः शं भवतु, उरुक्रमो विष्णुः शं भवतु, तथा युष्मभ्यमपि शं भवतु ' इति, तदपि न, मुख्यार्थत्यागेन प्राणप्रिय मित्रादिमनुष्यग्रहणस्य निर्मूलत्वात् ॥ ९ ॥

शं नो॒ वात॑ः पवत॒ा ँ

शं न॑स्तपत सूर्यः ।

शं नः कनिक्रदद्देवः पर्जन्यो॑ अ॒भि व॑र्षतु ॥ १० ॥

मन्त्रार्थ - वायु हमारे लिये सुखकारी होकर बहे, सूर्य हमारे निमित्त सुखरूप होकर तपे, शब्द करता हुआ पर्जन्य देवता हमारे निमित्त सुखदायक वर्षा करे ॥ १० ॥

शं सुखरूपो वातो वायुर्नोऽस्माकं अपरुषोऽव्याधिजनकश्च पवतां वातु, ' पव गतौ ' लोट् । सुवति प्रेरयति जनान् स्वस्वकार्येष्विति सूर्यः, शं सुखरूपोऽतापको भेषजरूपश्चास्माकं तपतु रश्मिजालं प्रकिरतु । पर्जन्यः, पिपति पूरयति जनानिति पर्जन्यः, परोऽम्भः पूरो वा जन्यतेऽनेनेति पर्जन्यः, ' पर्जन्यौ रसदब्देन्द्रो ' ( अ ० को ० ३।३।१४६ ) इति कोशात् । पर्जन्यः, पर्जन्येशो देवः कनिक्रदत् स्तनयित्नुशब्दं कुर्वन्, अत्यन्तं द कनिक्रदत्, ' दाधर्तिदर्धत ' ( पा ० सू ० ७/४/६५ ) इत्यादिना यङ्लुगन्तो निपातः । अस्मान् शं सुखकरः क्षारादि-रहितं पवित्रमुदकं भेषजरूपमभिवर्षतु, सन्तुलितवृष्टि करोतु । अध्यात्मपक्षे – हे परमेश्वर, त्वत्प्रसादात् शं नो वातः पवताम्, शं नस्तपतु सूर्यः । कनिक्रदत् पर्जन्यो देवोऽभिवर्ष सितु, परमेश्वरानुग्रहादेव सर्वानुकूल्योपपत्तेः । दयानन्दस्तु - ' हे परमेश्वर विद्वन् वा यथा वातो नः शं पवताम्, सूर्यो नस्तपतु, कनिक्रदद्देवो नः शं भवतु, पर्जन्यो नोऽभिवर्षतु तथाऽस्मान् शिक्षय ' इति, तदपि यत्किञ्चित् परमेश्वरकर्तृकशिक्षणादर्शनात् प्रार्थनाया नैरर्थक्यात्, मनुष्यस्य विदुषस्तादृशसामर्थ्याभावाच्च तद्वैयर्थ्यात् ॥ १० ॥

पृष्ठ 533

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 533 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५० शुक्लयजुर्वेद संहिता [ अ ० ३६ अहा॑नि॒ शं भव॑न्तु नः शरात्रीः प्रति॑ धीयताम् ।

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न इन्द्रावरु॑णा रातव्या ।

शं न॑ इन्द्रापू॒षणा॒ वाज॑सत॒ शमिन्द्रासोमा॑ सुवि॒ताय॒ शं योः ॥ ११ ॥

मन्त्रार्थ --दिन हमारे लिये सुखरूप हो, रात्रि सुखरूप हो, इन्द्र और अग्नि देवता हमारी रक्षा करते हुए सुखरूप हों, हवि से तृप्त इन्द्र और वरुण देवता हमारे लिये सुखरूप हों, अन्नदान में इन्द्र और पूषा देवता हमारे लिये सुखकारी हों । इन्द्र और सोम देवता यजमान के यज्ञ के निमित्त सुखकारी हों, रोगभय से मुक्त कर वे हमें सुख पंहुचावें ॥ ११ ॥

द्विपदा गायत्री, अहानि रात्रयश्च देवताः । अहानि दिनानि नोऽस्माकं शं सुखकराणि भवन्तु । रात्रीः शं सुखरूपा अस्मासु प्रतिधीयतां प्रतिदधातु, महावीर इति शेषः । कर्तरि यक् छान्दसः । शं न इन्द्राग्नी त्रिष्टुप् । इन्द्राग्नी इन्द्रावरुणौ इन्द्रापूषणौ इन्द्रासोमो देवताः । इन्द्राग्नी अवोभिः पालनैः, नोऽस्माकं शं सुखरूपौ भवताम् । इन्द्रावरुणौ रातहव्या रातं दत्तं हव्यं हविर्ययोस्तौ हविस्तृप्तौ नः शं सुखकरौ भवताम् । वाजसातौ वाजस्यान्नस्य सादाने निमित्तभूते इन्द्रापूषणा इन्द्रपूषसंज्ञौ देवो नोऽस्माकं सुखरूपौ भवताम् । इन्द्रासोमा इन्द्रसोमौ देवौ शं सुखरूपौ भवताम् । किमर्थम्? सुविताय सुष्ठु इतं सुवितम् साधुगमनाय साधुप्रसवाय वा । शंयोः, शं रोगाणां शमनाय योः यवनाय पृथक्करणाय भयानाम्, रोगं भयं च निवर्त्य सुखरूपौ भवतामित्यर्थः । ' देवताद्वन्द्वे च ' ( पा ० सू ० ६ । ३ । २६ ) इति सर्वत्र पूर्वपदस्य दीर्घः । अध्यात्मपक्षे -- भगवतः प्रसादादेव अहोरात्राणि, इन्द्राग्न्यादयो देवाश्च सुखरूपा भवन्ति, तेनैव रोगाणां शमनं भयानां यावनं च संपद्यते । व्याख्यानं पूर्ववत् । दयानन्दस्तु - ' हे परमेश्वर विद्वन् वा यथाऽवोभिः सह शंयोः सुविताय नोऽहानि शं भवन्तु, रात्रीः शं प्रतिधीयतामिन्द्राग्नी नः शं भवताम्, रातहव्या इन्द्रावरुणा नः शं भवताम्, वाजसाताविन्द्रापूषणा नः शं भवतामिन्द्रासोमा च शं भवताम्, तथाऽस्माननुशिक्षेताम् ' इति, तदपि न, पूर्वोक्तदोषानतिवृत्तेः, परमेश्वरस्य सर्वज्ञत्वसर्वशक्तिमत्त्वाभ्यां तत्प्रार्थनायाः सार्थक्येऽपि तत्कर्तृकप्रेरणैव युक्ता, न तु शिक्षणप्रार्थना | शिक्षणादर्शनादेव मनुष्योपदेशवाक्यं शास्त्रवाक्यं चानधिगतगन्तृ भवति, न त्वकृतकर्तृ, अग्निवाय्वादयो जडत्वाद् यथास्वभावमेव वर्तन्ते, मनुष्यास्तु तैस्तैः साधनैस्तेषामानुकूल्यं सम्पादयन्ति ॥ ११ ॥

शं नो दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पीतये॑ । शं योर॒भि स्र॑वन्तु नः ॥ १

मन्त्रार्थ - दीप्तिमान् जल देवता हमारे अभीष्ट पान के लिये सुखरूप हों तथा रोग के शमन और भय दूर के लिये निरन्तर प्रवाहित होते रहें ॥ १२ ॥

करने अब्देवत्या गायत्री । देवीर्देव्यो दीप्यमाना आपो नोऽस्माकमभिष्टये अभिषेकायाभीष्टाय वा पीतये पानाय च शं सुखरूपा भवन्तु, अस्माकं स्नाने पाने चापः सुखयित्र्यो भवन्तु । आपः शंयोः रोगाणां शमनं भयानां यावनं पृथक्करणं च अभिस्रवन्तु, नोऽस्माकं भयरोगनाशं कुर्वन्तु । अध्यात्मपक्षे - देव्यो दीप्यमाना आपो व्यापिका भगवत्यः, नोऽस्माकमभीष्टाय शं सुखरूपा भवन्तु । ताश्च शं रोगाणां शमनं भयानां यावनमभिस्रवन्तु । --दयानन्दस्तु - हे जगदीश्वर विद्वन् वा यथाभिष्टये पीतये देवीरापो नः शं भवतु नः शंयोर्वृष्टिमभिस्रवन्तु, तथोपदिशतम् ' इति, तदपि यत्किञ्चित् विदुष उपदेष्टृत्वस्य दर्शनेऽपीश्वरस्योपदेष्टृत्वादर्शनेन प्रार्थनावैयर्थ्यात् । न च वेद एव तदुपदेश इति वाच्यम्, उपदेशस्य जातत्वेनोपदिशतमिति लोट्प्रयोगानुपपत्तेः ॥ १२ ॥

पृष्ठ 534

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 534 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १३–१७ ] वेदार्थपारिजातभाष्यसहिता १५१

स्योना पृथिवि नो भवानृक्ष॒रा नि॒वेश॑नी । यच्छ नः॒ शर्म॑ स॒प्रथा॑ः ॥ १३ ॥

लिये सुखकारी बनें, हमें मन्त्रार्थ - हे पृथिवि! निष्कण्टक सुख में स्थित रहने वाली अतिविस्तार युक्त आप हमारे शरण दें । जल देवता हमारे पापों को दूर करें ॥ १३ ॥

योना पृथिवि न इति मन्त्रः ३५।२१ इत्यत्र व्याख्यातः ॥ १३ ॥

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ १४ ॥

- पान आदि मन्त्रार्थ - हे जल देवता! आप जल को देने वाले हैं, सुख की भावना करने वाले व्यक्ति के लिये स्नान स्थापित हो जाइये ॥ १४ ॥

के द्वारा सुख के उत्पादक हैं । हमारे रमणीय दर्शन के निमित्त और रसानुभव के निमित्त यहाँ अब्देवत्या गायत्र्यः । हे आप:, यूयं हि एव मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ स्थापयत , स्नानपानहेतुत्वेनापां । किञ्च, महे सुखोत्पादकत्वप्रसिद्धेः । तादृश्यो यूयं नोऽस्मान् ऊर्जे रसाय भवदीय रसानुभवार्थं दधातन ) इत्यत्र व्याख्याता ॥ १४ ॥

महते पूज्याय वा रणाय रमणीयाय चक्षसे ज्ञानाय ब्रह्मज्ञानाय दधातन । ( ११।५०

यो व॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तर॑ः ॥ १५ ॥

उस रस मन्त्रार्थ – हे जल देवता! आपका शान्तरूप सुख का एकमात्र कारण रस इस कर्म में स्थित है । हमको का भागी उसी तरह से बनावें, जैसे कि प्रीतियुक्त माता अपने बच्चे को दूध पिलाती है ॥ १५ ॥

हेआप:, वो युष्माकं यः शिवतमो रसः शान्ततमो रसोऽस्ति तस्य भाजयत यथा स्वकीयस्तन्यरसं भागिनः कुरुत । बालं तत्र

दृष्टान्तः - उशतीरिव मातरः । उशन्ति ता उशत्यः कामयमानाः प्रीतियुक्ता मातरो ॥

पाययन्ति, तथाऽस्मान् शिवतमं रसं पाययत । ( ११।५१ ) इत्यत्र व्याख्याता ॥ १५

तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ १६ ॥

मन्त्रार्थ - हे जल देवता! आपके उस रस की प्राप्ति के लिये हम शीघ्र चलना चाहते हैं, जिससे कि आप सारे जगत् को तृप्त करते हैं और हमें भी उत्पन्न करते हैं ॥ १६ ॥

वैतृष्ण्यं आपः, वो युष्मत्संबन्धिनस्तस्य रसस्य विषये, अरं अलं पर्याप्त गमाम गच्छेम रसविषये -सदा तृप्तिर्वा स्यात् । ' तस्मै ' इति चतुर्थी षष्ठ्यर्थे । यस्य क्षयाय क्षयस्य जगतामाधारभूतस्य | हे यस्याहुतिपरिणाम आपः, नोऽस्मान् भूतस्य रसस्यैकदेशेन यूयं ब्रह्मादिस्तम्बपर्यन्तं जगद् जिन्वथ तर्पयथ । जिन्वतिः प्रीतिकर्मा । ( ११।५२ ) भोक्तृत्वेन जनयथ उत्पादयत । आशिषि लोट् । तद्रसभोक्तृनस्मान् कुरुतेत्याजानदेवत्वमाशास्यते इत्यत्र व्याख्याता ॥ १६ ॥

द्यौः शान्ति॑िर॒न्तरि॑क्ष शान्तिः पृथिवी शान्ति॒राप॒ः शान्ति॒रोष॑धयः शान्तिः । वन॒स्पत॑य॒: शान्तिः॑वश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म शान्तिः सर्वं शान्तिः शान्ति॑रे॒व शान्ति॒ सा मा शान्तिरेधि ॥ १७ ॥

पृष्ठ 535

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 535 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५२ शुक्लयजुर्वेदसंहिता [ अ ० ३६ मन्त्रार्थ -- द्युलोक हमारे लिये शान्ति दे, अन्तरिक्ष लोक, पृथ्वी लोक, जल, औषधियां, विश्वेदेव देवता, वेदरूप ब्रह्म और यह सारा जगत् ही हमारे लिये शान्ति प्रदान करे । शान्ति भी हमारे लिये शान्तिप्रद हो, यह शान्ति हमारे लिये पूरे वातावरण में वृद्धि को प्राप्त होती रहे ॥ १७ ॥

यजूंषि सन्दृशि जीव्यासमित्यन्तानि । एकाधिका शक्वरी । द्यौर्द्युलोकरूपा या शान्तिः, अन्तरिक्षरूपा च या शान्तिः, पृथिवी भूलोकरूपा या शान्तिः, आपो जलरूपा या शान्तिः, ओषधय ओषधिरूपा या शान्तिः, वनस्पतयो वनस्पतिरूपा या शान्तिः, विश्वे देवाः सर्वदेवरूपा या शान्तिः, ब्रह्म त्रयीलक्षणं परंब्रह्मरूपं वा तद्रूपा या शान्तिः, या सर्वं सर्वजगद्रूपा शान्तिः शान्तिरेव शान्तिर्या स्वरूपतः शान्तिः, सा शान्तिम प्रति एधि अस्तु । पुरुषव्यत्ययः । महावीरप्रसादात् सर्वं शान्तिरूपं मां प्रत्यस्त्वित्यर्थः । अध्यात्मपक्षे -- सर्वोपद्रवराहित्यरूपा शान्तिर्ब्रह्मण्येव पर्यवस्यति, तस्यैव सर्वोपद्रवाभावाधिकरणत्वात् । अभावश्चाधिकरणरूप एव । तेन द्युलोकादयः शान्त्यन्ताः सर्वे पदार्था ब्रह्मात्मकाः सन्तो मां प्रत्युपस्थिता भवन्तु । व्याख्यानं पूर्ववत् । दयानन्दस्तु - ' हे मनुष्याः, या द्यौः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिर्वन-स्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्ति शान्तिरेव शान्तिरेधि, सा शान्तिर्युष्माकमस्तु ' इति, तदपि न, सम्बोधनस्य निर्मूलत्वात्, सा शान्तिर्युष्माकमपि प्राप्नोत्वित्यर्थस्य निर्मूलत्वाच्च ॥ १७ ॥

दृते दृध॒हं मा मि॒त्रस्य॑ मा॒ चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ समा॑क्षन्ताम् । मि॒त्रस्या॒हं चक्षु॑षा॒ सर्वा॑णि भू॒तानि॒ सर्वा॑क्षे । मि॒त्रस्य॒ चक्षु॑षा॒ समा॑क्षामहे ॥ १८ ॥

मन्त्रार्थ - हे परमेश्वर! आप मुझे सब तरफ से मजबूत बनावें, सब प्राणी मुझे मित्र की दृष्टि से देखें, मैं भी सब प्राणियों को मित्र के रूप में ही देखूं, हम चारों तरफ मित्रता का ही वातावरण देखना चाहते हैं ॥ १८ ॥

दृते, ' दृ विदारणे ', विदीर्णे जराजर्जरितेऽपि शरीरे, हे महावीर! मां त्वं é ह दृढीकुरु । यद्वा दृते विदीर्णे कर्मणि मां हूंह अच्छिद्रं कर्म कुरु । यद्वा ससुषिरत्वात् सेक्तृत्वाच्च दृतिशब्देन महावीरो बोध्यते । हे हते, हे महावीर! मां हृह । कथं दाढर्यं तदाह – सर्वाणि भूतानि प्राणिनो मा मां मित्रस्य चक्षुषा समीक्षन्तां सम्यक् पश्यन्तु, मित्रदृष्ट्या मां सर्वे प्राणिनः पश्यन्तु न शत्रुदृष्ट्या । सर्वेषां प्रियो भूयासमित्यर्थः । किञ्च, अहमपि सर्वाणि भूतानि प्राणिनो मित्रस्य चक्षुषा समीक्षे पश्यामि मेऽपि सर्वे प्रिया भवन्तु । मित्रचक्षुः शान्तं भवति । न मित्रं स्नेहवान् कञ्चन स्नेहवन्तं मित्रं हन्ति, मित्रं च न कश्चिद् हन्ति । एवमहस्यमाना अहिंसन्तश्च परस्परमद्रोहेण सर्वथा मित्रस्य चक्षुषा वयं समीक्षामहे पश्यामः । अयमेव स्वस्य सर्वेषां च दृढीकरणमार्गः । अध्यात्मपक्षे - हे दृते, सर्वलयाधिष्ठान परमेश्वर! मा मां ह । कथमिति चेत्तत्र पूर्ववद्वयाख्यानं विधेयम् । परमप्रेमास्पदस्य परमात्मन एव सर्वाधिष्ठानत्वात् सर्वरूपेण स्थितत्वाद् बाध्यबाधकभावोऽविद्याकृत एवेति विद्यया तद्वाधितत्वाद् ब्रह्मबुद्धया सर्वस्य दर्शनेन सर्वा दिशः सुखमय्यः सम्पद्यन्ते, ‘ सर्वंभूतेषु यः पश्येद् भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ ' ( भा ० पु ० ११ | २ | ४५ ) इति वचनात् । दयानन्दस्तु – ' हे दृते, अविद्यानिवारक परमेश्वर विद्वन् वा! येन सर्वाणि भूतानि मित्रस्य चक्षुषा मां समीक्षन्तामहं मित्रस्य चक्षुषा सर्वाणि भूतानि समीक्षे । एवं वयं सर्वे परस्परं मित्रस्य चक्षुषा समीक्षामहे । तथाऽस्मान् छंह ' इति, तदपि न, परमेश्वरस्यैव सर्वान्तर्यामित्वेन तदतिरिक्तस्य विद्वदादेस्तथा सामर्थ्यायोगात् ॥ १८ ॥

पृष्ठ 536

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 536 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १ ९ -२१ ] वैदार्थ पारिजातभाष्यसहिता दृते दृद्ध्हं मा । ज्योक्ते॑ स॒न्दृशं जीव्यास ज्योक्ते॑ स॒न्दृशि जीव्यासम् ॥ १ ९ ॥ १५३ मन्त्रार्थ - हे भगवन्! आप हमें सब तरफ से मजबूत बनावें । आपकी देखरेख में मैं दीर्घकाल तक जीवित रहूँ, आपकी देखरेख में हम सब दीर्घकाल तक जीवित रहें ॥ १ ९ ॥ हे ते महावीर! मां हैंह, अतिशयार्थं पुनर्वचनम्, अत्यन्तं दृढं कुरु । ते तव संदृशि सन्दर्शने, अहं ज्योक् चिरं जीव्यासं जीवेयम् । जीवेराशीर्लिङि रूपम् । ज्योगिति निपातश्विरार्थः । पुनरुक्तिरादरार्था । ते सन्दृशि सन्दर्शने चिरं जीव्यासम् । अध्यात्मपक्षे- दृणोति सर्वं विदारयति यः स परमेश्वरः, तत्सम्बोधने हे हते! ते सन्दृशि सन्दर्शने त्वदनुग्रहवत्या बुद्धेविषयीभूतोऽहं ज्योक् चिरं जीव्यासम् । दयानन्दस्तु ' हे ते! येनाहं ते सन्दृशि ज्योग् जीव्यासम्, ते सन्दृशि ज्योग् जीव्यासम्, तत्र मां हंह ' इति, तदपि न, उपदेशकस्य विदुषो मनुष्यस्य सर्वदृढीकरणे ज्योग्जीवनदाने च सामर्थ्यायोगात् ॥ १ ९ ॥

नम॑स्ते॒ हर॑से शोचिषु॒ नम॑स्ते अ॑स्व॒विषि॑ ।

अ॒न्या॑स्ते॑ अ॒स्मत्त॑पन्तु॒ हे॒तय॑ः पाव॒को अ॒स्मभ्य॑॑ शि॒वो भ॑व ॥ २० ॥

मन्त्रार्थ -- हे अग्निदेव! आपकी सब रसों का आकर्षण करने वाली तेजस्विनी ज्वाला को हम प्रणाम करते हैं, आपके पदार्थ प्रकाशक तेज को हम प्रणाम करते हैं । आपकी यह ज्वाला हमें छोड़ कर दूसरों के लिये तापदायक हो, हमारे लिये तो चित्त शोधक और कल्याण - कारक हो ॥ २० ॥

हे अग्ने, ते तव शोचिषे शोचनहेतवे तेजसे नमोऽस्तु । कीदृशाय शोचिषे? हरसे, हरति सर्वरसानिति हरस्तस्मै । ते तव अर्चिषे पदार्थप्रकाशकाय तेजसे नमोऽस्तु । ते तव तयो वज्राणि, अस्मद् अस्मत्तोऽन्यान् तपन्तु, नास्मानित्यर्थः । त्वं च पावकः सन्नस्मभ्यं शिवो भव । १७।११ इत्यत्र व्याख्याता ॥ २० ॥

नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒नवे॑ । नमस्ते भगवन्नस्तु यत॒ः स्वः स॒मीहंसे ॥ २१ ॥

मन्त्रार्थ - हे परमेश्वर! आपके विद्युत् रूप के लिये, गर्जना करने वाले रूप के लिये हम प्रणाम करते हैं । आप सभी प्राणियों को स्वर्ग का सुख देने की चेष्टा करते हैं । इसलिये भी हम आपको नमस्कार करते ॥ २१ ॥

द्वे अनुष्टुभौ विद्युत्स्तनयित्नुरूपभगवद्देवते । हे भगवन् महावीर! विद्युते विद्युद्रूपाय ते तुभ्यं नमोऽस्तु । स्तनयित्नवे गर्जितरूपाय ते नमोऽस्तु । यतः कारणात् स्वः स्वर्गं गन्तुं समी से चेष्टसे, अतस्ते तुभ्यं नमोऽस्तु । अध्यात्मपक्षे - हे परमेश्वर! विद्युते विद्युदुपलक्षितसर्वशक्तिरूपाय तुभ्यं नमः । स्तनयित्नवे गर्जित-रूपाय शब्दब्रह्मरूपाय परापश्यन्तीमध्यमावैखरीरूपाय आन्तरनादरूपाय च तुभ्यं नमः । यतः स्वः सूयं चिदादित्यं गन्तुं समीहसे चेष्टसे सोपाधिकं रूपमपहाय तस्मात् तुभ्यं नमः प्रह्वीभावोऽस्तु । २०

पृष्ठ 537

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 537 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१५४ शुक्लयजुर्वेद संहिता [ अ ० ३६ दयानन्दस्तु – ' हे भगवन्! यतस्त्वं स्वः समीहसे, तस्माद्विद्युते ते नमोऽस्तु, स्तनयित्नवे ते नमोऽस्तु, सर्वाभिरक्षकाय ते नमश्च सततं कुर्याम ' इति, तदपि न विद्युत्पदस्य मुख्यार्थत्यागस्य तत्तुल्यार्थग्रहणस्य निर्हेतुकत्वात्, यथाश्रुतार्थत्वे परमेश्वरस्य साकारत्वापत्त्या तवापसिद्धान्तापातात् । तथैव स्तनयित्नुशब्दस्यापि गौणार्थग्रहणं निर्मूलमेव । सिद्धान्ते तु सर्वात्मविवक्षया ब्रह्मणः सर्वरूपत्वे नानुपपत्तिः ॥ २१ ॥

यतो॑ यतः स॒मीह॑से॒ ततो॑ नो॒ अभ॑यं कुरु ।

शं नः कुरु प्र॒जाभ्योऽभ॑यं नः प॒शुभ्यः॑ः ॥ २२ ॥

मन्त्रार्थ -- हे परमेश्वर! आप जिस किसी रूप से हमारे कल्याण की चेष्टा करते हैं, उसी रूप से हमें अभयदान कीजिये, हमारी सन्तानों के लिये सुखरूप होइये | आपकी कृपा से हमारे पशुओं को भी किसी प्रकार का भय न हो ॥ २२ ॥

हे महावीर, यतो यतो यस्माद् यस्माद् दुश्चरितात् त्वम् अस्मासु उपकर्तुं समीहसे चेष्टसे, ततस्ततो नोऽस्माकमभयं कुरु । नोऽस्माकं प्रजाभ्यः शं सुखं कुरु । नः पशुभ्योऽभयं भीत्यभावं कुरु । अध्यात्मपक्षे – हे परमेश्वर, यतो यतः समीहते, यत्र यत्र रामकृष्णादिरूपेण विविधं चरित्रं कुरुषे, ततस्ततो मेऽभयं कुरु । अन्यत् पूर्ववत् । दयानन्दस्तु - ' हे भगवन् ईश्वर, त्वं कृपाकटाक्षेण यतो यतः समीहसे सम्यक् चेष्टसे, ततो नोऽभयं कुरु । नः प्रजाभ्यः पशुभ्यश्च शमभयं कुरु ' इति, तदपि न भयप्राप्तावेवाभयप्रार्थनोपपत्तेः । न च भयं दुश्चरित्रमन्तरा सम्भवति, तस्माद्यतो यतो दुश्चरित्रादस्मास्वपकर्तुं चेष्टसे, ततो नः प्रार्थनया क्षमादानेनाभयं कुर्वित्येवार्थो युक्तः ॥ २२ ॥

सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुमित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥ २३ ॥

W मन्त्रार्थ---जल देवता और ओषधियाँ हमारे लिये कल्याणकारी हों और उस हमारे शत्रु के लिये वे अमंगलमय हों, जो हमारे प्रति द्वेषभाव रखते हैं, अथवा हम जिनके प्रति द्वेष - बुद्धि रखते हैं, इस आशंका से कि यह हमारा अनिष्ट करेगा || २३ | आप ओषधयश्च नोऽस्माकं शोभनमित्रभावेनावस्थिताः सन्तु । योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तत्कृते आप ओषधयश्च दुर्मित्रियाः सन्तु । अध्यात्मपक्षे --सर्वा आप ओषधयश्च मन्त्रप्रभावाद् भावनाप्रभावाच्च भक्तभावनानुविधायिन्यो भवन्ति । तत एव संकल्पबलेन ताः सुमित्रिया दुर्मित्रियाश्च भवन्ति । व्याख्यानं पूर्ववत् । दयानन्दस्तु – ' हे मनुष्याः! या इमा आप ओषधयो नः सुमित्रियाः सन्तु, ता योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्मै दुर्मित्रियाः सन्तु ' इति, तदपि न, अपामोषधीनां च जडत्वाद् व्यक्तिविशेषं प्रति सुमित्रियात्वस्य तद्विरुद्धान् प्रति दुर्मित्रियात्वस्यासम्भवात्, पक्षपातस्यापि चेतनधर्मत्वात् । परमेश्वरप्रसादेन तु तथात्वं सम्भवत्येव, भगवतो भक्तानुविधायित्वात् ॥ २३ ॥

पृष्ठ 538

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 538 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २४ वेदार्थपारिजातभाष्यसहिता १५५ तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छुक्रमुच्च॑रत् । पश्ये॑म श॒रवः॑ श॒तं जीवे॑म श॒रवः॑ श॒तधु॑ शृर्णयाम शरदः शतं प्र ब्र॑वाम शरदः शतमनाः स्याम श॒रवः॑ श॒तं भूय॑श्च श॒रद॑ः श॒तात् ॥ २४ ॥

॥ इति षत्रिशोऽध्यायः ॥ मन्त्रार्थ - देवताओं का हितकारी, परमेश्वर का चक्षुरूप सूर्यशरीर ब्रह्मदेव पूर्व दिशा में उदित होता है, उसे हम अपनी पूरी आयु तक देखते रहें । हम सौ वर्ष तक जीयें, सौ वर्ष तक सुनते रहें, सौ वर्ष तक स्पष्ट वाणी बोलते रहें, अपनी पूरी आयु तक किसी के सामने दीनभाव न दिखावें, सौ वर्ष के ऊपर भी हम योगशक्ति के प्रभाव से बहुत काल तक जीवित रहें ॥ २४ ॥

सूर्यदेवा ब्राह्मी त्रिष्टुप् । एतैर्मन्त्रैर्यो महावीरोऽस्माभिः स्तुतस्तदादित्यरूपं जगच्चक्षुर्जगतां नेत्रभूत-मादित्यरूपं पुरस्तात् पूर्वस्यां दिशि, उच्चरद् उदेति, ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३ | ४ | ९ ७ ) इतीकार-लोपः । कीदृशं तत्? देवहितं देवैः स्थापितम्, यद्वा देवानां हितं प्रियम् । शुक्रं शुक्लं पाप्माऽसंस्पृष्टं शोचिष्मद्वा । तस्य प्रसादात् शतं शरदो वर्षाणि वयं पश्येम, शतवर्षपर्यन्तं वयमव्याहत चक्षुरिन्द्रिया भवेम । प्रार्थनायां लिङ् । अत्यन्तसंयोगे द्वितीया । शतं शरदो जीवेम, अपराधीनजीवना भवेम । शतं शरदः शृणुयाम समर्थश्रन्द्रिया भवेम । शतं शरदः प्रब्रवाम, अस्खलितवागिन्द्रिया भवेम । शतं शरदोऽदीनाः स्याम, न कस्यापि समक्षे दैन्यं कुर्याम । शरदः शताद् भूयश्च बहुतरं कालं पश्येम जीवेम शृणुयाम प्रब्रवाम । अध्यात्मपक्षे तद् वेदान्तवेद्यं ब्रह्म चक्षुः सर्वम्, सर्वस्यैव सर्वावबोधमूलत्वात् । तच्च देवहितं देवानामपि परप्रेमास्पदम् । तदेव सर्वेषां पुरस्तात् पुरतः शुक्रं दीप्तिमद्बोधरूपेण उच्चरद् उदेति, सर्वस्यापि व्यवहारस्य बोधमूलकत्वात् । तत्प्रसादादेव वयं शतं शरदः शतं वर्षाणि शरदः शताद् भूयव बहुतरं कालं पश्येम जीवेम शृणुयाम अदीनाः प्रब्रवाम । दयानन्दस्तु हे परमात्मन्! भवान् यद्देवहितं शुक्रं चक्षुरिव वर्तमानं ब्रह्म पुरस्तादुच्चरत् त्वां शतं शरदो जीवेम, शतं शरदः शृणुयाम, शतं शरदः प्रब्रवाम, शतं शरदोऽदीनाः स्याम, शताच्छरदो भूयश्च पश्येम जीवे शृणुयाम प्रब्रवाम अदीनाश्च स्याम ' इति, तदपि यत्किञ्चित् सूर्योऽस्य मन्त्रस्य देवतेति त्वयाऽप्यभ्युप-गतत्वेन तदपहाय परमेशपरत्वानुपपत्तेः, चरतेर्ज्ञानार्थत्वे उदित्यस्य नैरर्थक्यापाताच्च । न च परमेश्वरो देवानामेव हितकरः, सर्वेश्वरत्वे सर्वहितकारित्वात् । चक्षुरित्यस्य चक्षुस्तुल्यमित्यर्थत्वे गौणार्थत्वापत्तिश्च । न च चेतनब्रह्मणो दर्शनं संभवति, तस्यागोचरत्वात् ॥ २४ ॥

॥ इति श्री शुक्लयजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां षट्त्रिंशोऽध्यायः ॥

पृष्ठ 539

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 539 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

सप्तत्रिंशोऽध्यायः दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ ददे ना रैरसि ॥ १ ॥

मन्त्रार्थ - - हे अनि! सविता देवता की आज्ञा में वर्तमान में अश्विनीकुमारों की भुजाओं से और पूषा देवता के

हाथों से तुम्हें ग्रहण करता हूँ । तुम नारी हो ॥ १ ॥

' देवस्य त्वेत्यभ्रिमादायौदुम्बरीं वैकङ्कतीं वाऽरत्निमात्री सव्ये कृत्वा दक्षिणेनालभ्य जपति युञ्जत इति ' ( का ० श्र ० २६ | १ | ४ ) । महावीरसम्भरणं प्रारभ्यते । उखासम्भरणमृत्पिण्डवद् उदुम्बरतरूत्थां विकङ्कत-तरूत्थां वा हस्तप्रमाणामभ्रि ' देवस्य त्वा नारिरसि ' इति मन्त्रेणादाय वामहस्ते तां कृत्वा दक्षिणहस्तेन स्पृष्ट्वा ते मन इति मन्त्र जपतीति सूत्रार्थः । अत्र ब्राह्मणम्- ' देवा ह वै सत्रं निषेदुः । अग्निरिन्द्रः सोमो मखो विष्णुर्विश्वे देवा अन्यत्रैवाश्विभ्याम् ' ( श ० १४ | १ | १११ ) । इतः प्रारभ्य अध्याय त्रयात्मकं प्रवर्ग्यकाण्डम् । एतेन प्रवर्ग्यकाण्डेन यज्ञस्य विष्णोः शिरःसन्धानमुक्तम् । यज्ञरूपस्य विष्णोः शिर एवादित्यः । तदर्थमेषाख्यायिका प्रवर्तते । ' तेषां कुरुक्षेत्रं देव-यजनमास । ( तस्मादाहुः कुरुक्षेत्रं देवानां देवयजनमिति ) तस्माद्यत्र क्व च कुरुक्षेत्रस्य निगच्छति तदेव मन्यत इदं देवयजनमिति तद्धि देवानां देवयजनम् ' ( श ० १४० १ १ २ ) । पूर्वं कदाचित् श्रीर्यशोऽन्नाद्यकामा अश्विभ्यां वर्जिता अग्नीन्द्र सोममुख विष्णुविश्वेदेवाः कुरुक्षेत्रे देवयजने कञ्चन सत्रं निषेदुः । तत्रास्माकं मध्ये श्रमेण तपसा श्रद्धया यज्ञेनातिभिर्यः पूर्वं यज्ञस्य उचम् ऋच उद् उत्कर्षं रहस्यं फलमिति यावत्, अवगच्छति स एव श्रेष्ठ इत्यभिधानमूचुः । तादृशो विष्णुः स एव देवानां मध्ये श्रेष्ठ आसीत् । अत्र विष्णुयज्ञादित्यानां साम्यत्वोप-पादनम् । प्रसङ्गाद् यशः संयन्तुं केनापि न शक्यत इति लोकस्वभाववर्णनम् । ' सयः स विष्णुर्यज्ञः सः । स यः स यज्ञोऽसौ स आदित्यस्तद्धेदं यशो विष्णुर्न शशाक संयन्तुं तदिदमप्येतर्हि नैव सर्व इव यशः शक्नोति संयन्तुम् ' ( श ० १४ । १ । १ ६ ) । स तिसृधन्वमादायापचक्राम । स धनुराय शिर उपस्तभ्य तस्थौ तं देवा अनभिधृष्णुवन्तः समन्तं परिणयविशन्त ' ( श ० १४ । १ १ ७ ) । तिसृभिरिषुभिर्युक्तं धन्व धनुस्तिसृधन्वम् । धनुराय धनुष्कोट्या | अनभिधृष्णुवन्तोऽप्रागल्भ्यात् तूष्णींभूताः समन्तात् परिवार्य तस्थुः । श्रुत्यन्तरात् सशस्त्रत्वात् प्रबलत्वाच्चेन्द्रो देवान् पराभूतवान् । पराभूता देवा विष्णुमशिश्रियन् । स च चिबुकेन धनुरालम्ब्य निद्राण इव तस्थौ । ' ता ह वम्रय ऊचुः । इमा वै वम्रयो यदुपदीका योऽस्य ज्यामप्यद्यात्किमस्मै प्रयच्छेतेत्यन्नाद्यमस्मै प्रयच्छेमापि धन्वन्नपोऽधिगच्छेत्तथास्मै सर्वमन्नाद्यं प्रयच्छेमेति तथेति ' ( श ० १४ | १ | १ | ८ | ‘ तस्योपपरासृत्य । ज्यामपि जक्षुस्तस्यां छिन्नायां धनुरायों विस्फुरन्त्यौ विष्णोः शिरः प्रचिच्छिदतुः ' ( ० १ ४ | १ | १ | ९ ) । ' तद्दृङिति पपात । तत्पतित्वासावादित्योऽभवदथेतरः प्राङेव प्रावृज्यत तद्यद्दृङित्य-पतत् तस्माद् धर्मोऽथ यत्प्रावृज्यत तस्मात् प्रवर्ग्य: ' ( १४ | १ | १ | १० ) । ' ते देवा अब्रुवन् । महान् बत नो वीरोऽपादीति तस्मान्महावीरस्तस्य यो रसो व्यक्षरत्तं पणिभिः सम्ममृजुस्तस्मात् सम्राट् ' ( श ० १४ | १ | ११११ ) इत्येवं ब्राह्मणेन प्रवर्ग्य - महावीर सम्राडादिशब्दानामुपपत्तिः प्रदर्शिता । ' तं देवा अभ्यसृज्यन्त । यथा वित्ति वेत्स्यमाना एवं तमिन्द्रः प्रथमः प्राप तमन्वङ्गमनु न्यपद्यत तं पर्यगृह्णात् तं परिगृह्येदं यशोऽभवद्यदिदमिन्द्रो यशो यशो ह भवति य एवं वेद ' ( श ० १४ | १ | १।१२ ) । ' स उ एव मखः स विष्णुः । तत इन्द्रो मखवानभवद् मखवान् ह वै तं मघवानित्याचक्षते परोक्षं परोक्षकामा हि देवाः '

पृष्ठ 540

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 540 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १ ] वेदार्थपारिजातभाष्यसहिता १५७ ( श ०१४ | १ | १ | १३ ) । ' ताभ्यो वस्त्रीभ्योऽन्नाद्यं प्रायच्छन् । आपो वै सर्वमन्नं ताभिर्हीदमभिक्नूयमिवादन्ति यदिदं किं चादन्ति ' ( श ० १४ | १ | १ | १४ ) । ' अथेमं विष्णुं यज्ञं त्रेधा व्यभजन्त । वसवः प्रातः सवन १ ९ रुद्रा माध्य-न्दिन सवनमादित्यास्तृतीयसवनम् ' ( श ० १४ । १ । १ । १५ ) | ( अग्निः प्रातः सवनम् । इन्द्रो माध्यन्दिन १७ सवनं विश्वे देवास्तृतीयसवनम् ' ( श ० १४ । १ । १ । १६ ) । ' गायत्री प्रातः सवनम् । त्रिष्टुब् माध्यन्दिन सवनं जगती तृतीयसवनं तेनापशी यज्ञेन देवा अर्चन्तः श्राम्यन्तश्चेरुः ' ( श ० १४ । १ । १ । १७ ) । वम्रीभ्यो वमनशीलाभ्य उपदीकाभ्योऽन्नाद्यम् अत्तं योग्यमन्नं दन्तव्यापार निरपेक्षम्, आद्यम् दन्तव्यापारसव्यपेक्षं पूर्व प्रतिज्ञातं प्रायच्छन् 1 किं तत्? आप इति सर्वेषामन्नानामब्विकारत्वात् कारणभूतास्वप्सु सर्वान्नावस्थितेः । तथा च अब्रूपमेवान्नाद्यं प्रायच्छन्निति तात्पर्यम् । पृथक् पृथग् व्रीहियवानामेकैकस्य प्रदाने तस्यान्नस्य कात्स्यं न स्यात् । तथा च अपगतशिरस्कं यज्ञं फलप्राप्त्यक्षमं विभज्यातिष्ठन् । ननु च्छिन्नशिरसो यज्ञस्य फलसाधकाभावात् तदनुष्ठानमेव सर्वत्रोत्सीदेदित्याशङ्कयाह- ' दध्यङ् ह वा आथर्वणः । एतः शुक्रमेतं यज्ञं विदाञ्चकार यथा यथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवति ' ( श ० १४ | १ | १ | १८ ) | दध्यङ्ङाथर्वण ऋषिः पुरा शुक्रं निर्मलं सूर्यात्मना दीप्यमानमेतं प्रवयख्यं यज्ञस्य मूर्धानम्, तथा एतं सवनत्रयात्मकं प्रागुक्तमपगतशिरस्कं यज्ञं च विदाञ्चकार सम्यग् अजानात् । यथा यथा येन येनोपायेन एष यज्ञः कृत्स्नः शिरश्छेदात् प्रागिव सम्पूर्णावयवः सम्यक् फलजनकः स्यात्, तथैतदुभयं पुरा ज्ञात-वान् । ' सहेन्द्रेणोक्त आस । एतं चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्छिन्द्यामिति ' ( श ० १४ | १ | १ | १ ९ ) । स च पुरा आदित्यात्मना यज्ञशिरःसन्धान विद्यामिन्द्रायोपदिदेश । स चेन्द्र एनमजानात् । यद्ययमिमां विद्यामन्यस्मा उपदिशेत् सोऽपि द्विधः स्यादिति । एवं विचार्य नान्यस्मा इयं विद्योपदेष्टव्येत्याज्ञापितवान् । ' तदु हाश्विनोरनुश्रुतमास । दध्यङ्ङ ह वा आथर्वण एत १५ शुक्रमेतं यज्ञं वेद यथा यथैतद्यज्ञस्य शिरः प्रतिधीयते यथैष कृत्स्नो यज्ञो भवति ' ( श ० १४ | १ | १ | २० ) । स दध्यङ्नामा ऋषिरेतं शुक्रं प्रवर्ग्यम्, तथा एतं यज्ञं सवनत्रयात्मकं जानातीत्यनेन प्रकारेण सस्मरतुरश्विनौ ऋषिम् । तत् तस्माद् इन्द्रोपदेशात् पुरैव खलु तद्विद्या-दानं प्रतिश्रुतमासीत् । अश्विनौ हि पुरा बाल्यावस्थायां दधीचश्चिकित्सां कृत्वा युवाभ्यां किं दातव्यमित्येवमन्व-ब्रूताम् - हे महर्षे! त्वयि नानाविधा विद्याः सन्ति । तासां मध्ये सारतः सारा विद्योपदेष्व्येति । तर्हि सारतः सारभूते द्वे मधुविद्ये मयि स्त इति ते युवाभ्यां यथाकालमुपदेक्ष्यामीति । नास्तीदानीमवसरः, युवयोर्ब्राल्यत्वा-दिति । अतः कालान्तरे समागन्तव्यमित्यश्विनोः कृते दधीचा विद्यादानमिन्द्रोपदेशात् प्रागेव प्रतिश्रुतमासीत् । एवं स्थिते फलप्राप्तिरहितेन यज्ञानुष्ठानेन श्राम्यन्तो देवा अश्विनावाहूय एवमब्रुवन् । युवां हि अस्माकं भिषजौ । अस्मदीयो यज्ञश्छिन्नशिरस्क: सन् फलजननाशक्तः, तस्य शिरसः सन्धानं भवद्भयां कार्यमिति । तदुक्तं तित्तिरिणा ' ते देवा अश्विनावब्रुवन् । भिषजो वै स्थः । इदं यज्ञस्य शिरः प्रतिधत्तमिति ' ( तै ० आ ० ५।१।६ ) इति । एवमुक्तौ अश्विनौ कथमेतस्य सन्धानमित्यालोचयन्तौ दधीचोक्तमस्मरतामिति वर्णयद् ब्राह्मणमाह-दध्यङ्ग हेति । तौ खलु अश्विनौ पुरा विद्यादानं प्रतिश्रुतवन्तं दध्यचमेता ऊचतुः उपगतवन्तौ त्वां विद्यार्थ-मिति । ततः स ऋषिरब्रवीत् किं मया शिक्षणीयौ? तावब्रूताम् यद्भवता विज्ञातं प्रवर्म्याख्यं यज्ञशिरः, यश्च तत्सम्बद्धो यज्ञः, एतदुभयं त्वत्तोऽध्येष्यमाणौ आवाम् आगतौ । ' स होवाच । इन्द्रेण वा उक्तोऽस्म्येतं चेदन्यस्मा अनुब्रूयास्तत एव ते शिरश्छिन्द्यामिति तस्माद्वै बिभेमि यद्वै मेस शिरो न छिन्द्यान्न वामुपनेष्य इति ' ( श ० १४ । १।१।२२ ) । ' तौ होचतुः । आवां त्वा तस्मात् त्रास्याव इति । कथं मात्रा येथे इति यदा ना उपनेष्यसेऽथ ते शिरश्छित्वान्यत्रापनिधास्यावोऽथाश्वस्य शिर आहृत्य तत्ते प्रतिधास्यावस्तेन नावनुवक्ष्यसि स यदा नावनुवक्षस्यथ ते तदिन्द्रः शिरश्छेत्स्यथ ते स्वछ शिर आहृत्य तत्ते प्रतिधास्याव इति ' ( श ० १४ । १ । १ । २३ ) । सुप्रसन्ने afsh ।