काण्व भोजनविधिः
शुक्लयजुर्वेदीय काण्व नित्यविधि का अङ्ग। श्रीशुक्लयजुर्वेदकण्वशाखीयः नित्यविधिः( आचारमार्तण्ड : )श्रीमत्पूज्य मज्ञेश्वराध्वरिसुरिसूनवः श्रीचिदम्बर सोमयाजिनः( बडली ) इत्येतैः परिष्कृत्य सुसंस्कृतः । ॥ अन्नसमर्पणविधिः ॥ पात्राघो भागे मण्डलं कृत्वा तदुपारि भोजनपात्रं निघाय तत्र मध्ये ओदनं वामे भक्ष्यभोज्य दक्षिणे घृतपा यसं पुरतः शाकादीन् इति परिवेषणं कारयित्त्वा ॐ तत्स॑वि॒तुर्वरे॑ण्यं॒० इत्यन्नं प्रोक्ष्य नानापात्रस्थमन्नं तस्मै तस्मै सम्प्रददे इति सङ्कल्प्य प्रजापत इत्यस्य हिरण्यगर्भ […]