योगशिक्षोपनिषद्
योगशिक्षोपनिषद् [[लेखकः :|]] योगशिक्षोपनिषद् योगज्ञाने यत्पदाप्तिसाधनत्वेन विश्रुते । तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ॥ ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः । तेषां मुक्तिः कथं देव कृपया वद शङ्कर ॥ १॥ सर्वसिद्धिकरं मार्गं मायाजालनिकृन्तनम् । जन्ममृत्युजराव्याधिनाशनं सुखदं वद ॥ २॥ इति हिरण्यगर्भः […]