वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 81–90

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 81–90

पृष्ठ 81

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 81 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४८ शुक्लयजुर्वेदसंहिता [ अ ० २२ एवमेतत् । अश्वस्य पशोः स्कन्दति । निक्तं प्रक्षालितमनालब्धं पोषणाय त्वचमुत्सृजन्ति । तत्र कः प्रतीकारः इत्यपेक्षिते आह - यत्स्तोकीया जुहोतीति । स्तोक्मानां प्रस्रवणविन्दूनां निष्क्रयणतया सम्बन्धिनीराहुतीर्जुहोति । सर्वहुतमेव एनमश्वं जुहोत्यस्कन्दाय हविषोऽविप्रणाशाय । अस्कन्नं हि तद्यस्य हृतस्य स्कन्दति । एताभिश्च निष्क्रयणीभिराहुतिभिस्तद्भुतमेव भवतीत्यभिप्रायः । सहस्रं जुहोत्यग्नये स्वाहेत्येता दशाहुती: शतकृत्व आवृत्ता जुहोति तथा जुहोति यथा आवृत्त्या सहस्रं भवतीत्यर्थः । सहस्रसम्मितो वै स्वर्गो लोक इति । गायत्रीरात्रे गोसहस्रं प्रकृत्याह - ' यावदस्य सहस्रस्योत्तरा गौर्गतिप्रतिष्ठा भवति तावदस्माल्लोकादसौ लोक इत्येवं सहस्र-सम्मितः स्वर्गलोकः ' इति । ' तदाहु: । यन्मिता जुहुयात् परिमितमवरुन्धीतेत्यमिता जुहोत्यपरिमितस्यैवावरुद्ध्या उवाच ह प्रजापतिः स्तोकीयासु वा अहमश्वमेध, स स्थापयामि तेन स स्थितेनैवात ऊध्वं चरामीति ' ( श ० १३ | १ | ३ | २ ) । अमिता जुहोतीति कल्पान्तरम् । स्तोकीयासु वा अहमिति । सर्वेभ्योऽश्व आलभ्यत इति तेषां निष्क्रयणीभिराहुतिभिः संस्थापित एवाश्वमेधो भवतीत्यभिप्रायः । अथ सर्वाभ्यो वै देवताभ्योऽश्व आलभ्यते । एतावन्तश्च सर्वे देवा यावन्तोऽग्न्यादयः, तेभ्यो हुतः संस्थापित एव भवतीति । ' अग्नये स्वाहेति । अग्नय एवैनं जुहोति सोमाय स्वाहेति सोमायैवैनं जुहोत्यपां मोदाय स्वाहेत्यद्वय एवैनं जुहोति सवित्रे स्वाहेति सवित्र एवैनं जुहोति वायवे स्वाहेति वायव एवैनं जुहोति विष्णवे स्वाहेति विष्णव एवैनं जुहोतीन्द्राय स्वाहेतीन्द्रायैवैनं जुहोति बृहस्पतये स्वाहेति बृहस्पतय एवैनं जुहोति मित्राय स्वाहेति मित्रायैवैनं जुहोति वरुणाय स्वाहेति वरुणायै-वैनं जुहोत्येतावन्तो वै सर्वे देवास्तेभ्य एवैनं जुहोति पराचीर्जुहोति पराङिव वै स्वर्गो लोकः स्वर्गस्य लोकस्याभि-जित्यै ' ( श ० _ १३।१।३।३ ) । अग्न्यादिभ्य आज्याहुत्या न केवलमाज्यं जुहोति किन्त्वेनमश्वमेव जुहोति । आवृत्त्या पराचीः, अनावृत्ता इति यावत् । सकृदेव दशैता आहुतीर्जुहुयादिति कल्पान्तरम् । पराङ् स्वर्गो लोक इति परतः श्रेय इत्यभिप्रायः । ' ईश्वरो वा एषः । पराङ् प्रदघोऽर्यः पराचीराहुतीर्जुहोति पुनरावर्ततेऽस्मिन्नेव लोके प्रतितिष्ठत्येता??. हवा स यज्ञस्य स स्थितिमुवाचास्कन्दायास्कन्न हि तद्यद्भुतस्य स्कन्दति ' ( श ० १३ | १ | ३ ४ ) इति चतुर्थ्या कण्डिकया आवृत्तिपक्षस्य निन्दया आवृत्तिमत्तां यज्ञस्य संस्थिति स्तोकीयास्वाह - ताः पराचीरिति । ' यथा वै हविषो हुतस्य स्कन्देत् । एवमेतत् पशो स्कन्दति यत्प्रोक्षितमनालब्धमुत्सृजन्ति यद्रूपाणि जुहोति सर्वहुतमेवैनं जुहोत्यस्कन्दायास्कन्नं हि तद्यद्भुतस्य स्कन्दति हिङ्काराय स्वाहा हिङ्कृताय स्वाहेत्ये अश्वस्य रूपाणि तान्येवावरुन्धे ' ( ० १३।१।३।५ ) । यथा वै हविष इति चतसृभिरेताभिः कण्डिकाभिरश्वरूपाणां हिङ्कारादीनां निष्क्रमणात्मिका रूपाख्या आहुतय उच्यन्ते, ता एवात्र प्रक्रम्या इति वक्ष्यन्ते । ' तदाहुः । अनाहुति रूपाणि नेता होतव्या इत्यथो खत्वाहुरत्र वा अश्वमेधः सन्तिष्ठते यद्रूपाणि जुहोति होतव्या एवेति बहिर्धा वा एतमायतनात् करोति भ्रातृव्यमस्मै जनयति यस्यानायतनेऽ-यत्रानेहुतिर्जुहोति ' ( शु १३ | १ | ३ | ६ ) । यस्यानायतने आहुतिर्जुहोतीति । किं पुनस्तदायतनम्? अन्यत्राग्ने-रिति । अन्वाहार्यपचने वा अश्वपदे वा परिलिखिते । अध्यात्मपक्षे – अग्नये स्वाहा सोमाय स्वाहेत्यादिभिस्तत्तद्भावापन्नाय परमात्मन एव स्वात्म-निवेदनमुच्यते । दयानन्दस्तु – ' यदि मनुष्या अग्नये स्वाहा सोमाय स्वाहा वरुणाय स्वाहा क्रियेरन्, तर्हि किं किं सुखं न प्राप्येत ' इति, तदपि यत्किञ्चित् स्वाहापदस्य तदर्थत्वे मानाभावात् उत्तमक्रियायाश्चानिरूपणात्, निष्प्रमाणा-ध्याहारमूलकत्वाच्च ॥ ६ ॥

पृष्ठ 82

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 82 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७ ] वेदार्थ पारिजातभाष्यसहिता ४ ९ हिङ्काराय॒ स्वाहा॒ हिङ्कृताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑वक्र॒न्दाय॒ स्वाहा॒ प्रय॑ते॒ स्वाहा॑ प्रोथाय॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा॑ व्र॒ताय॒ स्वाहा निवि॑िष्टाय॒ स्वाहोप॑विष्टाय॒ स्वाहा सन्द॑ताय॒ स्वाहा वग॑ते॒ स्वाहासी॑नाय॒ स्वाहा॒ शया॑नाय॒ स्वाहा॒ स्वप॑ते॒ स्वाहा॑हा॒ जाय॑ते॒ स्वाहा॒ कूज॑ते॒ स्वाहा॒ प्रबुद्धाय॒ स्वाहा॑ वि॒जृम्भ॑माणाय॒ स्वाहा॒ विच॑ताय॒ स्वाहा॒ सध॒नाय॒ स्वाहोप॑स्थिताय॒ स्वाहाय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहा॑ ॥ ७ ॥

मन्त्रार्थ दक्षिणाग्नि में प्रक्रम नामक ४ ९ आहुतियाँ देते हुए अध्वर्यु कहता है - इस अश्व का हिंकार हमारे अनुकूल हो, हे अग्निदेव इसके लिये आपको हवि देते हैं । शब्द करते हुए घोड़े की अनुकूलता के लिये नीचा शब्द करने वाले मुंह से फूत्कार करने वाले, अपने मुँह को हिलाने वाले, वस्तुओं को सूँघने वाले, बैठने की चेष्टा करने वाले, स्थिर खड़ा रहने वाले, सम्यक् बन्धन घाले, चलते हुए, बैठते हुए, लेटे हुए, सोये हुए, जागते हुए, शब्द करते हुए, ज्ञान युक्त, जम्हाई लेते हुए, विशेष वीप्तिमान्, संगत शरीर वाले, हमारे सामने उपस्थित, विशेष ज्ञान सम्पन्न और afaint करने वाले अश्व के निमित्त हम आपको हवि अर्पित करते हैं ॥ ७ ॥

' दक्षिणाग्नौ जुहोति हिङ्काराय स्वाहेति प्रक्रमान् ' ( का ० श्र ० २० | ३ | ३ ) । एतदर्थमेवोद्धृते दक्षिणाग्नो प्रतिमन्त्रं प्रक्रमसंज्ञान् एकोनपञ्चाशद्धमान् जुहुयादिति सूत्रार्थः । अश्वस्य एकोनपञ्चाशचेष्टितानि ( व्यापाराः ) कण्डिकाद्वयेन निर्दिश्यन्ते । तत्र हिङ्काराय, हिङ्करणं हिङ्कारः, तस्मै । कृतं यद्धितं तस्मै । क्रन्दते क्रन्दतीति क्रन्दन्, तस्मै । अवकन्दाय अब नीचैः कन्दतीत्यवकन्दः, तस्मै । प्रोथते प्रोथतीति प्रोथन्, तस्मै । ' प्रोथ पर्याप्तौ ’ पर्याप्तगताविति भट्टभास्करमिश्रः । प्रप्रोथाय प्रकृष्टः प्रोथो घोणा यस्य सः प्रप्रोथः, तस्मै । ' घोणा तु प्रोथ-मस्त्रियाम् ' ( अ ० को ० २२८२४ ९ ) । गन्धाय गन्धोऽस्यास्तीति गन्धस्तस्मै । घ्राताय प्रातं घ्राणमस्यास्तीति प्रातस्तस्मै । निविष्टाय निविशत इति निविष्टः तस्मै । उपविष्टाय उपविशतीत्युपविष्टः तस्मै । सन्दिताय सम्यक् दितं खण्डनं यस्य स सन्दितः तस्मै । वल्गते वल्गतीति वल्गन्, तस्मै । आसीनाय आस्तेऽसावासीनः, तस्मै । ' ईदास: ' ( पा ० सू ० ७८३ ) इति शानच ईकारादेशः । शयानाय शेतेऽसौ शयानः, तस्मै । स्वपते स्वपितीतिस्वपन्, तस्मै । जागर्तीति जाग्रत्, तस्मै । कुजते कूजतीति कूजन् तस्मै । प्रबुद्धाय प्रकर्षेण बुद्धयत इति प्रबुद्धः, तस्मै । विजृम्भमाणाय विशेषेण जृम्भत इति विजृम्भमाणः तस्मै । विचृताय विशेषेण चृततीति विचृतः, तस्मै । संहानाय संहन्तीति संहानः, तस्मै संहतशरीरायेत्यर्थः । उपस्थिताय उपतिष्ठत इत्युपस्थितः तस्मै । अयनाय अयत इत्ययनः, ल्युः, तस्मै । प्रकृष्टमयते प्रायणः, तस्मै स्वाहा सुहुतमस्तु । अध्यात्मपक्षे - संवत्सरात्मक प्रजापतिदेवताकस्य प्रजापतिरूपस्याश्वस्य हिङ्कारादीनि चेष्टितान्यपि देवतारूपाणि तस्य सर्वात्मकत्वात् । तेभ्यो रूपेभ्यः स्वाहाकारेण सोपकरणः प्रजापतिरिष्टो भवति । -----दयानन्दस्तु — ' यैर्मनुष्यँहिङ्काराय स्वाहा उत्तमक्रिया हिङ्कृताय प्रायणाय स्वाहा क्रियन्ते, तैर्दुःखानि वियोज्य सुखानि लभ्यन्ते ' इति, तदपि यत्किचित्, हिङ्कारादयः किंरूपाः? कारचोत्तमक्रियाः? दृष्टार्थवादिन-चार्वाकप्रायस्य तवान्यस्य वा को लाभस्तेनेत्यनुक्तेः । सिद्धान्ते तु प्रजापतिरूपस्याश्वस्य चेष्टितानि देवता-रूपाणि । तेभ्यः स्वाहाकारेण सोपकरणस्य प्रजापतेर्यजनं सम्पद्यते ॥ ७ ॥

पृष्ठ 83

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 83 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५० शुक्लयजुर्वेदसंहिता | अ ० २२ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहा॑द्रे॒वाय॒ स्वाहोद्वा॑ताय॒ स्वाहा॑ शूकाराय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ निष॑णाय॒ स्वाहोत्थि॑िताय॒ स्वाहा॑ ज॒वाय॒ स्वाहा॒ बला॑य॒ स्वाहा॑ वि॒वर्तमानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॒ विध॑ताय॒ स्वाहा॒ शुश्रूषमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहेष॑माणाय॒ तस्मै॒ स्वाहे॑क्षि॒ताय॒ स्वाहा वीक्षिताय॒ स्वाहा॑ निमे॒षाय॒ स्वाहा॒ यदत्ति॒ तस्मै॒ स्वाहा यत्पिब॑ति॒ स्वाहा यन्मूत्रं॑ क॒रोति॒ तस्मै॒ स्वाहा॑ कुर्व॒ते स्वाहा॑ कृ॒ताय॒ स्वाहा॑ ॥ ८ ॥

, बलरूप, मन्त्रार्थ - जाते हुए, दौड़ते हुए, तीव्र गति वाले, शू शब्द करने वाले, बंठे हुए, खड़े हुए, वेगवान् चेष्टा करने वाले, देखने की चेष्टा विशेष चेष्टा करते हुए, तिरछी गति वाले, अपने शरीर को कँपाने वाले, सुनने की वह जो कुछ खाता है, जो पीता करने वाले, पलक झपकाने वाले, अश्व के निमित्त हम आपको हवि अर्पित करते हैं वह । अश्व जो कुछ कर रहा है या

है, मूत्र आदि क्रिया करता है, उसकी अनुकूलता के लिये हवि अर्पित करते हैं ।

करेगा, वे सब क्रियाएं अधिष्ठात्री देवताओं के अनुग्रह से सुसम्पन्न हों ॥ ८ ॥

यते एतीति यन् तस्मै स्वाहा । धावते धावतीति धावन् तस्मै । उद्भावाय उद्भुतः उद् तस्मै उत्कृष्टोऽधिको । शु इति वा द्रावो गतिर्यस्य स उद्भावः तस्मै । उद्भुताय उद् अधिकं शूकृतः द्रुतं यस्य , तस्मै स । निषण्णाय न्यषीददिति करोतीति शूकारः, तस्मै । शुकृताय शू इति कृतमस्यास्तीति जु इति तस्मै । जवाय जवतीति जवः, पचाद्यच्, निषण्णः, तस्मै । उत्थिताय उदतिष्ठदित्युत्थितः बलः, १५६ ) इति पठितः, तस्मै । बलाय बलमस्यास्तीति सौत्रो धातुः, ' प्रजोरिनि: ' ( पा ० सू ० ३ | २ | यो विवर्तते स्म स विवृत्तः, तस्मै । तस्मै । विवर्तमानाय यो विवर्तते स विवर्तमानः 1 तस्मै । विवृत्ताय ' सौवादिकः " अयं दीर्घान्तोऽपीति विधुन्वानाय विशेषेण धनुते कम्पत इति विधुन्वानः, ' धुञ् कम्पने विविधं धूयते स्मेति विधूतः, तस्मै । स्वामि - शिवस्वामि - काश्यपाः, चान्द्रा अपि उभयं पठन्ति तस्मै । विधूताय सनः ' ( पा ० सू ० १।३।५७ ) शुश्रूषमाणाय श्रोतुमिच्छति यः स शुश्रूषते, शुश्रूषतेऽसाविति शुश्रूषमाणः तस्मै , ' ज्ञाश्रुस्मृदृशां । ईक्षमाणाय ईक्षते यः स ईक्षमाणः, इत्यात्मनेपदम्, ततः शानच् तस्मै । शृण्वते शृणोतीति शृण्वन्, तस्मै । निमेषाय निमिषतीति तस्मै । ईक्षिताय ईक्षते स्मेतीक्षितः, तस्मै । वीक्षिताय विशेषेणेक्षितो वीक्षितः यत्किञ्चिदत्ति तस्मै, भक्षणकर्त्रे । निमेषः, तस्मै । स्पर्द्धार्थात्मकोऽयम् । उपसर्ग बलादर्थान्तरे वृत्तिः । कुर्वते । कृताय यज्जलादिकं पिबति तस्मै पानक । यन्मूत्रं करोति तस्मै मूत्रयते । कुर्वते करोतीति कुर्वन् तस्मै कृतमस्यास्तीति कृतः, तस्मै । स्वाहा सुहुतमस्तु । इत्ये कोनपञ्चाशत् प्रक्रमाः । अध्यात्मपक्षे - पूर्ववदर्थः । लभन्ते ' इति, तदपि दयानन्दस्तु — ' ये मनुष्या ' यते स्वाहा कृताय स्वाहा कुर्वन्ति ते ॥ सर्वाणि सुखानि यत्किञ्चित्, सर्वाणि सुखानि लभन्त इत्यश्रुतफलकल्पनस्य निर्मूलत्वात् ॥ ८

तत्स॑वि॒तुर्वरेण्यं भर्गो दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दयात् ॥ ९ ॥

मन्त्रार्थ - इस सर्वप्रकाशक, सबके प्रेरक, आदित्य के अन्तर्गत स्थित पुरुषरूप ब्रह्म का, जो सभी के द्वारा प्रार्थनीय के अनुष्ठान है, जो सम्पूर्ण संसार का प्रकाशक तेज है, हम ध्यान करते हैं । वह सविता देवता हमारी बुद्धि को सत्कर्म के लिये प्रेरित करें ॥ ९ ॥

पृष्ठ 84

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 84 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ९ –११ ] वेदार्थपारिजात भाष्यसहिता ५१ षड् ऋचः सवितृदेवत्या गायत्र्यः सावित्रीणामिष्टीनां याज्यानुवाक्याः । सवितु: प्रपञ्चोत्पादयितुर्जगदुत्पत्ति-स्थितिलयलीलस्य परमेश्वरस्य तद् वेदान्तेषु ब्रह्मवित्सु च प्रसिद्धं स्वरूपभूतं भर्गस्तेजो धीमहि, यो नोऽस्माकं धियो बुद्धीः प्रचोदयात् सत्कर्मज्ञानादिषु प्रेरयति ॥ ९ ॥

हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥ १० ॥

मन्त्रार्थ - ज्योतिःस्वरूप हाथ वाले परमात्मा को मैं अपनी रक्षा के लिये पुकारता है । वह सर्वज्ञ प्रकाश-स्वरूप परमात्मा सब ज्ञानियों का आश्रय है ॥ १० ॥

मेधातिथिदृष्टा । अहं हिरण्यपाणि हिरण्यमयी पाणी यस्य स हिरण्यपाणिः, तम् । सवितारमुपह्वये आह्वयामि । किमर्थम्? ऊतये अवनाय । यतः स सविता चेत्ता चेतयिता, सर्वज्ञ इति यावत् । तथा देवता महती विभूतिः । पदं च पदनीयं गमनीयम्, प्राप्यमिति यावत्, ज्ञानकर्मसमुच्चयानुष्ठायिनाम् । ज्ञानिनामपि मुक्तोप -सृप्यमपीति यावत् । तस्मादवनाय स आहूयते । अत्र ब्राह्मणम् – ' सावित्र्या एवेष्टे: । पुरस्तादनुद्धृत्य सकृदेव रूपाण्याहवनीये जुहोत्यायतन एवाहुतीर्जुहोति नास्मै भ्रातृव्यं जनयति यज्ञमुखे यज्ञमुखे जुहोति यज्ञस्य सन्तत्या अव्यवच्छेदाय ' ( श ० १३ । १ । ३ । ७ ) | सावित्र्या एवेष्टेः पुरस्तात्, स्तोकीयानन्तरमेवेत्यर्थः । सावित्रीष्टिषु संस्थितासु प्रयुङ्क्तेऽश्वे पारिप्लव आख्याते वीणा-गाथिनः सम्प्रेष्य अध्वर्युः प्रक्रमान् जुहोति, अन्याहार्य पचनेऽश्वस्य पदं वा परिलिख्येति तस्य वाचनिकस्य क्रमस्य बाधनार्थं पुरस्तादनुद्रुत्येत्याह । अनुद्वत्य आनुपूर्व्यणोच्चार्य ' हिङ्काराय स्वाहा ' इत्यादिकमाज्येनैव जुहुयादित्यभि-प्रायः । सकृदेवेति न स्तोकीयावदावर्तयेत् । यज्ञमुखे यज्ञमुख इति दीक्षणीया, प्रायणीया, आतिथ्या, प्रवर्ग्यः, उपसदः, अग्नीषोमीयः, सुत्या, अवभृथः, उदयनीया, अनुवन्ध्या, उदवसानीया – इत्येतेषु कर्मंस्वित्यर्थः । अध्यात्मपक्षे - सवितारं प्रपञ्चोत्पादयितारं परमात्मानमुपह्वये आह्वयामि । कीदृशम्? हिरण्यपाणि हिरण्योपलक्षितो दिव्यज्योतिर्मयो मोक्षो पाणौ यस्य तम् । किमर्थम्? ऊतये रक्षणाय । स परमात्मा चेत्ता चेतता सर्वज्ञाता देवता परदेवता ब्रह्मरूपा, ' एको देवः सर्वभूतेषु गूढ: ' ( वे ० ६ ११ ) इति श्रुतेः । पदं पद्यते गम्यते प्राप्यते यत् तत् पदं मुक्तोपसृप्यम्, ' तद्विष्णोः परमं पदम् ' ( ऋ ० सं ० १।२२।२० ) इति मन्त्रवर्णात् । दयानन्दस्तु – ' हे मनुष्याः, यमहमूतये हिरण्यपाणि पदं सवितारमुपह्वये, स चेत्ता देवताऽस्तीति यूयं विजानीत ' इति, तदपि यत्किञ्चित् हिरण्यानि सूर्यादीनि तेजांसि पाणौ स्तवने यस्य तमिति व्याख्यानस्यातन्त्र -त्वात्, सूर्यादीनां त्वद्रीत्या स्तवनानुपयोगित्वात् ॥ १० ॥

दे॒वस्य॒ चेत॑तो म॒हीं प्र स॑वि॒तुर्हवामहे । सुम॒ति स॒त्यरा॑धसम् ॥ ११ ॥

मन्त्रार्थ -- सबको चेतना शक्ति देने वाले, सर्वज्ञ, सबके प्रेरक परमात्मा की हम सत्य की साधना और सुमति के लिये प्रार्थना करते हैं, अर्थात् परमात्मा हमको सत्यमयी बुद्धि प्रदान करें, यह हमारी प्रार्थना है ॥ ११ ॥

देवस्य द्योतमानस्य दानादिगुणयुक्तस्य वा । चेततः चेततीति चेतन्, तस्य जानतः । सवितुः सम्बन्धिनीं सुमति शोभनां बुद्धि हवामहे प्रकर्षेण प्रार्थयामहे । कीदृशीं सुमतिम्? महीं महतीम्, पूज्यां वा । पुनः कीदृशीम्? सत्यराधसं सत्यमनश्वरं राधो धनं यस्यास्ताम्, यद्वा सत्यं राधयति साधयति या सा सत्यराधास्ताम् ।

पृष्ठ 85

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 85 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५२ सुष्टति समतीवृध राति तद्याच्ञया ॥ १२ ॥

[ अ ० २२ शुक्लयजुर्वेदसंहिता

स॑वि॒तुरी॑महे । प्र देवाय मोविदे ॥ १२ ॥

देवताओं को

राति सत्प॑तिम॒हे स॑वि॒तार॒मुप॑ह्वये । आ॒स॒व॑ दे॒ववी॑तये ॥ १३ ॥

मन्त्रार्थ - चारों पदार्थों को देने वाले, सत्पुरुषों के रक्षक, सब कर्मों के प्रेरक सविता देव का हम और तृति के निमित्त आह्वान करते हैं और उनका पूजन करते हैं । इसका अभिप्राय यह है कि परमात्मा की प्रार्थना उपासना से सब देवता तृप्त होते हैं ॥ १३ ॥

अहं सवितारमुपह्वये आह्वयामि, महे पूजयामि च ' मह पूजायाम् ' भौवादिकः । कस्मै ददातीति प्रयोजनाय रातिस्तं? देववीतये देवानामिन्द्रादीनां वीतिस्तर्पणं देववीतिस्तस्यै । कीदृशं सवितारम्? रातिम्, राति दातारम् । कर्तरि क्तिच् । सत्पतिं सतां पालयितारम् । आसवम् आसमन्तात् सौति कर्माण्यनुजानातीत्या सवस्तम् । सवितारमाह्वय इति यावत् । अध्यात्मपक्षे - रातिं कर्मफलदातारं सत्पति सतां पालकम् । आसवं सत्कर्मप्रेरकं सवितारमहमुपह्वये आह्वयामि महे पूजयामि च । किमर्थम्? देववीतये देवानामिन्द्रियाणां वीतये तर्पणाय, तेषां भगवत्स्वरूपरसा-स्वादनेन तृप्तिसम्पादनाय, तदुपयोगिपरमानन्दमयश्रीविग्रहधारणाय । अध्यात्मपक्षे - सवितुः परमेश्वरस्य देवस्य स्वप्रकाशस्य सम्बन्धिनीं शोभनां मतिं परमात्मस्वरूप-विषयिणी तदवद्योतिकां मतिं प्रहवामहे प्रार्थयामहे । कीदृशस्य सवितुः? चेततः सर्वज्ञस्य । कीदृशीं सुमतिम्? महीं महतीं महद्विषयत्वात् सत्यमनश्वरं ब्रह्मरूपं राधो धनं यस्याः प्रभावाल्लभ्यते ताम्, सत्यसाधयित्रीं वा । दयानन्दस्तु – ' हे मनुष्याः, यथा वयं सवितुश्चेततो देवस्येश्वरस्योपासनां कृत्वा महीं सत्यराधसं सुमति हवामहे, तथैतमुपास्य तां यूयं प्राप्नुत ' इति, तदपि यत्किञ्चित्, अध्याहारादिदोषदुष्टत्वात् सम्बोधनस्य निर्मूलत्वाच्च ॥ ११ ॥

मन्त्रार्थ -- सबके मन को जानने वाले, सर्वान्तर्यामी दिव्य गुण सम्पन्न, सुबुद्धि के दाता, सबके प्रेरक परमात्मा की स्तुति करने की सामथ्यं रूप धन को हम बहुत चाहते हैं । हमारी इस इच्छा को परमात्मा पूरी करें ॥ १२ ॥

वयं सवितुः सूर्यस्य देवस्य सुष्टुति शोभनां स्तुति राति दानं च प्रकर्षेण ईमहे याचामहे । ' छन्दसि परेऽपि ' ( पा ० सू ० १२४।८१ ) इति धातोः परः प्रशब्दः । कीदृशस्य सवितुः? सुमतीवृधः शोभनां मतिं वर्धयतीति ) सुमतीवृत् तस्य । ' संहितायाम् ' ( पा ० सू ० ६ | ३ | ११४ ) इत्यधिकारे, ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६।३।१३७ इति दीर्घः । देवाय, मतीविदे इति षष्ठ्यर्थे चतुर्थी । देवाय देवस्य । मतीविदे मतीविदः, मतिं वेत्तीति मतीवित् तस्य । पूर्ववत् पूर्ववर्णस्य दीर्घः । अध्यात्मपक्षे - सवितुः परमेश्वरस्य सुष्टुतिं शोभनां जन्ममरणादिनिवारिणी स्तुतिं राति तत्सम्बन्धि दानं च प्र प्रकर्षेण ईमहे याचामहे । कीदृशस्य सवितुः? सुमतीवृधः शोभनबुद्धिवर्धकस्य | देवस्य दानादिगुणकस्य मतीविदो बुद्धिसाक्षिणः । दयानन्दस्तु -- ' हे मनुष्याः यथा वयं सुमतीवृधः सवितुरीश्वरस्य सुष्टुति कृत्वा एतस्मान्मतीविदे देवाय राति प्रेम, तथैतस्माद् यूयमपि याचध्वम् ' इति, तदपि यत्किञ्चित् गतौ सत्यामध्याहारस्यासङ्गतत्वात् । किञ्च यः परमात्मानं स्तुत्वा मतिं विदन्ते स तस्मादेव रातिमपि प्राप्तं शक्नोति, तत् कृतं युष्माकं

पृष्ठ 86

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 86 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० १३-१५ ] वेदार्थ पारिजातभाष्यसहिता ५३ दयानन्दस्तु – ' हे मनुष्याः यथाहं महे देववीतये रतिमासवं सत्पतिं सवितारमुपह्वये, तथा यूयमप्येनं प्रशंसत ' इति, तदपि यत्किञ्चित् गुरूपचरणादिना लौकिकेनैवोपायेन विद्याप्राप्तिसम्भवे तदर्थं परमात्मप्रार्थना-सङ्गतेः ॥ १३ ॥

देवस्य सवितुतिमासवं विश्वदेव्यम् । िया भर्गे मनामहे ॥ १४ ॥

मन्त्रार्थ --- बुद्धिरूप सकल ऐश्वर्यों को प्रदान करने वाले सब देवताओं के कल्याण हेतु यज्ञ आदि करने के लिये हम भक्तिमय बुद्धि के द्वारा सबके प्रेरक परमात्मा से धन की याचना करते हैं ॥ १४ ॥

सवितुः सूर्यस्य देवस्य द्योतमानस्य मति बुद्धि प्रति धिया स्वकीयया प्रज्ञया भगं भजनीयं धनं मनामहे वयं याचामहे, सवितुर्देवस्य मतिरस्मासु धनदानतत्परा भवत्वित्यर्थः । कीदृशं भगम्? आसवम् आसौति अनुजानाति येन तम् आसवम्, धनप्रभावेणैव सर्वेषां कृते आज्ञा दातुं शक्यत इत्यर्थः । विश्वदेव्यं विश्वेभ्यो देवेभ्यो हितम्, तेनैव यज्ञदानादिभिः सर्वदेवतातर्पणसम्भवात् । मनामह इति याच्ञाकर्मसु ( निघ ० ३।१ ९ ।१६ ) । धातोरस्य द्विकर्मकत्वान्मतिभगशब्दयोद्वितीया । अध्यात्मपक्षे - देवस्य स्वप्रकाशस्य सवितुर्विश्वोत्पत्त्यादिकारणस्य मतिं सर्वज्ञानलक्षणायाः प्रज्ञायाः सकाशाद् वयं ज्ञानविज्ञानलक्षणं भगं भजनीयं धनं मनामहे याचामहे । कीदृशं भगम्? आसवं येन सर्वोऽपि सूयत आज्ञाप्यते तादृशम् । विश्वदेव्यं विश्वेभ्यो देवेभ्यो हितम्, सर्वेषु देवेषु ब्रह्मात्मबुद्धिहेतुत्वात् भेददर्शिनां देवकर्तृकपरादानश्रवणात्, ' देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ' ( वृ ० उ ० ४ | ५ | ७ ) इति श्रुतेः । दयानन्दस्तु -- ' हे मनुष्याः, यथा वयं सवितुर्देवस्य परमात्मनः सकाशान्मतिमासवं सकलैश्वर्यहेतुं च प्राप्य तया धिया सर्व वैश्वदेव्यं भगमुत्तममैश्वर्यं मनामहे ' इति, तदपि यत्किञ्चित् प्राप्यपदाध्याहारस्य निर्मूलत्वात् । किञ्च येन प्रयत्नेन परमेश्वरस्य सकाशाद् बुद्धिरैश्वर्यहेतुरुपलभ्यते, तेनैवोत्तमैश्वर्यप्राप्तिरपि सम्भवत्येवेति प्रयत्न-द्वयवैयर्थ्यात् ॥ १४ ॥

अ॒ग्निस्त मैन बोधय समिधा॒ना अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत् ॥ १५ ॥

मन्त्रार्थ -- हे अध्वर्यु! तुम मरणधर्मरहित अग्नि को प्रज्वलित करते हुए स्तुति के द्वारा उसे प्रसन्न करो, जिससे कि वह हमारी हवियों को देवताओं तक पहुँचावे ॥ १५ ॥

तिस्रः स्विकृति पुरोऽनुवाक्या अग्निदेवत्या गायत्र्यः क्रमशः सुतम्भर - विश्वामित्र - विश्वरूपदृष्टाः । हे अध्वर्यो, त्वं समिधानः सन्दीपयन् अग्नि देवं स्तोमेन स्तुतिभिर्बोधय अवगतार्थं कुरु । कीदृशमग्निम्? अमत्यं मरणधर्मरहितम् | किमर्थं पुरस्कृत्य बोधयामीति चेत्, तत्राह - हव्या हव्यानि हवींषि नोऽस्माकं सम्बन्धीनि देवेषु दधद् धारयतु, तत्र तस्याधिकृतत्वात् । अध्यात्मपक्षे - अग्नि परमेश्वरं स्तोमेन स्तुतिभिः हे साधक, बोधय स्वविषयिणी सानुग्रहां बुद्धि जनय । किं कुर्वन्? समिधानः, गुणगणार्णवस्मारणेनानुग्रहमुद्दीपयन् । कीदृशमग्निम्? अमर्त्यम्, मरणोपलक्षित-षड्विधभावविकारवर्जितम् । किमुद्दिश्योद्बोधनमिति चेत्, तत्राह - देवेषु हव्या नोऽस्मत्सम्बन्धीनि हव्यानि दधद् धारयतु, आहवनीयादिरूपेण तस्यैव हविर्विधारकत्वात् । देवेष्विन्द्रियेषु तदभीष्टस्वकीयदिव्यरूपस्पर्शगन्धादि दधातु धारयतु । दयानन्दस्तु - ' हे विद्वन् यः समिधानोऽग्निदेवेषु वाय्वादिषु हव्या दातुमादातुं योग्यानि नो दधत्, तममर्त्य-मग्नि स्तोमेन बोधय प्रदीपय ' इति, तदपि यत्किञ्चित्, दातुमादातुं योग्येषु लौहसुवर्णमण्यादिषु हन्यपदप्रयोगा-योगात् । न च बुद्धयतेरग्निप्रज्वालनमर्थः, उद्बोधनादिषूपसर्गप्रयोगदर्शनात् ॥ १५ ॥

पृष्ठ 87

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 87 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५४ शुक्लयजुर्वेदसंहिता [ अ ० २२

स ह॑व्यवाडम॑र्त्य उ॒शिग्दुतश्चनहितः । अ॒ग्निध॒या समृ॑ण्वति ॥ १६ ॥

: मन्त्रार्थ - हवियों को देवताओं तक पहुँचाने वाला, अमरणधर्मा, बुद्धिमान्, देवताओं का दूत और हमें हितकारी अन्न की प्राप्ति कराने वाला अग्नि देवता बुद्धिपूर्वक देवताओं तक हवि पहुँचाने के निमित्त हमारे यज्ञानुष्ठान में आता है ॥ १६ ॥

सोऽग्निर्धिया बुद्ध्या समृण्वति सङ्गच्छते देवैः सह हविः समर्पणाय । कथम्भूतोऽग्निः? यो हव्यवाट्, हव्यं वहतीति हव्यवाट् हविषां वोढा । यश्चामर्त्यो मरणादिविकारशून्यः । उशिग् यो वष्टि उश्यते व उशिक कामयिता, सर्वकामनाविषयश्च, मेधावी वा । दूतो देवानां दूत्यकर्ता । चनोहितः, चनसोऽन्नस्य हविर्भूतस्य भक्षणार्थं हितो निहितः स्थापितः । चन इत्यन्ननाम । ( निरु ० ६ । १६ ) । अध्यात्मपक्षे - यो हव्यवाड् देवेभ्यो हविर्वहत्यग्निरूपेण, यश्चामर्त्यो मरणादिरहितः सर्वैरुश्यते, परप्रेमा-स्पदात्मरूपत्वात्, यश्च भक्तान् वष्टि कामयते, यश्च इतः पाण्डवानां दौत्यकर्मकृत् कृष्णरूपेण, यश्च चनोहित-श्चनसो हविर्भूतस्यान्नस्य भक्षणाय आहवनीयादिरूपेण हितो निहितः स्थापितः सोऽग्निरग्रणीर्भगवान् धिया प्रज्ञया समृण्वति सङ्गच्छते भक्तैरभीष्टदानाय । दयानन्दस्तु – ' हे मनुष्याः, योऽमर्त्यो हव्यवाडुशिग् दूतश्चनोहितोऽग्निरस्ति स धिया समृण्वति शिल्पादिकारिणा सम्यक् प्राप्यते ' इति, तदपि यत्किञ्चित् भौतिकाग्नावमर्त्यत्वायोगात् । न च परमाणुरूपस्य तस्य तथात्वमिति वाच्यम्, तादृक्षस्याग्नेर्हव्यवाहकत्वानुपपत्तेः दूतपदस्यास्वारस्याच्च । अन्नप्रापकत्वं च तस्य चिन्त्यम्, उपपत्तिसापेक्षत्वात् ॥ १६ ॥

अ॒ग्नि दूतं पुरो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे । मन्त्रार्थ – देवताओं के दूत, उनके निमित्त हवि को दे॒वाँ २॥ आसा॑दयादि॒ह ॥ १७ ॥

धारण करने वाले अग्निदेव को मैं यहां स्थापित करता हूँ और उनसे ही प्रार्थना करता हूँ कि हे अग्निदेव, इस यज्ञ में आप देवताओं को बुलाकर स्थापित कीजिये ॥ १७ ॥

यमग्निमहं दूतं देवानां दूतं हव्यवाहं हविषो वोढारम् अहं पुरो दधे पुरतोऽग्रतः स्थापयामि, तमुपब्रुवे तमुपगम्य ब्रवीमि । किं ब्रवीमीत्याह श्रुतिः -- देवानासादयादिह इह अस्मिन् यज्ञे देवान् आसादयाद् आसादय, स्थापयेति यावत् । अध्यात्मपक्षे - यमग्नि दूतं देवानां दूत्यकर्मकारिणं हव्यवाहमहमाहवनीयादिरूपेण पुरो दधे पुरतः स्थापयामि, तं सर्वात्मानमहमुपब्रुवे उपगम्य ब्रवीमि - हे अग्ने, इह अस्मिन् यज्ञे देवान् आसादयाद् आसादय । देवानामावानं तेभ्यो हविः प्रापणं सर्वज्ञसर्वशक्तिमत्परमात्मकर्तृकमेवेत्यर्थः । दयानन्दस्तु - ' हे मनुष्याः, य इह देवानासादयात्तं हव्यवाहं दूतमग्नि पुरोदधे । युष्मान् प्रत्युपब्रुवे यूयमध्येवं कुरुत ' इति, तदप्ययुक्तम्, भौतिकस्याग्नेदिव्यभोगप्रापकत्वासिद्धेः युष्मानित्याद्यध्याहारापेक्षत्वाच्च ॥ १७ ॥

अर्जीजनो हि पवमान सूर्य विधारे शक्र्मना पर्यः । गोजीरया रहमाण पुरन्ध्या ॥ १८ ॥

-मन्त्रार्थ - हे पवित्रकारी पवमान, आपने अपनी धाराओं के द्वारा वेग से गमन करते हुए सूर्य को प्रकट किया है । गायों की जीविका के लिये अपनी सामर्थ्य से आप अवश्य ही उत्तम जल को धारण करते हैं ॥ १८ ॥

पृष्ठ 88

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 88 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म०१८-१९ ] वैदार्थ पारिजातभाष्यसहिता ५५ त्र्यरुणत्रसदस्युभ्यां दृष्टा पवमानदेवत्या पिपीलिकमध्याकृतिरनुष्टुप् । यस्या आद्यतृतीयौ पादो द्वादशार्णौ द्वितीयोऽष्टार्णः सा पिपीलिकमध्याकृतिरनुष्टुप्, ' जागतावष्टकश्च कृतिर्मध्ये चेदष्टकः पिपीलिकमध्या ' ( सर्वा ० सू ० ५४ ) इति भगवत्कात्यायनवचनात् । पवमानस्तुतिः । हे पवमान, हि यस्मात् त्वं सूर्यमादित्यमजीजन उत्पादितवानसि जनेर्ण्यन्ताल्लुङि रूपम्, यस्माच्च शक्मना सामर्थ्येण, शक्लृधातोर्मनिनुप्रत्ययः, पयो जलं विधारे विधारयसि पुरुषव्यत्ययः, धारयतेस्तङि लटि उत्तमैकवचने ' धारये ' इति प्राप्ते ' छन्दस्युभयथा ' ( पा ० सू ० ३ | ४ | ११७ ) इति शितोऽप्यार्धधातुकत्वात् ' णेरनिटि ' ( पा ० सू ० ६ । ४ । ५१ ) इति णिलोपे ' धारे ' इति कर्तुमिति शक्म, वन्द्रियाभावे रूपम् । तच्च धारणं वृष्टये । अथवा शक्मना चर्मणा शक्यतेऽनेन कर्तुमसामर्थ्यात् । चर्मणेव नभोव्यापिना मेघेन पयो विधारे उपरिष्टाद्विधारयसि तस्मात् त्वां स्तुम इति शेषः । नायो विधारयसीति चेत्, तत्राह गोजीरया, जीवनं जीरा, वस्य छान्दसो रेफः, गवां जीरा गोजीरा, तथा गोजीविका हेतुना जलं धारयसि तासां हविषा यज्ञनिष्पत्तेः, ततः प्राणिनां जीवनाच्च । कथम्भूतस्त्वम्? पुरन्ध्या रंहमाणः पुरं विपुलं दधातीति पुरन्धिर्धारा, तया बहुधारयित्र्या धारया रहमाणः, रंहत इति रंहमाणो गच्छन्, दशापवित्राद् द्रोणकलशमभिगच्छन् । तादृशस्त्वं हे पवमान, यस्मात् त्वं सूर्यं जनितवान्, गोजीवनार्थं यज्ञनिष्पत्तये प्राणिनां जीवनाय च वृष्टये शक्मना सामर्थ्येन चर्मणैव मेघेन वा पयो जलं धारयसि, तस्मात् त्वां तुम इति निष्कर्ष: । अध्यात्मपक्षे - प्रतिक्षणं भक्तान् पवयन् हे पवमान, स्वयं च पावन परमात्मन् हि यस्मात् त्वं सूर्यमजीजनः, शक्मना स्वसामर्थ्येन पयो जलं गोजीरया गवां जीवनहेतुना, वृष्टिद्वारा यज्ञनिष्पत्तेः प्राणिनां जीवनाय विधारे विधारयसि, वृष्ट्यै गोजीरया गवां जीविकया यज्ञनिष्पत्तये प्रजननाय जीवनाय जलं धारयसि, स त्वं हे पवमान, पुरन्ध्या बहुधारयित्र्या पद्धत्या रंहमाणो रहनु गच्छन् आसीस्तस्मात् त्वां स्तुमः । -दयानन्दस्तु – ' हे पवमानाग्निवत् पवित्रजन, पुरन्ध्या पुरधारिकया क्रियया रहमाणः सूर्यमजीजनः, शक्मना कर्मणा गोजीरया गोजीवनक्रियया पयश्चाहं विधारे हि ' इति, तदपि यत्किञ्चित्, मनुष्यमात्रस्य सूर्यमण्डल -धारकत्वानुपपत्तेः । पशुजीवनक्रियया पयोधारणमपि चिन्त्यम्, न च पुरधारणक्रियया गमनं सम्भवति ॥ १८ ॥

वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राश्वो॑ऽसि॒ योऽस्पत्यो॑ऽसि॒ मयो॒ोऽस्यसि सप्तिरसि वाज्यसि॒ वृषा॑ स न॒म असि । यय॒र्नामा॑सि॒ शिशर्नामा॑स्यादि॒त्यानां पत्वान्विंहि । देवा॑ आशापाला एवं दे॒वेभ्योऽश्वं॑ मे॒धा॑य॒ प्रोक्ष॑त रक्षत । इ॒ह रन्ति॑िरि॒ह य॑मतामि॒ह धृति॑रि॒ह स्वधृ॑ति॒ स्वाहा॑ ॥ १ ९ ॥ मार्ग स्वर्ग में गमन कर सकते मन्त्रार्थ - अध्वर्यु और यजमान ' घोड़े के दाहिने कान में इस मन्त्र को पढ़ते हैं - हे अश्व, तुम पृथ्वी माता की सहायता से समर्थ होते हो, द्युलोक रूप पिता तुम्हें समर्थ बनाते हैं । तुम मार्ग को ध्याप्त करने वाले हो, तीव्र गति के कारण तुम्हारा नाम हय है । तुम निरन्तरगामी हो, सुखरूप हो, शत्रुनाशक हो, सेना से मिलने वाले हो, अनेक प्रकार की गति वाले हो, सेचन में समर्थ हो, यजमान के मन को रखने वाले हो, अश्वमेध में सर्वत्र यथेच्छ विचरण करने के कारण तुम्हारा नाम ययु है । तुम शिशु नाम वाले हो, अदितिपुत्र देवताओं के चौबीस हो । दूसरा मन्त्र पढ़कर अश्व की बड़वा और जल आदि से एक वर्ष पर्यन्त रक्षा करे । रक्षा करने के निमित्त वर्ष की आयु के १०० कवचधारी राजपुत्र, १०० खड्गधारी क्षत्रिय कुमार, १०० तरकशधारी सारथि- पुत्र, १०० लगुडधारी क्षत्रियों के पालितपुत्र साथ चलें । सेना भी साथ में रहे । सो घोड़ों के बीच में यह घोड़ा चले । तब तक यजमान और उसकी पत्नी भूमि पर ही सोते हैं । सावित्री वीणा गान करती है । पारिप्लव शास्त्रपाठ और घृत होम

पृष्ठ 89

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 89 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५६ शुक्लयजुर्वेदसंहिता [ अ ० २२ होता है । मन्त्र का अर्थ इस प्रकार है --विशाओं का पालन करने वाले हे देवस्वरूप राजपुत्रों, देवताओं के निमित्त यज्ञ करने के लिये प्रोक्षित इस अश्व को तुम सब रक्षा करो । घोड़े को छोड़कर एक वर्ष तक प्रतिदिन सायंकाल अग्निहोत्र से पहले, अग्निहोत्र की अग्नि में चार आहुति इन मन्त्रों से दी जाती है- हे अग्निदेव, यहाँ हम अश्व का स्मरण करते हैं, यहाँ अध रमण करें, यहाँ अश्व का सन्तोष हो, यहाँ धारण हो, अर्थात् वह यहाँ सुरक्षित लोट आवे । यह आहुति भली प्रकार गृहीत हो ॥ १ ९ ॥ ' अध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतो विभूर्मात्रेति ' ( का ० श्र ० २० / २१ ९ ) । तृतीयायां सावित्र्यामिष्टौ समाप्तायामध्वर्युयजमानौ दक्षिणेऽश्वकर्णे जपतो विभूर्मात्रेति सूत्रार्थः । अश्वदैवतं यजुः, अतिजगतीच्छन्दस्कम् । पित्रा पितुर्दिवः । हे अश्व, त्वं मात्रा मातुः पृथिव्याः सकाशाद् विभूर्विशेषेण भवसीति विभूः समर्थोऽसि मात्रा पृथिव्या सकाशात् प्रभूः प्रकर्षेण भवसीति प्रभूः समर्थोऽसि । पञ्चम्यर्थे तृतीये । अथवा हे अश्व, यस्त्वं पिताऽऽभ्यामेवैनं विभूरसि विभवसि पित्रा द्युलोकेन प्रभूरसि प्रभवसि तथा च श्रुतिः - ' इयं वै माताऽसौ परिददाति ' ( श ० १३ | १ | ६ | १ ) इति । वृष्टिलक्षण रेतः परिग्रहादियं माता, उदकासेकादसी पिता । आभ्या-मेवैनमश्वं परित्रातुं निवेदयतीति श्रुत्यर्थः । अथ नामभिरश्वं स्तौति - अश्वोऽसीत्यादिना । अश्वोऽसि, अश्नुषे व्याप्नोसि मार्गमित्यश्वः, ' अशुत्रुषिलटिकणिखटिविशिभ्यः क्वन् ' ( उ ० १ १५१ ) इत्यनेनाशे: क्वन्प्रत्यये , अति रूपम् । अश्नातीति वाश्वः, महाशन इति यावत् । योऽसि, हयति गच्छतीति हयः, पचाद्यच् । अत्योऽसि सततं गच्छतीत्यत्यः, औणादिको यत्प्रत्ययः । मयोऽसि मयते गच्छतीति मयः, ' मय गतौ ' पचाद्यच् । यद्वा मय इति सुखनाम ( निघ ० ३।६।७ ), सुखरूपोऽसि । अर्वासि इयति गच्छतीत्यर्वा । ' स्नामदिपद्यति शकिभ्यो वनिप् ’ ( उ ० ४।११४ ) इति वनिष्प्रत्यये साधु । यद्वा अर्वति हिनस्ति शत्रूनित्यर्वा, ' कनिन् युवृषितक्षिराजिधन्विद्यु- । प्रतिदिवः ' ( उ ० १।१५६ ) इति बाहुलकात् कनिन्प्रत्यये साधु । सप्तिरसि सपति समवैति सैन्येनेति ताच्छीलिको सप्तिः ' षप् समवाये ' अस्मात् क्तिन्प्रत्यये साधु । वाजी असि, वजति तच्छील इति वाजी, ' वज गतौ ' णिनिः । गतिवैविध्य सूचनाय गत्यभ्यासः । अथवा अवश्यं वजतीति वाजी । ' आवश्यकाधमर्ण्ययोणिनिः ’ ( पा ० सू ० ३।३।१७० ) इति णिनिः । यद्वा वाजाः पक्षा अभूवन्नस्येति वाजी । वृषासि वर्षति सिञ्चतीति वृषा, औणादिकेन कनिन्प्रत्ययेन साधु । नृमणा अषि नृषु यजमानेषु मनो यस्य स नृमणाः, नृणां मनुष्याणां मनो यत्रासौ नृमणाः, नृभिर्विषयभूतैर्विना न भवतीति वा । ययुर्नामासि ययुरित्येवं नामा त्वमसि । अत्यर्थं यातीति ययुः, ' यो द्वे च ' ( उ ० १।२१ ) इत्युः, ' ययुरश्वोऽश्वमेधीय: ' ( अ ० को ० २ | ८ | ४५ ) इति कोषात् । शिशुर्नामासि शिशुरित्येवनामा त्वमसि शंसनीयो भवतीति वा । श्यति कृशं करोति स्तनमिति शिशुः । ' शः कित् सन्वच्च ' ( उ ० १।२० ) इत्यु: । सन्वद्भावात् द्वित्वमित्वं च ' सन्यङोः ' ( पा ० सू ० ६ । ११ ९ ), ' सन्यत: ' ( पा ० सू ० ७ | ४ | ७ ९ ) इति सूत्राभ्याम् | यस्त्वमेवं प्रभावस्तं त्वां ब्रवीमि । आदित्यानाम् अदितेरपत्यानां देवानाम्, पत्वा पत्वना पतनमार्गेण, अन्विहि अनुगच्छ । येन मार्गेण आदित्या देवा गच्छन्ति, तेन मार्गेणानुगच्छेत्यर्थः । अथवा पत्वा त्वानम् अन्विहि अनुगच्छ । ' पशुवदुत्सर्जनं निरष्टेऽश्वशते ' ( का ० श्र ० २० | २ | १० ) । ' देवा आशापाला इति रक्षिणोऽस्यादिशत्यनु-चरीजातीयांस्तावतस्तावतः कवचिनिषङ्गिकलापिदण्डिनो यथासंख्यम् ' ( का ० श्र ० २०१२।११ ) । अश्वशते शतानामश्वानां मध्ये पशुवदीशान्यां दिश्यध्वर्युयजमानौ अश्वमुत्सृजतः । कीदृशेऽश्वशते निरष्टे । अश्वस्य दन्तगतान्यष्टौ वयोव्यञ्जनानि । तेषामेकैकं त्रीणि त्रीणि वर्षाण्यनुवर्तन्ते । तानि निर्गतानि यस्मादिति निरष्टम्, अतीतचतुर्विंशतिवर्षैमित्यर्थः । तस्मिन् निरष्टे, गतयौवन इति यावत् । चतुर्विंशतिवार्षिकाश्वशतमध्यस्थस्य ऐशान्यामुत्सृष्टस्य रक्षकान् नरान् अनुचरीजातीयान् तावतस्तावतोऽनुचरीसंख्यान्, अर्थात् शतं राजपुत्रान्

पृष्ठ 90

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री, पृष्ठ 90 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १ ९ ] वेदार्थपारिजातभाष्यसहिता ५७ कवचिनः शतं क्षत्रियपुत्रान् खड्गधारिणः शतं सूतग्रामण्याः पुत्रान् ( सूता अश्वपोषकाः तेषां मध्ये ग्रामण्यो मुख्याः, तत्सुतान् ), शतं क्षात्रसंग्रहीतॄणां पुत्रान् वंशादिदण्डधारिण: ( क्षत्तार आयव्ययाध्यक्षाः, तत्समूहः क्षात्रम्, तत्राधिकृताः क्षात्रसंगृहीतारः, तत्सुतान् ) अध्वर्युरादिशतीति सूत्रद्वयार्थः । किमादिशतीति चेत्, आह भगवान् कात्यायनः - ' वडवाभ्यो वारणम्, प्रस्नेयाच्चोदकात् ' ( का ० श्र ० २०।२।१२-१३ ) । हे रक्षिणो भवद्भिरश्वस्य वडवाभ्यः स्नानादुदकाच्च वारणं कर्तव्यमिति सूत्रद्वयार्थः । यावद् ( वर्षपर्यन्तम् ) अश्वरक्षणं तावद् यजमानो ब्रह्मचारी सन् वावाताया ऊर्वोः शेते, सावित्रीः कारयति, वीणागानं पारिप्लव-शस्त्रपाठं धृतिहोमादिकं सूत्रकारप्रोक्तं ज्ञातव्यम् । देवदेवत्यं यजुः, ऋगुष्णिक् । आशापाला देवाः, आशा दिशः पालयन्तीत्याशापालाः, हे देवाः, यूयमेतमश्वं रक्षत । कीदृशमश्वम्? देवेभ्यो मेधाय यागाय प्रोक्षितं प्रोक्षणेन संस्कृतम् । पूर्वोक्ता राजपुत्रादय एव आशापालाः, ' शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनं परिददाति ' ( श ० १३ | १ | ६ | २ ) इति श्रुतेः । ' आहवनीयेऽस्तमिते चतस्रो धृतीरिहरन्तिरिति ( का ० श्री ० २०१३ | ४ ) | अस्तमितेऽर्केऽग्निहोत्रहोमात् प्रागग्निहोत्राद्धृते आहवनीयेऽग्नौ ( १ ) इह रन्तिः स्वाहा, ( २ ) इह रमता, स्वाहा, ( ३ ) इह धृतिः स्वाहा, ( ४ ) इह स्वधृतिः स्वाहा - इति चतस्रो धृतिसंज्ञा आहुतीः प्रतिमन्त्रं प्रत्यहं वर्षपर्यन्तं जुहुयादिति सूत्रार्थः । तदेवं सम्भूय आहुतीनां चत्वारिंशदधिका चतुर्दशशती भवति । तथा च श्रुतिः - - ' संवत्सरमाहुतीर्जुहोति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनं बध्नाति ' ( श ० १३।१।६।२ ) इति । चत्वारि यजूंष्यग्निदेवत्यानि । चतुर्थमन्त्रान्ते स्वाहाकारश्रवणात् त्रिष्वपि मन्त्रेषु स्वाहाकारप्रयोगः । अश्वं प्रत्युच्यते - हे अश्व, इह रन्तिः रमणं तेऽस्तु । इह भवान् रमताम् । इह ते धृतिरस्तु सन्तोषोऽस्तु । हृदये सन्तुष्यतु भवान् । इह यज्ञे स्वधृतिः स्वा निजा धृतिर्धारणमस्तु । अथवा स्वन्यते प्रशस्यत इति स्वा, स्वा शोभना साध्वी वा धृतिः स्वधृतिः, ' अन्यत्रापि दृश्यत इति वक्तव्यम् ' ( पा ० सू ० ३।२।४८, वा ० ४ ) इति ङः । स्वाहा सुहुतमस्तु । अत्र ब्राह्मणम् -'प्रजापतिरश्वमेधमसृजत । सोऽस्मात् सृष्टः परात् स दिशोऽनुप्राविशत् तं देवाः प्रेषमैच्छंस्तमिष्टिभिरनुप्रायुञ्जत तमिष्टिभिरन्वैच्छंस्त मिष्टिभिरन्वविन्दन् यदिष्टिभिर्यजतेऽश्वमेव तन्मेध्यं यजमानोऽन्विच्छति ' ( श ० १३ | १ | ४ | १ ) इति । प्रजापतिरश्वमेधमसृजत । सृष्टो भ्रष्टः । अस्मात् प्रजापतेः । पराङ् पराङ्मुखः । ऐत् गतः । स दिश: अनुप्राविशत् प्रविष्ट:, अस्तं गत इत्यर्थः । तं देवास्तदीया ऋत्विजः । प्रैषं द्रष्टुम् | अन्वेषणे प्रकर्षेण अन्विष्यान्विष्य ऐच्छन् । तम् इष्टिभिः सावित्रीभिः । अनु पश्चात् प्रकर्षेण अयुञ्जत । ताभिर्न यथा प्रणश्यति तथा अकुर्वन्त । तमिष्टिभिरन्वियेषुः, अन्वविन्दंश्च । ' सावित्र्यो भवन्ति । इयं वै सविता यो वा अस्मान्निलयते योऽन्यत्रैत्यस्यां वाव तमनुविन्दन्ति ' ( श ० १३ | १ | ४ | २ ) । इयं वै सविता अनुज्ञाता । कथं यो वै अस्यां पृथिव्यां निलयते गृहाद्वहिर्भूमिं गच्छति । पश्चादन्तरिक्षं गच्छति । अस्यामेव च तमनुविन्दन्ति लभन्ते । न मां कश्चिदपि तिर्यगध्वं चातिवर्तते । ' तदाहुः । प्र वा एतदश्वो मीयते यत्पराति नह्येनं प्रत्यावर्तयन्तीति यत्सायं धृतीर्जुहोति क्षेमो वै धृतिः क्षेमो रात्रिः क्षेमेणैवैनं दाधार तस्मात् सायं मनुष्याश्च पशवश्च क्षेम्या भवन्त्यथ यत्प्रातरिष्टिभिर्यजत इच्छत्येवैनं तत्तस्माद्दिवा नष्प्रैष एति यद्वेव सायं धृतीर्जुहोति प्रातरिष्टिभिर्यजते योगक्षेममेव तद्यजमानः कल्पयते तस्माद्यत्रैतेन यज्ञेन यजन्ते क्लृप्तः प्रजानां योगक्षेमो भवति ' ( श ० १३ | १ | ४ | ३ ) । धृतयो विधीयन्ते । प्रमीयते हिस्यते । हिंसनेन हि तमश्वं हिस्रेभ्योऽपि प्रत्यावर्तयन्तीति यत्सायं धृतीः । यद् अवधारणार्थः । सायं धृतिहोमेन तमश्वं हित्रेभ्योऽपि प्रत्यावर्तयन्तीति । इह रतिरिह रमताम् इत्येता आहुतीर्जुहोति । तत्क्षणेनैव रात्रिलक्षणेन एनमश्वं दाधार धारयत्यध्वर्युः । तस्मात् सायं मनुष्याश्च पशवश्च क्षेम्याः • क्षेमसम्बद्धा भवन्ति । कथमिति चेत्, क्षेमो वै धृतिः । धारणमेव क्षेम इति यावत् । गृहेषु यदिह धृतिरस्तु इत्येवं ८