वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 561–570
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 561–570
पृष्ठ 561
पाठ पढ़ें पाठ छिपाएँ
१७८ शुक्लयजुर्वेदसंहिता [ अ ० ३७ यस्माद् इदं सर्वमेष सूर्यो गृह्णाति, जगति विद्यमानं सर्वं स्वकिरणैरुपादत्ते सर्वमनुगृह्णाति वा । एतेन सवं जगदनुगृहीतम् । ' पिता ह्येष मतीनां पतिः प्रजानाम् ' ( श ० १४ | ५ | ४ | ३ ) । एष मतीनामागामिंगोचराणां बुद्धीनां पिता उत्पादयिता । सूर्योदये सति सुप्तानां समेषां प्रबोधेन सर्वाणि ज्ञानान्युत्पद्यन्ते तेनास्य पितृत्वम् । एष उ प्रवर्ग्यस्तदेतमेवैतत् ' इति प्रकृतो वाक्यशेषोऽतः परं सर्वत्रानुषञ्जनीयः । एष सूर्यः प्रजानां प्रजायमानानां प्राणिनां वृष्ट्यादिप्रदानेन पालयिता । स → हि देवो देवेन सवित्रा गत स, सूर्येण रोचते ' ( श ० १४ । १ । ४ । ४ ) । हि यस्मात्, देवनशीलो घर्मो देवयजनेन वर्तमानो देवेन देवनशीलेन सवित्रा सर्वस्य प्रेरकेण दिवि वर्तमानेन सूर्येण सङ्गत समगच्छत । तस्मात् सन् देवो देवेन इति मन्त्रवाक्यं सङ्गतमित्यर्थः । अध्यात्मपक्षे हे ज्ञानयज्ञ! यस्त्वं गर्भो ग्रहीता सर्वेषाम्, सर्वोपसंहारकत्वात् । मतीनां तत्त्वबुद्धीनां पिता जनकः, ज्ञानयज्ञेनैव ब्रह्मबुद्धयुत्पत्तेः । यः प्रजानां पतिः पालकः, शोकमोहनिवारकत्वेन स्वास्थ्यप्रदत्वात् । देवोऽज्ञानादिविजिगीषया द्योतमानः, देवेन द्योतमानेन सवित्रा परमात्मना संगत सङ्गच्छते सं सूर्येण स्वप्रकाशेन ब्रह्मणा विषयेण रोचते, तं त्वां वयं स्तुम इति शेषः । दयानन्दस्तु - ' हे मनुष्याः! यो देवानां गर्भो मतीनां पिता प्रजानां पतिः परमात्मा सवित्रा देवेन सूर्येण सह संरोचते, तं यूयं सङ्गत ' इति, तदपि न, मतीनामित्यस्य मननशीलानां मेधाविनामित्यर्थताया निर्मूलत्वात् ॥ १४ ॥
समग्निरग्निनोगत सं देवेन सवित्रा स सूर्यारोचिष्ट ।
स्वाहा सम॒ग्निस्तप॑सा गत॒ सं दैव्ये॑न सवि॒त्रा सधैं सूर्येणारूरुचत ॥ १५ ॥
मन्त्रार्थ - धर्म अग्नि के साथ संयुक्त होता है, सविता देवता के साथ संयुक्त होता है, सूर्य के साथ प्रकाशित होता है | स्वाहा सहित धर्म सूर्य के तेज के साथ संयुक्त होता है, सविता देवता के साथ संयुक्त होता है और सूर्य के साथ एकत्व की प्राप्त कर सबको प्रकाशित करता है ॥ १५ ॥
ब्राह्मी अनुष्टुप् । यश्चाग्निर्धर्मोऽग्निना सह सङ्गत सङ्गच्छते एकीभवति । दैवेन देव एव दैव:, ' प्रज्ञा-दिभ्यश्च ' ( पा ० सू ० ५ | ४ | ३८ ) इति प्रज्ञादेराकृतिगणत्वादन् । तेन सवित्रा देवेन सह सङ्गच्छते । यश्च सूर्येण सह समरोचिष्ट संरोचते सूर्येण सह स्पर्धमानः सूर्येण दीप्यते, तं वयं स्तुम इति शेषः । स्वाहा अग्निः स्वाहासहितोऽग्निर्धर्मंस्तपसा सूर्यतेजसा सङ्गत सङ्गच्छते, दैव्येन देवेन सवित्रा च सङ्गच्छते । सूर्येण समरूरुचत सर्वं सम्यग् रोचयति प्रकाशयति, रोचतेणिजन्ताल्लुङ्, तं स्तुम इति शेषः । ' अवर स्वाहाकारं करोति परां देवतामसावेव बन्धुः ' ( १४ | १ | ४ | ६ ) इति हि श्रुतिः । स्वाहाशब्दप्रतिपाद्यं स्मर्तुमसावेव खलु देवता बन्धुश्छिन्नस्य यज्ञशिरसो बन्धनहेतुः । तथा दैव्येन देवतासम्बन्धिना सवित्रा प्रेरकेण सूर्येण दिवि प्रकाशमानेन सार्धमयं तप्तो घर्मो ज्वालाद्वारेण समरूरुचत सम्यगदीप्यत । तस्मात् ' स सूर्येणारूरुचत ' इति मन्त्रभागः समवेतार्थः । अध्यात्मपक्षे - योऽग्निर्ज्ञानाग्निरूपो ज्ञानयज्ञोऽग्निना सङ्गत सङ्गच्छते एकीभवति, देवेन सवित्रा सङ्गच्छते कर्माज्ञानादिनाशकतया अग्निना एकीभवति, तत्त्वप्रकाशकत्वेन सवित्रा सूर्येण ऐक्यं गच्छति । स्वाहा सर्वस्वात्मसमर्पणरूपेण युक्तो ज्ञानाग्निस्तत्त्वप्रकाशकत्वेन रूपेण सूर्येण ऐक्यमुपगच्छति, सूर्येण तपसा समरूरुचत सम्यगदीप्यतेति तं स्तुमः । दयानन्दस्तु – ' हे मनुष्याः! योऽग्निना अग्निर्देवेन सवित्रा सूर्येण सह समरोचिष्ट, तं परमात्मानं यूयं स्वाहा सत्यक्रिया संगत । योऽग्निर्देव्येन सवित्रा सूर्येण तपसा समरूरुचत तं यूयं संगत विजानीत ' इति, तदपि
पृष्ठ 562
पाठ पढ़ें पाठ छिपाएँ
म ० १५-१७ ] वेदार्थ पारिजातभाष्यसहिता १७ ९ यत्किचित्, विशृङ्खलत्वात्, मुख्यार्थत्यागाद् गौणार्थस्वीकाराच्च, सम्बोधनस्य निर्मूलत्वाच्च, सूर्ये प्रेरकत्वा-सम्प्रतिपत्तेश्च ॥ १५ ॥
ध॒र्ता दि॒वो वि भा॑ति॒ तप॑सस्पृथि॒व्या॑ धर्ता दे॒वो दे॒वाना॒म॑र्त्यस्तपोजाः ।
निय॑च्छ देवा॒युव॑म् ॥ १६ ॥
मन्त्रार्थ -- स्वर्गलोक के तथा रश्मिजाल के धारक. सभी देवताओं के धारक अजर - अमर महानारायण की ज्योति से उत्पन्न सूर्यदेव ब्रह्माण्ड को प्रकाशित करते हैं । हे सूर्यदेव! आप हमें देवताओं को प्राप्त कराने वाली वाणी दीजिये ॥ १६ ॥
ऊर्ध्व बृहती । यत्र जगत्यास्त्रयः पादास्तदूर्ध्व बृहतीशब्देनाख्यायते । अत्र आद्यौ त्रयोदशाण, तृतीय एकादशार्णः । तेन एकाधिका ऊर्ध्व बृहती ज्ञातव्या । घर्मस्तुतिः । योऽयं दिवो द्युलोकस्य धर्ता धारयिता, तपसो रश्मिजालस्य च धर्ता, देवानां स्वव्यतिरिक्तानामिन्द्रादीनां च धर्ता, सूर्यगत्यधीनत्वाद् हविर्दानस्य सूर्यस्य हविर्भुजा धारकत्वम् । यचामर्त्यो मनुष्यधर्मरहितोऽजरामरः । तपोजाः, तप आदित्यस्तस्माज्जातः सूर्योत्पन्नः, तपसस्तप्यमानाद् ब्रह्मणो वा जातस्तपोजाः । यच देवः पृथिव्यां विभाति प्रवर्ग्यरूपेण शोभते स देवो धर्मः, अस्मे अस्मासु वाचं नियच्छ नियच्छतु निगृह्णातु । पुरुषव्यत्ययः । कीदृशीं वाचम्? देवायुवम्, या देवान् यति मिश्रयत्यागमयति सा देवायुः, संहितायां छान्दसो दीर्घः, ताम् । क्विपि ' ह्रस्वस्य पित कृति तुक ' ( पा ० सू ० ६।१।७१ ) इति प्राप्तस्तुगभाव आर्षः । अत्र वागिति यज्ञो गृह्यते, स्तोत्रशस्त्रादिरूपया वाचा निर्वर्त्यत्वात् । तथा च ब्राह्मणम् – ' यज्ञो वै वाग् यज्ञमस्मभ्यं प्रयच्छ येन देवान् प्रीणामेत्येवैतदाह ' ( श ० १४ | १ | ४ | ८ ) इति वाचं यज्ञम् अस्मे अस्मभ्यम्, ' सुपां सुलुक् ' ( पा ० सू ० ७ ११३ ९ ) इति विभक्तेः शे, हे धर्म! देहि येन देवान् प्रीणाम तर्पयामेत्यमुमेवार्थमेतन्मन्त्रवाक्यं प्रतिपादयतीति निर्गलितोऽर्थः । तथा च देवानाह्वयन्तं यज्ञं समापयतु । अध्यात्मपक्षे - स ज्ञानयज्ञो दिवः प्रकाशरूपस्य ज्ञानस्य धारकः, तपसः, आलोचनात्मकस्य सन्तापार्थस्य तपोरालोचने वृत्तिः, धारकः । यश्च देवानां धर्ता, यश्च पृथिव्यां विभाति, यश्चामर्त्यः, सो अस्मे अस्मासु देवायुवं वाचं देवतानामाह्वानकत्र वाचं नियच्छ नियच्छतु ब्रह्मात्मपर्यवसायिनीं करोतु । दयानन्दस्तु - ' हे विद्वन् यः पृथिव्यां तपसो दिवे धर्ता यस्तपोजा अमर्त्यो देवो देवानां धर्ता जगदीश्वरो विभाति, तद्विज्ञानेनास्मे देवायुवं वाचं नियच्छ देहि ' इति, तदपि यत्किञ्चित् सम्बोधनादेर्निर्मूलत्वात् दिवः सूर्यादेरित्यस्य च निर्मूलत्वात् । न च त्वद्रीत्या तपसापि परमेश्वरो जायते, तस्याजायमानत्वात् । न च तपसा तस्य प्राकट्यमेवेति, प्राकट्यस्याप्यनिरूपणात् ॥ १६ ॥
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थभि॒श्चर॑न्तम् ।
स स॒ध्रीचीः स विष॑च॒र्वसा॑न॒ आ व॑रोवा॑त॒ भुव॑नेष्व॒न्तः ॥ १७ ॥
मन्त्रार्थ दिशा और किरणों को धारण करता हुआ सूर्य भुवनों के मध्य में बार बार घूमता है । अन्तरिक्ष में घूमते हुए कभी नीचे न गिरने वाले, देवमार्ग से आने और जाने वाले उस रश्मिपालक सूर्य को मैं देखता हूँ ॥ १७ ॥
पृष्ठ 563
पाठ पढ़ें पाठ छिपाएँ
१८० शुक्लयजुर्वेदसंहिता [ अ ० ३७ त्रिष्टुप्, दीर्घतमोदृष्टा । आदित्यात्मना धर्मस्तुतिः । स घर्मो भुवनेषु त्रिलोकेषु, अन्तर्मध्ये व्यवस्थितः, आवरीवर्ति पुनः पुनरावर्तते । वृतेर्यङ्लुकि रूपम् । स कीदृश:? सध्रीचीः, सह अञ्चन्तीति सध्रीच्यः, ' सहस्य ( पा ० सू ० ६।३।२५ ) इति सधिरादेशः । सहगमना दिशो रश्मयो वा ता वसान आच्छादयन् । सध्रिः वस्ते ' इति वसानः, ' वस् आच्छादने ' आदादिकः 1 तस्मात् शानच् । विषूचीः, विषुनिपातो नानार्थः, विषु नाना अञ्चन्तीति विषूच्यस्ताः । नानागमना दिशो रश्मीन् वा वसानः, विषूपपदादञ्चतेः ' ऋत्विग्दधृक् ' ( पा ० सू ० ३।२।५ ९ ) इत्यादिना क्विनि सर्वापहारिलोपे, ' अनिदिताम् ' ( पा ० सू ० ६ | ४ | २४ ) इति नकारलोपे, ' उगितश्च ' ( पा ० सू ० ४। १ ६ ) इति ङीपि, ' अचः ' ( पा ० सू ० ६ । ४ । १३८ ) इत्यकारलोपे, ' चौ ' ( पा ० सू ० ६।३।१३८ ) इति दीर्घे ' विषूची ' इति रूपम् । एकः सशब्दः पादपूरणार्थः । स कः यमादित्यरूपमहमपश्यं पश्यामि । कीदृशम्?, गोपाम्, गोपायतीति गोपा गोप्ता, तम् । क्विपि यकारलोपः । अनिपद्यमानम्, न निपद्यत इत्यनि-पद्यमानः, तम् अनालम्बनमन्तरिक्षे गच्छन्तमपि नाधः पतन्तम् । च पुनः पथिभिर्देवमार्गेराचरन्तमागच्छन्तम्, पराचरन्तं परागच्छन्तम्, गमनागमने कुर्वन्तम् । तथा च ब्राह्मणम् – ' एष वै गोपा य एष तपत्येष हीद, सर्व गोपायत्यथो न निपद्यते तस्मादाहाऽपश्यं गोपामनिपद्यमानमिति ' ( श ० १४ | १ | ४ | ९ ) । ' आ च परा च पथिभिश्चरन्तमिति । आ च ह्येष परा च देवैः पथिभिचरति स सध्रीचीः स विषूचीर्वसान इति सध्रीचीच ह्येष विषूचीश्च दिशो वस्तेऽथो रश्मीनावरीवर्ति भुवनेष्वन्तरिति पुनः पुनर्दोष एषु लोकेषु वरीवर्त्यमानश्चरति ' ( श ० १४ । १ । ४ । १० ) । एष सूर्यो देवानां मध्ये गोपा गोपायिता, हि यस्मात् एष सर्वमिदं जगत् प्रकर्षेण प्रकाशादिना रक्षति, अथो अपि च, न निपद्यते न पतति, किन्तुच्चैः सर्वदा दिवि वर्तते । तस्मादनिपद्यमानं गोपां सूर्यमपश्यमिति कृतसाक्षात्कार ऋषिराह । यद्वा प्रव स्तोतुमध्वर्युराह । एष हि सूर्यो देवसम्बन्धिभिः पथिभिर्मार्गेर्मध्याह्नात् पूर्वमाचरति आभिमुख्येन गच्छति । ततः परस्तात् पराचरति पराङ्मुखः सन् चरति । अपि च, सध्रीचीः सहाञ्चती, विषूचीविष्वगञ्च तीः, सर्वा दिशः प्राच्याद्याः, एष सूर्यः स्वतेजसा वस्ते आच्छादयति । अथो अपि च, रश्मीन् स्वकिरणान् वस्ते सर्वत्र प्रसारयति । तस्मादेष मन्त्रः सूर्ये सङ्गतः, तदात्मकत्वाच्च प्रवर्ग्यं सङ्गतः । एष खलु सूर्यः, एषु लोकेषु पृथिव्यादिषु वरीवर्त्यमानोऽत्यन्तं वर्तमानः पुनः पुनश्चरतीति ब्राह्मणार्थः । अध्यात्मपक्षे अहं गोपां सूर्यं सूर्यमण्डलान्तर्गतं परमेश्वरं हिरण्यश्मश्रं हिरण्यकेशमाप्रणखाग्रात् सर्वं हिरण्यमयं पुरुषमपश्यम् । कीदृशम्? अनिपद्यमानमप्रच्युतस्वभावम् । शेषं पूर्ववद् व्याख्येयम् । ---दयानन्दस्तु - - ' हे मनुष्याः, अहं यं पथिभिराचरन्तं पराचरन्तमनिपद्यमानं गोपां जगदीश्वरमपश्यम्, स च सध्रीचीः स च विषूचीर्वसानः सन् भुवनेष्वन्तरा वरीवर्ति, तं यूयमपि पश्यत ' इति, तदपि यत्किञ्चित्, नीरूपस्य परमेश्वरस्य दर्शनक्रियाऽविषयत्वात् । न च चाक्षुषदर्शनाभावेऽपि मानसदर्शने न काप्यनुपपत्तिरिति वाच्यम्, परात्मदर्शने मनसोऽस्वातन्त्र्यात् । न च तस्य सर्वथाप्याचरणं पराचरणं वा सम्भवति, परिच्छिन्नस्यैव तथात्वोपपत्तेः । न चाच्छादकत्वमपि सम्भवति, तथात्वे आच्छादितस्यादर्शनापत्तेः, आच्छादकस्य दर्शनापत्तेश्च । न चेष्टापत्तिः, विपरीतस्यैवोपलम्भात् ॥ १७ ॥
विश्वा॑सां भुवां पते॒ विश्व॑स्य॒ मन॒सस्पते॒ विश्व॑स्य॒ वचसस्पते॒ सर्वे॑स्य॒ वचसस्पते । दे॒व॒श्रुत् त्वं दे॑व धर्म दे॒वो दे॒वान् ह्यत्र॒ प्रावी॒रनु॑ वा॑ दे॒ववी॑तये । मधु माध्वी॑भ्या॒ मध माधूंचीभ्याम् ॥ १८ ॥ E
पृष्ठ 564
पाठ पढ़ें पाठ छिपाएँ
म ० १८-१९ ] वेदार्थपारिजातभाष्यसहिता १८१ मन्त्रार्थ- - सब भुवनों के स्वामी, समष्टि मन के अधिपति, विश्वसम्बन्धी वाणी के रक्षक, ब्रह्मरूप महावाक् के स्वामी, देवताओं में प्रसिद्ध, दीप्यमान हे घर्मं देवता! तुम देवताओं की रक्षा करो । इस यज्ञ में देवताओं को विशेष आग्रह पूर्वक लाने के लिये अश्विदेवताओं को तृप्त करो । हे अश्विदेवों! आपके लिये यह मधु समर्पित है, यह मधु आपको समर्पित है, क्योंकि आप मधुब्राह्मण की प्रशंसा करने वाले हैं ॥ १८ ॥
अत्यष्टिः । हे विश्वासां सर्वासां भुवां पृथिवीनां पते पालक प्रवर्ग्य! हे विश्वस्य मनसस्पते! सर्वप्राण्या-श्रस्य मनसः पते! विश्वस्य वचसः सर्वस्य त्रयीलक्षणस्य वचसः पते प्रवर्तक! सर्वस्य वा लौकिकस्य वचसः प्रवर्तक! हे देवश्रुत्, देवेषु श्रूयत इति देवश्रुत्, तत्सम्बुद्धौ देवप्रसिद्ध! हे देव दीप्यमान, हे धर्मं प्रवर्ग्य! त्वं देवः सन् देवान् पाहि रक्ष । एवं धर्मं सम्प्रार्थ्य अश्विनावाह - हे अश्विनौ! अत्र यज्ञेऽस्मिन्नवसरे वा देववीतये देवतर्पणाय अनु अनन्तरं धर्मोऽयं प्रवर्ग्यो वां प्रावीः प्रावतु तर्पयतु | लोडर्थे लुङ्, पुरुषव्यत्ययश्च । युवयोस्तृप्त्यैव सर्वदेवानां तर्पणोपपत्तिः । यद्वा - अनु देववीतये ततोऽनन्तरं देवतर्पणाय वां युवां नमस्करोत्विति वाक्यशेषः । याभ्यां युवाभ्यां दध्यङ्ङाथर्वणो महर्षिर्मधुसंज्ञकं ब्राह्मणमुवाच । तथा च ब्राह्मणम् -'दध्यङ् ह वा अभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच ' ( श ० १४ । २ । ४ । १३ ) इति । कीदृशाभ्यां युवाभ्याम्? माध्वीभ्यां मधुब्राह्मणमीयते इति माध्व्यौ, ताभ्याम् ' ई गतौ ' इत्यस्य क्विपि रूपम् । तथा माधूचीभ्यां मधुब्राह्मणमञ्चतः पूजयत इति मध्ववी, ताभ्यां माधूचीभ्यामिति । अत्र मध्वभ्यामिति प्राप्ते छान्दसो ङीप्, अलोप आदिदीर्घो लिङ्गव्यत्ययश्च । ' अत्र प्रावीरनु वां देववीतय इति । अश्विनावेवैतदाहाश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत् प्रीणाति ' ( श ० १४ | १ | ४ | १२ ) । अश्विनौ किल पुरा यज्ञस्य प्रवर्म्याख्यं शिरः प्रत्यधत्तां प्रतिहितवन्तौ छिन्नस्य पुनः सन्धानं कृतवन्तौ । एतत्प्रतिपादकं ब्राह्मणमत्रैवोद्धृतम् । अध्यात्मपक्षे - हे विश्वासां सर्वासां भुवां भूमीनां पते परमेश्वर! हे विश्वस्य सर्वस्य प्राण्याश्रयस्य मनसस्पते पालक! विश्वस्य वचसस्त्रयीलक्षणस्य पते! तथा सर्वस्य वचसो लौकिकस्य पते! हे देवेषु विश्रुत! हे घर्मं प्रवर्ग्य! यज्ञशिरः यज्ञाराध्य! त्वं देवः स्वयंप्रकाशः सन् अविद्याविजिगीषून पाहि ब्रह्मात्मज्ञानप्रदानेन रक्ष | हे अश्विनौ, अत्र यज्ञे देववीयते देवानां तर्पणाय, अनु अनन्तरमेव, घर्मो ज्ञानयज्ञः, वां प्रावीस्तर्पयतु, युवयोस्तृप्त्या सर्वेषां तर्पणात् । याभ्यां युवाभ्यां दध्यङ्ङाथर्वणो मधुसंज्ञकं ब्राह्मणमुवाच । अन्यत् पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे विश्वासां भुवां पते धर्मप्रदीपक देव जगदीश्वर देवश्रुद् देव! त्वमत्र देवान् पाहि । माध्वीभ्यां सह मधु प्रावीः । माधूचीभ्यां देववीतये देवाननु पाहि । हे अध्यापकोपदेशकौ! वां युवाभ्यामहमिद-मुपदिशेयम् ' इति, तदपि यत्किञ्चित् उपदिशेयमित्याद्यंशस्य मन्त्रबाह्यत्वात् मधु मधुरादियुक्तं घर्म माध्वीभ्यां विद्यासुशिक्षाभ्यामित्यस्य निर्मूलत्वात् । शतपथश्रुतिविरोधोऽत्र सुस्पष्ट एव । अन्यत्तु महीधराद्यनुसरणमेव ॥१८ ॥
हृदे त्वा॒ मन॑से त्वा दिवे त्वा सूर्याय त्वा । ऊर्ध्वो अ॑ध्व॒रं दिवि दे॒वेषु॑ धेहि ॥ १ ९ ॥ मन्त्रार्थ -- हे देव! मैं अपने हृदय की स्वस्थता के लिये आपकी स्तुति करता हूँ, मन की शुद्धि के लिये आपकी स्तुति करता हूँ, स्वर्ग की प्राप्ति के निमित्त आपकी स्तुति करता हूँ, सूर्य की तृप्ति के निमित्त आपकी स्तुति करता हूँ । आप सावधान होकर इस यज्ञ में आहूत देवताओं को यथास्थान स्थापित करें ॥ १ ९ ॥
पृष्ठ 565
पाठ पढ़ें पाठ छिपाएँ
१८२ शुक्लयजुर्वेद संहिता [ अ ० ३७ परोष्णिक् । आद्यावष्टाणौ तृतीयो द्वादशार्णः सा परोष्णिक्, ' परोष्णिक् परः ' ( छन्दःशास्त्रम्, ३।२१ ) इत्युक्तेः । आद्ययोः पादयोर्व्यूहेनाष्टाक्षरः पादः कार्यः । हे प्रवर्ग्य! हृदे हृदयस्वास्थ्याय त्वा त्वाम्, स्तुम इति शेषः । मनसे मनःशुद्धयर्थं त्वा त्वां स्तुमः । दिवे स्वर्गप्राप्त्यै त्वा त्वां स्तुमः । सूर्याय सूर्यतृप्त्यै त्वा त्वां स्तुमः । हृदय-स्वास्थ्यं विधाय मनः संशोध्य दिवमस्मान्नीत्वा सूर्यं तर्पय । किञ्च ऊर्ध्वः सावधानः सन् अध्वरमस्मदीयं यज्ञं दिवि द्युलोके वर्तमानेषु देवेषु धेहि । यज्ञे दिवं गते यजमानोऽपि तत्र गच्छत्येवेति भावः । यद्वा द्युलोके देवेषु, ऊर्ध्व उत्कृष्टः सन्, अस्मदीयमध्वरं धेहि स्थापयेति । अध्यात्मपक्षे - हे घर्मं प्रदीप्यमान ज्ञानयज्ञ! हृदयाद्यर्थं त्वां स्तुमः । शेषं पूर्ववत् । दयानन्दस्तु - ' हे जगदीश्वर! यं हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय ध्यायेम, स ऊर्ध्वस्त्वं दिवि देवेष्वध्वरं धेहि ' इति, तदपि यत्किञ्चित् ईश्वरस्य प्रचारकत्वादर्शनात् देवेषु विद्वत्सु विद्वत्त्वादेव प्रचारनैरर्थक्याच्च ॥ १ ९ ॥ पि॒ता नौऽसि पि॒ता नौ बोधि॒ नम॑स्ते अस्त॒ मा मो हिंसीः । त्वष्टा॒मन्तस्त्वा सपेम पु॒त्रान् प॒शून् मधि॑ धेहि प्र॒जाम॒स्मासु॑ वे॒ह्यरि॑ष्टा॒ऽधि॑ स॒ह प्र॑त्या भूयासम् ॥ २० ॥
मन्त्रार्थ - हे महावीर! आप हमारे पिता हो, पिता के समान हमें ज्ञान का उपदेश दो । हम आपको प्रणाम करते हैं | आप हमें कोई हानि मत पहुँचाओ । यजमान - पत्नी कहती है कि हे धर्म! त्वष्टा देवता के आधिपत्य में स्थित हम आपका स्पर्श करते हैं । हमें आप पुत्र, पौत्र, पशु आदि से समृद्ध बनाओ । हमारी प्रजा की वृद्धि करो । मैं अपने पति के साथ निर्विघ्न जीवन यापन करूँ ॥ २० ॥
ऋग्गायत्री । हे महावीर! त्वं नोऽस्माकं पितासि पालको भवसि । स पितेव नोऽस्मान् बोधि बोधय । नमस्ते ते तुभ्यं नमोऽस्तु । मा मां हिंसीर्मा जहि । महावीरोपस्थानं समाप्तम्, अवकाशमन्त्राश्चावसिताः । ' त्वष्टृमन्त इत्येनां वाचयति महावीरमीक्षमाणाम् ' ( का ० श्रौ ० २६ । ४ । १३ ) । महावीरमीक्षमाणामपनीतशिरो-वस्त्रां घर्मं पश्यन्तीं पत्नीमध्वर्युर्वाचयतीति सूत्रार्थः । त्रिष्टुप् घर्मदेवत्या, पत्न्याशीः । हे धर्म! वयं त्वा त्वां सपेम, ‘ सपतेः स्पृशतिकर्मण: ' ( नि ० ५। १६ ) इति यास्कः । मैथुनाय त्वामुपस्पृशामः । यतो वयं त्वष्टृमन्तः । त्वष्टा हि चेतसां विकर्ता । त्वष्टा विद्यते येषां ते तथोक्ताः । त्वष्टृयुक्ता वयं त्वामुपस्पृशामः । अतो मय्यस्मासु पुत्रान् पशूंश्च धेहि स्थापय । प्रजामुत्तरोत्तरं वंशवृद्धिमस्मासु धेहि । किन पत्या भर्त्रा सहारिष्टाऽनुपहसिता अहं भूयासम् । भर्तृमती चिरं जीवेयमित्यर्थः । अत्र ब्राह्मणम् - – ' अथ पत्न्यै शिरोऽपावृत्य | महावीरमीक्षमाणां वाचयति त्वष्टृमन्तस्त्वा सपेमेति वृषा वै प्रवर्ग्यो योषा पत्नी मिथुनमेवैतत् प्रजननं क्रियते ' ( ० १४ | १ | ४ | १६ ) इति । वृषा वर्षणसमर्थः प्रवर्ग्यः, पत्नी योषा स्त्री । तथा चैतदेतेन मिथुनेन प्रजोत्पत्तिसाधनेन, एनं प्रवग्यं समर्धयति । ततो यज्ञमपि कृत्स्नं करोति । अध्यात्मपक्षे - हे घर्म! ज्ञानयज्ञाधिष्ठातः परमेश्वर! त्वं नः पितासि, अज्ञानमयसंसारात् पालकत्वात् । तेन पितेव नोऽस्मान् बोधि बोधय । ते तुभ्यं नमोऽस्तु । मा मां हिंसी ब्रह्मात्मज्ञानान्मा प्रच्यावय । पत्न्यो बुद्धयो वा प्रार्थयन्ते - हे धर्म! त्वष्टृमन्तो वयम् त्वष्टा चेतसां विकर्ता तद्वन्तो वयम् त्वां सपेम स्पृशामः । तेन मयि पुत्रान् पशून् मयि वेहि । अस्मासु प्रजामुत्तरोत्तरं वंशवृद्धि धेहि । अरिष्टाऽहं सह पत्या भूयासम् ।
पृष्ठ 566
पाठ पढ़ें पाठ छिपाएँ
म ० २०-२१ ] वेदार्थपारिजातभाष्यसहिता १८३ । दयानन्दस्तु — ' हे जगदीश्वर! त्वं नः पितासि, पिता सन्नो बोधि, ते नमोऽस्तु, मां मा हिंसीः त्वष्टृमन्तो वयं त्वां सपेम । त्वं पुत्रान् पशून् मयि धेहि । अस्मासु प्रजां धेहि । यतोऽहमरिष्टा सती सह , भावार्थे पत्या भूयासम् ' इति, तदपि न, जगदीश्वरेण सम्बन्धानिरूपणात् । अन्वये - ' अहमरिष्टा सह पत्या ' इत्युक्तम् । सोऽपि तु हे स्त्रियः, यूयं परमात्मन एवोपासनां नित्यं कुरुत ' इति, तदपि परस्परं विरुद्धमेव, श्रुतिविरोधच सिद्धान्त व्याख्यानेन स्पष्ट एव ॥ २० ॥
अहः केतुना जुषताएं सु॒ज्योति॒ज्र्ज्योति॑षा॒ स्वाहा॑ । रात्रिः केतुनो जुषताएं सज्योति॒ज्र्ज्योति॑षा॒ ॥ इति सप्तत्रिंशोऽध्यायः ॥ स्वाहा॑ ॥ २१ ॥
मन्त्रार्थ - दिन कर्म के साथ तृप्त हो, अर्थात् मनुष्य निरन्तर क्रियाशील बना रहे । अच्छी ज्योति अपने तेज के साथ तृप्त हो । हमारी दी हुई यह आहुति भली प्रकार गृहीत हो । पितृयान मार्ग अथवा रात्रि कर्म के साथ तृप्त हो, अच्छी ज्योति अपने तेज साथ तृप्त हो, हमारी दी हुई यह आहुति भली प्रकार गृहीत हो ॥ २१ ॥
' अहः केतुनेति दक्षिण, रोहिणं जुहोति ' ( का ० श्र ० २६ | ४ | १४ ) । उपस्थानगानयोः सामानुष्टुभौ समाप्तौ । रोहिणहवन्यास्रुचा दक्षिणं रौहिणं पुरोडाशं सर्वहुतं जुहोतीति सूत्रार्थः । घर्मदेवत्ये यजुषी ज्योतिषा स्वकीयेनैव केतुना प्रज्ञया कर्मणा वा सहितमहर्दिनं जुषतां रौहिणहोमेन प्रीयताम् । कीदृशमहः? तेजसा सुज्योतिः सुष्ठु शोभनं ज्योतिः प्रकाशो यस्य तत् शोभनतेजस्कम् । स्वाहा एतद्धविः रात्रिरिति सुहुतमस्तु सायम् ' । रोहत्यारोहति स्वर्गं यजमानो याभ्यां तौ रोहिणी, अग्न्यादित्यो अहोरात्रे वा । ' । ( का ० श्र ० २६ | ४ | १४ ) । अपराह्णकालीने प्रवर्ग्यचरणे रात्रिः केतुनेति द्वावपि रौहिणौ यथाकालं जुहुयात् सूत्रार्थः । स्वाहा रुद्राय इत्येतत्कर्मणोऽनन्तरं चायं होमः । तत्रापि रात्रिरिति मन्त्रस्य पुनः शोभनज्योतिष्का पाठोऽस्तीति । केतुना प्रज्ञया कर्मणा वा सहिता रात्रिः, जुषतां प्रीयताम् । ज्योतिषा कृत्वा सुज्योतिः अत्र ब्राह्मणम् --- ' अथातो रौहिणौ जुहोति । अहः केतुना जुषता सुज्योतिर्ज्योतिषा ' ( श ०१४ स्वाहेत्युभावेतेन | २ | १।१ ) । यजुषा प्राता रात्रिः केतुना जुषता सुज्योतिर्ज्योतिषा स्वाहेत्युभावेतेन यजुषा तदासेचनोत्तरकालं सायम् च होतव्ययोः आज्यपूर्णे महावीरे गवाजयोः पयसोरासेचनविधित्सया तयोर्दोहनात् पूर्वं यत एतौ रौहिणहोमो प्रवर्ग्यस्य रौहिणपुरोडाशयोर्होमं विधत्ते - अथातौ रौहिणौ जुहोतीति । पत्नीवाचनानन्तरं रौहिणौ जुहोति । तत्र प्रातःकालीने आज्यभागवच्चक्षुष्ट्वेन वक्ष्यमाणप्रकारेण संस्तुतो, अतः प्रवृञ्जनात् पूर्वं यजुषा उभौ रौहिणौ जुहोति । प्रवर्ग्यो ' अहः केतुना ' इत्येतेन यजुषा, सायंकालीने प्रवर्ग्यो ' रात्रिः केतुना ' इति रोहन्ति ' ( श ० १४।२।१।२ ) । ' अग्निश्च ह वा आदित्यश्च रौहिणावेताभ्या हि देवताभ्यां यजमानाः स्वर्गं लोक पुरोडाशावेता अग्न्यादित्यात्मना स्तौति - एताभ्यां हीति । सायंप्रातः कालीनाग्निहोत्रदेवताभ्यामग्निहोत्रानुष्ठायिनो रौहिणी । अतस्तदात्मक-यजमानास्तत्फलभूतं स्वर्गं लोकमारोहन्ति । तस्माद् रोहणसाधनत्वादग्न्यादित्यावेव तदादित्यमहोरात्राभ्यां परिगृह्णाति रौहिणहोमाद् यजमानोऽपि स्वर्गं लोकं प्राप्नोतीत्यर्थः । ' आदित्यः प्रवर्ग्योऽमुं लोकौ रोहिणी । आदित्यः प्रवर्ग्योऽमुं तस्मादेषोऽहोरात्राभ्यां परिगृहीतः ' ( श ० १४ । २ । १ । ३ ) | ' अथो इमौ वै वै रौहिणौ । शिरः प्रवर्ग्यः तदादित्यमाभ्यां लोकाभ्यां परिगृह्णाति ' ( श ० १४ | २ | १ | ४ ) | ' अथो चक्षुषी । तस्य शिरः प्रवर्ग्यः, शीर्षंस्तचक्षुर्दधाति ' ( श ० १४ । २ १ १५ ) । एतौ रौहिणपुरोडाशौ यज्ञस्य चक्षुः स्थानीयौ तत्तथा शीर्षन् शिरसि चक्षुर्दधाति धारितवान् भवतीति ।
पृष्ठ 567
पाठ पढ़ें पाठ छिपाएँ
१८४ शुक्ल यजुर्वेदसंहिता [ अं ० ३७ अध्यात्मपक्षे - केतुना प्रज्ञया सहितं सनाथितमहदिनं जुषतां प्रीयताम् । कीदृशमहः? ज्योतिषा स्वकीयेन तेजसा सुज्योतिः शोभनेन ज्ञानात्मकेन ज्योतिषा सुज्योतिर्विशिष्टतेजस्कम् । स्वाहा तादृशेन ज्ञानयज्ञेन स्वाहा सर्वमिदं ब्रह्मणि सुहुतमस्तु | केतुना ब्रह्मात्मज्ञानात्मकेन केतुना सहिता रात्रिर्जुषताम् । कीदृशी रात्रिः? ज्योतिषा ज्ञानात्मकेन ज्योतिषा शोभनज्योतिष्का । स्वाहा सर्वमिदं ब्रह्मणि सुहुतमस्तु । दयानन्दस्तु - ' हे विद्वन् वा विदुषि स्त्रि वा! भवती स्वाहा । केतुना ज्योतिषा चाहः सुज्योतिर्जुषतां स्वाहा केतुना ज्योतिषा सह सुज्योती रात्रिरस्मान् जुषताम् ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात् । स्वाहा सत्क्रिययेत्यपि निर्मूलम् | केतुना जागरूकेण ज्ञानेन जागृतावस्थयेत्यपि निर्मूलमेव । स्वाहा सत्यया वाचेत्यपि निर्मूलम्, पूर्वोक्तव्याख्यानोद्धृतश्रुतिविरोधाच्च । रौहिणहोमशेषत्वात् तदनुगुणमेव व्याख्यानं युक्तंम् ॥ २१ ॥
इति श्रीशुक्ल यजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां सप्तत्रिंशोऽध्यायः ॥
पृष्ठ 568
पाठ पढ़ें पाठ छिपाएँ
अष्टात्रिंशोऽध्यायः दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ व॒देऽहि॑त्यै॒ रास्म | ऽसि ॥ १ ॥
मन्त्रार्थ हे रज्जु के अधिष्ठात्री देव! सविता देवता की पूषा देवता के हाथों से तुम्हें ग्रहण करता हूँ । तुम अदिति रूप गौ की आज्ञा में वर्तमान मैं अश्विनीकुमारों की भुजाओं से, मेखला हो ॥ १ ॥
' देवस्य त्वेति रज्जुसन्दानमादायेड एहीति गामाह्वयति नाम्ना च त्रिरुच्चैरपरेण गार्हपत्यं गच्छन् ' ( का ० श्र ० २६।५।१ ) । घर्मदुधा गोर्बन्धनार्था पाशवती रज्जुः । अध्वर्युर्देवस्य त्वेति मन्त्रेण तस्या एव पश्चात्पाद नियोजनार्थं सन्दानमादाय गार्हपत्यस्य पश्चाद् गच्छति । ' इड एहि ' इत्यादिवाक्यत्रयेण धर्मदुघां गामाह्वयति । ततो गोर्नाम्ना च उच्चैस्त्रिवारमाह्वयति । नाम चात्र व्यावहारिकम् । रज्जुदेवत्यं यजुः । प्राजापत्या गायत्री । हे रज्जो! सवितुर्देवस्य प्रसवे आज्ञायां वर्तमानोऽहमश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे । यतस्त्वमदित्यै अदित्या देवमातुः, रास्ना रसना मेखला, असि । अध्यात्मपक्षे – हे प्रेमरज्जो! त्वां सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे । त्वं च अदित्याः श्रीत्रिपुरसुन्दर्याः, रास्नासि मेखलासि, अलङ्कारभूतत्वात् । दयानन्दस्तु -- हे ' विदुषि! यस्त्वमदित्यै रास्नासि तस्मात् सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे ' इति, तदपि न, सम्बोधनस्यैव निर्मूलत्वात्, स्त्रीग्रहणस्य लौकिकत्वेन तत्र मन्त्रविनियोगा-भावेन च मन्त्रवैयर्थ्यात् । किञ्च, आदित्यो देवताऽस्य मन्त्रस्योक्ता । न चात्र तस्याः प्राधान्यम् । सिद्धान्ते तु शतपथब्राह्मणाधारेण रज्ज्वाः सम्बोधनम् । अदितिपदस्य नाशरहिता नीतिरपि नार्थः, निर्मूलत्वात् । गौणार्था-श्रयणाच्चासङ्गतमिदं व्याख्यानम् । श्रुतौ तु - ' अथ रज्जुमादत्ते । देवस्य त्वा ' ( श ० १४ | २ | १ | ६ ) इति गोदोहनार्थं समन्त्रकं रज्ज्वादानं विहितम्, न तु स्त्रिया आदानम् ॥ १ ॥
इड एह्यदि॑ति॒ हि सर॑स्व॒त्येहि॑ । असा॒वेह्यसा॒वेह्यसा॒वेहिं ॥ २ ॥
मन्त्रार्थ – हे इड़ा नामक गौ! यहाँ आओ । हे अदिति नामक गौ! यहाँ आओ | हे सरस्वती नामक गो! यहाँ आओ । हे घवल वर्ण को गौ! यहाँ आओ । हे श्याम वर्ण की गौ! यहाँ आओ । हे रक्त वर्ण की गो! यहाँ आओ || २ || हे इडे मानवि! एहि आगच्छ । हे अदिते देवमातः! एहि | हे सरस्वति वाक्! एहि । अतस्मस्त-च्छन्दस्तत्सादृश्यार्थः । नाम्ना त्रिरुच्चैराह्वयति - असौ धवलि, असौ स्वस्तिमति एहि । एवं त्रिः ‘ अथ गामाह्वयति । जघनेन गार्हपत्यं यन्निड एादित एहि सरस्वत्येहीतीडा हि गौरदितिर्हि गौः सरस्वती हि गौरथोच्चैराह्वयति नाम्नाऽसावेह्यसावेहीति त्रिः ' ( श ० १४ | २ | १ | ७ ) इति श्रुतेः । दैवीभिः संज्ञाभिर्घर्मदुहो गोराह्वानम् । अथ रज्ज्वादानानन्तरं जघनेन गार्हपत्यं यन् गार्हपत्यस्यादूरेण पश्चिमदेशेन गच्छन्नध्वर्युरिङ एहीत्यादिभिस्त्रिभिर्वाक्यैरुपांशु गामाह्वयति । इडाऽदितिसरस्वतीशब्दा गोर्वेदिक्यः संज्ञाः । तद् ब्राह्मणं व्याचष्टे –इडा हि गौरदितिर्हि गौरित्यादि । अथ लौकिकेन नाम्ना तस्या आह्वानम् । अथोच्चैराह्वयति २४
पृष्ठ 569
पाठ पढ़ें पाठ छिपाएँ
१८६ शुक्लयजुर्वेदसंहिता [ अ ० ३८ देवनामभिर्मनुष्यनामभिश्च । तस्था आह्वानं तैत्तिरीयारण्यके आम्नातम् -'इड एह्यदिते ' ( एहि तै ० आ सरस्वत्येहि ० ५।७।१ । ) एतानि । वै ह्रस्य देवनामानि ' असावेह्यसावे ह्यसावेहीत्याह । एतानि वै अस्यै मनुष्यनामानि च अध्यात्मपक्षे - ब्रह्मयज्ञे हे इडे, हे अदिते, हे सरस्वति, एहीति वैदिकीनां गवां वाचां लौकिकीनां वाचामुपयोगार्थमाह्वानम्, तत्रोभयविधानां वाचामुपयोगदर्शनात् । ---। दयानन्दस्तु – ' हे इडे, त्वं मामेहि योऽसौ त्वां प्राप्नुयात् तमेहि । हे अदिते, त्वमखण्डितानन्दमेहि स्यात् तमेहि ' इति, योऽसौ त्वामखण्डानन्दं दद्यात् तमेहि । हे सरस्वति! त्वं विद्वांसमेहि । योऽसौ दर्शिता सुशिक्षकः एव ॥ २ ॥
तदपि तुच्छम् अत्र स्त्रीपुरुषसम्बन्धविधाने प्रमाणाभावात् । श्रुतयश्च तद्विरुद्धा
अवि॑त्यै॒ रास्नऽसीन्द्राच्या उ॒ष्णोः । पू॒षा स॑ घ॒र्माय॑ दध्व ॥ ३ ॥
वायुरूप हो, मन्त्रार्थ हे रज्जुपाश! तुम गाय की रसना हो, गाय के लिये शिरोवेष्टन हो । हे वत्स! तुम इस लिये धर्म के लिये थोड़ा दूध छोड़ दो ॥ ३ ॥
' अदित्यै रास्नेति गां पाशेन प्रतिमुच्य स्थूणायां बध्वा पूषाऽसीति वत्समुत्सृजति ' ( का ० श्र ०, २६।५४ त्वमदित्यै ) आगतां गामदित्या इति मन्त्रेण पाशेन स्थूणायां बद्ध्वा पूषाऽसीति वत्सं मुञ्चति । करोति हे रज्जुपाश , ' तामागतामभि-रास्नासि इन्द्राण्यै इन्द्रपत्न्या उष्णीषः शिरोवेष्टनमसि । एतेन पाशमिन्द्राण्युष्णीषं पत्नी तस्या उष्णीषो विश्वरूपतमः दधाति । अदित्यै रास्नासीन्द्राण्या उष्णीष इतीन्द्राणी ह वा इन्द्रस्य प्रिया बन्धनं नोऽसीति तदाह तमेवैतमेतत्करोति ' ( श ० १४ | २ | ११८ ) इति श्रुतेः । उभयविधैर्नामभिराहूतायास्तस्या प्रिया पत्नी इन्द्राणी, तस्या विधत्ते । नात्र दयानन्दीयरीत्या आगतायाः स्त्रिया बन्धनं सम्भवति । इन्द्रस्य उष्णीषः शिरोवेष्टनम् । विश्वरूपतमोऽतिशयेन सर्वरूपयुक्तः । शुक्लकृष्ण पीतादिनानावर्णयुक्तत्वेन पूषा वायुरसि चित्रभूत । इत्यर्थः । हे रज्जुपाश! स त्वमसीति । वत्सं मुञ्चति पूषासीति । देव्यनुष्टुप, वत्सो देवता । त्वं । पूषा-वायुर्यथा वृष्टिमाप्याययति, तथा त्वं प्रस्रावणेन जगदुत्पत्तिबीजं पय आप्याययसि, ' अथ ' वत्समुपार्जति ( श ० १४।२।११ ९ ) सीत्ययं वै पूषा योऽयं पवत एष ही " सर्वं पुष्यत्येष उ प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति पश्चिमपादयोर्बद्ध्वा इति श्रुतेः । ' सन्दाय धर्माय दीष्वेति वत्समुन्नयति ' ( का ० श्रौ ० २६।५।४ ) । धेनुं रज्ज्वा पयः शेषय, मा वत्समपाकरोतीत्यर्थः । दैवी पङ्क्तिः, वत्सो देवता । हे वत्स, घर्माय धर्मार्थं दीष्व देहि पयः सर्वं पासीरित्यर्थः । ' दो दाने ', ' बहुलं छन्दसि ' ( पा ० सू ० २ | ४ | ७३ ) इति शपो ' लुक् I पिन्वते तस्मै अत्र ब्राह्मणम् – ' अथोन्नयति । धर्माय दीष्वेत्येष वा अत्र घर्मो रसो भवति यमेषा ' घर्माय दीष्व ' इति दयस्वेत्येवैतदाह ' ( श ० १४ । २ । १ । १० ) । वत्समुत्सृज्य प्रस्तुतायां गवि, अथानन्तरं पयोरूपं रसं एषा गौः मन्त्रेणोन्नयति, अधःप्रदेशादुत्कृष्यान्यत्र नयति, पुरतो बध्नातीत्यर्थः । तद्वयाचष्टे - यं धर्मोपयुक्तं पयः, पिन्वते सिवति दुग्वे, एष एव रसोऽत्र मन्त्रे घर्मो घर्मशब्दाभिधेयो भवति । तस्मै रसाय दयस्व देहि । ' दय दानगतिरक्षणहंसादानेषु ' । अध्यात्मपक्षे - हे प्रेमरज्जुपाश! त्वमदित्यै रास्ना मेखलासि । इन्द्राण्या उष्णीषोऽसि । हे ज्ञानयज्ञ, त्वं पूषासि पोषकोऽसि । घर्माय ब्रह्मप्रकाशाय दीष्व देहि, सामर्थ्यमिति शेषः । त्वं घर्माय दीष्व ' दयानन्दस्तु – ' हे कन्ये! या त्वमदित्यै रास्नासि उष्णीष इवेन्द्राण्यै पूषासि निर्मूलम् , सा धात्वर्थंविरोधात् । इति, तदपि यत्किञ्चित् सम्बोधनादेनिर्मूलत्वात् । अदित्यै नित्यविज्ञानमित्यपि ॥ ३ ॥
इन्द्राणीपदस्य परमैश्वर्यवती नीतिरिति, तथैवोष्णीषपदस्योष्णीषतुल्यत्वमर्थ इत्यादि च निर्मूलमेव
पृष्ठ 570
पाठ पढ़ें पाठ छिपाएँ
म ०४ ] वेदार्थपारिजात भाष्यसहिता १८७ अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्व॒स्वेन्द्रय पिन्वस्व । स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑वत् ॥ ४ ॥
मन्त्रार्थ - हे दूध! अश्वि- देवताओं के लिये तुम निकलो, वाणी की अधिष्ठात्री सरस्वती देवी के लिये निकलो, इन्द्र के लिये निकलो | दुहते समय जो दुग्धकण पृथ्वी पर गिरें, उनका होम में विनियोग हो, वे इन्द्र देवता से युक्त हों ॥ ४ ॥
' अश्विभ्यां पिन्वस्वेति पिन्वने दोग्धि ' ( का ० श्र ० २६/५/६ ) । पिन्वने पात्रे प्रतिमन्त्रं गां दोग्धीत्यर्थः । अश्विभ्यां पिन्वस्व, इन्द्राय पिन्वस्व यजुर्गायत्र्यौ । सरस्वत्यै पिन्वस्व यजुरनुष्टुप् । लिङ्गोक्ता देवताः । हे पयः! अश्विभ्यामर्थाय त्वं पिन्वस्व संप्लवस्व, सरस्वत्यै च पिन्वस्व । ' अथ पिन्वने पिन्वयति । अश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति ' ( श ० १४ | २ | १ | ११ ) | यज्ञस्य एतत् शिरश्छिन्नं शिरः, अश्विन खलु देवौ पुरो प्रत्यधत्तां सन्धानं कृतवन्तौ । सरस्वत्या वाचा कृत्वा इन्द्राय यज्ञशिरोऽश्विभ्यां संहितमिति तयोरर्थे क्षरस्वेति भाव: । ' स्वाहेन्द्रवदिति विप्रुषोऽभिमन्त्रयते ' ( का ० श्री ० २६/५/७ ) । पिन्वन-पतितान् पयःकणान् अभिमन्त्रयते । यजुर्जगती, विप्रुषो देवताः । यद् दुह्यमाने स्कन्नं तत् स्वाहा सुहुतमस्तु, इन्द्रवद् इन्द्रसम्पृक्तं चास्तु | ' सरस्वत्यै पिन्वस्वेति । वाग् वै सरस्वती वाचा वा एतदश्विनौ यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति ' ( ० १४ | २ | १ | १२ ) । सरस्वतीशब्देनात्र वागुच्यते । अश्विनौ हि वाचा मन्त्ररूपया खलु पुरो यज्ञस्यैतच्छिरः प्रत्यधत्ताम् । अतो यज्ञशिरः सन्धानसाधनभूतां वाचमेतेन मन्त्रेण प्रीणाति । ' इन्द्राय पिन्वस्वेति । इन्द्रो वै यज्ञस्य देवता सा यैव यज्ञस्य देवता तयैवैतदश्विनो यज्ञस्य शिरः प्रत्यधत्ताम् ' ( श ० १४।२।१।१३ ) । इन्द्रः खलु यज्ञस्य सोमयागस्य प्रधानभूता देवता, कात्स्न्र्त्स्न्येन माध्यन्दिनसवनभाक्त्वात् । तद्धि यज्ञस्य शरीरम्, गृहस्य पृष्ठवंशस्थानीयैः पृष्ठस्तोत्रैरुपेतत्वात् । सा तादृशी यैव यज्ञस्य देवता, तयैव साधनभूतया अश्विनौ यज्ञस्यैतच्छिरः प्रत्यधताम् । ' अथ विप्रुषोऽभिमन्त्रयते । स्वाहेन्द्रवत् स्वाहेन्द्रवदितीन्द्रो ' ' ' ' त्रिष्कृत्व आह त्रिवृद्धि यज्ञोऽवर स्वाहाकारं करोति परां देवतामसावेव बन्धुः ' ( श ० १४ | २ | १ | १४ ) | विप्रुषो दोहनसमयोत्पन्नान् बिन्दूनभिमन्त्रयते । सवनत्रयवत्त्वेन गार्हपत्याहवनीयदक्षिणाग्निभिर्यज्ञस्य त्रिवृत्त्वमिति । " अध्यात्मपक्षे - हे विचारपीयूष! त्वमश्विभ्यां तद्वद् गुरुशिष्याभ्यां पिन्वस्व प्लावयस्व | सरस्वत्यै वाचे वेदान्तरूपायै पिन्वस्व । इन्द्राय परमेश्वराय च पिन्वस्व । यद् दुह्यमानं पतितं विचारामृतम्, तदिन्द्राय स्वाहा सुहुतमस्तु, सर्वस्वं समर्पितमस्तु । दयानन्दस्तु - ' हे विदुषि स्त्रि! त्वमिन्द्रवत् स्वाहा सत्यया क्रिययाऽश्विभ्यां चन्द्रसूर्याभ्यां पिन्वस्व तृप्नुहि । इन्द्रवत् स्वाहा सरस्वत्यै पिन्वस्वेन्द्राय स्वाहेन्द्राय पिन्वस्य ' इति, तदपि यत्किञ्चित् निर्मूलत्वात् । पिन्वस्वेत्यस्य तृप्नुहि सन्तुष्यतु, सन्तुष्टा भवेत्यर्थस्य चिन्त्यत्वात् । इन्द्रपदस्य ऐश्वर्यवद्वस्तुचे तनात्मगुणसंयुक्तं शरीरं प्राप्येत्यादिकं च निर्मूलमेव । श्रुतिषु प्रसिद्ध रूढार्थस्य बाध एव यौगिकार्थो गृह्यते । यौगिकार्थस्याऽपि बाधे लाक्षणिको गौणोऽर्थो गृह्यते । शब्दस्यानेकार्थत्वे तूपपन्नोऽर्थो गृह्यते, यथा ' अथ ' शब्दस्य ' अथैष ज्योतिः ', ' अथ शब्दानुशासनम् ' ( महाभाष्यारम्भे पतञ्जलिः ) इत्यादावधिकारार्थत्वेऽपि ' अथातो ब्रह्मजिज्ञासा ' ( ब्र ० सू ० १1१1१ ) इत्यत्रानन्तर्यार्थं एव गृह्यते, जिज्ञासायाः कृत्यविषयत्वेनानधिकार्यत्वात्, अप्रस्तूयमानत्वाच्च । न चेह मङ्गलमथशब्दस्य वाच्यं लक्ष्यं वा, किन्तु मृदङ्गादिध्वनिवदथशब्दश्रवणमात्रं कार्यम् । न च कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः, न च प्रकृतापेक्षोऽथशब्दार्थः ।