वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री — पृष्ठ 91–100
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ७ - स्वामी करपात्री · पृष्ठ 91–100
पृष्ठ 91
पाठ पढ़ें पाठ छिपाएँ
५८ शुक्लयजुर्वेदसंहिता [ अ ० २२ प्रार्थ्यते । क्षेमो रात्रिः । तत्र हि गृहे स्थितानां सर्वतो भयं न भवति । ततश्च तस्यां धृतीराहुतीर्जुहोति । जुह्वतः प्रकर्षोऽर्थः । इच्छत्येवैषः । एष नष्टमन्विच्छति, गवेषत इत्यर्थः । दिवा नष्टेष एति गच्छति । नष्टमन्विच्छति गवेषयतीति नष्टैषः । योगक्षेमं योगेन सहितं क्षेमम् । इष्टिभिः सावित्रीभिर्योगम् । धृतिभिः क्षेमं यजमानः प्रजाभ्यः कल्पयते । ' अप वा एतस्मात् । श्री राष्ट्रं क्रामति योऽश्वमेधेन यजते यदा वै पुरुषः श्रियं गच्छति वीणास्मै वाद्यते ब्राह्मणौ वीणागाथिनौ संवत्सरं गायतः श्रियै वा एतद्रूपं यद्वीणा श्रियमेवास्मिस्तद्धत्तः ' ( श ० १३ | १।५।१ ) । ते तस्मात् श्रीः समृद्धिः, राष्ट्रं जनपद अपक्रामति । तत्प्रतीकाराय ब्राह्मणौ वीणागाथिनो संवत्सरं गायतः । श्रियो ह्येतद्रूपं या वीणा वीणागानेन श्रियमेवास्मिन् धत्तः । ' विभूर्मात्रा प्रभूः पित्रेति । इयं वै माताऽसौ पिताभ्यामेवैनं परिददात्यश्वोऽसि योऽसीति शास्त्येवैनं तत्तस्माच्छिष्टाः प्रजा जायन्तेऽत्योऽसि मयोऽसीत्येवैनं नयति तस्मादश्वः पशूनत्येति तस्मादश्वः पशुना श्रेष्ठ्यं गच्छत्यर्वासि सप्तिरसि वाज्यसीति यथा यजुरेवैतद् वृषासि नृमणा असीति मिथुनत्वाय ययुर्नामासि शिशुर्नामासीत्येतद्वा अश्वस्य प्रियं नामधेयं प्रियेणैवैनं नाम्नाऽभिवदति तस्मादप्यामित्रों सङ्गत्य नाम्ना चेदभिवदतोऽन्योन्य ँ समेव जानाते ' ( ० १३ | १ | ६ | १ ) | तृतीयायां सावित्र्यामिष्टौ संस्थितायां ' एतस्याथ्. संस्थितायाम् । उपोत्थायाध्वर्युश्च यजमानश्चाश्वस्य दक्षिणे कर्णे आजपतो विभूर्मात्रा प्रभूः पित्रेति ' ( श ० १३ | ४ | २ | १५ ) । शिशुरिति प्रियं नामधेयमश्वस्य । अत्यर्थं विषयान् यातीति ययुः । आमित्र अमित्रायाः पुत्रौ ययुः शिशुरिति नामनी सममेव जानते । शिशुः शंसनीयो भवतीति प्रशंसानिमित्तत्वात् प्रियम् । . ' आदित्यानां पत्वान्विहीति । आदित्यानेवैनं गमयति देवा आशापाला एतं देवेभ्योऽश्वमेधाय प्रोक्षित रक्षतेति शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनं परिददातीह रन्तिरिह रमतामिह धृतिरिह स्वतः स्वाहेति संवत्सरमाहुतीर्जुहोति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तो बन्धनमागच्छति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तो बन्धनं न जहाति ' ( श ० १३ | १ | ६ | २ ) । तल्प्या: तल्पसाधवः । शतं शय्यागताः, तल्पेन समं रात्रौ ये साधु रक्षन्ति राजपुत्राः, तेभ्य एवैनं परिददातीति ब्रुवन् देवशब्दं तेप्टे गौणं दर्शयति । अथैते देवा इत्यत्र देवा आशापाला लक्ष्यन्ते । इह रन्तिः, इह रमतामित्यादयो धृतयः संवत्सरे षोडशनवत्यः सम्पद्यन्ते । ' राष्ट्रं वा अश्वमेधः । राष्ट्र एते व्यायच्छन्ते sra रक्षन्ति तेषां य उहचं गच्छन्ति राष्ट्रेणैव ते राष्ट्रं भवन्त्यथ ये नोटचं गच्छन्ति राष्ट्रात्ते व्यवच्छिद्यन्ते तस्माद्राय श्वमेधेन यजेत परा वा एष सिच्यते योऽबलोऽश्वमेधेन यजते यद्यमित्रा अश्वं विन्देरन यज्ञोऽस्य विच्छिद्येत पापीयान् स्याच्छतं कवचिनो रक्षन्ति यज्ञस्य सन्तत्या अव्यवच्छेदाय न पापीयान् भवत्यथान्यमानीय प्रोक्षेयुः सैव तत्र प्रायश्चित्तिः ' ( ० १३ | १ | ६ | ३ ) | राष्ट्रं जनपदः, अश्वमेधकारणम्, तस्माद्राष्ट्रमश्वमेधः । यमद्रा एते विविधमायच्छन्ते व्याप्रियन्ते । तेषां ये राजपुत्रादयो राजन्यादय उहचं समाप्ति गच्छन्ति, ते राष्ट्रेणैव अश्वमेधेन हेतुना रानात् स्वं रक्षन्ति राजपुत्रादयो भवन्ति । तयैव सेवया देशा आप्ताश्र्व प्राप्ता भवन्ति । देशान् प्राप्नुवन्तीति । येनोहचं गच्छन्ति जीवन्त एव प्रत्यावर्तन्त इति यावत् । ते राष्ट्राद् व्यवच्छिद्यन्ते । तस्माद् राष्ट्री राष्ट्रपतिः, अश्वमेधेन यजेतेति विधिः । परा बहिः । परासिच्यते परासिच्यन्ते क्षीयन्तेऽरात इति यावत् । यद्यबलो मन्दबल: सामन्तेभ्यो यद्यश्वमेधेन यजेत, तत्र यद्यमित्रा अश्वं विन्देरन्, तदास्य यज्ञो व्यवच्छिद्येत स पापीयान् भवति । तस्मात् सबल एव यजते । अध्यात्मपक्षे - हे अश्व जीवात्मन् त्वं मात्रा पृथिव्या हेतुना विभूः समर्थोऽसि, पित्रा द्युलोकेन च प्रभूः, ताभ्यामाप्यायितस्यैव कार्यकारणसङ्घातस्य पुरुषार्थसमत्वात् । त्वमश्वोऽसि महाशनोऽसि, ' तयोरन्य: पिप्पलं -
पृष्ठ 92
पाठ पढ़ें पाठ छिपाएँ
म ० १ ९ -२० ] वेदार्थपारिजात भाष्यसहिता ५ ९ स्वाद्वत्ति ' ( ऋ ० सं ० १ | १६४।२० ) इति मन्त्रवर्णात् । हयोऽसि गमनशीलोऽसि कर्मपरतन्त्रत्वात् । अत्योऽसि अन्यानतिक्रान्तो भवसि सततगतिशीलो वासि । मयोऽसि सुखरूपोऽसि, स्वतः शुद्धब्रह्मरूपत्वात् । अर्वासि रिपूणां हन्तासि । सप्तिः सरणशीलोऽसि, संसारित्वात् । वाजी वेजनवानसि विविधगतित्वात् । गत्यर्थकधात्वभ्यासः । वृषासि सेक्तासि । नृमणासि नृणां मनो यत्र परमात्मनि तद्रूपोऽसि । ययुरसि अत्यर्थ यातीति ययुः । शिशुरसि श्यतीति शिशुः सूक्ष्मरूपोऽसि । एवंविधनामा त्वं देवानां पत्वा मार्गमन्विहि, तेन गम क्रमेण ब्रह्मप्राप्तिसम्भवात् । देवा आशापाला सर्वासु दिक्षु पालकाः तेभ्य एतमश्वं गतिशीलं वर्धिष्णुं मेधाय यज्ञाय प्रोक्षितं प्रोक्षणेन संस्कृतं पशुमिव हे देवा, एनं दुर्मार्गप्रवृत्तेः कामक्रोधादिभ्योऽरातिभ्यो रक्षत । हे अश्व, ते तव इह परमात्मप्राप्तिमार्गे रन्तिः रमणमस्तु । इह धृतिर्धारणं मनसोऽस्तु स्वधृतिः स्वस्मिन् स्वरूपभूते परमात्मनि धृतिर्मनसो धारणमस्तु । दयानन्दस्तु - ' हे आशापाला देवा विद्वांसः " यूयं यो मात्रा पृथिव्या विभूर्व्यापकः, पित्रा वायुना प्रभूः समर्थः, अश्वो योऽश्नुते व्याप्नोति सः, हयोऽसि अत्योऽसि मयोऽसि अर्वासि सप्तिरसि वाज्यसि वृषासि नृसि मासि शिशुर्नामासि आदित्यानां पत्वान्विहि । एतमश्वं स्वाहा । देवेभ्यो मेधाय प्रोक्षितं रक्षत । येनेह रन्तिरिह रमतामिह धृतिरिह स्वधृतिः स्यात् ' इति, तदपि यत्किञ्चित् वचनवैरूप्यात् । आशापाला देवा इति बहुवचनम्, यो मात्रा विभूरसि पित्रा प्रभूरसीति विषमः खलूपन्यासः । नाम वागसीति नोपपद्यते, सम्बोध्यस्य मनुष्यस्य वाक्त्वानुपपत्तेः । आदित्यानां मासानां योऽधः पतति स अनु इहि एति इति चानुपपन्नम्, कालस्य व्यापकत्वेन ऊर्ध्वाधोभावानुपपत्तेः । न च द्वादशमासातिक्रमणमेवाधःपतनमिति वाच्यम्, उत्क्रमणातिक्रमणा-दीनामधःपतनभिन्नत्वानुभावात् । न च वह्निर्व्यापको भवति, परिच्छिन्नत्वात् । न वा वह्निः सिच्यते, सेके तल्लोपप्रसङ्गात् । न चात्र जीवात्मनो व्यापकत्वं विवक्षितम् त्वद्रीत्या जीवानामत्वात् ॥ १ ९ ॥ काय स्वाहा कस्मै॒ स्वाहो कत॒मस्मै॒ स्वाहा स्वाहाधिमाधी॑ताय॒ स्वाहा स्वाहा मनः प्र॒जाप॑तये स्वाहा॑ चित्तं विज्ञता॒याद॑त्य॒ स्वाहादित्य॑ म॒ह्ये स्वाहादि॑ित्यै सुमृडीकाय॒ स्वाहा सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै पाव॒काय॒ स्वाहा॒ सर॑स्वत्यं बृहत्यै स्वाहो पूष्णे स्वाहां पुष्णे प्रपध्याय स्वाहा॑ पूष्णे नरन्धिवाय स्वाहा त्वष्ट्रे स्वाहा स्वष्टे तुरीपा॑य॒ स्वाहा॒ त्वष्टृ पुरु॒रूपा॑य॒ स्वाहा॒ विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निभूय॒वाय॒ स्वाहा॒ विष्ण॑वे शिपिवि॒ष्टाय॒ स्वाहा॑ ॥ २० ॥
मन्त्रार्थ - प्रजापतिदेवता को यह आहुति प्राप्त हो । श्रेष्ठ प्रजापति को, परमेष्ठी प्रजापति को विद्या - बुद्धि को धारण करने वाले को, मन में वर्तमान प्रजापति को, चित्त के साक्षी आदित्य देवता को अदिति को, पूजनीय अदिति को, सुखदायक अदिति को, सरस्वती को, शोधक सरस्वती को, महती सरस्वती को, पूषा देवता को मार्ग में प्राप्त पूषा देवता को वैदिक मनुष्यों के शिक्षक को, स्वष्टा देवता को वेग के रक्षक पूषा देवता को, बहुरूप स्वष्टा देवता को, विष्णु देवता को और अनेक अवतारधारी सबके रक्षक विष्णु देवता को हम यह आहुति देते हैं । पशु - प्राणियों में अन्तर्यामी रूप से प्रवि विष्णु देवता के निमित्त यह आहुति देते हैं ॥ २० ॥
' काय स्वाहेति चाश्वमेधिकानि त्रीणि, कृष्णाजिनदीक्षातः, अध्वरदीक्षणीयायाश्चत्वारि त्रीणि त्रीणि चाश्वमेधिकानि ' ( का ० श्रौ ० २०१४ | ३-५ ) । चत्वार्याध्वरिकाथ्यौ भणानि चतुर्थेऽध्याये सप्तमाष्टमकण्डि-कयो राम्नातानि हुत्वा काय स्वाहेत्यादीन्याश्वमेधिकानि त्रीण्योद्भणानि जुहुयात् । अत औद्भणहोमानन्तरं
पृष्ठ 93
पाठ पढ़ें पाठ छिपाएँ
६० शुक्लयजुर्वेदसंहिता [ अ ० २२ दोक्षगीपाशेषं समाप्य कृष्णाजिनदीक्षा तत्रोपवेशनान्ता कर्तव्या, ' सप्ताहं प्रचरन्ति ' ( श ० १३/१/७/२ ) इति श्रुतेः सप्ताहं दीक्षणीया कार्येति सूत्रार्थः । तत्र प्रत्यहं कर्तव्यमाह - ' पश्वालम्भनाद्याध्वरदीक्षणीयायाः चत्वायग्रभणानि जुहोत्याध्वरिकाणि ' ( का ० श्रौ ० २०।४।२ ) । अध्वरदीक्षणीयायाश्चत्वारि कृत्वा चत्वार्यां भणानि ' आकृत्यै प्रयुजे ( ४।७ ) इत्यादीनि त्रीणि त्रीणि चाश्वमेधिकानि काय स्वाहेत्यादिकण्डिका-पठितानि प्रत्यहमन्यान्यन्यानि पाठक्रमेण एवं सप्त सप्त प्रत्यहं हूयन्ते । काय स्वाहेति कण्डिकायां सप्तत्रिकाणि पठितानि । तन्मध्ये सप्तस्वहः सु क्रमेणैकैकं त्रिकं हूयते । तत्र द्वितीयत्रिके स्वाहाकाराद्यं मन्त्रत्रयं स्वाहाधिमा -धीतायेत्यादीति सूत्रार्थं इति महीधराचार्यः । औद्भणसंज्ञानि यजूंषि लिङ्गोक्तदेवत्यानि । काय प्रजापतये स्वाहा सुहुतमस्तु । कस्मै प्रजापतये स्वाहा । कतमस्मै प्रजापतिश्रेष्ठाय स्वाहा - इति स्वाहाकारान्तास्तिस्र आहुतयः । अथ स्वाहादय आहुतयः । स्वाधिम् आधिराधानम् तम् । अत्र चतुर्थी कर्तव्या, आधये । विभक्तिव्यत्ययः । आधीताय आधानं प्राप्ताय स्वाहा । मनो मनसि वर्तमानाय प्रजापतये स्वाहा । चित्तं चित्तस्य विज्ञाताय सर्वेषां चित्तसाक्षिणे स्वाहा | अदित्यै अखण्डितायै स्वाहा | अदित्यै मह्यं पूजितायै स्वाहा | अदित्यै सुमृडीकायै सुखयित्र्यै स्वाहा । सरस्वत्यै वागधिष्ठात्र्यै स्वाहा | सरस्वत्यै पावकार्यं पावयतीति पावका तस्यै शोधयित्र्यै स्वाहा । सरस्वत्यै बृहत्यै महत्यै स्वाहा । पूष्णे स्वाहा पूष्णे प्रपथ्याय प्रगतः पन्थाः प्रपथः, तत्र भवः प्रपथ्यः तस्मै स्वाहा । प्रपथादनपेतो वा प्रपथ्यः । ‘ धर्मपथ्यर्थन्यायादनपेते ' ( पा ० सू ० ४ । ४ । ९ २ ) इति यत् प्रत्ययः । पूष्णे नरन्धिषाय स्वाहा । ' धिष शब्दे ' जुहोत्यादिश्छान्दसः । नरं दिधेष्टि शब्दयत्युदयेन यः स नरन्धिषः, ' इगुपधज्ञाप्रीकिरः कः ' ( पा ० सू ० ३।१।१३५ ) इति कः । त्वष्ट्रे स्वाहा, त्वक्षतीति त्वष्टा, तृच्, तस्मै । त्वष्टे तुरीपाय स्वाहा । तुतोर्तीति तुरी:, ' अवितृस्तृतन्त्रिभ्य ई: ' ( उ ० ३।१५८ ) इति बाहुलकात ई:, वेगः, तं पाति रक्षतीति तुरीपस्तस्मै । त्वष्ट्रे पुरुरूपाय स्वाहा । पुरूणि बहूनि रूपाणि यस्य तस्मै विष्णवे स्वाहा, वेवेष्टि व्याप्नोतीति विष्णुः । ' विषे: किच्च ' ( उ ० ३।३ ९ ) इति नुः, तस्मै । विष्णवे निभूयपाय स्वाहा । नितरां भूत्वा मत्स्यादिरूपेणावतीर्य निभूय निभूय पातीति निभूयपः । विष्णवे शिपिविष्टाय स्वाहा । शिपिषु पशुषु प्राणिषु विष्ट: प्रविष्टोऽन्तर्यामिरूपेणेति शिपिविष्टस्तस्मै । उव्वाचार्यरीत्या तु - आधिमाध्यानम्, चतुर्थी चात्र कर्तव्या । आधये स्वाहा आधीताय स्वाहेति । चित्तं विज्ञाताय, चित्तायेति विभक्तिव्यत्ययः । मनो मनसे इति विभक्तिव्यत्ययः । नीचैर्भूत्वा यः पाति स निभूयपः, तस्मै । शिपिं पशुं यज्ञस्य वेष्टयति साधुं करोतीति शिपिविष्टस्तस्मै । शेषं पूर्ववत् । एते औद्भणमन्त्राः । अत्र ब्राह्मणम् – ' प्रजापतिरकामयत । अश्वमेधेन यजेयेति सोऽश्राम्यत् । स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य सप्तधात्मनो देवता अपाक्रामन् सा दीक्षाभवत् स एतानि वैश्वदेवान्यपश्यत्तान्यजुहोत्तैर्वै स दीक्षामवारुन्ध यद्वैश्वदेवानि जुहोति दीक्षामेव तैयजमानोऽवरुन्धेऽन्वहं जुहोत्यन्वहमेव दीक्षामवरुन्धे सप्त जुहोति सप्त वै ता देवता अपाक्रामंस्ताभिरेवास्मै दीक्षामवरुन्धे ' ( श ० १३ | १ | ७ | १ ) । अश्वमेधेन यियक्षिषोः श्रान्तस्य तप्तस्य य आत्मा शरीरं तस्मात् सप्तभेदात् चक्षुरादिभिश्छिद्रैर्देवता अपक्रान्ताः । सा च दीक्षा आश्वमेधिकी अभवत् । स प्रजापतिस्तस्या दीक्षादेवताया अवरोधार्थं काय स्वाहेत्यादिमन्त्रकाण्यपक्रान्तसप्तदेवताकानि वक्ष्यमाणानि वैश्वदेवानि नामानि हवनान्यपश्यत् । अन्वहम हन्यहनि जुहोति, न तु सर्वाणि, किन्तु वक्ष्यमाणेन विभागेन सप्त जुहोति समानदेवतान Saturat कृत्य, एवं सप्तेति ताभिरेव देवताभिस्तर्पिताभिरस्मै यजमानाय दीक्षामवरुन्धे । ' अप वा एतेभ्यः प्राणाः क्रामन्ति । ये दीक्षामतिरेचयन्ति सप्ताहं प्रचरन्ति सप्त वै शीर्षण्याः प्राणाः प्राणा दीक्षा प्राणैरेवास्मै प्राणान् दोक्षामव-रुन्धे त्रेधा विभज्य देवता जुहोति त्र्यावृतो वै देवास्त्र्यावृत इमे लोका ऋद्धयामेव वीर्यं एषु लोकेषु प्रतितिष्ठति '
पृष्ठ 94
पाठ पढ़ें पाठ छिपाएँ
म ० २० ] वेदार्थपारिजातभाष्यसहिता ६१ । सप्त वैश्व-( श ० १३ | १ | ७ | २ ) । ये दीक्षामवरुद्ध्य वैश्वदेवान्यतिरेचयन्ति, एकाहर्दीक्षया सप्ताहृदक्षया अपक्रामन्ति । प्रचरन्ति तत्प्रतीकाराय सप्ताहं देवानि जुह्वति दीक्षायाः सकाशाद् वैश्वदेवानि व्यतिरेचयन्ति । तेभ्यः प्राणा प्राणैरेव दीक्षात्मकैः प्राणात्मिकां दीक्षया प्रचरति सप्त ये शीर्षण्याः प्राणास्ते आश्वमेधिकीदीक्षाभूताः । ततश्च वसुरुद्रादित्यात्मकै-दीक्षामवरुन्धे । त्रेधा त्रीणि रूपाणि विभज्य देवतां जुहोति । काय स्वाहेत्यादिना । त्र्यावृतो अपि त्रिगुणाः ra यवैस्त्रिगुणा देवाः । अग्निः, सोमः इन्द्र इत्येवमाद्यात्मिकास्त्र्यावृतो वा । एवं लोका दीर्घवत्सु समस्ताः । प्रत्येकं चादिमध्यान्तविभागेन व्यावृतः । ततश्च त्रिगुणाभिर्देवताभिरिष्टाभिस्त्रिगुणश्च पञ्चर्तवस्त्रय इमे लोका असावादित्य समृद्धेवेषु लोकेषु प्रतितिष्ठति । ' एकवि ७ शतिः सम्पद्यन्ते । द्वादश मासाः ' ( श ० १३ | १।७।३ ) । एकविशस्तद्दैवं क्षत्र सा श्रीस्तदाधिपत्यं तद् ब्रध्नस्यविष्टपं तत्स्वाराज्यमश्नुते पञ्चर्तवः त्रय इमे तानि च सप्त सप्त त्रिकाणि । सप्तत्रिगुणान्येकविंशतिः सङ्गच्छते । यदेव द्वादशमासाः लोकाः, असावादित्यः - सम्भूय एकविंशतिः, तद्दैवं देवेषु भवं क्षत्रम् सा श्रीरिति तत्सौभाग्यतामाश्रित्याह- । तत् स्वाराज्य-तदेव ब्रध्नस्य आदित्यस्य सम्बन्धि प्रकाश्यम् तदेव च आधिपत्यम् अधिपतिभवम् ते । ' त्रिशतमोभगानि जुहोति । त्रि " शदक्षरा विराड् विराडु कृत्स्नमन्नं कृत्स्नस्यैवान्नाद्यस्यावरुद्धयै दीक्षा प्राणैरेवास्मै चत्वार्योभणानि जुहोति त्रीणि वैश्वदेवानि सप्त सम्पद्यन्ते सप्त वै शीर्षण्याः प्राणाः १३ | प्राणा १ । ७ । ४ ) । तैरेकविंशत्या प्राणान् दीक्षामवरुन्धे पूर्णाहुतिमुत्तमां जुहोति प्रत्युत्तब्ध्यै सयुक्त्वाय ' ( श ० इति सम्पदधिकारात्, वैश्वदेवैस्त्रिशतमौद्ग्रभणानि जुहोति । सप्तभिर्दिवसैः कृते एकविंशतिः सम्पद्यत प्रत्यहं जुहोति । चत्वाय ग्रभणानि जुहोतीति च एकस्मिन्नहनि चतुर्होमवचनाच्च । चत्वायोग्रभणानि च साग्निचित्येऽवश्यं प्रागल्भ्येन सप्तमे तु षडग्निकानि जुहोति । कुत एवम्? त्रिंशत्सम्पद्वचनात् तेषां ' ( पा ० सू ० होम्यत्वात्, अध्वरस्य त्वनग्नेरित्येतेनापि तत्प्राप्तेः । शीर्षण्याः शिरसि भवाः, ' रूपम् शरीरावयवाद्यत् । याः सप्त प्राणदेवता ५।१६ ) इति यति, ' ये च तद्धिते ' ( पा ० सू ० ६ | १ | ६ ) इति शीर्षन्नादेशे दीक्षात्मकान् अधिदैवकान् अपाक्रामन्, सा दीक्षा । इत्येवं प्राणदीक्षया प्राणैरेव सप्तभिरधियज्ञियैः प्राणान्, अवरुन्धे । पूर्णाहुतिमुत्तमां ' विश्वो देवस्य ' ( वा ० सं ० २२।२१ ) इत्येतां जुहोति | किमर्थम् ? प्रतिस्तब्धानि ? पूर्वेषामौद्ग्रभणानाम् वर्तुलानि उत्तब्ध्यै महत्यै कथं नाम प्रतिष्टम्भः स्यात् प्रतिस्तब्धानि च सयुति कथं स्युरिति हि संहत्यकारीणि भवन्ति । ' विश्वो देवस्य नेतुरिति पूर्णाहुतिमुत्तमां जुहोतीयं वै पूर्णाहुतिरस्यामेवान्ततः सन् यजुषामपूर्वाणां प्रतितिष्ठति ' ( ० १३ | १ | ८ | ८ ) । प्रजापतिरश्वमेधं यजुरात्मकं विग्रहवन्तं सृष्टवान् । स, सृष्टः अवष्टभ्य सङ्कोचितवान् । बहुत्वाद् बलवत्त्वाद् बलवत्तर इति कृत्वा ऋग्यजुषी सामयजुषी च प्रावृणोत् । तं यजुरात्मकमश्वमेधमतिगुरुं वैश्वदेवानि होमकर्माण्युत्क्षिप्तवन्ति इत्याचार्यो हरिस्वामी ' काय स्वाहा । कस्मै स्वाहा कतमस्मै स्वाहेति प्राजापत्यं मुख्यं करोति प्रजापतिमुखाभिरेवैनं करोति देवताभि- । यदेव रुद्यच्छति ' ( श ० १३१११८२ ) । प्राजापत्यं वैश्वदेवं त्रिप्रभेदं मुख्यं मुखमिव प्रथमं ' इति ब्रुवत पूर्वासां व्याहृतीनां वा प्राजापत्यानां ब्राह्मणं ' प्रजापतिमुखाभिरेवैनं देवताभिरुद्यच्छति यदेव पूर्वासां ब्राह्मणं आह । ' स्वाहाधिमाधीताय स्वाहा । मनः प्रजापतये स्वाहा चित्तं विज्ञातायेति चतुर्थी द्रष्टव्या तदत्र ' ( श ० १३ | १।८।३ ) | ' आधिमाधीताय मनचित्तम् ' इत्येता द्वितीया हे पूर्वोत्तरेष्टौ हूयमाना रूपकृद्रूपैरेवैन-' त्वष्ट्रे स्वाहा । त्वष्ट्र ' तुरीपाय स्वाहा त्वष्ट्र पुरुरूपाय स्वाहेति त्वष्टा वै पशूनां मिथुनाना । आध्यात्मिकं तावद्रूपकृद् * मुद्यच्छति ' ( श ० १३ | १ | ८ | ७ ) । त्वष्टा वै । आत्मिकं वाश्वात्मकः । पशूनां मिथुनानाम्
पृष्ठ 95
पाठ पढ़ें पाठ छिपाएँ
६२ शुक्ल यजुर्वेदसंहिता [ अ ० २२ रूपाणि नानाविधानि करोतीति । ' विष्णवे स्वाहा । विष्णवे निभूयपाय स्वाहा विष्णवे शिपिविष्टाय स्वाहेति यज्ञो वै विष्णुर्यज्ञेनैवैनमुद्यच्छति ' ( श ० १३२१ टाट ) । अध्यात्मपक्षे - तत्तद्रूपापन्नाय ब्रह्मणे तत्तद्रूपापन्नायै राजराजेश्वयँ भगवत्यै तत्तद्विशेषणविशिष्टाय विष्णवे त्वष्ट्रे तथाभूताय विष्णवे याज्ञिकाहुतिप्रदानेन स्वात्मसमर्पणेन सर्वाधिष्ठानभूतस्य ब्रह्मण एवार्चनं भवतीति । अक्षरार्थस्तु पूर्ववदेव । दयानन्दस्तु - ' यैर्मनुष्यैः काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहा आधीताय स्वाहा प्रजापतये पावकायै मनः स्वाहा विज्ञाताय चित्तमदित्यै स्वाहा मह्या अदित्यै स्वाहा सुमृडीकायँ अदित्यै स्वाहा सरस्वत्यै कृतास्ते सरस्वत्यै स्वाहा बृहत्यै सरस्वत्यै स्वाहा पूष्णे स्वाहा प्रपथ्याय स्वाहा शिपिविष्टाय विष्णवे स्वाहा कथं न सुखिनः स्युः ' इति, तदपि यत्किञ्चित् स्वाहाशब्दस्य सत्यक्रियार्थत्वे मानाभावात्, अभ्युपगमेऽपि तदनि-, रूपणात्, कमित्यस्य सुखार्थत्वेऽपि सुखसाधनार्थत्वे मूलाभावात् । कतमस्मै बहूनां मध्ये वर्तमानायेत्यप्यशुद्धम् तादृशार्थताया निर्मूलत्वात् | आधीतेत्यस्य विद्यावृद्ध्यर्थतापि चिन्त्यैव । यो नितरां रक्षितो भूत्वाऽन्यान् पाति सनिभूय इत्यपि निर्मूलम् भूयशब्दस्य तादृशार्थेऽशक्तेः, मनश्र्चित्तमित्यनयोः पदयोरन्वयानुपपत्तेश्च ॥ २० ॥
विश्वा॑ दे॒वस्य॑ ने॒तुर्मतो॑ वुरोत सख्यम् । विश्वों राय ईषद्धयति द्युम्नं वृणोत पुष्यसे॒ स्वाहा॑ ॥ २१ ॥
मन्त्रार्थ - सभी मनुष्य कर्मफल को प्रदान करने वाले सविता देव की मित्रता चाहते हैं । सभी कोई धन की, यश अथवा अन की प्राप्ति के लिये और अपनी सन्तति की पुष्टि के लिये सविता देव से प्रार्थना करते हैं ॥ २१ ॥
' डानिकानि चतु: स्थाने, दशमं विश्वो देवस्येति ' ( का ० श्र ० २० ४।९ - १० ) । सूत्रद्वयेन सप्तम्यां दीक्षणीयायां कियानपि विशेषः प्रतिपाद्यते । प्रत्यहं यानि चत्वायोग्रभणान्याध्वरिकाणि हूयन्ते तेषां चतुर्णां स्थाने डाग्निकानि ' आकृतिर्माग्न प्रयुज स्वाहा ' ( वा ० सं ० १ ९ ६६ ) इति हुत्वा, आश्वमेधिकानि त्रीणि विष्णवे स्वाहेत्यादीनि हुत्वा, विश्वो देवस्येति दशममौद्ग्रभणं जुहोतीति सूत्रार्थः । सवितृदेवत्यानुष्टुप् स्वस्त्या-दृष्टा । विश्वो मर्तः सर्वोऽपि मनुष्यो नेतुः कर्म फलप्रापकस्य देवस्य सवितुः सख्यं सखिभावं वुरीत वृणुते प्रार्थयते । ‘ वृञ् वरणे ' अस्माद् लिङि तङ प्रथमपुरुषैकवचने व्यत्ययेन शपो लुकि ' उदोष्ठ्यपूर्वस्य ' । ( इषुध्यति पा ० सू ० ७ | १ | १०२ ) इति ऋत उदादेशः । किञ्च विश्वो जनो राये धनाय इषुध्यति सवितारं प्रार्थयते याच्याकर्मसु पठित: ( निघ ० ३ | १ ९ | १४ ) । द्युम्नं यशोऽन्नं वा वृणीत प्रार्थयते । किमर्थम्? पुष्यसे पोषाय स्वप्रजापालनाय । ‘ तुमर्थे सेसेन ' ( पा ० सू ० ३ ४ १ ९ ) इति रूपसिद्धिः । इयमृग् विशेषतश्चतुर्थेऽध्यायेऽष्टम्यां afusarai व्याख्याता ॥ २१ ॥
आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मा राष्ट्रे रा॑ज॒न्यः शूर॑ इष॒व्य॒ोऽतिव्या॒धी म॑हार॒थो जयतां दोन्ध्रीं धे॒नुर्वोढोऽन॒ड्वाना॒शुः सप्ति॒ पुर॑न्ध॒र्योषा॑ जि॒ष्णू र॑ये॒ष्ठाः स॒भेयो युवाऽस्य यज॑मान॒स्य वी॒रो जा॑यतां निकामे निकामे नः पर्जन्यों वर्षत फलंबत्यो न ओष॑धयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥ २२ ॥
पृष्ठ 96
पाठ पढ़ें पाठ छिपाएँ
म ० २२ 1 वेदार्थपारिजात भाष्यसहिता ६३ मन्त्रार्थ - कृष्णाजिन की दीक्षा से लेकर उखा में १३ समिधाओं के रखने तक अध्वर्यु पढ़े - हे ब्रह्मन्, हमारे देश में यज्ञ करने वाले और वेदाध्ययनशील ब्राह्मण सब ओर उत्पन्न हों, शूरवीर बाणविद्या में चतुर, शत्रु को भी प्रकार बेधने वाले, महारथी क्षत्रिय उत्पन्न हों, इस यजमान की गायें खूब दूध दें, बेल बोझा उठाने में समर्थ हों, घोड़ा शीघ्रगामी हो, स्त्री सर्वगुणसम्पन्न हो, रथ में बैठने वाला जयशील हो, पराक्रमी युवा सभा के योग्य पुत्र हो, हमारे यहाँ इच्छानुसार वृष्टि हो, औषधियाँ फलवती हों और शीघ्र पक जाँय । हमें अप्राप्त वस्तु की प्राप्ति और प्राप्त वस्तु को रक्षा प्राप्त हो ॥ २२ ॥
' कृष्णाजिनाद्यासमिदाधानात्कृत्वाऽऽब्रह्मन्निति जपति ' ( का ० श्री ० २० | ४ | ११ ) । ' उत्सर्गकाल एके ' ( का ० श्र ० २०।४।१२ ) कृष्णाजिनदीक्षात आरभ्य उखायां त्रयोदशसमिदाधानान्तं कर्म कृत्वाऽध्वर्युराब्रह्मन्निति जयेत् । ' उत्सर्गैरुपतिष्ठते ' ( श ० ७७५ २ २८ ) इत्यु सर्गमन्त्रैरुपहितानां पशुशिरसामुपस्थानं श्रुतम् । तदानीं जपः, अथवा अश्वोत्सर्गकाल एव विभूर्मात्रेति जपानन्तरमेव जपं केचिदिच्छन्तीति सूत्रद्वयार्थः । लिङ्गोक्तदेवता । उत्कृतिश्छन्दः । हे ब्रह्मन् राष्ट्रे अश्वमेधयाजिनो देशे ब्राह्मणो ब्राह्मणत्वजातिविशिष्टो ब्रह्मवर्चसी यज्ञाध्ययन-शीलः, आजायताम् उत्पद्यताम्, जन्मनैव वर्णव्यवस्थोपपत्तेः, वेदाध्ययनाङ्गभूत उपनयने जन्मना ब्राह्मणक्षत्रिय-विशामधिकारात् । राजन्यः क्षत्रियश्च शूरः शूरयत इति शूरः पराक्रमी, इषव्य इषुभिविध्यतीति इषव्यः, यद्वा starfarai कुशल इषव्यः, ' उगवादिभ्यो यत् ' ( पा ० सू ० ५।१।२ ) इति यति साधुः, अतिव्याधी अत्यन्तं विध्यतीत्यतिव्याधी महारथः य एकः सहस्रं जयति सः । ' एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते ॥ ' इति स्मरणात् । तादृशो राजन्योऽस्मिन् राष्ट्रे आजायतामिति सम्बन्धः । chit दुग्धप्रपूरयित्री धेनू राष्ट्र आजायतामिति सर्वत्र सम्बन्धः । अनड्वान् नवो वृषभो वोढा वहनशीलः । सप्तिः अश्वः आशुः शीघ्रगामी जायताम् । योषा स्त्री पुरन्धिः पुरं शरीरं सर्वगुणसम्पन्नं दधातीति । रथेष्ठा रथे तिष्ठतीति क्विप् सप्तम्या अलुक् । जिष्णुः रथे स्थितो युयुत्सुर्नरो जयनशीलो जिष्णुर्जायताम् । अस्य यजमानस्य युवा समर्थः सभेयः सभायां साधुः योग्यो वीरो पुत्र आजायताम् । ' ढश्छन्दसि ' ( पा ० सू ० ४ | ४ | १०६ ) इति सभाशब्दात् तत्र साधुरित्यर्थे ढप्रत्ययः । किञ्च, नो राष्ट्र पर्जन्यो मेघो निकामे निकामे कामनायां सत्यां नितरां वर्षतु, सार्थोऽभ्यासः यदा यदा प्रार्थना स्यात्तदा तदावश्यं वर्षतु । फलवत्योऽतिशयेन फलयुक्ताः, अतिशायने मतुप, यवाद्या ओषधयो नो राष्ट्र पच्यन्तां स्वयमेव पक्वा भवन्तु । नोऽस्माकं योगेनाप्राप्तप्राप्तिरूपेण युक्तः क्षेम: प्राप्तरक्षणरूपः कल्पतां क्लृप्तो भवतु । अत्र ब्राह्मणम् -- ' आ ब्रह्मन् । ब्राह्मणो ब्रह्मवर्चसी जायतामिति ब्राह्मण एव ब्रह्मवर्चसं दधाति तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चसी जज्ञे ' ( श ० १३ ११ ९ | १ ) । आ समिदाधानात् कृत्वा ब्रह्मन्निति ( आसमिदाधानादुखायां त्रयोदशसमिदाधानान्तं कर्म कृत्वा ) अध्वर्युर्जपति, आशीरूपत्वात् क्रियान्तरे चाविनियोगात् । एवमाशासानोऽ-ध्वर्युर्ब्राह्मणे ब्रह्मवर्चसं दधाति । ' आ ' राष्ट्र ' राजन्यः | शूर इषव्योऽतिव्याधी महारथो जायतामिति राजन्य एव शौर्यं महिमानं दधाति तस्मात्पुरा राजन्यः शूर इषव्योऽतिव्याधी महारथो जज्ञे ' ( श ० १४ | १ | २ | २ ) । तस्माच्च पुरा यदा राजानोऽश्वमेधैरीजिरे तदा ब्रह्मवर्चसी जज्ञे उत्पन्नः । राजन्यश्च महारथो जज्ञे । ' दोग्ध्री धेनुरिति । धेन्वामेव पयो दधाति तस्मात् पुरा धेनुर्दोग्ध्री जज्ञे ' ( श ० १३ | १ | ९ / ३ ), ' धेन्वामेव पयो दधाति । वोढानड्वा-निति । अनडुह्येव बलं दधाति तस्मात् पुरानड्वात् वोढा जज्ञे ' ( श ० १३ | १ | ९ | ४ ) । ' आशुः सप्तिरिति । अश्व एव जवं दधाति तस्मात् पुराऽश्वः सर्ता जज्ञे ' ( श ० १३ ११ ९ १५ ) । ' पुरन्धिर्योषेति । योषित्येव रूपं दधाति तस्माद्रूपिणी युवतिः प्रिया भावुका ' ( श ० १३ | १ | ९ | ६ ) | ( जिष्णू रथेष्ठा इति । राजन्य एव जैत्रं महिमानं दधाति तस्मात्पुरा राजन्यो जिष्णुर्जज्ञे ' ( श ० १३ | १ | ९ | ७ ) । ' सभेयो युवेति । एष वै सभेयो युवा यः प्रथमवयसी
पृष्ठ 97
पाठ पढ़ें पाठ छिपाएँ
६४ शुक्लयजुर्वेदसंहिता [ अ ० २२ स्त्रीणां प्रियो भावुक: ' ( श ० १३ | १ | ९ | ८ ) । ' आस्य यजमानस्य वीरो जायतामिति । यजमानस्यैव प्रजायां वीर्यं दधाति तस्मात् पुरेजानस्य वीरो जज्ञे ' ( श ० १३ ११ ९ १ ९ ) । अतिव्याधी अतिक्रम्य अन्येषां लक्ष्यं विध्यतीति । दोग्ध्री साधु दुग्धा । प्रथमवयसी प्रथमं वयो यस्य सः । तस्मात् पुरा ईजानस्य अश्वमेधेन इष्टवतो वीरो जायते स्म । अध्यात्मपक्षे- अध्यात्मनिष्ठा व्यष्टिहितापेक्षया समष्टिहितं कामयन्ते । यथा- ' सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ॥ ' ' स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश्च भद्रं भजतादधोक्षज आवेश्यतां नो मतिरप्यहैतुकी ॥ ' ( भा ० म ० ) तथैवात्र समष्टिशुभाशंसा । हे ब्रह्मन् परमात्मन्, आसमन्तादस्मिन् रा ब्राह्मणो ब्रह्मवर्चसी जायताम्, वेदाध्ययनाध्यापनतदर्थानुष्ठानजनितं तेजो ब्रह्मवर्चसम्, तदस्यास्तीति ब्रह्मवर्चसी । तेन शुभवातावरणसंस्कृते राष्ट्रे स्वधर्मानुष्ठानवेदान्तश्रवणादिसौविध्यं सम्पद्यते । तथैव राष्ट्र राजन्यः शूर इषव्यो भवेत् । पूर्ववदेव व्याख्यानम् । सुभिक्षे सुराष्ट्र चतुर्थाश्रमधर्मपालनश्रवणादिसौष्ठवं सम्भाव्यते । दयानन्दस्तु -- ' हे ब्रह्मन्, यथा नो राष्ट्र ब्रह्मवर्चसी ब्राह्मण आजायताम्, इषव्योऽतिव्याधी महारथः शूरो राजन्य आजायताम्, दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा रथेष्ठ | जिष्णुः सभेयो युवा जायताम् । अस्य यजमानस्य राष्ट्र वीरो जायताम्, नो निकामे निकामे पर्जन्यो वर्षतु, ओषधयः फलवत्यो नः पच्यन्ताम्, नो योगक्षेमः कल्पताम् ' इति, तदपि यत्किञ्चित्, अनुपपत्तेः । तथाहि - कर्मणा वर्णव्यवस्थाभ्युपगमे पौनरुक्त्यापत्तिः । यो वेदविद्यादिप्रकाशयुक्तः स एव कर्मणा ब्राह्मणो भवति, ब्रह्मवर्चस्यपि स एव भवतीत्युद्देश्यविधेयभावानुपपत्तिः । तथैव राजन्यो जिष्णुः शूरो जायतामित्यत्रापि सैवापत्तिः । पुरून् व्यवहारान् दधातीति पुरन्धिरित्यप्यसङ्गतम्, बहुव्यवहारधारकत्वस्यान्यत्रापि सत्त्वेन व्यभिचारात् ॥ २२ ॥
प्राणाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ वाचे स्वाहा॒ मन॑से॒ स्वाहा॑ ॥ २३ ॥
मन्त्रार्थ - हम प्राण के निमित्त आहुति देते हैं, अपान के निमित्त, व्यान के निमित्त, चक्षु की ज्योति बढ़ाने के निमित्त, श्रवण शक्ति को बढ़ाने के निमित्त, वाक् शक्ति को बढ़ाने के निमित्त और मनोबल को बढ़ाने के निमित्त आहुति देते हैं ॥ २३ ॥
' आज्य - सक्तु- धाना - लाजानामेकैकं जुहोति प्राणाय स्वाहेति प्रतिमन्त्र १ ९ सर्वरात्रमावर्तम् ' ( का ० श्रौ ० २०।४।३२ ) । आज्यादीनां प्रतिप्रहरमेकैकं द्रव्यं क्रमेण सर्वस्यां रात्रौ उत्तरवेदिस्थाग्नौ जुहोति प्राणाय स्वाहेत्यादि -द्वादशकण्डिकात्मकैरनुवाकैः । कथङ्कारम्? आवर्तम्, प्राणाय स्वाहेत्यादिकमेकशताय स्वाहेत्यन्तं मन्त्रगणमावर्त्य आवर्त्य | सर्व रात्रमिति द्वितीयाग्रहणात् ' कालाध्वनोरत्यन्तसंयोगे ' ( पा ० सू ० २।३।५ ) इति सूत्रार्थानुसारं होम क्रियाया रात्रेः कार्त्स्न्येन संयोगः । ततः प्रथमयामे घृतेन यागः, द्वितीये सक्तुभिः तृतीये धानाभिः, चतुर्थे लाजैः । एकस्मै स्वाहेति द्वादशेऽनुवाके एकस्मै स्वाहा, द्वाभ्या स्वाहेत्यादौ त्रिभ्यः स्वाहा, चतुर्भ्यः स्वाहा, पञ्चभ्यः स्वाहा, षड्भ्यः स्वाहा, सप्तभ्यः स्वाहा, अष्टाभ्यः स्वाहा, नवभ्यः स्वाहेत्येवमादयो मन्त्रा अपठिता अप्येकेको च्चयेन शतपर्यन्ताः प्रयोज्याः, ' एकोत्तरा जुहोति ' ( श ० १३ | २ | ११५ ), ' नैकशतमत्येति ' ( श ० १३ | २ | ११६ ) इत्यादिश्रुतिभ्यः । व्युष्टायां समाप्तायां रात्रौ व्युष्ट्यै स्वाहेति घृताहुतिमेकाम्, उदिते च सूर्ये स्वर्गाय स्वाहेत्ये कामाहुति जुहोतीति सूत्रार्थः । इह त्रिभ्यः स्वाहेत्यारभ्य नवनवतिभ्यः स्वाहेत्यन्तः स्वाध्याय
पृष्ठ 98
पाठ पढ़ें पाठ छिपाएँ
म ० २३-२४ ] वेदार्थपारिजात भाष्यसहिता ६५ उपसंहृतस्वाध्यायो लुप्तस्वाध्यायो वा उच्यते । स च जपपारायणहवनादिकर्मस्वनुसन्धेयः । लिङ्गोक्तदेवत्यानि यजूंषि । प्राणादय इन्द्रियदेवाः एवम् अपानाय स्वाहेत्यादिकम् । चक्षुः श्रोत्रमनांस्यपि देवता एव, तेभ्यः स्वाहा सुहुतमस्तु । अत्र ब्राह्मणम् – ' प्रजापतिर्देवेभ्यो यज्ञान् व्यादिशत् । स आत्मन्नश्वमेधमधत्त ते देवाः प्रजापतिमब्रुवन्नेष वै यज्ञो यदश्वमेधोऽपि नोऽत्रास्तु भाग इति तेभ्य एतानन्नहोमान कल्पयद्यदन्न होमान् जुहोति देवानेव तत्प्रीणाति ' ( श ० १३ | २ | १ | १ ) | ' आज्येन जुहोति । तेजो वा आज्यं तेजसैवास्मिस्तत्तेजो दधात्याज्येन जुहोत्येतद्वै देवानां प्रियं धाम यदाज्यं प्रियेणैवैनान् धाम्ना समर्धयति ' ( श ० १३ २ ११२ ) । '... लाजैर्जुहोति । नक्षत्राणां वा एतद्रूपं यल्लाजा नक्षत्राण्येव तत्प्रीणाति प्राणाय स्वाहापानाय स्वाहेति नामग्राहं जुहोति नामग्राहमेवैनांस्तत्प्रीणात्येकस्मै स्वाहा द्वाभ्या , स्वाहा शताय स्वाहैकशताय स्वाहेत्यनुपूर्वं जुहोत्यनुपूर्वमेवैनांस्तत्प्रीणात्येकोत्तरा जुहोत्येक वृद्वै स्वर्गो लोक एकधैवैन ँ, स्वर्गं लोकं गमयति पराचीर्जुहोति पराङिव वै स्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै ' ( श ० १३ | २ | १ | ५ ) । ' ईश्वरो वा एष । पराङ् प्रदघोर्यः पराची राहुतीर्जुहोति नैकशतमत्येति यदेकशतमतीयादायुषा यजमानं व्यर्धयेदेकशतं जुहोति शतायुर्वै पुरुष आत्मैकशत आयुष्येवात्मन् प्रतितिष्ठति व्युष्टयै स्वाहा स्वर्गाय स्वाहेत्युत्तमे आहुती जुहोति रात्रिर्वै व्युष्टिरहः स्वर्गोऽहोरात्रे एव तत्प्रीणाति ' ( श ० १३ २ | १ | ६ ) | ( तदाहुः दुभे दिवा वा नक्तं वा जुहुयादहोरात्रे मोहयेद् व्युष्ट्यै स्वाहेत्यनुदित आदित्ये जुहोति स्वर्गाय स्वाहेत्युदितेऽहो-रात्रयोरव्यतिमोहाय ' ( श ० १३ | २ | १ | ७ ) । अन्नहोमब्राह्मणमेतत् । देवानां सक्तवो रूपम्, सन्ततत्वात् । नक्षत्राणां लाजारूपम्, समर्थत्वात् । प्राणादीनां नाम, गृहीतत्वात् नामग्राहम् । एकैक उत्तरद्रष्टव्यो देवो यास्वाहुतिषु ता एकोत्तरा आहुतीर्जुहोतीति विधिः । पूर्वपूर्वमनुत्तरस्मै इत्येतस्मिन्नर्थेऽनुपूर्वमित्यव्ययीभावः । एषोऽपि विधिरभावः । ततश्च त्रिभ्यः स्वाहा, चतुर्भ्यः स्वाहा, पचभ्यः स्वाहा ' इत्यादि तावज्जुहुयाद् यावच्छ-ताय स्वाहैकशताय स्वाहेति । पराचीः वृत्ताः । सर्वां रात्रि जुहोति । द्विशताय चतुःशताय स्वाहेत्यादिका इति यः कल्पः । ' ईश्वरो वा एवं पराङ्प्रदघोर्यः पराचीराहुतीर्जुहोति नैकशतमतिक्रामति ' इति स्थितिकल्प इत्याचार्यहरिस्वामी । तदेवार्थवादेन स्पष्टयति - यदेकशतमतीयादायुषा यजमानं व्यर्द्धयेदित्यादिना । अन्यत् स्पष्टम् । अध्यात्मपक्षे -- प्राणाय स्वाहा । बहिर्वृत्तिः प्राणः । व्यष्टिप्राणभिन्नाय समष्टिप्राणायेत्यर्थः । अपानाय स्वाहा । अन्तर्वृत्तिरपानः । व्यानाय सर्वशरीरगाय स्वाहा I । समष्टिसूत्रात्मान्तर्गताः सर्वे प्राणाः । चक्षुषे तदभिन्नाय सूर्याय । श्रोत्राय श्रोत्राभिन्नाय दिग्देवतात्मने । वाचे सरस्वत्यै । मनसे हिरण्यगर्भाय स्वाहा । समष्टिप्राणादिषु व्यष्टिप्राणादीनामन्तर्भाव चिन्तनमेवात्र स्वाहाकारार्थः । ---दयानन्दस्तु - ' यैर्मनुष्यैः प्राणायामा मनसे स्वाहा च प्रयुज्यन्ते, ते विद्वांसो जायन्ते ' इति, तदपि निरर्थक-मेव, स्वाहाशब्दस्य तादृशार्थत्वे मानाभावात् ॥ २३ ॥
प्राच्य दिशे स्वाहार्वाच्य दिशे स्वाहा दक्षिणाये दिशे स्वाहार्वाच्ये॑ दि॒शे स्वाहा॑ प्र॒तीच्यै दि॒शे स्वाहार्वाच्ये॑ दि॒शे स्वाहा॑ोदी॑च्यै दि॒शे स्वाहार्वाच्यै दि॒शे स्वाहोर्ध्वायै दशे स्वाहार्वाच्य द्विशे स्वाहार्वाच्ये दिशे स्वाहार्वाच्यै दिशे स्वाहा॑ ॥ २४ ॥
९
पृष्ठ 99
पाठ पढ़ें पाठ छिपाएँ
६६ शुक्लयजुर्वेद संहिता [ अ ० २२ मन्त्रार्थ - हम पूर्व दिशा के निमित्त आहुति देते हैं, आग्नेय दिशा के निमित्त, दक्षिण दिशा के निमित्त, नैर्ऋत्य दिशा के निमित्त, पश्चिम दिशा के निमित्त, वायव्य दिशा के निमित्त उत्तर दिशा के निमित्त, ईशानकोण के निमित्त, rea fear के निमित्त और अधो दिशा के निमित्त सबसे नीचे की दिशा के निमित्त, पृथ्वी गोलक में स्थित प्रत्येक गोल के नीचे स्थित दिशा के निमित आहुति देते हैं । इससे उन दिशाओं के देवता और प्राणी तृप्त हों ॥ २४ ॥
प्राच्यादयो दिग्देवताः । ताभ्यः स्वाहा सुहुतमिदमस्त्विति ।
अध्यात्मपक्षे - परमात्मन एव प्राच्यादिदिग्रूपेणापि समर्हणीयत्वम् ॥ २४ ॥
अ॒द्भ्यः स्वाहा॑ वा॒र्भ्यः स्वाहा॑द॒काय॒ स्वाहा॒ तिष्ठ॑न्तीभ्यः॒ स्वाहा॒ सव॑न्तीभ्यः॒ स्वाहा स्यन्द॑मानाभ्यः॒ स्वाहा॒ कूप्या॑भ्यः॒ · स्वाहा॒ सूद्या॑भ्यः॒ स्वाहा॒ धार्या॑भ्यः॒ स्वाहा॑र्ण॒वाय॒ स्वाहा॑ समुद्राय॒ स्वाहा॑ सरिराय स्वाहा॑ ॥ २५ ॥
मन्त्रार्थ -- हम जल देवता के निमित्त हवि अर्पित करते हैं । वारि जलों को आहुति देते हैं । सूर्य की किरणों के ऊपर जाने वाले जल देवताओं के निमित्त, बहते हुए जल के निमित्त, टपकते हुए जल के निमित्त, क्रूर के जल के निमित्त, वर्षा के जल के निमित्त धारण योग्य जल के निमित, नदियों में स्थित जल के निमित, समुद्र के जल के निमित्त और सबके उपकारक श्रेष्ठ जल के निमित्त आहुति देते हैं । इसका अभिप्राय यह है कि सभी प्रकार के जल के अधिष्ठात्री देवता प्रसन्न होकर हमारे इस यज्ञ के अनुकूल रहें ॥ २५ ॥
अत्र कण्डिकायां जलदेवता उक्ताः । तिष्ठन्तीभ्यः स्थिराभ्यः । स्रवन्तीभ्यः प्रवहमानाभ्यः । स्यन्दमानाभ्यः स्रोतोरूपेण प्रादुर्भवन्तीभ्यः । कृप्याभ्यः कृपसमुद्भवाभ्यः । सूद्याभ्यः शोभनोद्गमाभ्यः धार्याभ्यो मणिकादिषु स्थापिताभ्यः । अर्णवाय अर्णांसि विद्यन्ते यत्र तस्मै । ' अर्णसो लोपश्र्च ' ( पा ० सू ० ५ २ १० ९, वा ० २ ) इति वप्रत्यये प्रकृतेः सकारस्य च लोपे रूपम् । समुद्राय समुनत्तीति समुद्रः, ' स्फायितञ्चि ' ( उ ० २।१३ ) इत्यादिना रक्, अथवा समीचीना उद्रा जलचरविशेषा यस्मिन् तस्मै, आहोस्वित् समुद्रवन्ति आपो यत्रासौ समुद्रः, तस्मै । सरिराय सलिलाय स्वाहा । अध्यात्मपक्षे - विविधजलरूपेण प्रादुर्भूतस्य परमात्मनः समर्हणम् । दयानन्दस्तु - ' यैर्मनुष्यैर्यज्ञेषु सुगन्ध्यादिद्रव्यं हवनाय अद्भयः स्वाहा वार्भ्यः स्वाहा सरिराय स्वाहा विधीयते, ते सर्वेषां सुखप्रदा जायन्ते ' इति, तदपि निर्मूलम्, स्वाहापदार्थस्य स्वाभ्यहितत्वात्, अध्याहारस्य निर्मूलत्वाच्च ॥ २५ ॥
वाता॑य॒ स्वाहा॑ घूमाय॒ स्वाहा॒भ्राय॒ स्वाहा॑ मे॒धाय॒ स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ स्व॒नय॑ते॒ स्वाहा॑य॒स्फूर्जते॒ स्वाहा वर्षॆते॒ स्वाहा॑ व॒ वर्ध॑ते॒ स्वाहा॑हो॒ग्रं वषि॑ते॒ स्वाहा॑ श॒घ्रं वषि॑ते॒ स्वाहा॑द्गृह्णते स्वाहा॑हो॒द्गृ॑हीताय॒ स्वाहा॑ पृ॒ष्ण॒ते स्वाहा॑ शीकायते स्वाहा पृ॒ष्या॑भ्यः॒ स्वाहा॑ ह्रादुनी॑भ्यः॒ स्वाहा॑ नीहाराय॒ स्वाहा॑ ॥ २६ ॥
पृष्ठ 100
पाठ पढ़ें पाठ छिपाएँ
मं ० २६-२७ ] वेदार्थ पारिजातभाष्यसहिता ६७ मन्त्रार्थ - हम वायु देवता के निमित्त आहुति देते हैं । मेघ के कारण भूत धूम के लिये भली प्रकार हवन करते हैं । अभ्र के निमित, मेघ के निमित्त, चमकती हुई बिजली के निमित्त, गर्जन करते हुए मेघ के निमित्त, वज्रनिर्घोष के निमित्त, वर्षा करते हुए बादलों के निमित्त, थोड़ी वर्षा करने वाले बादलों के लिये, उग्र वर्षा करने वाले बादलों के लिये, शीघ्र वर्षा करने वाले बादलों के लिये, जल को ऊंचा ले जाने वाले बादलों के लिये, जल को ऊपर ग्रहण करने वाले बादलों के लिये बहुत जल गिराने वाले बादलों के लिये, ठहर - ठहर कर वर्षा करने वाले बादलों के लिये, घोर वर्षा करने वाले बादलों के लिये, बार - बार गर्जन करने वाले बादलों के लिये, कुहरे के समान छा जाने वाले बादलों के लिये हम आहुति देते हैं । सब प्रकार के मेघों के अधिष्ठात्री देवता इन आहुतियों से प्रसन्न होकर हमारे इस यज्ञ के अनुकूल हों ॥ २६ ॥
अत्र मेघोपयोगिदेवताभ्यः स्वाहाकारः । वाताय स्वाहा, वातीति वातः, ' क्तिच्क्तौ च संज्ञायाम् ' ( पा ० सू ० ३ | ३ | १७४ ) इति क्तप्रत्यये साधु, तस्मै वर्षानुकूलाय पुरोवाताय । धूमाय धूनोति कम्पयतीति धूमः, ' इषियुधि ' ( उ ० १।१४५ ) इति मक्प्रत्ययेन सिद्धि:, तस्मै यज्ञधूमाय स्वाहा, ' यज्ञाद् भवति पर्जन्य: ' ( भ ० गी ० ३।१४ ) इति गीतोक्तेः । अभ्राय अपो बिभर्तीत्यभ्रम्, मूलविभुजादेराकृतिगणत्वात् कः, तस्मै मेघनिमित्ताय स्वाहा । अथवा न भ्रश्यन्त्यापो यस्मात्तदभ्रम्, न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यत: ' इति पुराण-वचनात्, ' अन्येष्वपि दृश्यते ' ( पा ० सू ० ३।२।१०१ ) इति प्रत्ययेन रूपसिद्धिः । मेघाय स्वाहा, मेहतीति मेघः, ' मिह सेचने ' पचाद्यच्, ' न्यङ्गवादीनां च ' ( पा ० सू ० ७ | ३ | ५३ ) इति कुत्वम् । विद्योतमानाय विशेषेण द्योतते योऽसौ विद्योतमानः, तस्मै स्वाहा । स्तनयते स्वाहा, स्तनयतीति स्तनयन् तस्मै, ' स्तन देवशब्दे ' अदन्तो धातुः । अवस्फूर्जते स्वाहा, अवस्फूर्जति यः सोऽवस्फूर्जन् तस्मै, ' टुओस्फूर्जा वज्रनिर्घोषे ' । वर्षते स्वाहा, वर्षतीति वर्षन् तस्मै, ' वृषु सेचने ' । अववर्षते स्वाहा, अव अवाचीनं वर्षतीति तस्मै । उग्रं वर्षते स्वाहा, उग्रं धारासम्पात-रूपेण वर्षतीति तस्मै । शीघ्रं वर्षते स्वाहा, सार्पे हि नक्षत्रे विना मेघदर्शनमपि वर्षा भवतीति लौकिकी प्रसिद्धिः । उद्गृह्णते स्वाहा, पतद्वस्तु इन्द्रगोपमत्स्यादिकमूर्ध्वमेव गृह्णातीति तस्मै, अथवा सौरैस्तिग्मरश्मिभिः सविता जलमुद्गृह्णाति, तत एव वृष्टिर्भवति । तथा चाह कविकुलगुरुः कालिदासः - ' सहस्र गुणमुत्स्रष्टुमादत्ते हि सं रवि: ' ( रघुवंशे १।१८ ) । उद्गृहीताय स्वाहा वायुना ऊर्ध्वमेव गृहीत्वा स्थापिताय । प्रुष्णते स्वाहा, प्रुष्णाति स्नेहयति यति पूरयति चेति प्रुष्णन् तस्मै । शीकायते स्वाहा, शीक्यत इति शीका, ' गुरोश्च हल: ' ( पा ० सू ० ३ | ३ | १०३ ) इति अः प्रत्यय:, ' अजाद्यतष्टाप् ' ( पा ० सू ० ४।१।४ ) इति टापि रूपम्, तामाचष्टे शीकायते, बाहुलकात् शता, ' शीकृ सेचने ' शीलकरणमाचष्टे शीकायत इति वा । प्रुष्वाभ्यः स्वाहा प्रुष्णन्तीति प्रुष्वाः, औणादिको वः, ताभ्यः । ह्रादुनीभ्यः स्वाहा, ह्रादन्त इति ह्रादुनयः स्त्रीत्वविवक्षायां ह्रादुन्यस्ताभ्यः, ' ह्राद अव्यक्ते शब्दे ' औणादिक उनिः, निर्ह्रादिकर्त्रीभ्यः । नीहाराय स्वाहा निह्रियत इति नीहारः, ' अकर्तरि च कारके संज्ञायाम् ' ( पा ० सू ० ३।३।१ ९ ) इति घञ्, ' उपसर्गस्य घञ्यमनुष्ये बहुलम् ' ( पा ० सू ० ६ ॥१२२ ) इत्युपसर्गस्य दी, तस्मै मिहिकायै ॥ २६ ॥
अ॒ग्नये॒ स्वाहा सोमा॑य॒ स्वाहेन्द्रा॑य॒ स्वाहा॑ पृथि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ दि॒ग्भ्यः स्वाहाशा॑भ्यः॒ स्वाहा॑ोव्य दिशे स्वाहार्वाच्य दि॒िशे स्वाहा॑ ॥ २७ ॥
मन्त्रार्थ - हम अग्नि के निमित हवि अर्पित करते हैं । सोम, इन्द्र, पृथिवी, अन्तरिक्ष और द्युलोक के अधिष्ठात्री देवताओं को आहुति देते हैं । दिशाओं के अधिष्ठात्री देवताओं को, विदिशाओं ( ईशानादि कोणों ) के अधिष्ठात्री देवताओं ht, feat की अधिष्ठात्री देवता को और नीचे की दिशा के देवताओं को हम आहुति देते हैं ॥ २७ ॥