वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 581–590
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 581–590
पृष्ठ 581
पाठ पढ़ें पाठ छिपाएँ
१ ९ ८ शुक्लयजुर्वेद संहिता [ अ ० ३८ यद्वा तन्यतेऽनेनेति तन्त्रं तन्तुपूर्णा तुरी, सा यथा निर्माणसमये प्रतिसूत्रं दक्षिणोत्तरभागावभिलक्ष्य पुनः पुनरावर्तते, तन्त्रवद् अयते सर्वान् लोकान् गच्छतीति तन्त्रायी सूर्यस्तस्मै नमोऽस्तु, ' एष वै तन्त्रायी य एष तपत्येष हीमांल्लोकांस्तन्त्रमिवानुसञ्चरत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति ' ( श ० १४ / २२२ ) इति श्रुतेः । एष खलु इमान् पृथिव्यादीन् लोकान् तन्त्रमिव तन्तुसाधनभूता तुरीवानुसञ्चरति क्रमेणावर्तते । द्यावापृथिवीभ्या-मुभाभ्यां तदधिष्ठात्रीभ्यां देवताभ्यां नमोऽस्तु । अध्यात्मपक्षे हे अश्विनौ रामलक्ष्मणौ बलकृष्णौ वा! घमं दीप्यमानं रसं श्रद्धाभक्तिज्ञानध्यानादिभी रसं पिबतम् । कीदृशं तम्? हार्द्धानं हृदयप्रियम् । काभिः? अहर्दिवाभिरूतिभिः पूर्वात्सायाह्नोपलक्षिताभि-रूतिभिरवनैर्निमित्तभूतैः । यतो भवद्भयां पूर्वात्सायाह्नेोपलक्षितेषु कालेष्वसुरादिनिबर्हणेन त्रैलोक्यमेव रक्षितम्, अतो युवां दीप्यमानं रसं पिबतम् । तन्त्रायिणे सूर्याय द्यावापृथिवीभ्यां च त्वत्सहकारिभ्योऽन्येभ्योऽपि देवेभ्यो नमोऽस्तु । दयानन्दस्तु - ' हे अश्विनौ स्त्रीपुरुषौ! युवामहर्दिवाभिरूतिभिस्तन्त्रायिणे हार्द्धानं घर्मं पिबतम्, द्यावापृथिव्यां तन्त्रायिणे नमो दत्तम् ' इति, तदपि यत्किञ्चित्, अश्विपदेन स्त्रीपुरुषयोर्ग्रहणे मानाभावात्, सम्बोधनस्य निर्मूलत्वात्, हृदं वनति येन तत् किमित्यनुक्तः, अहरित्यस्य प्रतिदिनं कथमर्थ इत्यनुक्तेश्च । तन्त्रायिणे तन्त्राणि कलाशास्त्राणि अयितुं ज्ञातुं प्राप्तुं शीलं यस्य तस्मै नमोऽन्नं दत्तमित्यादिकमुपहासास्पदमेव, गुणिनां तन्निरपेक्षत्वात् श्रुतिविरुद्धत्वाच्च । श्रुत्या तु योऽसौ तपति स सूर्यस्तन्त्रायिपदेनोच्यते ॥ १२ ॥
अपा॑तमश्विनां धर्ममन द्यावापृथिवी अमसाताम् । इ॒हैव रा॒तय॑ः सन्तु ॥ १३ ॥
मन्त्रार्थ - हे अश्विनीकुमारों, इस धर्म का पान करो । पृथ्वी और स्वर्गं तुम्हारे इस कार्य का अनुमोदन करें । इस विधि के अनुष्ठान से हमें इसी स्थान में घन की प्राप्ति हो ॥ १३ ॥
' अपातामिति यजमानः ' ( का ० श्र ० २६/६८ ) यजमानो धर्ममभिमन्त्रयते-- अपातामिति मन्त्रेणेति । ककुबुष्णिक, अश्विदेवत्या । मध्यमः पादो द्वादशार्णः, आद्यन्तावष्टाणी सा ककुप, मध्यमश्चेत् ककुबित्युक्तेः । अश्विना अश्विनौ देवौ, घर्ममपातामपिबताम्, लुङ् । तच्चाश्विनोर्घर्मपानं साध्वभूदिति द्यावापृथिवी अन्वमं-सातामनुमतवत्यौ । अत एवाश्व्यादिप्रसादादिहैवास्मद्गृहे स्थितानामस्माकं रातयो धनानि सन्तु, ' तदिमे पृथिवी आह योरिद सर्वमधी हैव रातयः सन्त्वितीहैव धनानि सन्त्वित्येवैतदाह ' ( श ० १४ । २।२।२६ ) इति श्रुतेः । रायन्ते दीयन्त इति रातयो धनानि ' रा दाने ', इहैवास्मिल्लोकेऽस्मद्गृहे वा नोऽस्माकं धनानि सन्तु, इतीममेवार्थमाह मन्त्र इत्यर्थः । अध्यात्मपक्षे अश्विनौ पूर्वोक्तौ रामलक्ष्मणौ धर्ममपाताम् । तच्च तयोः पानं द्यावापृथिव्यौ अन्वमं-सातामनुमेनाते । अत एवैषां देवानामनुग्रहादिहैव जीवने रातयो ज्ञानवैराग्यादिरूपाणि धनानि सन्तु दयानन्दस्तु - ' हे अश्विनौ स्त्रीपुरुषौ! युवां वायुविद्युताविव धर्ममपाताम्, घर्मं गृहाश्रमव्यवहारानुष्ठानं मन्येताम्, द्यावापृथिवी इव धर्ममन्वमंसाताम् । यत इह रातय एव सन्तु ' इति, तदपि यत्किञ्चित्, घर्मपदस्य गृहाश्रमव्यवहारानुष्ठानार्थत्वे मानाभावात् सूर्यभूमी इव मन्येतामित्यप्यसंगतम्, मूलमन्त्र इवप्रयोगादर्शनात्, तयोर्जडत्वेन दृष्टान्तानुपपत्तेश्च ॥ १३ ॥
पृष्ठ 582
पाठ पढ़ें पाठ छिपाएँ
म ० १४ ] वेदार्थपारिजातभाष्यसहिता १ ९९ इ॒वेव॑वस्य॒र्जे मि॑न्वस्व॒ ब्रह्म॑णे पिन्वस्व क्ष॒त्राय॑ पिन्वस्व॒ द्यावा॑पृथि॒वीभ्यां पिन्वस्व । ॥ सु॒धर्माऽमे॑न्य॒स्मे न॒म्णानि॑ धारय॒ ब्रह्म॑ धारय क्ष॒त्रं घा॑रय॒ विश॑ धारय ॥ १४ पृथ्वी और स्वर्ग के मन्त्रार्थ - हे घमं! तुम वृष्टि के लिये, अन्न के लिये, ब्राह्मणों के लिये, क्षत्रियों के लिये धारक , हो । क्रोध किये लिये पुष्टिकारक बनो । हे साधु धारणशील! तुम आहुतियों के परिणाम के को द्वारा और सारे जगत् वैश्य के जाति को सब प्रकार से बिना हमें धन - धान्य से सम्पन्न करो । ब्राह्मण जाति को, क्षत्रिय जाति पुष्ट करो ॥ १४ ॥
धर्ममभि-' इषे पिन्वस्वेति पिन्वमानमनुमन्त्रयते ' ( का ० श्र ० २६ / ६ / ९ ) पिन्वमानमाहवनी सिच्यमानं मन्त्रयते, ' अथ पिन्वमानमनुमन्त्रयते ' ( श ० १४ २ २ २७ ) इति श्रुतेः । वषट्कारानुवषट्कारयोर्महावीरस्थं विधत्ते --हत्वा यत्तत्रावशिष्टं तेन प्रतिदिशं पिन्वनं कार्यम् । तस्मिन् समये यजमानस्य पिन्वमानानुमन्त्रणं , ' इषे पिन्वस्व ' इति अथेति सेचने ', आहवनीये सिच्यमानं धर्मम् । अथ होमानन्तरं पिन्वमानम्, ' पिवि मन्त्रेणानुमन्त्रयते । ऋचां पङ्क्तिः, धर्मदेवत्या । हे पिन्वमान धर्म! इषे वृष्टयै पिन्वस्व, विप्रुषो मुञ्च । ऊर्जे तदाह अन्नाय - यो पिन्वस्व सिचस्व | ब्रह्मणे ब्राह्मणेभ्यः, क्षत्राय क्षत्रियेभ्यः, द्यावापृथिवीभ्यां पिन्वस्व, ' वृष्टयै तस्मै इषे वृष्टादूर्ग्रसो जायते तस्मै तदाह ' ( श ० १४ १२ १२/२७ ) इत्यादिश्रुतेः । इष्यते सर्वप्राणिभिरितीट् , तस्मै रसाय पिन्वस्व । वृष्टयै वर्षणार्थम् । मेघैर्वृष्टात् सिक्ताद् उदकाद् य ऊर्ग रसोऽन्नरसो जायते अन्यत् स्पष्टम् । ' धर्मासीत्युत्क्रामत्युत्तरपूर्वार्धम् ' ( का ० श्र ० २६ । ६ । १० ) । ऐशानीं दिशमुत्क्रामतीत्यर्थः धारणमसि । यजुर्गायत्री , आहुति-घर्मदेवत्या । हे धर्मं हे सुधर्म, सुष्ठु धारयतीति, हे साधु धारणशील! त्वं श्र धर्मः ० २६ सर्वजगतो । ६ । ११ ) । ' अमेन्यस्मे ' इति परिणामद्वारेण सर्वं धरसीत्यर्थः । ' अमेन्यस्मे इति खरे करोति ' ( का ०! अमेनि मिनोति हिनस्तीति मन्त्रेण महावीरं खरे करोति, आसादयतीत्यर्थः । ऋम्बृहती धर्मदेवत्या । हे धर्म, अमेनिरहिंसन् अक्रुध्यन् मेनिः, ' मित्र हिंसायाम् ' ' सुपां सुलुक् ' ( पा ० सू ० ७ | १ | ३ ९ ) इति सुलोपः । न मेनिरमेनिः ' अक्रुध्यन्नो धनानि धारय ' सन् अस्मे अस्मासु नृम्णानि धनानि धारय स्थापय । नृन् नमयतीति नृम्णम् । कुरु । ' स यदूर्ध्वं पिन्वते ( श ० १४ | २ | २ | ३० ) इति श्रुतेः । क्षत्रं विशं च धारय, विप्रादीनस्मादनुकूलान् च पिन्वनमर्थवादेनोन्नयति, सपदि तद्यजमानाय पिन्वते ' ( श ० १४।२।२।२८ ) इति श्रुतिः प्रागादिदिक्षु मध्ये पिन्वते । प्राङ्मुखो देवेभ्यः, ऊर्ध्व ऊर्ध्वाभिमुखो मध्ये पिन्वते तत्तदा यजमानाय यजमानस्य श्रेयोऽर्थमेव यजमानस्य अनपराद्धमेव, दक्षिणतः पितृभ्यः, प्रत्यङ्मुखः पशुभ्यः, उदङ्मुखः प्रजायै । एवं क्रमेण पिन्वते प्रथमं पिन्वित्वा प्राच्यादिषु अन्यथाकरणेऽपराध एव । ऊर्ध्वः स्वर्गाभिमुखो यजमानस्तस्मात्तदर्थं मूर्ध्वाभिमुखः धर्मं सिञ्चेत् । , ‘ अथ प्राङिवोदङ्ङुत्क्रामति । धर्मासि सुधर्मेत्येष वै धर्मो य एष तपत्येष हीद, सर्वं धारयत्येतेनेद, सर्वं धृतमेष उ प्रवर्ग्यस्तदेत मेवैतत्प्रीणाति ' ( १४।२।२।२ ९ ) । अथ प्राङ्मुख इव भूत्वा उदङ्मुख उत्क्रामति आहवनीयदक्षिणदेशाद् वेदिमतिक्रम्य वेदेरुत्तरतो गच्छेद् धर्मासीति मन्त्रेणेति । मन्त्रस्य तात्पर्यगम्यमर्थमाह- जगद् एष य एष सूर्यस्तपति एष खलु धर्मो धर्मशब्दाभिधेयः । कुत इति चेदुच्यते - हि यस्मात् इदं खरे सर्वं सादयति । धारयति प्रवर्षप्रकाशादिना पोषयति । सर्वमेतेनैव धृतं पोषितं दृश्यते । धारकत्वाद्धर्मः । ' अथ
पृष्ठ 583
पाठ पढ़ें पाठ छिपाएँ
२०० शुक्लयजुर्वेद संहिता [ अ ० ३८ अमेन्यस्मे नृम्णानि धारयेत्यक्रुद्धन्नो धनानि धारयेत्येवैतदाह ब्रह्मधारय क्षत्रं धारय विशं धारयेत्येतत् सर्वं धारयेत्येवैतदाह ' ( श ० १४ । २ । २३० ) इति हि श्रुतिः । एवमुत्तरतोऽतिक्रम्य आहवनीयमुत्तरेण सिकताभिः कृधि सादयति महावीरं निदधाति । अध्यात्मपक्षे — हे घर्मं! त्वम् इषे इष्यमाणाय मोक्षाय निरावरणब्रह्मपदाय पिन्वस्व ज्ञानविप्रुषो मुख । ब्रह्मणे ब्राह्मतेजसे, क्षत्राय क्षात्रतेजसे सिञ्चस्व । द्यावापृथिवीभ्यां पिन्वस्व । हे ज्ञानयज्ञ! त्वं धर्मास धर्म-रूपोऽसि, सर्वधारकत्वात्, ' अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ' इत्युक्तेः । सुधर्मासि सुष्ठु सर्वं धारयसि, परमधर्मत्वात् । अस्मे अस्मभ्यम्, नृम्णानि धनानि ज्ञानवैराग्यलक्षणानि धारय, ब्रह्म ब्राह्मं तेजः, क्षत्रं क्षात्रं तेजः, विशः पोषकं तेजश्च धारय । दयानन्दस्तु -- ' हे धर्म सुधर्म पुरुष स्त्रि वा! त्वमनेन्यसि येनास्मे नृम्णानि धारय ब्रह्म धारय क्षत्रं धारय विशं धारय । तेनेषे पिन्वस्वोर्जे पिन्वस्व ब्रह्मणे पिन्वस्व क्षत्राय पिन्वस्व द्यावापृथिवीभ्यां पिन्वस्व ' इति, तदपि यत्किञ्चित्, धर्मसुधर्मपदाभ्यां स्त्रीपुरुषयोर्ग्रहणस्य निर्मूलत्वात्, लौकिकत्वेन वेदार्थत्वायोगाच्च, अनधिगन्तृत्वेनैव प्रमाणानां प्रामाण्यात्, ब्राह्मणादिपदानां वेदविज्ञानाद्यर्थतापि चिन्त्यैव ॥ १४ ॥
स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा॒ ग्राव॑भ्यः॒ स्वाहा॑हा॒ प्रतिर॒वेभ्यः॑: । स्वाहा॑ पि॒तृभ्य॑ ऊ॒र्ध्वब्र॑हि॑भ्यो घर्म॒पाव॑भ्यः॒ स्वाहा॑हा॒ द्यावा॑पृथि॒वीभ्या॒थ् स्वाहा॑हा॒ विश्वे॑भ्यो दे॒वेभ्यः॑ः ॥ १५ ॥
मन्त्रार्थ --- रससहित पुष्टिकारक प्राण के लिये विषयों को ग्रहण करने वाले प्राणों के लिये, प्रतिशब्द करने वाले प्राणों के लिये, प्रागग्र आसन पर बैठ कर घर्मपान करने वाले पितरों के लिये, पृथ्वी और आकाश के लिये विश्वेदेव देवताओं के लिये हम यह श्रेष्ठ आहुति समर्पित करते हैं ॥ १५ ॥
' विकङ्कतशकलैर्जुहोति घर्मे न्यज्य स्वाहा पूष्णे शरस इति प्रतिमन्त्रम् ' ( का ० श्र ० २६ | ६ | १२ ) । धर्मे नितरामक्त्वा विकङ्कत शकलैर्घर्माज्यं जुहोति स्वाहा पूष्ण इति प्रतिमन्त्रमित्यर्थः । सप्त लिङ्गोक्तदेवत्यानि यजूंषि । अन्यत्र शरसृशब्दो दध्युपरिस्थस्नेहवाचकः, अत्र तु स्नेहमात्रवाची । शरसे स्नेहकर्त्रे पूष्णे वाता प्राणरूपाय स्वाहा सुहुतमस्तु, ' अवर " स्वाहाकारं करोति परां देवताम् ' ( श ० १४/२/२/३२ ) इति श्रुतेरादौ स्वाहाकारस्ततो देवतापदानि । ' अयं वे पूषा । योऽयं पवत एष हीदं सर्वं पुष्यति ' ( श ० १४/२/२/३२ ) । खरे सादनानन्तरं शाकलैः शकलसाधन होममन्त्रः स्वाहा पूष्णे शरसे स्वाहा इति सप्तभिः शकलैर्जुहोति । ग्रावभ्यः, गृह्णन्ति ये ते ग्रावाणः प्राणा विषयग्रहणशीलास्तेभ्यः स्वाहा, ' प्राणा वै ग्रावाणः प्राणानेवास्मिन्नेतद्दधाति ' ( श ० १४/२/२/३३ ) इति श्रुतेः । प्रतिरवेभ्यः प्रतिरुवन्ति शब्दं कुर्वन्ति प्रतिरमन्ते वा यान् प्राप्येति प्रतिरवास्तेभ्यः स्वाहा, ' प्राणा वै प्रतिरवाः प्राणान् ही सर्वं प्रति रतम् ' ( श ० १४ | २ | २ | ३४ ) इति श्रुतेः । प्रतिरवशब्देन प्राणा एवोच्यन्ते, हि यस्मात् इदं सर्वं जगत् प्राणान् प्रति रतं प्राणे रममाणं सद् दृश्यते, तस्मात् प्राणा एव प्रतिरवाः । ' चतुर्थमहुतमुदङ्ङीक्षमाणो दक्षिणतो बर्हिष्युपगूहति ' ( का ० श्र ० २६ | ७ | १४ ) । चतुर्थं शकलमहुतमेवोदीचीं पश्यन् वेदेर्दक्षिणभागे वेद्यामास्तीर्णे बर्हिषि दक्षिणभागे स्वयमुदीचीं दिशमीक्षमाण उपगूहति संवृणोति, यथा शकलो न दृश्येत तथा बर्हिषोऽधस्तान्निदध्यादित्यर्थः । ' यन्न प्रेक्षते सकृदु ह्येव पराञ्चः पितरः ' ( श ० १४ | २ | २ | ३५ ) इति शकलस्य प्रेक्षणं न कुर्यात् । तत्र हेतु: - -- परानः स्वतः पराङ्मुखा लोकाः, अभिमुखं पितरः । सकृदु हि एकवारकरणमेव तेषां प्रियम्, तच्छकलस्य पुनः पुनः प्रेक्षणे क्रियमाणे तद्
पृष्ठ 584
पाठ पढ़ें पाठ छिपाएँ
म ० १५-१६ ] वेदार्थपारिजातभाष्यसहिता २०१ ब्याहन्येतेति । आदानसमये प्रेक्षित्वा पश्चाद् उद्वहनसमये न प्रेक्षेत । पितृभ्यः स्वाहा सुहुतमस्तु । कीदृशेभ्यः? ऊर्ध्वबहिभ्यः, ऊर्ध्वं प्रागग्रं बहिर्येषां तेभ्यः, सोमपाभ्य इत्यर्थः । घर्मपावभ्यः, धर्मं पिबन्ति ये ते धर्मपावान -स्तेभ्यः स्वाहा । द्यावापृथिवीभ्यां प्राणोदानाभ्यां स्वाहा सुहुतमस्तु, द्यावापृथिवीशब्देन तयोरेवाभिधानात्, ' प्राणोदानौ वै द्यावापृथिवी प्राणोदानावेवास्मिन्नेतद्दधाति ' ( श ० १४ | २ | २ ३६ ) इति श्रुतेः । विश्वेभ्यो देवेभ्यः प्राणेभ्यः स्वाहा, ‘ प्राणा वै विश्वे देवाः प्राणानेवास्मिन्नेतद्दधाति ' ( श ० १४ | २ | २ | ७ ) इति श्रुतेः । अध्यात्मपक्षे -- पुष्यति सर्वं यस्तस्मै शरसे स्नेहात्मने परमेश्वराय स्वाहा सर्वमर्पितमस्तु | ग्रावभ्यः, तस्मै सर्वात्मत्वविवक्षया ग्रावभ्यः प्राणेभ्यः प्राणरूपाय तस्मै स्वाहा । प्रतिरवेभ्यः, यान् प्राप्य सर्वे रमन्ते तेभ्यः पितृभ्यः सर्वपालकेभ्य ऊर्ध्वबर्हिभ्यः सोमपाभ्यः स्वाहा । धर्मपावभ्यो द्यावापृथिवीभ्यां स्वाहा । तत्तद्रूपापन्नाय सर्वात्मने परमेश्वराय • सुहुतमस्तु दयानन्दस्तु - स्त्रीपुरुषैः पूष्णे शरसे स्वाहा प्रतिरवेभ्यः स्वाहोर्ध्वबहिभ्यो घर्मपावभ्यः पितृभ्यः स्वाहा द्यावापृथिवीभ्यां स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सदा प्रयोज्या ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात्, स्वाहाशब्दस्य तत्तदर्थकत्वे मानाभावाच्च । न च द्यावापृथिवीभ्यां न वा पृथिव्यादिभ्यः सत्यवाचः सार्थक्यम् त्वद्रीत्या तेषां जडत्वात् ॥ १५ ॥
स्वाहा॑ रु॒द्राय॑ रु॒द्रहु॑तय॒ स्वाहा॒ सं ज्योतिष ज्योतिः । अहः के॒तुना॑ जुषतां सुज्योति-ज्र्ज्योति॑षा॒ स्वाहा॑ । रात्रंः के॒तुना॑ जुषता॑ सु॒ज्योति॒ज्र्ज्योति॑षा॒ स्वाहा॑ । मधु॑ हुतमिन्द्रतमे अ॒ग्नाव॒श्याम॑ ते देव घर्म॒ नम॑स्ते अस्तु मा मा॑ हिंसीः ॥ १६ ॥
मन्त्रार्थ - स्तोता के द्वारा स्तुत रुद्र के लिये हम यह श्रेष्ठ आहुति देते हैं । हे धर्म में स्थित घृत! तुम उपयमनी मेंस्थित घृत से मिल जाओ, हम तुम्हारे लिये यह आहुति देते हैं । कर्म द्वारा ज्योतियुक्त हुआ तेज दिन के तेज से मिल जाय, इसके लिये यह आहुति दी जाती है । रात्रि कर्म द्वारा संगत होकर ज्योतियुक्त तेज अपने तेज से मिल जाय, इसके लिये यह आहुति समर्पित है । हे धर्मदेव! अति बलशाली अग्नि में होमे गये तुम्हारे घर्माज्य अंश का हम भक्षण करते हैं, आपके प्रति हम विनम्र भाव से नमस्कार करते हैं । आप हमें किसी प्रकार की पीड़ा न पहुँचावें ॥। १६ ॥ ' सप्तमं च सर्वलेपाक्तं दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति ' ( का ० श्र ० २६ / ६।१५ ) । मूलाग्रावधि घर्मं घृताभ्यक्तं कृत्वा सप्तमं शकलं दक्षिणं पश्यन् प्रतिप्रस्थात्रे ददातीत्यर्थः । ' अहुत्वैव दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति त ै स उत्तरतः शालाया उदवन्निरस्यत्येषा ह्येतस्य देवस्य दिक् स्वायामेवैनमेतद्दिशि प्रीणात्यथ यन्न प्रेक्षते नेमा रुद्रो हिनसीदिति ' ( श ० १४/२/२/३८ ) इति श्रुतेः सप्तमस्य शकलस्य होमं निषिद्धय निरसनं विधित्सुराह - ' स्वाहा रुद्राय ' इति मन्त्रं पठन् सर्वेषु लेपेष्वन्त्यं सप्तमं शकलमहुत्वैव दक्षिणां दिशमीक्षमाणः स्वयं शकलमपश्यन् अध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति । स च प्रतिप्रस्थाता तं शकलं शालाया उत्तरतः प्राग्वंशं गृहस्योत्तरभागे उदचम् उदगग्रं निरस्यतिं क्षिपेत् । कुत उदीच्यामेव तन्निरसनम्? कस्माच्च शकलस्य न प्रेक्षणमिति? तदुभयमुपपादयति - एषा खलु उदीची, एतस्य रुद्रस्य देवस्य दिक्, उत्तरपूर्वार्द्धाया दिशो रुद्रेण पाल्यमानत्वाद् उत्तरापि तत्संबन्धिनी, तेन तत्रैव निरसनम् । तद् मामध्वर्युं नेद् नैव हिनसद् हिंस्यात्, इत्यनेनाभिप्रायेण न प्रेक्षेत । २६
पृष्ठ 585
पाठ पढ़ें पाठ छिपाएँ
२०२ [ २०३८ रुद्र इति स्तोतृनामसु पठितम् ( निघ ० ३ | १६ | १२ ) । रुद्रः स्तोतृभियत आहूयत इति उक्तः रुद्रहूतिस्तस्मै । शेषैः स्तोस्तृस्तुताय रुद्राय देवाय स्वाहा सुहुतमस्तु | एवं सप्तयजुषां मध्ये ( का चतुर्थसप्तमयोर्विनियोग ० श्र ० ६ ६ ६ | १७ ) | परीशासाभ्यां पञ्चशकलैराज्यहोमः । ‘ स्वाहा सं ज्योतिषेत्युपयमन्यामासिञ्चति घर्म्यम् ' घृतमुपयमन्यामासिञ्चति । घर्ममुत्पाटय उपयमनीस्रुक् पुष्करस्योपर्यधोमुखं कुर्यात् । अर्थाद् घयं धर्मसंबन्धि पूर्वं स्रुक्स्थं घर्मे नीतम्, इदानीं घर्मस्थं स्रुचि नयतीत्यर्थः । पयोदेवत्यं यजुरनुष्टुप् । ज्योतिर्धर्मस्थं घृतं ज्योतिषोपयमनीस्थेन घृतेन सङ्गच्छताम् । स्वाहा पयो सुहुतमस्तु भवति, ' अथ महावीरादुपयमन्यां प्रत्यानयति । स्वाहा सं ज्योतिषा ज्योतिरिति ज्योतिर्वा इतरस्मिन् । महावीरे वर्तमानस्य ज्योतिरितरस्यां ते ह्येतदुभे ज्योतिषी संगच्छेते ' ( श ० १४1 1२1४० ) इति श्रुतेः शिष्टस्य हविष उपयमन्यामासेचनं विधत्ते - ' स्वाहा सं ज्योतिषा ' इत्यनेन मन्त्रेण ॥ इतरस्मिन् महावीरसकाशाद्भुतशिष्टं अन्यतरस्मिन् घर्मरसमुपयमन्यां स्रुचि प्रत्यानयति, तदेतन्मन्त्राभिप्रायकथनेन स्तौति -- ज्योतिर्वेति । एतद् एतेनासेचनेन महावीरे ज्योतिस्तेजोरूपं पयो भवति, इतरस्यामुपयमन्यामाज्यलक्षणं ज्योतिर्भवति ज्योतिरुपय-ते एव ज्योतिषी संगच्छेते परस्परं संयुज्येते । तथा च ज्योतिषा उक्तलक्षणेन महावीरस्थेन मनीस्थं संगच्छते । ' मन्त्रक्रमेणोत्तर रौहिणं जुहोति ' ( का ० श्र ० २६ । ६ । १८ ) । उत्तरं रोहिणं मन्त्रक्रमेण सं ज्योतिषा ज्योतिरिति मन्त्रकर्मणोऽनन्तरं जुहोतीत्यर्थः । अहः केतुना, केतुना प्रज्ञया कर्मणा वा सहितमहदिनं जुषतां रोहिणहोमेन प्रीयताम् । कीदृशमहः? ज्योतिषा स्ववीर्येण तेजसा सुज्योतिः शोभनतेजस्कम् । स्वाहा एतद्धविः सुहुतमस्तु । तथैव केतुना रात्रिर्जुषतां रौहिणहोमेन प्रीयताम् । ' अथ रौहिणौ जुहोति । अहः ( श ० १४ | २ | २ | ४१ ) । सायम्प्रातः कालयोः प्रवृञ्जनोपरिष्टात्काले होतव्यत्वेन विहितौ रौहिणपुरोडाशौ । तावस्मिन् काले होतव्यौ । प्रत्यानयनान्तरं सायम्प्रातः कालीनयोः प्रवर्ग्ययोरुत्तरौ रोहिणपुरोडाशौ । तयोरेको घर्म हो दोहनात् प्राक्काले हुतः, अपरस्त्वस्मिन् काले होतव्यः । ' अग्निहोत्रावृता हुत्वा वाजिनवद् भक्षयन्ति मधु हुतमिति ' ( का ० श्री ० २६ । ६ । २० ) । उपयमन्यामानीतं घर्माज्यमग्निहोत्रहोमप्रकारेण समन्त्रकं हुत्वा वाजिनवदुपवप्रार्थनपूर्वकं भक्षयन्ति होत्रध्वर्यु ब्रह्म प्रस्तोतृप्रतिप्रस्थात्रग्नीद्यजमानाः । धर्मदेवत्यम् ऋग्बृहती । अग्नौ मधु मधुरं घर्माज्यं हुतमस्माभिः । कीदृशेऽग्नौ? इन्द्रतमे मधु इन्द्रं हुतमित्यर्थः वीर्यमस्या- । स्तीति इन्द्रवान् सोऽतिशयित इन्द्रतमः वत्प्रत्ययलोपः तस्मिन् इन्द्रतमे वीर्यवत्तमेऽग्नौ ' ' ' ' तथा च श्रुतिः -- ' अथ यजमानाय धर्मोच्छिष्टं प्रयच्छति । स उपहवमिष्ट्वा भक्षयति मधु हुतमिन्द्रतमेऽग्ना मधुरं हुतं शिष्टं वित्येवैतदाह ' ( श ० १४१२२४२ ) । इन्द्रत मे इन्द्रवत्तमे, अग्नौ तदीये जाठरे भक्षयाम तेजसि । अश्नोतेर्विकरण-हविर्हुतमस्तु | अन्यत् स्पष्टम् । हे धर्म, हे देव! ते तव हुतशेषमंशं वयमश्याम रूपम् । व्यत्ययेन ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७३ ) इति शपो लुकि लिङि उत्तमपुरुषबहुवचने अस्तु मा मा ते तुभ्यं नमोऽस्तु । मा मां हिंसीरित्यात्मनः परित्राणमर्थ्यते, ' अश्याम ते देव धर्म नमस्ते हि ७ सीरित्याशिषमेवैतदाशास्ते ' ( श ० १४ ॥२।४२ ) इति श्रुतेः । अध्यात्मपक्षे – रुद्रहृतये स्तोतृभिराहूयमानाय रुद्राय रोगद्रावणाय परमात्मने स्वाहा सुहुतमस्तु | ज्योतिः प्रत्यक्चैतन्यं ज्योतिषा ब्रह्मचैतन्येन संगच्छताम्, केतुना प्रज्ञया वर्तमानं महदिदं दिनं जुषतां प्रीयताम् । तच्च ज्योतिषा स्वकीयेन तेजसा सुज्योतिः शोभनतेजस्कमस्तु । तथैव रात्रिरपि केतुना प्रज्ञया परमेश्वरे ज्योतिषा सुज्योतिरस्तु । तादृशाय दिनाय तादृश्यै रात्र्यै च स्वाहा सुहुतमस्तु । इन्द्रतमे वीर्यवत्तमेऽग्नौ
पृष्ठ 586
पाठ पढ़ें पाठ छिपाएँ
म ० १६-१७ ] --। S --२०३ वेदार्थं पारिजात भाष्य सहिता ८ मन्त्रार्थ - हे अग्निदेव, आपकी सबको पूर्ण करने वाली विस्तारमयी कीर्ति यशरूपी धन से इस द्युलोक और पृथ्वी को व्याप्त करती है । आप सम्पूर्ण देवताओं को तृप्त करते हैं, इसीलिये महान् हैं । इस पुष्करपर्ण पर आप भली प्रकार बैठिये और अपना प्रकाश फैलाइये | हे यज्ञयोग्य उत्कृष्ट अग्निदेव! आप दर्शनीय और रोषहीन होकर अपने घूम को चारों तरफ फैलाइये ॥ १७ ॥
' अभीममिति महावीरम् ' ( का ० श्र ० २६।६।२५ ) । प्रचरणीयं धर्ममासन्द्यां करोति मन्त्रेणेतराणि बृहती | तूष्णीम् । ततः शान्तिपाठ इत्यर्थः । गायत्रीबृहत्यौ मध्येऽवसानहीने । अभीमं गायत्री, संसीदस्व यद्वाऽवसानत्रयोपेताऽतिशक्वरी पष्ट्रयक्षराग्निदेवत्या । एकैव ऋक्, ऋगद्वयं वेत्यर्थः । हे अग्ने! तव महिमा इमं दिवमभिबभूव अभिभवति, ' छन्दसि लुङ्लिङ्गलिट: ' ( पा ० सू ० ३।४६ ) | दिवशब्दः पुल्लिङ्गः, अर्धर्चादि-विप्रो मेधावी । सप्रथाः, प्रथनं प्रथो विस्तारस्तेन त्वात् । कीदृशो महिमा? विप्रः, विशेषेण प्राति पूरयति सर्वमिति सहितः सप्रथाः । उतापि च, श्रवसा धनेन यशसा वा पृथिवीमभिभवतीत्यनुषङ्गः । हे अग्ने, संसीदस्व त्वं, सम्यग् उपविश, यतस्त्वं महान् असि, अनेकक्रतुहेतुत्वात् । स त्वं रोचस्व दीप्यस्व । कीदृशस्त्वम्? देववीतमः देवान् वेति तर्पयतीति देववीः, ' वी कान्त्यादौ सोऽतिशयितो देववीतमः । हे मियेध्य हे मेध्य, हे प्रशस्त उत्कृष्ट! मेध्यशब्दस्य छान्दसो विप्रकर्षः । दर्शनं दर्शनीयमरुषमरोचनं धूमं विसृज विमुच । विधूमेत्यत्रत्यो वीत्युपसर्गः सृजेत्यनेन संबद्ध्यते । अत्र श्रुति: - ' इतो वा अयमूर्ध्व ७ रेतः सिञ्चति धूम ७ सामुत्र वृष्टिर्भवति ' इति । अध्यात्मपक्षे - हे अग्ने परमेश्वर! ते तव महिमा इमं दिवं द्युलोकमभिबभूव अभिभवति । कीदृशो महिमा? विप्रः सर्वपूरकः सविस्तारः, उतापि श्रवसा धनेन यशसा वा पृथिवीमभिभवति । संसीदस्व भक्तानां हृदय पुष्करे सम्यगुपविश । महान् असि सर्वकारणत्वात् । रोचस्व दीप्यस्व देववीतमो देवानां तर्पयितृतमः । दर्शतं दर्शनीयं धूमं धूमतुल्यं जीवानामज्ञानं कामादिदोषं वा विसृज विमुञ्च विमोचय, णिजर्थो द्रष्टव्यः । हे प्रशस्त सर्वोत्तम! दर्शतं दर्शनीयं दिवं वा अभिबभूवेति । दयानन्दस्तु - ' हे प्रशस्त मियेध्याग्ने! महिमा सप्रथाः विप्रस्त्वमिमं दिवमभिबभूव, उतापि श्रवसा पृथिवीं संसीदस्व । यतो देववीतमो महानसि, तस्माद्रोचस्वारुषं धूमं विसृज ' इति, तदपि यत्किञ्चित्, मधु मधुरं परप्रेमास्पदं प्रत्यक्चैतन्यं हुतं समर्पितम् । हे देव धर्म ज्ञानयज्ञ! त्वत्प्रसादाद्:, वयम् अपराधाप- अश्याम आस्वादयाम ब्रह्मसुखम् । ते तुभ्यं नमोऽस्तु । मा मां हिंसीः प्रमादजनितेऽपराधेऽपि मा हिंसी मार्जनेन सर्वथा रक्ष । दयानन्दस्तु - हे स्त्रि पुरुष वा! भवति भवन् वा! केतुना रुद्राय रुद्रहूतये स्वाहा ज्योतिषा ज्योतिः घर्म! स्वाहा ज्योतिषा सुज्योतिरहः स्वाहा संजुषताम् । केतुना ज्योतिषा सुज्योती रात्री रात्रि स्वाहा । हे देव येन त इन्द्रतमेऽग्नौ मधु हुतमश्याम ते नमोऽस्तु । त्वं मां मा हिंसी: ' इति, तदपि यत्किञ्चित् मुख्यार्थत्यागेऽपि, विश्वङ्खलत्वात् । ' रुद्रा जीवाः प्राणा वा हूयन्ते स्तूयन्ते येन तस्मै ' इत्यप्यसंगतम्, जीवप्राणादीनां स्तुतेरपुरुषार्थत्वात् १६ ॥ संबोधनस्यापि निर्मूलत्वात् श्रुतिविरुद्धत्वाच्च । श्रुत्या च रुद्रस्य देवस्य हविरर्पणेऽयं मन्त्रो विनियुक्तः ॥
अ॒भीमं महिमा दिवं॒ विशो॑ बभूव स॒प्रथा॑ । उ॒त श्रव॑सा पृथि॒वी ससदस्व महाँ २ ॥
अ॑सि॒ रोच॑स्व देव॒वत॑मः । वि धूमम॑ग्ने अरु॒षं मि॑ियेध्य सृज प्रशस्त दतम् ॥ १७ ॥
पृष्ठ 587
पाठ पढ़ें पाठ छिपाएँ
२०४ शुक्लयजुर्वेदसंहिता [ अ ० ३८ अग्निपदस्य मुख्यार्थत्यागेन तेजस्विविदुषो ग्रहणे मानाभावात् । दिवमविद्यादिगुणप्रकाशमित्यपि निर्मूलम्, तिमिरात्मकाया अविद्याया दिवमित्यनेन ग्रहीतुमशक्यत्वात् । न च धूमपदस्य यज्ञियधूम एवार्थः, प्रमाणमन्तरा सामान्यस्य विशेषनिष्ठत्वायोगात् विपूर्वस्य सृजतेर्मोचनार्थत्वेन सृष्ट्यर्थत्वायोगाच्च । यज्ञस्य चिकारयिषितत्वे यज्ञं सृजेत्येव स्यात् ॥ १७ ॥
या ते धर्म दिव्या शुग् या गा॑य॒त्र्याएं हविर्धाने । सा त आ ध्यायतां निष्टययतां तस्यै ते॒ स्वाहा॑ । या ते॑ धर्मान्तरि॑क्षि॒ शुग् या त्रिष्टुब्भ्याग्नी॑धे । सा त॒ आ प्या॑यतां॒. निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ । या ते धर्म पृथि॒व्या निष्यतां तस्यै ते स्वाहा॑ ॥ १८ ॥
शुग् या जग॑त्या सद॒स्या ।सा त॒ आ प्या॑यतां मन्त्रार्थ - हे धर्म! तुम्हारी जो दीप्ति द्युलोक में है, गायत्री और यज्ञगृह में है, तुम्हारी वह दीप्ति बढ़े और दृढ़ता से स्थित हो जाय । तुम्हारी उस दीप्ति के लिये हम यह आहुति देते हैं हे धर्म! तुम्हारी जो दीप्ति अन्तरिक्ष में है, त्रिष्टुप् छन्द में है, आग्नीध्र स्थान में है, तुम्हारी वह दीप्ति बढ़े और दृढ़ हो । तुम्हारी उस दीप्ति के लिये हम यह आहुति देते हैं । हे घर्म! तुम्हारी जो दीप्ति यज्ञस्थान और पृथ्वी में है, जगती छन्द में है, तुम्हारी वह दीप्ति बढ़े और दृढ़ हो । उस दीप्ति के लिये हम यह आहुति देते हैं ॥। १८ ॥ ' चतुर्गृहीतेनाभिजुहोति या ते धर्म दिव्या शुगिति ' ( का ० श्र ० २६ | ७ | ३ ) | अध्वर्युराज्यं संस्कृत्य चतुर्गृहीतं कृत्वा तेन जुहोति अग्नीधा ध्रियमाणेषु त्रिषु शलाकात्रिकेषु त्रिभिर्मन्त्रस्तृतीयेनोपविश्येत्यर्थः । त्रीणि यजूंषि घर्मंदेवत्यानि, ऋक्पङ्क्तयः । हे धर्म, या ते तव दिव्या दिवि भवा दिव्या द्युलोकप्रविष्टा शुग् दीप्तिः, या गायत्र्यां छन्दसि प्रविष्टा, या च हविर्धाने यज्ञगृहे प्रविष्टा, सा ते तव शुग् दीप्तिराप्यायतां वर्धताम् । निष्ट्यायतां निष्ट्याना संहता सुदृढा भवतु, ' स्त्यै ट्यै शब्दसंघातयोः । तस्यै ते शुचे ते तुभ्यं च स्वाहा सुहुतमस्तु | हे धर्म, या ते तवान्तरिक्षे त्रिष्टुभि छन्दसि अग्नीध्रे अग्नीध्रसदने च प्रविष्टा, साते तव शुग् आप्यायतां निष्ट्यायताम्, तस्यै ते तुभ्यं च स्वाहा । हे घर्म! या ते शुक् पृथिव्यां प्रविष्टा, या च जगत्यां छन्दसि, या सदस्या सदसि सदोमण्डपे प्रविष्टा, सा ते तव शुग् आप्यायतां निष्ट्यायताम् । तस्यै तुभ्यं च स्वाहा । अत्र ब्राह्मणम् अथाग्नीध्रः । आहवनीये त्रीञ्छलाकानुपकल्पयते तेषामेकमुज्ज्वलय्य मुखदघ्ने धारयमाणो जुहोति यज्ञस्य शीर्षच्छिन्नस्य शुगुदक्रामत् सेमाँल्लोकानाविशत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति ' ( श ० १४ | ३ | १/२ ) इति । अथ घर्मोद्वासना ङ्गत्वेनाहुतित्रयं विधित्सुस्तदर्थं दर्भमुष्टित्रयस्योपकल्पनमाह--सर्वेषां समागमनानन्तरमाग्नीध्र आहवनीयदेशे गत्वा तत्र त्रीन् शलाकान् दर्भशलाकामुष्टीन् संपाद्य धारयेत् । अथ तेषामेकमुज्ज्वलय्य आहवनीये आदीप्य तं मुखदघ्ने मुखप्रमाणे उन्नतदेशे मुखसमं धारयमाणस्तद्गतेऽग्नौ ' या ते घर्म दिव्या शुक् ' इति मन्त्रेण प्रथमाहुति जुहोति । अस्य होमस्य प्रयोजनमाह -- छिन्नशिरस्कस्य यज्ञस्य सकाशात् शुक शोक उदक्रामत् । सा उत्क्रान्ता सती इमान् पृथिव्यन्तरिक्षद्युलोकान् आविशत् । एतद् एतैर्होमैस्तयैव लोकत्रयगतया शुचा एनं यज्ञं समर्धयति, अनेन होमेन लोकत्रय सकाशात् शुचमाकृष्य पुनर्यज्ञे स्थापितवान् भवति । तथा च तं यज्ञं कृत्स्नं संपूर्णं करोति ।
पृष्ठ 588
पाठ पढ़ें पाठ छिपाएँ
म ० १८-१९ ] वेदार्थ पारिजातभाष्यसहिता २०५ ' अथ यन्मुखदध्ने । उपरीव वै तद्यन्मुखदघ्नमुपरीव तद्यदसौ लोकस्तद्याऽमुं लोक शुगाविशत्तयैवैन-मेतच्छुचा समर्धयति कृत्स्नं करोति ' ( श ० १४ | ३ | १ | ३ ) | यन्मुखदनं मुखप्रमाणं तद् उपरीव उन्नतमिव खलु । असौ लोक इति यत्, तदपि उपरीव उपरिष्टात् स्थितः खलु । तत्तथा मुखदघ्नधारणविशिष्टस्य प्रथमहोमस्य द्युलोकस्योन्नतत्वसाम्याद् या शुग् द्युलोकं प्रविष्टा, तथैव शुचाऽनेन खलु होमेन समर्धयति, यज्ञं च कृत्स्नं करोति या ते धर्मं दिव्या शुगिति । हे घर्म! या ते त्वदीया प्रभृतिष्वाश्रिता शुक्, सा आप्यायतां नितरां स्त्यायताम्, संघीभूता सुदृढा भवतु । तस्य शुचे ते तुभ्यं स्वाहा । ' अथ द्वितीय-मुज्ज्वलय्य । नाभिदघ्ने धारयमाणो जुहोति ॥ या ते धर्मान्तरिक्षे ॥ अथ तृतीयमभ्याधाय । तस्मिन्नासीनो जुहोत्यथ इव वै तद्यदासीनोऽध इव तद्यदयं लोकस्तद्येमं लोक. शुगाविशत्तयैवैनमेतच्छुचा समर्धयति ॥ या ते धर्मं पृथिव्या शुगिति ' ( श ० १४ | ३ | ११५ - ८ ) । नाभिदघ्नं मध्यमिव देहस्य मध्यदेशः खलु । अन्तरिक्ष-लोकस्याऽपि भूलोकस्वर्लोकयोर्मध्ये वर्तमानत्वात् साम्यमुभयोः । तेन द्वितीयाहुत्या या शुग् अन्तरिक्षलोकं पूर्वं प्रविष्टा, तया यज्ञं समर्धयति । तृतीयं दर्भशलाकामुष्टिमस्याधाय अग्नौ प्रक्षिप्य स्वयमासीनस्तस्मिन्नग्नो ' या घर्म पृथिव्याम् ' इति मन्त्रेण तृतीयामाहुति जुहोति । अनेन मन्त्रहोमेन भूलोकगतया शुचा यज्ञं समर्धयति । अध्यात्मपक्षे - हे घर्म हे ज्ञानयज्ञ! या ते दिव्या शुग् दीप्तिः प्रकाशः दिवि द्युलोके गता, या च गायत्र्यां प्रविष्टा, या हविर्धाने प्रविष्टा, सा ते तव शुग् दीप्तिराप्यायतां वर्धताम् निष्ट्यायतां संघीभूता भवतु । हे घर्म! या ते शुग् अन्तरिक्षे, या च त्रिष्टुभि, या चाग्नीध्रे, सा आप्यायतां निष्ट्यायताम् । या च धर्म! पृथिव्यां प्रविष्टा या जगत्यां या च सदस्या सदोमण्डपे प्रविष्टा, सा आप्यायतां निष्ट्यायताम् । तस्यै तुभ्यं च स्वाहा अत्यन्तं सम्मानं समर्पयामः । दयानन्दस्तु - हे धर्म विद्वन् विदुषि वा! या ते गायत्र्यां हविर्धाने शुग् या च दिव्या वर्तते सा ते आप्यायताम् · तस्यै ते स्वाहा भवतु ' इति, तदप्यसत्, धर्मशब्देन विदुषो विदुष्या वा ग्रहणे मानाभावात् । गायत्र्यां गायतो दक्षिकायां विद्यायामित्यपि निर्मूलम् तादृश्या विद्याया निर्मूलत्वात् । विदुषो शुक् कथं वर्धते? कथं च संघीभृता सा गायत्र्यां कथं गच्छति? कथं चान्तरिक्षे त्रिष्टुभि कथं चाग्नीध्रे गच्छति? इति सर्वमेतद् दुःसमाधेयमेव ॥ १८ ॥
क्ष॒त्रस्य॑ त्वा पु॒रस्ता॑य॒ ब्रह्म॑णस्त॒न्व॑ पाहि । विशेस्त्वा॒ धर्म॑णा व॒यम॑ क्रामाम सुविताय नव्यसे ॥ १ ९ ॥ मन्त्रार्थ हे धर्म! हम क्षत्रिय जाति के सूर्यदेव के पूरी तरह से पालन के लिये तुम्हारे पीछे चलते हैं, तुम ब्राह्मण के शरीर की रक्षा करो । यज्ञ के धारण के लिये नूतन सभी सामग्रियों से सम्पन्न यज्ञसामग्री के लिये, वैश्य वर्ग की रक्षा के लिये हम तुम्हारे पीछे चलते हैं ॥ १ ९ ॥ ' क्षत्रस्य त्वेति निष्क्रमणं पुरस्तात् पत्नीमन्तर्धाय ' ( का ० श्र ० २६/७ १५ ) | होमानन्तरमध्वर्युः पत्नीमग्रे कृत्वा शालाया निष्क्रामति क्षत्रस्य त्वेति मन्त्रेणेत्यर्थः । उपरिष्टाद्बृहती घर्मदेवत्या । हे धर्म! वयं क्षत्रस्य क्षत्रियस्य परस्पाय परमपालनाय त्वामनुक्रामाम अनुगच्छाम । परः शब्दोऽव्ययम् । पर उत्कृष्टं पायते रक्ष्यत इति परस्पम्, तस्मै तदर्थं त्वामनुक्रामाम इत्यर्थ: । ' अथोपनिष्क्रामति । • एतद्वै दैवं क्षत्रं य एष तपत्यस्य त्वा मानुषस्य क्षत्रस्य परस्पत्वायेत्येवैतदाह ' ( श ० १४ | ३ | १ | ९ ) इति श्रुतिवचनं घर्मोद्वासन देशं प्रति गमकम् । धर्ममेकीकृत्य निधाय आहवनीय आहूतित्रयं हत्वा क्षत्रस्य त्वेति मन्त्रेणोपनिष्क्रामति । य एव सूर्यस्तपति, एतद्वै खलु दैवं
पृष्ठ 589
पाठ पढ़ें पाठ छिपाएँ
२०६ शुक्लयजुर्वेदसंहिता [ अ ० ३८ देवसम्बन्धि क्षत्रं क्षत्रियजातिः । स एव सूर्यो धर्मः । तथा च धर्मस्य क्षत्रियजात्यभिमानित्वाद् अस्य मानुषस्य मनुष्य सम्बन्धिनः क्षत्रस्य क्षत्रियजातेः परस्पाय अतिशयेन रक्षणाय हे धर्म! त्वामनुक्रामाम इति । किञ्च, ब्रह्मणो ब्राह्मणजातेस्तन्वं शरीरं पाहि, ' ब्रह्मण आत्मानं गोपायेत्येवैतदाह ' ( श ० १४ | ३ | ११ ९ ) इति श्रुतेः । किन, विशो यज्ञस्य धर्मणा धारणेन निमित्तेन वयं त्वामनुक्रामाम ' यज्ञो वै विड् यज्ञस्य त्वारिष्टयै ' ( श ० १४ | ३ | १ १ २ ) इति श्रुतेः । यज्ञात्मिका खलु विड् वैश्यजातिः, तत्साधनाज्यक्षी रविः सम्पादकत्वात् । ततश्च विशस्त्वा धर्मणा यज्ञात्मिकाया वैश्यजातेररिष्टयै अहिंसायं वयं त्वामनुक्रामामेति । सर्वमेतत्किमर्थम्? नव्यसे नूतनाय सुविताय सुगताय सुप्रसूताय कर्मणे कर्मसिद्धयर्थं त्वामनुगच्छामेत्यर्थः । सुष्ठु इतं सुवितम्, इण् गतौ ', क्तप्रत्यये उपसर्गस्योवङादेशः । यद्वा सूयते प्रेर्यंत इति सुवितम् ' षू प्रेरणे ' इडागमे धातोरुवङ् । अध्यात्मपक्षे -- हे धर्म! क्षत्रस्य परस्पायं त्वामनुक्रामाम अनुगच्छाम, ज्ञानयक्षेन क्षत्रियो ब्रह्मात्मज्ञानं प्राप्य शोकमोहराहित्ये जनानां क्षतात्त्राणे प्रवर्तते । हे धर्म! ब्रह्मणो ब्राह्मणजातेस्तन्वं स्वरूपं पाहि रक्ष, ब्रह्मज्ञानेनैव ब्राह्मणस्य मुख्यं ब्राह्मण्यं रक्ष्यते । हे धर्म! विशो वैश्यजातेर्धर्मणा धारणनिमित्तेन त्वामनुक्रामाम । वैश्यजातिरपि ब्रह्मज्ञानेन शोकमोहराहित्ये यज्ञीयाज्यक्षी रहविः संपादने प्रवर्तते । हे धर्म! वयं नवीयसे नूतनाथ सुविताय सुप्रसूताय ज्ञानाय त्वामनुक्रामामेति । दयानन्दस्तु ' हे राजन् राशि वा! त्वं परस्पाय क्षेत्रस्य ब्रह्मणस्त्वा तन्वं पाहि, यथा वयं नव्य सुविताय धर्मणानुकामाम, तथैव धर्मणि वर्तमानं त्वां विशोऽनुगच्छन्तु ' इति, तदपि यत्किचित् घर्मपदस्य राजार्थ-कत्वे मानाभावात् । परस्पायेत्यस्य येन परानन्यान् तपति तस्मै ' इति व्याख्यानमपि निर्मूलम् परः शब्दस्या-न्यार्थत्वे मानाभावात् । ' विशोऽनुगच्छन्तु ' इत्यप्यसंगतम्, मूले ' अनुगच्छन्तु ' इति पाठाभावात् ॥ १ ९ ॥ चत॑ः स्रुक्तर्नाभि॑र्ऋतस्य॑ स॒प्राः स नो॑ वि॒श्वायुः॑ अप॒ द्वेषो॒ अप॒ ह्वरोऽन्यव्रतस्य सश्चिम ॥ २० ॥
स॒प्राः स नः॑ स॒वयः॑ स॒प्रथा॑ः । मन्त्रार्थ- - वह दिशारूप चार कोनों वाला तथा सत्य यज्ञ का बन्धन स्थान अपने पूरे विस्तार के साथ पूर्ण आयु का दाता हैं । वह हमें पूर्ण आयु दे, वह हमारे यश को बढ़ावे । उसके अनुग्रह से हमारा सारा द्वेष दूर हो जाय । जन्ममरण लक्षण वाला संसरण दूर हो जाय । हम परमात्मा की सेवा में लग जाँय, अर्थात् हमें सायुज्य मोक्ष की प्राप्ति हो ॥ २० ॥
' नाभिस्पृशं प्रवृञ्जनीयं निदधाति चतुःस्रक्तिरिति ' ( का ० श्र ० २६ | ७ | ११ ) । उत्तरवेदेर्मध्यभागः प्रादेशविस्तृत एकाङ्गुलोच्चो नाभिः नाभेः पुरस्तान्नाभिपृष्टमेव महावीरमासादयेत् परिस्पन्दे उत्सादयेत्, जलयुक्ते द्वीपे धर्मोद्वासनं कुर्यात् । पक्षान्तरमाह - ' उत्तरवेदौ त्वेवोत्सादयेत् । यज्ञो वा उत्तरवेदिः शिरः प्रवयों यज्ञ एवैतच्छिरः प्रतिदधाति ' ( श ० १४ | ३ | १ | १५ ) इति हि श्रुतिः । ' उत्तरनाभ्या स स्पृष्टं प्रथमं प्रवर्ग्य-मुत्सादयति वाग्वा उत्तरनाभिः शिरः प्रवर्ग्यः शीर्षस्तद्वाचं दधाति ' ( श ० १४ | ३ | ( | १६ ) | महाबृहती धर्मदेवत्या । स धर्मो नोऽस्माकं विश्वायुः, विश्वं सर्वं पूर्णमायुर्यस्मात् स विश्वायुः, पूर्णायु: -प्रदोऽस्त्वित्यर्थः । पुनरुक्तिरादरार्था । कीदृशः सः? चतुस्रक्तिः, चतस्रः स्रक्तयः कोणा दिग्रूपा यस्य सः, एष वै चतुःस्रक्तिर्य एष तपति दिशो ह्येतस्य स्रुक्तय: ' ( श ० १४ | ३ | १ | १७ ) । एतस्यादित्यात्मकस्य महावीरस्य प्राच्याद्याश्चतस्रो महादिशः खलु स्रक्तयः कोणाः । तथा ऋतस्य सत्यस्य यज्ञस्य वा नाभिः, नहनं बन्धनस्थानम् । सप्रथाः सर्वतः पृथुः सर्वतः प्रख्यातो वा ' सत्यं वा ऋत, सत्यस्य नाभिः सप्रथा इत्येवैतदाह ' ( ० १४ | ३ | १ | १८ ) इति श्रुतेः ।
पृष्ठ 590
पाठ पढ़ें पाठ छिपाएँ
म ० २०-२१ ] वेदार्थं पारिजातभाष्यसहिता २०७ स्यामेति । अप ह्वरोऽपगच्छतु हे घर्म! त्वत्प्रसादाच्च अप द्वेषः, अपगच्छतु द्वेषोऽस्मत्तः ' ।, येन जनित्वा वीतरागा मरणं मृत्वा पुनर्जननमेव चलनम् । ह्वरश्चलनं जन्ममरणं चलनं सरणमस्मत्तोऽपगच्छतु, ' ह्वर चलने जगदनुग्रहरूपं यस्य सोऽन्यत्रतः परमेश्वरस्तस्य, अन्यव्रतस्य सश्चिम । अन्यद् मनुष्यकर्मणो भिन्नं व्रतं कर्म ', परमात्मभावं प्राप्नुम इत्यर्थः, ' अन्यद्वा एतस्य कर्मणि षष्ठी, तमन्यत्रतं परमेश्वरं सेवामहे ' सच सेवने ३ | १ | १ ९ ) इति श्रुतेः । व्रतमन्यन्मनुष्याणां तस्मादाहान्यव्रतस्य सविमेति ' ( श ० १४ । चतुरस्रः अध्यात्मपक्षे - स धर्मः प्रकाशात्मा यज्ञानां शीर्षभूतो ज्ञानयज्ञश्चतुस्रक्तिः सर्वतः प्रख्यातः , चतुर्दिग्व्यापृतत्वेन विश्वायुः पूर्णायुःप्रदः, समग्रः, ऋतस्य सत्यस्य ब्रह्मणो नाभिर्बन्धनं नियमेन प्रापकः सप्रथाः, अपह्वरो जननमरणलक्षणं चलनं पुनरुक्तिरादरार्था । तत्प्रसादाच्च अपद्वेषोऽस्मत्तो सश्चिम द्वेषादिर्दोषोऽपगच्छन्तु सेवामहे, सायुज्यं च प्राप्नुम । चापगच्छतु । अन्यव्रतस्य, लोकानुग्रहव्रतं परमात्मानं अन्वव्रतस्यर्तस्य परमात्मनः सेवां करोति, दयानन्दस्तु - हे मनुष्याः! यथा चतुःसक्तिर्नाभिरिव परमेश्वरो सप्रथा विद्यां ग्राहयतु येन वयं द्वेषोऽपसश्चिम, तथा स सप्रथा विश्वायुर्नोऽस्मान् बोधयतु स सप्रथा सर्वायुर्नः । न च प्रसिद्ध नाभेश्वतुरस्रत्वम्, नाभेर्वृत्ताकार -यूयमपि कुरुत ' इति, तदपि यत्किञ्चित् संबोधनस्य निर्मूलत्वात् । अन्येषां पालने व्रतं शीलं यस्य तस्येत्यपि त्वात्, नाभिरिवेति मुख्यार्थत्यागे गौणार्थग्रहणे मानाभावाच्च । लोककल्पनाऽपि निर्मूलैव । अन्यदपि गौणार्थाश्रयणमुलकत्वेन विसंगतम्, पालनपदस्य मूलेऽभावात् मन्त्रबाह्यमेव ॥ २० ॥
घर्मैतत्ते॒ पुरी॑षं॒ तेन॒ वर्ध॑स्व॒ चा च॑ प्यायस्व ।
व॒धिषीमहिं च व॒यमा चे प्यासिषीमहि ॥ २१ ॥
बढ़ो और पुष्ट हो जाओ । तुम्हारे साथ ही मन्त्रार्थ - हे धर्म! यह दूध तुम्हारा अन्न है । इस दूध के द्वारा तुम हम भी वृद्धि को प्राप्त करें और पुष्ट हो जाँय ॥ २१ ॥
) । आसेचनं गर्तः, तद्युतानि ' आसेचनवन्ति पयसः पूरयति घर्मेतत्त इति ' ( का ० श्र ० २६ | स्रुवश्चेति ७/२३ । पयस इति षष्ठी तृतीयार्थे । पात्राणि दुग्धेन पूरयति । तानि च सप्त महावीरत्रयं द्वे पिन्वने, उपयमनः पृणाति पूरयतीति पुरीषम्, पूरयितृ अन्नम्, घर्मदेवत्या अनुष्टुप् । हे धर्म, एतत् पयः, ते तव पुरीषम् १ । २३ ) इति श्रुतेः । तेन पयसा वर्धस्व आप्यायस्व ' अन्नं वै पुरीषमन्नमेवास्मिन्नेतद्दधाति ' ( श ०१४ | ३ | वृद्धि प्राप्नुयाम पुत्रपश्वादीन् वृद्धान् करवाम । च । भवत्प्रसादाद् वयं च वर्धिषीमहि आप्यासिषीमहीति , तेन वर्धस्व आप्यायस्व अध्यात्मपक्षे – हे घर्म! एतद् वेदान्ताध्ययनाध्यापनादिकं ते पुरीषं शिष्यादींश्च पूरकमन्नम् वृद्धान् कृतात्मसाक्षात्कारान् च । त्वत्प्रसादान्निर्विघ्नश्रवणादिना वयं वर्धिषीमहि अन्यानधिकारिणः सम्पादयाम | तेन त्वं वर्धस्व चान्यान् वर्धयस्व, दयानन्दस्तु -- हे घर्म जगदीश्वर विद्वन् वा! यदेतत्ते पुरीषमस्ति अन्यांश्च , वर्धयेम, तथा यूयमपि कुरुत ' आप्यायस्व अन्यांश्च पोषय । तव कृपया शिक्षया च वयं वर्धिषीमहि वृद्धिपूरणाद्यसम्भवात्, ' अन्नं पुरीषम् ' इति इति, तदपि यत्किञ्चित् नित्यपूर्णस्य पुष्टस्य च परमात्मनो पूर्वोद्धृतश्रुतिविरोधाच्च ॥ २१ ॥