वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 571–580
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 571–580
पृष्ठ 571
पाठ पढ़ें पाठ छिपाएँ
१८८ शुक्लयजुर्वेदसंहिता [ अ ० ३८ यथा किमयमथशब्द आनन्तर्यार्थः " अथाधिकार इति विमर्शवाक्ये पूर्वप्रकृतस्य प्रथमपक्षोपन्यासपूर्वकं पक्षान्तरोपन्यासो भवति । न चास्यानन्तर्यमर्थः, पूर्वप्रकृतस्य प्रथमपक्षोपन्यासेन व्यवधानात् । न च पूर्व-प्रकृतानपेक्षा, तदनपेक्षस्य तद्विषयत्वाभावेनाऽसमानविषयतया विकल्पानुपपत्तेरिति । यद्यप्यानन्तयं विनापि पूर्व प्रकृतापेक्षोऽथशब्दो भवति, तथापि ब्रह्मजिज्ञासाहेतुभूतस्य पूर्वप्रकृतस्य ग्रहणे आनन्तर्याव्यतिरिक्तार्थ-तयैव, अहेतुभूतस्य यस्य कस्यचित्प्रकृतस्य ग्रहणे तु नैरर्थक्यमेवास्य । अत एवानन्तर्यमपि न यस्य कस्यचित्, तस्याभिधानमन्तरेणापि प्राप्तत्वात् । अवश्यं हि जनः किञ्चित् कृत्वा किञ्चित् करोति । तस्माद्यद्विना ब्रह्मजिज्ञासा नोपपद्यते, यस्मिन् सति भवन्ती भवत्येतस्य साधनचतुष्टयस्यैवानन्तर्यं विवक्षितं भवति । न चैवमत्र पिन्वस्वेत्यस्यानेकार्थता, नापि मुख्यार्थबाधो दृश्यते, नापि लाक्षणिकोऽर्थः, बीजाभावात् । तस्मात् सर्वमेतद् यत्किचिदेव || ४ || --यस्ते॒ स्तन॑ः शश॒यो यो म॑यो॒भूर्यो रत्नधा वसविद्यः सदः । येन विश्वा पुष्य॑सि॒ वार्या॑णि॒
सर॑स्वति॒ तमिह धात॑वेकः । उर्वन्तरिक्षमन्वैमि ॥ ५ ॥
मन्त्रार्थ - हे गाय! जो तुम्हारा स्तन सुख से शयन कराने धारक होने से धनवान् है, जो स्तन श्रेष्ठ दाता है, जिस स्तनसमूह से स्तनसमूह को इस यज्ञ में पान के अर्थ दान करो । मैं विशाल अन्तरिक्ष में विचरण करता हूँ ॥ ५ ॥
वाला है, सुखदायक है, जो स्तन घृत आदि कर ब वरणयोग्य वस्तुओं को तुम पुष्ट करती हो, उस ' यस्ते स्तन इति स्तनमालभते ' ( का ० श्र ० २६ | ५ | ८ ) । यस्ते स्तन इति मन्त्रेण गोस्तनमालभते! जातावेकवचनम् । वाग्देवत्या त्रिष्टुप् 1 दीर्घतमस आर्षम् | हे सरस्वति! तं स्तनमिह स्थाने धातवे पातुं पानार्थमकः कुरु । ' धेट् पाने ', तुमर्थे तवेप्रत्ययः । मम पानाय प्रयच्छेत्यर्थः । लोड लङ्, शपि लुप्ते गुणः । तं कम्? यस्ते तव स्तनः स्तन इव स्तनः, यश्च शशय: ' शीङ् स्वप्ने ', शेत इति शशयः, अच्प्रत्यये द्वित्वं पूर्वस्यात्वं च छान्दसम्, सुप्त इवास्ते, अन्यैरनुपभुक्त इत्यर्थः । अत्र ब्राह्मणम् -'अथास्यै स्तनमभिपद्यते । ' ' यस्ते स्तनो निहितो गुहायामित्येवैतदाह ' ( श ० १४/२/१/१५ ) । हे धर्म! धुक् घेनो, ते तव स्तनं गुहायामस्माभिरदृश्ये दिव्येऽवस्थाने निहितो निक्षिप्तो बभूवेति यश्च मयोभूः, मयः सुखं भावयति प्रापयति सर्वभूतानामिति मयोभूः, यश्च रत्नधाः, रमणीयानां धनानां धारयिता, यश्च वसुवित्, वसूनि धनानि विन्दति वेत्ति वा वसुवित् यश्च सुदत्रः सुष्ठु ददातीति कल्याणदानः, धनवानपि सन् कश्चिनोत्सहते दातुम् त्वं तु धनवान् दाता चेत्यन्येभ्य आधिक्यम् । किञ्च, येन स्तनेन विश्वा विश्वानि सर्वाणि वार्याणि वरणीयानि वस्तूनि त्वं पुष्यसि पुष्णासि । हे सरस्वति! तं स्तनमिह धातवेऽस्माकं पानाय, अकः कुरु । ' उपद्रव पयसेत्युच्यमाने गच्छत्युर्वन्तरिक्षमिति ' ( का ० श्र ० २६।५।१२ ) । उपद्रवेति मन्त्रे प्रोच्यमाने उर्विति मन्त्रेणाध्वर्युगसमीपं गार्हपत्यं प्रति गच्छति । प्राजापत्या गायत्री । उरु विशालमन्तरिक्षमनु एमि गच्छामि । अत्र ब्राह्मणम् -- ' यो रत्नधा वसुविद्यः सुदत्र इति यो धनानां दाता ' येन सर्वान् देवान् सर्वाणि भूतानि बिभर्षीत्येवैतदाह वाग्वै सरस्वती सैषा धर्मदुषा यज्ञो वै वाग् यज्ञमस्मभ्यं प्रयच्छ येन देवान् प्रीणामेत्येवैतदाहाथ गार्हपत्यस्यार्धमैत्युर्वन्तरिक्षमन्वेमीति ' ( श ० १४ | २ | १ | १५ ) । हे धर्मधुग् धेनो! तव स्तनोऽस्माभिरदृश्ये दिव्ये स्थाने निहितो बभूव । यश्च रत्नधा रमणीयानां धनानां धारयिता । वसुविद् वसूनां कनकरजतादीनां
पृष्ठ 572
पाठ पढ़ें पाठ छिपाएँ
वेदार्थपारिजातभाष्यसहिता म ० ५-६ ] र॒श्मये॑ वृ॒ष्टि॒िवन॑ये ॥ ६ ॥
१८ ९ त्वा॒ परि॑ गृह्णाम्य॒न्तरि॑क्षो॒णव॑ यज॑त॒ वाट् । स्वाहा॒ सूर्यस्य मन्त्रार्थ - हे परीशास! तुम गायत्री छन्द के रूप हो, त्रिष्टुप् छन्द के रूप हो । हे महावीर! पृथ्वी और स्वर्ग की प्रीति के लिये तुम्हें ग्रहण करता हूँ । हे घर्म! आकाश में तुम्हें ग्रहण करता हूँ । हे इन्द्र, हे अश्विनीकुमारों, हे वसुदेवताओं! मधु मक्षिकाओं के द्वारा सम्पादित मधु के समान मधुर रस वाले दूध के रस का पान करो । वषट्कार द्वारा श्रेष्ठ होम हो, सूर्य की वर्षा कराने वाली किरणों के लिये यजन करो ॥ ६ ॥
' परीशासावादत्ते गायत्रं छन्दोऽसीति प्रतिमन्त्रम् ' ( का ० श्र ० २६।५।१३ ) | गायत्रमित्यादिमन्त्राभ्यां परीशासौ गृह्णातीत्यर्थः । यजुर्गायत्र्या परीशासौ देवते । हे परीशास! त्वं गायत्रं छन्दोऽसि । गायत्र्येव गायत्रम्, स्वार्थेऽण्, गायत्रीच्छन्दरूपोऽसि । हे द्वितीय परीशास । त्वं त्रैष्टुभम् त्रिष्टुबेव त्रैष्टुभम्, त्रिष्टुप्छन्दोरूपोऽसि । ' ताभ्यां महावीरं परिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीति ' ( का ० २६ | ५ | १५ ) । ताभ्यां परीशासाभ्यां महावीरमादत्त इत्यर्थः । यजुर्जगती महावीरो देवता । हे महावीर! द्यावापृथिवीभ्यां द्युलोकभूलोकाभ्यां त्वा त्वां परिगृह्णामि । परीशासयोद्यश्च पृथिवी चाध्यस्ते, महावीरे चादित्योऽध्यस्तः । अत्र ब्राह्मणम् – अथ शफावादत्ते । गायत्रं छन्दोऽसि त्रैष्टुभं छन्दोऽसीति गायत्रेण चैवैनावेतत् त्रैष्टुभेन च च्छन्दसाऽऽदत्ते द्यावापृथिवीभ्यां त्वा परिगृह्णामीतीमे वै द्यावापृथिवी परीशासावादित्यः प्रवर्ग्योऽमुं तदादित्य- शफयोः माभ्यां द्यावापृथिवीभ्यां परिगृह्णाति ' ( श ० १४ | २ | १ | १६ ) । अथैतस्य महावीरस्य ग्रहणसाधनयोः वेदिता लम्भयिता, यः सुदत्रः शोभनो दाता, अत एव पणाय्यः स्तुत्यः । एवंगुणविशिष्ट एव लोके स्तूयते । येन खलु स्तनेन सर्वान् देवान् हविर्भागार्हान् सर्वाणि च भूतानि पशुपक्षिमृगमनुष्यादीनि बिभषि पोषयसि । सरस्वती वागात्मिका, न तु नदीरूपा । सैव सरस्वती एषा कामदुघा घर्मदुघा धर्मार्थस्य पयसो दोग्ध्री धेनुः । सरस्वत्ये हीत्याह्वानम्, मन्त्रे तस्यास्तादात्म्य प्रतिपादनात् । सा च वाक् यज्ञः, ' यज्ञो वै वाक् ' इत्यत्रैवोक्तेः । यज्ञ एव स्तुतिशस्त्रादिरूपया तयैव निष्पाद्यत्वात् । अतो यज्ञमस्मभ्यं प्रयच्छ, येन खलु वयं देवान् हविर्भुजः प्रीणाम तर्पयाम । यद्यपि हे सरस्वति! तथाविधं स्तनम्, इहास्मिँल्लोके धातवे पातुम्, अकः कुर्विति मन्त्रार्थः प्रतीयते, तथापि सरस्वतीशब्दसूचितोऽर्थो ब्राह्मणेन व्याख्यायत इति मन्तव्यम् । अध्यात्मपक्षे -- हे सरस्वति ज्ञानविज्ञानाधिष्ठात्रि! चित्सदानन्दमयि मातः! यस्ते स्तनः शशयः सुप्तो दिव्ये धाम्नि विराजितत्वाद् दुर्ज्ञेयोऽन्यैरपीत्यभिप्रायः । यो मयोभूः सुखानां प्रापकः, यश्च रत्नधा रमणीयानां धनानां धारयिता, वसुवित् कनकरत्नादीनां लम्भयिता, यश्च सुदत्रः शोभनो दाता । येन विश्वा विश्वानि सर्वाणि वार्याणि वरणीयानि पशुपक्षिमृगमनुष्यदेवादीनि पुष्यसि पुष्णासि, तमिह धातवे पातुमकः कुरु । तत्र विघ्नो मा भूदित्यहं उरु विशालं त्वत्कृपापूर्णमन्तरिक्षमनुगच्छामि । दयानन्दस्तु – ' हे सरस्वति स्त्रि! यस्ते शशयः स्तनः, यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रो येन विश्वा वार्याणि पुष्यसि तमिह धातवेऽक:, तेनाहमुर्वन्तरिक्षमन्वेमि ' इति, तदपि यत्किञ्चित् शेते यस्मिन् यः स इत्यनुपपत्तेः, स्तनस्य शयनाधारत्वासिद्धेः श्रुतिविरोधाच्च । श्रुतौ हि स्पष्टं गुहाहितत्वेन शशयत्वमुक्तम् । न च तत्सामान्ययोषिति सम्भवति, न च सामान्यस्त्रीजनस्य स्तनो रत्नानि धारयति, न वा वसूनि लम्भयति, न च तेन कश्चिद् विश्वानि वार्याणि पुष्यति ॥ ५ ॥
गा॒य॒त्रं छन्दो॑ऽसि॒ त्रैष्ट॒भं छन्दो॑ऽसि॒ द्यावा॑पृथि॒वीभ्यां॑ यच्छामि । इन्द्रा॑श्विना॒ मधु॑नः सार॒घस्य॑ घ॒र्मं पा॑त॒ वस॑वो॒
पृष्ठ 573
पाठ पढ़ें पाठ छिपाएँ
१ ९ ० शुक्लयजुर्वेदसंहिता [ अ ० ३८ ( परीशासयोः ) उपादानविधानम् । गायत्रेण छन्दसा चतुविशाक्षरेण, त्रैष्टुभेन छन्दसा चतुश्चत्वारिंशदक्षरेण, आभ्यां छन्दोभ्यामादानं कृतवान् भवति । परीशासौ परितः शासकौ शफौ । इमे खलु द्यावापृथिवी द्यावा -पृथिव्यौ । प्रवर्ग्यो महावीरः खल्वादित्यः । तस्मात् शफाभ्यां महावीरस्य ग्रहणेन अमुमादित्यमाभ्यां द्यावा-पृथिवीभ्यां परिगृह्णाति । तस्मादनेन मन्त्रेण शफाभ्यां महावीरं गृह्णीयादिति विधिरुन्नेयः । ' उद्यम्य मुञ्जवेदेनोप-मृज्योपयमन्योपगृह्णात्यन्तरिक्षेणोपयच्छामीति ' ( का ० श्र ० २६ | ५ | १६ ) | परीशासगृहीतं महावीरं भूमेरुत्थाप्यो-पमृज्य मुञ्जकृतेन वेदेन संमा ' मौञ्जेन वेदेनोपमाष्टि ' ( शत ० १४/२/१/१६ ) इति श्रुतेः उपयमनीं स्रुचं घर्मस्याधस्ताद् धारयति मन्त्रेण । हे धर्म! अन्तरिक्षेणाकाशेनोदरेण वा त्वामुपयच्छामि निगृह्णामि । अत्रोपयमन्यन्तरिक्षत्वेनोदरत्वेन च स्तुयते । ' अथोपयमन्योपगृह्णाति । अन्तरिक्षेणोपयच्छामीत्यन्तरिक्षं वा उपयमन्यन्तरिक्षेण हीद सर्वमन्नाद्य-मुपयतं तस्मादाहान्तरिक्षेणोपयच्छामीति ' ( श ० १४ । २ । १ । १७ ) । अथोपयमन्या स्रुचा महावीराधोभागस्य परिग्रहणं विधत्ते । उपयमनसाधनभूतया औदुम्बर्या स्रुचा उपगृह्णात्यधस्ताद्धारयति । अन्तरिक्षं द्यावापृथिव्यो-रन्तरालवर्ती लोकः । तद्रूपा खल्वेषा उपयमनी । इदं सर्वमन्तरिक्षेणाकाशेनैवोपयतं सर्वतो धृतम् । तेनान्त-रिक्षोपयमन्योः परस्परात्मता । अथो अपि च, उदरात्मिका खलु उपयमनी, हि यस्माद् उदरेण इदं सर्वं भुक्तं सर्वमन्नाद्यमन्नपानादिकमुपयतं घृतम्, तस्मादन्तरिक्षोदरात्मिकयोपयमन्या महावीरमधस्ताद्धारयेत् । ' अजापयसाऽवसिय शान्ते गोः पयोऽवनयतीन्द्राश्विनेति ' ( का ० श्र ० २६।५।१७ ) | अजादुग्धेन महावीरं तूष्णीं सिक्त्वा शान्ते क्षीणज्वाले तत्र गोपयः सिञ्चेत् । ब्राह्मी गायत्री विश्वेदेवा देवताः । हे इन्द्र, हे अश्विनौ, हे वसवो वासयितारः! यूयं मधुनो मधुरस्य पयसो घर्मं रसं पात पिबत । पिबादेशाभावश्छान्दसः । कथम्भूतस्य मधुः? सारघस्य । ' सरघा मधुमक्षिका ' ( अ ० को ० २।५।६ ) । अत्र सरघा मधुकृतो भ्रमराइव ऋत्विजः, तैः कृतं सारघम्, तस्य तादृशस्य धर्मस्य रसं पिबतेति । ' अथाऽजाक्षीरमानयति । तप्तो वा एष शुशुचानो भव तमेवैतच्छमयति तस्मिञ्छान्ते गोक्षीरमानयति ' ( श ० १४ | २ | १ | १८ ) । एवं स्थिते प्रवर्येऽजापयसः सेचनं विधत्ते । दोहनकाले तुष्णीं दुग्धमजायाः क्षीरं तुष्णीमानयति प्रतिप्रस्थाता । किमर्थमिति चेत्तत्राह - एष प्रवग्र्योऽग्निना सन्तप्तः शुशुचानोऽत्यर्थं दीप्यमानो दुरासदो भवति, अतस्तमेतेनाजापयसा शमयति । अथ गोपयसः समन्त्रकमासेचनं विधत्ते - ' इन्द्राश्विना ' इति मन्त्रेण गोक्षीरमानयति, सिञ्चतीत्यर्थः । ' मधुनः सारघ-स्येति । एतद्वै मधु सारघं घर्मं पातेति ' ( श ० १४ । २ । १।२० ) । ' घृ क्षरणदीप्त्योः ' इति धातुसिद्धस्य धर्मशब्द-स्यावयवप्रसिद्धया रसोऽर्थः, ' रसं पातेत्येवैतदाह वसव इत्येते वै वसव एते हीद ९ • सर्वं वासयन्ते ' ( श ० १४ | २ | १ | २० ) इति श्रुतेः । किञ्च, हे इन्द्रादयः! वाट् वषट्कारेण स्वाहा सुष्ठु हुतं सारधं मधु सूर्यस्य रश्मये किरणाय यूयं यजत दत्त । यजतिरत्र दानार्थः । कीदृशाय रश्मये? वृष्टिवनये, वृष्टि वनति ददातीति वृष्टिवनिस्तस्मै, ' वाडिति तद्यथा वषट्कृत ७, हुतमेवमस्यैतद् भवति ' ( श ० १४ | २ | १ | २० ) इति श्रुतेः । हि यस्मात् इदं सर्वं जगद् इन्द्रश्च अश्विनौ च एते देवा वासयन्ते प्रवर्षणप्रकारादिना स्वे स्वे कर्मणि निवेशयन्ति, तस्मादेते वसवः खलु । यद्वा वसवो गणशो विद्यमाना अन्ये देवाः । हे ऋत्विजः 1 यूयं देवान् यजत । तत्र च साक्षाद् वषट्कारेण दत्तं हविर्यथा हुतं भवति, एवं वाडिति परोक्षवषट्कारेणापि दत्तं हविर्हतमेव भवतीत्यर्थः । ततो वाट्शब्देन पारोक्ष्येण वषट्कारो निर्दिश्यते । तथा तैत्तिरीयकेऽस्य मन्त्रस्य व्याख्यानावसरे - ' यदि वषट् कुर्याद् यातयामस्य ' इत्यादिप्रत्यक्षवषट्कारं पूर्वपक्षीकृत्य ' वाडित्याह परोक्षमेव वषट्करोति ' ( तै ० आ ० ५/६ ) इति सिद्धान्तितमिति सायणाचार्याः ।
पृष्ठ 574
पाठ पढ़ें पाठ छिपाएँ
म ०६ ] वेदार्थपारिजातभाष्यसहिता १ ९ १ ' स्वाहा सूर्यस्य रश्मये वृष्टिवनय इति । सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम येनेमाः सर्वाः प्रजा तितमेतत् प्रीणाति तस्मादाह स्वाहा सूर्यस्य रश्मये वृष्टिवनये ' ( श ० १४ | २ | १ | २१ ) इति श्रुत्यनुसारं सूर्यस्य खलु रश्मीनां मध्ये एको रश्मिर्वृष्टिवनिः, वृष्टेर्वर्षस्य वनिता संभक्ता दाता । नामशब्दः प्रसिद्धार्थकः । येन वृष्टिप्रदानसमर्थेन रश्मिना इमाः सर्वाः प्रजा बिर्भात पोषयति, तमेव रश्मिमेतेन स्वाहा सूर्यस्येति मन्त्रशेषेण प्रीणाति तर्पयति । अध्यात्मपक्षे - हे महावीर ज्ञानयज्ञ! द्यावापृथिवीरूपाभ्यां पूर्वोत्तरपक्षाभ्यां गायत्रीत्रिष्टुप्छन्दोभ्यां त्वां परिगृह्णामि । अन्तरिक्षेण हृदयाकाशेन त्वामुपयच्छामि । इन्द्र अश्विनौ वसवश्च सारघस्य, सरघारूपा विद्वांसस्तैः शास्त्रपुष्पेभ्यो गृहीतं मधु सारधं भवति, ' अणुभ्यश्च महद्भयश्च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥ ' इत्युक्तेः, तस्य घर्मं रसं ब्रह्मात्मसाक्षात्काररूपं पात पिबत | वाट् परोक्ष-वषट्कारेण स्वाहा सुष्ठु हुतं सारघं मधु सूर्यस्य परमात्मनो रश्मये पोषकशक्तये यजत दत्त । कीदृशाय रश्मये? वृष्टिवनये रसवृष्टेः सम्भवत्रे दात्रे । ऐश्वर्यवान् ज्ञानयज्ञस्य योजक इन्द्रः, आरोग्य स्वास्थ्यरक्षका-अश्विनौ, वासयितारो वसवः । दयानन्दस्तु – ' हे इन्द्र! यथा त्वं गायत्रं छन्द इव हृद्यां स्त्रियं प्राप्तवानसि त्रैष्टुभं छन्द इव प्रशंसितां लब्धवानसि । ' ' ' ' तथाहि — त्वां दृष्ट्वा द्यावापृथिवीभ्यां प्रियां स्त्रियं परिगृह्णामि, अन्तरिक्षेणोपयच्छामि । हे अश्विनौ स्त्रीपुरुष, युवां तथैव वर्तेयाथाम् । हे वसवः, यूयं स्वाहा मधुनः सारघस्य धर्मं यज्ञं पात । सूर्यस्य वृष्टिवनये रश्मये वाट् यजत ' इति, तदपि यत्किचित् श्रुतहान्यश्रुतकल्पनाश्रयणात् । नहि मूले स्त्रीपदमपि श्रूयते । घर्मं यज्ञं पातेत्यप्यसंगतम्, रसं पातेति श्रुतिव्याख्यानविरोधात् । वाक्यशेषबलादपि क्वचिदर्थान्तरमाश्रीयते । यथा ' अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् ' ( छा ० ८।१।१ ) इत्यादिवाक्यं समाम्नायते । तत्र योऽयं दहरे हृदयपुण्डरीके दहराकाशः श्रुतः, स किं भूताकाश:? अथवा विज्ञानात्मा, अथवा परमात्मेति संशय्यते । संशयश्चाकाशब्रह्मपुरशब्दाभ्याम् । आकाशब्दो भूताकाशे प्रसिद्धः क्वचिच्च ' आकाशस्तल्लिङ्गात् ' ( ब्र ० सू ० १११।२२ ) इति न्यायेन ब्रह्मण्यपि प्रयुक्तः । ब्रह्मपुरमित्यत्र ब्रह्मपदं यद्यपि ब्रह्मण्येव मुख्यम्, तथापि ' असाधारण्येन व्यपदेशा भवन्ति ' इति न्यायेन यथा क्षितिजलपवन बीजादिसामग्री-समवधानजन्याङ्कुरः शालिबीजत्वेन व्यपदिश्यते शाल्यङकुर इति, न तु क्षित्यादिभिः तेषां कार्यान्तरेष्व-साधारण्यात्, तथैव शरीरं ब्रह्मविकारोऽपि न ब्रह्मणा व्यपदेष्टव्यम्, ब्रह्मणः सर्वविकारकारणत्वेनाति-साधारण्याद् जीवभेदधर्माधर्मोपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यत इति युक्तमिति बहुधा पूर्वपक्षय्य, उत्तरेभ्यो वाक्यशेषेभ्यो ब्रह्मैव दहराकाश इति निर्धारितम् । तथाहि - भूताकाशस्य न तावद्दद्दूरत्वम्, ' यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश: ' ( छा ० उ ० ८ | १ | ३ ) इत्युपमानविरोधात् । नहि तेन तस्योपमेयत्वम् । रामरावणयुद्धे त्वगत्या भेदमारोप्याभेदेऽप्युपमेयत्वमुक्तम् । दहराकाशस्य ब्रह्मत्वे तु भूताकाशाद् भेदेनोपमानस्य गतिः । न चानवच्छिन्न परिमाणमवच्छिन्नं भवति, तथा सत्यनवच्छेदानुपपत्तेः । न च भूताकाशमानत्वमपि ब्रह्मण:, ' ज्यायानाकाशात् ' ( श ० १०।६।३।२ ) इति श्रुतिविरोधात् । भूताकाशोपमानेन तु पुण्डरीकोपाधिप्राप्तं दहरत्वं निवर्तते । नापि दहराकाशो जीवः । ननु ब्रह्मपुरमिति शरीरस्य जीवपुरत्वमेव सम्भवति, न परमेश्वरपुरत्वमित्य-साधारण्यस्योक्तत्वादिति चेन्न, ब्रह्मोपलब्धेरधिष्ठानत्वेन देहस्य ब्रह्मपुरत्वसम्भवात् । न तु ब्रह्मविकारतया ब्रह्मपुरमिति व्यपदिश्यते, येनाकाशादिभिः साधारण्यं स्यात् । देह एव ब्रह्मण उपलब्धेरसाधारण्येन शरीरस्य
पृष्ठ 575
पाठ पढ़ें पाठ छिपाएँ
१ ९ २ शुक्लयजुर्वेदसंहिता [ अ ० ३८ वेश्म सम्भवति, ब्रह्मणा व्यपदेशसम्भवात् । कथचिद्देहस्य जीवपुरत्वेऽपि यथा वत्सराजस्य पुरे उज्जयिन्यां मैत्रस्य । ब्रह्मणो हि तथैव जीवस्य पुरे हृत्पुण्डरीकं ब्रह्मसदनं सम्भवति, उत्तरेभ्यो ब्रह्मलिङ्गेभ्यो ब्रह्मणोऽवधारणात् जीवे व्याख्यातुं बाधके प्रमाणे बलीयस जीवस्य च साधके प्रमाणे सत्येव ब्रह्मलिङ्गानि कथञ्चिदभेदविवक्षया सत्यसङ्कल्पः ' शक्यन्ते, नान्यथा । ' एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः अथ सत्यकामः य इहात्मानमनुविद्य ( छा ० उ ०८।१।५ ) इत्यादयो वाक्यशेषा न भूताकाशे न वा जीवे उपपद्यन्ते । ७।२५।२ ' ) । आचार्येण हि व्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवति ( ) छा ० इत्युपदिष्टेऽन्तेवासिनाऽऽक्षिप्यते उ ० — किं ' दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यम् ' ( छा ० उ ० ८ | १ | १ समाहि तद् यदन्वेष्टव्यमित्याकाशोपमानेन तस्य परिच्छेदं परिहृत्य उभे अस्मिन् चेन्न, द्यावापृथिवी दहराकाशात्मवेदनस्य ( छा ० उ ० ८ ११३ ) । नन्वेवमपि द्यावापृथिव्यावेवान्वेष्टव्ये स्याताम्, नाकाश इति एव फलवत्त्वेन द्यावापृथिव्योर्ज्ञानस्याफलत्वात्, ' फलवत्सन्निधावफलं तदङ्गम् ' इति ' न्यायात् एष ' इत्यनेन ताभ्यामप्यात्मन द्यावापृथिव्यादि -लिलक्षयिषितत्वात् । अत एव ' एष आत्माऽपहतपाप्मा ' ( छा ० उ ० ८।११५ ) इत्यत्र । एष इत्येकवचनान्तं समाधानाधारमाकाशं द्यावापृथिव्यभिधानव्यवहितमप्याकृष्य तस्यैवापहतपाप्मत्वादिकमुक्तम् क्रमेण ' तस्मिन् यदन्तः ' न द्वे द्यावापृथिव्यौ पराम्रष्टुमर्हतीति दहराकाश एव पराम्रष्टव्यः हृत्पुण्डरीकं । तदनेन परामृशति । तेन तस्मिन् ( छा ० उ ० ८ | १ | १ ) इत्यत्रापि तच्छब्देनानन्तरमप्याकाशमतिलङ्घ्य तदन्वेष्टव्यमित्यर्थः प्रतिफलति । न चैवं प्रकृतमन्त्रे कश्चन हेतुर्विद्यते येन हृदयपुण्डरीके यदन्तराकाशं ॥ ६ ॥
प्रकृतातिरिक्तायाः स्त्रिया उपादानं स्यात् । तस्माद् व्यर्थमेव श्रुतहान्यश्रुतकल्पनमिति स॒मु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ सरि॒राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ । अ॒ना॒ध॒ध्याय॑ त्वा॒ वाता॑य॒ त्वा॒ स्वाहा॑ऽप्रतिध॒ष्याय॑ त्वा वाता॑य॒ स्वाहा॑ । अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑ऽशिमि॒दाय॑ वाय॒ स्वाहो ॥ ७ ॥
जिसकी सहायता मन्त्रार्थ - हे धर्म! प्राणियों के गतिदाता वायु के निमित्त तुम्हारी आहुति देता हूँ । सिद्धार्थ प्राणी , अजेय वायु के लिये, रक्षणशील से चेष्टा करते हैं, उस वायु के निमित्त तुम्हारी आहुति देता हूँ । अधृष्य वायु के लिये के लिये और क्लेश के निवारक वायु लिये तुम्हारी आहुति देता हूँ ॥ ७ ॥
वायु ६ | १ ) । ' प्रैतु ब्रह्मणस्पतिरित्युच्यमाने समुद्राय त्वेति वातनामानि जपति गच्छन्नाहवनीयम् ' ( का स्वरेण ० श्र जपतीत्यर्थः ० २६ | । प्रत्विति होत्रोच्यमाने आहवनीयं प्रति गच्छन्नध्वर्युः समुद्रायेत्यादीनि द्वादश वातनामानि जुहोमि । कीदृशाय वाताय? द्वादश यजूंषि वातनामदेवत्यानि । हे धर्म, त्वा त्वाम्, वाताय देवाय स्वाहा । तु ब्रह्मणस्पतिः समुद्राय । समुद्रवन्ति सर्वाणि भूतानि यस्मात् स समुद्रस्तस्मै, ' स यत्रैता होताऽन्वाह न इममन्तरा रक्षा सि प्र देव्येतु सूनृतेति तदध्वर्युः प्राङ्गदायन् वातनामानि जुहोत्येतद्वै देवा अबिभयुर्यद्वै एवैनमेष नाष्टा न हन्युरिति तमेतत्पुरैवाहवनीयात् स्वाहाकारेणाजुहवुस्त हुतमेव सन्तमग्नावजुहवुस्तथो साज्ये महावीरे एतत्पुरैवाहवनीयात् स्वाहाकारेण जुहोति ( श ० १४/२/२/१ ) इत्येवं हि वातमन्त्राणां शातपथश्रुतौ जपं विधत्ते - स पयोऽवनयनेन प्रवृञ्जनमुक्तम् । अथ तेन हविषां प्रचार उच्यते । तत्रादौ शफाभ्यां यत्रैतानिति । यस्मिन् काले स होता ' प्रैतु ब्रह्मणस्पतिः ' इत्येतामृचमन्वाह, तत्र त्वा तस्मिन् ' इत्यादीनि समयेऽध्वर्युः वातनामानि महावीरं धृत्वा प्राङुदायन आहवनीयं प्रति प्राङ्मुखो गच्छन् ' समुद्राय यजूंषि जुहोति ।
पृष्ठ 576
पाठ पढ़ें पाठ छिपाएँ
म ० ७. ] वेदार्थपारिजात भाष्यसहिता १ ९ ३ तदेतदाख्यायिकयोपपादितम् - ' समुद्राय त्वा वाताय स्वाहेति । अयं वै समुद्रो योऽयं पवत एतस्माद् वै समुद्रात् सर्वे देवाः सर्वाणि भूतानि समुद्भवन्ति तस्मा एवैनं जुहोति तस्मादाह समुद्राय त्वा वाताय स्वाहा ' ( श ० १४ । - २२ ) । ननु कथमेतेषां वातनामत्वम्, समुद्रादिशब्दानां रूढ्याऽर्थान्तराभिधायकत्वादित्याशङ्कम सर्वेषां वातपरत्वं दर्शयति - योऽयं पवते सततं गच्छति, अयं वै समुद्रः । कस्मादसो समुद्र इति चेदुच्यते-एतस्मात् समुद्रशब्दवाच्याद् वायोः सकाशात् सर्वे देवाः सर्वाणि चेमानि भूतानि समुद्रवन्ति सम्यगुद्गच्छन्ति, समष्टिलिङ्गशरीरभूत प्राणवाय्वाधीनत्वान् सर्वदेवानाम्, ' वायुर्वे गौतम तत्सूत्रम् वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि ' ( श ० १४ / ६ / ७/६ ) इति श्रुतेः । अतः समुद्रवत् सर्वाश्रयः समुद्रशब्देन वायुरेवोच्यते । सरिराय, सह ईरते यच्छन्ति सर्वभूतानि सिद्धार्थानि यस्मात् तस्मै सरिराय वाताय त्वां जुहोमि, ' अयं वै सरिरो योऽयं पवत एतस्माद् वै सरिरात् सर्वे देवाः सर्वाणि भूतानि ( श ० १४/२/२/३ ) इति श्रुतेः । मन्त्रे सरणशीलत्वात् श्रुतिस्तु सहेरणात् सरिर इति वातस्य संज्ञां निर्वक्ति । अग्न्यादीनि सर्वाणि भूतजातानि सहितानि चेष्टन्ते यस्मात् स सरिरो वायुरित्यर्थः । आधर्षितुमशक्याय अप्रतिधृष्याय पराभवितु-मशक्याय वाताय त्वां हे घर्म, जुहोमि । अवस्यवे, अवो रक्षणमिच्छत्यवश्यति, अवश्यतीत्यवस्युः, अवनशीलाय वाताय त्वां हे धर्म! जुहोमि । अशिमिदाय, क्लेशात्मकं कर्म शिमि, तन्न ददातीत्यशिमिदस्तस्मै क्लेशनिवर्तकाय अनाधृष्याय वाताय स्वाहा । ' अयं वा अनाधृष्योऽप्रतिधृष्यो योऽयं पवते तस्मा एवैनं जुहोति ' ( श न ० १४।२।२४ ) । आर्धाषितुं स्प्रष्टुमशक्यः । प्रतिधर्षणं प्रतिकूलाचरणम् । कश्चिद् वायुमार्धाषितुं प्रतिर्धाषितुं शक्नोतीत्यनाधृष्याय वाताय त्वां हे घर्म जुहोमीति । अवस्यवे त्वा वाताय स्वाहा । अयं वा अवस्युरशिमिदो योऽयं पवते ' ( श ० १४।२।२१५ ) । अवस्युरवनेच्छु, प्राणभावमापन्नस्य वायोस्तदिच्छोरन्नाद्यं तत्राम्नायते— ' अथात्मनेऽन्नाद्यमागायत् ' ( श ० १४ | ४ | १ | १८ ) । तथाऽयमे वाऽशिमिदोऽशनं न प्राप्तः, सदाचरणशील इत्यर्थः । यद्वा शिमीति क्लेशात्मकं कर्म तद् ददातीति शिमिदः तद्भिन्नोऽशिमिदः । तस्मादेतौ शब्दौ व्युत्पत्त्या वायोर्नामनी इति । अध्यात्मपक्षे – समुद्राय सर्वाणि भूतान्युपद्रवन्ति यस्मात्तस्मै परमात्मने, वाताय वान्ति गच्छन्ति सर्वाणि भूतानि यस्मात्तस्मै परमात्मने, हे घर्म! ज्ञानयज्ञ, त्वा जुहोमि समर्पयामि । सरिराय सरन्ति चलन्ति सर्वाणि भूतानि यस्मात् चेतनानधिष्ठितानां रथादीनां सरणादर्शनात् । अनाधृष्याय अप्रधृष्याय परमात्मने वाताय, अवस्यवे अवोऽवनम् इच्छतीति तस्मै अवनशीलाय । अशिमिदाय अक्लेशदाय सुखदाय परमात्मने वाताय धर्म, त्वां जुहोमि । दयानन्दस्तु -- ' हे स्त्रि पुरुष वा! अहं स्वाहा समुद्राय वाताय त्वा स्वाहा, सरिराय वाताय त्वा स्वाहा, अनाधृष्याय वाताय त्वा स्वाहा, अप्रतिघृष्याय वाताय त्वा स्वाहा, अवस्यवे वाताय त्वा स्वाहा, अशिमिदाय वाताय त्वोपयच्छामि ' इति, तदपि यत्किञ्चित् शतपथश्रुतिविरोधात् । श्रुतयस्तु सिद्धान्तव्याख्याने प्रदर्शिता एव । ' स्वाहा सत्यश्रिये ' इत्यपि निर्मूलमेव । वाताय, वातशब्दस्य वातविद्यायां लक्षणा, तस्या अपि लक्षणा वायुशोधने | हिन्द्यां तु वायुविद्याया वायोर्वा शोधनायेति व्याख्यातम्, तत्सर्वमसङ्गतमेव, लक्षणायां बीजा-भावात् । यथा ब्रह्मशब्दो ब्रह्महत्यादौ विप्रत्वजातौ प्रसिद्धः ब्रह्मोद्यमिति वेदे परमात्मनि च प्रसिद्धः, यथा ' ब्रह्म वेद ब्रह्मैव भवति ' इति, तर्हि - ' अथातो ब्रह्मजिज्ञासा ' ( ब्र ० सू ० १ | १ | १ ) इत्यत्र कीदृशं ब्रह्म ग्राह्यमिति शङ्कायां ‘ जन्माद्यस्य यतः ' ( ब्र ० सू ० १ १ २ ) इति लक्षणविधानाद् जगदुत्पत्यादिकारणमेवेह ब्रह्म ग्राह्यमिति-वत्, नात्र किमपि प्रमाणमस्ति वायुपदस्य वायुविद्यार्थत्व इति । सम्बोधनमपि निर्मूलमेव ॥ ७ ॥
२५
पृष्ठ 577
पाठ पढ़ें पाठ छिपाएँ
१ ९ ४ शुक्लयजुर्वेदसंहिता [ अ ० ३८ इन्द्रा॑यत्वा वसु॑मते रु॒द्रव॑ते॒ स्वाहेन्द्रा॑य॒ त्वाऽऽदि॒त्यव॑ते॒ स्वाहेन्द्र य त्वाऽभिमति॒घ्ने स्वाहा॑ । स॒वि॒त्रे त्वा॑ ऋभुमते॑ विभुमते॒ वाज॑वते॒ स्वाहा॒ बृह॒स्पत॑ये॒ त्वा वि॒श्वदे॑व्याव॑ते॒ स्वाहा ॥ ८ ॥
मन्त्रार्थ - हे धर्म! वसु - रुद्रवान् इन्द्र देवता के लिये, आदित्यवान् वायु के लिये शत्रुनाशक वायु के लिये तुम्हारी आहुति देता हूँ | ऋभु देवता वाले, विष्णु देवता वाले, अन्नवान् वायु के लिये तुम्हें होमता हूँ । विश्वेदेव देवता वाले वायु के निमित्त तुम्हारी आहुति देता हूँ ॥ ८ ॥
वसवो विद्यते यस्य स वसुमान् रुद्रा विद्यन्ते यस्य स रुद्रवान् तस्मै वसुसहिताय रुद्रसहिताय इन्द्राय वाताय हे धर्म! त्वां स्वाहा जुहोमि, ' अयं वा इन्द्रो योऽयं पवते ' ( श ० १४/२/२६ ) इति श्रुतेः । आदित्या विद्यन्ते यस्य तस्मै आदित्यवते इन्द्राय वाताय त्वां जुहोमि स्वाहा । अभिमातीन् ( अभिमानिनः ) सपत्नान् हन्तीत्यभिमातिहा तस्मै अभिमातिघ्ने इन्द्राय वाताय हे धर्म त्वां स्वाहा, ' सपनो वा अभिमातिः ' ( श ० १४/२/२८ ) इति श्रुतेः । सूते यः सः सविता, तस्मै सवित्रे चेष्टयत्रे वाताय त्वां स्वाहा जुहोमि, ' अयं वै सविता योऽयं पवते ' ( श ० १४ २ २ २ ) इति श्रुतेः । ऋभुरस्यास्तीति ऋभुमान्, विभुरस्यास्तीति विभुमान्, वाजोऽस्यास्तीति वाजवान् । आङ्गिरसस्य सुधन्वनस्त्रयः पुत्रा ऋभुविभुवाजास्तैर्युक्ताय वाताय त्वां जुहोमि । बृहस्पतये बृहतां पतये वाताय त्वां जुहोमि, ' अयं वै बृहस्पतियों वै पवते ' ( स ० १४ २ २ १० ) इति श्रुतेः । शाय बृहस्पतये? विश्वदेव्यावते । विश्वेषां देवानां समूहो विश्वदेव्यम्, तदस्यास्तीति विश्वदेव्यवान्, तस्मै सर्वदेवसहिताय वाताय त्वां जुहोमि, ' मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ' ( पा ० ६ | ३ | १३१ ) इति दीर्घः । ' अयं वा इन्द्रो योऽयं पवते तदिन्द्रमेवानु वसूंश्च रुद्रांश्चानुभजत्यथो प्रातः सवनस्य चैवैतन्माध्यन्दिनस्य च सवनस्य रूपं क्रियते ' ( श ० १४।२।२२६ ) इति श्रुत्या वायुरेवेन्द्रशब्देन ग्राह्यः । यो ज्योतिश्चक्रप्रवहणरूपेण वर्तते तस्मै इन्द्राय वायवे घमं जुहोतीत्यर्थः । यथा मघवतो वस्वाख्या अनुयायिनः सन्ति, तथा वायोरपि ताननुचरान् करोतीत्यर्थः । यद्वा इन्द्रस्य धर्मप्राप्तेः पश्वाद् वस्वादीनपि घर्ममाभजति भागयुक्तान् करोति । अथ अपि देवगण कीर्तनेनास्मिन् प्रवर्ग्यं प्रातः सवनस्य माध्यन्दिनस्य च रूपं क्रियते, ' वसवः प्रातः सवन, रुद्रा माध्यन्दिनः सवनम् ' ( श ० १४ | १ | १ | १५ ) इत्याद्याम्नातत्वात् । तदिन्द्रमेवान्वादित्यानाभजत्यथो तृतीय -सवनस्येदं रूपं क्रियते । ' इन्द्राय त्वा सपत्नघ्नम् ' ( श ० १४।२।२८ ) इत्यभिमातिशब्दस्य सपत्नोऽर्थः । ' सवित्रे त्वा च ऋभुमते विभुमते वाजवते स्वाहेति ' ( श ० १४ | २ | -१ ९ ) सवितृपदेनापि वात एवाभिहितः । ऋभुविभुर्वाज इत्यङ्गिरसः पुत्रास्तपसा देवत्वं प्राप्ताः । अध्यात्मपक्षे हे धर्म ज्ञानयज्ञ! इन्द्राय परमेश्वराय वसुमते रुद्रवते वसुरुद्रसहिताय त्वां स्वाहा समर्पयामि । आदित्यवते त्वां स्वाहा, सपत्नघ्नत्वविशिष्टाय वाताय त्वां सवित्रे प्रेरयित्रे परमात्मने ऋभुविभुवाज-सेविताय सर्वदेवसमूहयुक्ताय बृहतां महदादीनां पतये परमेश्वराय हे धर्म! त्वां स्वाहा जुहोमि । दयानन्दस्तु - ' हे स्त्रि पुरुष वा! अहं स्वाहा वसुमत इन्द्राय स्वाहाऽऽदित्यवते रुद्रवते इन्द्राय त्वां स्वाहाऽभिमातिने इन्द्राय त्वां स्वाहा, सवित्रे ऋभुमते विभुमते वाजवते त्वां स्वाहा बृहस्पतये विश्वदेव्यावते त्वोपयच्छामि ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात् । स्वाहा पदव्याख्यानमपि निर्मूलम्, शिष्ट-स्तादृशेऽर्थेऽप्रयोगात् । ' विभुमते बहवो विभवा: पदार्था विदिता येन तस्मै इति भाक्तप्रयोगोऽपि निर्मूल एव । सांख्या: ' तदैक्षत ' ( छा ० उ ० ६।२ ३ ) इत्याद्याः श्रुतयोऽचेतनेऽपि चेतनावदुपचारात् प्रधानेऽपि ' नद्याः कुलं पिपतिषति ' इतिवत् कार्योन्मुखत्वमादर्शयन्ति । यथाऽग्रयप्राये लिखितं दृष्ट्वाऽग्रयत्वं निर्णयन्ति तथेदमपि । ' ता आप ऐक्षन्त '
पृष्ठ 578
पाठ पढ़ें पाठ छिपाएँ
म ० ८ - ९ ] वेदार्थपारिजात भाष्यसहिता १ ९ ५ ( छा ० उ ० ६ २ ४ ), ' तत्तेज ऐक्षत ' ( छा ० उ ० ६ २१३ ) इत्युपचारप्राये श्रुतं ' तदैक्षत ' इत्यौपचारिकमेव विज्ञेयम् | ' अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि ' ( छा ० उ ० ६ ३२ ) इति च प्रधानस्य जीवात्मत्वं जीवार्थकारितया, भद्रसेनोऽयं ममात्मेतिवत् । ' स्वमपीतो भवति ' इति जीवस्य प्रधाने स्वकीयेऽप्ययं सुषुप्तावस्थायां ब्रूते, अपरिणामिनो ब्रह्मणो न च ज्ञानक्रियावत्त्वं सम्भवति । त्रिगुणे परिणामिनि प्रधाने तु सम्भवत्येव, सत्त्वप्रधाने सार्वज्ञादौ बाधाभावादिति पूर्वपक्षं कृत्वा समाहितम् । तेजःप्रभृतीनां मुख्यासम्भवेनो-पचाराश्रयणं युक्तम् । संशये च तत्प्रायपाठस्य निर्णायकत्वमपि सम्भवति । इह तु मुख्यौत्सगिकत्वे निश्चिते सति संशयाभावात्, अन्यथा विततशरसंकीर्णदेशनिवासिनो ब्राह्मणस्यापि किरातत्वापत्तेः । तस्माद् ब्रह्मण्येवे-क्षिनिर्वचनीयानाद्यविद्यासचिवं जगदुपादानम् । शुक्तिरिव समारोपितस्य रजतस्य, मरीचय इव जलस्य । न त्वचेतनं प्रधानपरमाण्वादि, तस्याशब्दत्वात् । तथैवात्र गौणार्थग्रहणं निर्मूलमेव ॥ ८ ॥
य॒माय॒ त्वाऽङ्गि॑रस्वते पितृमते॒ स्वाहा । स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे ॥ ९ ॥
मन्त्रार्थ - हे धर्म! अंगिरा और पितरों से युक्त यमरूप वायु के लिये तुम्हारी आहुति देता हूँ । धर्म के लिये दी गई घृत की यह आहुति भली प्रकार गृहीत हो, पितरों के लिये दी गई धर्म की आहुति भली प्रकार गृहीत हो ॥ ९ ॥
यमाय वायवे हे धर्म! त्वां स्वाहा । यमोऽप्यत्र वायुरेव, ' अयं वै यमो योऽयं पवते ' ( श ० १४।२।२।११ ) इति श्रुतेः । कीदृशाय यमाय? अङ्गिरस्वते, अङ्गिरसो मुनयोऽस्य सन्तीत्यङ्गिरस्वान्, तस्मै, ' अयस्मयादी छन्दसि ' ( पा ० सू ० १/४/२० ) इति भसंज्ञायां सस्य विसर्गाभावः । पितृमते, पितरोऽस्य सन्तीति पितृमान्, तस्मै अङ्गिरः पितृयुक्ताय वाताय त्वां जुहोमीत्यर्थः । वातनामानि समाप्तानि । ' स्वाहा घर्मायेत्युपय मन्या सिति धर्मे ' ( का ० ० २६ | ६ | २ ) | उपयमन्या सुचा स्रुक्स्थं घृतं घर्मे सिञ्चतीत्यर्थः । घर्माय स्वाहा एतदाज्यं सुहुतमस्तु | धर्माय स्वाहा एतदाज्यं सुहुतमस्त्वित्यर्थः । ' स्वाहा घर्मः पित्र इति जपित्वाऽतिक्रम्याश्राव्याह धर्मस्य यजेति ' ( का ० श्र ० २६ | ६ | ३ ) | अपसब्यवान् दक्षिणास्यः स्वाहेति मन्त्रं स्वरेण जपित्वा सव्येन जलं स्पृष्ट्वा धर्महस्तोऽतिक्रम्याश्राव्य घर्मस्य यजेत्याहेत्यर्थः । स्वाहा धर्मः पित्रे पित्रर्थायास्तु | अत्र ब्राह्मणम् -'अथोपयमन्या महावीर आनयति । स्वाहा घर्मायेत्येष वै घर्मो य एष तपत्येष उ प्रवर्ग्यः ' ( श ० १४।२।२।१३ ) | अथ वातनामजपानन्तरमुपयमन्या स्रुचा महावीरे प्रत्यानयति, पुनरासिञ्चति । पयआसेचनसमये महावीरान्निष्यन्दनेन निर्गतं यद्धविर्घृतमासीत्, तदिदानीं ' स्वाहा घर्माय ' इति मन्त्रेण महावीरे पुनरासित् । अन्यत् स्पष्टम् । ' आनीते जपति । स्वाहा घर्मः पित्र इति } ( श ० १४।२।२।१४ ) । उपयमन्या महावीरे प्रत्यानीते सति ' स्वाहा घर्मः पित्र: ' इति मन्त्र जपति । अस्य मन्त्रस्य पितृसम्बन्धं पुरस्तात् स्वाहाकारं च प्रशंसति - ' यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत् स पितृनगच्छत् अवर स्वाहाकारं करोति परां देवतामिति ' ( श ० १४।२।२।१४ ) । अध्यात्मपक्षे - यमाय यच्छति नियमयति सर्वमिति यमः परमेश्वरस्तस्मै, अङ्गिरस उपासका: सन्त्यस्येत्यङ्गिरस्वान् तस्मै, पितर उपासका सन्त्यस्येति पितृमान् तस्मै स्वाहा सुहुतमस्तु | धर्माय ज्ञानयज्ञाधिष्ठात्रे परमात्मने स्वाहा । पित्रे, सर्वस्येति शेषः । दयानन्दस्तु - - ' हे स्त्रि पुरुष वा! धर्मोऽहं स्वाहाङ्गिरस्वते यमाय पितृमते स्वाहा पित्रे त्वोपयच्छामि ' इति, तदपि यत्किञ्चित्, यमपदस्य न्यायाधीशार्थत्वस्य निर्मूलत्वात् । कथं च विद्युदादिविद्यावतस्तद्विशेषणत्व-मिति । श्रुतिविरोधस्तु सिद्धान्त व्याख्यानेन निगदव्याख्यातः ॥ ९ ॥
पृष्ठ 579
पाठ पढ़ें पाठ छिपाएँ
१ ९ ६ शुक्लयजुर्वेदसंहिता [ अ ० ३८
विश्वा आशा दक्षिणसद्विश्वा॑न् दे॒वानया॑हि ।
स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः पिबतमश्विना ॥ १० ॥
मन्त्रार्थ - इस यज्ञ में दक्षिण दिशा में स्थित अध्वर्यु ने सभी दिशाओं का और सभी देवताओं का पूजन किया है । हे अश्विनीकुमारों! वषट्कार के साथ होमे गये मधुर स्वाद वाले धर्म का पान करो ॥ १० ॥
' वषट्कृते जुहोति विश्वा आशा इति ' ( का ० श्र ० २६।६ ४ ) । वषट्कृते सति घर्मं जुहोति, विश्वा आशा इति मन्त्रेणेत्यर्थः । अश्विदेवत्याऽनुष्टुप् । इह यज्ञे दक्षिणसद् दक्षिणस्यां दिशि सीदति तिष्ठतीति दक्षिणसत् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । दक्षिणतः स्थितोऽध्वर्युविश्वाः सर्वा आशा दिशो विश्वान् सर्वान् देवान् च अयाट् अयाक्षीत्, इष्टवान् । यजेर्लुङि चलेर्लोपे रूपम् । दक्षिणतः स्थितो ह्यध्वर्युर्जुहोति । यतएवमतो ब्रवीमि । वषट्कारानन्तरं स्वाहाकृतस्य हुतस्य मधोः मधुरास्वादस्य धर्मस्य स्वाहाकृतं हुतं मधुरास्वादं घर्मरसं युवां पबतम् । कर्मणि षष्ठी । अत्र ब्राह्मणम् -'नानुवाक्यामन्वाह । सकृदु ह्येव परानः पितरस्तस्मान्नानुवाक्यामन्वाह ॥ विश्वा आशा दक्षिणसदिति । सर्वा आशा दक्षिणसदित्येवैतदाह विश्वान् देवानयाडिहेति सर्वान् देवानयाक्षीदिहेत्ये-वैतदाह... ' ( श ० १४।२।२।१५-१६ ) । अध्यात्मपक्षे -- दक्षिणसद् दक्षिणामत्यन्तमानुकूल्यमुपगतः सन् साधकः, भगवन्तमिष्ट्वेति शेषः, विश्वाः सर्वा दिशः, विश्वान् सर्वान् देवांश्चायाडिष्टवान् भवति । हे अश्विनौ! रामलक्ष्मणौ बलकृष्णी! वषट्कारानन्तरं हुतं मधुरास्वादं घर्मरसं युवां पिबतम् । दयानन्दस्तु – ' हे अश्विनौ अध्यापकोपदेशकौ! यथा युवामिह स्वाहाकृतस्य धर्मस्य मधोरवशिष्टं भागं पिबतम्, तथायं दक्षिणसज्जनो विश्वा आशा विश्वान् देवानयाट् संगच्छेदिति ' तदप्यसत्, अध्यापको -पदेशकार्थेऽश्विशब्दप्रयोगस्य शिष्टैरकृतत्वात् । घर्मशब्दस्य अवशिष्टं यज्ञभागमिति व्याख्यानमपि निर्मूलमेव, निष्प्रमाणत्वाच्छ्तपथश्रुतिविरुद्धत्वात् सिद्धान्तव्याख्याने धर्मशब्दस्य प्रवर्ग्य रसपरत्वस्योक्तत्वाच्च ॥ १० ॥
दि॒विषा॑ इ॒मं य॒ज्ञमि॒मं य॒ज्ञं दि॒िवि र्घाः । स्वाहाज्नये॑ य॒ज्ञिया॑य॒ शं यजुर्भ्यः ॥ ११ ॥
मन्त्रार्थ हे महावीर! मेरे इस यज्ञ को स्वर्ग में स्थापित करो, मैं यज्ञीय अग्नि के लिये यह आहुति समर्पित करता हूँ । यजुर्वेद के मन्त्रों के उच्चारण से हमारा कल्याण हो ॥। ११ ॥ ' दिवि धा इति त्रिरुत्कम्पयति ' ( का ० श्रौ ०२६ | ६ | ५ ) | महावीरं त्रिरूर्ध्वं कम्पयति, सकृन्मन्त्रेण द्विस्तूष्णीमिति सूत्रार्थः । यजुर्धर्मदेवत्यं सामोष्णिक् । हे महावीर! इमं मदीयं यज्ञं त्वं दिवि द्युलोके धा धेहि, स्थापय । पुनरुक्तिरादरार्था । ' अभ्यासे भूयांसमर्थं मन्यन्ते ' ( निरु ० १०/४२ ) इति यास्कोक्तः । ' स्वाहाग्नय इत्यनुवषट्कृते ' ( का ० श्र ० २६ / ६ / ६ ) | अनुवषट् स्वाहेति मन्त्रेण घर्मं जुहोतीत्यर्थः । यज्ञियाय यज्ञहितायाग्नये स्वाहा सुहुतमस्तु, शं सुखं च यजुर्भ्यः सकाशादस्माकमस्त्विति शेषः । यद्वा शं यजुर्भ्यो देहि । शतपथेऽपि -- ' अथ हुत्वोर्ध्वमुत्कम्पयति । असौ वा आदित्यो घर्मो यज्ञो दिवि वा एष हितो दिव प्रतिष्ठितस्तमेवैतत् प्रीणाति ' ( श ० १४/२/२/१७ ) | असावादित्यः खलु धर्मात्मको यज्ञो दिवि अन्तरिक्षे
पृष्ठ 580
पाठ पढ़ें पाठ छिपाएँ
म ० ११-१२ ] वेदार्थपारिजातभाष्यसहिता १ ९ ७ । तत् खलु हितो निहितः प्रतिष्ठितः । इमं प्रवर्ग्यात्मकं यज्ञं दिविधाः स्थापय । ' स्वाहाग्नये यज्ञियायेति ७ स्वाहाकारं स्विष्टकृद्भाजनमग्निर्हि स्विष्टकृच्छं यजुर्भ्यः इति यजुभिषोऽस्मिल्लोके प्रतिष्ठितस्तान्येवैतत्प्रीणात्यवर जुहोतीति । करोति परां देवतामसावेव बन्धुः ' ( श ० १४ | २ | २1१८ ) । अथानुवषट्कार होमं विधत्ते - अनुवषट्कृते जुहोति । तद् अनुवषट्कृते ' घर्मस्याग्नेर्वीहि ३ वौषट् ' इति होत्रा अनुवषट्कृते ' स्वाहा अग्नये ' इति मन्त्रेण । स अनुवषट्कारेण हवनं स्विष्टकृद्भाजनं स्विष्टकृद्यागस्थानीयम् । अग्निः खलु स्विष्टकृत् स्विष्टकृद्यागदेवता । शं सुखं चाग्निरस्मिन् मन्त्रे दृश्यत इति यागमन्त्रयोः संगतिः । शं यजुर्भ्य इति व्याख्यानार्थमुपादानम् । अतः यजुर्मन्त्रेभ्योऽस्त्वित्यर्थः । एष प्रवर्ग्यो यजुमन्त्र अस्मिल्लोके प्रतिष्ठितो यजमानेषु लब्धास्पदो वर्तते प्रतिष्ठानि तानि यजूंष्येवानेन मन्त्रभागेन प्रीणाति । अध्यात्मपक्षे हे घर्म ज्ञानयज्ञाधिष्ठातः! इमं यज्ञं दिवि स्वप्रकाशे ब्रह्मणि, धाः धेहि, ब्रह्मण्येव तात्पर्यावसानात् । अग्नये परमेश्वराय यज्ञियाय यज्ञाय स्वाहा सुहुतमस्तु । येभ्यो यजुः प्रधानेभ्यो । मन्त्र-ब्राह्मणात्मकेभ्योऽयं ज्ञानयज्ञः सम्पद्यते, तेभ्यः शं सुखमस्तु, तत्सम्प्रदायपारम्पर्यमविच्छिन्नमस्त्वित्यर्थः ... ' इति, तदपि दयानन्दस्तु - ' हे स्त्रि पुरुष वा! त्वं यजुर्भ्यः स्वाहाग्नये यज्ञियाय दिवीमं यज्ञं शं धाः, यज्ञस्वरूप-यत्किञ्चित् सम्बोधनस्यैव निर्मूलत्वात् । यज्ञपदस्य संगन्तुमर्हमिति व्याख्यानमपि विसंगतम् यज्ञशब्दः विधायकश्रुतिसूत्रादिविरुद्धत्वात् । श्रुतिसूत्रेषु चाग्न्याधानाग्निहोत्रदर्शपूर्णमास चातुर्मास्यज्योतिष्टोमादिषु प्रयुक्तो दृश्यते । संगन्तुमर्हे व्यवहारादौ दर्शितमेव समाधानम् । तद्यथा - आकाशशब्दस्य भूताकाशार्थत्वेऽप्यु-त्तरेभ्यो वाक्यशेषेभ्यो दहराकाशशब्दस्य ब्रह्मपरत्वमेवेति ॥ ११ ॥
अश्विना घ॒र्म पा॑त॒ं हाद्वा॑न॒मह॑र्दे॒वाभि॑रू॒तिभिः । तन्त्रयिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ॥ १२ ॥
मन्त्रार्थ - हे अश्विनीकुमारों, आपको यह धर्म हृदय से अत्यन्त प्रिय है, अतः प्रातःकाल करते और हैं ॥ सायंकाल १२ ॥ पूरी सुरक्षा के साथ इसका पान करो । हम पृथ्वी और स्वर्ग के लिये एवं सूर्य देवता के लिये नमस्कार ' अश्विना घर्ममिति ब्रह्माऽनुमन्त्रयते ' ( का ० श्रौ ० २६ | ६ | ७ ) | ' अश्विना ' इति भिषक्तमस्तेनैवैनमेतद्यज्ञं मन्त्रेण ब्रह्मा धर्ममनु-मन्त्रयते, ' अथ ब्रह्मानुमन्त्रयते । ब्रह्मा वा ऋत्विजां भिषक्तमस्तद्य एवत्विजां भैषज्यकरः, भिषज्यति ' ( श ० १४ | २ | २ | १ ९ ) इति श्रुतेः । ऋत्विजां मध्ये ब्रह्मा खलु भिषक्तमोऽतिशयेन यज्ञच्छिन्नशिरस्कं छेदनभेदनविस्मरणादिना यज्ञस्य यदङ्गं दूषितम्, तस्य सर्वस्य करणेन समाधातृत्वात् । तस्मादेव अश्विना अश्विनौ! भिषज्यति चिकित्सति । स्वराडुष्णिक् अश्विनावादित्यो द्यावापृथिव्यौ च देवताः । हे? अर्हार्दवाभिः, युवां घर्ममूतिभिरवननिमित्तैः पातं धर्मरसमवनं कृत्वा पिबतमित्यर्थः । कीदृशीभिरूतिभिः । सायंप्रातः कालोपलक्षिताभि-अहः शब्दः पूर्वाह्नवचनः, दिवाशब्दस्तु सायाह्नवचनः । स हि प्रवर्ग्ययोग्यः कालः हार्द्वानस्तम्, रूतिभिर्घमं पिबतमिति यावत् । कीदृशं घर्मम्? हृदि हृदये वानं गमनं यस्य स द्वानः स एव हृदयप्रियमित्यर्थः, ' वा गतिगन्धनयो: ' स्वार्थेऽण् । एवं धर्मपानायाश्विनावभ्यर्थ्य तत्साहाय्याय सूर्यादीन्, नमति - तन्त्रायिणे नमः, तन्यत इति तन्त्रम्, पटनिर्माणाय तुरीशलाकाप्रोताः प्रसारितास्तन्तवस्तन्त्रमुच्यते तद्वदेव नभसि कालचक्रमपि तन्त्रमुच्यते, ' तन्त्रं राष्ट्रे परच्छन्दाप्रधानयोः | अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे || श्रुतिशाखान्तरे शास्त्रे करणे द्वयर्थसाधके । इतिकतर्व्यतातन्त्वो: ' इति महीधराचार्योद्धृताभिधान- आदित्याय नमोऽस्तु । वचनात् । तथा च तन्त्रे कालचक्रे एति निरन्तरं गच्छति यः स तन्त्रायी, तस्मै तन्त्रायिणे