वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 551–560

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 551–560

पृष्ठ 551

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 551 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६८ शुक्लयजुर्वेदसंहिता [ अ ० ३७ अध्यात्मपक्षे -- ब्रह्मणस्पतिर्ब्रह्मणो वेदस्य पतिः प्रजापतिः, यज्ञमच्छा यज्ञाभिमुखं प्रतु । तदनुग्रहेणैव वेदमहातात्पर्यविषयस्य ब्रह्मणो ज्ञानं सम्पद्यते । देवी तदीया प्रिया सूनृता वाग्रूपा त्रयी प्रैतु, तदनुग्रहायत्तत्वाद् ब्रह्मविद्योत्पत्तेः । देवाः सर्वे नोऽस्मभ्यं यज्ञं ज्ञानयज्ञं नयन्तु प्रापयन्तु । कीदृशं यज्ञम्? वीरम्, जननमरणा-विच्छेदरूपसंसारव्यापादकत्वात् । पुनः कीदृशम्? नयं मनुष्येभ्यो हितम् । ब्रह्मज्ञानसम्पन्नो न कस्मैचिद् दुह्यति सर्वभूतहिते रतश्च भवति । मखाय ज्ञानयज्ञाय मखस्याग्निष्टोमादेः शिरसे तानि तानि सम्भरामीत्यर्थः । दयानन्दस्तु ' हे विद्वन्, त्वं मखस्य शिरोऽसि, तस्मान्मखाय त्वा मखस्य शीर्णे त्वामखस्य शीर्ष्णे त्वा वयं सेवेमहि ' इति, तदपि यत्किञ्चित् मखशब्दस्य मुख्यार्थमपहाय यथेच्छार्थग्रहणस्य निर्मूलत्वात् क्रय-विक्रयादिलौकिकव्यवहाराणामपि मखशब्दार्थत्वापत्तेश्च ॥ ८ ॥

अश्व॑स्य त्वा॒ वृष्ण॑ श॒क्ना ध॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा श॒ष्णः॑ । अश्व॑स्य॒ त्वा॒ वृष्ण॑ श॒क्ना धूपयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा श॒र्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा श॒र्णे ॥ ९ ॥

मन्त्रार्थ - हे महावीर! देवयजन - स्थान में यज्ञपुरुष विष्णु के लिये यज्ञ - कार्य के निमित्त तुमको सेक्ता अश्व को लीद से धूप देता हूँ, यज्ञपुरुष विष्णु के लिये यज्ञकार्य के लिये तुमको धूप देता हूँ, यज्ञपुरुष विष्णु के लिये तुम्हारे अन्तर्यामी रूप को धूप देता हूँ । यज्ञपुरुष विष्णु के लिये यज्ञ कार्य के लिये तुम्हारे अन्तर्यामी रूप को धूप देता हूँ । यज्ञपुरुष विष्णु के लिये घर्मरूपधारी तुमको पकाता हूँ, यज्ञपुरुष विष्णु के निमित्त यज्ञ - कार्य के लिये धर्म को पकाता ॥ ९ ॥

' अश्वशकृता धूपयत्यश्वस्य त्वेति प्रतिमन्त्रम् ' ( का ० श्र ० २६।१।२२ ) । दक्षिणाग्निदीप्तेनाश्वपुरीषेण त्रिभिर्मन्त्रैस्त्रीन् महावीरान् धूपयेत् । हे महावीर पृथिव्या देवयजने मखाय त्वा मखस्य शीर्णे त्वा वृष्णः सेक्तुरश्वस्य शक्ता शकृता पुरीषेण धूपयामि । ' पद्दन्नोमास ' ( पा ० सू ० ६ | १ | ६३ ) इति शकृत् - शब्दस्य वैकल्पिकः शकन्नादेशः । एवमितरमन्त्राभ्यामितरौ महावीरौ धूपयेत् । ' उखावदग्निः ' ( का ० श्र ० २६।१।२३ ) । अत्र धूपनेऽग्निरुखावद् भवेत् । तत्र ह्युक्तम्- ' सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तैरेकैकेन ' का ० श्र ० १६ २८ ) । अत एकैकधूपने सप्त सप्ताश्वशकृन्ति गृह्णाति । ' प्रदहनं च मखायेति प्रतिमन्त्रम् ' का ० श्रौ ० २६।१।२३ ) । मखायेति त्रिभिर्मन्त्रैस्त्रीन् महावीरानुखावत् श्रपयेत् । चशब्दादुखावत् करोति । परिवृते हस्तमात्रं चतुरस्रमवटं खात्वा तत्र श्रपणमास्तीर्य तत्र महावीरान् न्युब्जान्निधाय पिन्वने रौहिणकपाले च न्युब्जे निधाय श्रपणेनाच्छाद्य दक्षिणाग्निनोद्दीप्य प्रदहेदिति सूत्रार्थः । मखाय त्वा मखस्य शीर्ष्णे त्वा निर्दहामि पिन्वनरौहिणैः सह । एवमितरौ । अत्र ब्राह्मणम् -'तान् वा एतान् पच सम्भारान् सम्भरति । पाङ्क्तो यज्ञः पाङ्क्तः पशुः पवर्तवः संवत्सरस्य संवत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तान् संभृतानभिमृशति मखाय त्वा मखस्य त्वा शीर्णं इत्यसावेव बन्धुः ' ( श ० १४ | १ | २ | १४ ) । एतान् मृदादिसम्भारान् विहितान् स्तौति - तान् वा एतानित्यादिना । तान् पूर्वोक्तान् मृद्वल्मीकवपादीन् पञ्चसम्भारान् सम्भरति । यतो हि यज्ञः पाङ्क्तः ।

पृष्ठ 552

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 552 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ९ -१० ] वेदार्थ पारिजातभाष्यसहिता १६ ९ पङ्क्तिशब्देन छन्दोवाचिना पन संख्या लक्ष्यते । पञ्च संख्यासम्बद्धः खलु देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति । यद्वा धाना, करम्भः परिवापः पुरोडाशः पयस्या चेति । इष्टि - पशु- दर्वीहोमे काहा-हीनभेदेन यज्ञस्य पाङ्क्क्तत्वम् । तथा गवादिपशवश्च पाङ्क्ताः पश्च संख्यासम्बद्धाः पादचतुष्टयमध्यदेशभेदेन । तस्मात् - सम्भारगता पञ्चसंख्या यज्ञार्ह पशुप्राप्तिहेतुरित्यर्थः । अपि च, संवत्सरस्य द्वादशमासात्मकस्य वसन्ताद्याः पञ्चर्तवः, हेमन्तशिशिरयोः समासेन । स च संवत्सर एष सूर्यः, य एष दिवि तपति सर्वं जगत् प्रकाशयत्येष प्रवर्ग्यः । एवं पारम्पर्येणैतमेव प्रवग्यं पञ्चसंख्यया प्रीणाति । ' अथोत्तरतः परिश्रितं भवति । तदभिप्रयन्तो जपन्ति प्रेतु ब्रह्मणस्पतिरित्येष वै ब्रह्मणस्पतिर्य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति तस्मादाह प्रैतु ब्रह्मणस्पतिरिति प्र देव्येतु सूनृतेति देवी ह्येषा सूनृताच्छा वीरं नयं पक्तिराधसमित्युपस्तोत्येवैनमेतन्महयत्येव देवा यज्ञं नयन्तु न इति सर्वानेवस्मा एतद्देवानभिगोप्तृन् करोति ' ( श ० १४। १ । २।१५ ) । महावीरादिनिर्माणाय देवयजनस्योत्तरतः परिश्रितं भवतीत्याह - अथोत्तरत इत्यादिना । कटादिभिः सर्वतो वेष्टितं स्थानं स्यात् । तदेव पूर्वं परिवृतशब्देनोक्तम् । तत्र देशे सम्भाराणां समन्त्रकमानयनं विधत्ते - तदभिप्रयन्त इति । तत्राभिप्रयन्तोऽभिगच्छन्तः प्रवर्ग्यकर्तारः तु ब्रह्मणस्पतिरिति मन्त्रं जपन्ति । ' परिश्रितं भवति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षा सि नाष्ट्रा न हरिति तस्मा एतां पुरं पर्यंश्रयन् तथैवास्मा अयमेतां पुरं परिश्रयति ' ( श ० १४।१।२।१६ ) । दयानन्दस्तु - ' हे मनुष्य! यथाहं पृथिव्यां देवयजने वृष्णोऽश्वस्य शक्ना त्वा मखाय त्वा मखस्य शीर्णे धूपयामि इति, तदपि निरर्थकम्, ' अश्वस्य शक्ता ' इत्यस्य अग्नेर्धूमेनेत्यर्थस्य निर्मूलत्वात् । मखशब्दस्य वायुशुद्धिरर्थं इत्यपि निर्मूलमेव । न च लोके कश्चन कञ्चन शिष्टं धूमेन धूपयति । धूपशब्दश्च न धूमदाने प्रसिद्धः, अगुरुचन्दनगुग्गुलादिधूमस्यैव धूपशब्दार्थत्वात् । शक्ता धूमेनेति सर्वथा निर्मूलमेव ॥ ९ ॥

ऋ॒वे॑ त्वा सा॒धवे॑ त्वा सुक्षि॒त्यै त्वा॑ । म॒खाय॑ त्वा म॒खस्य॑ त्वा श॒ष्र्णे । म॒खाय॑ त्वा

म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शीर्णे ॥ १० ॥

मन्त्रार्थ - हे महावीर! ऋजु देवता को प्रीति के लिये तुम्हारा उद्वपन करता हूँ, अन्तरिक्षस्थानीय वायु देवता के लिये तुम्हें अग्नि में पका कर निकालता हूँ । पृथ्वीलोक के लिये तुम्हारा उद्वपन करता हूँ । यज्ञ के लिये तुमको अजा - दुग्ध से सींचता हूँ, यज्ञ के सिर स्वरूप प्रधान कार्य के लिये तुमको अजा- दुग्ध से सींचता हूँ | यज्ञ के लिये तुमको अजा - दुग्ध से सोचता हूँ, यज्ञ के प्रधान कार्य के लिये तुमको अजा - दुग्ध से सींचता हूँ | यज्ञ के लिये तुमको अजा - दुग्ध से सींचता हूँ, यज्ञ के प्रधान कार्य के लिये तुमको अजा - दुग्ध से सींचता हूँ ॥ १० ॥

क्वानुद्धत्वेवेति प्रतिमन्त्रम् ' ( का ० श्री ० २६।१।२४ ) । पक्वान् महावीरान् आपाकादिवोद्धरति त्रिभिर्मन्त्रैरिति सूत्रार्थः । ऋजवे सत्याय आदित्याय हे महावीर! त्वामुद्धरामि । असौ लोक ऋजुः । तत्र सत्यमेव, न तु कौटिल्यम् । सत्यमादित्यः । तथा चात्र ब्राह्मणम् -'स उद्वपति । ऋजवे त्वेत्यसौ वै लोक ऋजुः सत्य ह्यजुः सत्यमेष य एष तपत्येष उ प्रथमः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति ' ( श ० १४। १ २ २२ ) । एष एव प्रथमः प्रवर्ग्यः । साधवे त्वा वायवे त्वा वायुप्रीत्यै त्वामुद्वपामि । एष उ द्वितीयः प्रवर्ग्यः । सुक्षित्यै त्वा अयं वै सर्वेषामाधारभूतो भूलोकः सुक्षितिः । अस्मिन् खलु लोके सर्वाणि भूतजातानि पशुपक्षिमृगादीनि क्षियन्ति निवसन्ति । एतदात्मक एव २२

पृष्ठ 553

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 553 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७० शुक्लयजुर्वेद संहिता [ अ ० ३७ तृतीयः प्रवर्ग्य: । ' अजापयसाऽवसिञ्चति मखायेति प्रतिमन्त्रम् ' ( का ० श्रौ ० २६ । ११२५ ) । अजादुग्धेन त्रीन् महावीरान् त्रिभिस्तुल्यमन्त्रैः सिद्धति मखाय मखशीर्णे चाजापयसा त्वां सिवामीति । ' अयं वै साधुर्योऽयं पवत एष हीमान् लोकान् सिद्धोऽनुपवत एष उ द्वितीयः प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति ' ( श ० १४। १ । २।२३ ) । एष खलु सिद्धो निष्पन्नरूपो वायुरिमान् परिदृश्यमानान् पृथिव्यादीन् सर्वान् लोकाननुपवतेऽनुप्रविश्य व्याप्य वर्तते । एवं वर्तमानो योऽन्तरिक्षगतो वायुः, एष एव द्वितीयः प्रवर्ग्यो महावीरः । स महावीरादीनां पालकोऽध्वर्युः प्रथमकृतं महावीरमृजवे त्वेति मन्त्रेणोद्वपति, अवटात् पाकस्थानादुद्धरति । असौ वै दूरे वर्तमानो द्युलोक ऋजुः, आर्जवयुक्तत्वात् । आर्जवगुणयुक्तं च सत्यं यथार्थभाषणम्, आर्जवरहितस्य कुटिलस्या-नृतवादित्वदर्शनात् । तच्च सत्यमेष आदित्यः, अवाधितस्वभावत्वात् । य एष आदित्यो दिवि तपति, एष एव प्रथमो महावीरः । अत ऋजुशब्दयुक्तमन्त्रेणैतमेव प्रथमं प्रवयं सूर्यात्मकं प्रीणाति । ' सुक्षित्यै त्वेति । अयं वै लोकः सुक्षितिरस्मिन् हि लोके सर्वाणि भूतानि क्षियन्त्यथो अग्निर्वै सुक्षितिरग्नि-वास्मिल्लोके सर्वाणि भूतानि क्षियत्येष उ तृतीयः प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति तस्मादाह सुक्षित्यै खेति तूष्णीं पिन्वष्णी रौहिणपाले ' ( श ० १४ | ११ २२४ ) । सुक्षित्यै त्वेति मन्त्रेण तृतीयं महावीरमुद्वपति । अयं खलु सर्वेषां भूतानामाधारभूतो लोकः सुक्षितिः । यतोऽस्मिन् खलु लोके सर्वाणि भूतानि पशुपक्षिमृगादीनि क्षियन्ति निवसन्ति । अथ पक्षान्तरे । अग्निः खलु सुक्षितिः । कुतः? अग्निमेव खल्वस्मिल्लोके वर्तमानानि सर्वाणि भूतानि क्षियन्ति, जाठराग्निरूपेणाश्रित्य वर्तन्ते । एष उ एतदात्मकः । एष तृतीयः प्रवर्ग्यः । एवमेव पिन्वनयोः कपालयो-वामन्त्रक उद्वापः कार्यः । ' अथैनानाच्छ्रणत्ति । अजाये पयसा मखाय त्वा मखस्य त्वा शीण इत्यसावेव बन्धुरेवमितरौ तुष्णीं पिन्वने तूष्णी १७ रौहिणकपाले ' ( श ० १४१११२१२५ ) | अथ तेषामावापादुद्धृताना-मजाक्षीरेणासेचनं विधत्ते - अथेति । तप्तान् महावीरादीन् पात्रविशेषान् अजायाः पयसा मखाय त्वेति मन्त्रेण आच्छृणत्ति आसिक्तान् करोति । अन्यत् पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे - हे महावीर! संसारदुःखनाशकत्वाद् ब्रह्मात्मविज्ञानयज्ञं ऋजवेऽकौटिल्याय सत्याय त्वा गृह्णामि | साधवे साधुत्वाय त्वामुद्गृह्णामि । सुक्षित्ये सर्वभूताश्रयदानाय त्वामुद्गृह्णामि । मखाय ब्रह्मात्मयज्ञाय मखस्य शीर्णे त्वां गृह्णामि । दयानन्दस्तु हे विद्वत्! ऋजवे त्वा मखाय त्वा मखस्य शीर्णे त्वा सुक्षित्यै वा मखाय त्वा मखस्य शीर्ष्णे त्वा वयं स्थापयामः ' इति, तदपि प्रवञ्चनामात्रम्, संबोधनादेर्निर्मूलत्वात् ॥ १० ॥

इति महावीरसम्भरणं समाप्तम् । य॒मय॑ त्वा म॒खाय॑ त्वा॒ सूर्य॑स्य॒ त्वा॒ तप॑से । दे॒वस्त्वा॑ सवि॒ता मध्वो॒नक्तु । पथि॒व्याः

स॒स्पृश॑स्पाहि । अ॒चिर॑सि शोचिर॑सि तपऽसि ॥ ११ ॥

मन्त्रार्थ हे महावीर! सबके नियामक सूर्य के लिये तुम्हारा प्रोक्षण करता हूँ, यज्ञरूप सूर्य के लिये तुम्हारा प्रोक्षण करता हूँ, सूर्य के तेज प्रत्रयं के लिये तुम्हारा प्रोक्षण करता हूँ । सविता देवता मधु से तुम्हें लिप्त करें । है रजत! तुम महावीर की पृथ्वी सम्बन्धी राक्षस से रक्षा करो । हे महावीर! तुम चन्द्रमा के कान्तिरूप हो, अग्नि के तेजोरूप हो और सूर्य के तापरूप हो ॥ ११ ॥

पृष्ठ 554

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 554 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ११ ] वेदार्थपारिजातभाष्यसहिता १७१ ' ब्रह्मनुज्ञातो यमाय त्वेति महावीरं प्रोक्षति ' ( का ० श्र ० २६।२।१२ ) । प्रचरेति ब्रह्मणानुज्ञातोऽ-ध्वर्युरुपविश्य यमाय त्वेति मन्त्रत्रयेण प्रचरणीयं महावीरं वारत्रयं प्रोक्षति । त्रीणि यजूंषि । यमाय यमयति नियच्छति सर्वमिति यम आदित्यः, तत्प्रीत्यै त्वां प्रोक्षामि । मखो यज्ञः प्रवर्ग्यः सूर्यः तस्मै तत्प्रीत्यै त्वां प्रोक्षामि । सूर्यस्य त्वा तपसे, तपनं तपः, तस्मै सूर्यतेजोरूपाय प्रवर्ग्याय त्वां प्रोक्षामि । पुरस्तादिति । असौ वा आदित्यो ब्रह्माऽहरहः पुरस्ताज्जायत अत्र ब्राह्मणम् ' ब्रह्म जज्ञानं प्रथमं यमो य एष तपत्येष एष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति ' ( श ० १४ | १ | ३ | ३ ) | ( स प्रोक्षति । यमाय त्वेत्येष वै ही सर्वं यमयत्येतेनेद ७ सर्वं यतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह यमाय त्वेति ' ( श ० अस्यामृचि ब्रह्मशब्देन प्रतिपाद्यते । स आदित्यः, अहरहः १४ | १ | ३ | ४ ) | असौ द्युलोकस्थः खल्वादित्यो ब्रह्म प्रतिदिनम्, पुरस्तात् पूर्वस्यां दिशि जायते उदेति । एष उद्यन्नादित्यः प्रवर्ग्यः, ' तत्पतित्वाऽसावादित्योऽभवत् जज्ञानं प्रथमं ' ( श ० १४ | १ | १ | १० ) इति यज्ञस्य विष्णोः शिरः पतित्वादित्योऽभवदित्याम्नानात् । एतमेव ब्रह्म । तत्र पुरस्तादित्यनयाऽभिष्टोतुं प्रवर्तते । प्रोक्षितानां यागार्हत्वसम्पादनेन प्रोक्षणसंस्कारो यज्ञशिरः सन्धानहेतुः मन्त्रो यमाय त्वेत्यादिकः । य एष सूर्यस्तपति एष खलु यमः । कुतोऽस्य यमशब्दाभिधेयता? इति चेत् - हि, यस्मात् एष इदं सर्वं भूतजातं यमयति स्वस्वव्यापारेषु प्रवर्तयति, यस्माच्च एतेन सूर्येण इदं सर्वं । जगद् एष उ यतम् एव सृष्ट्वा आदावपि परस्परसाङ्कर्याभावेन व्यवस्थितमिदं कृतम्, तस्मादसौ मन्त्रे यमशब्देनोच्यते । एष वै सूर्यो मखः, मखशब्दाभिधेयस्य प्रवर्ग्यः । द्वितीय महावीरस्य प्रोक्षणमन्त्रमनूद्य व्याचष्टे - मखाय त्वेति यज्ञात्मकस्य विष्णोः शिरस एव सूर्यत्वात् । ) । ' सूर्यस्य त्वा तपस इति । एष वै सूर्यो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति ' ( श ० १४ | | ३ | ६ अथ तृतीयमहावीरप्रोक्षणमन्त्रमनूद्य व्याचष्टे - सूर्यस्य त्वेति । तपनं तपस्तेजः 1 सूर्यतेजोरूपाय प्रवर्ग्याय ९ ) । त्वां प्रोक्षामि । ' अञ्जन्तीत्युच्यमाने देवस्त्वेत्यनक्ति महावीरमाज्य " संस्कृत्य ' ( का ० श्र ० २६।२।१ ' अञ्जन्ति यं प्रथयन्तो न विप्रा: ' ( ऋ ० सं ० ५। ४३ । ७ ) इति मन्त्रे होत्रा पठ्यमानेऽध्वर्युराज्यं विधिना संस्कृत्य तेनाज्येन प्रचरणीयं महावीरं देवस्य त्वेति मन्त्रेणानक्ति । सविता देवो मध्वा मधुना मधुरेण सर्वजगद्रूपेणाज्येन मधु यदिदं हे महावीर! त्वामनक्तु लिम्पतु । मध्वेति नुमभावः आगमशास्त्रस्यानित्यत्वात्, ' सर्वं वा समञ्जनकरत्वेनोच्य- इदं किञ्च ' ( श ० १४।१।३।१३ ) इति श्रुतेः । लोके यत्किमपि दृश्यमानं मध्वस्ति, इदं मन्त्रे मानमाज्यलक्षणं मधु, सर्वं तल्लोके विद्यमानं सर्वं मध्वात्मकम् । तस्मात् ' देवस्त्वा सविता मध्वाऽनक्तु ' इत्यनेन मन्त्रवर्णेन एनं महावीरं सर्वेण निरवशेषेणानेन कृत्स्नजगद्वर्तिना मधुना समनक्ति, समक्तवान् भवतीति श्रुत्यर्थः । ' रजतशतमानं खर उपगूहति पृथिव्या: स १७ स्पृश इति ' ( का ० श्र ० २६ २ २० ) इति रजतशतमानं शतरक्तिकापरिमितं रजतं खरे सिकतान्तरुपगूहतीत्यर्थः । रजतदेवत्या प्राजापत्या गायत्री । संस्पृशत्युपद्रवार्थं स्पर्शं करोतीति संस्पृग् राक्षसादिः । क्विबन्तं पदम् । पृथिव्याः सम्बन्धिनः संस्पृशो राक्षसाद हे रजत! महावीरं पाहि रक्ष । ' अथोत्तरतः सिकता उपकीर्णा भवन्ति । तद्रजत हिरण्यमधस्तादुपास्यति पृथिव्याः संस्पृश-स्पाहीत्येतद्वै देवा अभियुर्यद्वै न इममधस्ताद्रक्षा सि नाष्ट्रा न हन्युरित्यग्नेर्वा एतद्रेतो यद्धिरण्यं स्यादिति नाष्ट्राणा तदेवास्या रक्षसामपहत्या अथो पृथिव्यु ह वा एतस्माद् बिभयाञ्चकार यद्वै माऽयं तप्तः शुशुचानो न हि एतदन्तर्दधाति रजतं भवति रजतैव हीयं पृथिवी ' ( श ० १४ | १ | ३ | १४ ) इति श्रुत्या खरे रजतशतमानरुक्मस्य प्रक्षेपो विहितः । सिकता उपकीर्णा उपक्षिप्ता भवन्ति । सिकताभिश्चतुरस्रं खरं कुर्यात् । तत्र सिकतोपकीर्णे देशे रजतं हिरण्यम् हिरण्यशब्दस्य रूप्य सुवर्णयोः समानत्वात् तद् व्यावृत्त्यर्थं रजतविशेषणम्, । रजतशतमाननिर्मितं रुक्मं स्थाप्यमानस्य महावीरस्याधस्तादधोभागे, उपास्यति उपक्षिपति पृथिव्या इति मन्त्रेण

पृष्ठ 555

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 555 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७२ शुक्लयजुर्वेद संहिता [ अ ० ३७ अत्र श्रीती कथा - देवा अबिभयुर्भीता जाता: । यदि खलु नोऽस्माकमिमं महावीरमधस्ताद् रक्षांसि यज्ञहन्तृणि नाष्ट्रा नाशकारिण्यस्तत्सेना न हन्युः, हननं मा कार्षुः तर्हि यज्ञः सम्पूर्येत । ते च राक्षसादयोऽ-वश्यमिमं यज्ञं हनिष्यन्तीत्यनेन कारणेन भीतवन्तः । भीताश्च ते रजतशतमानं तद्रक्षणाय महावीरस्याधस्ता-निहितवन्तः । कुतस्तेन तद्र्यनिवृत्तिरित्याह-- यदग्नेः खलु एतद् रेतो वीर्यम्, ' आपो वरुणस्य पत्नय आसन् । ता अग्निमभ्यध्यायन् । ताः समभवन् । तस्य रेतः परापतत् । तद्धिरण्यमभवत् ' ( तै ० ब्रा ० १ | १ | ३ | ८ ) इति श्रुतेः । तस्मादग्नेर्वीर्यत्वाद् हिरण्यं नाष्ट्राणां रक्षसामपहननाय समर्थम् । तस्मादधस्तस्योपासनं कार्यम् । एतस्मात् तप्तात् प्रवर्ग्यात् पृथिवी खलु बिभयाञ्चकार मा मामयं प्रवर्ग्यः सन्तप्तः शुशुचानो दीप्यमानो न हिंस्यात् । तदा मया धारयितुं सह्यते । अयं तु सर्वथा मां हिस्यादिति भीता बभूव । तस्मादस्या हिंसाभावार्थ-मेतद् हिरण्यमन्तर्दधाति ' पृथिवीं तपसस्त्रायस्वेति हिरण्यमुपास्यत्यस्या अनतिदाहाय ' ( तै ० आ ० ५।४।५ ) इति तैत्तिरीयश्रुतेः । ' स सीदस्वेत्युच्यमाने मुखप्रलवान् द्विगुणानादीप्य प्रतिदिशं खरे करोति ' ( का ० श्र ० २६।३।३ ), ' तेषु महावीरमाज्यवन्तमचरसीति ' ( का ० श्री ० २६ | ३ | ४ ) | होत्रा ' संसीदस्व ' ( वा ० सं ० ११।३७ ) इति पठ्यमानेऽध्वर्युर्मुञ्जप्रलवान् शरतृणानि द्विगुणान् मध्यमोटनेन द्विगुणीकृतान् गार्हपत्ये प्रदीप्य खरे चतुर्दिक्षु कृत्वा संस्कृताज्यपूर्ण प्रचरणीयं महावीरं स्थापयेदिति सूत्रद्वयार्थः । यजुस्त्रिष्टुप् घर्मदेवत्या । हे महावीर! त्वमचिश्चन्द्रकान्तिरूपोऽसि । शोचिरग्नितेजोरूपोऽसि । तपः सूर्यतापरूपोऽसि । स यत्रता I होताऽन्वाह । स-सदस्य महाँ २ || असीति तदुभयत आदीप्ता मौजाः प्रलवा भवन्ति तानुपास्य तेषु प्रवृणक्ति यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् तत एता ओषधयो जज्ञिरे तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति ' ( श ० १४ | १ | ३ | १५ ) । ' अथ दुभयत आदीप्ता भवन्ति । सर्वाभ्य एवैतद्दिग्भ्यो रक्षाथ् सि नाष्ट्रा अपहन्ति तस्मिन् प्रवृज्यमाने पत्नी शिरः प्रोर्णुते ततो वा एष शुशुचानो भवति नेन्मेऽयं तप्तः शुशुचानश्चक्षुः प्रमुष्णादिति ' ( श ० १४ | १ | ३ | १६ ) । ‘ स प्रवृणक्ति । अचिरसि शोचिरसि तपोऽसीत्येष वै धर्मो य एष तपति सर्वं वा एतदेष तदेतमेवैतत्प्रीणाति तस्मादाहा-चिरसि शोचिरसि तपोऽसीति ' ( १४ | १ | ३ | १७ ) | एषु ब्राह्मणेषु यदुक्तं सूत्रकारेण मुञ्जप्रलवानित्यादिना तद्विधानम् । तथाहि - यस्मिन् काले मौला मुञ्ज-विकाराः प्रलवाः शरतृणानि प्रकर्षेणलूना भवन्ति तान् प्रलवान् खरे उपास्य तेषु महावीरमासाद्य प्रवृणक्ति प्रवृञ्जनं करोति । मुञ्जतृणानां मुष्टिद्धयमानीयाग्रमूलयोः प्रदीप्य चतुर्दिक्षु यथा ज्वाला भवेत्, तथा व्यत्यस्य खरस्थे रजतशतमाने निधाय तत्र महावीरं स्थापयेदित्यर्थः । छिन्नस्य यज्ञशिरसो यद्रसो व्यक्षरत् तदुपादानत्वेन मुञ्जस्य समर्थनं क्रियते । तेन सर्वाभ्यो दिग्भ्यो रक्षांसि ज्वालया विनाशयति । तस्मिन् महावीरे सन्तप्ते प्रवृज्यमाने पयआसेचनेन विक्रियमाणे पत्नी स्वकीयं शिरः प्रोर्णुते वस्त्रादिनाच्छादयति, अन्यथा अत्यर्थं दीप्यमानो मदीयं चक्षुत् प्रमुष्णाद् इत्यभिप्रायेण स्वकीयं मुखं वेष्टयेदित्यर्थः । तत्र अचिरसि शोचिरसि तपोऽसीति मन्त्रेण उभयतो दीप्ते खरे महावीरमाज्यपूर्ण स्थापयति । य एष दिवि तपति सूर्यः, एष खलु धर्मः प्रवर्ग्यः । एष च सूर्यः सर्वमेतद्दृश्यमान जगदात्मकः । तस्माद् धर्मरूपिणमेतं सूर्यमेव, एतद् एतेन अचरसी-त्यादिना नानारूपत्वप्रतिपादनेन प्रीणाति तर्पयति । अध्यात्मपक्षे - ज्ञानयज्ञात्मकं महावीरं यमाय आदित्यप्रीत्यै त्वां प्रोक्षामि, संशयविपर्ययादिराहित्येन त्वां संस्करोमि । मखाय यज्ञरूपसूर्यप्रीत्यै त्वां तपसे तेजोरूपसूर्यप्रीत्यं त्वां प्रोक्षामि संस्करोमि । सविता परमेश्वरो देवस्त्वा त्वां मध्वा मधुना ब्रह्मरूपेण विषयेण त्वामनक्तु त्वामुपरक्तं करोतु । पृथिव्या मायाभूमिसम्बन्धिनो मोहमयाद् दुःखप्रदाद् राक्षसाद हे परमेश्वर! महावीरं ज्ञानयज्ञरूपं रक्ष यज्ञशिरः पाहि । हे परमेश्वर! त्वर्माच-

पृष्ठ 556

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 556 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ११-१२ ] वेदार्थ पारिजातभाष्यसंहिता १७३ रसि चान्द्रमसं तेजोऽसि, त्वं शोचिरस्याग्नेयं तेजोऽसि त्वं तपोऽसि सूर्यतापरूपोऽसि, ' यदादित्यगतं तेजो जगद् भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ ' ( १५।१२ ) इति गीतोक्तेः । दयानन्दस्तु - ' हे विद्वन्! सविता देवो मखाय यमाय त्वा सूर्यस्य तपसे गृह्णातु । पृथिव्यास्त्वा मध्वानक्तु । स त्वं संस्पृशः पाहि । यतस्त्वमचिरसि शोचिरसि तपोऽसि, तस्मात् त्वां सत्कुर्याम ' इति । तदपि यत्किञ्चित्, सम्बोधनस्य निर्मूलत्वात् । सिद्धान्ते तु श्रुतिसूत्रानुरोधेन महावीरादिसम्बोधनमुक्तम् । न च विद्वान् स्पर्शमात्रेण पातुं शक्नोति । अचिरसीत्यादिष्वप्यचरिवेत्यादिरीत्या गौणार्थाश्रयणमपि निर्मूलमेव ॥ ११ ॥

अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधिपत्य॒ आयु॑र्मे दाः । पुत्रव॑ती दक्षिण॒त इन्द्र॒स्याधि॑पत्ये प्र॒जां मे॑ दाः । सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तु॒राधि॑पत्य॒ चक्षु॑मे॑ दा॒ाः । आश्रुतिरुत्तर॒तो धा॒तुराधि॑पत्ये रायस्पोषै मे बाः । विधृ॑तिरु॒परि॑ष्टा॒द् बृह॒स्पति॒राधि॑पत्य॒ ओजो॑ मे ाः । विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाह मनोरश्वा॑सि ॥ १२ । " मन्त्रार्थ - हे पृथिवि! तुम पूर्व दिशा में राक्षसों से पूरी तरह सुरक्षित हो, अग्नि के अधिकार में मुझे आयु प्रदान करो । तुम दक्षिण दिशा में इन्द्र के अधिकार में पुत्रवती हो, तुम मुझे सन्तान दो । तुम पश्चिम दिशा में सूर्य देवता के अधिकार में सुख से स्थित हो, मुझे तुम चक्षु प्रदान करो । तुम उत्तर दिशा में ब्रह्मा के आधिपत्य में यज्ञयोग्य हो, तुम मुझे धन से पुष्ट करो | ऊर्ध्व दिशा में तुम बृहस्पति के आधिपत्य में धारण की सामर्थ्यं से युक्त हो, तुम मुझे बल प्रदान करो । हे महावीर की दक्षिणभूमि! हिंसक पिशाच आदि से हमारी रक्षा करो । हे महावीर की उत्तर भूमि! तुम मनु की वड़वा हो ॥ १२ ॥

' अनाधृष्टेति वाचयति प्रादेशमध्यधि धारयन्तम् ' ( का ० श्र ० २६ | ३ | ५ ) | महावीरस्योपरि प्रादेशम् अङ्गुष्ठाङ्गुलिदेशं धारयन्तं यजमानं पञ्चवाक्यात्मकमपि मन्त्रं सकृदेव वाचयेदध्वर्युः । सप्त यजूंषि पृथिवीदेवत्यानि यजमानस्याशीः । हे पृथिवि! या त्वं पुरस्तात् पूर्वस्यां दिशि अनाधृष्टा रक्षोभिरनाधर्षितासि सा त्वमग्नेराधिपत्ये स्वामित्वे सति ममायुर्जीवनं दा: देहि । ददातेर्लुङि मध्यमैकवचने, अडभाव आर्षः । अत्र ब्राह्मणम् —'अनाधृष्टा ह्येषा पुरस्ताद् रक्षोभिर्नाट्राभिरग्नेराधिपत्य इत्यग्निमेवास्या अधिपति करोति नाट्राणा, रक्षसामपहत्या आयुर्मे दा इत्यायुरेवात्मन् धत्ते तथो ह सर्वमायुरेति ' ( श ० १४ | १।३।१ ९ ) । एषा पृथिवी पुरस्ताद् महावीरस्य प्राच्यां दिशि रक्षोभी राक्षसैर्नाष्ट्राभिर्नाशकारिणीभिस्तत्सेनाभिश्च, अनाधृष्टा अबाधिता, अतोऽनाधृष्टा पुरस्तादिति मन्त्रभागः संगतः । अतो रक्षसामपहननार्थमग्निमेवास्या दिशोऽधिपति करोति, ' अग्निहि रक्षसामपहन्ता ' ( श ० १ | १ | ५ | ९ ) इति श्रुतेः । ' आयुर्मे दा: ' इति तृतीयेन मन्त्रभागेन आत्मन् आत्मनि स्वस्मिन् आयुर्जीवनमेव धत्ते । तथा च स यजमानः सर्वमायुः, एति प्राप्नोति । पुत्रवती दक्षिणत इति । नात्र तिरोहितमिवास्तीन्द्रस्याधिपत्य इतीन्द्रमेवास्या अधिपतिं करोति नाष्ट्राणा ७ रक्षसामपहत्यै प्रजां इति प्रजामेव पशूनात्मन् धत्ते तथो ह पुत्री पशुमान् भवति ' ( श ० १४ । १।३।२० ) । अस्यां कण्डिकायां तिरोहितमस्पष्टं व्याख्यानसापेक्षं नास्ति, स्पष्टार्था कण्डिकेति यावत् । महावीरस्य दक्षिणभागे एषा पृथिवी पुत्रवती, इन्द्रमेवास्यामधिपति करोति, रक्षसामपहत्यै । ' सुषा पश्चादिति । नात्र तिरोहितमिवास्ति देवस्य सवितुराधिपत्य इति देवमेवास्यै सवितारमधिपति करोति नाष्ट्राणा रक्षसामपहत्यै चक्षुर्मे दा इति चक्षुरेवात्मन् धत्ते तथो ह चक्षुष्मान् भवति ' ( श ०

पृष्ठ 557

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 557 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७४ शुक्लयजुर्वेद संहिता [ अं ० ३७ १४।१।३।२१ ) । प्रतीच्यां दिशि पृथिवी सुषदा सुष्ठु सुखेन आसाद्या । शेषं सुगमम् । ' आश्रुतिरुत्तरत इति । आश्रा-वयन्नुत्तरत इत्येवैतदाह धातुराधिपत्य इति धातारमेवास्या अधिपति करोति नाट्राणा रक्षसामपहृत्यै रायस्पोषं मे दा इति रयिमेव पुष्टिमात्मन् धत्ते तथो ह रयिमान् पुष्टिमान् भवति ' ( श ० १४ | १ | ३ | २२ ) आश्रुतिरुत्तरतो यन्मन्त्रवाक्यमेतद् वेद्या उत्तरभागे स्थित्वाऽध्वर्युः प्रवर्ग्यार्थमाश्रावयन् आश्रावणं कुर्वन् भवति । शेषं सिद्धम् । रयिं धनम्, पुष्टि तत्कृतां विभूतिम् । ' विधृतिरुपरिष्टादिति । विधारयन्नुपरिष्टादित्येवैतदाह बृहस्पतेराधिपत्य इति बृहस्पतिमेवास्या अधिपति करोति । नाष्ट्राणा रक्षसामपहत्या ओजो मे दा इत्योज एवात्मन् धत्ते तथौजस्वी बलवान् भवति ' ( श ० १४ । १ । ३।२३ ) | ओजो बलम् । शेषं सिद्धम् । ' विश्वाभ्यो मेति दक्षिणत उत्तानं पाणि निदधाति ' ( का ० श्र ० २६ । ३३७ ) | यजमानो महावीराद्दक्षिण-भूमौ विश्वाभ्यमेति मन्त्रं पठन् स्वकरमुत्तानं निदधातीति सूत्रार्थः । अथ संहत्यावशिष्टयजुरर्थो लिख्यते-हे पृथिवि! या त्वं दक्षिणस्यां दिशि इन्द्रस्याधिपत्ये सति पुत्रवती, सा मह्यं प्रजां पुत्रादिकां दा: देहि । या त्वं पश्चिमायां दिशि सुषदा सुखेन सीदन्ति जना यस्यां तादृशी, सवितुर्देवस्याधिपत्ये सति सा त्वं मे चक्षुर्दाः नेत्रेन्द्रियं देहि । या त्वमुत्तरस्यां दिशि धातुर्ब्रह्मण आधिपत्ये सति आश्रुतिरसि, सा त्वं मे रायो धनस्य पोषं पुष्टि देहि । या त्वमुपरि प्रदेशे बृहस्पतेराधिपत्ये सति विधृतिरसि, विशेषेण धारयतीति विधृतिः, उपरिष्टाज्जुह्वादिकं ध्रियते, सा त्वं मे मामोजो बलं देहि । विश्वाभ्यो मा नाष्टाभ्यस्पाहि इति मन्त्रं पठन् यजमानः करं निदधातीति सव्याख्यानं सूत्रं पुरस्तादुद्धृतम् । यजुर्बृहती । हे महावीरदक्षिणभूमे! सर्वाभ्य आतिभ्यो हिंसाभ्यो मां गोपाय रक्ष, रक्ष इत्यमुमर्थं विश्वाभ्यो मा इत्येतन्मन्त्रवाक्यमाह प्रतिपादयति । न तु पूर्ववन्नाष्ट्राशब्देन नाशकारिण्यो राक्षस्यः सेना उच्यन्ते । इति सर्वाभ्यो मातिभ्यो गोपायेत्येवैतदाहेत्यर्थः । अत्रापि ब्राह्मणम् ' अथ दक्षिणत उत्तानेन पाणिना निह्नुते । विश्वाभ्यो मा नाष्ट्राभ्यस्पाहीति सर्वाभ्यो मार्तिभ्यो गोपायेत्येवैतदाह यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् स पितॄनगच्छत् त्रया वै पितरस्तैरेवैनमेतत्सम-यति कृत्स्नं करोति ' ( ० १४ | १ | ३ | २४ ) | अथ दक्षिणत उत्तानेन पाणिना विश्वाभ्य इति मन्त्रेण निनुते, महावीररक्षणप्रार्थनमपलपति । तात्पर्यगम्यस्त्वर्थ उक्तः सर्वाभ्यो हिंसाभ्यः सर्वाभ्य आर्तिभ्य इत्यादि । दक्षिणस्या दिशः पितृणां सम्बन्धाद् दक्षिणतो हस्तनिधानेन पितृभिरप्येनं समृद्धं कृतवान् भवति । छिन्न-- शिरस्कस्य यज्ञस्य रसः पुरा पितृदेवताः प्राप्नोत् । ते पितरस्त्रया वै पितृ - पितामह प्रपितामहभेदेन त्रिविधाः खलु । तत् त्रैविध्यं सवनत्रयात्मकयज्ञरससम्बन्धाज्जातमित्यवगन्तव्यम् । अत एतद् एतेन विश्वाभ्य इति मन्त्रेण दक्षिणतः क्रियमाणेन उत्तानपाणिनिधानेन दक्षिणदिक्सम्बद्वैस्तैरेव पितृभिरेनं प्रवग्यं समर्धयति समृद्धं करोति । तथा च यज्ञं कृत्स्नं सम्पूर्णावयवं कृतवान् भवति । ‘ मनोरश्वेति प्रादेशमुत्तरतः ' ( का ० श्र ० २६ | ३ | ८ ) महावीरादुत्तरतो यजमानो निजं प्रादेशं निदधाति । दैवी पङ्क्तिः । हे धर्मोत्तरभूमे! त्वं मनो राज्ञोऽश्वा वडवासि । वहनाय अश्वा, ' अथेमामभिमृश्य जपति । मनोरश्वाऽसीत्यश्वा ह वा इयं भूत्वा मनुमुवाह सोऽस्याः पतिः प्रजापतिस्तेनैवैनमेतन्मिथुनेन प्रियेण धाम्ना समर्धयति कृत्स्नं करोति ' ( श ० १४ । १ । ३ । २५ ) इति श्रुतेः । अथ निह्नवानन्तरं महावीरस्योत्तरत इमां भूमि प्रादेशेनाभिमृश्य मनोरश्वाऽसीति मन्त्रं जपति । हे पृथिवि! त्वं मनोः प्रजापतेरश्वाऽसीतीममर्थमाख्यायिकयो-पपादयन् मन्त्रस्य समृद्धिहेतुत्वमाह - अश्वाहेति । पुरा खलु इयं पृथिवी अश्वा भूत्वा मनुं प्रजापतिमुवाह ऊढवती । स प्रजापतिरस्याः पतिर्भर्ता । एतेन मनोरश्वाऽसीति मन्त्रेण पृथिव्या अभिमर्शनेन तेनैव मिथुनेन स्त्रीपुंसात्मकेन प्रियेण धाम्ना धारकेण तेजसा एवं प्रवग्यं समर्धयति ।

पृष्ठ 558

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 558 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १२-१३ ] वेदार्थं पारिजातभाष्यसहिता १७५ अध्यात्मपक्षे – हे देवपीठभूमे! या त्वं देवस्य पुरस्तात् पूर्वस्यां दिशि, अनाधृष्टा रक्षोभिरनाधृष्टा अग्नेराधिपत्ये स्वामित्वे मे मह्यमायुर्दाः जीवनं देहि, येन देवं प्रसादयामि । हे भूमे! या त्वं पुत्रवती पुत्रादिदान-समर्था, सा त्वं देवस्य दक्षिणत इन्द्रस्याधिपत्ये प्रजां मे मह्यं दा: देहि । हे भूमे! या त्वं सुषदा सुखं सीदन्ति यस्यां तादृशी सा त्वं देवस्य पश्चात् सवितुराधिपत्ये चक्षुर्मे दा: देहि । हे पृथिवि! या त्वं देवस्योत्तरत! आश्रुतिरसि यस्यामृत्विज आश्रावयन्ति मन्त्रान् सा त्वं धातुराधिपत्ये मे मह्यं रायस्योषं दा: देहि । हे पृथिवि या त्वं विधृतिरसि विधारयित्री असि सा त्वं देवस्योपरिष्टाद् बृहस्पतेराधिपत्ये ओजो मे देहि । हे पृथिवि! त्वं देवस्य दक्षिणभागे नाट्राभ्यो मा मां पाहि । त्वं मनोरश्वा वडवा, असि । दयानन्दस्तु – ' हे मनुष्याः यथाग्निर्जीवनं यथा विद्युत् प्रजा यथा सविता दर्शनं धाता श्रियं महाशयो बलं च ददाति, तथैव सुलक्षणा पत्नी सर्वाणि सुखानि प्रयच्छति, तां रक्षत ' इति भावार्थः । अन्वयश्च देहि – हे , सुषदा स्त्रि, त्वमनाधृष्टा सती पुरस्तादग्नेराधिपत्ये मे आयुर्दाः पुत्रवती सती दक्षिणत इन्द्रस्याधिपत्ये मे प्रजां सती पश्चात् सवितुर्देवस्याधिपत्ये चक्षुर्दाः, आश्रुतिः, आसमन्तात् श्रवणं यस्याः सा । उत्तरतो धातुर्धर्वायो-राधिपत्ये रायो धनस्य पोषं मे दाः । विधृतिः, उपरिष्टाद् बृहस्पतेराधिपत्ये ओजो देहि विश्वाभ्यः सर्वाभ्यो नाट्राभ्यो व्यभिचारिणीभ्यो मां प्राप्तं त्वं मनोरन्तःकरणस्य अश्वा व्यापिका असि ' इति, तदुभयमपि यत्किञ्चित्, आयुरादिदाने तस्याः सामर्थ्यादर्शनात् । नह्यन्यस्य पत्न्यामन्येषामाधिपत्यं सम्भवति, मर्यादाविरोधात् श्रुति-विरोधाच्च । श्रुतयस्तु सिद्धान्तव्याख्याने दर्शिता एव ॥ १२ ॥

स्वाहा॑ म॒रुद्भिः परि श्रीयस्व दि॒वः स॒स्पृशंस्पाहि । मधु मधु मधु॑ ॥ १३ ॥

१ मन्त्रार्थ - हे घमं! तुम स्वाहा रूप हो, मरुतों के द्वारा तुम परिपक्व हो जाओ । हे शतमान सुवर्ण! स्वर्गवासी देवताओं की रक्षा करो । हे प्राण, हे उदान, हे व्यान! तुम सबके लिये कल्याणकारी बनो ॥ १३ ॥

' धृष्टिभ्यां भस्मना परिकीर्याङ्गारैश्च विकङ्कतशकलैः परिश्रयति त्रयोदशभिः प्रागुदग्भिः स्वाहा मरुद्भि-रिति, अधिकं दक्षिणतो द्वौ मन्त्रेण ' ( का ० श्र ० २६ । ३ । ९ - १० ) । अध्वर्युरुपवेषाभ्यां गार्हपत्यस्य भस्मना महावीरं परितो भस्मविक्षेपं कृत्वा धृष्टिभ्यामेव गार्हपत्याङ्गारैश्च परिकीर्यं महावीरस्य सर्वतोऽङ्गारान्निधाय प्रागग्रै-रुदगग्रैश्च त्रयोदशभिर्विकङ्कतशकलैर्महावीरं परिश्रयति, अङ्गाराणामुपरि निदधातीति सूत्रार्थः । तत्र प्रथमौ द्वौ प्रागग्रौ मन्त्रेण, इतरानेकादश तूष्णीमुपर्युपरि निदधाति । तत्र तृतीयचतुर्थी उदगग्रौ, पञ्चमषष्ठौ प्रागग्रौ । सप्तमाष्टमी उदगग्रौ, नवमदशमौ प्रागग्रौ, एकादशद्वादशौ उदगग्रौ । अधिकं त्रयोदशमवशिष्टं दक्षिणत इति मासानां त्रयोदशत्वात् त्रयोदशशकलैराच्छादनम्, त्रयोदश वै मासाः संवत्सरस्य संवत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति ' ( श ० १४ । १ । ३ । २८ ) इति श्रुतेः । यजुः पङ्क्तिर्धर्मदेवत्या । हे धर्म! यस्त्वं स्वाहाकारोऽसि हविराधारत्वात् सूर्यरूपोऽसि तं त्वां ब्रवीमि । मरुद्भी रश्मिभिः परिश्रीयस्व, कर्मणि यक्, मरुतस्त्वामाश्रयन्त्वित्यर्थः । ' सुवर्णशतमानेनापि दधाति दिवः स-स्पृश इति ' ( का ० श्र ० २६ | ३ | १० ) । शतरक्तिकामितेन सुवर्णपिधानेन महावीरमाच्छादयतीति सूत्रार्थः । दैवी जगती सुवर्णदेवत्या । हे शतमान, दिवो द्युलोकसम्बन्धिनः संस्पृशः स्पर्शकर्तृन् देवान् पाहि । ' कृष्णा-जिनावकृत्तैर्धवित्रैरुपवीजयति त्रिभिर्दण्डवद्भिर्मधु मध्विति ' ( का ० श्र ० २६ | ४ | २ ) । कृष्णाजिनकृतैर्दण्डयुक्तं-स्त्रिभिर्व्यजनैरग्नि वीजयति दीपनायेति सूत्रार्थः । त्रीणि यजूंषि प्राणदेवत्यानि । दैवी उष्णिक् । मधुररससाम्यात् प्राणो मधु उच्यते । प्राणोदानव्यानत्रयं महावीरे स्थापयामीत्यर्थः ।

पृष्ठ 559

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 559 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७६ शुक्ल यजुर्वेदसंहिता [ अ ० ३७ तदेतत्सर्वं शतपथे स्पष्टम् । तथाहि - ' अथ वैकङ्कतौ शकलो परिश्रयति प्राचौ । स्वाहा मरुद्भिः परि-श्रीयस्वेत्यवर ँ स्वाहाकारं करोति परां देवतामेष वै स्वाहाकारो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादवर ७ स्वाहाकारं करोति परां देवताम् ' ( श ० २४ | १ | ३ | २६ ) । त्रयोदशभिर्वैकङ्कतशकलैः समिद्भि-महावीरस्य परिश्रयणं विधित्सुस्तासु द्वाभ्यां समिद्भयां समन्त्रकाभ्यां प्रथमं परिश्रयणं कर्तव्यमित्याह- -अथ वैताविति । तौ प्रागग्रौ महावीरस्य दक्षिणत उत्तरतश्च परिश्रयति निदधाति । ' स्वाहा मरुद्भिः ' इत्यस्य मन्त्रः । तत्र स्वाहाशब्दस्यार्थं प्रदर्शयन् तत्कृतं प्रवर्ग्यस्य अतिशयं दर्शयति - अवरमित्यादि । अवरमधस्ता-द्वर्तमानं स्वाहाकारं स्वाहेत्युच्चारणं करोति, परां परस्ताद् वर्तमानामस्माभिर्दुरधिगमां देवतां स्मर्तुमिति शेषः । तस्मादुत्कृष्टदेवतात्मकं स्वाहाकारं करोति । कथं स्वाहाकारस्य परदेवतात्मकता? इत्याह-- एष वा इति । य एष सूर्यस्तपति एष खलु स्वाहाकारः स्वाहाशब्दप्रतिपाद्यः स्वाहाकारात्मको वा । यथा अग्नये स्वाहेत्यादी प्रथमं देवतापदं पश्चात् स्वाहाकार: प्रयुज्यते, तद्वैपरीत्येनात्र तु प्रथमं स्वाहाकारः पश्चाद् देवतापदम् ' मरुद्भिः परिश्रीयस्वेति । विशो वै मरुतो विशैवैतत् क्षत्रं परिवृहति तदिदं क्षत्रमुभयतो विशा परिवृढं तूष्णी- । मुद तूष्णीं प्रा तूष्णीमुदची तूष्णीं प्राचौ ' ( श ० १४ । १ । ३ । २७ ) | देवानां मध्ये मरुतो वैश्याः, ' मरुतो वै देवानां विश: ' ( तै ० सं ० २/२/५ ) इति श्रुतेः । महावीरश्च सम्राट्शब्दाभिधेयत्वात् क्षत्रियजातिस्थानीयः अतो मरुद्भिः परिश्रीयस्वेत्यनेन विशैव क्षत्रं परिवृंहति वर्धयति । यथा लौकिकं क्षत्रं विशा वैश्यजात्या परिवृढम्, तथाऽवशिष्ठैः शकलैः परिश्रयणं विधत्ते - तूष्णीमुदावित्यादिना । पूर्वं मन्त्रेण द्वौ वैकङ्कतशकलौ महावीरस्य दक्षिणोत्तरभागयोः प्रागग्रौ निहितौ । अथ तस्य पश्चात् पुरस्ताच्च द्वौ शकलौ उदगग्रौ तूष्णी निधातव्यौ । तत-तुष्णीमे द्वौ प्राञ्च पूर्ववन्निधेयौ । एवं व्यत्यासेन त्रयोदशशकलान् सम्पादयति । प्रागग्राः षड् उदगग्राः षट्, अवशिष्टमेकं दक्षिणतः प्रागग्रं निदध्यादिति सायणाचार्यः । ' अथ सुवर्ण हिरण्यमुपरिष्टान्निदधाति । दिवः स स्पृशस्पाहीत्येतद्वै देवा अबिभयुर्यद्वै न इममुपरिष्टा-द्रास नाष्टा न हन्युरित्यग्नेर्वा एतद्रेतो यद्धिरण्यं नाष्ट्राणा रक्षसामपहया अथो द्यौर्ह वा एतस्माद्विभयाञ्चकार यद्वै माऽयं तप्तः शुशुचानो न हि स्यादिति तदेवास्या एतदन्तर्दधाति हरितं भवति हरिणीव हि १४।६।३।२ ९ ) । महावीरस्योपरि सुवर्णशतमानस्य रुक्मस्य स्थापनं विधत्ते -- अथ सुवर्णमित्यादिना । शोभनवर्णयुक्तं द्यौः ' ( श ० हिरण्यनिर्मितं काञ्चनमयं रुक्मं ' दिवः सस्पृश ' इति मन्त्रेण महावीरस्योपरिष्टाद् रक्षोभिरबाधनार्थं धर्मेण द्युलोकस्य तापाभावार्थं च निदधाति । तेनैव तेजसा हरिणीव हरिद्वर्णेव द्यौः । ' तप्तेन मधुमध्विति त्रिः प्राणो वै मधु प्राणमेवास्मिन्नेतद्दधाति त्रीणि भवन्ति त्रयो वै प्राणाः अथ धवित्रैराधूनोति । नेवास्मिन्नेतद्दधाति ' ( श ० १४ | १ | ३ ३० ) | कृष्णाजिननिर्मितानि व्यजनानि दण्डवन्ति प्राण उदानो व्यानस्ता-अध्वर्युस्तैस्त्रिभिर्मधु मधु मध्विति मन्त्रेण त्रिराधूनोति महावीरस्य वीजनं करोति । यथाग्नेज्वला धवित्राणीत्युच्यन्ते । समिन्धीतेत्यर्थः । तन्मन्त्रं प्रशंसति - प्राणो वा इत्यादिना । प्राणापानादिपञ्चवृत्तिः भवति तथा धेयः, मधुवत्प्रियतमत्वात् । तथा चैतदेतेन मधु मधु मध्विति कथनेनास्मिन् प्रवर्ये प्राणवायुर्मधुमन्त्रे प्राणमेव दधाति मधुशब्दाभि- । प्राणावान्तरव्यापारत्वात् प्राणेऽन्तर्भावात् समानस्य च व्यानेऽन्तर्भावात् प्राण उदानो व्यान अपानस्य इति प्राणानां त्रित्वमेव । अध्यात्मपक्षे - हे ज्ञानयज्ञ! त्वं स्वाहा ब्रह्मणि सर्वस्वात्मसमर्पणरूपोऽसि र्ज्ञानिभिः परिश्रीयस्व सेव्यस्व । सर्वे ज्ञानिनस्त्वां परिश्रयन्तु । दिवः संस्पृशः, । दिवो मरुद्भिः पावनैर्हनुमदादिभि-संस्पृशः । अनुभवितॄन् ज्ञानिनः पाहि अविद्यातत्कार्यापनोदनेन रक्ष । त्वत्प्रसादात् द्योतनात्मकस्य ब्रह्मणः मधुविद्यावेद्य ब्रह्मात्मकमस्तु । आधिदैविकं च मधु ब्रह्मरूपमस्तु । आधिभौतिकं च सवं सर्वमाध्यात्मिकं मधु परमामोदजनकं मधु ब्रह्मरूपमस्तु ।

पृष्ठ 560

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 560 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १३-१४ ] वेदार्थं पारिजात भाष्यसहिता १७७ दयानन्दस्तु -- ' हे विद्वन्, त्वं मरुद्भिः स्वाहा मधु मधु मधु श्रीयस्व संस्पृशो दिवोऽस्मान् परिपाहि ' इति, तदपि यत्किञ्चित् मधुपदस्य कर्माद्यर्थत्वे मानाभावात् कर्मप्रत्ययविरोधाच्च । संस्पृशो विद्युदर्थं ताप चिन्त्यैव ॥ १३ ॥

-गर्भो दे॒वानां॑ पि॒ता म॑तीनां पतिः प्र॒जाना॑म् ।

सं दे॒वो दे॒वेन॑ सवि॒ता ग॑त॒ स सूर्येण रोचते ॥ १४ ॥

मन्त्रार्थ — दीप्यमान महावीर सूर्य देवता के साथ योग को पाता है । दीप्त किरणों का ग्रहीता, बुद्धियों का पालक, प्रजाओं का स्वामी महावीर सूर्य के साथ एकत्व को प्राप्त कर भली प्रकार प्रकाशित होता है ॥ १४ ॥

' परिक्रम्योपतिष्ठन्तेऽकृतं चेद् गर्भो देवानामिति ' ( का ० श्र ० २६ | ४ | ११ ) । धवित्रैवजनसमये पूर्वं देववत् परिक्रमणं न कृतं चेदिह त्रिः परिक्रमणं कृत्वा इतरथाऽऽवृत्ति सकृत् कृत्वा ब्रह्मोत्रध्वग्नीत्प्रतिप्रस्थातृप्रस्तोतारः सयजमाना गर्भो देवानामित्यादिना नमस्ते अस्तु मा मा हि सीरित्यन्तेन मन्त्रेण धर्ममुपतिष्ठन्त इति सूत्रार्थः । एतेषां मन्त्राणामवकाश इति संज्ञा | धर्मदेवत्या एते । तत्र आद्येयमृचां पङ्क्तिः । देवो दीप्यमानो महावीरः सवित्रा आदित्येन देवेन सह सङ्गत सङ्गच्छते । समो गमेर्लुङि ' समो गम्यच्छिभ्याम् ' ( पा ० सू ० १ ३ २ ९ ) इत्यात्मने-पदत्वात् तङि च्लौ सिचि तस्य ' वा गमः ' ( पा ० सू ० १ १२ १३ ) इति विकल्पेन कित्वे, ' अनुदात्तोपदेश-वनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ' ( पा ० सू ० ६ | ४ | ३७ ) इति मकारलोपे, ' ह्रस्वादङ्गात् ' ( पा ० सू ० ८ २ २७ ) इति सिचो लोपे, ' बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा ० सू ० ६।४।७५ ) इत्यडागमाभावे सङ्गतेति रूपम् । यश्च धर्मः सूर्येण सह एकीभूतः सन् संरोचते तं वयमुपतिष्ठामहे । कीदृशो धर्मः? देवानां दीप्तानां दृश्यमानानां रश्मीनां सर्वेषां वा गर्भः । गृह्णातीति गर्भो ग्रहीता । तथा मतीनां आगामिगोचराणां बुद्धीनां पिता पालक बुद्धिप्रवर्तकः । प्रजानां पतिः पालकः । अत्र ब्राह्मणम् -- ' अथापसलवि त्रिर्धुन्वन्ति । यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् स पितॄनगच्छत् त्रया वै पितरस्तैरेवैनमेतत् समीरयति ' ( श ० १४ | १ | ३ | ३१ ) | अध्वर्युस्त्रिभिर्धवित्रैर्मधु मधु मध्विति मन्त्रेण त्रिराधूय अथैकं धवित्रं प्रतिप्रस्थात्रे प्रयच्छति, एकमाग्नीध्राय । ततस्ते त्रयो गृहीतधवित्रा अपसलवि अपसलवेदनम् अपसव्यं त्रिः परिक्रामन्ते धुन्वन्ति । अप्रदक्षिणकरणं हि पैतृको धर्मः । अतस्तैः पितृभिरेनं महावीरं समीरयन्ति संगमयन्ति । अप वा एतेभ्यः प्राणाः क्रामन्ति । ये यज्ञे धुवनं तन्वते पुनः प्रसलवि त्रिर्धुन्वन्ति षट् सम्पद्यन्ते षड् वा इमे शीर्षन् प्राणास्तानेवास्मिन्नेतद्दधाति श्रपयन्ति रौहिणौ स यदाचिर्जायतेऽथ हिरण्यमादत्ते ' ( श ० १४।१।३।३२ ) । ये खलु यज्ञेऽध्वर्युप्रभृतयो धुवनं कम्पनं वीजनं कुर्वन्ति एतेभ्यः सकाशात् प्राणा अपक्रामन्ति वै । वेगेन आधून क्रियमाणे शरीरान्तर्वर्तिनः प्राणा अपि श्रमातिशयेन शरीराद् बहिर्निर्गच्छन्तीत्यर्थः । अतस्तत्परिहाराय पुनः प्रसलवि प्रदक्षिणं त्रिः परिक्रामन्तो धुन्वन्ति चालयन्ति । उक्तदोषपरिहारमाह - षट् सम्पद्यन्त इति । द्वे चक्षुष द्वे द्वे नासि इति षडिन्द्रियाधिष्ठानानि शिरसि समवेतानि । तान्येवात्मनि धारयित्वा अस्मिन् प्रवर्येऽ-प्येतद्दधातीत्यर्थः । ‘ स यदैतदध्वर्युः । उपोत्तिष्ठन्नाह रुचितो धर्म इति तदुपोत्थायावकाशैरुपतिष्ठन्ते प्राणा वा अवकाशाः प्राणानेवास्मिन्नेतद्द्धाति ' ( श ० १४ | १ | ४ | १ ) | अवकाशाख्यैर्मन्त्रैरुपतिष्ठन्ते पूर्वोक्ता अध्वय्र्वादयः । ' गर्भो देवाना-मिति । एष वै गर्भो देवानां य एष तपत्येष हीद सर्वं गृभ्णात्येतेनेद सर्वं गृभीतमेष उ प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति ' ( श ० १४।१।४।२ ) । य एष सूर्यस्तपति एष खलु देवानां मध्ये गर्भः । कुतः? इत्यत आह - हि २३