वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 541–550
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 541–550
पृष्ठ 541
पाठ पढ़ें पाठ छिपाएँ
१५८ शुक्ल यजुर्वेदसंहिता [ अ ० ३७ ' तौ होपनिन्ये । तौ यदोपनिन्येऽथास्य शिरश्छित्वाऽन्यत्रापनिदधतु रथाश्वस्य शिर आहृत्य तद्धास्य प्रतिदधतुस्तेन हाभ्यामनुवाच स यदाभ्यामनुवाचाथास्य तदिन्द्रः शिरश्चिच्छेदाथास्य स्व १५ शिर आहृत्य तद्वास्य प्रतिदधतुः ' ( श ० १४ | १ | १ | २४ ) | अश्विभ्यां च यथा प्रतिज्ञातं तथैव कृतम् । तौ दधीचो मानुषं शिरश्छि-त्वान्यत्र स्थापितवन्तौ । ऋषिश्च तेनाश्वशिरसाऽश्विभ्यां प्रवर्ग्याख्यां मधुविद्यामुपदिदेश । अनन्तरमिन्द्र ऋषेस्तच्छिरश्चिच्छेद | आश्वे शिरसि छिन्ने सत्यश्विनौ दधीचः स्वं मानुषं शिरोऽन्यत्र स्थापितमाहृत्य प्रतिदधतुः पूर्ववदविकलमव्रणं च यथा स्यात्तथा संयुक्तं चक्रतुः । उक्तेऽर्थे मन्त्रं संवादयति- ' तस्मादेतदृषिणाभ्यनूक्तम् । दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्णा प्र यदीमुवाचेत्ययतं तदुवाचेति हैव तदुक्तम् ' ( श ० १४ | १ | १ | २२ ) । यस्मादेवं पुरा वृत्तान्तो जातः, तस्मादेव कारणाद् ऋषिणा कक्षीवन्नाम्ना अतीन्द्रियदर्शिनाप्येतदुक्तमर्थजातमभिलक्ष्य ' अनूक्तम् ' अनुवचनमध्ययनं कृतम् । यद्वाऽलौकिकस्यार्थस्य प्रकाशनादृषिरिति वेद एवोच्यते । कथमनूक्तम्? तदाह - दध्यङ् हेति । अयमुत्तरोऽर्धर्चः । अस्य पूर्वार्धस्तु - ' तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम ' ( ऋ ० सं ० १।११६।१? ) इति । अस्यार्थस्तु – हे नरौ नेतारौ अश्विनौ! वां युवयोस्तदुग्रं क्रूरं दंसः कर्म ( निघ ० २।१।३ ) सनये धनानां लाभार्थम् आविष्कृणोमि प्रकटीकरोमि । तन्यतु मेघो यथा ( नेत्युपमार्थं ) पिहितां वृष्टि -माविष्करोति । सर्वत्र लोके बिन्दुशो विस्तारयति तद्वत् । किं तदुग्रमित्युच्यते आथर्व गोऽथर्वणः पुत्रो दध्यङ् नामा ऋषिः पुरा खलु वां युवाभ्यां यत् प्रवम्यख्यं मधु अश्वस्य शीर्णा प्रतिहितेन शिरसा प्रोवाच प्रोक्तवान् यत् कर्म तदिति । अस्य मन्त्रस्य तात्पर्यमाह - अयतं तदुवाचेति । इन्द्रप्रतिषिद्धमपि तन्मधु अयतम् अनियमितं मन्वानः, उ एव, दध्यङ् ताभ्यामुवाच उपदिष्टवान् । तदिदं प्रवख्यं मधु साधारण्येन ( सर्वसाधारणपुरुषेभ्यः ) नोपदेष्टव्यम्, इन्द्रेण गोपितत्वात् । किन्तु ये विशिष्टमातापितृजन्या आचारवन्तस्तेभ्य एवोपदेष्टव्यम् । तदुक्तम् - ' तन्न सर्वस्मा अनुब्रूयात् । एनस्य, हि तदथो नेन्म इन्द्रः शिरश्छिनददिति यो न्वेव ज्ञातस्तस्मै ब्रूयादथ योऽनूचानोऽथ योऽस्य प्रियः स्यान्न त्वेव सर्वस्मा इव ' ( श ० १४ । १ । १ । २६ ) | सर्वसाधारणोपदेश एनस्यम् एनसे हितं पापकारि स्यात्, अतो न सर्वस्मै ब्रूयात् । ' नेदिति परिभये ' ( निरु ० १ | १० ) । यद्यहमविशेषेण सर्वस्मै उपदेक्ष्यामि, तर्हि इन्द्रो मदीयं शिरो न छिन्द्यादिति भयेनापि न सर्वस्मै उपदिशेत्, योऽनूचानो यश्चास्य प्रियस्तस्मा एवोपदिशेत् । ' संवत्सर-वासिनेऽनुब्रूयात् । एष वै संवत्सरो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति तस्मात् संवत्सरवासिनेऽनु-ब्रूयात् ' ( श ० १४ | १ | १ | २७ ) | ' तिस्रो रात्रीव्रतं चरति । त्रयो वा ऋतवः संवत्सरस्य संवत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मात् तिस्रो रात्रीव्रतं चरति ' ( श ० १४ | १ | १ | २८ ) । ' तप्तमाचामति । तपस्व्यनुब्रवा इत्यमा ँ साश्यनुब्रूते तपस्यनुत्रवा इति ' ( श ० १४ | १ | १ | २ ९ ) । ' अमृन्मयपायी । अस्ति वा अस्या ँ , स सृष्टमिव यदस्यामनृतं वदति तस्मादमृन्मयपायी ' ( श ० १४ । १ । १ । ३० ) । ' अशूद्रोच्छिष्टी । एष वै घर्मो य एष तपति सैषा श्रीः सत्यं ज्योतिरनृत स्त्री शूद्रः श्वा कृष्णः शकुनिस्तानि न प्रेक्षेत नेच्छ्रियं च पाप्मानं च नेज्ज्योतिश्च तमश्च नेत् सत्यानृते स सृजानीति ' ( ० १४। १ । १ । ३१ ) इत्यादिभिः प्रवर्ग्यविद्याप्राप्तये बहवो नियमा उक्ताः । ' अथैष वाव यशः । य एष तपति तद्यत्तदादित्यो यशो यज्ञो हैव तद्यशस्तद्यत्तद्यज्ञो यशो यजमानो हैव तद्यशस्तद्यत्तद्यजमानो यश ऋत्विजो हैव तद्यशस्तद्यत्तदृत्विजो यशो दक्षिणा हैव तद्यशस्तस्माद्यामस्मै दक्षिणा-मानयेयुर्न ता सद्योऽन्यस्मा अतिदिशेन्नेद्यन्मेदं यश आगंस्तत्सद्योऽन्यस्मा अतिदिशानीति श्वो वैव भूते द्र्हे वा तदात्मन्येवैतद्यशः कृत्वा यदेव तद्भवति तत् स ददाति हिरण्यं गां वासोऽश्वं वा ' ( श ० १४ | १ | १ | ३२ ) इति
पृष्ठ 542
पाठ पढ़ें पाठ छिपाएँ
भ ० १ ] वेदार्थपारिजातभाष्यसहिता १५ ९ प्रच्छादयेत श्रुत्या प्रवर्ग्याध्ययनानुष्ठानेष्वपि विविधानि व्रतानि पालनीयानि । ' तस्य व्रतचर्या नातपति नेदेतस्मात्तिरोऽसानीति नातपति निष्ठीवेन्नेदेतमभिनिष्ठीवानीति नातपति प्रस्रावयेत् ' ( श ० १४।१।१।३३ ) | अस्यां कण्डिकायां तस्य व्रतचर्या निरूप्यते । न प्रस्रावयेन्न मूत्रयेत् । इत्थमाख्यायिकाया प्रवर्ग्यस्य विधित्सितस्य यज्ञशिरस्त्वं तद्रहितस्याग्निष्टोमादेः फलजननासामर्थ्यमुक्त्वा तस्यावश्यानुष्ठेयस्य प्रतिपादकं काण्डाध्यायिनस्तदनु-ष्ठायिनो व्रतानि दर्शितानि । अथ निर्वर्तकानां मृद्दारुमयानां पात्राणां निष्पत्तिरुच्यते । महावीरादीनि मृन्मयानि पात्राणि सम्भरति निर्मातुं मृद्वल्मीकवपादयः सम्भारा विधास्यन्ते । प्रथमं सम्भारसंज्ञां निर्वक्ति - स यद्वा एनानित्था चेत्था च क्रियासु तत्सम्भाराणा १ ९ " सम्भारत्वम् ' ( श ० १४ | १ | २ | १ ) इति । आध्वर्यवसमाख्यावशेनेतः परं वक्ष्यमाणासु तेषां कर्तृत्वेनाध्वर्युरेव सम्बद्ध्यते । नानादिगवस्थितान् यज्ञशिरः सारान् मृदादिरूपान् विहितपदार्थानेकत्रानीय सम्भरति ' ( श ० समूहीकरणमेव सम्भरणम् । ' कृष्णाजिने सम्भरति । यज्ञो वै कृष्णाजिनम् । यज्ञ एवैनमेतत् १४।१।२।२ ) । यज्ञस्य कस्माच्चिन्निमित्तात् पलायमानस्य कृष्णमृगरूपेणावस्थानात् तच्चर्मणो यज्ञत्वम् । तथा च तैत्तिरीयकम् – ' यज्ञो देवेभ्यो निलायत । कृष्णं रूपं कृत्वा यत्कृष्णाजिने हविरभ्यवहरन्ति ' ( तै ० ब्रा ० ३३२।५।६ ) । ' लोमतश्छन्दा २७ सि वै लोमानि छन्दः स्वेवैनमेतत्सम्भरत्युत्तरत उदीची हि मनुष्याणां दिक् प्राचीनग्रीवे तद्धि देवत्रा ' ( शे ० १४ । १ । २१२ ) । सम्भरणं च लोमवद्भागे कार्यमित्यनुषङ्गः । कुत एतत्? अलोमके विशसनप्रदेशे वा कस्मान्न सम्भरणम्? इति चेदुच्यते - छन्दांसि वै लोमानि, अर्थाच्छन्दोयुक्ता ऋचः सामानि च कृष्णाजिनस्य लोमानि । तथा च तैत्तिरीयसंहितायाम् -- ' एष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनस्यैष दिशि गत्वा साम्नो यत्कृष्णम् ' ( ६ | ३ | १ | १ ) । एवं च गायत्र्यादिछन्दः स्वेव सम्भरति । उत्तरत उदीच्यां आस्तीर्णे सम्भारान् सम्भरति प्राचीनग्रीवे, प्राचीना प्राच्यां दिश्यवस्थिता ग्रीवा यस्य तस्मिन् कृष्णाजिने सम्भरति । तद्धि प्राग्दिक्सम्बन्धो हि देवत्रा देवेषु प्रसिद्धः । ' अध्या । वज्रो वा अभिवयं वै वज्रो वीर्येणैवैनमेतत् समर्धयति कृत्स्नं करोति ' ( श ० १४ । १।२ । ३ ) । अभिः खननसाधनं काष्ठम्, तथा सम्भारात् सम्भरति । वज्रवत्तीक्ष्णाग्रत्वादनिर्वज्रः । वज्रश्च इन्द्रायुधत्वाद् वीर्यंरूपः । एवमाभ्रियसम्भरणेनैनं प्रवग्यं वीर्येण फलजननसामर्थ्येन समृद्धं करोति । तत्समृद्धी प्रवर्ग्यशिरस्कं भवति ' ( श ० १४।१।२।४ ), ' अथो वैकङ्कती ' यज्ञमपि कृत्स्नं सम्पूर्णावयवं करोति । ' औदुम्बरी ( श ० १४।१।२२५ ) | अः प्रकृतिरूपमौदुम्बरं विकल्पेन विकङ्कतरूपं वृक्षान्तरं च विधाय तया अभ्या खातां ततो ' युञ्जते मनः ' इति मन्त्रेण जलेनासिक्तां मृदं समन्त्रकमाहृत्य उत्तरत आस्तृते कृष्णाजिने निधाय, वल्मीकवपाया वराहेण खातस्य मृत्पिण्डस्य समन्त्रकं सम्भरणम्, पूतीकरसस्य अजाक्षीरस्य देवयजनस्योत्तरतः सम्भरणम् एकस्मिन् कृष्णाजिने संभृतानां मृदादीनां प्रशंसनम्, अभिमर्शनविधानम्, महावीरादिनिर्माणाय ० सं ० ३७ ७ ) इतीमं मन्त्रं परिश्रितं विधाय तत्र सम्भृतसम्भारानादाय गच्छन्तः ' प्रैतु ब्रह्मणस्पति: ' ( वा समन्त्रकमभिमर्शनम् । जपन्ति । संसृष्टमृत्तिकया महावीरकरणस्य विधानं लक्षणसम्पन्नं महावीरं कृत्वा तस्य भवति, वल्मीकवपा - वराहविहत- पूतिकाऽजाक्षीरलक्षणान् आहृतान् सम्भारान् परस्परसम्मेलनेन मन्त्रेण यथा श्लक्ष्णं महावीर - धर्म-तथा मखाय त्वा मखस्य त्वेति मन्त्रेण संसृज्य संसृष्टं मृत्पिण्डमुपादाय मखाय त्वेति हविः सन्तपनपात्रं करोति । ' मखाय त्वा मखस्य त्वा शीर्णे इत्यसावेव बन्धु: प्रादेशमात्रं प्रादेशमात्रमिव हि शिरो मध्ये संगृहीतं मध्ये संगृहीतमिव हि शिरोऽथास्योपरिष्टात् त्र्यङ्गलं मुखमुन्नयति नासिकामेवास्मिन्नेतद्दधाति तन्निष्ठितमभिमृशति ’ मखस्य शिरोऽसीति मखस्य ह्येतत् सौम्यस्य शिर एवमितरौ तूष्णीं पिन्वने तूष्णी रौहिणकपाले
पृष्ठ 543
पाठ पढ़ें पाठ छिपाएँ
१६० शुक्लयजुर्वेदसंहिता [ अ ० ३७ ( श ० १४ | १ | २ | १७ ) । तं महावीरं प्रादेशमात्रमूर्ध्वप्रमाणेन प्रादेशपरिमितं कुर्यात् । हि यस्मात् शिरो मूर्धा लोके प्रादेशमात्र परिमितमिव दृश्यते । तच्च मध्ये संगृहीतमिव सन्नतमिव दृश्यते । अथो अनन्तरं महावीरस्य उपरिष्टाद् उपरि भागेऽङ्गुलत्रयपरिमितं मुखमास्यमुन्नयति, ऊध्वं प्रापयति । एतेन मुखोन्नयनेनास्मिन् महावीरे यज्ञशिरसि नासिकामेव दधाति । महावीरलक्षणं सूत्रकारेण स्पष्टीकृतम् - ' प्रादेशमात्रमूर्ध्वमासेचनवन्तं मेखलावन्तं मध्यसंगृहीतमूध्वं मेखलायास्त्र्यङ्गुलम् ' ( का ० श्र ० २६ । १ । १६ ) | आसेचनवन्तम् आसिच्यतेऽस्मिन्नित्यासेचनं गर्तः, तद्वन्तं मेखलावन्तं रास्नावन्तं मध्यसंगृहीतं मध्यप्रदेशं संकुचितमुलूखलमिव मुष्टिग्रहणयोग्यं मेखलाया ऊध्वं त्र्यङ्गुलं प्रादेशमात्रस्योपरिभागे त्र्यङ्गुलं परिशिष्य ततोऽधस्तान्मेखला कार्या । ' निष्ठितमभिमृशति मखस्य शिर इति ' ( का ० श्रौ ० २६।१ । १७ ) । निष्ठितं निष्पन्नं सव्यहस्तस्थं दक्षिणेनाभिमृशेत् । अनयैव मृदा प्रवयपयुक्त -मन्यदपि मृन्मयजातं करोति -- तूष्णीं पिन्वने तूष्णी रौहिणकपाले इति । पिन्वति सिञ्चत्यनयोरिति पिन्वने गोपयोऽजापयोदोहनपात्रे । रौहिणपुरोडाशयोरधिश्रयणार्थं द्वे कपाले कर्तव्ये । एतयोः पिन्वनकपालयोर्लक्षणं सूत्रकारेणोक्तम्- ' स्रुक्पुष्कराकृती पिन्वने रोहिणकपाले परिमण्डले ' ( का ० श्र ० २६ । ११२० ) । तथैव द्वावन्यावपि महावीरौ कर्तव्यौ । समन्त्रकस्य महावीरनिर्माणस्य, अमन्त्रकस्य पिन्वनादिनिर्माणस्य च संहत्य प्रशंसनम् प्रजापतिर्वे-त्यादिना । ' प्रजापतिर्वा एष यज्ञो भवति । उभयं वा एतत्प्रजापतिर्निरुक्तश्चानिरुक्तश्च परिमितश्चापरिमितश्च तद्यद्यजुषा करोति यदेवास्य निरुक्तं परिमित, रूपं तदस्य तेन सस्करोत्यथ यत्तूष्णीं यदेवास्यानिरुक्त-मपरिमित ै, रूपं तदस्य तेन स ७ स्करोति स ह वा एत सर्वं कृत्स्नं प्रजापति स ७ स्करोति य एवं विद्वान् एतदेवं करोत्यथोपशयायै पिण्डं परिशिनष्टि प्रायश्चित्तिभ्यः ' ( श ० १४ | १ | २ | १८ ) । यदि पात्रं भग्नं स्यात्, तर्हि तन्निर्माणार्थमुपशयाभिधां पात्रनिर्माणादवशिष्टां मृदं क्वचिदेकान्ते स्थापयेत् । ' पत्न्यदर्शनम्, अननूक्तिभिश्च ' ( का ० श्र ० २६ । २ । ३ - ४ ) । सन्निधाने सत्यपि पत्नी प्रवर्ग्यस्य महावीरस्य दर्शनं न कुर्यात् । अनूक्तिरनुवचनं वेदाध्ययनं येषां न विद्यते तैरपि महावीरस्य दर्शनं न कार्यमिति सूत्रार्थः । श्रपणविधानम्, एतेषामावापोद्धरणयोः कालविशेषनिरूपणम्, महावीरत्रयस्योद्वपने मन्त्रत्रयं च विनियुज्य पिन्वनयो रौहिणकपालयोश्च तूष्णीमुद्वपनविधानम् प्रथममहावीरस्यावापादुद्धृतस्याजाक्षीरेणासेचनस्य समन्त्रकं विधानम्, अन्येषां तूष्णीमजाक्षीरेणासेचनम् । ' स यदेतदातिथ्येन प्रचरति । अथ प्रवर्येण चरिष्यन् पुरोपसदोऽग्रेण गार्हपत्यं प्राचः कुशान् स स्तीर्य द्वन्द्वं पात्राण्युपसादयत्युपयमनी महावीरं परीशासौ पिन्वने रौहिणकपाले रोहिणवन्य स्रुचौ यदु चान्यद् भवति ' ( श ० १४ । १ । ३ । २ ) । अध्वर्युर्यदाऽतिथिभूतस्य सोमराजस्य प्रीत्यर्थं नवकपालेन पुरोडाशेन चरति, तदा उपसदः पुरा आतिथ्येष्टयनन्तरं तानूनप्त्रस्पर्शनादिकमपि कृत्वा प्रवर्येण चरिष्यन् प्रवर्ग्यमनुष्ठास्यन् पात्रासादनं कुर्यात् । असंस्कृतानां पात्राणां यागानर्हत्वात् तत्संस्काराय पात्रासादनमिति । उपयमनम् अधश्वाद् धारणम् । तप्तस्य महावीरस्य अधो धारणार्था औदुम्बरी द्राघीयसी स्रुग् उपयमनी । परीशासौ अप्रचरणीयौ महावीरौ रौहिणहवन्यौ औदुम्बयो अविले स्रुचौ । यदन्यदपि पात्रजातमपेक्षितं तदप्यासादयेत् । तच्च कात्यायनेन प्रोक्तम्- ' स्थूणामयूखम् ' ( का ० श्रौ ० २६ । २ । १० ) इत्यादिना । ‘ अथाध्वर्युः । प्रोक्षणीरादायोपोत्तिष्ठन्नाह ब्रह्मन् प्रचरिष्यामो होतरभिष्टुहीति ब्रह्मा वै यज्ञस्य दक्षिण आस्तेऽभिगोप्ता तमेवैतदाहाप्रमत्त आस्व यज्ञस्य शिरः प्रतिधास्याम इति होतारमभिष्टुहीति ' ( श ० १४ | १ | ३ | २ ) । गार्हपत्याहवनीया उत्तरेण द्वौ चतुरस्रौ खरौ हस्तमात्री एकाङ्गुलोत्सेधौ दक्षिणतस्तृतीयं तावन्मात्रं सिकताभिः कृत्वा सम्राडासन्दीमाहवनीयपूर्वेण संस्थाप्य तत्र द्वौ महावीरावासादयेत् । ततो मुञ्ज निर्मितानिण्डवानादीप्य
पृष्ठ 544
पाठ पढ़ें पाठ छिपाएँ
म ० १-३ ] वेदार्थं पारिजातभाष्यसहितो १६१ तान् खरे संस्थाप्य तत्राज्यपूर्णं महावीरं निधाय होत्रा मन्त्रगणे पठ्यमाने प्रतिप्रणवं स्त्रीवाज्यमासिश्चेत् । ततो रोहिणपुरोडाशयोः प्रचारः । तत्रादौ दक्षिणं पुरोडाशं हुत्वा गां दुग्ध्वा परीशासाभ्यां महावीरमादाय तत्राजापयः प्रक्षिप्य शान्ते पयसि गोपयः प्रक्षिपेत् । अयं घर्म इत्युच्यते । तत उत्तरं रौहिणं जुहुयात् । एवमपराह्णेऽपि प्रवर्ग्यानुष्ठानम् । ' एष वै मखो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति तस्मादाह मखाय त्वेति ' ( श ० १४।१।३।५ ) । अथ मन्त्रार्थः - अनिदेवत्यं यजुः । हे अभ्रे, सवितुर्देवस्याज्ञया स्थितोऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे । त्वं च नारिरसि स्त्रीनाम्नी भवसि । तां सव्ये पाणौ कृत्वा दक्षिणेनाभिमृश्य जपति युञ्जते मन उत युञ्जते धिय इति ' ता सव्ये पाणौ कृत्वा । दक्षिणेनाभिमृश्य जपति युञ्जते मन उत युञ्जते धियः ' ( श ० १४ १ २ ८ ) इति श्रुतिः । अध्यात्मपक्षे - हे बुद्धिरूपे अभ्रे, शास्त्र रहस्य प्राप्त्यर्थं त्वामाददे । अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । त्वं नारिरसि, नयत्यवगमयति श्रुतेरर्थानिति नारिः, ' ङयापोः संज्ञाछन्दसोर्बहुलम् ' ( पा ० सू ० ६ | ३ | ६३ ) इति तद्धिताभावेऽपि छान्दसत्वाद् ह्रस्वः, असि । अतः श्रुतिरहस्यमवगन्तुं शक्नोषि । दयानन्दस्तु –'हे विद्वन्, यतस्तं नारिरसि, तस्मात् सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वाददे ' इति, तदपि यत्किञ्चित्, अध्यापकोपदेशकयोर्बाहुभ्यां पुष्टिकर्तुर्हस्ताभ्यां कस्यचिद्विदुषो ग्रहणादर्शनात्, निष्प्रयोजनत्वाच्च, कश्चायं ग्रहीतेत्यनिरूपणाच्च । कथमन्योऽन्ययोर्बाहुभ्यामन्यस्य हस्ताभ्यां कश्चन गृह्णीयात् ॥ १ ॥
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो विप॒श्चित॑ः ।
वि हो दधे वयुनाविदेक इन्म॒ही दे॒वस्य॑ सवि॒तुः परिष्टुतिः ॥ २ ॥
मन्त्रार्थ - वेदपाठ से महत्व को प्राप्त, सर्वज्ञ यजमान के वेदवेत्ता होम करने वाले ऋत्विकगण यज्ञानुष्ठान में मन और इन्द्रियों को लगाते हैं, क्योंकि सब प्राणियों के मन की वृत्ति को जानने वाले सृष्टिकर्ता ने ही इन ब्राह्मणों को मनोवशीकार की सामर्थ्य के साथ रचा है | प्रेरक अन्तर्यामी परमात्मा की सच्ची स्तुति मनोवशीकार ही है । उस परमात्मा के निमित्त हम यह श्रेष्ठ आहुति देते हैं ॥ २ ॥
इयं पञ्चमे चतुर्दश्यां व्याख्यातापि पुनर्व्याख्यायते । विप्रस्य यजमानस्य ऋत्विजो मनो युञ्जते, लौकिक-चिन्ताभ्यो निवर्त्य यज्ञचिन्तया नियमयन्ति । उतापि धिय इन्द्रियाणि च यज्ञार्थेषु नियमयन्ति । कीदृशस्य - विप्रस्य? बृहतो महतः, तथा विपश्चितो ज्ञातज्ञेयस्य । अधीतवेदत्वात् बृहत्त्वम्, अर्थाभिज्ञत्वाद् विपश्चित्त्वमिति । कीदृशा विप्राः? होत्रा होमकर्तारः । तदिदं विप्राणां मनोनियमनादिसामर्थ्यम्, एक इद् एक एव विदधे ससर्ज । किंभूत एक:? वयुनावित् सर्वभूतानां मनोवृत्तिवेत्ता । ननु कथमेकस्य सर्वसृष्टौ सामर्थ्यमिति चेत्, तत्राह — यतः सवितुरन्तर्यामिणो देवस्य परिष्टुतिः सर्वरीत्या स्तुतिः, मही महती, ' यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ' ( मु ० १ १ ९ ) इति श्रुतेः ॥ २ ॥
देव द्यावापृथिवी म॒खस्य॑ वाम॒द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा मखस्य त्वा शीष् ॥ ३ ॥
२१
पृष्ठ 545
पाठ पढ़ें पाठ छिपाएँ
१६२ शुक्लयजुर्वेदसंहिता [ १० ३७. मन्त्रार्थ - हे दीप्यमान द्यावापृथिवी ( पृथ्वी और स्वर्ग )! अब मैं देवयजन - स्थान में मृत्तिका और जल को लेकर यज्ञ का प्रमुख कार्य सिद्ध करता हूँ । इस प्रकार पृथ्वी और स्वर्गं से प्रार्थना कर मृत्तिका से प्रार्थना की जाती है कि हे मृत्तिके! यज्ञकार्य के सम्पादन के लिये तुम्हें ग्रहण करता हूँ | यज्ञ के शिरस्थानीय महावीर के लिये तुम्हें ग्रहण करता हूँ ॥ ३ ॥
द्यावापृथिवीदैवतं यजुः, ब्राह्मी गायत्री । ' मृदमादत्ते पिण्डवद् देवी द्यावापृथिवी इति ' ( का ० श्रौ ० २६।१।५ ) । अध्वर्युर्देवीति मन्त्रेणोखासम्भरणमृत्पिण्डवद् दक्षिणेन साम्रिणा सव्येन केवलेनेत्युभाभ्यां पाणिभ्यां मृत्पिण्डमादत्त इति सूत्रार्थः । ra ब्राह्मणम् -'अथ मृत्पिण्डं परिगृह्णाति । अभ्रया च दक्षिणतो हस्तेन च हस्तेनैवोत्तरतो देवी द्यावा -पृथिवी इति यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् स इमे द्यावापृथिवी अगच्छद्यन्मृदियं तद्यदापोऽसौ तन्मृदश्चापां च महावीराः कृता भवन्ति तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति तस्मादाह देवी द्यावापृथिवी इति मखस्य वामद्य शिरो राध्यासमिति यज्ञो वै मखो यज्ञस्य वामद्य शिरो राध्यासमित्येवैतदाह देवयजने पृथिव्या इति देवयजने हि पृथिव्यै सम्भरति मखाय त्वा मखस्य त्वा शीष्ण इति यज्ञो वै मखो यज्ञाय त्वा यज्ञस्य त्वा शीर्ष्ण इत्येवैतदाह ' ( श ० १ ४ | १ | २१ ९ ) । अथ तया अभ्रया खातां जलेनासिक्तां मृदमाहरेदिति विधत्ते - अथ मृत्पिण्डमिति । अम्रिस्पर्शनानन्तरं तया चाभ्र्या दक्षिणहस्तेन च दक्षिणभागेन गृह्णन् सव्यहस्तेनैव केवलेोत्तरत उत्तरभागे गृह्णन् देवी द्यावापृथिवीति मन्त्रेण मृत्पिण्डं जलेन मिश्रीकृतं मृत्तिकाघनं गृह्णाति । महावीराख्य-मृन्मयपात्रपर्याप्तं स्वीकुर्यात् । परिगृह्य च उत्तरत आस्तीर्णे कृष्णाजिने निदधाति । मन्त्रं चतुर्धा विभज्य प्रथमभागं तात्पर्यंतो व्याचष्टे - यज्ञस्य शीर्षच्छिन्नस्य शीर्षं शिरश्छिन्नं यस्यासौ शीर्षच्छिन्नः, तस्य तथाविधस्य यज्ञस्य छेदन प्रदेशाद् यो रसो लोहितरूपो विविधं च्युतः, स रस इमे द्यावापृथिवी सर्वप्राणिसन्निहिते प्राप्नोत् । आह्रियमाणा मृदिति यत् तदेवेयं यज्ञरसयुक्ता पृथिवी । मृदा संसृष्टा आप इति यत् तदेवासो द्युलोकः । द्युलोकजनितया हि वृष्ट्या आपो जायन्ते । यस्मादेवं महावीरा मृदामपां च सम्मेलनात् कृतास्तस्मात् तेनैव द्यावापृथिव्यौ प्राप्तेनैव पुरातनेन रसेन एनं प्रवग्यं समर्धयति । तत्समृद्धया यज्ञमपि कृत्स्नं सम्पूर्णावयवं करोति । प्रादेशमात्रोन्नतानि पर्वत्रयवन्ति घुण्टिकाकाराणि घर्महविः सन्तापार्थानि त्रीणि मृन्मयानि पात्राणि महावीरा उच्यन्ते । ' महान् बत नो वीरोऽपादीति ' ( श ० १४ । १ । १ । ११ ) इत्यादिना प्रवर्ग्यस्य महावीर -शब्दाभिधेयत्वम् । तत्साधनेषु पात्रेषूपचारात्तच्छब्दप्रवृत्तिः । द्वितीयभागमनूद्य व्याचष्टे - मखस्य वामिति । हे देवी देव्यौ देवनशीले द्यावापृथिव्यौ! वां युवयोः सकाशाद् अद्य मखस्य यज्ञस्य शिरः प्रवग्यं राध्यासं कर्तुं शक्तो भूयासम् । कुत्रेति चेत्? तृतीयभागं व्याचष्टे - पृथिव्यै देवयजन इति । पृथिवीसम्बन्धिनि, षष्ठ्यर्थे चतुर्थी, देव-यजने यागाधिकरणीभूते देशे । तत्र हि संभरति मृदादिसम्भारानाहरति । अथ चतुर्थभागमनूद्य व्याख्यान -सापेक्षस्य पदस्यार्थमुक्त्वा निष्पन्नं वाक्यार्थमाह - मखाय त्वेति । अत्रापि मखशब्दस्य यज्ञ एवार्थः । तथा च मृत्पिण्ड, त्वां मखाय यज्ञार्थमाददे । तथा मखस्य शीर्णे शिरसे त्वां परिगृह्णामीति । समग्र मन्त्रार्थस्तु – हे देवी देव्यौ दीप्यमाने द्यावापृथिव्यौ! अद्य अस्मिन् दिने पृथिव्या देवयजने देवयजनस्थाने, देवा इज्यन्ते यत्र तद् देवयजनम्, तस्मिन् मखस्य यज्ञस्य शिरो राध्यासं साधयेयम् । महावीर एव यज्ञशिरः । किं कृत्वा? वां युवां द्यावापृथिव्यौ आदाय, दिवोंऽशं जलं पृथिव्यंशं मृदं चादायेत्यर्थः । एवं द्यावापृथिव्यौ प्रार्थ्य मृदमाह - हे मृत्! यज्ञाय त्वां गृह्णामि । विशेषमाह - मखस्य यज्ञस्य शीर्णे शिरसे महावीराय त्वां शीर्णे गृह्णामीति शेषः । तं मृत्पिण्डमुत्तरे स्थापिते कृष्णाजिने निदध्यात् ।
पृष्ठ 546
पाठ पढ़ें पाठ छिपाएँ
म ० ३-४ ] वेदार्थपारिजातभाष्यसहिता १६३ अध्यात्मपक्षे - हे देव्या चितिप्रकृतिरूपे, अद्य वां युवामादाय यज्ञस्य शिरो ब्रह्मात्मज्ञानं पृथिव्या देवयजने राध्यासम् । हे प्रकृते, मखाय त्वां परिगृह्णामि मखस्य शीर्णे त्वां परिगृह्णामि । यज्ञार्थस्य पूर्व काण्डस्य शीर्षस्थानीयं वेदशीर्षरूपोपनिषज्ज्ञानं यज्ञस्य शिरः स्थानीयम् । दयानन्दस्तु – ' देवी द्यावापृथिव्यावध्या पिकोपदेशिके स्त्रियावद्य पृथिव्या देवयजने वां मखस्य शिरो राध्यासम् । मखस्य शीर्णे त्वा मखाय त्वा राध्यासम् ' इति, तदप्यसङ्गतम्, असम्बन्धात् । किमिदं यज्ञशिरः? कथं च तयोर्मंखाय साधनमिति विश्वङ्खलत्वात् ॥ ३ ॥
देव्यो॑ वम्रो भ॒तस्य॑ प्रथमजा मखस्य॑ वोऽद्य शिरो॑ राध्यासं दे॑व॒यज॑ने पृथि॒व्याः । मखाये त्वामवस्य॑ त्वा श॒ष्णे॑ ॥ ४ ॥
मन्त्रार्थ प्राणियों से प्रथम उत्पन्न दीप्यमान हे उपजिह्विकाओं! तुम्हें लेकर मैं देवयजन - स्थान में यज्ञ के सिर, अर्थात् महावीर का निर्माण करूं, अतः तुम्हें ग्रहण करता हूँ, यज्ञ के सिर महावीर की रचना के लिये तुम्हें ग्रहण करता हूं ॥ ४ ॥
' कृष्णाजिने निदधात्युत्तरतः, देव्यो वम्रय इति वल्मीकवपाम् ' ( का ० श्र ० २६।१।६-७ ) । उत्तरतः स्थापिते प्राग्ग्रीवे उत्तरलोम्नि कृष्णाजिने मृत्पिण्डं तूष्णीं निदध्यात् मृत्पिण्डस्योत्तरतः कृष्णाजिन एव देव्यो वय इति मन्त्रेण वल्मीकवपामादाय तूष्णीं निदध्यादिति सूत्रार्थः । उपदीककृतो मृत्सयो वल्मीकः, तस्य वपेव वपा ताम्, मध्यस्थलोष्ठमिति यावत् । वल्मीकवपा देवता आर्षी पङ्क्तिः । हे देव्यो दीप्यमाना वम्रय उपजिह्निकाः! वो युष्मानादाय पृथिव्या देवयजने मखस्य शिरो महावीरमद्य राध्यासं सम्पादयेयम् । मखाय त्वामाददे । मखस्य शीर्णे त्वामाददे । किंभूता वम्रयः? भूतस्य प्राणिजातस्य प्रथमजाः प्रथमोत्पन्नाः । पृथिवी जन्तूनां प्रथमजा, तत्सम्बन्धाद् वम्रयोऽपि प्रथमजा उच्यन्ते । अत्र ब्राह्मणम् ' अथ वल्मीकवपाम् । देव्यो वम्रय इत्येता वा एतदकुर्वत यथा यथैतद्यज्ञस्य शिरोऽ-च्छिद्यत ताभिरेवैनमेतत्समर्धयति कृत्स्नं करोति भूतस्य प्रथमजा तदनयैवैनमेतत्समर्धयति कृत्स्नं करोति मखस्य ... ' ( श ० १४ | १ | २ | १० | देव्यो व वोऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य त्वा शी या वमनशीला उपदीकाः प्रतिपाद्यन्ते, एताः खलु पुरा एतत्कर्म अकुर्वत । यथा यज्ञस्य शिरोऽच्छिद्यत छिन्नमभवत्, एवमेतत्कर्म विष्णुधनुषो ज्याभक्षणरूपं कृतवत्यः, अतस्ताभिरेव एनं प्रवर्ग्यम् एतत्समर्धयति । इयं वै पृथिवी सर्वकार्यस्य प्राणिजातस्य प्रथमजा कारणत्वेन प्रथमं पुरस्ताज्जाता । तत्सम्बन्धाद् वम्रयोऽपि मन्त्रे प्रथमजा इत्युच्यन्ते । तथा चानयैव पृथिव्या एनं प्रवग्यं समर्धयति । अन्यत् सर्वं गतार्थम् । अध्यात्मपक्षे - हे देव्यो दीप्यमाना वम्रयो ज्ञानवमनशीला इन्द्रियवृत्तयः! वो युष्मानादाय यज्ञस्य पृथिव्या देवयजनेऽस्मिन् शरीरे शिरो ब्रह्मात्मज्ञानं राध्यासं साधयेयम् । इन्द्रियाणां वृत्तिभिर्ज्ञानोपकारः, तन्नि-रोधैश्च महानुपकारो जायते, ' यदा पचावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्व न विचेष्टति तामाहुः परमां गतिम् ॥ ' ( कठो ० २ । ३ । १० ) इति श्रुतेः । दयानन्दस्तु - ' हे प्रथमजा वम्रयो देव्यो विदुष्यः! भूतस्य मखस्य पृथिव्या देवयजनेऽद्य वः शिरोवदहं स्त्रीणां राध्यासम्, मखस्य त्वा मखाय शीर्ष्णे त्वा राध्यासम् ' इति, तदपि न, अल्पवयस्कानां तेजस्विनीनां देवयजने क उपयोग इत्यनुक्तेः भूतस्य मखस्येत्यस्य किं स्वारस्यमित्यनुक्तेश्च । यज्ञस्य शीर्ष्णे कथं तासां सिद्धिरित्यादिकं सर्वमसम्बद्धमेव ॥ ४ ॥
पृष्ठ 547
पाठ पढ़ें पाठ छिपाएँ
१६४ शुक्लयजुर्वेदसंहिता [ अ ० ३७
इय॒त्यव॑ आसीन्म॒खस्य॑ त॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शीष्र्णे ॥ ५ ॥
मन्त्रार्थ - भगवान् वराह ने जिस समय इस पृथ्वी को उठाया, तब इसका परिमाण प्रादेशमात्र था । हे पृथिवि! अब तुम्हारे ऊपर देवयजन - स्थान में मैं यज्ञ के शिरस्थानीय महावीर का निर्माण करता हूँ, यज्ञ के लिये तुम्हें ग्रहण करता हूँ । यज्ञ के सिर महावीर के लिये तुम्हें ग्रहण करता 114 11 ' इत्य इति वराहविहतम् ' ( का ० श्र ० २६ | ११८ ) । वराहोत्खातमृदमादाय तूष्णीं कृष्णाजिने वल्मीक-वपोत्तरे निदध्यादिति सूत्रार्थः । वराहविहतमृद्देवत्यं यजुः । ब्राह्मी गायत्री । हे पृथिवि या त्वमियती प्रादेश -मात्र ( अभिनयेन निर्दिश्यते ) अग्रे वराहस्योद्धरत आसीद् आसीरभूः । ' ते ' इति द्वितीयार्थे षष्ठी । तां त्वामादाय पृथिव्या देवयजने मखस्य शिरो राध्यासम् । अन्यत् पूर्ववद् व्याख्येयम् । अत्र ब्राह्मणम् —'अथ वराहविहतम् । इयत्यग्र आसीदितीयती ह वा इयमग्रे पृथिव्यास प्रादेशमात्री तामेष इति वराह उज्जघान सोऽस्याः पतिः प्रजापतिस्तेनैवैनमेतन्मिथुनेन प्रियेण धाम्ना समर्धयति कृत्स्नं करोति मखस्य तेऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य शीर्ष्ण इत्यसावेव बन्धुः ' ( श ० १४ | १ | २ | ११ ) । अथ सम्भारान्तरस्याहरणं विधत्ते - अथेति । अथ वल्मीकवपासम्भरणानन्तरं वराहविहतं वराहेण खातं पिण्डमियत्यग्र आसीदिति मन्त्रेण आहृत्य उत्तरतः कृष्णाजिने निदध्यात् । इयतीशब्दसूचितमर्थं प्रदर्शयन् मन्त्रभागस्यास्य प्रकृते सङ्गतिमाह इयती ह वा कृत्स्नं करोतीति । इयतीति प्रादेशमात्रस्याभिनयेन प्रदर्शनम् । इदं परिमाणमस्या इयती । तस्य व्याख्यानं प्रादेशमात्रीति । अग्रे सृष्टेः प्राक्काले या उदकमध्ये कृत्स्ना पृथिवी निमग्ना आसीत्, तां प्रजापतिर्वराहो भूत्वा दंष्ट्राभ्यामुद्धृतवान् इत्याख्याता । अतस्तस्यामव-स्थायामियं दृश्यमाना सर्वा पृथिवी तद्दंष्ट्रा प्रोता इयती ह वै प्रादेशमात्रपरिमितैव आसीत् । तां तथावस्थितां पृथिवीं वराहरूपः प्रजापतिरुज्जघान जलमध्यात् समुद्धृतां कृतवान् । एष इतीति । ए अरे पृथिवि! अमूष अमुष्याः स्तेयकादिवत् त्वमदृश्या भवसीति वदन् । स च वराहरूपः प्रजापतिरस्याः पृथिव्याः पतिर्भर्ता । अतस्तेन महीवराहरूपेण मिथुनेनैव एतद् एतहि एनं प्रवग्यं प्रियेण धाम्ना इष्टतमेन तेजसा समर्धयति । ततश्च यज्ञमपि सर्वावयवं कृतवान् भवति । हे पृथिवि त्वमग्रे वराहेणोद्धरणसमये इयती एतत्परिमाणा प्रादेशमात्र-परिमितैवासी रित्येवंविधस्यार्थस्य प्रतिपादकत्वादयं मन्त्रो वराहविहतमृत्सम्भरणे संगत इत्यर्थः । अध्यात्मपक्षे - बुद्धेरपि ब्रह्मात्मज्ञानरूपस्य शिरसः साधने उपयोगः । यतो हि सापि प्रकृतिसमुद्रे निमग्ना आसीत् । भगवतैव वराहरूपेणोद्धारः कृतः । उद्धृतां तामाश्रित्य मखस्य शिरो राध्यासमिति । दयानन्दस्तु - ' हे विद्वन्, अहमग्रे मखाय त्वा मखस्य शीर्णे त्वा राध्यासम्, यस्य ते मखस्य शिर आसीत्, तं त्वामद्य पृथिव्या इयति देवयजने राध्यासम् ' इति, तदपि यत्किञ्चित्, सर्वस्यैवासम्बद्धत्वात् । मखस्य शीर्णे सङ्गतिकरणस्योत्तमतायै विदुषां पूजने कथं सिद्धिरित्यादिकं निरर्थकमेव, श्रुतिसूत्रादिविरुद्धमेव । इयतीत्यस्यापि विसङ्गतिरेव ॥ ५ ॥
इन्द्रस्यज॑ स्थ म॒खस्य॑ वोऽद्य शिरों राष्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शोष्र्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा श॒र्णे ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शोष्र्णे ॥ ६ ॥
पृष्ठ 548
पाठ पढ़ें पाठ छिपाएँ
म ० ६ ] वेदार्थपारिजातभाष्य सहिता ११५ मन्त्रार्थ - हे प्रतिकाओं! तुम इन्द्र की तेजोरूप हो, तुम्हें लेकर आज मैं देवयजन - स्थान में यज्ञ के शिरस्थानीय यज्ञ के सिर महावीर के लिये तुम्हें ग्रहण करता हूँ । है लिये तुम्हें ग्रहण करता हूँ । हे यज्ञसामग्रियों! यज्ञ की लिये तुम्हारा स्पर्श करता हूँ ॥ ६ ॥
महावीर का सम्पादन करता हूँ । यज्ञ के लिये तुम्हें ग्रहण करता हूँ, दुग्ध! यज्ञ के लिये तुम्हें ग्रहण करता हूँ, यज्ञ के सिर महावीर के सम्पन्नता के लिये तुम्हारा स्पर्श करता हूँ, यज्ञ के सिर महावीर के ' इन्द्रस्योजः स्थेति पूतीकान् ' ( का ० श्री ० २६ / ११ ९ ), ' मखायेति पय: ' ( का ० श्र ० २६ १६१० ) । पूतीकान् रोहिषतृणान्यादाय तूष्णीं कृष्णाजिने वराहविहतोत्तरे निदध्यात् पय आदाय तूष्णीं कृष्णाजिने पूतीकोत्तरे निदध्यादिति सूत्रद्वयार्थः । आदारदेवत्या ऋक् त्रिष्टुप् । हे पूतीकाः, ये यूयमिन्द्रस्य ओजः स्थ तेजोरूपा भवथ, तान् वो युष्मानादाय पृथिव्या देवयजने मखस्य शिरो राध्यासम् । मखाय वो गृह्णामि । मखायेति पयोदेवत्यम् । हे पयः, मखाय मखशीर्णे त्वां गृह्णामि । तुष्णीं गवेधुका अपि ग्राह्याः, ' तूष्णी वेधुका: ' ( का ० श्र ० २६ | १ | ११ ), ' संभृतानभिमृशति मखायेति ' ( का ० श्र ० २६/१११२ ) । इति हि कात्यायनो महर्षिः । संभृतान् सम्भारान् स्वकरेणामृशेदध्वर्युरिति सूत्रार्थः । संभारदेवत्यं यजुः । हे संभाराः, मखाय तच्छ चवः स्पृशामि । अत्र ब्राह्मणम् -'अथादारान् । इन्द्रस्यौज स्थेति यत्र वा एनमिन्द्र ओजसा पर्यगृह्णात् तदस्य परिगृहीतस्य सो व्यक्षरत् स पूयन्निवाशेत सोऽब्रवीदादीर्येव बत म एष रसोऽस्रौषीदिति तस्मादादारा अथ यत्पूयन्निवात तस्मात् पतीकास्तस्मादग्नावाहुतिरिवाभ्याहिता ज्वलन्ति तस्मादु सुरभयो यज्ञस्य हि रसात् सम्भूता अथ यदेनं तदिन्द्र ओजसा पर्यगृह्णात् तस्मादाहेन्द्रस्यौज स्थेति मखस्य वोऽद्य शिरो राध्यासं देवयजने पृथिव्या मखाय त्वा मखस्य वा शीर्णे इत्यसावेव बन्धुः ' ( श ० १४ | १ | २ | १२ ) । पूतीकरससम्भाराहरणं विधत्ते - अथादारा-निन्द्रस्यौज स्थेति । आदारान् आदीर्यावस्थितान् पूतीकाशब्दाभिधेयान् सोमप्रतिनिधित्वेन चोदितान् लताविशेषान् इन्द्रस्योज स्थेति मन्त्रेण सम्भृत्य कृष्णाजिने निदधाति । हे पूतीका:, यूयमिन्द्रस्य ओजो बलं स्थ भवति । तदेवोपपाद्यते - तत् तदानीं यत्र यस्मिन् देशे एनं पलायमानं विष्ण्वात्मकं यज्ञं इन्द्र ओजसा बलेन पर्यगृह्णात् परिगृहीतवान् तत् तत्र परिगृहीतस्य स्वीकृतस्य अस्य यज्ञस्य रसः सारो व्यक्षरद् विविधक्षरणेन भूमि प्राप्नोत् । स च रसस्तत्र पूयन्निव रसान्तरं प्राप्तं पर्युषितमोदनादिकमिव विरसो भवन्निव अशेत अतिष्ठत् । एवं स्थि इन्द्रोऽब्रवीत् । बत इति खेदे । मे मदीय एष यज्ञरस आदीर्येव विभिद्येवास्रौषीत् स्रुतोऽभूत् । यथा उदकपूर्ण पात्रं विभिन्नं सत् स्रवति, एवमेष यज्ञरसोऽपि स्रुत इति खेदं प्राप्तवान् । इति हेतौ । यस्मादेवमुक्तवान्, तस्मा-देते लताविशेषा आदारा इत्युच्यन्ते । अथ स्रवणानन्तरं यद् यस्मात् पूयन्निव अशेत तस्मात् पूतीकाः पूतीक-शब्दाभिधेया जाताः । यस्मादेते यज्ञरसाज्जातास्तस्मादेवाग्नौ प्रक्षिप्ता एता आहुतिवद् आज्यादिद्रव्यमिव ज्वलन्ति, सुरभयः सुगन्धियुक्ताश्च भवन्ति । हि यतो यज्ञस्य रसात् सम्भूता उत्पन्नाः, अतः पूतीकाहरणेऽय-मेव मन्त्रः प्रयोक्तव्यः । अथ एवं सति यदेनं तदिन्द्र ओजसा पर्यगृह्णात् तत् तस्मात् तत्परिणामभूतानां पूतीकानां सम्भरणे इन्द्रस्यौज स्वेति मन्त्रमध्वर्युराह ब्रूयात् । अन्यत् स्पष्टं ब्राह्मणम् । अध्यात्मपक्षे - इन्द्रस्य सात्त्विकमोजोऽपि तत्र शिरःसन्धाने उपयुज्यते । न सर्वसाधारणस्य बलं तत्रोपयुज्यते, दिव्यत्वादिति इन्द्रस्य ओज स्थेत्युच्यते । यथाश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामित्युक्तिस्तद्वत् । शेषं पूर्ववत् । दयानन्दस्तु - ' हे मनुष्याः यथाहमिन्द्रस्यौजो राध्यासम्, तथाद्य पृथिव्या देवयजने शिरोवद्वो राध्यासम् । शीर्णे मखाय त्वामवस्य त्वा राध्यासम् । तथा यूयमोजस्विनः स्थ ' इति, तदपि वागाडम्बरेण मूर्खजन-प्रतारणमेव, परस्परविरोधात् । पूर्वत्र मन्त्रे देवयजने देवपूजन इत्यर्थः कृतः, इह तु देवयजनस्थानं गृहीतम् ।
पृष्ठ 549
पाठ पढ़ें पाठ छिपाएँ
१६६ शुक्लयजुर्वेदसंहिता [ अ ० ३७ कायं कथं केन प्रकारेण पराक्रमते, शिरोवन्मनुष्यान् साधयति । मखाय धार्मिकाणां सत्कारनिमित्ताय मखस्य प्रियचरणव्यवहारस्य मखाय शिल्पयज्ञविधानाय शीर्णे उत्तमगुणप्रचारकायेत्यादिकं सर्वमपि निर्मूल-मसम्बद्धं च ॥ ६ ॥
प्र॑तु॒ ब्रह्म॑ण॒स्पति॒ प्र दे॒व्ये॒तु सू॒नृता॑ । अच्छे वीरं नये॑ प॒ङ्क्तमा॑रा॒धस॑ दे॒वा य॒ज्ञं न॑यन्तु नः । स॒खाय॑ त्वा म॒खस्य॑ त्वा श॒ष्णं । म॒खाय॑ त्वा म॒खस्य॑ त्वा ष्णे॑ । म॒खाय॑ त्वा म॒खस्य॑ वाशीष् ॥ ७ ॥
मन्त्रार्थ - वेद के रक्षक हिरण्यगर्भ हमारे यज्ञ में उपस्थित हों । सत्यस्वरूपा परा शक्ति दृष्टिगोचर हो, देवता हमारे शत्रुओं का उन्मूलन करने वाले परमेश्वर के लिये हविःपाक से समृद्ध द्रव्य यज्ञ को प्राप्त करावें । हे सम्भारसमूह! यज्ञ के लिये मैं तुम्हें स्थापित करता हूँ, यज्ञ के सिर महावीर के लिये तुम्हें स्थापित करता हूँ । है सम्भारसमूह! यज्ञ के लिये तुम्हें मृलिण्ड में मिलाता हूँ. यज्ञ के सिर महावीर के लिये तुम्हें मृत्पिण्ड में मिलाता हूँ । हे महावीर! यज्ञ के लिये तुम्हें बुलाता हूँ, यज्ञ के सिर सूर्य के लिये तुम्हें बुलाता हूँ ॥ ७ ॥
' कृष्णाजिनं परिगृह्योत्तरतः परिवृतं गच्छन्ति प्रेतु ब्रह्मणस्पतिरिति ' ( का ० श्र ० २६ । १ । १३ ) । अध्वर्यु - प्रतिप्रस्थातृ - ने नेतारः कृष्णाजिनं ससम्भारं समन्ताद्धस्तेनादायान्तः पात्यादुत्तरस्यां दिशि पूर्वनिर्मितं परिवृतं प्रैत्विति मन्त्रं जपन्तो गच्छन्ति । पचारनिपरिमितः समचतुरस्रः प्राग्द्वारः सिकतोपकीर्णः पूर्वमेव कृतः सप्तभूसंस्कार संस्कृतश्छादित प्रदेशः परिवृत उच्यते । ' परिवृते निदधाति सम्भारानुद्धतावोक्षिते सिकतोपकीर्णे . प्राग्द्वारे मखायेति ' ( का ० श्र ० २६ | १ | १४ ) | अध्वर्य्यादयः कृष्णाजिनस्थानेव सम्भारान् परिवृते निदधति । कीदृशे? उद्धतावक्षिते । उद्धतमुल्लिखितमवोक्षितं जलसिक्तम् । एतत्संस्कारद्वयं पञ्चभूसंस्काराधिकम् । हे संभाराः, मखाय युष्मान्निदधामि । ' संभारः स सृजति मखायेति ' ( का ० श्री ० २६।१।१५ ) । अध्वर्यु-वल्मीकवपा वराहविहत- पूतीकैमृत्पिण्डं संयोजयेत् । अर्थाद् गवेधुकाजापयसी पृथक्कृत्य शिष्टसम्भारै मृत्पिण्डं मिश्रयेत् । हे सम्भाराः, युष्मान् मखाय मखस्य शीर्णे च संसृजामि । ' मृदमादाय मखायेति महावीरं करोति ' ( का ० श्र ० २६।१।१६ ) । महावीरपर्याप्तं तूष्णीं मृत्पिण्डमादाय मन्त्रेण महावीरं करोति । कीदृशं महावीरम्? तत्राह – ' प्रादेशमात्रमूर्ध्वमासेचनवन्तं मेखलावन्तं मध्यसंगृहीतमूर्ध्वं मेखलायास्त्रयङ्गुलम् ' ( का ० श्रौ ० २६।१।१६ ) । हे महावीर! मखाय मखस्य शीर्णे च त्वां करोमि । बृहती | ब्रह्मणो वेदस्य पतिर्हिरण्यगर्भः अस्माकं यज्ञमच्छ आभिमुख्येन प्रैतु आगच्छतु । तथा देवी देवतात्मा सूनृता प्रियसत्यस्वरूपा तस्यैव प्रजापतेस्त्रयीरूपा वाग् यज्ञं प्रैतु । किञ्च देवा यष्टव्या नोऽस्मान् यज्ञं नयन्तु कारयन्तु । कीदृशं यज्ञम्? वीरं शत्रूणामुन्मूलयितारम्, ' वीरयत्यमित्रान् ' ( निरु ० १1७ ) इति यास्कः । नानाप्रकारेण मारयतीत्यर्थः । नयं नृभ्यो हितम्, ' उगवादिभ्यो यत् ' ( पा ० सू ० ५।१।२ ) इति यति रूपम् । " पङ्क्तिराधसम् -- ( १ ) इन्द्रस्य पुरोडाश:, ( - ) हर्योर्धाना:, ( ३ ) पूष्ण: करम्भ:, ( ४ ) सरस्वत्या दधि, ( ५ ) मित्रा-यः इति हविः पङ्क्तिः, ( १ ) द्विनाराशंसं प्रातः सवनम् ( २ ) द्विनाराशंसं माध्यन्दिनं सवनम्, ( ३ ) सकृन्ना-राशंसं तृतीयसवनमिति नाराशंसपङ्क्तिः । ( १ ) प्रातः सवनम् ( २ ) माध्यन्दिनं सवनम् ( ३ ) तृतीयसवनम्, ( ४ ) उप-वसथ्यः पशुः, ( ५ ) अनुबन्ध्यः पशुरिति सवनपङ्क्तिः । एताभि पङ्क्तिभी राधः समृद्धिर्यस्य स पङ्क्तिराधास्तम्, १. पङ्क्तयश्च ऐतरेय ब्राह्मणे द्वितीयपञ्जिकायां चतुविशे खण्डे पठिताः ।
पृष्ठ 550
पाठ पढ़ें पाठ छिपाएँ
म ० ७-८ ] दार्थपारिजातभाष्य सहिता १६७ पङ्क्तयो राध्यन्ते समृद्धयन्ते यत्रासौ पङ्क्तिराधास्तम् । ईदृशं यज्ञं पङ्क्तिपावनं वा यज्ञं ब्रह्मणस्पत्यादय आगच्छन्तु, ईदृशं च यज्ञमस्माभिः कारयन्तु वा । सेयमृक् त्रयस्त्रिशे एकोननवतितमायां व्याख्याता ॥ ७ ॥
म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य त्वा शी॒र्ष्णे । म॒खस्य॒ शिरोऽसि । मुखार्यत्वा म॒खस्य॑ त्वा शोष्णं । मखस्य शिरोऽसि । मखाय॑ त्वा म॒खस्य॑ त्वा शोष्र्णे । सुखाय॑ त्वा
म॒खस्य॑ त्वा शष्णं । म॒खाय॑ त्वा म॒खस्य॑ त्वा श॒ष्णं ॥ ८ ॥
मन्त्रार्थ -- हे महावीर! तुम यज्ञपुरुष के शरीर, अर्थात् सूर्यरूप तेज हो, यज्ञपुरुष विष्णु के लिये तुम्हें ईश्वर का रूप देता हूँ यज्ञपुरुष विष्णु के सिर समष्टिसूर्य के लिये तुम्हें निष्पादित कर स्पर्श करता हूँ । हे महावीर! तुम यज्ञ पुरुष के सिर, अर्थात् सूर्यरूप तेज हो, यज्ञपुरुष विष्णु के लिये तुम्हे अन्तर्यामी का रूप देता हूँ, यज्ञपुरुष विष्णु के सिर समष्टिसूर्य के लिये उत्पन्न हुए तुम्हारा स्पर्श करता हूँ । है महावीर! तुम यज्ञपुरुष विष्णु के तेज हो, यज्ञपुरुष विष्णु के लिये तुम्हारा सूर्यरूप में मानस ध्यान करता है, यज्ञपुरुष विष्णु के सिर तेजोरूप में उत्पन्न हुए तुम्हारा स्पर्श करता हूँ, यज्ञपुरुष विष्णु के लिये तुम्हारा ईश्वररूप में ध्यान करता हूँ, यज्ञपुरुष विष्णु के सिर समष्टिसूर्य के लिये तुम्हारे इस ईश रूप को गवेधुका से चिकना बनाता हूँ । यज्ञपुरुष विष्णु के लिये तुम्हारे अन्तर्यामी रूप का ध्यान करता हूँ, यज्ञपुरुष विष्णु के सिर समष्टिसूर्य के लिये तुम्हारे अन्तर्यामी रूप को गवेधुका से चिकना बनाता हूँ । यज्ञपुरुष विष्णु के लिये तुम्हारे सूर्यरूप का मानस ध्यान करता हूँ, यज्ञपुरुष विष्णु के सिर समष्टिसूर्य के लिये तुम्हे गवेधुका से चिकना करता हूँ ॥ ८ ॥
' निष्ठितमभिमृशति मखस्य शिर इति ' ( का ० श्र ० २६/१/१७ ) । निष्पन्नं वामकरस्थं महावीरं दक्षिणेनाभिमृशेत् । हे महावीर! त्वं मखस्य शिरो मूर्धासि भवसि । ' आदानमेके ' ( का ० श्र ० २६ | १ | १८ ) । एके केचन महावीरकरणार्थं मृदादानं मखस्य शिर इति मन्त्रेण कुर्वन्ति फलतः स्पर्श तूष्णीमिति लभ्यते । ' एवमितरौ प्रतिमन्त्रम् ' ( का ० श्र ० २६ | १ | १ ९ ) । इतरौ द्वौ महावीरौ प्रतिमन्त्रमेवमेव करोति, अभिमृशति चेति सूत्रार्थः । मखाय द्वितीयं महावीरं करोमि । मखस्य निष्पन्नं स्पृशामि । मखाय तृतीयं महावीरं करोमि । मखाय निष्पन्नं स्पृशामि । मखस्य शिरोऽसि मखाय त्वा मखस्य शीर्णे त्वामभिमृशामि । ' गवेधुकाभिः श्लक्ष्णयति मखायेति प्रतिमन्त्रम् ' ( का ० श्र ० २६।१।२१ ) । गवेधुकाभिर्महावीरान् घर्षणेन मृदून् करोति मखायेति प्रतिमन्त्रमेकैकम् । मखाय मखस्य शीर्णे च त्वां गवेधुकाभिः श्लक्ष्णयामि । एवमेवाग्रिमो मन्त्रौ व्याख्येयौ । अत्र ब्राह्मणम् – ‘ अथाजाक्षीरम् । यज्ञस्य शीर्षच्छिन्नस्य शुगुदक्रामत् ततोऽजा समभवत् तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति मखाय त्वा मखस्य त्वा शीण इत्यसावेव बन्धुः ' ( श ० १४ | १ | २ | १३ ) | यदुक्तं कात्यायनेन - ' मखायेति पयः, तूष्णीं गवेधुका: ' ( का ० श्र ० २६।१।१०-११ ) । तदेतद्विदधाति - अथाजाक्षीरमिति । अथ पूतीकसम्भरणानन्तरं अजायाश्छाग्याः क्षीरं मखाय त्वेति मन्त्रेण सम्भृत्य कृष्णाजिनस्थे मृत्पिण्डेऽवनयेत् । अथास्य प्रवर्ग्यसम्बन्धार्थतामाह - यज्ञस्य शीर्षच्छिन्नस्येत्यादिना । शीर्षच्छिन्नस्य छिन्नशिरस्कस्य यज्ञस्य शुक शोक उदक्रामत् तस्माच्छरीरान्निरगात् । ततस्तस्याः शुचः सकाशाद् अजा समभवत् । तत्पयसोऽ-वनयने सति एतद् एतर्हि, यथा प्रागुक्तं तथैव शुचा एनं प्रवग्यं समर्धयति । ततो यज्ञमपि सम्पूर्णावयवं कृतवान् भवति ।