वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 71–80

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 71–80

पृष्ठ 71

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 71 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८ शुक्ल यजुर्वेदसंहिता [ अ ० २१ स्विष्टः सुष्ठु दृष्टः । सविता वरुणो भिषग् इष्टः । वनस्पतिर्देवश्च इष्टः । आज्यपा देवाः स्विष्टाः । अग्निरधिष्ठाता अग्निना भौमेन सुष्ठु इष्ट:, हविर्द्वारेति शेषः । किञ्च होता दैव्यः स्विष्टकृद् प्रयाजानुयाजाः होत्रे मानुषाय यश इन्द्रियं ऊर्जमन्नमपचितिं पूजां स्वधां पित्रर्थमन्नं दधद् दधातु ददात्वित्यर्थः । नकारश्चार्थकः । वसुवननाय वसुनिधानाय च देवा व्यन्तु हविरदन्तु । हे मनुष्य होतः, यज । अध्यात्मपक्षे - परमेश्वर एव तत्तद्देवतारूपेण स्विज्यते । दयानन्दस्तु – ' हे विद्वन्, यथा वसुधेयस्य वसुवने स्विष्टकृद्देवोऽग्निर्देवान् यथायथं यक्षत्, यथा होता रौ अश्विनौ इन्द्रं वाचा सरस्वतीं वाचमग्नि सोमं च यथायथं गमयतः, यथा स्विष्टकृत् वरुणो भिषगिष्टो देवो वनस्पतिः स्विष्टा आज्यपा देवा अग्निना स्विष्टो होता स्विष्टकृद् स्विष्टः सुत्रामेन्द्रः सविता नेन्द्रियमूर्जमपचितिं स्वधां यथायथं दधत् यथैतानेतानि व्यन्तु तथा यथायथं यज ' इति, तदपि अग्निर्होत्रे यत्किञ्चित् यशो वैदिकप्रसिद्धस्विष्टकृद्देवताद्यज्ञानविजृम्भितत्वात् । शोभनमिष्टं सुखं करोतीति स्विष्टकृत् को वा भवति, सर्वथापि व्याख्यानमेतदसम्बद्धमेव । अत एव यत्किञ्चिदुच्यते । अश्विपदेन वायुविद्युदादिग्रहणं सर्वथापि? निर्मूलमेव ॥ ५८ ॥

II अ॒ग्निम॒द्य होता॑रमवृणीतायं यज॑मान॒ः पच॒न् पक्तॊः पच॑न् पुरोडाशा॑न् ब॒ध्नन्न॒श्विभ्या॒ छा ँ सर॑स्वत्यै मे॒षमिन्द्रा॑य ऋष॒भयं॑ स॒न्वन्त॒श्विभ्या॒यं॒ सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे॑ सु॒रासो॒मान् ॥५ ९ ॥ मन्त्रार्थ - इस यजमान ने आज पकाने योग्य हवियों को पकाते हुए पुरोडाश का पाचन किया । अश्विनी -कुमारों से प्रार्थना करने के निमित्त छाग को, सरस्वती के लिये मेष को और इन्द्र के लिये वृषभ को यूप से बाँधते हुए हवि से सन्तुष्ट किया । अश्विनीकुमार सरस्वती और सबकी रक्षा करने वाले इन्द्र के निमित्त महान् औषधियों के रस और सोम को अभिषुत करके होता ने अग्नि का वरण किया ॥ ५ ९ ॥ ' अग्निमद्येति सूक्तवाकप्रेष: ' ( का ० श्री ० १ ९ । ७१४ ) | अग्निमद्य होतारमित्यादिब्रूहीत्यन्तः कण्डिका-त्रयात्मकः सूक्तः सूक्तवाके प्रपो भवतीति सूत्रार्थः । लिङ्गोक्तदैवतः प्रेषः । प्रथमा अष्टिः, द्वितीया धृतिः, तृतीया विकृतिः । अद्य अस्मिन् दिवसे, अयं यजमानः, अग्नि होतारम् अवृणीत वृतवान् । वृणातेर्लङि रूपम् । किं कुर्वन्? पक्ती: पक्तव्यानि हवींषि पचन् । सामान्यमेतत् । विशेषत आह- पुरोडाशान् पचन् । अश्विभ्यामश्विनोरर्थे छागं बध्नन्, यूप इति शेषः । सरस्वत्यै मेषं बध्नन् 1 । इन्द्राय ऋषभं च बध्नन् । तथा अश्विभ्यां सरस्वत्यै सुत्राणे शोभनत्राणकृते इन्द्राय च सुरासोमान् सुन्वन् । अध्यात्मपक्षे - अयं यजमानः साधको बहुतिथं कालं संसृतिसरणानन्तरं पुण्यपुञ्जवशादद्य रक्षकत्वेन आश्रयत्वेन च अग्निम् अग्रगण्यं भगवन्तमवृणीत वृतवान्, पक्ती: पक्तव्यानि नैवेद्यादीनि पचन, पक्तव्यानि कर्माणि वा पचन् क्षपयन् । तदङ्गतया तस्मै पुरोडाशान् अश्विभ्यां छागं यूपे बध्नन् इन्द्राय ऋषभं बध्नन् वृथाजनितमन्नादिलक्षणं हविः प्रयोजयन् सरस्वत्यै मेषमिन्द्राय सुत्राम् सुरासोमान् समर्पयन् । दयानन्दस्तु – ' हे मनुष्याः, यथायं पक्तीः पचन् पुरोडाशान् पचन् यजमानो होतारमवृणीत, यथाश्विभ्यां छागं सरस्वत्यै मेषमिन्द्रायर्षभं बध्नन्, अश्विभ्यां सरस्वत्यै सुत्राणे इन्द्राय सुरासोमान् सुन्वन्, तथा यूयमद्य कुरुत ' इति, तदपि यत्किञ्चित्, तथा सम्बोधनस्यैव निर्मूलत्वात्, छागं मेषमृषभं बध्नन्नित्यस्य निरर्थकत्वाच्च । नहि त्वद्रीत्या देवतोद्देश्येन पशूनां यूपे बन्धनम्, तथा सत्यपसिद्धान्तापातात् ॥ ५ ९ ॥

पृष्ठ 72

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 72 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६०-६१ ] वेदार्थपारिजातभाष्यसहिता सप॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभवद॒श्विभ्या॒ छामे॑न॒ सर॑स्वत्य॑ मे॒षेणेन्द्रय ऋषभेणा-अ॒स्तान्मे॑द॒स्तः प्रति॑ पत॒तागृ॑भीष॒तानी॑वृधन्त पुरोडाश॒रप॑र॒श्विना॒ स॑रस्व॒तीन्द्र॑ः सु॒त्रामा॑ सुरासोमान् ॥ ६० ॥

मन्त्रार्थ- - आज पशुओं के पोषक वनस्पति कुमारों के निमित्त भली प्रकार उपस्थित हुए । देवताछागों की वृद्धि का आशीर्वाद देने के लिये आये अश्विनी-मेषों की वृद्धि काआशीर्वाद देने के निमित्त आई सरस्वती देवी के लिये और वृषभ की वृद्धि का आशीर्वाद देने के लिये आये इन्द्र के निमित्त भली प्रकार से उपस्थित हुए । उन देवताओं ने छाग आदि पशुओं को हृष्ट - पुष्ट बनाने के लिये अपने अधिष्ठातृत्व के आधार से अपने - अपने कर्तव्यों का निर्वाह किया, पक्व हवियों को स्वीकार किया, पुरोडाश प्राप्त कर अपने बल को बढ़ाया । अश्विनीकुमार, सरस्वती और सुरक्षक इन्द्र ने रस और सोम का पान किया ॥ ६० ॥

अद्य अस्मिन् दिने, वनस्पतिर्देवश्छागेन हेतुना अश्विभ्यां सूपस्था: सुष्ठु उपतिष्ठत इति तथोक्तः, छागेन अश्विनोः पूजां करोतीत्यर्थः । मेषेण सरस्वत्यै सूपस्था अभवत् । ऋषभेण इन्द्राय सुपस्था अभवत् । वनस्पतिना यूपात्मकेन छागमेषर्षभैरव्यादीनामुपस्थानं कृतमिति कुतो विज्ञायते? तत्राह - अश्व्यादयो मेदस्तो वपामारभ्य तान् छागादीनक्षन् अभक्षयन् । पुनः पचता पचतानि पच्यन्त इति पचतानि पक्वानि, विभक्ते-राकारः, ' भृमृदृशियजिपर्विपच्यमितमिनमिर्येभ्योऽतच् ' ( उ ० ३।११० ) इत्यतच्प्रत्ययः पचेः । अवदानानि प्रत्यगृभीषत प्रत्यगृह्णन् । पुनश्च ते पुरोडाशैरवीवृधन्त ऐधन्त । अश्विना अश्विनौ सरस्वती सुत्रामा इन्द्रश्च सुरासोमानपुः पीतवन्तः । सुराश्च सोमाश्च सुरासोमास्तान् सुरामयान् सोमान् वा । पिबतेर्लङि पिबादेशा -भावश्छान्दसः । अथवा पातेर्लङि रूपम्, अरक्षन्नित्यर्थः । अध्यात्मपक्षे -- ' ब्रह्मार्पणं ब्रह्महविः ' ( भ ० गी ० ४।२४ ) इति श्रीमद्भगवद्गीतारीत्या ब्रह्मणः सार्वात्म्य-म प्रतिपाद्यते । दयानन्दस्तु – ' हे मनुष्याः यथाद्य सूपस्था देवो वनस्पतिरिव येन येनाश्विभ्यां छागेन सरस्वत्यै मेषेणेन्द्राय ऋषभेण अक्षंस्तान् मेदस्तः सुरासोमानपुस्तथा भवानभवद् भव ' इति, तदपि यत्किञ्चित्, असङ्गतेः । सुष्ठु समीपे तिष्ठन्ति ते सूपस्था इति व्याख्यातम् । के च ते कश्च देवेन साधं तेषां सम्बन्धः । न च देव इत्यस्य वनस्पतिना सम्बन्धः, हिन्दीव्याख्यानविरोधात् । तत्र दिव्यगुणः पुरुष इत्युक्तम् । वनस्य पतिरिवेत्यपि निर्मूलम्, सादृश्यबोधकपदस्य मूलेऽभावात् । छागस्य दुःखच्छेदकत्वं कथम्? कश्च प्रकृते छागस्योपयोगः? एवमेतादृशमन्यदप्यूह्यम् ॥ ६० ॥

त्वाम॒द्य ऋष आर्षेय ऋषीणां नपादवृणीतायं यज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष दे॒वेषु॒ वसु॒ वार्याय॑क्ष्यत॒ इति॒ ता या दे॒वा दे॑व दाना॒न्यद॒स्तान्य॑स्मा॒ आ च॒ शास्स्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्रवाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सूक्तवाकार्य सुक्ता ब्रूहि ॥ ६१ ॥

॥ इत्येकविंशोऽध्यायः ॥ मन्त्रार्थ - मन्त्रों के द्रष्टा ऋषियों के पुत्रों! अथवा यजमान के द्वारा ऋषियों के निमित्त वरण किये गये यजमान बहुत से देवताओं के यजन के निमित्त आप सबका वरण करता है । यह धन देवताओं को देने के निमित्त वृत है । हे अग्निदेव, आपने यह जो दान देवताओं को ऋषियों के पौत्रों! आज यह . अग्नि देवता वरण करने योग्य

पृष्ठ 73

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 73 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४० शुक्लयजुर्वेदसंहिता [ अ ० २१ स्वस्ति कहने के लिये दिया, उसे आप इस यजमान को दीजिये और दान का उद्योग भी कीजिये । हे होता, तुम को पढ़ो । प्रेरित किये गये हो, मनुष्य होता सूक्त पढ़ने के लिये प्रेरित किया गया है । हे मनुष्य होता, तुम सूक्तों उन्तीसवीं क fuser से यहाँ तक के मन्त्रों में दो प्रकार के यज्ञों का वर्णन है - एक दंव और दूसरा इस जगत् मानुष की । देवताओं का यज्ञ निरन्तर सदा चलता रहता है । अश्विनीकुमाररूप दिन - रात, वाणीरूप सरस्वती प्रतिदिन वृद्धि होती उत्पत्ति - लय की प्रक्रिया को चलाते हुए ज्योतीरूप तेज को बढ़ाते हैं । इस तेजःस्वरूप इन्द्र इस की यज्ञ के मुख्य तीन देवता है और इस यज्ञ की समाप्ति कभी नहीं होती । सारा संसार इस यज्ञ की सामग्री है आध्यात्मिक । सम्बन्ध है । वे इन उक्त तीन पशुओं की पुष्टि से प्रसन्न होते हैं । इन पशुओं के साथ देवताओं का हैं । देवताओं ने जिस समय जिस पशुओं के शरीर में अधिष्ठाता के रूप से रहते हुए संसार यज्ञ का निर्वाह करते से यज्ञ करके मनुष्य पदार्थ से इन्द्र की चिकित्सा कर उसकी इन्द्रियों को सशक्त बनाया, उसी प्रकार उसी देवताओं पदार्थ के सदृश नहीं होता, होता भी यजमान की सकल इन्द्रियों को बलिष्ठ कर सकता है । मनुष्य होता का यज्ञ की आवश्यकता रहती क्योंकि मनुष्य होता का यज्ञ नियत देश - काल में होता है और इसके निमित्त घृत आदि पदार्थों से इनके हृष्ट - पुष्ट रहने की है । इन्हीं की वृद्धि के लिये इन पशुओं का सत्कार करते हुए इनके अधिष्ठात्री देवताओं

प्रार्थना की जाती है । यही इस पूरे प्रकरण का अभिप्राय है ॥ ६१ ॥

इत्येवं सम्बोध्यते । दैव्य होताग्निरत्रोच्यते । हे ऋषे मन्त्राणां द्रष्टः! हे आर्षेय यजमानार्षेयैव्रियत बहुभ्यः सङ्गतेभ्यो अथवा हे आ ऋषेय ऋषिकुलोत्पन्न! हे ऋषीणां ऋत्विजां नपात् पुत्र! अयं दर्शयति यजमानो - एष इति । एषोऽग्निर्मे मिलितेभ्यो देवेभ्यस्त्वामेवेति हेतोरा अवृणीत सम्यग् वृतवान् । हेतुमेव सम्बन्धः । मह्यं देवेषु वारि वरीतुं योग्यं वरणीयं वसु धनमायक्ष्यतेऽत्यर्थं दास्यतीत्यभिप्रायेणावृणीतेति देवा अदुर्दत्तवन्तः तानि दानानि दानार्थाद् यजतेलृट् । किञ्च, हे देव! अग्ने या यानि ता तानि दानानि । आगुरस्व च उद्यच्छ, अस्मै यजमानाय आशास्व इच्छ च तानि यजमानाय दातव्यानीति हे इच्छेत्यर्थः होतः त्वमिपितोऽसि प्रेषितोऽसि ' गुरी उद्यमने ' दानायोद्यमं कुर्वित्यर्थः । आकारी चकारौ च भिन्नक्रमी, वक्तुं । योग्यं वाच्यं भद्रं शुभं च तद् वाच्यं प्रेरितोऽसीति यावत् । कस्मै प्रयोजनायेति चेत्, तदाह - भद्रवाच्याय त्वं ब्रूहीति सूक्तवाकः, भद्रवाच्यम्, तस्मै । भद्रं ब्रूहीति प्रेषितोऽसीत्यर्थः । किञ्च, सूक्ता सूक्तानि वक्तुं सूक्तानि तस्मै । मानुषो होता च प्रेषितोऽस्तीति महीधराचार्यः । | किमर्थ-यद्वा हे ऋ! अतीन्द्रियार्थानां द्रष्टः, अयं यजमानो बहुभ्यः सङ्गतेभ्यो दातुं देवेभ्यस्त्वामेवावृणीत समर्थ इति हेतोस्त्वामेवा -मेतत्? एष मे मह्यं देवेषु वारि वरणीयं वसु धनमायक्ष्यते आदास्यते,, अयं इमान्यस्मै यजमानाय दातव्यानीति वृणीतेति सम्बन्धः । एवं च या यानि हे देव! दानानि देवा अदुर्दत्तवन्तः । दानायेषितः प्रेषितश्चासि । हे होतः, ता तान्यस्मै यजमानाय आ च शास्त्र इच्छ । आच गुरस्व उद्यच्छ भद्रवाच्या भद्रं च वचनं त्वं ब्रूया इति । अथेदानीं प्रेषितो मानुषो होता सूक्तवाकाय कथं कृत्वा सूक्ता सूक्तानि साधुवचनानि देवेभ्य वदेत्युव्वाचार्यः उपसङ्गतेभ्योऽपि । हे ऋषे, हे अषिय, हे ऋषीणां नपात् पुत्र, अयं यजमानस्त्वामद्य अवृणीत देवेषु | बहुभ्यो यद्वारि वरणीयं वसु धनमस्ति, तानपहाय त्वामेव वृतवान् । तत्कस्य हेतोः? एष दैव्यो होता अग्निर्मे मह्यं यानि दानानि देवा अदुर्दत्तवन्तः, तत आयक्ष्यते आदास्यते । तादृशं धनं दातुमयं समर्थ इत्यर्थः । हे देव, तानि । दानायोद्यमं कुरु । हे इमान्यस्मै यजमानाय दातव्यानीति तान्यस्मै यजमानाय आ च शास्व आ च गुरस्व कथं कृत्वा? सूक्ता सूक्तानि होतः, भद्रवाच्याय भद्रं शुभं च वचनं त्वं ब्रूयाः । अथेदानीं मानुषो होता प्रेषितः । साधुवचनानि ब्रूहि वद इत्याश्वास्येति यावत् । 1

पृष्ठ 74

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 74 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६१ ] वैदार्थ पारिजातभाष्यसहिता ४१ अध्यात्मपक्षे – हे ऋषे सर्वद्रष्टः, हे आय! ऋषीणामयं ध्येय आर्षेयस्तत्सम्बुद्धौ । ऋषीणां नपात् नपातयति रक्षतीति नपात्, तत्सम्बुद्धौ रक्षक | अयं यजमानोऽर्चको बहुभ्य आसङ्गतेभ्यो मिलितेभ्यो देवेभ्यो जन्मजन्मान्तरीयपुण्यपरिपाकादद्य त्वामेव अवृणीत वृतवान् । किमर्थमिति चेत्तत्राह - एष भगवान् मे मह्यं देवेष्वपि वारि वरणीयं यत् तद्वसु आयक्ष्यत इति हेतोः । ता तानि या यानि हे देव, देवा दानानि अदुर्दत्तवन्तः तानि आ चाशास्व इच्छ | आ च गुरस्व, दातुमुद्यमं कुरु । इषितोऽस्मद्भक्त्या प्रेषितः, भद्रवाच्याय भद्रं शुभं, च ब्रूयाः । हे मानुषहोतः, सूक्तवाकाय प्रेषितोऽसि यतः, तस्मात् त्वं सूक्तानि ब्रूहि । सर्वतः सम्प्लुतोदकस्थानीये मधुररससमुद्रे यथा वापीकूपतडागादिसम्पादनीयं सर्वं कार्यं सम्पद्यते, तद्वत् परमात्मप्राप्तिरूपे महाफले सर्वाण्येव फलान्तराण्यन्तर्भवन्ति । दयानन्दस्तु - ' हे ऋषे, आर्षेय ऋषीणां नपात्, यजमानोऽयमद्य बहुभ्यः सङ्गतेभ्यस्त्वामवृणीत । एष देवेषु मे वसु वारि चावृणीत । हे देव, यद्याचक्ष्यते देवाय यानि दानान्यदुः, तानि चास्मै आशास्व । प्रेषितः सन्नागुरस्व च । हे होतरिषितो मानुषो भद्रवाच्याय सूक्तावाकाय सूक्ता ब्रूहीति, तान् प्राप्तवांश्चासि ' इति, तदपि यत्किञ्चित्, बहुभ्यः सङ्गतेभ्यो योग्यपुरुषेभ्यो मन्त्रद्रष्टुः प्राप्तव्यताऽसिद्धेः । तथैवान्यदपि सर्वं व्याख्यान-सम्बद्धमेव ॥ ६१ ॥

इति सौत्रामणीयागः सम्पूर्णः ।

॥ इति श्रीशुक्लयजुर्वेदस्य वेदार्थ पारिजातभाष्ये एकविंशोऽध्यायः ॥

पृष्ठ 75

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 75 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

' द्वाविंशोऽध्यायः तेजोऽसि शक्रर्तमाष्पा आय॑ पाहि । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनौ बहुभ्यां पुष्णो हस्ताभ्यामाददे ॥ १ ॥

मन्त्रार्थ - सब प्रकार की कामना वाले राजा को अश्वमेध यज्ञ करना चाहिये । यह यज्ञ फाल्गुन शुक्ल अष्टमी को आरम्भ किया जाता है । चक्रवर्ती राजा ही इसको करके अपने मनोरथ की सिद्धि पा सकता है । इस अध्याय के प्रथम मन्त्र से अध्वर्यु यजमान के कण्ठ में सुवर्ण का निष्क नामक आभूषण बांधता है । मन्त्रार्थं इस प्रकार है -. हे सुवर्ण, अग्निसम्बन्धी होने से तुम तेजःस्वरूप हो । अग्नि के अक्षय वीर्य हो और आयु के रक्षक हो । तुम मेरी आयु की रक्षा करो । इसके उपरान्त अध्वर्यु रस्सी लेकर ब्रह्मा से कहे कि मैं घोड़े को बालूंगा - हे रहना, सविता देवता की आज्ञा में वर्तमान में अश्विनीकुमारों की भुजाओं और पूषा देवता के हाथों से तुम्हें ग्रहण करता हूँ ॥ १ ॥

उक्ताः सौत्रामय्या मन्त्राः । इत आरभ्य चतुर्ध्वध्याये वाश्वमेधिका मन्त्रा आम्नाताः । ते व्याख्या-यन्ते । तत्र प्रथमेऽनुवाकेऽश्वमेवाङ्गस्याश्वस्य संस्कारका मन्त्रा आनाताः । ' राज्ञोऽश्वमेधः सर्वकामस्य ' ( का ० श्र ० २०1१1१ ) । ' अष्टम्यां नवम्यां वा फाल्गुनीशुक्लस्य ' ( का ० धी ० २०११ २ ) । सर्वकामस्य राज्ञोऽश्वमेधः, फाल्गुन शुक्लाष्टम्यां नवम्यां वारम्भ इति सूत्रद्वयार्थ: । ' निष्कं प्रतिमुञ्चन् वाचयति तेजोऽसीति ' ( का ० श्रौ ० ३० | ११ ९ ) । चतुः सुवर्णनिर्मित आभरणविशेषो निष्कः 1 तं यजमानकण्ठे प्रतिबध्नन्नध्वर्यु-स्तेजोऽसीति मन्त्रं पाहीत्यन्तं वाचयतीति सूत्रार्थः । तं च निष्कं प्रातर्होमान्ते पूर्णाहुति कृत्वाऽध्वर्यवे दद्यात् । राजशब्दोऽत्राभिषिक्तक्षत्रियपरः, ' राजेत्येतानभिषिक्तानाचक्षते ' ( ऐ ० ब्रा ० ८२१४ ) इति श्रुतेः । प्राप्तराज्या-भिषेकस्यैव क्षत्रियस्य राजपदवाच्यत्वमित्यवेष्ट्यधिकरणे निर्णीतम् । तादृशस्य राज्ञः सर्वकामस्याश्वमेधः । सर्वकामोऽत्र मुमुक्षुरिति कर्काचार्य:, मोक्षप्राप्तावेव सर्वकामप्राप्तेः सम्भवात् उपासना सहितस्याश्वमेधानुष्ठाने ब्रह्मलोकप्रातिक्रमेण ब्रह्मात्मसाक्षात्कारक्रमेण मोक्षोपपत्तेः । राजग्रहणाच्च ब्राह्मणवैश्ययोर्नात्राधिकारः, क्षत्रियत्व -जातिविशिष्टस्य प्राप्तराज्याभिषेकस्यैव तत्राधिकारोक्तेः । ' ग्रीष्म एके ' ( का ० श्री ० २० | ११३ ) । ज्येष्ठाषाढयो-रन्तराले शुक्लाष्टम्यां नवम्यां वा तदारम्भ इति सूत्रार्थः । अत्र ब्राह्मणम् -.. ' ब्रह्मोदनं पचति । रेत एव तद्धत्ते यदाज्यमुच्छिष्यते तेन रशनामभ्यञ्ज्यादत्ते तेजो वा आज्यं प्राजापत्योऽश्वः प्रजापतिमेव तेजसा समर्धयत्यपूतो वा एषोऽमेध्यो यदश्व: ' ( ० ९ ३ | १ | १११ ' प्रजापतिरकामयत । सर्वान् कामान् आप्नुयाम् ' ( १३ | ४ | ११ १ ) । तदर्थं ब्रह्मनाकः । ब्रह्मभ्य ऋत्विग्भ्यो ) । देय ओदनो ब्रह्मौदनः, तमध्वर्युः पचति । एतेन ब्रह्मौदनेन ऋगादिप्रयोगसामर्थ्यात्मकं कुर्वन्ति । यदाज्यं ब्रह्मदनऋत्विग्भिर्भुज्यमाने परिशिष्यते, तेनोत्तरेद्युः पौष्ण्या इष्टेरनन्तरमस्वाभिधानिकां रशनां तेनाज्य-शेषेणाभ्यज्य देवस्य त्वेत्यादत्ते । प्राजापत्योऽश्वः । तेन रशनाद्वारेण प्रजापतिमेव तेजसा मेध्यश्चास्वो भवति, प्राग्दर्भरशनासम्पर्कादिति शेषः । ' दर्भमयी रशना भवति । पवित्रं समर्धयति वै दर्भाः । अपूतश्चा- पुनात्येवैनं पूतमेवैनं मेध्यमालभते ' ( श ० १३ | ११११२ ) | ( अश्वस्य वा आलब्धस्य रेत उदक्रामत् । तत्सुवर्ण मभवद्यत्सुवर्ण १७ हिरण्यं ददात्यश्वमेव रेतसा समर्धयति ' ( श ० १३ | १ | १ | ३ ) | प्रसन्नं ब्राह्मणम् । हिरण्य-

पृष्ठ 76

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 76 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

ब ० १-२ ] वेदार्थ पारिजातभाष्यसहिता ४३ इतश्चत्वारोऽध्याया अश्वमेधमन्त्राः । तेषां प्रजापतिर्ऋषिः । तेजोऽसीत्यस्य सौवर्णं निष्कं देवता प्राजा-पत्यानुष्टुप् छन्दः । हे निष्क! त्वं तेजोऽसि, आग्नेयत्वात् सुवर्णस्य । शुक्रमग्नेर्वीयं चासि, ' अग्निर्ह वाऽपोऽभिदध्यौ मिथुन्याभिः स्यामिति ताः सम्बभूव तासु रेतः प्रासिञ्चत्तद्धिरण्यमभवत् ' ( श ० २ | १ | १ | ५ ) इति श्रुतेः । अमृतं चासि वह्नितापेऽनुच्छिद्यमानद्रवत्वाधिकरणत्वात् दानेन अमृतत्वप्रदानाच्च, " हिरण्यदा अमृतत्वं भजन्ते ' इति श्रुतेः । तथा आयुष्पा असि । आयुः पातीति आयुष्पाः, आयुषो रक्षिता । अतो याचे मे मम आयुः पाहि रक्ष । अत्र यज्ञसमाप्तिपर्यन्तमायुः प्रार्थ्यते । ' देवस्य त्वेति रशनामादाय ब्रह्मन्नश्वं भन्त्स्यामीत्याह ' ( का ० श्री ० २०।१।२५ ) । देवस्य त्वेत्यादिना सरमारवन्तीत्यन्तेन मन्त्रेण त्रयोदशारत्नि दर्भमयीं द्विगुणामश्वबन्धनार्थं रशनां रज्जूमादाय ' ब्रह्मन्नश्वम् ' इत्यारभ्य ' तेन राध्यासम् ' ( वा ० सं ० २२1४ ) इत्यन्तं मन्त्रं ब्रह्माणं प्रत्याहाध्वर्यु-रिति सूत्रार्थ: । सवितुर्देवस्य प्रसवेऽनुज्ञायां त्वामश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे । अध्यात्मपक्षे - ज्योतिर्मयं सुवर्ण तत्त्वतः पश्यन्नाह - तेजोऽसि सर्वभासकं चिज्ज्योतिरात्मकमसि । शुक्रमसि दीप्तिमदसि । अमृतमसि, जन्मादिषड्भावविकारशून्यत्वात् | आयुष्पा असि, सर्वत्र सत्तास्फूर्तिप्रदत्वात् । पाहि । ' अन्नेव स भवति असद् ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः ॥ ' ( तै ० उ ० २।६ ) इति तैत्तिरीयश्रुतेः । सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वां त्वदर्थं हविराददे । दयानन्दस्तु - ' हे विद्वन्नहं सवितुः प्रसवेऽश्विनोर्धारणाकर्षणाभ्यामिव बाहुभ्यां पूष्णः किरणैरिव हस्ताभ्यां यं त्वाददे, यस्त्वममृतं शुक्रं तेज इत्यायुष्पा असि, स त्वं स्वं दीर्घायुः कृत्वा मे आयुः पाहि इति, तदपि न मनोज्ञम, जीवमात्र विपि तेजस्त्वानुपपत्तेः । अमृतत्यादिकं स्वरूपेण त्वद्रीत्या नोपपद्यते, कर्तृत्वेन विकारा-पत्त्या विनाशापत्तेः । न चायुषः पालकत्वमपि सम्भवति । यः स्वस्याप्यायुवो रक्षणेऽसमर्थः सोऽन्येषामायुष्पा भवेदिति कथङ्कारं सम्भवति? तथैव आकर्षणविकर्षणयोर्धारणाकर्षणयोर्वा बाहुत्वारोपः, किरणे हस्तत्वारोपोऽ-प्यारोप एव, मुख्यार्थासम्भव एव तथात्वात् ॥ १ ॥

इ॒माम॑गृ॒भ्णन् रश॒नाम॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या ।

सा नो अ॒स्मिन् सत आ ब॑भूव ऋ॒तस्य॒साम॑न् स॒रमा॒रप॑न्ती ॥ २ ॥

मन्त्रार्थ - रसना हाथ में लेकर अध्वर्यु कहे कि यज्ञानुष्ठान में कुशल प्रजापति ने यज्ञ के आरम्भ काल में इस रसना को ग्रहण किया था । वह रसना यज्ञारम्भ में यज्ञ के फैलाव को बताती हुई हमारे लिये इस यज्ञ में प्रकट हुई है || २ || यज्ञपुरुषदृष्टा रशना देवत्या त्रिष्टुप् । नोऽस्माकमस्मिन् सुते यज्ञे, सवनं सुतं यज्ञः " तस्मिन् भावे क्तः । सा रशना बभूव आविर्बभूव उत्पन्ना । सा केत्याह - विदथेष्वित्यादि । विदथेषु विद्यते लभ्यते स्वर्गो यैस्ते विदथा यज्ञाः, ' रुदिविदिभ्यां ङित् ' ( उ ० ३ | ११५ ) इति विदेरथः प्रत्यय:, तेषु । कव्याः कवयः । सुपां सुलुक् ' ( पा ० सू ० ७ ११३ ९ ) इत्यादिना विभक्तेङर्यादेशः । अर्थाद् यज्ञविधौ कुशला विश्वस्रष्टारः प्रजापत्यादय ऋतस्य यज्ञस्य पूर्वे प्रथमे आयुषि प्रारम्भे यामिमां रशनामगृभ्णन् अगृह्णन् गृहीतवन्तः, ते हि सृष्टि यज्ञाद-सृजन्त । या पूर्वैर्गृहीता रशना सात्रोद्भूतेत्यर्थः । कीदृशी सा रशना? ऋतस्य यज्ञस्य सामन् साम्नि प्रारम्भे सरं प्रसरं यज्ञप्रसारम् आरपन्ती आलपन्ती, यज्ञप्रसारो भवत्विति वदन्तीवेत्यर्थः । १. इयं श्रुतिरनुपलब्धमूला ।

पृष्ठ 77

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 77 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

II शुक्लयजुर्वेद संहिता [ अ ० २२ अत्र ब्राह्मणम् — ‘ इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते यजुष्कृत्यै यज्ञस्य समृद्धयै द्वादशारत्नि-भवति ' ( श ० १३ | १ | २।१ ) । अध्यात्मपक्षे - यामिमां रशनामिव कुण्डलिनीरूपां मूलाधारादाब्रह्मबिलं विलसन्ती बिसतन्तुतनीयसी विद्युत्पुञ्जपिञ्जरां तेजोदण्डरूपामृतस्योपसनालक्षणस्य पूर्वे प्रारम्भे कव्याः कुशला अगृभ्णन् गृहीतवन्तो ध्यानेन साक्षात्कृतवन्तः, सानोऽस्माकं सुते यज्ञे उपासनालक्षणे आबभूव अभिव्यक्तिमुपगता । कीदृशी सा? ऋतस्य ब्रह्मणः सामन् सम्मनने प्रारम्भे, सम्पूर्वकस्य मन्यतेः प्रारम्भार्थकत्वात्, सरं प्रसरमार पन्ती प्राप्नुवती । दयानन्दस्तु - ' हे मनुष्य, या ऋतस्य सत्यकारणस्य सरं प्राप्तियोग्यमार पन्ती आबभूव यामिमामृतस्य रशनां विदथेषु पूर्व आयुषि कव्या अगृभ्णन् सा अस्मिन् अन्ने सुते सामन्नाबभूव ' इति, तदपि यत्किञ्चित्, बुद्धेर्वक्तृत्वायोगात् । न च शब्दोच्चारणस्य बुद्धिपूर्वकत्वेन तस्या वक्तृत्वमिति वाच्यम्, शब्दानां नित्यत्वेन तत्पूर्वकत्वायोगात् । न च पदवाक्यादीनां पौर्वापर्यमूलकत्वेन तत्त्वमिति वाच्यम्, तथात्वे सर्ववाक्यादीनां तथात्वेन सत्यकारणस्य प्राप्तियोग्यं शब्दं वदन्तीति विशिष्य हेतुत्वानुपपत्तेः । यज्ञादिषु प्राणधारयितृत्वमपि चिन्त्यमेव, कार्यमात्रेऽपि तथात्वे विशेषानुपपत्तेः । एवमन्यदप्यम् । सामन्नन्ते कर्मणीत्यपि यत्किञ्चित् कार्य पूर्ति-कार्यनाशयोरैक्यायोगात् ॥ २ ॥

अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्तानि॑ ध॒र्ता । स त्वम॒ग्नि वैश्वान॒रधि॑ सप्र॑थ॒सं गच्छ स्वाहा॑कृतः ॥ ३ ॥

मन्त्रार्थ- -- अश्व को बाँघते हुए अध्वर्यु कहे कि हे अश्व! तुम स्तुति के योग्य हो, सबके आश्रय स्थान हो, नियन्ता और जगत् के धर्ता हो, अर्थात् पशुओं में प्रसिद्ध और सवारी देने वाले हो । तुम स्वाहाकार युक्त सबके हितकारी, संसार में सर्वत्र व्याप्त अग्नि के तेज को प्राप्त करो अथवा अग्नि देवता के अधिष्ठातृत्व को प्राप्त करो ॥ ३ ॥

' तं बधानेति ब्रह्मानुज्ञातोऽभिधा असीति बध्नात्यश्वम् ' ( का ० श्र ० २०११ २६ ) । ‘ तं बधान देवेभ्यः प्रजापतये तेन राध्नुहि ' ( वा ० सं ० २२1४ ) इति मन्त्रेण ब्रह्मणानुज्ञातोऽध्वर्युः ' अभिधा असि भुवनमसि यत्तासि धर्ता । स त्वमग्न वैश्वानर, सप्रथसं गच्छ स्वाहाकृतः । स्वगा त्वा देवेभ्यः प्रजापतये ' ( २२ |: -४ ) इति मन्त्रेण रशनयाश्वं बध्नातीति सूत्रार्थः । लिङ्गोक्तदैवतानि यजूंषि । हे अश्व! यस्त्वम् अभिधा असि । अभिधीयते स्तुयत इत्यभिधाः । भुवनमसि सर्वेषामाश्रयश्चासि, प्रजापतिरूपत्वात् । यन्तासि यच्छतीति यन्ता नियमनकर्ता चासि । धर्ता जगद्वारयिता चासि, प्रजापतिरूपत्वादेवेत्यर्थः । स एवंविधस्त्वं स्वाहाकृतः स्वाहाकारेण कृतो हुतः सन् अग्नि गच्छ प्राप्नुहि । कीदृशमग्निम्? वैश्वानरं विश्वेभ्यो नरेभ्यो हितम्, सप्रथसं प्रथनं प्रथो विस्तारः, तत्सहितम् । प्रथतेः ' सर्वधातुभ्योऽसुन् ' ( उ ० ४। १ ९ ० ) इत्यसुन्प्रत्ययः । यद्वा सप्रथाः सर्वतस्तिर्यगूर्ध्वमधश्च प्रथत इति सप्रथाः तम् । सर्वतः शब्दस्य सादेशः । अत्र ब्राह्मणम् —'अभिधा असीति । तस्मादश्वमेधयाजी सर्वा दिशोऽभिजयति भुवनमसीति भुवनं तज्जयति यन्तासि धर्तेति यन्तारमेवैनं धर्तारं करोति स त्वमग्न वैश्वानरमित्यग्निमेवैनं वैश्वानरं गमयति सप्रथसं गच्छेति प्रजयैवैनं पशुभिः प्रथयति स्वाहाकृत इति वषट्कार एवास्यैष स्वगा त्वा देवेभ्य इति ' ( श ० १३ | १ | २ | ३ ) । अध्यात्मपक्षे - अश्वमेधे प्रजापतिदेवताकोऽश्वः प्रजापतिरूपेण चिन्त्यः । ' उपा वा अवस्य मेध्यस्य शिरः ' इति बृहदारण्यके । प्राजापत्यत्वादश्वस्य उपसः शिरः स्थानीयत्वम् । तेन प्रजापतिपरतया सर्वाणीमार्इ

पृष्ठ 78

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 78 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३-४ ] वेदार्थपारिजातभाष्यसहिता ४५ विशेषणानि सङ्गमनीयानि । हे समष्टिजीवरूपप्रजापते! त्वमभिधाः स्तुत्योऽसि । भुवनमसि भुवनवत् सर्वाधार-भूतोऽसि । यन्ता सर्वनियन्ता शासकः परमेश्वरोऽसि । स त्वं हे प्रजापते! स्वाहाकृतः स्वाहाकारेण हुतः सन्, अथवा स्वाहाकृतः सर्वस्वात्मनिवेदनेन समर्पितः सन् अग्निमधिष्ठानभूतं परमात्मानं गच्छ प्राप्नुहि । कीदृश-मग्निम्? वैश्वानरं विश्वेभ्यो नरेभ्यो हितं सत्तास्फूर्तिप्रदत्वेन सर्वहितकरं सप्रथसमनन्तानन्तविस्तारयुक्तम्, ‘ सत्यं ज्ञानमनन्तं ब्रह्म ' ( तै ० उ ० २1१1१ ) इति श्रुतेः । दयानन्दस्तु - ' हे विद्वन्, यस्त्वं भुवनमुदकमिवासि, अभिधा योऽभिदधाति सोऽसि । यन्तासि धर्तासि त्वं स्वाहाकृतः सप्रथसं वैश्वानरमग्निं गच्छ जानीहि ' इति, तदपि मन्दम्, जीवस्य विदुषो निरपेक्षयन्तृत्वायोगात् । न च सोऽग्नि गच्छति, चेतनस्य जडत्वायोगात् । न चाग्निज्ञानमात्रं विवक्षितम्, अपुरुषार्थत्वात् ॥ ३ ॥

स्व॒गा त्वा॑ दे॒वेभ्यः॑ प्र॒जाप॑तये॒ ब्रह्म॒न्नश्वे॑ अ॒न्त्स्यामि॑ दे॒वेभ्य॑ प्र॒जाप॑तये॒ तेन॑ राद्ध्यासम् । तं बंधान देवेभ्यः प्र॒जाप॑तये॒ तेन॑ राध्न॒हि ॥ ४ ॥

--मन्त्रार्थ - - हे अश्व! देवताओं के और प्रजापति के निमित तुमको स्वयंगामी बनाता है । अध्वर्यु ब्रह्मा से आज्ञा मांगे कि हे ब्रह्मन्! देवताओं और प्रजापति को प्रसन्नता के लिये घोड़े को बाँधूगा । ब्रह्मा आज्ञा दे कि हे अध्वर्यो, उसको देवताओं को और विशेष कर प्रजापति को प्रसन्नता के लिये बाँधो, इसको बाँध कर तुम सिद्धि प्राप्त करो ॥ ४ ॥

हे अश्व, त्वा त्वां देवेभ्यः प्रजापतये च स्वगा, करोमीति शेषः । स्वेनैव गच्छतीति स्वगा डाजन्तः, विभक्तेोडदेशो वा स्वयंगामिनमित्यर्थः । ' ब्रह्मन्नश्वं भन्त्स्यामि ' इति यजुषो ब्रह्मा देवता । तथा चाध्वयुर्ब्रह्माण-मामन्त्रयते । हे ब्रह्मन्, अश्वं भन्त्स्यामि, अखबन्धनं करिष्यामीति यावत् । बध्नातेलिटि स्यप्रत्यये एकाच बशो भष् झषन्तस्य स्ध्वोः ' ( पा ० सू ० ८२३७ ) इति भष्भावे रूपम् । किमर्थमिति प्रश्ने उत्तरमाह -देवेभ्यः प्रजापतये च, तेनाश्वबन्धनेनाहं राध्यासम्, ' राध संसिद्धौ ', कर्मसमाप्तिरूपासिद्धि प्राप्नुयाम् । आशीर्लिङ् । ब्रह्मा प्रसौति -- तं बधानेत्यादि । अध्वर्युदेवत्यं यजुः । हे अध्वर्यो, यं बद्धुमिच्छसि तमश्वं बधान । किमर्थम्? देवेभ्यः प्रजापतये च तेनाश्वबन्धनेन कर्मणा राध्नुहि यज्ञसमाप्तिलक्षणां सिद्धि प्राप्नुहि 1 । राधेर्लोट स्वादित्वात् नुः प्रत्ययः । अत्र ब्राह्मणम् -'स्वगात्वा देवेभ्य इति देवेभ्य एवैन · स्वगाकरोति प्रजापतय इति प्राजापत्योऽश्वः स्वयैवैनं देवतया समर्धयति ' ( श ० १३ । १ । २ । ३ ) । अध्यात्मपक्षे - हे ब्रह्मन् ब्रह्मरूप जीवात्मन् त्वा त्वां स्वगाकरोमि, स्वात्मनिष्टं करोमीति यावत् । देवेभ्यः प्रजापतये त्वां भन्त्स्यामि श्रौतस्मार्तादिधर्मानुष्ठाननियमेन त्वां बद्धं नियन्त्रितं करोमि । तेन बन्धनेनाहं राध्यासं भगवत्साक्षात्काररूपां सत्त्वशुद्धिलक्षणां वा सिद्धि प्राप्नुयाम् । गुरुरनुजानाति तं बधान देवेभ्यः प्रजापतये च तत्तद्भावप्राप्त्यर्थं बन्धनेन राध्नुहि सिद्धि प्राप्नुहि । दयानन्दस्तु - ' हे ब्रह्मन्नहं त्वा स्वगाकरोमि देवेभ्यः प्रजापतयेऽर्थाय भन्त्स्यामि तेन देवेभ्यः प्रजापतये च रानुहि ' इति, तदपि यत्किञ्चित् स्वं प्रति स्वगमनासिद्धेः कर्मकर्तृविरोधात् परसमवेतक्रियाफलशालिन एव • कर्मत्वात्, अश्वस्य बृहदुत्तमगुणार्थतायास्तद्बन्धनस्य चासिद्धेः । तस्य देवप्रजापत्यर्थतापि चिन्त्यैव ॥ ४ ॥

पृष्ठ 79

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 79 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४६ शुक्लयजुर्वेदसंहिता [ अ ० २२ प्र॒जाप॑तये त्वा॒ जुष्टं प्रोक्षमन्द्राग्निभ्यां वा जुष्टं प्रोक्षमि वा॒यवे॑ त्वा॒ जुष्टि॒ प्रोक्षम विश्वेभ्यस्त्वा दे॒वेभ्यो॒ जुष्टं प्रोक्ष॑मि॒ सर्वे॑भ्य॒स्त्वा दे॒वेभ्यो॒ जुष्टं प्रोक्ष॑मि 1 । यो अर्व॑न्तं जिर्घासति॒ तम॒भ्यमोति॒ वरु॑णः प॒रो मत॑ः प॒रः श्वा ॥ ५ ॥

मन्त्रार्थ - कूर आदि के स्थिर जल के समीप जाकर अध्वर्यु अश्व का प्रोक्षण करे । हे अश्व! प्रजापति के प्रिय पात्र तुम्हारा प्रोक्षण करता हूँ । इससे अश्व वीर्यवान् बनता है । इन्द्र और अग्नि देवता के तुम प्रिय हो, तुम्हारा प्रोक्षण करता है । इससे अश्व में ओज आता है । तुम वायु के प्रिय हो, वायु की प्रीति के लिये तुम्हारा प्रोक्षण करता हूँ । इससे अश्व में वेग आता है । विश्वेदेव देवताओं की प्रीति के लिये तुम्हारा प्रोक्षण करता हूँ । इससे अब में यश का आधान होता है । सब देवताओं की प्रोति के लिये तुम्हारा प्रोक्षण करता हूँ । इससे सब देवताओं का अश्व में आवाहन होता है । अध्वर्यु यजमान से कहलावें कि जो शत्रु वेगवान् अश्व को मारना चाहता है, वरुण उसको मारें । कुक्कुर को बेंत की चटाई पर रखकर घोड़े के नीचे तैरावे और कहे कि इससे घोड़े को मारने की इच्छा वाला शत्रु तिरस्कृत हुआ । श्वान के समान तुच्छ ताड़न के अधिकारी शत्रु का तिरस्कार किया गया ॥ ५ ॥

' स्थावरा अपो गत्वा प्रजापतये त्वेति प्रोक्षत्यश्वं प्रतिमन्त्रम् ' ( का ० श्र ० २०।१।३५ ) । ततोऽध्वर्युः स्थावराः, तिष्ठन्ति तद्धर्म इति स्थावराः, अवहनशीलास्तडागादिस्था:, ' स्थेशभासपिसकसो वरच् ' ( पा ० सू ० ३।२।१७५ ) इति वरवि रूपसिद्धिः, ता अपो गत्वा ताभिरद्भिः पञ्चमन्त्रः प्रतिमन्त्रमश्वं प्रोक्षतीति सूत्रार्थः । लिङ्गोक्तदेवत्यानि पञ्च यजूंषि । हे अश्व, प्रजापतये जुष्टं प्रीत्या सेवितं त्वा त्वां प्रोक्षामि । अनेन प्रोक्षणेन प्रजापतेरिव अश्वे वीर्यं दधाति, ' स प्रोक्षति । प्रजापतये त्वा जुष्टं प्रोक्षामीति प्रजापतिर्वै देवानां वीर्यवत्तमो वीर्यमेवास्मिन् दधाति तस्मादश्वः पशूनां वीर्यवत्तम: ' ( श ० १३ | १ | २ | ५ ) इति श्रुतेः । इन्द्राग्निभ्यां जुष्टं त्वां प्रोक्षामीत्यनेनेन्द्राग्न्योरिवाश्वे ओजो दधाति ' इन्द्राग्नी वै देवानामोजस्वितमा ओज एवास्मिन् दधाति तस्मादश्वः पशूनामोज स्त्रितमः ' ( श ० १३ | १ | २ | ६ ) इति श्रुतेः । ' वायवे त्वा जुष्टं प्रोक्षामि इत्यनेन वायोरिवाश्वे वेगं दधाति 1 ' वायुर्वे देवानामाशिष्ठो जवमेवास्मिन् दधाति तस्मादश्वः पशूनामाशिष्ठः ' ( १३ | १ | २ | ७ ) | आशिष्ठो वेगवत्तरः । अतिशयेन आशुः आशिष्ठः । विश्वेभ्यो देवेभ्यस्त्वा जुष्टं प्रोक्षामीत्यनेनाश्वे यशो दधाति, ' तस्मादश्वः पशूनां यशस्वितमः ' ( ० १३ | ११२१८ ) इति श्रुतेः । सर्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामीत्यनेन सर्वा देवता अवे दधाति ' सर्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामीति सर्वा एवास्मिन् देवता अन्वायातयति ' ( श ० १३ ११२२ ९ ) इति श्रुतेः । ' यो अर्वन्तमिति वाचयति ' ( का ० श्र ० २०/२1१ ) । ' आयोगवमाह् श्वानं चतुरक्षमभिमन्यस्वेति ' ( का ० श्री ० २० | ११३६ ) । शूद्रा-द्वैश्यायां जात आयोगवः । तेन पुंसा अध्वर्युप्रेरितेन चतुर्हेत्रे शुनि चतुरक्षस्य शुनोऽभावाद् यस्याक्षिसमीपे पौण्ड्राणि स गुणवृत्त्या चतुरक्ष इति कर्कः । शुनश्चतुरक्षत्वं गर्तचतुष्टययोगेनेति याज्ञिकाः । खादिरमुसलेन हते सति योऽन्तमित्यादि वरुण इत्यन्तं मन्त्रं यजमानं वाचयतीति सूत्रार्थः । गायत्री । पूर्वार्धेऽश्वस्तुतिः परेऽर्धे लिङ्गोक्तदेवता । योऽर्वन्तमवं जिघांसति हन्तुमिच्छति ह्यति वरुणस्तमश्चं जिघांसन्तमभ्यमीति हिनस्ति, ' अम् हिंसायाम् ' एतस्य लटि ' तुरुस्तुशम्यमः ' ( पा ० सू ० ७ ३२ ९ ५ ) इति ईप्रत्ययः । ' वेतसकटेनाधोऽश्वं प्लावयति परो मर्त इति ' ( का ० श्र ० २०२२ ) । वेतसनिर्मितेन कटेन मृतं श्वानमश्वाऽधो जले तारयतीति सूत्रार्थः । मर्तोऽश्वं जिघांसुर्मनुष्यः परः पराभूतोऽधस्पदं नीतः । श्वा च परः पराकृतः । श्वरूपेणाश्वहन्तेव पराकृत इत्यर्थः । ' असुर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ' ( ई ० उ ० ३ ) इति मन्त्रवर्णात् ।

पृष्ठ 80

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 80 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ५-६ ] वेदार्थ पारिजातभाष्यसहिता ४७ अत्र ब्राह्मणम् ' ईश्वरो वा एपः । आर्तिमार्तोऽर्यो ब्रह्मणे देवेभ्योऽप्रति प्रोच्यावं बध्नाति बध्नाति नार्तिमाछति ब्रह्मन्नश्वं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति ब्रह्माणमामन्त्रयते ब्रह्मण एवैनं प्रति प्रोच्य ' ( श ० १३।१।२।४ ) तं बधान देवेभ्यः प्रजापतये तेन राध्नुहीति ब्रह्मा प्रसौति स्वयैवैनं देवतया समर्धयति इत्यादिब्राह्मणवाक्यैः पूर्वोक्तः एवार्थो व्यज्यते । संस्करोमि । तेन अध्यात्मपक्षे - हे गतिशील जीवात्मन् प्रजापतये त्वां देवेभ्यस्त्वां प्रोक्षामि प्रोक्षणेन तयोरेवौजो दधामि । afe प्रजापतेरिव वीर्यं दधामि इन्द्राग्निभ्यां त्वां प्रोक्षामि । इन्द्राग्निभ्यां प्रोक्षणेन अन्यदपि पूर्ववद् व्याख्येयम् । यः परः श्वेव वर्तते यस्तं दयानन्दस्तु ' हे विद्वन्, यः परो वरुणो मर्तोऽर्वन्तं जिघांसति ताडयति । वायवे त्वां जुष्टं प्रोक्षामि । निवारयति तं प्रजापतये जुष्टं त्वां प्रोक्षामि । इन्द्राग्निभ्यां जुष्टं त्वां प्रोक्षामि यत्किञ्चित्, विसङ्गतेः । विश्वेभ्यो देवेभ्यस्त्वां जुष्टं प्रोक्षामि । सर्वेभ्यो देवेभ्यो जुष्टं त्वां प्रोक्षामि ' इति, प्राप्नोतीत्यप्यस्पष्टमेव तदपि । श्वेत यः श्रेष्ठः स किमर्थमश्वं ताडयति? किमर्थं च तत्ताडनेन सर्वतः प्राप्नोति । किं तं त्वा जुष्टं प्रोक्षामत्यपि

गौणार्थग्रहणमपि निर्मूलमेव । यः परः श्वेव वर्तते कुत्सितकर्मा यस्तं रोधयति ॥ ५ ॥

यत्किञ्चित्, मन्त्रे रोधनार्थकपदाभावात् । सिचनमपि किमर्थम्? किं तेन सिद्ध्यतीत्यनुक्तेः अ॒ग्नये॒ स्वाहा॒ समा॑य॒ स्वाहा॑हा॒ऽपां मदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॑ वा॒यवे॒ स्वाहा॒ विष्ण॑वे॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॑ ॥ ६ ॥

हम सोम मन्त्रार्थ - जल के समीप से अश्व को अग्नि के समीप लाकर अध्वर्यु इन मन्त्रों से घृत की देते आहुति हैं, वायु दे - देवता को, को हवि अर्पित करते हैं, जल के आमोदक देवताओं को हवि देते हैं, सविता देवता को और आहुति वरुण देवता के निमित्त यह विष्णु देवता को, इन्द्र देवता को और बृहस्पति देवता को आहुति देते हैं । मित्र देवता दी जाती है ॥ ६ ॥

हवि अर्पित की जाती है । इन सब देवताओं को इस अश्व की रक्षा के निमित्त आहुति अग्निसमीपमानीयाग्नये स्वाहेति जुहोत्यनुवाकेन प्रतिमन्त्रम् ' ( का ० श्र ० २०।२।३ सकृद् ) स्थावराद्भयोऽ- गृहीत्वा जुह्वा द्भ्यः सकाशादश्वमग्निसमीपमानीयाग्नये स्वाहेत्येककण्डिकात्मकेनानुवाकेन प्रतिमन्त्रं ४ ) यद्वा शतकृत्योऽनु-स्तोकीयसंज्ञा दशाज्याहुतीर्जुहुयादिति सूत्रार्थः । ' सहस्रं वावर्तम् ' ( का ० श्र ० । २२ अग्नये २ स्वाहा, अङ्गतीत्यग्निः, वाकमावर्त्य सहस्रमाज्याहुतीर्जुहुयादिति सूत्रार्थः । दश यजूंषि लिङ्गोक्तदेवत्यानि मन् ' तस्मै सुहुतमस्तु । सोमाय स्वाहा, सूतेऽमृतमिति सोमः, ' अर्तिस्तु हर्षयतीति सुहुसृधृभिशुभायावापदियक्षिनीभ्यो मोदः, ' मुद हर्षे ' भौवादिकस्य ( उ ० १११४० ) इति साधुः, तस्मै । अपां जलानां मोदाय मोदयति, वातीति वायुस्तस्मै । विष्णवे ण्यन्तस्य तस्मै स्वाहा । सवित्रे स्वाहा, सुवतीति सविता तस्मै । वायवे स्वाहा । बृहस्पतये स्वाहा, बृहतां स्वाहा, वेवेष्टि व्याप्नोतीति विष्णुस्तस्मै । इन्द्राय स्वाहा, इन्दतीतीन्द्रस्तस्मै स्वाहा, वृणोति भजते वेदानां पतिर्बृहस्पतिस्तस्मै । मित्राय स्वाहा, मिद्यति स्निह्यतीति मित्रस्तस्मै । वरुणाय दश भक्तमिति वरुणस्तस्मै । एतेभ्यो देवेभ्यः स्वाहा हविर्दत्तं भवतु । एताभिराहुतिभिरेतेभ्यो देवेभ्योऽश्वं ददाति । अत्र ब्राह्मणम् -'यथा वै हविषो हुतस्य स्कन्देत् । एवमेतत्पशोः स्कन्दति यन्निक्तमनालब्धमुत्सृजन्ति जुहोति सहस्रसम्मितो यत्स्तोकीया जुहोति सर्वहुतमेवैनं जुहोत्यस्कन्दायास्कन्न ४ हि तद्यद्भुतस्य स्कन्दति सहस्रं प्रतिक्रियते, " वै स्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै ' ( श ० १३ | १ | ३ | १ ) । अहुतस्य हविषः स्कन्दनेऽवश्यं